स्वस्तिगर्भविनायकाष्टकम्
(सन्तानगोपालशर्मकृतम्)
श्रीपतिप्रियभागिनेयमुमासुतं शिवनन्दनं
भक्तवत्सलमप्रमेयमनादिमन्तविवर्जितम् ।
सर्वलोकहितङ्करं नमतामभीष्टदमुत्तमं
स्वस्तिगर्भविनायकं प्रणमामि षण्मुखसोदरम् ॥ १॥
आखुवाहनमम्बिकासुतमप्रमेयगुणोज्ज्वलं
सर्वसिद्धिदमीशपुत्रमचिन्त्यपुण्यफलप्रदम् ।
नारदादिमुनीन्द्रषट्पदसेविताङ्घ्रिसरोरुहं
स्वस्तिगर्भविनायकं प्रणमामि शङ्करनन्दनम् ॥ २॥
दृप्तमुग्धशठादि दुस्त्यजविघ्नकारणवारणं
सच्चरित्रविचित्रदुस्त्यजविघ्नवारणवारणम् ।
वासवादि सुरासुरैरनिशं प्रपूजितविग्रहं
स्वस्तिगर्भविनायकं प्रणमामि लोकहितङ्करम् ॥ ३॥
सर्वरोगहरं हरात्मजमम्बुजासनपूजितं
भक्तवत्सलमग्रदिक्परिपालकं त्रिशिरःपुरे ।
नन्दिवन्दितमिन्दुभूषणमिन्दिरारमणप्रियं
स्वस्तिगर्भविनायकं प्रणमामि सर्वसुखप्रदम् ॥ ४॥
शास्तृ नन्दिसदाशिवेन्द्र नराननादिविनायकैः
वेदमातृ जगद्गुरूतम शङ्करादिभिरेव च ।
स्कन्दमारुतिदक्षिणास्य नवग्रहैरपि दुर्गया
सर्वतः परिवारितोऽयमतीव चारु विराजते ॥ ५॥
वेदपारगतैरभिष्टुतमन्वहं निजसन्निधौ
वेदमूर्तिममोघभाग्यदमादिमादि गजाननम् ।
वेदशास्त्र पुराणपण्डितमण्डितप्रिय सन्निधिं
वेद कोन्विममुत्तमोत्तमदैवतं कलिनाशनम् ॥ ६॥
त्रैशिरः पुरमातृभूतशिवालयं परिपालयन्
पूर्वदिक्स्थित एष नूनमपूर्वसुन्दरविग्रहः ।
स्वस्तिगर्भविनायकोऽयमुपास्यतामनु सेव्यतां
प्राप्तुमायुररोगतामतुलं यशोऽखिल सम्पदः ॥ ७॥
लड्डुकै रुचिरैरतिप्रियमोदकैस्सरसैर्नवैः
इक्षुखण्ड कपित्थदाडिमनारिकेल फलैरपि ।
एकविंशति सङ्ख्यया कृतवन्दनैरपि तोषितः
स्वस्तिगर्भविनायको विदधाति नः शुभमङ्गलम् ॥ ८॥
इति सन्तानगोपालशर्मकृतं स्वस्तिगर्भविनायकाष्टकं सम्पूर्णम् ।
Proofread by Narendran Madathil