सङ्कटहरचतुर्थीलघुपूजाक्रमः
ॐ गजास्याय नमः -आवाहयामि ।
ॐ विघ्नराजाय नमः -आसनं समर्पयामि ।
ॐ लम्बोदराय नमः -पाद्यं समर्पयामि ।
ॐ शङ्करसूनवे नमः - अर्घ्यं समर्पयामि ।
ॐ उमापुत्राय नमः -स्नानं समर्पयामि ।
ॐ वक्रतुण्डाय नमः -चर्चनं समर्पयामि ।
ॐ शूर्पकर्णाय नमः -वस्त्राणि समर्पयामि ।
ॐ कुब्जाय नमः -उपवीतं समर्पयामि ।
ॐ गणेश्वराय नमः -गन्धान्धारयामि ।
ॐ विघ्नविनाशिने नमः -पुष्पैः पूजयामि ।
ॐ विकटाय नमः -धूपं आघ्रापयामि ।
ॐ वामनाय नमः -दीपं दर्शयामि ।
ॐ सर्वदेवाय नमः - अमृतोपहारं निवेदयामि ।
ॐ सर्वार्तिनाशिने नमः -फलं समर्पयामि ।
ॐ विघ्नहर्त्रे नमः -ताम्बूलं समर्पयामि ।
ॐ धूम्राय नमः -प्रदक्षिणं समर्पयामि ।
ॐ देवेशाय नमः -नमस्करान् समर्पयामि ।
(चर्चनं गन्धतैलादिलेपः)
अर्घ्यं -तिथीनामुत्तमे देवि गणेशप्रियवल्लभे ।
गृहाण त्वं मया दत्तं चतुर्थ्यर्घ्यं नमोऽस्तुते ।
क्षीरसागरसम्भूत लक्ष्मीबन्धो निशाकर ।
गृहाणार्घ्यं मया दत्तं रोहिण्या सहितः शशिन् ॥
लम्बोदर नमस्तेऽस्तु सर्वकामफलप्रद ।
वाञ्छितं देहि मे त्वं च सर्वविघ्नविनाशकृत् ॥
इति सङ्कटहरचतुर्थीलघुपूजाक्रमः सम्पूर्णः ।
Proofread by Narendran Madathil