सङ्कटहरचतुर्थीपूजा
सङ्कल्पः -शुक्लाम्बर + मासे कृष्णचतुर्थ्यां शुभतिथौ श्रीमहागणपति प्रीत्यर्थं
सङ्कट (ष्ट)हरचतुर्थी पूजां यथाशक्ति करिष्ये । (कलशपूजादिकं सिद्धिविनायक
पूजावत् ।)
ध्यानं -एकदन्तं महाकायं तप्तकाञ्चनसन्निभम् ।
लम्बोदरं विशालाक्षं वन्देऽहं गणनायकम् ॥
आखुपृष्ठसमासीनं चामरैर्वीजितं गणैः ।
शेषयज्ञोपवीतं च चिन्तयामि गजाननम् ॥
आवाहनं -आगच्छ देव देवेश सङ्कटं मे निवारय ।
यावत्पूजा समाप्येत तावत्त्वं सन्निधौ भव ॥
आसनं -गणाधीश नमस्तेऽस्तु सर्वसिद्धिप्रदायक ।
आसनं गृह्यतां देव सङ्कटं मे निवारय ॥
पाद्यं - उमापुत्र नमस्तेऽस्तु नमस्ते मोदकप्रिय ।
पाद्यं गृहाण देवेश सङ्कटं मे निवारय ॥
अर्घ्यं -लम्बोदर नमस्तेऽस्तु रत्नयुक्तं फलान्वितम् ।
अर्घ्यं गृहाण देवेश सङ्कटं मे निवारय ॥
आचमनीयं -गङ्गादिसर्वतीर्थेभ्यः आहृतं जलमुत्तमम् ।
गृहाणाचमनीयार्थं सङ्कटं मे निवारय ॥
स्नानं -पयोदधियुतं चैव शर्करामधुसंयुतम् ।
पञ्चामृतं गृहाणेदं सङ्कटं मे निवारय ॥
कबेरजासिन्धुगङ्गाकृष्णागोदोद्भवैर्जलैः ।
स्नापितोऽसि मया भक्त्या सङ्कटं मे निवारय ॥
वस्त्रं -इभवक्त्र नमस्तुभ्यं गृहाण परमेश्वर ।
वस्त्रयुग्मं गणाध्यक्ष सङ्कटं मे निवारय ॥
उपवीतं -विनायक नमस्तुभ्यं नमः परशुधारिणे ।
उपवीतं गृहाणेदं सङ्कटं मे निवारय ॥
गन्धाः -ईशपुत्र नमस्तुभ्यं नमो मूषिकवाहन ।
चन्दनं गृह्यतां देव सङ्कटं मे निवारय ॥
अक्षताः -घृतकुङ्कुम संयुक्ताः तण्डुलाः सुमनोहराः ।
अक्षतास्ते नमस्तुभ्यं सङ्कटं मे निवारय ॥
पुष्पाणि -चम्पकं मल्लिकां दूर्वाः पुष्पजातीरनेकशः ।
गृहाण त्वं गणाध्यक्ष सङ्कटं मे निवारय ॥
ॐ ......... नमः ।
सुमुखाय ।
एकदन्ताय ।
कपिलाय ।
गजकर्णकाय ।
लम्बोदराय ।
विकटाय ।
विघ्नराजाय ।
विनायकाय ।
धूमकेतवे ।
गणाध्यक्षाय ।
फालचन्द्राय ।
गजाननाय ।
वक्रतुण्डाय ।
शूर्पकर्णाय ।
हेरम्बाय ।
स्कन्दपूर्वजाय ।
(दूर्वायुग्मैः अर्चनां कुर्यात्)
(ॐ ........ नमः)
गणाधिपाय
उमापुत्राय
अघनाशनाय
एकदन्ताय
इभवक्त्राय
मूषिकवाहनाय
विनायकाय
ईशपुत्राय
सर्वसिद्धिपदाय
लम्बोदराय
वक्रतुण्डाय
मोदकप्रियाय
विघ्नविध्वंसकर्त्रे
विश्ववन्द्याय
अमरेशाय
गजकर्णकाय
नागयज्ञोपवीतिने
फालचन्द्राय
परशुधारिणे
विघ्नाधिपाय
विद्याप्रदाय (२१)
धूपः -लम्बोदर महाकाय धूम्रकेतो सुवासितम् ।
धूपं गृहाण देवेश सङ्कटं मे निवारय ॥
दीपं -विघ्नान्धकारसंहारकारक त्रिदशाधिप ।
दीपं गृहाण देवेश सङ्कटं मे निवारय ॥
नैवेद्यं -मोदकापूपलड्डुकपायसं शर्करान्वितम् ।
पक्वान्नं सघृतं देव नैवेद्यं प्रतिगृह्यताम् ॥
फलानि -नारिकेलफलं द्राक्षा रसालं दाडिमं शुभम् ।
फलं गृहाण देवेश सङ्कटं मे निवारय ॥
ताम्बूलं -क्रमुकैलालवङ्गानि नागवल्लीदलानि च ।
ताम्बूलं गृह्यतां देव सङ्कटं मे निवारय ॥
नीराजनं -कर्पूरानलसंयुक्तं अशेषाघौघनाशनम् ।
नीराजनं गृहाणेश सङ्कटान्मां विमोचय ॥
पुष्पाञ्जलिः -चम्पकाशोकवकुल पारिजात भवैः सुमैः ।
पुष्पाञ्जलिं गृहाणेमं सङ्कटान्मां विमोचय ॥
स्तुतिः-त्वमेव विश्वं सृजसीभवक्त्र त्वमेव विश्वं परिपासि देव ।
त्वमेव विश्वं हरसेऽखिलेश त्वमेव विश्वात्मक आविभासि ॥ २६२
नमामि देवं गणनाथमीशं विघ्नेश्वरं विघ्नविनाशदक्षम् ।
भक्तार्तिहं भक्तविमोक्षदक्षं विद्याप्रदं वेदनिदानमाद्यम् ॥
ये त्वामसम्पूज्य गणेश नूनं वाञ्छन्ति मूढाः विहितार्थसिद्धिम् ।
त एव नष्टा नियतं हि लोके ज्ञातो मया ते सकलः प्रभावः ॥
औं नमो हेरम्ब मदमोदित मम सङ्कटं निवारय स्वाहा इति २१ वारं जप्त्वा
पुनः दूर्वया एकविंशतिनामभिः अर्चेत् ।
अर्घ्यं -तिथीनामुत्तमे देवि गणेशप्रियवल्लभे ।
सङ्कटं हर मे देवि गृहाणार्घ्यं नमोऽस्तु ते ॥
चतुर्थी तिथिदेवतायै इदमर्घ्यम् । (सप्तवारं)
लम्बोदर नमस्तुभ्यं सततं मोदकप्रिय ।
सङ्कटं हर मे देव गृहाणार्घ्यं नमोऽस्तु ते ॥
सङ्कटहर विघ्नेशाय नमः इदमर्घ्यम् । (सप्तवारं)
क्षीरोदार्णवसम्भूत अत्रिगोत्रसमुद्भव ।
गृहाणार्घ्यं मया दत्तं रोहिणीसहितः शशिन् ॥
चन्द्राय नमः इदमर्घ्यम् । (सप्तवारमर्घ्यं दद्यात् ।)
समर्पणं इदं सङ्कटहरचतुर्थीपूजात्मकं कर्म महागणपत्यर्पणमस्तु ॥
इति सङ्कटहरचतुर्थीपूजा सम्पूर्णा ।
Proofread by Narendran Madathil