सिद्धिविनायकपूजा

सिद्धिविनायकपूजा

(भाद्रपदशुक्लचतुर्थी पूजा) शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये ॥ ममोपात्तसमस्त दुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं शुभे शोभने मुहूर्ते......... प्रभवादिषष्टि संवत्सराणां मध्ये ...... संवत्सरे ...... ऋतौ भाद्रपदमासे (श्रावणमासे)शुक्लपक्षे चतुर्थ्यां ......... नक्षत्रयुक्तायां ...... वासरयुक्तायां शुभतिथौ श्रीसिद्धि विनायक प्रीत्यर्थं श्रीसिद्धिविनायकप्रसादेन अस्माकं सकुटुम्बानां क्षेमस्थैर्यवीर्यविजयायुरारोग्यैश्वर्याणां अभिवृद्ध्यर्थं निर्विघ्नेन सर्वकार्यसिद्ध्यर्थं श्रीसिद्धि विनायक पूजाङ्करिष्ये । (अप उपस्पृश्य) आसनपूजा । पृथिव्या मेरुपृष्ठ ऋषिः । सुतलं छन्दः । कूर्मो देवता । पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता । त्वं च धारय मां देवि पवित्रं चासनं कुरु । पूर्वद्वारे द्वारश्रियै नमः । मूषकवाहनाय नमः । वक्रतुण्डाय नमः । दक्षिणद्वारे द्वारश्रियै नमः । एकदन्ताय नमः । महोदराय नमः । पश्चिमद्वारे द्वारश्रियै नमः । गजाननाय नमः । लम्बोदराय नमः । उत्तरद्वारे द्वारश्रियै नमः । विघ्नराजाय नमः । धूम्रवर्णाय नमः । सकलतत्वात्मशक्तियुक्ताय अनन्ताय योगपीठासनाय नमः । भगवतः पीठशक्तिभ्यो नमः । कलश पूजा । (कलशं गन्ध-पुष्पाक्षतैरभ्यर्च्य)। गङ्गे च यमुने चैव गोदावरि सरस्वति । नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु ॥ (इति प्रार्थ्य कलशजलेन पूजाद्रव्याणि आत्मानं च प्रोक्ष्य) घण्टा पूजा । जयध्वनि मन्त्रमातः स्वाहा । आगमार्थं तु देवानां गमनार्थं तु रक्षसाम् । घण्टारवं करोम्यादौ देवताह्वानकारणम्। (घण्टानादं कुर्यात्) प्राणप्रतिष्ठा । (प्रतिमासु देवतां ध्यात्वा प्राणप्रतिष्ठां कुर्यात् ।) अस्य श्री प्राणप्रतिष्ठा-महामन्त्रस्य ब्रह्म-विष्णु-महेश्वर ऋषयः । ऋग्यजुस्सामाथर्वाणि छन्दांसि । सकलजगत्सृष्टिस्थिति संहारकारिणी प्राणशक्तिः परा देवता । आं बीजम् । ह्रीं शक्तिः । क्रों कीलकम् । प्राणप्रतिष्टार्थे जपे विनियोगः । आं अङ्गुष्ठाभ्यां नमः । ह्रीं तर्जनीभ्यां नमः । क्रों मध्यमाभ्यां नमः । आं अनामिकाभ्यां नमः । ह्रीं कनिष्ठिकाभ्यां नमः । क्रों करतलकरपृष्ठाभ्यां नमः ॥ आं हृदयाय नमः । ह्रीं शिरसे स्वाहा । क्रों शिखायै वषट् । आं कवचाय हुँ । ह्रीं नेत्रत्रयाय वौषट् । क्रों अस्त्राय फट् ॥ भूर्भुवस्सुवरों (दिग्बन्धः)। ध्यानम् ॥। रक्ताम्भोधिस्य पोतोल्लसदरुणसरोजाधिरूढा कराब्जैः पाशं कोदण्डमिक्षूद्भवमळिगुणमप्यङ्कुशं पञ्चबाणान् । विभ्राणाऽसृक्कपालं त्रिनयनलसिता पीनवक्षोरुहाढ्या देव बालार्कवर्णा भवतु सुखकरी प्राणशक्तिः परा नः ॥ लं -पृथिव्यात्मिकायै गन्धं समर्पयामि । हं आकाशात्मिकायै पुष्पाणि समर्पयामि । यं -वाय्वात्मिकायै धूपमाघ्रापयामि । रं -अग्न्यात्मिकायै दीपं दर्शयामि । वं -अमृतात्मिकायै अमृतं महानैवेद्यं निवेदयामि । सं -सर्वात्मिकायै सर्वोपचारपूजां समर्पयामि ॥ ॐ आं ह्रीं क्रों क्रों ह्रीं आम् । हंसः सोऽहं सोऽहं हंसः । यर लव शष स होम् । श्रीसिद्धिविनायकस्य प्राण इह प्राणः जीव इह स्थितः । सर्वेन्द्रियाणि वाङ्मनस्त्वक्चक्षुः श्रोत्रजिह्वाघ्राण प्राणापानव्यानोदानसमानाः इहागत्य सुखं चिरं तिष्ठन्तु स्वाहा । सान्निध्यं कुर्वन्तु स्वाहा ॥ आं ह्रीं क्रों (इति ४० वारं जप्त्वा मधुघृते प्राणशक्त्यै निवेद्य)प्राणशक्त्यै नमः आज्यमधूपहारं निवेदयामि । भगवन् सिद्धिविनायक । आवाहितो भव । स्थापितो भव । सन्निहितो भव । सन्निरुद्धो भव । अवकुण्ठितो भव । सुप्रीतो भव । सुप्रसन्नो भव । सुमुखो भव । वरदो भव । प्रसीद प्रसीद । देव सर्व जगन्नाथ यावत् पूजावसानकम् । तावत्त्वं प्रीतिभावेन बिम्बेऽस्मिन् सन्निधिं कुरु ॥ एकदन्तं शूर्पकर्णं गजवक्त्रं चतुर्भुजम् । पाशाङ्कुशधरं देवं ध्यायामि श्रीविनायकम् ॥ सिद्धिविनायकं ध्यायामि । आगच्छ त्वं जगन्नाथ सुरासुरनमस्कृत । अनाथनाथ सर्वज्ञ विघ्नराज कृपां कुरु ॥ सिद्धिविनायकं आवाहयामि । विचित्ररत्नखचितं दिव्याभरणसंयुतम् । स्वर्णसिंहासनं चारु गृहाण सुरपूजित ॥ सिद्धिविनायकाय नमः आसनं समर्पयामि सर्वतीर्थसमुद्भूतं पाद्यं गन्धादिसंयुतम् । विघ्नराज गृहाणेदं भगवन् भक्तवत्सल ॥ सिद्धिविनायकाय नमः पाद्यं सर्मपयामि अर्घ्यं च फलसंयुक्तं गन्धपुष्पाक्षतैर्युतम् । गणाध्यक्ष नमस्तेऽस्तु गृहाण करुणानिधे ॥ सिद्धिविनायकाय नमः अर्घ्यं सर्मपयामि विनायक नमस्तुभ्यं त्रिदशैरभिवन्दित । गङ्गोदकेन शुद्धेन शीघ्रमाचमनं कुरु ॥ सिद्धिविनायकाय नमः आचमनीयं सर्मपयामि दध्याज्यमधुसंयुक्तं मधुपर्कं मयाऽऽहृतम् । गृहाण सर्वलोकेश गजवक्त्र नमोऽस्तु ते ॥ सिद्धिविनायकाय नमः मधुपर्कं सर्मपयामि गङ्गा गोदावरी तुङ्गा यमुनां च सरस्वती । तासां तोयमुमापुत्र स्नानार्थं प्रतिगृह्यताम् ॥ सिद्धिविनायकाय नमः स्नपयामि । स्नानानन्तरं आचमनीयं सर्मपयामि रक्तवस्त्रमिदं देव दिव्यकाश्चन सन्निभम् । सर्वप्रद गृहाणेश लम्बोदर हरात्मज ॥ सिद्धिविनायकाय नमः वस्त्रं सर्मपयामि राजतं ब्रह्मसूत्रं च काञ्चनश्चोत्तरीयकम् । गृहाण चारु सर्वज्ञ भक्तानां वरदो भव ॥ सिद्धिविनायकाय नमः यज्ञोपवीतं समर्पयामि नानाविधानि दिव्यानि नानारत्नोज्ज्वलानि च ॥ भूषणानि गृहाणेश पार्वतीप्रियनन्दन ॥ सिद्धिविनायकाय नमः आभरणानि सर्मपयामि कस्तूरी चन्दनं चैव केसरेण समन्वितम् । विलेपनं सुरश्रेष्ठ चन्दनं प्रतिगृह्यताम् ॥ सिद्धिविनायकाय नमः गन्धान् धारयामि रक्ताक्षतांश्च देवेश गृहाण द्विरदानन । ललाटफलके चन्द्रः तस्योपर्यवधार्यताम् ॥ सिद्धिविनायकाय नमः अक्षतान् सर्मपयामि माल्यानि च सुगन्धीनि मल्लिकादीनि वै प्रभो । मयाहृतानि पुष्पाणि प्रतिगृह्णीष्व शाङ्कर ॥ करवीरैः जातिसुमैः चम्पकैर्वकुळैश्शुभैः । शतपत्रैश्च कल्हारैः अर्चामि गणनायकम् ॥ सिद्धिविनायकाय नमः पुष्पाणि सर्मपयामि ॐ सुमुखाय नमः । एकदन्ताय नमः । कपिलाय नमः । गजकर्णकाय नमः । लम्बोदराय नमः । विकटाय नमः । विघ्नराजाय नमः । गणाधिपाय नमः । धूमकेतवे नमः । गणाध्यक्षाय नमः । फालचन्द्राय नमः । गजाननाय नमः । वक्रतुण्डाय नमः । शूर्पकर्णाय नमः । हेरम्बाय नमः । स्कन्दपूर्वजाय नमः । सिद्धिविनायकाय नमः । अङ्गपूजा -ॐ ......॥ नमः ............। पूजयामि । गणेश्वराय -पादौ । विघ्नराजाय -जानुनी । आखुवाहनाय -ऊरू । हेरम्बाय - कटिम् । कामारिसूनवे -नाभिम् । लम्बोदराय -उदरम् । गौरीसुताय -स्तनौ । गणनाथाय -हृदयम् । स्थूलकण्ठाय -कण्ठम् । स्कन्दाग्रजाय -स्कन्धौ । पाशहस्ताय -हस्तान् । गजवक्त्राय -वक्त्रम् । विघ्नहर्त्रे -ललाटम् । सर्वेश्वराय -शिरः । गणाधिपाय -सर्वाण्यङ्गानि । (अङ्ग पूजा द्वितीया)ॐ ...। नमः ...... पूजयामि) १। श्रीगणेशाय -पादौ९। मञ्जुलकण्ठाय -कण्ठं २। अघनाशिने -जानू १०। स्कन्दाग्रजाय -स्कन्धान् ३। सुबाहवे -ऊरू११। पाशहस्ताय -हस्तान् ४। विघ्नहर्त्रे -कटिं१२। गजवक्त्राय -मुखं ५। लम्बोदराय -उदरं१३। विकटनेत्राय -नेत्राणि ६। गणेश्वराय -हृदयं१४। गजकर्णाय -कर्णौ ७। कपिलाय - स्तनौ१५। सर्वसिद्धिप्रदाय-शिरः ८। पार्थिवाय -भुजान्१६। सर्वेश्वराय -सर्वाण्यङ्गानि (अङ्गपूजा तृतीया)(ॐ नमः ......॥ पूजयामि ।) पार्वतीनन्दनाय -पादौ गणेशाय -गुल्फे जगद्धात्रे -जङ्घे जगद्वल्लाभाय -जानुनी उमापुत्राय -ऊरू विकटाय -कटिं गुहाग्रजाय -नाभिं महत्तमाय -उदरं विनायकाय -वक्षः पाशच्छिदे -पार्श्वे हेरम्बाय -हृदयं मदोत्कटाय -कण्ठं स्कन्दाग्रजाय -स्कन्धान् हरसुताय -हस्तान् ब्रह्मचारिणे -बाहूनू सुमुखाय -मुखं एकदन्ताय -दन्तान् विघ्ननेत्रे -नेत्राणि शूर्पकर्णाय -कर्णौ फालचन्द्राय -फालं नागाभरणाय -नासां चिरन्तनाय -चिबुकं स्थूलोष्ठाय -ओष्ठौ गलन्मदाय -गण्ड कपिलाय -कचान् शिवप्रियाय -शिरः सर्वमङ्गलासुताय - सर्वाण्यङ्गानि पत्रपूजा । ॐसुमुखाय नमः मालती पत्रं समर्पयामि । गणाधिपाय नमः भृङ्गराज पत्रं समर्पयामि । उमापुत्राय नमः बिल्व पत्रं समर्पयामि । गजाननाय नमः श्वेतदूर्वा पत्रं समर्पयामि । लम्बोदराय नमः बदरी पत्रं समर्पयामि । हरसूनवे नमः धत्तूर पत्रं समर्पयामि । गजकर्णकाय नमः तुलसी पत्रं समर्पयामि । वक्रतुण्डाय नमः शमी पत्रं समर्पयामि । गुहाग्रजाय नमः अपामार्ग पत्रं समर्पयामि । एकदन्ताय नमः बृहती पत्रं समर्पयामि । विकटाय नमः करवीर पत्रं समर्पयामि । कपिलाय नमः अर्क पत्रं समर्पयामि । गजदन्ताय नमः अर्जुन पत्रं समर्पयामि । विघ्नराजाय नमः विष्णुक्रान्तपत्रं समर्पयामि । वटवे नमः दाडिमी पत्रं समर्पयामि । सुराग्रजाय नमः देवदारु पत्रं समर्पयामि । फालचन्द्राय नमः मरुवक पत्रं समर्पयामि । हेरम्बाय नमः अश्वत्थ पत्रं समर्पयामि । चतुर्भुजाय नमः जाती पत्रं समर्पयामि । विनायकाय नमः केतकी पत्रं समर्पयामि । सर्वेश्वराय नमः अगस्त्य पत्रं समर्पयामि । (पत्रपूजा द्वितीया) १। उमापुत्राय -माचीपत्रं २। हेरम्बाय -बृहतीपत्रं ३। लम्बोदराय -बिल्वपत्रं ४। द्विरदाननाय -दूर्वापत्रं ५। धूमकेतवे -धत्तूरपत्रं ६। बृहते -बदरीपत्रं ७। अपवर्गदाय -अपामार्गपत्रं ८। द्वैमातुराय -तुलसीपत्रं ९। चिरन्तनाय -चूतपत्रं १०। कपिलाय -करवीरपत्रं ११। विष्णुस्तुताय -विष्णुक्रान्तपत्रं १२। अमलाय -आमलकीपत्रं १३। महते -मरुवकपत्रं १४। सिन्धुराय -सिन्धुरपत्रं १५। गजाननाय -जातीपत्रं १६। गण्डगळन्मदाय -गण्डलीपत्रं १७। शङ्करप्रियाय -शमीपत्रं १८। भृङ्गराजत्कटाय -भृङ्गराजपत्रं १९। अर्जुनदन्ताय -अर्जुनपत्रं २०। अर्कप्रभाय -अर्कपत्रं २१। एकदन्ताय -दाडिमीपत्रम् ॥ पुष्प पूजा । ॐ पञ्चास्य गणपतये नमः पुन्नागपुष्पं समर्पयामि । महागणपतये नमः मन्दारपुष्पं समर्पयामि । धीरगणपतये नमः दाडिमी पुष्पं समर्पयामि । विष्वक्सेनगणपतये नमः वकुल पुष्पं समर्पयामि । आमोदगणपतये नमः अमृणाळ पुष्पं समर्पयामि । प्रमथगणपतये नमः पाटली पुष्पं समर्पयामि । रुद्रगणपतये नमः द्रोणपुष्पं समर्पयामि । विद्यागणपतये नमः धत्तूर पुष्पं समर्पयामि । विघ्नगणपतये नमः चम्पकपुष्पं समर्पयामि । दुरितगणपतये नमः रसाल पुष्पं समर्पयामि । कामितार्थप्रदगणपतये नमः केतकी पुष्पं समर्पयामि । सम्मोहगणपतये नमः माधवी पुष्पं समर्पयामि । विष्णुगणपतये नमः शम्याक पुष्पं समर्पयामि । ईशगणपतये नमः अर्क पुष्पं समर्पयामि । गजास्यगणपतये नमः कल्हार पुष्पं समर्पयामि । सर्वसिद्धिगणपतये नमः सेवन्तिकापुष्पं समर्पयामि । वीरगणपतये नमः बिल्व पुष्पं समर्पयामि । कन्दर्पगणपतये नमः करवीर पुष्पं समर्पयामि । उच्छिष्टगणपतये नमः कुन्द पुष्पं समर्पयामि ॥ ब्रह्मगणपतये नमः पारिजात पुष्पं समर्पयामि । ज्ञानगणपतये नमः जाती पुष्पं समर्पयामि । (पुष्पपूजा -द्वितीया) गणाधिपाय -केतकीपुष्पं इभक्त्राय -चम्पकपुष्पं लम्बोदराय -पूगपुष्पं वटवे -गोविन्दपुष्पं सिद्धिविनायकाय -जातीपुष्पं नागयज्ञोपवीतिने -करवीरपुष्पं गजकर्णकाय -धत्तूरुपुष्पं भक्तप्रियाय -शतपुष्पं पार्वतीप्रियाय -पारिजातपुष्पं विघ्नराजाय -वकुलपुष्पं कुमारगुरवे -विष्णुक्रान्तिपुष्पं अघनाशनाय -मल्लिकापुष्पं सर्वशक्तिकाय -गिरिकर्णिकापुष्पं फालचन्द्राय -पद्मपुष्पं रुद्रप्रियाय-रक्तोत्पलपुष्पं विनायकाय -इन्दीवरपुष्पं मूषिकवाहनाय -तुलसीपुष्पं अव्यक्ताय -नन्द्यावर्तपुष्पं नागाधिपतये -नागचम्पकपुष्पं विघ्ननायकाय -दाडिमपुष्पं वक्रतुण्डाय -कल्हारपुष्पं सिद्धिविनायकाय नमः, सर्वाणि पुष्पाणि समर्पयामि । दूर्वायुग्म पूजा- गणाध्यक्ष महादेव शिवपुत्राभयप्रद । दूर्वायुग्मं गृहाणेश गणाधिप नमोऽस्तु ते ॥ गणाधिपाय नमः - दूर्वायुग्मं समर्पयामि । पतिर्गणानां सर्वेषामम्बिकागर्भसम्भव । दूर्वायुग्मं गृहाणेश उमापुत्र नमोऽस्तु ते ॥ उमापुत्राय नमः - दूर्वायुग्मं समर्पयामि भक्तानां स्मरणादेव सर्वाघक्षयकृद्विभुः । दूर्वायुग्मं गृहाणेश अघनाश नमोऽस्तु ते ॥ अघनाशनाय नमः - दूर्वायुग्मं समर्पयामि । नृपाणां युद्धसमये भजतामभयप्रद । दूर्वायुग्मं गृहाणेश विनायक नमोऽस्तु ते ॥ विनायकाय नमः - दूर्वायुग्मं समर्पयामि । जनितो देवतार्थाय तारासुरवधे प्रभुः । दूर्वायुग्मं गृहाणेश ईशपुत्र नमोऽस्तु ते ॥ ईशपुत्राय नमः - दूर्वायुग्मं समर्पयामि । स्कन्दाग्रजात भूतेश लम्बोदर गजानन । दूर्वायुग्मं गृहाणेश सर्वसिद्धिप्रदायक ॥ सर्वसिद्धिप्रदायकाय नमः - दूर्वायुग्मं समर्पयामि । राक्षसानां विनाशाय दन्तायुधधराभव । दूर्वायुग्मं गृहाणेश एकदन्त नमोऽस्तु ते ॥ एकदन्ताय नमः - दूर्वायुग्मं समर्पयामि । उमामहेशयोर्दृष्ट्या जातोऽसौ गजवक्त्रकः । दुर्वायुग्मं गृहाणेश इभवक्त्र नमोऽस्तु ते ॥ इभक्त्राय नमः - दुर्वायुग्मं समर्पयामि । मूषिकोत्तममारुह्य जिता दैत्या महाहवे । दूर्वायुग्मं गृहाणेश नमो मूषिकवाहन ॥ मूषिकवाहनाय नमः - दुर्वायुग्मं समर्पयामि । अग्निभूर्बाहुलेयस्य गुरुमुख्यो भवान्प्रभो । दूर्वायुग्मं गृहाणेश कुमारगुरवे नमः ॥ कुमारगुरवे नमः - दुर्वायुग्मं समर्पयामि । गणाधिप नमस्तेऽस्तु उमापुत्राघनाशन । विनायकेशपुत्राव सर्वसिद्धिप्रदायक ॥ एकदन्तेभवक्त्राव सदा मूषकवाहन । नमः कुमारगुरवे दूर्वायुग्मं गृहाण भोः ॥ दूर्वायुग्मपूजा (द्वितीया) प्रतिनाम ॐ -नमः दूर्वायुग्मं समर्पयामि इति योजयेत् । गणाधिपाय पाशाङ्कुशधराय आखुवाहनाय विनायकाय ईशपुत्राय सर्वसिद्धिप्रदाय एकदन्ताय इभवक्त्राय मूषिकवाहनाय कुमारगुरवे कपिलवर्णाय ब्रह्मचारिणे मोदकहस्ताय सुरश्रेष्ठाय गजनासिकाय कपित्थफलप्रियाय गजमुखाय सुप्रसन्नाय सुराग्रजाय उमापुत्राय स्कन्दप्रियाय गणपति द्वादशनामावलिः ॐ + नमः विघ्नराजाय वक्रतुण्डाय धूम्रवर्णाय एकदंष्ट्राय फालचन्द्राय कृष्णपिङ्गलाय विनायकाय गजकर्णकाय गणपतये लम्बोदराय हस्तिमुखाय विकटाय श्रीगणेशाष्टोत्तरशतनामावलिः ॐ + नमः गणेश्वराय विघ्नराजाय गौरीपुत्राय विनायकाय स्कन्दाग्रजाय अव्ययाय पूताय दक्षाय अध्यक्षाय द्विजप्रियाय १० अग्निगर्वच्छिदे इन्द्रश्रीप्रियाय वाणीबलाय सर्वसिद्धिप्रदाय शर्वतनयाय शर्वरीपतये सर्वात्मकाय सृष्टिकर्त्रे देवानीकार्चिताय शिवाय २० सिद्धाय बुद्धिप्रियाय शान्ताय ब्रह्मचारिणे गजाननाय द्वैमातुराय मुनिस्तुत्याय भक्तविघ्नविनाशकाय एकदन्ताय चतुर्बाहवे ३० चतुराय शक्तिसंयुताय लम्बोदराय शूर्पकर्णाय हेरम्बाय ब्रह्मवित्तमाय कालाय गृहपतये कामिने सोमसूर्याग्निलोचनाय ४० पाशाङ्कुशधराय चण्डाय गुणातीताय निरञ्जनाय अकल्मषाय स्वयंसिद्धाय सिद्धार्चितपदाम्बुजाय बीजापूरकराय अव्यक्ताय वरदाय ५० शाश्वताय कृतिने विद्वत्प्रियाय वीतरागाय गदिने चक्रिणे इक्षुचापवते अब्जोत्पलकराय अव्यक्ताय श्रीदाय ६० श्रीपतिस्तुतिहर्षिताय कुलाद्रिभेत्रे जटिलाय अमरेश्वराय चन्द्रचूडाय नागोपवीतिने श्रीकण्ठाय अर्चिताय रामार्चिताय व्रतिने ७० स्थूलकण्ठाय मायाकर्त्रे सामघोषप्रियाय पराय स्थूलतुण्डाय अग्रण्यै धीराय ग्रामण्यै गणपाय स्थिराय ८० वृद्धिदाय सुभगाय शूराय वागीशाय सिद्धिदायकाय दूर्वाबिल्वप्रियाय शान्ताय पापहारिणे समाहिताय आश्रितश्रीप्रदाय ९० सौम्याय भक्तकाङ्क्षितदायकाय अच्युताय केवलसिद्धाय सच्चिदानन्दविग्रहाय ज्ञानिने मायासुताय दान्ताय ब्रह्मिष्ठाय भयवर्जिताय १०० प्रमत्तदैत्यभयप्रदाय व्यक्तमूर्तये पार्वतीशङ्करोत्सङ्गाय खेलनोत्सुकलालसाय समस्तजगदाधाराय वरमूषिकवाहनाय हृष्टचित्ताय सर्वात्मने सर्वसिद्धिप्रदायकाय १०८ दशाङ्गं गुग्गुलुं धूपं सुगन्धं च मनोहरम् । गृहाण सर्वदेवेश उमापुत्र नमोऽस्तु ते ॥ सिद्धिविनायकाय नमः धूपमाप्रपयामि सर्वज्ञ सर्वलोकेश त्रैलोक्य तिमिरापह । गृहाण मङ्गलं दीपं रुद्रप्रिय नमोऽस्तु ते ॥ सिद्धिविनायकाय नमः दीपं समर्पयामि । नैवेद्यं गृह्यतां देव भक्तिं मे ह्यचलां कुरु । ईप्सितं मे वरं देहि परत्र च परां गतिम् । नानाखाद्यमिदं दिव्यं तुष्ट्यर्थं ते निवेदितम् । मया भक्त्या शिवापुत्र गृहाण गणनायक ॥ सिद्धिविनायकाय नमः नैवेद्यं लड्डुकादीनि समर्पयामि । फलपूजा- ॐ - - नमः ---समर्पयामि । गणाधिपाय - नारिकेलफलम् । भक्तप्रियाय - जम्बीरफलम् । इभवक्त्राय - इक्षुदण्डम् । कम्बुग्रीवाय - कपित्थफलम् । लम्बोदराय - कदलीफलम् । कपिलाय - कर्कटीफलम् । वटवे - दाडिमफलम् । पूगीफलं महद्दिव्यं नागवल्लीदळैर्युतम् । कर्पूरैलसमायुक्तं ताम्बूलं प्रतिगृह्यताम् ॥ सिद्धिविनायकाय नमः ताम्बूलं समर्पयामि । चन्द्रादित्यौ च ताराणि विद्युदग्निस्तथैव च । त्वमेव सर्वतेजांसि आर्तिक्यं प्रतिगृह्यताम् ॥ सिद्धिविनायकाय नमः नीराजनं समर्पयामि । विघ्नेश्वर विशालाक्ष सर्वाभीष्टफलप्रद । प्रदक्षिणं करोमि त्वां सर्वान् कामान् प्रयच्छ मे ॥ सिद्धिविनायकाय नमः प्रदक्षिणं समर्पयामि । नमस्ते विघ्नसंहर्त्रे नमो भक्तेप्सितप्रद । नमस्ते देवदेवेश नमस्ते गणनायक ॥ सिद्धिविनायकाय नमः नमस्कारान् समर्पयामि । विनायकेशपुत्रेश गणराज सुरोत्तम । देहि मे सकलान् भोगान् वन्दे सिद्धिविनायक ॥ सिद्धिविनायकाय नमः मन्त्रपुष्पं समर्पयामि । पुष्पाञ्जलिः- ॐ ---- नमः --- पुष्पाञ्जलिं समर्पयामि । १। गजाननाय २। एकदन्ताय ३। कपिलाय ४। स्वर्णदेहाय ५। उमासुताय ६। अघनाशनाय ७। लम्बोदराय ८। शूर्पकर्णाय ९। अनन्ताभरणाय १०। कल्पद्रुमाय ११। रुद्रप्रियाय १२। गजवक्त्राय १३। कपिलाय १४। भालचन्द्राय १५। सर्वसिद्धिप्रदाय १६। गणाध्यक्षाय १७। वक्रतुण्डाय १८। हेरम्बाय १९। मूषिकवाहनाय २०। कुमारगुरवे विनायक गणेशान सर्वदेव नमस्कृत । पार्वतीपुत्र विघ्नेश मम विघ्नं विनाशय ॥ सिद्धिविनायकाय नमः छत्रं समर्पयामि, चामरं वीजयामि, नृत्तं प्रदर्शयामि, वाद्यं घोषयामि, आन्दोलिकां आरोपयामि, समस्तराजोपचारान् समर्पयामि ॥ अर्घ्यं गृहाण हेरम्ब वरप्रद विनायक । गन्धपुष्पाक्षतैर्युक्तं भक्त्या दत्तं मया प्रभो ॥ श्रीसिद्धिविनायकाय नमः इदमर्घ्यम् ॥ (त्रिः) नमस्तुभ्यं गणेशाय नमस्ते विघ्ननायक । पुनरर्घ्यं प्रदास्यामि गृहाण गणनायक ॥ श्रीसिद्धिविनायकाय नमः इदमर्घ्यम् ॥ (त्रिः) नमस्ते भिन्नदन्ताय नमस्ते हरसूनवे । इदमर्घ्यं प्रदास्यामि सङ्गृहाण गणाधिप । श्रीसिद्धिविनायकाय नमः इदमर्घ्यम् ॥ (त्रिः) गौर्यङ्गमलसम्भूत ज्येष्ठस्वामिन् विनायक । गणेश्वर गृहाणार्घ्यं गजानन नमोस्तु ते ॥ श्रीसिद्धिविनायकाय नमः इदमर्घ्यम् ॥ (त्रिः) अनेन पूजनेन भगवान् सर्वात्मकः श्रीसिद्धिविनायकः प्रीयताम् । ॐ तत्सत् ब्रह्मार्पणमस्तु । इति सिद्धिविनायकपूजा अथवा भाद्रपदशुक्लचतुर्थी पूजा सम्पूर्णा । Proofread by Narendran Madathil
% Text title            : Siddhivinayaka Puja
% File name             : siddhivinAyakapUjA.itx
% itxtitle              : siddhivinAyakapUjA
% engtitle              : siddhivinAyakapUjA
% Category              : ganesha, pUjA
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Narendran Madathil
% Description/comments  : From Vighneshvara-stuti-manjari 4
% Indexextra            : (Scans 1, 2)
% Latest update         : October 1, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org