सिद्धिविनायकषोडशोपचारपूजास्तुतिः २
हृत्पद्मकर्णिकामध्यात्सिद्ध्या देव्या गजानन ।
आगच्छ त्वं महादेव सर्वैरावरणैः सह ॥
देवेश भक्तसुलभ परिवारसमन्वित ।
यावत्त्वां पूजयिष्यामि तावदेव इहावह ॥
आगच्छ भगवन्देव स्थाने चात्र स्थितो भव ।
यावत्पूजां करिष्यामि तावत्त्वं सन्निधौ भव ॥ (आवाहनं)
तवेयं महिमा मूर्तिः तस्यां त्वं सर्वगः प्रभो ।
भक्तिस्नेहसमाकृष्ट दीपवत्स्थापयाम्यहम् ॥ (स्थापनं)
अनन्या तव देवेश मूर्तिशक्तिरियं प्रभो ।
सान्निध्यं कुरु तस्यां त्वं भक्तानुग्रहतत्पर । (सन्निधापनं)
आज्ञा तव देवेश कृपाम्भोधे गुणाम्बुधे ।
आत्मानन्दैकतृप्तं त्वां निरुणध्मि पितर्गुरो ॥ (सन्निरोधनं)
अज्ञानाद्दुर्मनस्त्वाद्वा वैकल्यात्साधनस्य च ।
यदपूर्णं भवेत्कृत्यं तदप्यभिमुखो भव ॥ (अभिमुखीकरणम्)
अभक्तवाङ्ग्मनश्चक्षुः श्रोत्रदूरातिगद्युते ।
स्वतेजः पिञ्जरेणाशु वेष्टितो भव सर्वतः ॥ (अवकुण्ठनं)
यस्य दर्शनमिच्छन्ति देवाः स्वाभीष्टसिद्धये ।
तस्मै ते परमेशाय स्वागतं स्वागतं च ते । (स्वागतम्)
देवं देव महाराजप्रियेश्वर प्रजापते ।
आसनं दिव्यमीशान दास्येऽहं परमेश्वर ॥ (आसनम्)
अपराधो भवत्येव सेवकस्य पदे पदे ।
कोऽपरः सहतां लोके केवलं स्वामिनं विना ॥
स्वागतं देवदेवेश मद्भाग्यात्त्वमिहागतः ।
प्राकृतं मां च दृष्ट्वा त्वं बालवत्परिपालय ॥ (प्रार्थना)
यद्भक्तिलेशसम्पर्कात् परमानन्द सम्भवः ।
तस्मै ते चरणाब्जाय पाद्यं शुद्धाय कल्पये ॥ (पाद्यम्)
तापत्रयहरं दिव्यं परमानन्दलक्षणम् ।
तापत्रयविनिर्मुक्त तवार्घ्यं कल्पयाम्यहम् ॥ (अर्घ्यं)
वेदानामपि देवाय वेदानां फलितात्मने । -
आचमं कल्पयामीश शुद्धानां शुद्धिहेतवे । (आचमनं)
कांस्ये कांस्येन पिहितो दधिमध्वाज्यसंयुतः ।
मधुपर्को मयानीतः पूजार्थं प्रतिगृह्यताम् ॥ (मधुपर्कः)
गङ्गासरस्वतीरेवाकावेरीनर्मदाजलैः ।
स्नापितोऽसि मया देव तथा शान्तिं कुरुष्व मे ॥ (स्नानम्)
तरुपुष्पसमुद्भूतं सुस्वादु मधुरं मधु ।
तेजः पुष्टिकरं दिव्यं स्नानार्थं प्रतिगृह्यताम् ॥ (मधुस्नानं)
कामधेनु समुत्पन्नं सर्वसन्तोषकारकम् ।
पयस्तुभ्यं प्रयच्छामि स्नानार्थं प्रतिगृह्यताम् ॥ (क्षीरस्नानं)
पयसस्तु समुद्भूतं मधुराम्लं शशिप्रभम् ।
दध्यानीतं मया देव स्नानार्थं प्रतिगृह्यताम् ॥ (दधिस्नानं)
नवनीतसमुत्पन्नं सर्वसन्तोषकारकम् ।
घृतं तुभ्यं प्रदास्यामि स्नानार्थं प्रतिगृह्यताम् ॥ (घृतस्नानं)
इक्षुसारसमुद्भूता शर्करा पुष्टिकारिका ।
मलापहारिका दिव्या स्नानार्थं प्रतिगृह्यताम् । (शर्करास्नानं)
पयो दधि घृतं चैव शर्करामधुसंयुतम् ।
पञ्चामृतं मयाऽऽनीतं स्नानार्थं प्रतिगृह्यताम् ॥ (पञ्चामृतम्)
मन्दाकिन्यास्तु यद्वारि सर्वपापहरं शुभम् ।
तदिदं कल्पितं देव स्नानार्थं प्रतिगृह्यताम् ॥ (शुद्धोदकस्नानं)
सर्वभूषाधिके सौम्ये लोकलज्जानिवारणे ।
मयोपपादिते तुभ्यं वाससी प्रतिगृह्यताम् ॥ (वस्त्रं)
अलङ्कारान्महादिव्यान् नानारत्नविनिर्मितान् ।
गृहाण देव देवेश प्रसीद परमेश्वर ॥ (आभरणानि)
नवभिस्तन्तुभिर्युक्तं त्रिगुणं देवतामयम् ।
उपवीतं चोत्तरीयं गृहाण परमेश्वर । (उपवीतम्)
श्रीखण्डं चन्दनं दिव्यं गन्धाढ्यं सुमनोहरम् ।
विलेपनं सुरश्रेष्ठ चन्दनं प्रतिगृह्यताम् ॥ (गन्धान्)
अक्षताश्च सुरश्रेष्ठ कुङ्कुमाक्ताः सुशोभिताः ।
मया निवेदिता भक्त्या गृहाण परमेश्वर ॥ (अक्षतान्)
माल्यादीनि सुगन्धीनि मालत्यादीनि वै प्रभो ।
मयाऽऽनीतानि पुष्पाणि गृहाण परमेश्वर । (पुष्पाणि)
वनस्पतिरसोद्भूतो गन्धाढ्यो गन्ध उत्तमः ।
आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥ (धूपम्)
सुप्रकाशो महादीपः सर्वतस्तिमिरापहः ।
सबाह्याभ्यन्तरं ज्योतिः दीपोऽयं प्रतिगृह्यताम् । (दीपम्)
सत्पात्रसिद्धं सुहविः विविधानेक भक्षणम् ।
निवेदयामि देवेश सानुगाय गृहाण तत् ॥
ब्रह्मेशाद्यैः सरसमभितः सूपविष्टैः समन्तात्
सिञ्चद्वालव्यजननिकरैर्वीज्यमानः सखीभिः ।
नर्मक्रीडा प्रहसनपरान् पङ्क्तिभोक्तॄन् हसन्वै
भुङ्क्ते पात्रे कनकघटिते षड्रसान् श्रीगणेशः ॥
शालीभक्तं सुपक्वं शिशिरकरसितं पायसापूपसूपं
लेह्यं पेयं च चोष्यं सितममृतफलं द्वारिकाद्यं सुखाद्यम् ॥
आज्यं प्राज्यं सुभोज्यं नयनरुचिकरं राजिकैलामरीच
स्वादीयः शाकराजी परिकरममृताहारजोषं जुषस्व ॥ (अन्तः पटं निवेदनम्)
नमस्ते देवदेवेश सर्वतृप्तिकरं परम् ।
अखण्डानन्दसम्पूर्ण गृहाण जलमुत्तमम् ॥ (पानीयम्)
पूगीफलं महद्दिव्यं नागवल्लीदलैर्युतम् ।
एला चूर्णादिभिर्युक्तं ताम्बूलं प्रतिगृह्यताम् ॥ (ताम्बूलम्)
इदं फलं मया देव स्थापितं पुरतस्तव ।
तेन मे सत्फलावाप्तिः भवेज्जन्मनि जन्मनि ॥ (फलम्)
कदलीगर्भसम्भूतं कर्पूरं च प्रदीपितम् ।
आरार्तिकमहं कुर्वे पश्य मे वरदो भव ॥ (कर्पूरनीराजनम्)
यानि कानि च पापानि जन्मान्तरकृतानि वै ।
तानि तानि विनश्यन्ति प्रदक्षिणपदे पदे । (प्रदक्षिणम्)
नाना सुगन्धि पुष्पाणि यथाकालोद्भवानि च ।
पुष्पाञ्जलिं मया दत्तं गृहाण परमेश्वर ॥ (पुष्पाञ्जलिः)
ज्ञानतोऽज्ञानतो वापि यन्मया क्रियतेऽनिशम् ।
मम कृत्यमिदं सर्वं इति देव क्षमस्व मे ॥
अपराधसहस्राणि क्रियन्तेऽहर्निशं मया ।
दासोऽहमिति मां मत्वा क्षमस्व परमेश्वर ॥
अपराधो भवत्येव सेवकस्य पदे पदे ।
कोऽपरः सहतां लोके केवलं स्वामिनं विना ॥
भूमौ स्खलितपादानां भूमिरेवावलम्बनम् ।
त्वयि जातापराधानां त्वमेव शरणं प्रभो ।
आवाहनं न जानामि न जानामि विसर्जनम् ।
पूजाविधिं न जानामि त्वं गतिः परमेश्वर ।
कर्मणा मनसा वाचा त्वत्तो नान्या गतिर्मम ।
अन्तश्चरसि भूतानां इष्टस्त्वं परमेश्वर ॥
अन्यथा शरणं नास्ति त्वमेव शरणं मम ।
तस्मात्कारुण्य भावेन रक्ष रक्ष गणेश्वर ॥
शतयोनिसहस्राणां सहस्रेषु व्रजाम्यहम् ।
तेषु चेष्टाचला भक्तिः अच्युतास्तु सदा त्वयि ॥
गतं पापं गतं दुःखं गतं दारिद्यमेव च ।
आगता सुखसम्पत्तिः पुण्याच्च तव दर्शनात् ॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वर ।
यत्पूजितं मया देव परिपूर्णं तदस्तु मे ॥
यदक्षरपदभ्रष्टं मात्राहीनं च यद्भवेत् ।
तत्सर्वं क्षम्यतां देव प्रसीद परमेश्वर ॥
तव पादाम्बुजे नित्यं निश्चला भक्तिरस्तु मे ।
प्रपन्नं पाहि मामीश भीतं मृत्युग्रहार्णवात् ॥
साधु वाऽसाधु कर्म यद्यदाचरितं मया ।
तत्सर्वं कृपया देव गृहाणाराधनं तव ॥ (प्रार्थना)
गच्छ गच्छ परं स्थानं स्वस्थानं परमेश्वर ।
यं हि ब्रह्मादयो देवा न विदुः परमं पदम् ॥
हृत्पद्मकर्णिकामध्यं सिद्ध्या देव्या गजानन ।
प्रविश त्वं महादेव सर्वैरावरणैः सह । (हृदयस्थापनम्)
इति सिद्धिविनायकषोडशोपचारपूजास्तुतिः (२) सम्पूर्णा ।
Proofread by Narendran Madathil