नारदमुनिकृता पुष्टिपतिस्तुतिः
॥ श्रीगणेशाय नमः ॥
देवर्षय ऊचुः ।
जय देव गणाधीश जय विघ्नहराव्यय ।
जय पुष्टिपते ढुण्ढे जय सर्वेश सत्तम ॥ १७॥
जयानन्त गुणाधार जय सिद्धिप्रद प्रभो ।
जय योगेन योगात्मन् जय शान्तिप्रदायक ॥ १८॥
जय ब्रह्मेश सर्वज्ञ जय सर्वप्रियङ्कर ।
जय स्वानन्दपस्थायिन् जय वेदविदांवर ॥ १९॥
जय वेदान्तवादज्ञ जय वेदान्तकारण ।
जय बुद्धिधर प्राज्ञ जय सर्वामरप्रिय ॥ २०॥
जय मायामये खेलिन् जयाव्यक्त गजानन ।
जय लम्बोदरः साक्षिन् जय दुर्मतिनाशन ॥ २१॥
जयैकदन्तहस्तस्त्वं जयैकरदधारक ।
जय योगिहृदिस्थ त्वं जय ब्राह्मणपूजित ॥ २२॥
जय कर्म तपोरूप जय ज्ञानप्रदायक ।
जयामेय महाभाग जय पूर्णमनोरथ ॥ २३॥
जयानन्द गणेशान जय पाशाङ्कुशप्रिय ।
जय पर्शुधर त्वं वै जय पावनकारक ॥ २४॥
जय भक्ताभयाध्यक्ष जय भक्तमहाप्रिय ।
जय भक्तेश विघ्नेश जय नाथ महोदर ॥ २५॥
नमो नमस्ते गणनायकाय नमो नमस्ते सकलात्मकाय ।
नमो नमस्ते भवमोचनाय नमो नमस्तेऽतिसुखप्रदाय ॥ २६॥
इति स्तुत्वा श्रीगणाधीशं प्रणेमुस्तं महामते ।
उत्थाय ननृतुः सर्वे हर्षयुक्ताः सुरर्षयः ॥ २७॥
तेषां महोत्सवं दृष्ट्वा तान् जगाद महाप्रभुः ।
प्रसन्नात्मा पुष्टिपतिर्भक्तान् भक्तप्रियङ्करः ॥ २८॥
(फलश्रुतिः)
पुष्टिपतिरुवाच ।
भवत्कृतमिदं स्तोत्रं यः पठिष्यति नित्यशः ।
श्रोष्यते सकलं तस्य जयरूपं भविष्यति ॥ २९॥
पठनाच्छ्रवणादस्य सर्वं जयति मानवः ।
अन्ते मदीयसायुज्यं प्राप्नोत्यत्र न संशयः ॥ ३०॥
एवमुक्त्वान्तर्दधेऽसौ पतिः पुष्टेर्गणेश्वरः ।
देवाश्च मुनयः सर्वे विस्मिता अभवंस्तदा ॥ ३१॥
इति नारदमुनिकृता पुष्टिपतिस्तुतिः सम्पूर्णा ॥
द्वादशस्तोत्रं
- ॥ मुद्गलपुराणं द्वितीयः खण्डः । अध्यायः ६५ । २.६५। १७-३१॥
- .. mudgalapurANaM dvitIyaH khaNDaH . adhyAyaH 65 . 2.65. 17-31..
Proofread by Yash Khasbage, Preeti Bhandare