शिवप्रोक्तं गणेशस्तोत्रम्

शिवप्रोक्तं गणेशस्तोत्रम्

तत्तेऽहं सम्प्रवक्ष्यामि स्तोत्रं तद्विघ्नमर्दनम् । कपर्दिनो महादेवि सावधानावधारय ॥ ४३॥ ॐ नमो विघ्नराजाय नमस्तेऽस्तु कपर्दिने । नमो महोग्रदंष्ट्राय प्रभासक्षेत्रवासिने ॥ ४४॥ कपर्दिनं नमस्कृत्य यात्रानिर्विघ्नहेतवे । स्तोष्येऽहं विघ्नराजानं सिद्धिबुद्धिप्रियं शुभम् ॥ ४५॥ महागणपतिं शूरमजितं जयवर्द्धनम् । एकदन्तं च द्विदन्तं चतुर्दन्तं चतुर्भुजम् ॥ ४६॥ त्र्यक्षं च शूलहस्तं च रक्तनेत्रं वरप्रदम् । अजेयं शङ्कुकर्णं च प्रचण्डं दण्डनायकम् । आयस्कदण्डिनं चैव हुतवक्त्रं हुतप्रियम् ॥ ४७॥ अनर्चितो विघ्नकरः सर्वकार्येषु यो नृणाम् । तं नमामि गणाध्यक्षं भीममुग्रमुमासुतम् ॥ ४८॥ मदवन्तं विरूपाक्षमिभवक्त्रसमप्रभम् । ध्रुवं च निश्चलं शान्तं तं नमामि विनायकम् ॥ ४९॥ त्वया पूर्वेण वपुषा देवानां कार्यसिद्धये । गजरूपं समास्थाय त्रासिताः सर्वदानवाः ॥ १.३८.५०॥ ऋषीणां देवतानां च नायकत्वं प्रकाशितम् ॥ ५१॥ इति स्तुतः सुरैरग्रे पूज्यसे त्वं भवात्मज । त्वामाराध्य गणाध्यक्षमिभवक्त्रसमप्रभम् ॥ ५२॥ ध्रुवं च निश्चलं शान्तं परीतं विजयश्रिया । कार्यार्थं रक्तकुसुमै रक्तचन्दनवारिभिः ॥ ५३॥ रक्ताम्बरधरो भूत्वा चतुर्थ्यामर्चयेत्तु यः । एककालं द्विकालं वा नियतो नियताशनः ॥ ५४॥ राजानं राजपुत्रं वा राजमन्त्रिणमेव च । राज्यं वा सर्वविघ्नेशो वशीकुर्यात्सराष्ट्रकम् ॥ ५५॥ यत्फलं सर्वतीर्थेषु सर्वयज्ञेषु यत्फलम् । स तत्फलमवाप्नोति स्मृत्वा देवं विनायकम् ॥ ५६॥ विषमं न भवेत्तस्य न स गच्छेत्पराभवम् । न च विघ्नं भवेत्तस्य जनो जातिस्मरो भवेत् ॥ ५७॥ य इदं पठति स्तोत्रं षड्भिर्मासैर्वरं लभेत् । संवत्सरेण सिद्धिं च लभते नात्र संशयः ॥ ५८॥ प्रसादाद्दर्शनं याति तस्य सोमेश्वरः प्रभुः । कपर्दाकारमुदरं यतोऽस्य समुदाहृतम् । ततोऽस्य नाम जानीहि कपर्द्दीति महात्मनः ॥ ५९॥ इति श्रीस्कन्दपुराणे प्रभासखण्डे प्रभासक्षेत्रमाहात्म्ये अष्टत्रिंशाध्यायान्तर्गतं शिवप्रोक्तं गणेशस्तोत्रं समाप्तम् । स्कन्दपुराण । प्रभासखण्ड । अध्याय ३८/४४-५१॥ skandapurANa . prabhAsakhaNDa . adhyAya 38/44-51.. Proofread by PSA Easwaran
% Text title            : Shivaproktam Ganesha Stotram
% File name             : shivaproktaMgaNeshastotram.itx
% itxtitle              : gaNeshastotram (shivaproktaM skandapurANAntargatam)
% engtitle              : shivaproktaM gaNeshastotram
% Category              : ganesha, skandapurANa, stotra
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : skandapurANa | prabhAsakhaNDa | adhyAya 38/44-51||
% Indexextra            : (Scans 1, 2, 3, 4, 5, 6, 7, 8, English)
% Latest update         : April 5, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org