उच्छिष्टगणपति-उच्छिष्टचाण्डालिन्युपासना पञ्चाङ्गम्
अङ्गः विषयाः
१ उच्छिष्टगणपतिपटलम् ।
उच्छिष्टगणपतिनवार्णमन्त्रप्रयोगः ।
उच्छिष्टगणपतिनवार्णयन्त्रम् ।
रुद्रयामलतन्त्रे प्रयोगविशेषः ।
द्वादशाक्षरोच्छिष्टगणेशमन्त्रप्रयोगः ।
एकोनविंशत्यक्षरोच्छिष्टगणेशमन्त्रप्रयोगः ।
सप्तत्रिंशदक्षरोच्छिष्टगणेशमन्त्रप्रयोगः ।
प्रकारान्तरेणैकाधिकचत्यारिंशदक्षरभेदो रुद्रयामले ।
मन्त्रमहोदधौ द्वात्रिंशदक्षरमन्त्रभेदः ।
एकत्रिंशदक्षरमन्त्रभेदः ।
२ श्रीमदुच्छिष्टगणपतिपूजापद्धतिः ।
३ श्रीमदुच्छिष्टगणपतिकवचम् ।
४ श्रीमदुच्छिष्टगणपतिसहस्रनामस्तोत्रम् ।
५ श्रीमदुच्छिष्टगणपतिस्तवराजः ।
श्रीमदुच्छिष्टचाण्डालिन्युपासना ।
उच्छिष्टचाण्डालिनीमन्त्राः ।
उच्छिष्टचाण्डालिनीचेटकम् ।
समाप्तेयमनुक्रमणिका ।
श्रीगणेशाय नमः ॥
अथ श्रीमदुच्छिष्टगणपति पञ्चरत्नप्रारम्भः ॥
तत्रादौ श्रीमदुच्छिष्टगणपति पटलं प्रारभ्यते ॥
श्रीमहादेव उवाच ॥
हस्तिपदं समुच्चार्य पिशाचीतिपदं ततः ॥
देवराजं सनेत्रं च कान्तमीशस्वरान्वितम् ॥
वह्निजायावधिर्मन्त्रस्ताराद्यः सर्वकामदः ॥
प्रणवस्थाने गमिति केचित् ॥
उच्छिष्टगनपतिनवार्णमन्त्रप्रयोगः
अथोच्छिष्टगनपतिनवार्णमन्त्रप्रयोगः ॥
(मन्त्रमहोदधौ) मन्त्रो यथा ।
हस्तिपिशाचिलिखे स्वाहा ।
इति नवार्णमन्त्रः ।
अस्य विधानं -
विनियोगः -
ॐ अस्य श्रीमदुच्छिष्टगणेशनवार्णमन्त्रस्य कङ्कोल ऋषिः ।
विराट्छन्दः । उच्छिष्टगणपतिर्देवता । अखिलाप्तये जपे विनियोगः ॥
ॐ कङ्कोलर्षये नमः शिरसि ।
ॐ विराट्छन्दसे नमः मुखे ।
ॐ उच्छिष्टगणपतिर्देवतायै नमः हृदि ।
ॐ विनियोगाय नमः सर्वाङ्गे ।
इति ऋष्यादिन्यासः ॥
ॐ हस्ति अङ्गुष्टाभ्यां नमः ।
ॐ पिशाचि तर्जनीभ्यां नमः ।
ॐ लिखे मध्यमाभ्यां नमः ।
ॐ स्वाहा अनामिकाभ्यां नमः ।
ॐ हस्तिपिशाचिलिखे कनिष्ठिकाभ्यां नमः ।
ॐ हस्तिपिशाचिलिखे स्वाहा करतलकरपृष्ठाभ्यां नमः ।
इति करन्यासः ॥
ॐ हस्ति हृदयाय नमः ।
ॐ पिशाचि शिरसे स्वाहा ।
ॐ लिखे शिखायै वषट् ।
ॐ स्वाहा कवचाय हुँ ।
ॐ हस्तिपिशाचि लिखे स्वाहा अस्त्राय फट् ।
इति हृदयादिपञ्चाङ्गन्यासः ॥
एवं न्यासं कृत्वा ध्यायेत् ॥
अथ ध्यानं -
चतुर्भुजं रक्ततनुं त्रिनेत्रं पाशाङ्कुशौ मोदकपात्रदन्तौ ।
करैर्दधानं सरसीरुहस्थमुन्मत्तमुच्छिष्टगणेशमीडे ॥ १॥
इति ध्यायेत् ॥
ततः पीठादौ रचिते सर्वतोभद्रमण्डले गणेशमण्डले वा
मण्डूकादिपरतत्वान्तपीठदेवताः पद्धतिमार्गेण संस्थाप्य
ॐ मँ मण्डूकादिपरतत्त्वान्तपीठदेवताभ्यो नमः ।
इति सम्पूज्य नव पीठशक्तीः पूजयेत् ॥
तद्यथा ।
पूर्वादिक्रमेण । ॐ तीव्रायै नमः । १। ॐ चालिन्यै नमः । २। ॐ नन्दायै नमः । ३
ॐ भोगदायै नमः । ४। ॐ कामरूपिण्यै नमः । ५। ॐ उग्रायै नमः । ६
ॐ तेजोवत्यै नमः । ७। ॐ सत्यायै नमः । ८। ॐ विघ्ननाशिन्यै नमः । ९।
इति पूजयेत् ॥
ततः स्वर्णादिनिर्मितं यन्त्रं मूर्तिं वा ताम्रपात्रे निधाय घृतेनाभ्यज्य
तदुपरि दुग्धधारां च दत्त्वा स्वच्छवस्त्रेणाशोष्य ॥
ॐ ह्रीँ सर्वशक्ति कमलासनाय नमः ।
इति मन्त्रेण पुष्पाद्यासनं दत्त्वा पीठमध्ये संस्थाप्य पद्धतिमार्गेण
प्रतिष्ठां च कृत्वा मूलेन मूर्त्तिं प्रकल्प्य पाद्यादिपुष्पान्तैरूपचारैः
सम्पूज्य देवाज्ञां गृहीत्वा आवरणपूजां कुर्यात् ॥
तत्र क्रमः ॥
पुष्पाञ्जलिमादाय
``ॐ संविन्मयः परो देव परामृतरसप्रिय ।
अनुज्ञां देहि गणप परिवारार्चनाय मे ॥ १॥''
इति पठित्वा पुष्पाञ्जलिं गणेशोपरि दत्त्वा पूजितस्तर्पितोऽस्तु इति वदेत् ।
इत्याज्ञां गृहीत्वा षट्कोणे (तन्त्रसारे तु ॐ हस्तिपिशाचिलिखे स्वाहा
गँ हस्तिपिशाचिलिखे स्वाहा नवार्णभेदेन दशाक्षरीमन्त्रः ॥ तन्त्र
प्रणवस्थान गँ बीजं वदेत् । इति पुस्तकान्तरे ।) षडङ्गानि पूजयेत् ॥
तथा च ।
अग्निकोणे ॐ गां हस्ति हृदयाय नमः (१)॥
हृदयश्रीपादुकां पूजयामि तर्पयामि नमस्करोमि ।
इति सर्वत्र पठेत् ॥
नैरृत्ये ।
ॐ गीँ पिशचि शिरसे स्वाहा (२) शिरः श्री पादुकां पूजयामि तर्पयामि नमः ॥
वायव्ये ।
ॐ गूँ लिखे शिखायै वषट् (३) शिखाश्री पादुकां पूजयामि तर्पयामि नमः ॥
ऐशान्ये ।
ॐ गैँ स्वाहा कवचाय हुँ (४) कवचश्रीपादुकां पूजयामि तर्पयामि नमः ॥
मध्ये ।
ॐ गौँ हस्तिपिशाचिलिखे स्वाहा नेत्रत्रयाय वौषट् (५) नेत्रत्रय श्रीपादुकां पूजयामि तर्पयामि नमः ॥
दिक्षु ।
ॐ गः हस्तिपिशाचिलिखे स्वाहा अस्त्राय फट् (६) अस्त्रश्रीपादुकां पूजयामि तर्पयामि नमः ।
इति पूजयेत् ॥
ततः पुष्पाञ्जलिमादाय मूलं पठित्वा ।
``अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।
भक्त्या समर्पये तुभ्यं प्रथमावरणार्चनम् ॥ १॥''
इति पुष्पाञ्जलिं दत्त्वा विशेषार्घ्याद्बिन्दुं निक्षिप्य पूजितास्तर्पिताः सन्तु ।
इति वदेत् ॥
इति प्रथमावरणम् ॥ १॥
तथोऽष्टदले पूज्यपूजकयोरन्तरालं प्राची तदनुसारेण अन्या दिशः
प्रकल्प्य दक्षहस्ते तर्जन्यङ्गुष्ठाभ्यां गन्धाक्षतपुष्पाणि गृहीत्वा
प्राच्यादिक्रमेण अष्टसु दिक्षु ॥
प्राच्यां ॐ ब्राह्म्यै (७) नमः ब्राह्मी श्रीपादुकां पूजयामि तर्पयामि नमस्करोमि १॥
आग्नेयां ॐ माहेश्वर्यै (८) नमः मोहेश्वरीश्रीपादुकां पूजयामि तर्पयामि नमः २॥
दक्षिणे ॐ कौमार्यै (९) नमः कौमारीश्रीपादुकां पूजयामि तर्पयामि नमस्करोमि ३॥
नैरृत्ये ॐ वैष्णव्यै (१०) नमः वैष्णवीश्रीपादुकां पूजयामि तर्पयामि नमस्करोमि ४॥
पश्चिमे ॐ वाराह्यै (११) नमः वाराहीश्रीपादुकां पूजयामि तर्पयामि नमस्करोमि ५॥
वायव्ये ॐ इन्द्राण्यै (१२) नमः इन्द्राणीश्रीपादुकां पूजयामि तर्पयामि नमस्करोमि ६॥
उत्तरे ॐ चामुण्डायै (१३) नमः चामुण्डाश्रीपादुकां पूजयामि तर्पयामि नमस्करोमि ७॥
ऐशान्ये ॐ महालक्ष्म्यै (१४) नमः महालक्ष्मीश्रीपादुकां पूजयामि तर्पयामि नमस्करोमि ८॥
इत्यष्टौ शक्तीः पूजयेत् ॥
ततः पुष्पाञ्जलिमादाय मूलं पठित्वा
``अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।
भक्त्या समर्पये तुभ्यं द्वितीयावरणार्चनम् ॥ १॥''
इत्युक्ता पुष्पाञ्जलिं च दत्त्वा विशेषार्घ्याद्बिन्दुं निक्षिप्य
पूजितास्तर्पिताः सन्तु इति वदेत् ।
इति द्वितीयावरणम् ॥ २॥
ततः अष्टदलाद्बिहिः चतुरस्राभ्यन्तरे
प्राच्यां ॐ वक्रतुन्डाय (१५) नमः वक्रतुण्डाश्रीपादुकां पूजयामि तर्पयामि नमस्करोमि १॥
आग्नेयां ॐ एकदंष्ट्राय (१६) नमः एकदंष्ट्रश्रीपादुकां पूजयामि तर्पयामि नमस्करोमि २॥
दक्षिणे ॐ लम्बोदराय (१७) नमः लम्बोदरश्रीपादुकां पूजयामि तर्पयामि नमस्करोमि ३॥
नैरृत्ये ॐ विकटाय (१८) नमः विकटश्रीपादुकां पूजयामि तर्पयामि नमस्करोमि ४॥
पश्चिमे ॐ धूम्रवर्णाय (१९) नमः धूम्रवर्णश्रीपादुकां पूजयामि तर्पयामि नमस्करोमि ५॥
वायव्ये ॐ विघ्नराजाय (२०) नमः विघ्नराजश्रीपादुकां पूजयामि तर्पयामि नमस्करोमि ६॥
उत्तरे ॐ गजाननाय (२१) नमः गजाननश्रीपादुकां पूजयामि तर्पयामि नमस्करोमि ७॥
ऐशान्ये ॐ विनायकाय (२२) नमः विनायकश्रीपादुकां पूजयामि तर्पयामि नमस्करोमि ८॥
प्राच्येशानयोर्मध्ये ॐ गणपतये (२३) नमः गणपतिश्रीपादुकां पूजयामि तर्पयामि नमस्करोमि ९॥
पश्चिमनैरृत्योर्मध्ये ॐ हस्तिदन्ताय (२४) नमः हस्तिदन्तश्रीपादुकां पूजयामि तर्पयामि नमस्करोमि १०॥
इति पूजयेत् ॥
ततः पुष्पाञ्जलिमादाय मूलं पठित्वा
``अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।
भक्त्या समर्पये तुभ्यं तृतीयावरणार्चनम् ॥ १॥''
इत्युक्ता पुष्पाञ्जलिं च दत्त्वा विशेषार्घ्याद्बिन्दुं निक्षिप्य
पूजितास्तर्पिताः सन्तु इति वदेत् ।
इति तृतीयावरणम् ॥ ३॥
भूपुराद्बहिः पूर्वादिक्रमेण पूर्वे ॐ लँ इन्द्राय (२५) नमः इन्द्र श्रीपादुकां
पूजयामि तर्पयामि नमस्करोमि १॥
आग्नेयां ॐ रँ आग्नेय (२६) नमः अग्निश्रीपादुकां पूजयामि तर्पयामि नमस्करोमि २॥
दक्षिणे ॐ मँ यमाय (२७) नमः यमश्रीपादुकां पूजयामि तर्पयामि नमस्करोमि ३॥
नैरृत्ये ॐ क्षँ निरृतये (२८) नमः निरृतिश्रीपादुकां पूजयामि तर्पयामि नमस्करोमि ४॥
पश्चिमे ॐ वँ वरुणाय (२९) नमः वरुणश्री पादुकां पूजयामि तर्पयामि नमस्करोमि ५॥
वायव्ये ॐ यँ वायव्ये (३०) नमः वायुश्रीपादुकां पूजयामि तर्पयामि नमस्करोमि ६॥
उत्तरे ॐ कुँ कुबेराय (३१) नमः कुबेरश्रीपादुकां पूजयामि तर्पयामि नमस्करोमि ७॥
ऐशान्ये ॐ हँ ईशानाय (३२) नमः ईशानश्रीपादुकां पूजयामि तर्पयामि नमस्करोमि ८॥
इन्द्रेशानयोर्मध्ये ॐ आँ ब्रह्मणे (३३) नमः ब्रह्मश्रीपादुकां पूजयामि तर्पयामि नमस्करोमि ९॥
वरुणनैरृतयोर्मध्ये ॐ ह्रीँ अनन्ताय (३४) नमः अनन्तश्रीपादुकां पूजयामि तर्पयामि नमस्करोमि १०॥
इति दशदिक्पालान्सम्पूज्य पुष्पाञ्जलिमादाय मूलमुच्चार्य
``ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।
भक्त्या समर्पये तुभ्यं चतुर्थावरणार्चनम् ॥ १॥''
इत्युक्ता पुष्पाञ्जलिं च तत्त्वा विशेषार्घ्याद्बिन्दुं निक्षिप्य
पूजितस्तर्पिताः सन्तु इति वदेत् ।
इति चतुर्थावरणम् ॥ ४॥
ततः पूर्वादिक्रमेण तत्तत्समीपे ॐ वँ वज्राय (३५) नमः १॥
ॐ शँ शक्तये (३६) नमः २॥
ॐ दँ दण्डाय (३७) नमः ३॥
ॐ खँ खड्गाय (३८) नमः ४॥
ॐ पाँ पाशाय (३९) नमः ५॥
ॐ अँ अङ्कुशाय (४०) नमः ६॥
ॐ गँ गदायै (४१) नमः ७॥
ॐ त्रिँ त्रिशूलाय (४२) नमः ८॥
ॐ पँ पद्माय (४३) नमः ९॥
ॐ चँ चक्राय (४४) नमः १०॥
इत्यस्त्राणि पूजयेत् ॥
ततः पुष्पाञ्जलिं गृहीत्वा मूलमुच्चार्य्य
``अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।
भक्त्या समर्पये तुभ्यं पञ्चमावरणार्चनम् ॥ १॥''
इत्युक्ता पुष्पाञ्जलिं च दत्त्वा विशेषार्घ्याद्बिन्दुं निक्षिप्य
पूजितास्तर्पिताः सन्तु इति वदेत् ।
इति पञ्चमावरणम् ॥ ५॥
इत्यावरणपूजां कृत्वा धूपादिनमस्कारान्तं सम्पूज्य पिशितं
वा फलं मोदकं वा गुडपायसं वा बलिं दद्यात् ॥
तत्र मन्त्रः ।
ॐ गँ हँ क्लौँ ग्लौँ उच्छिष्टगणेशाय महायक्षायायं बलिः ॥
इति मन्त्रेण निवेदयेत् ।
ततोदेवतानिवेदितं मोदकं ताम्बूलं वा स्वयं भुक्त्वा उच्छिष्टमुखेन जपं कुर्य्यात् ॥
अस्य पुरश्चरणमेकलक्षजपः ।
तद्दशांशतस्तिलहोमः ।
तद्दशांशेन तर्पणमार्जनब्राह्मणभोजनानि च कुर्यात् ॥
एवं कृते मन्त्रः सिद्धो भवति ।
एवं सिद्धे मन्त्रे मन्त्री प्रयोगान्याधयेत् ॥
तथा च ।
लक्षमेकं जपेन्मन्त्रं दशांशं जुहुयात्तिलैः ।
एवं सिद्धे मनौ मन्त्री प्रयोगान्कर्तुमर्हति ॥ १॥
स्वाङ्गुष्ठप्रतिमां कृत्वा कपिना (रक्तचन्दनेन) सितभानुना (श्वेतार्केन) ।
गणेशप्रतिमां रम्यामुक्तलक्षणलक्षिताम् ॥ २॥
प्रतिष्ठाप्य विधानेन मधुनास्नापयेच्च ताम् ।
आरभ्य कृष्णभूतादिं यावच्छुक्ला चतुर्दशी ॥ ३॥
सगुडं पायसं तस्मै निवेद्यप्रजपेन्मनुम् ।
सहस्रं प्रत्यहं तावज्जुहुयात्सघृतैस्तिलैः ॥ ४॥
गणेशोहमिति ध्यायन्नुच्छिष्टेनावृतो रहः ।
पक्षाद्राज्यमवाप्नोति नृपजोऽन्योपिवा नरः ॥ ५॥
कुलालमृत्स्नाप्रतिमा पूजितैवं सुराज्यदा ।
वल्मीकमृत्कृता लाभमेवमिष्टान्प्रयच्छति ॥ ६॥
गौडी सौभाग्यदा सैवं लावणीक्षोभयेदरीम् ।
निम्बजा नाशयेच्छत्रून्प्रतिमैवं समर्चिता ॥ ७॥
मध्वक्तैर्होमतो (घृतमधुशर्कराक्तैः) लाजैर्वशयेदखिलं जगत् ।
सुप्तोधिशय्यमुच्छिष्टो जपञ्छत्रून्वशं नयेत् ॥ ८॥
कटुतैलान्वितै राजीपुष्पैर्विद्वेषयेदरीन् ।
द्यूते विवादे समरे जप्तोयं जयमावहेत् ॥ ९॥
कुबेरोऽस्य मनोर्जापान्निधीनां स्वामितामयात् ।
लेभाते राज्यमनरिवानरेश बिभीषणौ ॥ १०॥
रक्तवस्त्राङ्गरागाढ्यस्ताम्बूलं निस्वदञ्जपेत् ।
यद्वा निवेदितं तस्मै मोदकं भक्षयञ्जपेत् ॥ ११॥
पिशितं वा फलं वापि तेनतेन बलिं हरेत् ॥
(रुद्रयामलतन्त्रे प्रयोगविशेषः) ।
कृष्णां चतुर्थीमारभ्य यावच्छुक्ला चतुर्थिका ॥
सहस्रं प्रजपेन्नित्यं योषिन्नियमपूर्वकम् ॥
स्नापयेन्मधुना नित्यं नैवेद्यं गुडपायसम् ।
भुक्तोच्छिष्टो जपेन्नित्यं गाणेशोयं सदा प्रियः ॥ १२॥
श्वेतार्केणाकृतिं कृत्वा रक्तचन्दनकेन वा ।
अङ्गुष्ठमात्रां संस्थाप्य द्विजाग्निगुरुसन्निधौ ॥ १३॥
जप्त्वा षोडशसाहस्रं सिद्धमन्त्रो भवेद्ध्रुवम् ।
सदोच्छिष्टोगणेशा नोयक्षराजेनधीमता ॥ १४॥
आराधितः सोपहारैः सम्यगिष्टफलप्रदः ।
एवं कृत्वा व्यवस्थां तु स धनेश्वरतां गतः ॥ १५॥
अपामार्गसमिद्धोमैः सौभाग्यं लभते ध्रुवम् ।
अष्टोत्तरशतैर्मन्त्री एतन्मन्त्राभिमन्त्रितैः ॥ १६॥
कीशाश्वास्थिसमुद्भूतं कीलं मन्त्राभिमन्त्रितम् ।
निखनेन्मन्दिरे यस्य भवेदुच्चाटनं परम् ॥ १७॥
मनुष्यास्थिसमुद्भूतं कीलं मन्त्राभिमन्त्रितम् ।
निखनेन्मन्दिरे यस्य मरणं तस्य निश्चितम् ॥ १८॥
उद्धृते तु भवेत्स्वास्थ्यमिति सर्वस्य निश्चितम् ।
यद्यन्नाम्ना जपेन्मन्त्रं सहस्रं स वशी भवेत् ॥ १९॥
पञ्चसाहस्रहोमेन उद्धरेच्चवरां स्त्रियम् ।
सहस्रदशहोमेन राजा सद्योवशी भवेत् ॥ २०॥
लक्षजाप्येन राजानो द्विलक्षाद्राजपङ्क्त्यः ।
दशलक्षेण तद्राष्ट्रं वश्यं तस्य च सर्वथा ॥ २१॥
अनिमादिमहासिद्धिः कोटिजाप्यान्न संशयः ।
खेचरत्वं भवेन्नित्यं सर्वज्ञत्वं च जायते ॥ २२॥
मन्त्रं लिखित्वा शिरसि कण्ठे वा धारयेद्धृदि ।
सौभाग्यं सर्वरक्षा च भवेत्तत्र सुनिश्चितम् ॥ २३॥
सारभूतमिदं मन्त्रं न देयं यस्य कस्यचित् ।
गुह्यं सर्वागमेष्वेवं हितबुद्ध्या प्रकाशितम् ॥ २४॥
नतिथिर्न च नक्षत्रं नोपवासो विधीयते ।
यथेष्टं चिन्तयेन्मन्त्रं सर्वकामफलप्रदम् ॥ २५॥
इत्युच्छिष्टगणपतिनवार्णमन्त्रप्रयोगः ॥ १॥
द्वादशाक्षरोच्छिष्टगणेशमन्त्रप्रयोगः
अथ द्वादशाक्षरोच्छिष्टगणेशमन्त्रप्रयोगः ॥
(मन्त्रमहोदधौ) मन्त्रो यथा ॥
ॐ ह्रीँ गँ हस्तिपिशाचिलिखेस्वाहा ॥
अस्य श्रीद्वादशाक्षरोच्छिष्टगणेशमन्त्रस्य मनुरृषिः विराट् छन्दः ।
उच्छिष्टगणपतिर्देवता ।
गँ बीजम् ।
स्वाहा शक्तिः ।
ह्रीँ कीलकम् ।
अखिलाप्तये जपे विनियोगः ॥
ॐ मनु ऋषये नमः शिरसि ।
ॐ विराट्छन्दसे नमः मुखे ।
ॐ उच्छिष्टगणपतिदेवतायै नमः हृदि ।
ॐ गँ बीजाय नमः गुह्ये ।
ॐ स्वाहाशक्तये नमः पादयोः ।
ॐ ह्रीँ कीलकाय नमः नाभौ ।
ॐ विनियोगाय नमः सर्वाङ्गे ।
इति ऋष्यादिन्यासः ॥
ॐ ह्रीँ अङ्गुष्ठाभ्यां नमः ।
ॐ गँ तर्जनीभ्यां नमः ।
ॐ हस्ति मध्यमाभ्यां नमः ।
ॐ पिशाचि अनामिकाभ्यां नमः ।
ॐ लिखे कनिष्ठिकाभ्यां नमः ।
ॐ स्वाहा करतलकरपृष्ठाभ्यां नमः ।
इति करन्यासः ॥
ॐ ह्रीँ हृदयाय नमः ।
ॐ गँ शिरसे स्वाहा ।
ॐ हस्ति शिखायै वषट् ।
ॐ पिशाचिं कवचाय हुँ ।
ॐ लिखे नेत्रत्रयाय वौषट् ।
ॐ स्वाहा अस्त्राय फट् ।
एवं न्यासं कुर्य्यात् ॥
अन्यत्सर्वं पूर्ववत् ॥
इति द्वादशाक्षरोच्छिष्टगणेशमन्त्रप्रयोगः ॥
एकोनविंशत्यक्षरोच्छिष्टगणेशमन्त्रप्रयोग्ः
(मन्त्रमहोदधौ) मन्त्रो यथा ॥
ॐ नम उच्छिष्टगणेशाय हस्तिपिशाचि लिखे स्वाहा ॥
इत्येकोनविंशत्यक्षरो मन्त्रः ॥
अस्य विधानम् ॥
अस्य श्रीमदेकोनविंशत्यक्षरोच्छिष्टगणेशमन्त्रस्य कङ्कोल ऋषिः ।
विराट्छन्दः ।
उच्छिष्टगणपतिर्देवता ।
अखिलाप्तये जपे विनियोगः ॥
ॐ कङ्कोलऋषये नमः शिरसे ।
ॐ विराट्छन्दसे नमः मुखे ।
ॐ उच्छिष्टगणपतिर्देवतायै नमः हृदि ।
ॐ विनियोगाय नमः सर्वाङ्गे ।
इति ऋष्यादिन्यासः ॥
ॐ नमः अङ्गुष्ठाभ्यां नमः ।
ॐ उच्छिष्टगणेशाय तर्जनीभ्यां नमः ।
ॐ हस्ति मध्यमाभ्यां नमः ।
ॐ पिशाचि अनामिकाभ्यां नमः ।
ॐ लिखे कनिष्ठिकाभ्यां नमः ।
ॐ स्वाहा करतलकरपृष्ठाभ्यां नमः ।
इति करन्यासः ॥
ॐ नमः हृदयाय नमः ।
ॐ उच्छिष्टगणेशाय शिरसे स्वाहा ।
ॐ हस्ति शिखायै वषट् ।
ॐ पिशाचि कवचाय हुँ ।
ॐ लिखे नेत्रत्रयाय वौषट् ।
ॐ स्वाहा अस्त्राय फट् ।
इति हृदयादिषडङ्गन्यासः ॥
एवं न्यासं कुर्य्यात् ।
अन्यत्सर्वं पूर्ववत् ।
इत्येकोनविंशत्यक्षरोच्छिष्टगणेशमन्त्रप्रयोगः ॥ ३॥
सप्तत्रिंशदक्षरोच्छिष्टगणेशमन्त्रप्रयोगः
अथ सप्तत्रिंशदक्षरोच्छिष्टगणेशमन्त्रप्रयोगः ॥
मन्त्रोयथा ॥
``ॐ नमो भगवते एकदंष्ट्राय हस्तिमुखाय लम्बोदराय
उच्छिष्टमहात्मने आँक्रोँह्रीँगँघेघे स्वाहा''
इति सप्तत्रिंशदक्षरो मन्त्रः ॥
अस्य विधानम् ।
अस्य श्रीसप्तत्रिंशाक्षरोच्छिष्टगणेशमन्त्रस्य गणक ऋषिः ।
गायत्री छन्दः । उच्छिष्टगणपतिर्देवता । गँ बीजम् ।
ह्रीँ शक्तिः । आँ क्रोँ कीलकम् । ममाभीष्ठसिद्धये जपे विनियोगः ॥
ॐ गणकर्षये नमः शिरसि ।
ॐ गायत्री छन्दसे नमः मुखे ।
ॐ उच्छिष्टगणपतिर्देवतायै नमः हृदि ।
ॐ गँ बीजाय नमो गुह्ये ।
ॐ ह्रीँ शक्तये नमः पादयोः ।
ॐ आँ क्रोँ कीलकाय नमो नाभौ ।
ॐ विनियोगाय नमः सर्वाङ्गे ।
इति ऋष्यादिन्यासः ॥
ॐ नमो भगवते एकदंष्ट्राय अङ्गुष्ठाभ्यां नमः ।
हस्तिमुखाय तर्जनीभ्यां नमः ।
ॐ लम्बोदराय मध्यमाभ्यां नमः ।
ॐ उच्छिष्टमहात्मने अनामिकाभ्यां नमः ।
ॐ आँ क्रोँ ह्रीँ गँ कनिष्ठिकाभ्यां नमः ।
ॐ घेघे स्वाहा करतलकरपृष्ठाभ्यां नमः ।
इति करन्यासः ॥
ॐ नमो भगवते एकदंष्ट्राय हृदयाय नमः ।
ॐ हस्तिमुखाय शिरसे स्वाहा ।
ॐ लम्बोदराय शिखायै वषट् ।
ॐ उच्छिष्टमहात्मने कवचाय हुँ ।
ॐ आँ क्रोँ ह्रीँ गँ नेत्रत्रयाय वौषट् ।
ॐ घे घे स्वाहा अस्त्राय फट् ।
इति हृदयादिषडङ्गन्यासः ॥
एवं न्यासं कृत्वा ध्यायेत् ॥
अथ ध्यानं -
ॐ शरान्धनुः पाशासृणी स्वहस्तैर्दधानमारक्तसरोरुहस्थम् ।
विवस्त्रपत्न्यां सुरतप्रवृत्तमुच्छिष्टमम्बासुतमाश्रयेऽहम् ॥ १॥
एवं ध्यात्वा पूर्वोक्तपीठपूजां विधाय पूर्वोक्ता वरणपूजां च कृत्वा जपं कुर्य्यात् ॥
अस्य पुरश्चरणमेकलक्षजपः ।
तद्दशांशतो घृतहोमः ।
तत्तद्दशांशेन तर्पणमार्जनब्राह्मणभोजनानि च कुर्यात् ।
एवं कृते मन्त्रः सिद्धो भवति ॥
सिद्धे मन्त्रे मन्त्री प्रयोगान् साधयेत् ॥
तथा च ।
लक्षं जपेद्धृतैर्हुत्वा तद्दशांशं प्रपूजयेत् ।
पूर्वोक्तपीठेस्वाभीष्टसिद्धये पूर्ववद्विभुम् ॥ १॥
कृष्णाष्टम्यादि भूतान्त यावत्तावज्जपेन्मनुम् ।
प्रत्यहं साष्टसाहस्रं जुहुयात्तद्दशांशतः ॥ २॥
तर्पयेदपि मन्त्रोयं सिद्धिमैवं प्रयच्छति ।
धनं धान्यं सुतान्पौत्रान्सौभाग्यमतुलं यशः ॥ ३॥
मूर्तिं कुर्याद्गणेशस्य शुभाहे निम्बदारुणा ।
प्राणप्रतिष्ठां कृत्वाथ तदग्रे मन्त्रमाजपेत् ॥ ४॥
यं ध्यात्वा दासवत्सोऽपि वश्यो भवति निश्चितम् ।
नदीजलं समादाय सप्तविंशतिसङ्ख्यया ॥ ५॥
मन्त्रयित्वा मुखं तेन प्रक्षाल्येशसभां व्रजेत् ।
पश्येद्यं दृश्यते येन स वश्यो जायते क्षणात् ॥ ६॥
चतुःसहस्रं धत्तूरपुष्पाणिमनुनार्पयेत् ।
गणेशाय नृपादीनां जनानां वश्यताकृते ॥ ७॥
सुन्दरीवामपादस्य रेणुमादाय तत्र तु ।
संस्थाप्य गणनाथस्य प्रतिमां प्रजपेन्मनुम् ॥ ८॥
तां ध्यात्वा रविसाहस्रं सा समायातिदूरतः ।
श्वेतार्केणाथ निम्बेन कृत्वा मूर्तिं धृतां शुकाम् ॥ ९॥
चतुर्थां पूजयेद्रात्रौ रक्तैः कुसुमचन्दनैः ।
जपत्वा सहस्रं तां मूर्तिं क्षिपेद्रात्रौ सरित्तटे ॥ १०॥
स्वेष्टं कार्यं समाचष्टे स्वप्ने तस्यगणाधिपः ।
सहस्रं निम्बकाष्ठानां होमादुच्चाटयेदरीन् ॥ ११॥
वजिणासमिधा (हुरहुर) होमाद्रिपुर्यमपुरं व्रजेत् ।
वानरस्यास्थि सञ्जप्तं क्षिप्तमुच्चाटयेद्गृहे ॥ १२॥
जप्तं नरास्थि कन्याया गृहे क्षिप्तं तदाप्तिकृत् ।
कुलालस्य मृदा स्त्रीणां वामपादस्य रेणुना ॥ १३॥
कृत्वा पुत्तलिकां तस्या हृदि स्त्रीनाम संलिखेत् ।
निखनेन्मन्त्र सञ्जप्तैर्न्निम्ब काष्ठैः क्षिताविमाम् ॥ १४॥
सोन्मत्ता भवति क्षिप्रमुद्धृतायां सुखं भवेत् ।
शत्रोरेवं कृता सा तु लशुनेन समाचिता ॥ १५॥
शरावान्तगता सम्यक्पूजिता द्वारि विद्विषः ।
निखाता पक्षमात्रेण शत्रूच्चाटनकृत्स्मृता ॥ १६॥
विषमे समनुप्राप्ते सितार्कारिष्टदारुजम् ।
गणपं पूजितं सम्यक्कुसुमै रक्तचन्दनैः ॥ १७॥
मद्यभाण्डस्थितं हस्तमात्रे तं निखनेत्स्थले ।
तत्रोपविश्य प्रजेन्मन्त्री नक्तं दिवा मनुम् ॥ १८॥
सप्ताहमध्ये नश्यन्ति सर्वे घोरा उपद्रवाः ।
शत्रवो वश्यतां यान्ति वर्द्धन्ते धनसम्पदः ॥ १९॥
दुष्टस्त्रीवामपादस्य रजसा निजदेहजैः ।
मलैर्मूत्रपुरीषाद्यैः कुम्भकारमृदापि च ॥ २०॥
एतैः कृत्वा गणेशस्य प्रतिमां मद्यभाण्डगाम् ।
सम्पूज्य निखनेद्भूमौ हस्तार्द्धे पूरिते पुनः ॥ २१॥
संस्थाप्य वह्नि जुहुयात्कुसुमैर्हयमारजैः (करवीरोद्भवैः) ।
सहस्रं सा भवेद्दासी तन्वा च मनसा धनैः ॥ २२॥
एवमादिप्रयोगांस्तु नवार्णेनापि साधयेत् ।
परीक्षिताय शिष्याय प्रदेयानिजसूनवे ॥ २३॥
इति सप्तत्रिंशदक्षरमन्त्रप्रयोगः ॥
श्रीमद्दुच्छिष्टमहागणपतिमन्त्रप्रयोगः
(प्रकारान्तरेणैकाधिकचत्वारिंशदक्षरमन्त्रभेदो रुद्रयामलतन्त्रे) मन्त्रो यथा ॥
ॐ नमो भगवते एकदंष्ट्राय हस्तिमुखाय लम्बोदराय
उच्छिष्टमहात्मने आँ क्रोँ ह्रीँ गँ घे घे उच्छिष्टाय स्वाहा ॥
इति मन्त्रः ॥
अस्य श्रीमद्दुच्छिष्टमहागणपतिमन्त्रस्य मतङ्गभगवान् ऋषिः ।
गायत्री छन्दः । उच्छिष्टमहागणपतिर्देवता । गँ बीजम् ।
स्वाहा शक्तिः । ह्रीँ कीलकम् । ममाभीष्टसिद्धये जपे विनियोगः ।
इति विनियोगं कुर्यात् ॥
अन्यत्सर्वं पूर्ववत् ॥
(मन्त्रमहोदद्धौ) द्वात्रिंशदक्षरमन्त्रभेदः ॥
मन्त्रोयथा ।
ॐ हस्तिमुखाय लम्बोदराय उच्छिष्टमहात्मने
आँ क्रोँ ह्रीँ क्लीँ ह्रीँ हुँ घे घे उच्छिष्टाय स्वाहा ॥
अस्य श्रीमदुच्छिष्टगणपतिमन्त्रस्य गणक ऋषिः ।
गायत्री छन्दः । उच्छिष्टगणपतिर्देवता ।
ममाभीष्टसिद्धये जपे विनियोगः ॥
ॐ गणकऋषये नमः शिरसि ।
ॐ गायत्रीछन्दसे नमः मुखे ।
ॐ उच्छिष्टगणपतिर्देवतायै नमः हृदि ।
ॐ विनियोगाय नमः सर्वाङ्गे ।
इति ऋष्यादिन्यासः ॥
ॐ हस्तिमुखाय अङ्गुष्ठाभ्यां नमः ।
ॐ लम्बोदराय तर्जनीभ्यां नमः ।
ॐ उच्छिष्टमहात्मने मध्यमाभ्यां नमः ।
ॐ आँ क्रोँ ह्रीँ क्लीँ ह्रीँ हुँ अनामिकाभ्यां नमः ।
ॐ घे घे उच्छिष्टाय कनिष्ठिकाभ्यां नमः ।
ॐ स्वाहा करतलकरपृष्ठाभ्यां नमः ।
इति करन्न्यासः ॥
एवमेव हृदयादिषडङ्गन्यासं च कुर्यात् ॥
अन्यत्सर्वं पूर्ववत् ॥
तथा च ॥
द्वात्रिंशदक्षरो मन्त्रो यजनं पूर्ववत्स्मृतम् ।
उच्छिष्टगजवक्त्रस्य मन्त्रेष्वेषु न शोधयेत् ॥ १॥
सिद्धादिचक्रमासादेः प्राप्तास्ते सिद्धिदा गुरोः ।
मनवोमी सदा गोप्या न प्रकाश्या यतः कुतः ।
परीक्षिताय शिष्याय प्रदेया निजसूनवे ॥ २॥
इति ॥
एकत्रिंशदक्षरमन्त्रभेदः
अथैकत्रिंशदक्षरमन्त्रभेदः ॥
मन्त्रो यथा ॥
ॐ नमो हस्तिमुखाय लम्बोदराय उच्छिष्टमहात्मने
क्राँ क्रोँ ह्रीँ घे घे उच्छिष्टाय स्वाहा ॥
अस्य विधानम् ॥
कटुनिम्बमूलस्य पर्वमानाङ्गणेशप्रतिमां कृत्वा कृष्णाष्टमी
मारभ्यामावास्यापर्यन्तं पञ्चशतसङ्ख्याकं जपं प्रतिदिनं कुर्यात् ॥
स्वयमुच्छिष्टमुखे भूत्वा गणेशाग्रे स्थाल्यां रक्तचन्दनाक्षतपुष्पाणि
धृत्वा समभ्यर्च्य स्वेच्छिष्टमुखेन जपः कर्तव्यः ॥
एवं दिनसप्तकं कृत्वाष्टमे दिवसे स्वयमुच्छिष्टमुखो
भूत्वैवपञ्चखाद्येन पञ्चशतं जुहुयात् ।
ततोभिलषितं ददाति महिमा भवति ॥ १॥
अभिलषितबालाचित्रोपरिगणेशं संस्थाप्य प्रत्यहमष्टोत्तरशतं जपेत् ।
दिनत्रयादाकर्षयति ।
तं गणेशं तत्कपाले संस्थाप्य सा पुनर्गच्छति ।
पुनरानयनायाष्टोत्तरशतं जपेत् ।
यदिसा पुनर्नायाति तर्हि ॥ २॥
तं गणेशमुच्छिष्टमुखाग्रे निधायाष्टोत्तरशतं जपेत् ।
राजा वशी भवति ॥ ३॥
तं गणेशं नद्यां नीत्वा प्रक्षाल्य स्वमुखाद्वारचतुष्टयं प्रक्षाल्य
तस्मात् पतितं किञ्चिदुदकं भाण्डे निक्षिपेत् ।
तदुदकं ये पिबन्ति ते सर्वे वश्या भवन्ति ॥ ४॥
तं गणेशं द्वारे तरुवरशाखायां निक्षिप्य सम्पूज्याष्टोत्तरशतं जपेत् ।
गृहे ह्यखण्डितमन्त्रं भवति ॥ ५॥
तं गणेशं ताम्रे रौप्ये वा निक्षिप्य कटिबम्धनात्स्त्रियो वश्या भवन्ति ।
शत्रुगणः स्तम्भीभवति ॥ ६॥
तं गणेशं करतले धृत्वा कनकपुष्पैरर्चयेत् पश्चात्करेण
करवालं दृत्वा दशशतं जपति तदा सम्ग्रामे जयो भवति ॥ ७॥
तं गणेशमत्रोपरि संस्थाप्याष्टोत्तरशतं जपेत् ।
उदरपूरणार्थमत्रप्राप्तिर्भवति ॥ ८॥
तं गणेशं पाणौ प्रक्षाल्य तदुदकपानाच्छत्रुनामग्रहणाद्रि पुनाशः स्यात् ॥ १॥
इत्येकाधिकत्रिंशदक्षरोच्छिष्टगणेशमन्त्रप्रयोगः ।
इति श्रीमदुच्छिष्टगणपत्युपासनापञ्चरत्ने श्रीमदुच्छिष्टगणपति पटलनिरूपणन्नां प्रथमं रत्नम् ॥ १॥
उच्छिष्टगणपतिपूजापद्धतिः
अथ श्रीमदुच्छिष्टगणपतिपूजापद्धतिः ॥
तत्रादौ पूर्वकृत्यम् ॥
पुरश्चरणात्प्राक्तृतीयादिवसे क्षौरादिकं विधाय ततः
प्रायश्चित्ताङ्गभूतविष्णु पूजां विष्णुतर्पणं विष्णुश्राद्धं होमं
चान्द्रायणादि व्रतं च कुर्यात् ।
व्रताशक्तौ गोदानं द्रव्यदानं च कुर्यात् ।
यदि सर्वकर्माशक्तस्ततः प्रायस्चित्ताङ्गभूतपञ्चगव्यप्राशनं कुर्यात् ।
तत्र मन्त्रः ।
``यत्त्वगस्थिगतं पापं देहे तिष्ठति मामके ।
प्राशनात्पञ्चगव्यस्य दहत्यग्निरिवेन्धनम् ॥ १॥''
इति पठित्वा प्रणवेन पञ्चगव्यं पिबेत् ।
तद्दिने उपवासं कृत्वा अशक्तश्चेत्पयःपानं हविष्यान्ने
नैकभक्तव्रतं कृत्वा ततः पुरश्चरणात्पूर्वदिने
स्वदेहशुद्ध्यर्थं पुरश्चरणाधिकारप्राप्त्यर्थं चायुतगायत्रीजपं
कुर्यात् ॥
तद्यथा ।
देशकालौ सङ्कीर्त्यज्ञाताज्ञातपापक्षयार्थं
करिष्यमाणोच्छिष्टगणेशपुरश्चरणाधिकारार्थममुकमन्त्रेण
सिद्ध्यर्थं च गायत्र्ययुतजपमहं करिष्ये इति सङ्कल्प्य
गायत्र्ययुतं जपेत् ।
ततः गायत्र्या आचार्य्यऋषिं विश्वामित्रं तर्पयामि १
गायत्रीछन्दस्तर्पयामि २ सवितारं देवतां तर्पयामि ३ इति तर्पणं
कृत्वा ततोस्यां रात्रौ देवतोपास्तिं शुभाशुभस्वप्नं विचारयेत् ॥
तद्यथा ।
स्नानादिकं कृत्वा हरिपादाम्बुजं स्मृत्वा कुशासनादिशय्यायां यथासुखं स्थित्वा वृषभध्वजं प्रार्थयेत् ॥
तत्र मन्त्रः ॐ ``भगवन्देवदेवेश शूलभृद्वृषवाहन ।
इष्टानिष्टं समाचश्व मम सुप्तस्य शाश्वत ॥ १॥
ॐ नमोऽजाय त्रिनेत्राय पिङ्गलाय महात्मने ।
वामाय विश्वरूपाय स्वप्नाधिपतये नमः ॥ २॥
स्वप्ने कथय मे तथ्यं सर्वकार्येष्वशेषतः ।
क्रियासिद्धिं विधास्यामि त्वत्प्रसादान्महेश्वर ॥ ३॥''
इति मन्त्रेणाष्टोत्तरशतवारं शिवं प्रार्थ्य निद्रां कुर्यात् ॥
ततः स्वप्नं दृष्टं निशि प्रातर्गुरवे विनिवेदयेत् ।
अथवा
(लिङ्गं चन्द्रार्कयोर्बिम्बं भारतीं जाह्नवीं गुरुम् ।
रक्ताब्धितरण सुद्धे जयोऽनलसमर्चनम् ॥
शिखिहंसरथांगाड्ये रथे स्थानं च मोहनम् ।
आरोहणं सारसस्य धरालाभश्च निम्रगाम् ॥
प्रासादः स्पन्दनं पद्मं छत्रं कन्या द्रुमः फली ।
नागोदीपो हयः पुष्पं वृषभोऽश्वश्च पर्वतः ॥
सुराघटो ग्रहस्तारा नारी सूर्योदयोऽप्सराः ॥
हर्म्यशैलविमानानामारोहो गगने गमः ॥
मद्यमांसादनं विष्ठालेपो रुधिरसेचनम् ।
दद्ध्योदनादनं राज्याभिषेको गोवृषध्वजाः ॥
सिंहः सिंहासनं शङ्खो वादिबं) स्वयं स्वप्नं विचारयेत् ।
इति पूर्वकृत्यम् ।
ततश्चन्द्रतारादिबलान्विते सुमुहूर्ते विविक्ते देशेजपस्थानं प्रकल्प्य
पुरश्चरणदिवसे ब्राह्मे मुहूर्ते चोत्थाय प्रातःस्मरणं कुर्यात् ॥
गणेशाप्रातःस्मरणम्
अथ गणेशाप्रातःस्मरणम् ।
``ॐ प्रातः स्मरामि गणनाथमनाथबन्धुं सिन्दूरपूर्णपरिशोभितगण्डयुग्मम् ।
उद्दण्डविघ्नपरिखण्डनचण्डदण्डमाखण्डलादिसुरनायकवृन्दवन्ध्यम् ॥ १॥
प्रातर्नमामि चतुराननवन्द्यमानमिच्छानुकूलमखिलं च वरं ददानम् ।
तं तुन्दिलं द्विरसनाधिपयज्ञसूत्रं पुत्रं विलासचतुरं शिव्योः शिवाय ॥ २॥
प्रातर्भजाम्यभयदं खलुभक्तशोकदावानलं गणविभुं वरकुञ्जरास्यम् ।
अज्ञानकाननविनाशनहव्यवाहमुत्साहवर्धनमहं सुतमीश्वरस्य ॥ ३॥''
श्लोकत्रयमिदं पुण्यं सदासाम्राज्यदायकम् ।
प्रातरुत्थाय सततं यः पठेत्प्रयतः पुमान् ॥ ४॥
इति स्मरणं कृत्वा भूमिं प्रार्थयेत् ।
तत्रमन्त्रः ।
``समुद्रमेखले देवि पर्वतस्तनमण्डले ।
विष्णुपत्नि नमस्तुभ्यं पादस्पर्शं क्षमस्व मे ॥ १॥
इति भूमिं सम्प्रार्थ्य श्वासानुसारेण भूमौ पादं दत्त्वा बहिर्व्रजेत् ॥
इति प्रातःकृत्यम् ।
ततोग्रामाद्वाहिर्नैरृत्यकोणे जनवर्जिते उत्तराभिमुखः अनुपानत्को
वस्त्रेण शिरः प्रावृत्य मलमोचनं कृत्वामृत्तिकया जलेन च
यथासङ्ख्यं शौचं कृत्वाहस्तौ पादौ प्रक्षाल्य गण्डूषं कृत्वा
दन्तधावनं च कुर्यात् ॥
तद्यथा ॥
आम्रचम्पकापामार्गद्यन्यतमं द्वादशाङ्गुलं दन्तकाष्ठं गृहीत्वा प्रार्थयेत् ।
तत्र मन्त्रः ।
``आयुर्बलंयशोवर्चः प्रजापशुधनानि च ।
श्रियं प्रज्ञा च मेधां च त्वं नो देहि वनस्पते ॥ १॥''
इति सम्प्रार्थ्य ॐ ह्रीँ तडित्स्वाहा इति मन्त्रेण काष्ठं छित्त्वा ॐ
क्लीँ कामदेवाय सर्वजनप्रियाय नमः इत्यनेन दन्तान् संशोध्य
ऐँ इति बीजेन जिह्वामुल्लिख्य दन्तकाष्ठं क्षालयित्वा नैरृत्ये
शुद्धदेशे निक्षिपेत् ।
मूलेन मखं प्रक्षाल्याचम्य स्नानं कुर्यात् ॥
इति शोचक्रिया ॥
ततः तीर्थस्नानं मङ्गलस्नानं च सर्वदेवोपयोगिपद्धतिमार्गेण
कृत्वा गृहस्नानं कुर्यात् ।
गृहस्नानप्रयोगः
अथ गृहस्नानप्रयोगः ।
तात्कालिकोद्धृतोदकेन उष्णोदकेन वा कृत्वा त नु पर्युषितशीतोदकेन
ताम्रादिबृहत्पात्रे जलं गृहीत्वा तीर्थान्यावाहयेत् ॥
तत्र मन्त्रः ॥
``गङ्गे च यमुने चैव गोदावरि सरस्वति ।
नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु ॥ १॥
ॐ पुष्कराद्यानि तीर्थानि गङ्गाद्याः सरितस्तथा ।
आगच्छन्तु पवित्राणि स्नानकाले सदा मम ॥ २॥
ब्रह्माण्डोदरतीर्थानि करैःस्पृष्ठानि ते र वे ।
तेन सत्येन मे देव तीर्थं देहि दिवाकर ॥ ३॥'' इति तीर्थन्यावाह्य ॥
ऋतं च सत्यमिति मन्त्रेणाभिमन्त्र्य स्नानं कुर्य्यात् ॥
एवं स्नानं कृत्वा शुष्कं शुभ्रं रक्तं वा कार्पासवस्त्रं परिधाय
सूर्यायार्घ्यं दद्यात् ॥
तत्र मन्त्रः ॥
``एहि सूर्य्य सहस्रांशो तेजोराशे जगत्पते ।
अनुकम्पय मां देव गृहाणार्घ्यं नमोऽस्तुते ॥''
इत्यर्घ्यं दत्त्वा स्नानवस्त्रं परिपीड्य आचम्य पञ्चत्रिपुड्रं कृत्वा
रुद्राक्षमालां धारयेत् ॥
ततो जपस्थाने गत्वा नित्यनैमित्तिकं समाप्य
अश्वत्थोदुम्बरप्लक्षानामन्यतमान् वितस्तिमात्रान् दश कीलान् ॥
ॐ नमः सुदर्शनायास्त्राय फट् इति मन्त्रेणाष्टोत्तरशताभिमन्त्रिताम् ॥
``ॐ ये चात्र विघ्नकर्तारो भुवि दिव्यतरिक्षगाः ।
विघ्नभूताश्च ये चान्ये मम मन्त्रस्य सिद्धिषु ॥ १॥
मयैतत्कीलितं क्षेत्रं परित्यज्य विदूरतः ।
अपसर्पन्तु ते सर्वेनिर्विघ्नं सिद्धिरस्तु मे ॥ २॥''
इति मन्त्रद्वयेन दशदिक्षु दश कीलान् निखनेत् ॥
ततस्तेषु ॥
ॐ सुदर्शनायास्त्राय फट् ॥
इति मन्त्रेण प्रत्येकं कीलकान् सम्पूज्य तद्बाह्ये भूतबलिं दद्यात् ॥
तत्र मन्त्रः ॥
``ये रौद्रकर्माणो रौद्रस्थाननिवासिनः ।
मातरोप्युग्ररूपाश्च गणाधिपतयश्च ये ॥ १॥
विघ्नभूताश्च ये चान्ये दिग्विदिक्षु समाश्रिताः ।
ते सर्वे प्रीतमनसः प्रतिगृह्णन्त्विमं बलिम् ॥ २॥
इति मन्त्रद्वयेन दशदिक्षु बाह्ये माषभक्तबलिं दद्यात् ॥
इति भूतेभ्यो बलिं दत्त्वा हस्तौ पादौ प्रक्षाल्याचामेत् ॥
ततः
``ॐ अपवित्रः पवित्रोवा सर्वावस्थां गतोऽपि वा ।
यः स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तरःशुचिः ॥ १॥''
इति मन्त्रेण मण्डपान्तरं प्रोक्ष्य तत्र तावत् आसनभूमौ कूर्मशोधनं कार्यम् ॥
यत्र जपकर्ता एक एव तदा कूर्ममुखे उपविश्य जपं तत्रैव दीपस्थानं च कुर्यात् ॥
यत्र बहवः जापकास्तत्र कूर्ममुखोपरि दीपमेव स्थापयेत् ॥
एवं कूर्मशोधनं विधाय तत्रासनाधो जलादिना त्रिकोणं कृत्वा तत्र ॥
ॐ कूर्माय नमः ॥
ॐ ह्रीँ आधारशक्तिकमलासनाय नमः ॥
ॐ पृथिव्यै नमः ॥
इति गन्धाक्षतपुष्पैः सम्पूज्य तपदुरिकुशासनं तदुपरि मृगाजिनं
तदुपरि कम्बलाद्यासनमास्तीर्य स्थापितानां त्रयाणामासनानामुपरि क्रमेण
ॐ अनन्तासनाय नमः ।
ॐ विमलासनाय नमः ।
ॐ पद्मासनाय नमः ।
इति मन्त्रत्रयेण त्रीन् दर्भान् प्रत्येकं निदध्यात् ॥
एवमासनं संस्थाप्य तत्र प्राङ्मुख उदङ्मुखो वा उपविश्य आसनशोधनं कुर्यात् ॥
तत्र मन्त्रः ॥
पृथ्वीति मन्त्रस्य मेरुपृष्ठ ऋषिः ।
कूर्मो देवता । सुतलञ्छन्दः । आसने विनियोगः ॥
``ॐ पृथ्वि त्वया धृता लोका देवि त्वं विष्णुनाधृता ॥
त्वं च धारय मां देवि पवित्रं कुरु चासनम् ॥''
इति मन्त्रेण आसनं प्रोक्ष्य ॥
ततो मूलमन्त्रेण शिखां बद्धा आचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य
श्रीमदुच्छिष्टगणपतिदेवताप्रीतये अमुकमन्त्रसिद्धये अमुकसङ्ख्याजपं
तत्तद्दशांशहोमतर्पणमार्जनब्राह्मणभोजनरूपपुरश्चरणमहं करिष्ये ॥
इति सङ्कलप्य भूतशुद्धिं प्राणप्रतिष्ठामन्तर्मातृकाबहिर्मातृका-
सृष्टिस्थितिसंहारमातृकान्यासं च सर्वदेवोपयोगिपद्धतिमार्गेण
कृत्वा गणेशकलामातृकान्यासं च कुर्यात् ॥
तथा च तत्र क्रमः ॥
ॐ अस्य विघ्नेशादिकलामातृकान्यासस्य गणक ऋषिः ।
निचृद्गायत्री छन्दः । विनायको देवता । ह्लो बीजानि ।
स्वराः शक्तयः ।
सर्वेष्टसिद्धये न्यासे विनियोगः ॥
ॐ गाँ हृदयाय नमः ।
ॐ गीँ शिरसे स्वाहा ।
ॐ गूँ शिखायै वषट् ।
ॐ गैँ कवचाय हुँ ।
ॐ गौँ नेत्रत्रयाय वौषट् ।
ॐ गः अस्त्राय फट् ।
एवं षडङ्गन्यासं कृत्वा गजाननं ध्यायेत् ॥
अथ ध्यानम् ।
``गुणाङ्कुशवराभीतिपाणिरक्ताब्जहस्तया ।
प्रिययालिङ्गितं रक्तं त्रिनेत्रं गणपं भजे ॥ १॥''
एवं ध्यात्वा न्यासं कुर्य्यात् ॥
तथा च तत्र क्रमः ॥
ॐ अँ विघ्नेशह्रीभ्यां नमः ललाटे । १।
ॐ आँ विघ्नराजश्रीभ्यां नमः मुखवृत्ते । २।
ॐ ईँ विनायकपुष्टिभ्यां नमः दक्षिणनेत्रे । ३।
ॐ ईँ शिवोत्तमशान्तिभ्यां नमः वामनेत्रे । ४।
ॐ उँ विघ्नकृत्स्वस्तिभ्यां नमः दक्षिणकर्णे । ५।
ॐ ऊँ विघ्नहर्तृसरस्वतीभ्यां नमः वामकर्णे । ६।
ॐ ऋँ गणस्वाहाभ्यां नमः दक्षिणनासापुटे । ७।
ॐ ॠँ एकदन्तसुमेधाभ्यां नमः वामनासापुटे । ८।
ॐ ऌँ द्विदन्तकान्तिभ्यां नमः दक्षिणगण्डे । ९।
ॐ ॡँ गजवक्त्रकामिनीभ्यां नमः वामगण्डे । १०।
ॐ एँ निरञ्जनमोहिनीभ्यां नमः ऊर्ध्वोष्ठे । ११।
ॐ ऐँ कपर्दिनटीभ्यां नमः अधरोष्ठे । १२।
ॐ ओँ दीर्घजिह्वपार्वतीभ्यां नमः ऊर्ध्वदन्तपङ्क्तौ । १३।
ॐ औँ शङ्कुकर्णज्वालिनीभ्यां नमः अधोदन्तपङ्क्तौ । १४।
ॐ अँ वषभध्वजनन्दाभ्यां नमः शिरसि । १५।
ॐ अः गणेशसुरेशीभ्यां नमः मुखे । १६।
ॐ कँ गजेन्द्रकामरूपिणीभ्यां नमः दक्षिणबाहुमूले । १७।
ॐ खँ शूर्पकर्णोमाभ्यां नमः दक्षिणकूर्परे । १८।
ॐ गँ त्रिलोचनतेजोवतीभ्यां नमः दक्षिणमणिबन्धे । १९।
ॐ गँ लम्बोदरसत्याभ्यां नमः दक्षाङ्गुलिमूले । २०।
ॐ ङँ महानन्दविघ्नेशीभ्यां नमः दक्षाङ्गुल्यग्रे । २१।
ॐ चँ चतुर्मूर्तिस्वरूपिणीभ्यां नमः वामबाहुमूले । २२।
ॐ छँ सदाशिवकामदाभ्यां नमः वामकूर्परे । २३।
ॐ जँ आमोदमदजिह्वाभ्यां नमः वाममणिबन्धे । २४।
ॐ झँ दुर्मुखभूतिभ्यां नमः वामाङ्गुलिमूले । २५।
ॐ ञँ सुमुखभौतिकाभ्या नमः वामाङ्गुल्याग्रे । २६।
ॐ टँ प्रमोदसिताभ्यां नमः दक्षपादमूले । २७।
ॐ ठँ एकपादरमाभ्यां नमः दक्षिणजानुनि । २८।
ॐ डँ द्विजिह्वमहिषीभ्यां नमः दक्षिणगुल्फे । २९।
ॐ ढँ शूरभञ्जनीभ्यां नमः दक्षिणपादाङ्गुलिमूले । ३०।
ॐ णँ वीरविकरणाभ्यां नमः दक्षिणपादाङ्गुल्यग्रे । ३१।
ॐ तँ षण्मुखभृकुटीभ्यां नमः वामपादमूले । ३२।
ॐ थँ वरदलज्जाभ्यां नमः वामजानुनि । ३३।
ॐ दँ वामदेवदीर्घ घोणाभ्यां नमः वामगुल्फे । ३४।
ॐ घँ वक्रतुण्ड धनुर्धराभ्यां नमः वामपादाङ्गुलिमूले । ३५।
ॐ नँ द्विरदयामिनीभ्यां नमः वामपादाङ्गुल्यग्रे । ३६।
ॐ पँ सेनानीरात्रिभ्यां नमः दक्षिणपार्श्वे । ३७।
ॐ फँ कामान्धग्रामणीभ्यां नमः वामपार्श्वे । ३८।
ॐ बँ मत्तशशिप्रभाभ्यां नमः पृष्ठे । ३९।
ॐ भँ विमत्तलोललोचनाभ्यां नमः नाभौ । ४०।
ॐ मँ मत्तवाहनचञ्चलाभ्यां नमः जठरे । ४१।
ॐ यँ त्वगात्मभ्यां जटिदीप्तिभ्यां हृदि । ४२।
ॐ रँ अमृगात्मभ्यां मुण्डिसुभगाभ्यां नमः दक्षांसे । ४३।
ॐ लँ मांसात्मभ्यां खडिदुर्भगाभ्यां नमः ककुदि । ४४।
ॐ वँ मेदात्मभ्यां नमः वरेण्यशिवाभ्यां नमः वामासे । ४५।
ॐ शँ अस्थ्यात्मभ्यां वृषकेतनभगाभ्यां नमः हृदयादिदक्षहस्तान्तम् । ४६।
ॐ षँ मज्जात्मभ्यां भक्तिप्रियभगिनीभ्यां नमः हृदयादिवामहस्तान्तम् । ४७।
ॐ सँ शुक्रात्मभ्यां गणेशभोगिनीभ्यां नमः हृदयादिदक्षपादान्तम् । ४८।
ॐ हँ प्राणात्मभ्यां मेघनादसुभगाभ्यां नमः हृदयादिवामपादान्तम् । ४९।
ॐ ळँ शक्त्यात्मभ्यां व्याप्तिकालरात्रिभ्यां नमः जठरे । ५०।
ॐ क्षँ परमात्मभ्यां गणेश्वरकालिकाभ्यां नमः मुखे५१॥
इति सर्वगणेशमन्त्राङ्गभूतविघ्नेशादिकलामातृकान्यासः ॥
एवं कलान्यासं कृत्वा प्रयोगोक्तन्यासादिकं कुर्य्यात् ॥
ततः पीठादौ रचिते सर्वतोभद्रमण्डले गणेशमण्डले वा
मण्डूकादिपरतत्त्वान्तपीठदेवताः स्थापयेत् ॥
तथा च ॥
पुष्पाक्षतानादाय स्ववामभागे श्रीगुरुभ्यो नमः । १।
दक्षिणे गणपतये नमः । २।
मध्ये स्वेष्टदेवतायै नमः । ३।
इति नत्वा पीठमध्ये ॐ मँ मण्डूकाय नमः । ४।
ॐ कँ कालाग्निरुद्राय नमः । ५।
ॐ आँ आधारशक्तये नमः । ६।
ॐ कूँ कूर्माय नमः । ७।
ॐ अँ अनन्ताय नमः । ८।
ॐ पृँ पृथिव्यै नमः । ९।
ॐ क्षीँ क्षीरसागराय नमः । १०।
ॐ रँ रत्नद्वीपाय नमः । ११।
ॐ रँ रत्नवेदिकायै नमः । १२।
ॐ कँ कल्पवृक्षायै नमः । १३।
ॐ रँ रत्नवेदिकायै नमः । १४।
ॐ रँ रत्नसिंहासनाय नमः । १५।
इत्युपर्युपरि सम्पूज्य ॥
आग्नेय्यां ॐ धँ धर्म्माय नमः । १६।
नैरृत्यां ॐ ज्ञाँ ज्ञानाय नमः । १७।
वायव्ये ॐ वैँ वैराग्याय नमः । १८।
ऐशान्ये ॐ ऐँ ऐश्वर्याय नमः । १९।
पूर्व ॐ अँ अधर्माय नमः । २०।
दक्षिणे ॐ अँ अज्ञानाय नमः । २१।
पश्चिमे ॐ अँ अवैराग्याय नमः । २२।
उत्तरे ॐ अँ अनैश्वर्याय नमः । २३।
इति पूजयेत् ॥
ततः पुनः पीठमध्ये ॥
ॐ आँ आनन्दकन्दाय नमः । २४।
ॐ सँ संविन्नालाय नमः । २५।
ॐ सँ सर्वतत्त्वकमलासनाय नमः । २६।
ॐ प्रँ प्रकृतिमयपत्रेभ्यो नमः । २७।
ॐ विँ विकारमयकेसरेभ्यो नमः । २८।
ॐ पँ पञ्चाशद्वर्णाढ्यकर्णिकाभ्यो नमः । २९।
ॐ अँ अर्कमण्डलाय द्वादशकलात्मने नमः । ३०।
ॐ सोँ सोममण्डलाय षोडशकलात्मने नमः । ३१।
ॐ वँ वह्निमण्डलाय दशकलात्मने नमः । ३२।
ॐ सँ सत्त्वाय नमः । ३३।
ॐ रँ रजसे नमः । ३४।
ॐ तँ तमसे नमः । ३५।
ॐ आँ आत्मने नमः । ३६।
ॐ पँ परमात्मने नमः । ३७।
ॐ यँ अन्तरात्मने नमः । ३८।
ॐ ह्रीँ ज्ञानात्मने नमः । ३९।
ॐ मँ मायातत्त्वाय नमः । ४०।
ॐ कँ कलातत्त्वाय नमः । ४१।
ॐ विँ विद्यातत्त्वाय नमः । ४२।
ॐ पँ परतत्त्वाय नमः । ४३।
एवं पीठदेवताः सम्पूज्य नवपीठशक्तीः पूजयेत् ॥
तद्यथा ।
पूर्वे ॐ तीव्रायै नमः । १।
आग्नेय्यां ॐ चालिन्यै नमः । २।
दक्षिणे ॐ नन्दायै नमः । ३।
नैरृत्ये ॐ भोगदायै नमः । ४।
पश्चिमे ॐ कामरूपिण्यै नमः । ५।
वायव्ये ॐ उग्रायै नमः । ६।
उत्तरे ॐ तेजोवत्यै नमः । ७।
ऐशान्ये ॐ सत्यायै नमः । ८।
पीठमध्ये ॐ विघ्ननाशिन्यै नमः । ९।
इति पीठशक्तीः सम्पूज्य पात्रासादनं कुर्यात् ॥
अथ पात्रासादनप्रयोगः ॥
तत्र पात्रासादनं सर्वदेवोपयोगिपद्धतिमार्गेण सविस्तरं कृत्वा
अशक्तश्चेत्साधारणं कुर्यात् ॥
तत्र क्रमः ॥
तत्रादौ गन्धाक्षतादिपूजोपकरणानिस्वदक्षिणपार्श्वे संस्थाप्य जलार्थं
बृहत्पात्रं व्यजनं छत्रादर्शचामराणि वामपार्श्वे स्थापयित्वा
कलशस्थापनं कुर्यात् ॥
अथ कलशस्थापनप्रयोगः ॥
स्ववामभागे त्रिकोणमण्डलं कृत्वा जलेन प्रोक्ष्य त्रिकोणान्तर्मायां विलिख्या ॥
ॐ ह्रीँ आधार्शक्तयै नमः ।
इति सम्पूज्य ततो मूलेन नमः ।
इति त्रिपदाधारं प्रक्षाल्य त्रिकोणमध्ये संस्थाप्य तत्रसुदर्शनायास्त्राय
फट् इति मन्त्रेण कलशं प्रक्षाल्य आधारोपरि हस्तद्वयेन संस्थाप्य
रक्तवस्त्रमाल्यादिना भूषयित्वा मूलेन नमः ।
इति जलेनापूर्य ॥
ॐ भूर्भुवः स्वः वरुण इहागच्छ इहतिष्ठ ॥
इति वरुणमावाह्य स्वेष्टदेवं ध्यात्वा गन्धपुष्पैः सम्पूजयेत् ॥
इति कलशस्थापनम् ॥
अथ शङ्खस्थापनप्रयोगः ॥
स्वदक्षिणे कलशोक्तविध्यानुसारेणाधारं संस्थाप्य ॐ सुदर्शनायास्त्राय फट् ॥
इति शङ्खं प्रक्षाल्य आधारोपरि संस्थाप्य मूलेन नमः इति जलेनापूर्य ॥
प्रणवेन गन्धादिभिः सम्पूज्याभिमन्त्रयेत् ॥
``ॐ शङ्खादौ चन्द्रदैवत्यं कुक्षौ वरुणदेवता ।
पृष्ठे प्रजापतिश्चैवमग्रे गङ्गा सरस्वती ॥ १॥
त्रैलोक्ये तानि तीर्थानि वासुदेवस्य चाज्ञया ।
शङ्खे तिष्ठन्ति विप्रेन्द्र तस्माच्छङ्खं प्रपूजयेत् ॥''
इत्यभिमन्त्र्य प्रार्थयेत् ॥
``ॐ त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे ।
निर्मितः सर्वदेवैश्च पाञ्चजन्य नमोऽस्तु ते ॥ २॥
पाञ्चजन्याय विद्महे पावमानाय धीमहि ।
तन्नः शङ्खः प्रचोदयात् ॥'' इति प्रार्थ्य शङ्खमुद्रां प्रदर्शयेत् ।
इति शङ्खस्थापनम् ॥
घण्टास्थापनप्रयोगः
अथ घण्टास्थापनप्रयोगः ।
स्ववामभागे घण्टां संस्थाप्य ।
``आगमार्थं तु देवानां गमनार्थं तु रक्षसाम् ।
घण्टानादं प्रकुर्वीत पश्चाद्धण्टां प्रपूजेत् ॥ १॥
``ॐ भूर्भुवः स्वः गरुडाय नमः आवाहयामि ।
सर्वोपचारार्थं गन्धाक्षतपुष्पाणि समर्पयामि नमस्करोमि ॥
इत्यावाह्य ॥
``ॐ जगद्ध्वनिमन्त्रमातः स्वाहा ॥''
इति मन्त्रेण घण्टास्थितगरुडं घण्टां च सम्पूज्य प्रणम्य गरुडमुद्रां प्रदर्शयेत् ॥
इति घण्टास्थापनम् ॥
ततः शङ्खात्पूर्वादिप्रादक्षिण्येन पाद्यार्घ्याचमनीयमधुपर्कस्नानार्थं
पञ्चपात्राणि अशक्तश्चेत्तर्हि एकमेव पात्रं सन्थाप्य सामान्यविधिना पूजयेत् ॥
एवं पूजापात्राणि सम्पाद्य ॥
प्राणप्रतिष्ठां
प्रयोगोक्ते यन्त्रे मूर्तौ वा अग्न्युत्तारणपूर्वकं प्राणान्प्रतिष्ठापयेत् ॥
अथ प्राणप्रतिष्ठाप्रयोगः ॥
आचम्य देशकालौ सङ्कीर्त्य ममेत्यादिअमुकगणपतिर्देवतानूतनयन्त्रे
(मूर्तौ वा) प्राणप्रतिष्ठां करिष्ये ॥
इति सङ्कल्प्य ॥
अस्य श्रीप्राणप्रतिष्टामन्त्रस्य ब्रह्मविष्णुमहेश्वरा ऋषयः ।
ऋग्यजुःसामानिच्छन्दांसि ।
त्रियामयवपुःप्राणाख्या देवता । आँ बीजम् । ह्रीँ शक्तिः । क्रोँ कीलकम् ।
अस्मिन्नूतनयन्त्रे अस्यां (नूतनमूर्तौ वा) प्राणप्रतिष्ठापने विनियोगः ।
इति जलं क्षिपेत् ॥
करेणाच्छाद्य ।
ॐ आँ ह्रीँ क्रोँ यँ रँ लँ वँ शँ षँ सँ हँ सः सोहँ ।
अस्य श्रीमदुच्छिष्टगणपतेः सपरिवारयन्त्रस्य (मूर्तेर्वा) प्राणा इह प्राणाः ॥ १॥
पुनः ॐ आँ ह्रीँ क्रोँ यँ रँ लँ वँ शँ षँ सँ हँ सः सोहँ ।
अस्य श्रीमदुच्छिष्टगणपतेः सपरिवारयन्त्रस्य (मूर्तेर्वा) जीव इह स्थितः ॥ २॥
ॐ आँ ह्रीँ क्रोँ यँ रँ लँ वँ शँ षँ सँ हँ सः सोहँ ।
अस्य श्रीमदुच्छिष्टगणपतेः सपरिवारयन्त्रस्य (मूर्तेर्वा) सर्वेन्द्रियाणीह स्थिथानि ॥ ३॥
ॐ आँ ह्रीँ क्रोँ यँ रँ लँ वँ शँ षँ सँ हँ सः सोहँ ।
अस्य श्रीमदुच्छिष्टगणपतेः सपरिवारयन्त्रस्य (मूर्तेर्वा)
वाङ्मनस्त्वक्चक्षुः श्रोत्रजिह्वाघ्राणपाणिपादपायूपस्थानि इहैवागत्य
सुखं चिरं तिष्ठन्तु स्वाहा ॥ ४॥
इति प्राणान्प्रतिष्ठाप्य गर्भाधानादिपञ्चदशसंस्कारसिद्धये पञ्चदशप्रणवावृत्तीः कृत्वा ।
अनेन श्रीमदुच्छिष्टगणपतेः सपरिवारयन्त्रस्य (मूर्तेर्वा)
गर्भाधानादिपञ्चदशसंस्कारान्सम्पादयामि इति वदेत् ॥
एवं प्राणप्रतिष्ठाप्रयोगः ॥
तत आवाहनादिपूजां कुर्यात् ।
तद्यथा ॥
अथावाहनम् ।
अक्षतानादाय
``देवेश भक्तिसुलभ परिवारसमन्वित ।
यावत्त्वां पूजयिष्यामि तावद्देव इहावह ॥ १॥
आगच्छ भगवन्देव स्थाने चात्र स्थितोभव ।
यावत्पूजां करिष्यामि तावत्त्वं सन्निधौ भव ॥ २॥''
मूलं पठित्वा ॐ भूर्भुवः स्वः श्रीमदुच्छिष्टगणपतिर्देवतामावाहयामि ।
इत्यावाहनम् ॥ १॥''
``तवेयं महिमामूर्तिस्तस्यां त्वां सर्वग प्रभो ।
भक्तिस्नेहसमाकृष्टदीपवत्स्थापयाम्यहम् ॥ १॥''
मूलं पठित्वा ॐ भूर्भुवः स्वः श्रीमदुच्छिष्टगणपतिदेव इह तिष्ठ ।
इति स्थापनम् ॥ २॥
``अनन्या तव देवेश मूर्तिशक्तिरियं प्रभो ।
सान्निध्यं कुरु तस्यां त्वं भक्तानुग्रहतत्पर ॥ १॥''
मूलं पठित्वा ॐ भूर्भुवः स्वः श्रीमदुच्छिष्टगणपतिदेव इह सन्निधेहि ।
इति सन्निधापनम् ॥ ३॥
``आज्ञया तव देवेश कृपाम्भोधे गुणाम्बुधे ।
आत्मानन्दैकतृप्तं त्वां निरुणध्मि पितर्गुरो ॥''
मूलं पठित्वा ॐ भूर्भुवः स्वः श्रीमदुच्छिष्टगणपतिदेव इह सन्निरुध्य ।
इति सन्निरोधनम् ॥ ४॥
``अज्ञानाद्दुर्मनस्त्वाद्वा वैकल्यात्साधनस्य च ।
यदपूर्णं भवेत्कृत्यं तदप्यभिमुखो भव ॥ १॥''
मूलं पठित्वा ॐ भूर्भुवः स्वः श्रीमदुच्छिष्टगणपतिदेव इह सम्मुखो भव ।
इति सम्मुखीकरणम् ॥ ५॥
``अभक्तवाङ्मनश्चक्षुः श्रोत्रदूरातिगद्युते ।
स्वतेजःपञ्जरेणाशु वेष्टितो भव सर्वतः ॥ १॥''
मूलं पटित्वा ॐ भूर्भुवः स्वः श्रीमदुच्छिष्टगणपतिदेव अवगुण्ठिथो भवः ।
इत्यवगुण्ठनम् ॥ ६॥
``यस्य दर्शनमिच्छन्ति देवाः स्वाभीष्टसिद्धये ।
तस्मै ते परमेशाय स्वागतं स्वागतं च ते ॥ १॥''
मूलं पठित्वा ॐ भूर्भुवः स्वः श्रीमदुच्छिष्टगणपतये नमः सुस्वागतं समर्पयामि ।
इति सुस्वागतम् ॥ ७॥
``देवदेव महाराजप्रियेश्वर प्रजापते ।
आसनं दिव्यमीशान दास्येऽहं परमेश्वर ॥ १॥
अपराधो भवत्येव सेवकस्य पदेपदे ।
कोऽपरः सहतां लोके केवलं स्वामिनं विना ॥ २॥''
मूलं पठित्वा ॐ भूर्भुवः स्वः श्रीमदुच्छिष्टगणपतये नमः आसनं समर्पयामि ।
इत्यासनम् ॥ ८॥
ततः पार्थयेत् ॥
तत्र मन्त्रः ॥
``स्वागतं देवदेवेश मद्भाग्यात्त्वमिहागतः ।
प्राकृतं त्वं च दृष्वा मां बालवत्परिपालय ॥ १॥''
मूलं पठित्वा ॐ भूर्भुवः स्वः श्रीमदुच्छिष्टगणपतये नमः प्रार्थनां समर्पयामि नमस्करोमि ।
इति प्रार्थना ॥ ९॥
अथ पाद्यादिपूजाप्रयोगः ॥
``यद्भक्तिलेशशसम्पर्कात्परमानन्दसम्भवः ।
तस्मै ते चरणाब्जाय पाद्यं शुद्धाय कल्पये ॥ १॥''
मूलं पठित्वा ॐ भूर् भुवः स्वः श्रीमदुच्छिष्टगणपतये नमः पाद्यं समर्पयामि ।
इति पाद्यम् ॥ १०॥
तापत्रयहरं दिव्यं परमानन्दलक्षणम् ।
तापत्रयविनिर्मुक्त तवार्घ्यं कल्पयाम्यहम् ॥ १॥''
मूलं पठित्वा ॐ भूर्भुवः स्वः श्रीमदुच्छिष्टगणपतये नमः इदमर्घ्यं समर्पयामि ।
इत्यर्घ्यः ॥ ११॥
``वेदानामपि देवाय वेदानां देवतात्मने ।
आचामं कल्पयामीश शुद्धानां शुद्धि हेतवे ॥ १॥''
मूलं पठित्वा ॐ भूर्भुवः स्वः श्रीमदुच्छिष्टगणपतये नमः आचमनीयं समर्पयामि ।
इत्याचमनम् ॥ १२॥
इत्याचमनं दत्त्वा मधुपर्कपञ्चामृतस्नानादि च सर्वदेवोपयोगिपद्धतिमार्गेण कुर्यात् ॥
अशक्तश्चेज्जलस्नानं मधुस्नानं शुद्दोदकस्नानं च कुर्यात् ॥
तद्यथा ॥
`` गङ्गासरस्वतीरेवापयोष्णी नर्मदाजलैः ।
स्नापितोऽसि मया देव तथा शान्तिं कुरुष्वमे ॥ १॥''
मूलं पठित्वा ॐ भूर्भुवःस्वः श्रीमदुच्छिष्टगणपतये नमः जलस्नानं समर्पयामि ।
इति जलस्नानम् ॥ १३॥
``तरुणपुष्पसद्भूतं सुस्वादु मधुरं मधु ।
तेजः पुष्टिकरं दिव्यं स्नानार्थं प्रति गृह्यताम् ॥ १॥''
मूलं पठित्वा ॐ भूर् भुवः स्वः श्रीमदुच्छिष्टगणपतये नमः मधुस्नानं समर्पयामि ॥ १४॥
``गङ्गासरस्वतीरेवापयोष्णी नर्मदाजलैः ।
स्नापितोऽसि मया देव तथा शान्ति कुरुष्व मे ॥ १॥''
मूलं पठित्वा ॐ भूर् भुवः स्वः श्रीमदुच्छिष्टगणपतये नमः शुद्धोदकस्नानं समर्पयामि ।
इति शुद्धोदकस्नानम् ॥ १५॥
एवं स्नानं समर्पयाचमनं दद्यात् ॥
ततः ।
``सर्वभूषादिकेसाम्ये लोकलज्जानिवारणे ।
मयैवापादिते तुभ्यं वाससी प्रतिगृह्यताम् ॥ १॥''
मूलं पठित्वा ॐ भूर् भुवः स्वः श्रीमदुच्छिष्टगणपतये नमः रक्तवस्त्रं समर्पयामि ।
इति रक्तवस्त्रम् ॥ १६॥
``नवभिस्तन्तुभिर्युक्तं त्रिगुणं देवतामयम् ।
उपवीतं चोत्तरीयं गृहाण परमेश्वर ॥ १॥''
मूलं पठित्वा ॐ भूर्भुवःस्वः श्रीमदुच्छिष्टगणपतये नमः यज्ञोपवीतं समर्पयामि ।
इति यज्ञोपवीतम् ॥ १७॥
``श्रीखण्डं चन्दनं दिव्यं गन्धाढ्यं सुमनोहरम् ।
विलेपनं सुरश्रेष्ट चन्दनं प्रतिगृह्यताम् ॥ १॥''
मूलं पठित्वा ॐ भूर्भुवःस्वः श्रीमदुच्छिष्टगणपतये नमः गन्धं समर्पयामि ॥
अङ्गुष्ठौ कनिष्ठामूललग्नौ गन्धमुद्रा ।
इति गन्धम् ॥ १८॥
``अक्षताश्च सुरश्रेष्ट कुङ्कुमाक्ताः सुशोभिताः ।
मया निवेदिता भक्त्या गृहाण परमेश्वर ॥ १॥''
मूलं पठित्वा ॐ भूर्भुवःस्वः श्रीमदुच्छिष्टगणपतये नमः अक्षतान्समर्पयामि ।
सर्वाङ्गुलीभिर्दद्यात् ।
इत्यक्षताम् ॥ १९॥
``माल्यादीनि सुगन्धीनि मालत्यादीनि वै प्रभो ।
मयानीतानि पुष्पाणि गृहाण परमेश्वर ॥ १॥''
मूलं पठित्वा ॐ भूर्भुवःस्वः श्रीमदुच्छिष्टगणपतये नमः रक्तपुष्पं समर्पयामि ॥
तर्जन्यावङ्गुष्ठमूलमग्ने पुष्पमुद्रा ।
इति पुष्पं
(पुष्पं पत्रं फलं देवेन च दद्यादधोमुखम् ।
पुष्पाञ्जलौ न तद्दोषस्तधा पर्य्युषितस्य च ॥) ॥ २०॥
एवं पुष्पान्तं पूजयित्वा प्रयोगोक्तावरणपूजां च कृत्वा धूपादिपूजनं कुर्यात् ॥
॥
अथ धूपादिपूजाप्रयोगः ॥
फडिति धूपपात्रं सम्प्रोक्ष्य नम इति गन्धपुष्पाभ्यां सम्पूज्य पुरतो
निधाय रं इति वह्निबीजेन उपरि अग्निं संस्थाप्य तदुपरि दशाङ्गं
दत्त्वा घण्टां च नादयन् ॥
``वनस्पतिरसोद्भूतो गन्धाढ्यो गन्ध उत्तमः ।
आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥ १॥''
मूलं पठित्वा ॐ भूर्भुवःस्वः श्रीमदुच्छिष्टगणपतये नमः धूपं समर्पयामि ॥
इति पठित्वा देवस्य वामभागे धूपपात्रं संस्थाप्य
तर्जनीमूलयोरङ्गुष्ठयोगो धूपमुद्रा तां प्रदर्शयेत् ।
इति धूपम् ॥ २१॥
ततो दीपपात्रं गोघृतेनापूर्य वर्णाक्षरतन्तुभिर्वार्तिं निक्षिप्य
प्रणवेन प्रज्वाल्य घण्टां वादयन् मन्त्रं पठेत् ॥
``सुप्रकाशो महादीपः सर्वतस्तिमिरापहः ।
सबाह्याभ्यन्तरं ज्योतिर्दीपोयं प्रतिगह्यताम् ॥ १॥''
मूलं पठित्वा ॐ भूर्भुवःस्वः श्रीमदुच्छिष्टगणपतये नमः दीपं समर्पयामि ॥
इति पठित्वा देवस्य दक्षिणभागे निधाय मध्यमे अङ्गुष्ठलग्ने दीपमुद्रा तां प्रदर्शयेत् ।
इति दीपम् ॥ २२॥
अथ नैवेद्यम् ॥
देवस्याग्रे जलेन चतुरस्रं मण्डलं कृत्वा स्वर्णादिनिर्मितं
भोजनपात्रं संस्थाप्य तन्मध्ये मोदकं गुडमिश्रितपायसं वा
निधाय ॐ यँ इति वायु बीजेन द्वादशवाराभिमन्त्रिताऽर्घजलेन
सम्प्रोक्ष्य मूलेन संवीक्ष्य अधोमुखदक्षिणहस्तोपरि तद्दृशं
वामं नैवेद्येनाच्छाद्य ॐ यँ इति वायुबीजं षोडशधा सञ्जप्य
वायुना तद्गतदोषान् संशोष्य दक्षिणकरतले ॐ रँ इत्यग्निबीजं
विचिन्त्य तत्पृष्ठलग्नं वामकरतलं कृत्वा नैवेद्यं प्रदर्श्य
ॐ रँ इति वह्निबीजेन षोडशवारं सञ्जप्य तदुत्पन्नाग्निना तद्दोषं
दग्ध्वा वामकरतले ॐ वँ इति अमृतबीजं विचिन्त्य तत्पृष्ठलग्ने
दक्षिणकरतलं कृत्वा नैवेद्यं प्रदर्श्य ॥
पुनः ॐ वँ इति सुधाबीजं षोडशवारं जपित्वा तदुत्थामृतधारया
प्लावितं विभाव्य मूलमन्त्रेण प्रोक्ष्य धेनुमुद्रां प्रदर्श्य
मूलेनाष्टधाभिमन्त्र्य गन्धपुष्पाभ्यां सम्पूज्य वामाङ्गुष्ठेन
नैवेद्यपात्रं स्पृष्ट्वा दक्षिणकरेण जलं गृहीत्वा -
``सत्पात्रसिद्धिं सुहविर्विविधानेकभक्षणम् ।
निवेदयामि देवेश सानुगाय गृहाण तत् ॥ १॥''
मूलं पठित्वा ॐ भूर्भुवः स्वः सङ्गाय सपरिवाराय
श्रीमदुच्छिष्टगणपतये नमः नैवेद्यं समर्पयामि इति जलमुत्सृज्य
अनामामूलयोरङ्गुष्ठयोगे नैवेद्यमुद्रा तां प्रदर्शयेत् ।
इति नैवेद्यम् ॥ २३॥
अथान्तःपटम् ॥
``ब्रह्मेशाद्यैः सरसमभितः सोपविष्टैः समन्ताच्छिञ्जद्वालव्यजनैकरैर्वीज्यमानः सखीभिः ।
नर्मक्रीडाप्रहसनपरान्पङ्क्तिभोक्तॄन्हसन्वै भुक्ते पात्रे कनकघटिते षड्साञ्छ्रीगणेशः ॥ १॥
शालीभक्तं सुपक्वं शिशिरकरसितं पायसापूपसूपं लेह्यं पेयं
च चोष्यं सितममृतफलं घारिकाद्यं सुखाद्यम् ।
आज्यं प्राज्यं समोज्यं नयनरुचिकरं राजिकैलामरीचस्वादीयः
शाकराजीपरिकरममृताहारजोषं जुषस्व ॥ २॥'' इत्यन्तःपटम् ।
॥ २४॥
``नमस्ते देवदेवेश सर्वतृप्तिकरं परम् ।
अखण्डानन्दसम्पूर्ण गृहाण जलमुत्तमम् ॥ १॥''
मूलं पठित्वा ॐ भूर् भुवः स्वः श्रीमदुच्छिष्टगणपतये नमः जलं समर्पयामि ।
इति जलम् ॥ २५॥
पुनर्गण्डूषार्थं जलं दत्त्वा मूलेन शुद्धाचमनं च दद्यात् ॥
अथ ताम्बूलम् ॥
``पूगीफलं महद्दिव्यं नागवल्लीदलैर्युतम् ।
एलाचूर्णादिभिर्युक्तं ताम्बूलं प्रतिगृह्यताम् ॥ १॥''
मूलं पठित्वा ॐ भूर्भुवःस्वः श्रीमदुच्छिष्टगणपतये नमः ताम्बूलं समर्पयामि ।
इति ताम्बूलम् ॥ २६॥
अथ फलम् ॥
``इदं फलं मया देव स्थापितं पुरतस्त्व ।
तेन मे सफलावाप्तिर्भवेज्जन्मानि जन्मानि ॥ १॥''
मूलं पठित्वा ॐ भूर्भुवःस्वः श्रीमदुच्छिष्टगणपतये नमः फलं समर्पयामि ।
इति फलम् ॥ २७॥
शक्तश्चेत् क्षेत्रादिदक्षिणापर्यन्तं सर्वदेवोपयोगिपद्धतिमार्गेण दत्त्वा आरात्रिकं कुर्य्यात् ॥
अथ कर्पूररात्रिकम् ॥
``कदलीगर्भसम्भूतं कर्पूरं च प्रदीपितम् ।
आरात्रिकमहं कुर्वे पश्य मे वरदो भव ॥ १॥''
मूलं पठित्वा ॐ भूर्भुवःस्वः श्रीमदुच्छिष्टगणपतये नमः कर्पूरारात्रिकं समर्पयामि ।
इति पठित्वा मूलेन देवोपरि नेत्रादिपादपर्यन्तं नववारं त्रिवारं वा भ्रामयेत् घण्टां च नादयेत् ।
इति कर्पूरारात्रिकम् ॥ २८॥
अथ प्रदक्षिणा ॥
``यानि कानि च पापानि जन्मान्तरकृतानि वै ।
तानि सर्वाणि नश्यन्तु प्रदक्षिणपदेपदे ॥ १॥'' इति मन्त्रेण तिस्रः प्रदक्षिणा दद्यात् ॥
मूलं पठित्वा ॐ भूर्भुवःस्वः श्रीमदुच्छिष्टगणपतये नमः प्रदक्षिणां समर्पयामि ।
इति प्रदक्षिणा ॥ २९॥
अथ पुष्पाञ्जलिः ॥
``नानासुगन्धपुष्पाणि यथाकालोद्भवानि च ।
पुष्पाञ्जलिं मया दत्तं गृहाण परमेश्वर् ॥ १॥''
मूलं पठित्वा ॐ भूर्भुवःस्वः श्रीमदुच्छिष्टगणपतये नमः पुष्पाञ्जलिं समर्पयामि ।
इति पुष्पाञ्जलिः ॥ ३०॥
अथ साष्टाङ्गप्रणामः ।
``प्रपन्नं पाहि मामीश भीतं मृत्युग्रहणर्वात् ॥'' इति वदन् साष्टाङ्गप्रणामे नाम निवेदयेत् ॥ ३१॥
तत्स्तुतिपाठेण देवं स्तुत्वा बद्धाञ्जलिपूर्वकं क्षमापयेत् ॥
``ज्ञानतोऽज्ञानतो वाथ यन्मया क्रियतेऽशिवम् ।
मम कृत्यमिदं सर्वमिति देव क्षमस्वमे ॥ १॥'' अपराधसहस्राणि क्रियन्तेऽहनिर्शं मया ।
दासोहमिति मां मत्त्वा क्षमस्व परमेश्वर ॥ २॥
अपराधो भवत्येव सेवकस्य पदेपदे ।
कोऽपरः सहतां लोके केवलं स्वामिनं विना ॥ ३॥
भूमौस्खलितपादानां भूमिरेवावलम्बनम् ।
त्वयि जाता पराधानां त्वमेव शरणं शिव ॥ ४॥'' इति बद्धाञ्जलि पूर्वकं क्षमापनम् ॥३२॥
अथ प्रार्थना ``यदुक्तं यदि भावेन पत्रं पुष्पं फलं जलम् ।
निवेदितं च नैवेद्यं गृहाण त्वनुकम्पया ॥ १॥'' इति प्रार्थ्य देवस्य दक्षिणकरे किञ्चिज्जलं दद्यात् ।
इति प्रार्थना ॥ ३३॥
ततः पश्चात्सर्वदेवोपयोगिपद्धतिमार्गेण मालायाः संस्कारान् कुर्यात् ॥
अशक्तश्चेत्साधारणसंस्कारं कुर्यात् ॥
तथा च जपमालामानीय क्वचित्पात्रे वामहस्तेनाच्छाद्य
मूलेनार्घ्योदकेनाभ्युक्ष्य
``ॐ मालेमाले महामाये सर्वशक्ति स्वरूपिणि ।
चतुर्वर्गस्त्वयि न्यस्तस्तस्मात्त्वं सिद्धिदा भव ॥ १॥''
इत्यनेन ग न्ध पुष्पाभ्यां सम्पूज्य ततो देवतानिवेदितमोदकं ताम्बूलं
वा स्वयं भुक्ता पुनः ``अविघ्नं कुरु माले त्वं सर्वकार्येषु सर्वदा ॥''
इति मन्त्रेण दक्षिणहस्ते मालामादाय हृदये धारयन् स्वेष्टदेवतां
ध्यात्वा मध्यमाङ्गुलिमध्यपर्वाणि संस्थाप्य ज्येष्ठाग्रेण भ्रामयित्वा
एकाग्रचित्तो मन्त्रार्थं स्मरन् यथाशक्ति मूलमन्त्रं जपेत् ॥
जपान्ते - ``ॐ त्वं माले सर्वदेवानां प्रीतिदा शुभदा मम ।
शुभं कुरुष्व मे भद्रे यशो वीर्यं च देहि मे ॥ १॥''
ॐ ह्रीँ सिद्ध्यै नमः ॥
इति मालां शिरसि निधाय गोमुखीं रहसि स्थापयेत् ॥
नाशुचिः स्पर्शयेत् ।
नान्यस्मै दद्यात् ।
अशुचिस्थाने न निधापयेत् ।
स्वयोनिद्गाप्तां कुर्यात् ।
ततः कवचस्तोत्रसहस्रनामादिकं पठित्वा पुनः मूलमन्त्रस्य ऋष्यादि
न्यासं करन्यासं हृदयादिषडङ्गन्यासं च कृत्वा पञ्चोपचारैः
सम्पूज्य पुष्पाञ्जलिं दद्यात् ।
ततः अर्घोदकेन चुलुकमादाय -
``ॐ गुह्यातिगुह्यगोप्ता त्वं गृहाणास्म्त्कृतं जपम् ।
सिद्धिर्भवतु मे देव त्वत्प्रसादात्त्वसि स्थिथिः ॥ १॥''
ॐ इतः पूर्वं प्राणबुद्धिदेहधर्माधिकारतो
जाग्रत्स्वप्नसुषुप्तितुर्यावस्थासु मनसा वाचा कर्मणा हस्ताभ्यां
पद्भ्यामुदरेण शिश्ना यत्स्मृतं यदुक्तं यत्कृतं तत्सर्वं
ब्रह्मार्पणं भवतु स्वाहा ॥
मां मदीयं च सकलं श्रीमदुच्छिष्टगणपतिदेवतायै समर्पयामि नमः ॥
ॐ तत्सदिति ब्रह्मार्पणं भवतु ॥
इति देवदक्षिणकरे जपसमर्पण जलं दत्त्वा कृताञ्जलिपूर्वकं क्षमापनं कुर्यात् ॥
अथ क्षमापनम् ॥
`` आवाहनं न जानामि न जानामि विसर्जनम् ।
पूजाभागं न जानामि त्वं गतिः परमेश्वर ॥ १॥
कर्मणा मनसा वाचा त्वत्तो नान्या गतिर्मम ।
अन्तश्चरसि भूतानामिष्टस्त्वं परमेश्वर ॥ २॥
अन्यथा शरणं नास्ति त्वमेव शरणं मम ।
तस्मात्कारुण्यभावेन रक्षस्व परमेश्वर ॥ ३॥
शतयोनि सहस्राणां सहस्रेषु व्रजाम्यहम् ।
तेषु चेष्टाचला भक्तिरच्युतास्तु सदा त्वयि ॥ ४॥
गतं पापं गतं दुःखं गतं दारिद्र्यमेव च ।
आगता सुखसम्पत्तिः पुण्याच्च तव दर्शनात् ॥ ५॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वर ।
यत्पूजितं मया देव परिपूर्णं तदस्तु मे ॥ ६॥
यदक्षरपदभ्रष्टं मात्राहीनं च यद्भवेत् ।
तत्सर्वं क्षम्य तां देव प्रसीद परमेश्वर ॥ ७॥
देवो दाता च भोक्ता च देवरूपमिदं जगत् ।
देवं जपति सर्वत्रयो देवः सोहमेव हि ॥ ८॥
क्षमस्व देवदेवेश क्षम्यते भुवनेश्वर ।
तव पादाम्बुजे नित्यं निश्चला भक्तिरस्तु मे'' ॥ ९॥
इति कृताञ्जलिः प्रार्थयित्वा ततः शङ्खमुद्धृत्य देवोपरि भ्रामयित्वा ॥
``साधु वासाधु वा कर्म यद्यदाचरितं मया ।
तत्सर्वं कृपया देव गृहाणाराधनं मम'' ॥ १॥
इत्युच्चरन्देवस्य दक्षिणहस्ते किञ्चिज्जलं दत्त्वा प्राग्वदर्घ्यं
देवशिरसि दत्त्वा शङ्खं यथास्थाने निवेश्य मुलेन
देवोच्छिष्टनैवेद्यादिकं शिरसि धृत्वा देवभक्तेषु विभज्य
स्वयं भुक्ता बलीत्यादिकं गतसारनैवेद्यं च तदुच्छिष्टभोजिने
इति निवेदयेत् ॥
अथ विसर्जनम् ॥
``गच्छगच्छ परस्थाने स्वस्थाने परमेश्वर ।
यं हि ब्रह्मादयो देवा न विन्दुःपरमं पदम्'' ॥ १॥
इत्यक्षतान्निक्षिप्य देवंस्वहृदयमध्ये स्थापयेत् ॥
तद्यथा -
``तिष्ठ तिष्ठ परस्थाने स्वस्थाने परमेश्वर ।
यत्र ब्रह्मादयोदेवाः सर्वे तिष्ठन्ति मे हृदि'' ॥ १॥
इति देवं हृदये संस्थाप्य मानसोपचारैः सम्पूज्य स्वात्मानं देवरूपं भावयन् यथासुखं विहरेत् ॥
अयं सर्वगणपतिपूजाक्रमः साधारणः ॥
इति श्रीमदुच्छिष्टगणपत्युपासनापञ्चरत्ने
श्रीमदुच्छिष्टगणपतिपूजापद्धति निरूपणं नाम द्वितीय रत्नम् ॥ २॥
श्रीमदुच्छिष्टगणेशकवचम्
अथ श्रीमदुच्छिष्टगणेशकवचम् ॥
देव्युवाच ॥
देवदेव जगन्नाथ सृष्टिस्थितिलयात्मक ।
विना ध्यानं विना मन्त्रं विना होमं विना जपम् ॥ १॥
येन स्मरणमात्रेण लभ्यते चाशु चिन्तितम् ।
तदेव श्रोतुमिच्छामि कथयस्व जगत्प्रभो ॥ २॥
ईश्वर उवाच ॥
श्रुणु देवी प्रवक्ष्यामि गुह्याद्गुह्यतरं महत् ।
उच्छिष्टगणनाथस्य कवचं सर्वसिद्धिदम् ॥ ३॥
अल्पायासैर्विना कष्टैर्जपमात्रेण सिद्धिदम् ।
एकान्ते निर्जनेऽरण्ये गह्वरे च रणाङ्गणे ॥ ४॥
सिन्धुतीरे च गङ्गायाः कूले वृक्षतले जले ।
सर्वदेवालये तीर्थे लब्ध्वा सम्यग्जपं चरेत् ॥ ५॥
स्नानशौचादिकं नास्ति नास्ति निर्वन्धनं प्रिये ।
दारिद्र्यान्तकरं शीघ्रं सर्वतत्त्वं जनप्रिये ॥ ६॥
सहस्रशपथं कृत्वा यदि स्नेहोऽस्ति मां प्रति ।
निन्दकाय कुशिष्याय खलाय कुटिलाय च ॥ ७॥
दुष्टाय परशिष्याय घातकाय शठाय च ।
वञ्चकाय वरघ्नाय ब्राह्मणीगमनाय च ॥ ८॥
अशक्ताय च क्रूराय गुरूद्रोहरताय च ।
न दातव्यं न दातव्यं न दातव्यं कदाचन ॥ ९॥
गुरूभक्ताय दातव्यं सच्छिष्याय विशेषतः ।
तेषां सिध्यन्ति शीघ्रेण ह्यन्यथा न च सिध्यति ॥ १०॥
गुरूसन्तुष्टिमात्रेण कलौ प्रत्यक्षसिद्धिदम् ।
देहोच्छिष्टैः प्रजप्तव्यं तथोच्छिष्टैर्महामनुः (प्रजप्तव्य इति शेषः) ॥ ११॥
आकाशे च फलं (दं) प्राप्तं (चेदं) नान्यथा वचनं मम ।
एषा राजवती विद्या विना पुण्यं न लभ्यते ॥ १२॥
अथ वक्ष्यामि देवेशि कवचं मन्त्रपूर्वकम् ।
येन विज्ञातमात्रेण राजभोगफलप्रदम् ॥ १३॥
ऋषिर्मे गणकः पातु शिरसि च निरन्तरम् ।
त्राहि मां देवि गायत्रीछन्दो ऋषिः सदा मुखे ॥ १४॥
हृदये पातु मां नित्यमुच्छिष्टगणदेवता ।
गुह्ये रक्षतु तद्बीजं स्वाहा शक्तिश्च पादयोः ॥ १५॥
कामकीलकसर्वाङ्गे विनियोगश्च सर्वदा ।
पार्श्वर्द्वये सदा पातु स्वशक्तिं गणनायकः ॥ १६॥
शिखायां पातु तद्बीजं भ्रूमध्ये तारबीजकम् ।
हस्तिवक्त्रश्च शिरसी लम्बोदरो ललाटके ॥ १७॥
उच्छिष्टो नेत्रयोः पातु कर्णौ पातु महात्मने ।
पाशाङ्कुशमहाबीजं नासिकायां च रक्षतु ॥ १८॥
भूतीश्वरः परः पातु आस्यं जिह्वां स्वयंवपुः ।
तद्बीजं पातु मां नित्यं ग्रीवायां कण्ठदेशके ॥ १९॥
गम्बीजं च तथा रक्षेत्तथा त्वग्रे च पृष्ठके ।
सर्वकामश्च हृत्पातु पातु मां च करद्वये ॥ २०॥
उच्छिष्टाय च हृदये वह्निबीजं तथोदरे ।
मायाबीजं तथा कट्यां द्वावूरू सिद्धिदायकः ॥ २१॥
जङ्घायां गणनाथश्च पादौ पातु विनायकः ।
शिरसः पादपर्यन्तमुच्छिष्टगणनायकः ॥ २२॥
आपादमस्तकान्तं च उमापुत्रश्च पातु माम् ।
दिशोऽष्टौ च तथाकाशे पाताले विदिशाष्टके ॥ २३॥
अहर्निशं च मां पातु मदचञ्चललोचनः ।
जलेऽनले च सङ्ग्रामे दुष्टकारागृहे वने ॥ २४॥
राजद्वारे घोरपथे पातु मां गणनायकः ।
इदं तु कवचं गुह्यं मम वक्त्राद्विनिर्गतम् ॥ २५॥
त्रैलौक्ये सततं पातु द्विभुजश्च चतुर्भुजः ।
बाह्यमभ्यन्तरं पातु सिद्धिबुद्धिर्विनायकः ॥ २६॥
सर्वसिद्धिप्रदं देवि कवचमृद्धिसिद्धिदम् ।
एकान्ते प्रजपेन्मन्त्रं कवचं युक्तिसंयुतम् ॥ २७॥
इदं रहस्यं कवचमुच्छिष्टगणनायकम् ।
सर्ववर्मसु देवेशि इदं कवचनायकम् ॥ २८॥
एतत्कवचमाहात्म्यं वर्णितुं नैव शक्यते ।
धर्मार्थकाममोक्षं च नानाफलप्रदं नृणाम् ॥ २९॥
शिवपुत्रः सदा पातु पातु मां सुरार्चितः ।
गजाननः सदा पातु गणराजश्च पातु माम् ॥ ३०॥
सदा शक्तिरतः पातु पातु मां कामविह्वलः ।
सर्वाभरणभूषाढ्यः पातु मां सिन्दूरार्चितः ॥ ३१॥
पञ्चमोदकरः पातु पातु मां पार्वतीसुतः ।
पाशाङ्कुशधरः पातु पातु मां च धनेश्वरः ॥ ३२॥
गदाधरः सदा पातु पातु मां काममोहितः ।
नग्ननारीरतः पातु पातु मां च गणेश्वरः ॥ ३३॥
अक्षयं वरदः पातु शक्तियुक्तिः सदाऽवतु ।
भालचन्द्रः सदा पातु नानारत्नविभूषितः ॥ ३४॥
उच्छिष्टगणनाथश्च मदाघूर्णितलोचनः ।
नारीयोनिरसास्वादः पातु मां गजकर्णकः ॥ ३५॥
प्रसन्नवदनः पातु पातु मां भगवल्लभः ।
जटाधरः सदा पातु पातु मां च किरीटिकः (किरीटधृक्) ॥ ३६॥
पद्मासनास्थितः पातु रक्तवर्णश्च पातु माम् ।
नग्नसाममदोन्मत्तः पातु मां गणदैवतः ॥ ३७॥
वामाङ्गे सुन्दरीयुक्तः पातु मां मन्मथप्रभुः ।
क्षेत्रपः पिशितं (क्षेत्रप्रवसितः) पातु पातु मां श्रुतिपाठकः ॥ ३८॥
भूषणाढ्यस्तु मां पातु नानाभोगसमन्वितः ।
स्मिताननः सदा पातु श्रीगणेशकुलान्वितः ॥ ३९॥
श्रीरक्तचन्दनमयः सुलक्षणगणेश्वरः ।
श्वेतार्कगणनाथश्च हरिद्रागणनायकः ॥ ४०॥
पारभद्रगणेशश्च पातु सप्तगणेश्वरः ।
प्रवालकगणाध्यक्षो गजदन्तो गणेश्वरः ॥ ४१॥
हरबीजगणेशश्च भद्राक्षगणनायकः ।
दिव्यौषधिसमुद्भूतो गणेशाश्चिन्तितप्रदः ॥ ४२॥
लवणस्य गणाध्यक्षो मृत्तिकागणनायकः ।
तण्डुलाक्षगणाध्यक्षो गोमयश्च गणेश्चरः ॥ ४३॥
स्फटिकाक्षगणाध्यक्षो रुद्राक्षगणदैवतः ।
नवरत्नगणेशश्च आदिदेवो गणेश्वरः ॥ ४४॥
पञ्चाननश्चतुर्वक्त्रः षडाननगणेश्वरः ।
मयूरवाहनः पातु पातु मां मूषकासनः ॥ ४५॥
पातु मां देवदेवेशः पातु मामृषिपूजितः ।
पातु मां सर्वदा देवो देवदानवपूजितः ॥ ४६॥
त्रैलोक्यपूजितो देवः पातु मां च विभुः प्रभुः ।
रङ्गस्थं च सदा पातु सागरस्थं सदाऽवतु ॥ ४७॥
भूमिस्थं च सदा पातु पातलस्थं च पातु माम् ।
अन्तरिक्षे सदा पातु आकाशस्थं सदाऽवतु ॥ ४८॥
चतुष्पथे सदा पातु त्रिपथस्थं च पातु माम् ।
बिल्वस्थं च वनस्थं च पातु मां सर्वतस्थितम् ॥ ४९॥
राजद्वारस्थितं पातु पातु मां शीघ्रसिद्धिदः ।
भवानीपूजितः पातु ब्रह्माविष्णुशिवार्चितः ॥ ५०॥
इदं तु कवचं देवि पठनात्सर्वसिद्धिदम् ।
उच्छिष्टगणनाथस्य समन्त्रं कवचं परम् ॥ ५१॥
स्मरणाद्भूपतित्वं च लभते साङ्गतां ध्रूवम् ।
स्मरणाद्भूभुजत्वं वाचः सिद्धिकरं शीघ्रं परसैन्यविदारणम् ॥ ५२॥
प्रातर्मध्याह्नसायाह्ने दिवा रात्रौ पठेन्नरः ।
चतुर्थ्यां दिवसे रात्रौ पूजने मानदायकम् ॥ ५३॥
सर्वसौभाग्यदं शीघ्रं दारिद्र्यार्णवघातकम् ।
सुदारसुप्रजासौख्यं सर्वसिद्धिकरं नृणाम् ॥ ५४॥
जलेऽथवाऽनलेऽरण्ये सिन्धुतीरे सरित्तटे ।
स्मशाने दूरदेशे च रणे पर्वतगह्वरे ॥ ५५॥
राजद्वारे भये घोरे निर्भयो जायते ध्रुवम् ।
सागरे च महाशीते दुर्भिक्षे दुष्टसङ्कटे ॥ ५६॥
भूतप्रेतपिशाचादियक्षराक्षसजे भये ।
राक्षसीयक्षिणीक्रूराशाकिनीडाकीनीगणाः ॥ ५७॥
राजमृत्युहरं देवि कवचं कामधेनुवत् ।
अनन्तफलदं देवि सति मोक्षं (तथाऽमोघं) च पार्वति ॥ ५८॥
कवचेन विना मन्त्रं यो जपेद्गणनायकम् ।
इह जन्मानि पापिष्ठो जन्मान्ते मूषको भवेत् ॥ ५९॥
इति परमरहस्यं देवदैवार्चनं च
कवचपरमदिव्यं पार्वती पुत्ररूपम् ।
पठति परमभोगैश्वर्यमोक्षप्रदं च
लभति सकलसौख्यं शक्तिपुत्रप्रसादात् ॥ ६०॥
var
(इति परमरहस्यन्देवदैवार्चितस्य-
कवचमुदितमेतत्पार्वतीशेन देव्यै ।
पठति स लभ्यते वैभक्तितो भक्तवर्यः
प्रचुरसकलसौख्यं शक्तिपुत्रप्रसादात् ॥ ६०॥)
इति श्रीरुद्रयामलतन्त्रे (विश्वसारतन्त्रे इति पुस्तकान्तरे पाठलं) उमामहेश्वरसंवादे
श्रीमदुच्छिष्टगणपतिकवचनिरूपणं नाम त्रितीय रत्नं समाप्तम् ॥ ३॥
श्रीमदुच्छिष्टगणपतिसहस्रनामस्तोत्रम्
श्रीमदुच्छिष्टगणपतिसहस्रनामस्तोत्रम् ॥
उत्कं च रुद्रयामलतन्त्रे ॥
श्रीभैरव उवाच ॥
शऋणु देवि रहस्यं मे यत्पुरा सूचितं मया ।
तव भक्त्या गणेशस्य वक्ष्ये नामसहस्रकम् ॥ १॥
श्रीदेव्युवाच ।
ॐ भगवन्गणनाथस्य उच्छिष्टस्य महात्मनः ।
श्रोतुं नाम सहस्रं मे हृदयं प्रोत्सुकायते ॥ २॥
श्रीभैरव उवाच ॥
प्राङ्मुखे त्रिपुरानाथे जाता विघ्नकुलाः शिवे ।
मोहने मुच्यते चेतस्तैः सर्वैर्बलदर्पितैः ॥ ३॥
तदा प्रभुं गणाध्यक्षं स्तुत्वा नामसहस्रकैः ।
विघ्ना दूरात्पलायन्ते कालरुद्रादिव प्रजाः ॥ ४॥
तस्यानुग्रहतो देवि जातोऽहं त्रिपुरान्तकः ।
तमद्यापि गणेशानं स्तौमि नामसहस्रकैः ॥ ५॥
तदद्य तव भक्त्याहं साधकानां हिताय च ।
महागणपतेर्वक्ष्ये दिव्यं नामसहस्रकम् ॥ ६॥
ॐ अस्य श्रीमदुच्छिष्टगणेशसहस्रनामस्तोत्रमन्त्रस्य
श्रीभैरव ऋषिः । गायत्री छन्दः । श्रीमहागणपतिर्देवता ।
गं बीजम् । ह्रीं शक्तिः । कुरुकुरु कीलकम् ।
मम धर्मार्थकाममोक्षार्थे जपे विनियोगः ॥
ॐ ह्रीं श्रीं क्लीं गणाध्यक्षो ग्लौं गँ गणपतिर्गुणी ।
गुणाढ्यो (गणाद्यः) निर्गुणो गोप्ता गजवक्त्रो विभावसुः ॥ ७॥
विश्वेश्वरो विभादीप्तो दीपनो धीवरो धनी ।
सदा शान्तो जगत्त्राता विश्वावर्तो (विश्वक्सेनः) विभाकरः ॥ ८॥
विश्रम्भी (विस्तम्बी) विजयो वैद्यो वारान्निधिरनुत्तमः ।
अणिमा (अणीयान) विभवः श्रेष्ठो ज्येष्ठो गाथाप्रियो गुरुः ॥ ९॥
सृष्टिकर्ता जगद्धर्ता विश्वभर्ता जगन्निधिः ।
पतिः पीतविभूषाङ्को रक्ताक्षो (रक्तास्य) लोहिताम्बरः ॥ १०॥
विरूपाक्षो विमानस्थो विनीतः (विनयः) सदस्यः (सात्वतः) सुखी ।
सात्वतः सुरूपः सात्त्विकः सत्यः शुद्धः शङ्करनन्दनः ॥ ११॥
नन्दीश्वरो जयानन्दी वन्द्यः स्तुत्यो विचक्षणः ।
दैत्यमर्द्दी सदाक्षीबो मदिरारुणलोचनः ॥ १२॥
सारात्मा विश्वसारश्च (विश्वस्मिन्सर्वस्मिन्सारः श्रेष्ठः स्थिरांश
इत्यर्थः) विश्वसारो (विश्वं सार्वं सारः अशो यस्य सः -
यदंशभूतं सर्वं जगदित्यर्थः सर्वं - जगदिदं त्वत्तोजायते
इति श्रुतेः । इति विग्रहभेदात् - द्वयोरेकरूपयोनाम्नोरर्थो विज्ञ्येयः ।)
विलेपनः ।
परं ब्रह्म परं ज्योतिः साक्षी त्र्यक्षो विकत्थनः ॥ १३॥
विश्वेश्वरो (वीरेश्वरः) वीरहर्ता सौभाग्यो भाग्यवर्द्धनः ।
भृङ्गिरिटी भृङ्गमाली भृङ्गकूजितनादितः ॥ १४॥
विनर्तको (विवर्तकः) नीतोऽपि विनतानन्दनार्चितः ।
वैनतेयो विनम्राङ्गो विश्वनायकनायकः ॥ १५॥
विराटको विराटश्च विदग्धो विधुरात्मभूः ।
पुष्पदन्तः पुष्पहारी पुष्पमालाविभूषणः ॥ १६॥
पुष्पेषुमथनः पुष्टो विवर्तः कर्तरीकरः ।
अन्त्योऽन्तकश्चित्तगणाश्चित्तचिन्तापहारकः ॥ १७॥
अचिन्त्योऽचिन्त्यरूपश्च चन्दनाकुलमुण्डकः ।
लोहितो लिपितो लुप्तो लोहिताक्षो विलोभकः ॥ १८॥
लब्धाशयो लोभरतो लोभदोऽलङ्घ्यगर्धकः ।
सुन्दरः सुन्दरीपुत्रः समस्तासुरघातकः ॥ १९॥
नूपुराढ्यो विभवेन्द्रो नरनारायणो रविः ।
विचारो वान्तदो वाग्मी वितर्की विजयीश्वरः ॥ २०॥
सुजो बुद्धः सदारूपः सुखदः सुखसेवितः ।
विकर्तनो विपच्चारी विनटो नटनर्तकः ॥ २१॥
नटो नाट्यप्रियो नादोऽनन्तोऽनन्तगुणात्मकः ।
गङ्गाजलपानप्रियो गङ्गातीरविहारकृत् ॥ २२।
गङ्गाप्रियो गङ्गजश्च वाहनादिपुरःसरः ।
गन्धमादनसंवासो गन्धमादनकेलिकृत् ॥ २३॥
गन्धानुलिप्तपूर्वाङ्गः सर्वदेवस्मरः सदा ।
गणगन्धर्वराजेशो गणगन्धर्वसेवितः ॥ २४॥
गन्धर्वपूजितो नित्यं सर्वरोगविनाशकः ।
गन्धर्वगणसंसेव्यो गन्धर्ववरदायकः ॥ २५॥
गन्धर्वो गन्धमातङ्गो गन्धर्वकुलदैवतः ।
गन्धर्वगर्वसंवेगो गन्धर्ववरदायकः ॥ २६॥
गन्धर्वप्रबलार्तिघ्नो गन्धर्वगणसंयुतः ।
गन्धर्वादिगुणानन्दो नन्दोऽनन्तगुणात्मकः ॥ २७॥
विश्वमूर्तिर्विश्वधाता (विश्वसूर्विश्वधाती) विनतास्यो विनर्तकः ।
करालः कामदः कान्तः कमनीयः कलानिधिः ॥ २८॥
कारुण्यरूपः कुटिलः कुलाचारी कुलेश्वरः ।
विकरालो रणश्रेष्ठः संहारो हारभूषणः ॥ २९॥
उरुरभ्यमुखो रक्तो देवतादयितौरसः ।
महाकालो महादंष्ट्रो महोरगभयानकः ॥ ३०॥
उन्मत्तरूपः कालाग्निरग्निसूर्येन्दुलोचनः ।
सितास्यः सितमाल्यश्च सितदन्तः सितांशुमान् ॥ ३१॥
असितात्मा भैरवेशो भाग्यवान्भगवान्भवः (भगः)।
गर्भात्मजो भगावासो भगदो भगवर्द्धनः ॥ ३२॥
शुभङ्करः शुचिः शान्तः श्रेष्ठः श्रव्यः शचीपतिः ।
वेदाद्यो वेदकर्ता च वेदवेद्यः सनातनः ॥ ३३॥
विद्याप्रदो वेदरसो वैदिको वेदपारगः ।
वेदध्वनिरतो वीरो वेदविद्यागमोऽर्थवित् ॥ ३४॥
तत्त्वज्ञः सर्वगः साधुः सदयः सदसन्मयः ।
शिवशङ्करः शिवसुतः शिवानन्दविवर्द्धनः ॥ ३५॥
शैत्यः (सैन्यः) श्वेतः शतमुखो मुग्धो मोदकभूषणः (मोदकभञ्जनः) ।
देवो दिनकरो धीरो धृतिमान्द्युतिमान्धवः ॥ ३६॥
शुद्धात्मा शुद्धमतिमाञ्छुद्धदीप्तिः शुचिव्रतः ।
शरण्यः शौनकः शूरः शरदम्भोजधारकः (शब्दम्भी जठोरुकः) ॥ ३७॥
न्दारकः शिखिवाहेष्टः सितः (शीतः) शङ्करवल्लभः ।
शङ्करो निर्भयो नित्यो लयकृल्लास्यतत्परः ॥ ३८॥
लूतो लीलारसोल्लासी विलासी विभ्रमो भ्रमः ।
भ्रमणः शशिभृत्सूर्यः शनिर्धरणिनन्दनः ॥ ३९॥
बुधो विबुधसेव्यश्च बुधराजो बलन्धरः ।
जीवो जीवप्रदो जेता स्तुत्यो नित्यो रतिप्रियः ॥ ४०॥
जनको जनमार्गज्ञो जनरक्षणतत्परः ।
जनानन्दप्रदाता च जनकाह्लादकारकः ॥ ४१।
विबुधो बुधमान्यश्च जैनमार्गनिवर्तकः ।
गच्छो गणपतिर्गच्छनायको गच्छगर्वहा ॥ ४२॥
गच्छराजोथ गच्छेथो गच्छराजनमस्कृतः ।
गच्छप्रियो गच्छगुरुर्गच्छत्राकृद्यमातुरः ॥ ४३॥
गच्छप्रभुर्गच्छचरो गच्छप्रियकृताद्यमः ।
गच्छगीतगुणोगर्तो मर्यादाप्रतिपालकः ॥ ४४॥
गीर्वाणागमसारस्य गर्भो गीर्वाणदेवता ।
गौरीसुतो गुरुवरो गौराङ्गो गणपूजितः ॥ ४५॥
परम्पदं परन्धाम परमात्मा कविः कुजः ।
(कुजः - कुः भूमिः भूच्छायाशब्देन बोध्या तस्यां जातः - छायापुत्रः
शनिरित्यर्थः एवं चात्र कुजशब्देन छायापुत्रः शनिर्बोध्यः ।)।
राहुर्दैत्यशिरश्छेदी केतुः कनककुण्डलः ॥ ४६॥
ग्रहेन्द्रो ग्रहितो ग्राह्योऽग्रणीर्घुर्घुरनादितः ।
पर्जन्यः पीवरः पत्री पीनवक्षाः पराक्रमी ॥ ४७॥
वनेचरो वनस्पतिर्वनवासी स्मरोपमः ।
पुण्यः पूतः पवित्रश्च परात्मा पूर्णाविग्रहः ॥ ४८॥
पूर्णेन्दुसुकलाकारो मन्त्रपूर्णमनोरथः ।
युगात्मा युगकृद्यज्वा याज्ञिको यज्ञवत्सलः ॥ ४९॥
यशस्यो यजमानेष्टो वज्रभृद्वज्रपञ्जरः ।
मणिभद्रो मणिमयो मान्यो मीनध्वजाश्रितः ॥ ५०॥
मीनध्वजो मनोहारी योगिनां योगवर्धनः ।
द्रष्टा स्रष्टा तपस्वी च विग्रही तापसप्रियः ॥ ५१॥
तपोमयस्तपोमूर्तिस्तपनश्च तपोधनः ।
सम्पत्तिसदनाकारः सम्पत्तिसुखदायकः ॥ ५२॥
सम्पत्तिसुखकर्ता च सम्पत्तिसुभगाननः ।
सम्पत्तिशुभदो नित्यसम्पत्तिश्च यशोधनः ॥ ५३॥
रुचको (रोचकोहृष्टः) मेचकस्तुष्टः प्रभुस्तोमरघातकः ।
दण्डी चण्डांशुरव्यक्तः कमण्डलुधरोऽनघः ॥ ५४॥
कामी कर्मरतः कालः कोलः क्रन्दितदिक्तटः ।
भ्रामको जातिपूज्यश्च जाड्यहा जडसूदनः ॥ ५५॥
जालन्धरो जगद्वासी (जगद्धासी) हास्यकृद्गहनो गुहः ।
हविष्मान्हव्यवाहाक्षो हाटको हाटकाङ्गदः ॥ ५६॥
सुमेरुर्हिमवान्होता हरपुत्रो हलङ्कषः (हलङ्कपः) ।
हालाप्रियो हृदा शान्तः कान्ताहृदयपोषणः ॥ ५७॥
शोषणः क्लेशहा क्रूरः कठोरः कठिनाकृतिः ।
कुबेरो धीमयो ध्याता ध्येयो धीमान्दयानिधिः ॥ ५८॥
दविष्ठो दमनो हृष्टो दाता त्राता पितासमः ।
निर्गतो नैगमोऽगम्यो निर्जयो जटिलोऽजरः ॥ ५९॥
जनजीवो जितारातिर्जगद्व्यापी जगन्मयः ।
चामीकरनिभो नाभ्यो नलिनायतलोचनः ॥ ६०॥
रोचनो मोचको मन्त्री मन्त्रकोटिसमाश्रितः ।
पञ्चभूतात्मकः पञ्चसायकः पञ्चवक्त्रकः ॥ ६१॥
पञ्चमः पश्चिमः पूर्वः पूर्णः कीर्णालकः कुणिः ।
कठोरहृदयो ग्रीवालङ्कृतो ललिताशयः ॥ ६२॥
लोलचित्तो बृहन्नासो मासपक्षर्तुरूपवान् ।
ध्रुवो द्रुतगतिर्बन्धो धर्मी नाकिप्रियोऽनलः ॥ ६३॥
अङ्गुल्यग्रस्थभुवनो (अगस्त्यःग्रस्तभुवनः) भुवनैकमलापहः ।
सागरः स्वर्गतिः स्वक्षः सानन्दः साधुपूजितः ॥ ६४॥
सतीपतिः समरसः सनकः सरलः सरः ।
सुरप्रियो वसुमतिर्वासवो वसुपूजितः ॥ ६५॥
वित्तदो वित्तनाथश्च धनिनां धनदायकः ।
राजीवनयनः स्मार्तः स्मृतिदः (स्मृतिहा) कृत्तिकाम्बरः ॥ ६६॥
श्विनोऽश्वमुखः शुभ्रो भरणो भरणीप्रियः ।
कृत्तिकासनकः कोलो रोहिणीरमणोपमः (रोहिणी रोहिणो यमः) ॥ ६७॥
रौहिणेयप्रेमकरो रोहिणीमोहनो मृगः ।
मृगराजो मृगशिरा माधवो मधुरध्वनिः ॥ ६८॥
आर्द्राननो महाबुद्धिर्महोरगविभूषणः ।
भ्रूक्षेपदत्तविभवो भ्रूकरालः पुनर्मयः ॥ ६९॥
पुनर्देवः पुनर्जेता पुनर्जीवः पुनर्वसुः ।
तिमिरास्तिमिकेतुश्च (तित्तिरः) तिमिषासुरघातनः ॥ ७०॥
तिष्यस्तुलाधरो जृम्भो (जम्भः) विश्लेषाश्लेषदानराट् (विश्लेषण एणराट्) ।
मानदो माधवो माधो वाचालो मघवोपमः ॥ ७१॥
मध्यो मघाप्रियो मेघो महाशुण्डो महाभुजः ।
पूर्वफाल्गुनिकः स्फीत (प्रीतः) फल्गुरुत्तरफाल्गुनः ॥ ७२॥
फेनिलो ब्रह्मदो ब्रह्मा सप्ततन्तुसमाश्रयः ।
घोणाहस्तश्चतुर्हस्तो हस्तिवन्ध्यो हलायुधः ॥ ७३॥
चित्राम्बरार्चितपदः स्वस्तिदः स्वस्तिनिग्रहः ।
विशाखः शिखिसेव्यश्च शिखिध्वजसहोदरः ॥ ७४॥
अणुरेणूत्करः स्फारो रुरुरेणुसुतो नरः ।
अनुराधाप्रियो राधः श्रीमाञ्छुक्लः शुचिस्मितः ॥ ७५॥
ज्येष्ठः श्रेष्ठार्चितपदो मूलं च त्रिजगद्गुरुः ।
शुचिश्चैव पूर्वाषाढश्चोत्तराषाढ ईश्वरः ॥ ७६॥
श्रव्योऽभिजिदनन्तात्मा श्रवो वेपितदानवः ।
श्रावणः श्रवणः श्रोता धनी धन्यो धनिष्ठकः ॥ ७७॥
शातातपः (धनेप्सुकः सदातीव्रः शीतबुकः शर्द्द्युतिः) शातकुम्भः शरज्ज्योतिः शताभिषक् ।
पूर्वाभाद्रपदो भद्रश्चोत्तराभाद्रपादितः ॥ ७८॥
रेणुकातनयो रामो रेवतीरमणो रमी ।
आश्वयुक्कार्तिकेयेष्टो मार्गशीर्षो मृगोत्तमः ॥ ७९॥
पोषेश्वरः फाल्गुनात्मा वसन्तश्चैत्रको मधुः ।
राज्यदोऽभिजिदात्मेयस्तारेशस्तारकद्युतिः ॥ ८०॥
प्रतीतः प्रोर्जितः प्रीतः परमः परमो हितः ।
परहा पञ्चभूः पञ्चवायुपूज्य परिग्रहः४१॥ ८१॥
पुराणागमविद्योगी महिषो रासभोऽग्रजः ।
ग्रहो मेषो मृषो मन्दो मन्मथो मिथुना (मिथुनाचितः) कृतिः ॥ ८२॥
कल्पभृत्कटको दीपो मर्कटः कर्कटो धृणिः ।
(कल्पभृत्कटको - कल्पभृत्क टकटकोदीपो मर्कटसत्प्रभुः ।
कर्कटो धुणिक्कूटो वनजो हंसगो हसः ॥)
कुक्कुटो वनजो हंसः परमहंसः सृगालकः ॥ ८३॥
सिंहा सिंहासनाभूष्यो मद्गुर्मूषकवाहनः ।
पुत्रदो (कन्याकलावतीपुत्रः) नरकत्राता कन्याप्रीतः कुलोद्वहः ॥ ८४॥
अतुल्यरूपो लदस्तुल्यभृत्तुल्यसाक्षिकः ।
अलिश्चापधरो धन्वी कच्छपो मकरो मणिः ॥ ८५॥
कुम्भभृत्कलशः कुब्जो मीनमांससुतर्पितः ।
राशिताराग्रहमयस्तिथिरूपो जगद्विभुः ॥ ८६॥
प्रतापी प्रतिपत्प्रेयोऽद्वितीयोऽद्वैतनिश्चितः ।
त्रिरूपश्च तीयाग्निस्त्रयीरूपस्त्रयीतनुः ॥ ८७॥
चतुर्थीवल्लभो देवो परागः पञ्चमीश्वरः ।
षड्रसास्वादविज्ञानः षष्ठीषष्टिकवत्सलः ॥ ८८॥
सप्तार्णवगतिः सारः सप्तमीश्वररोहितः ।
अष्टमीनन्दनोत्तंसो नवमीभक्तिभावितः ॥ ८९॥
दशदिक्पतिपूज्यश्च दशमी द्रुहिणो द्रुतः ।
एकादशात्मगणयो द्वादशीयुगचर्चितः ॥ ९०॥
त्रयोदशमणिस्तुत्यश्चतुर्दशस्वरप्रियः ।
चतुर्दशेन्द्रसंस्तुत्यः पूर्णिमानन्दविग्रहः ॥ ९१॥
दर्शादर्शो (दर्शगश्च) दर्शनश्च वानप्रस्थो महेश्वरः ।
मौर्वी मधुरवाङ्मूलमूर्तिमान्मेघवाहनः ॥ ९२॥
महागजो जितक्रोधो जितशत्रुर्जयाश्रयः ।
रौद्रो रुद्रप्रियो रुद्रो रुद्रपुत्रोऽघनाशनः ॥ ९३॥
भवप्रियो भवानीष्टो भारभृद्भूतभावनः ।
गान्धर्वकुशलोऽकुण्ठो वैकुण्ठो विष्टरश्रवाः ॥ ९४॥
वृत्रहा (बृहत्कायो विघ्नहरः) विघ्नहा सीरः समस्तदुःखतापहा ।
मञ्जुलो मार्जरो मत्तो दुर्गापुत्रो दुरालसः ॥ ९५॥
अनन्तचित्सुधाधोरो वीरो वीर्यैकसाधकः ।
भास्वन्मुकुटमाणिक्यः कूजत्किङ्किंणिजालकः ॥ ९६॥
शुण्डाधारी तुण्डचलः कुण्डली मुण्डमालकः ।
पद्माक्षः पद्महस्तश्च पद्मनाभसमर्चितः ॥ ९७॥
उद्धृताधरदन्ताढ्यो मालाभूषणभूषितः ।
मारदो (नारदः) वारणो लोलश्रवणः शूर्पकर्णकः ॥ ९८॥
बृहदुल्लासनासाढ्यो व्याप्तत्रैलोक्यमण्डलः (व्यासमण्डलमण्डितः) ।
रत्नमण्डलमध्यस्थः (रत्नमण्डलसम्भ्रातः कृतानुग्रहजीवकः रत्नमण्डल आसीनः) कृशानुरूपशीलकः ॥ ९९॥
बृहत्कर्णाञ्चलोद्भूतवायुवीजितदिक्तटः (दिक्तटः) ।
बृहदास्यरवाक्रान्तभीतब्रह्माण्डभाण्डकः ॥ १००॥
बृहत्पादसमाक्रान्तसप्तपातालदीपितः ।
बृहद्दन्तकृतात्युग्ररणानन्दरसालसः ॥ १०१॥
बृहद्धस्तधृताशेषायुधनिर्जितदानवः ।
स्फूरत्सिन्दूरवदनः स्फूरत्तेजोऽग्निलोचनः ॥ १०२॥
उद्दीपितमणिः स्फूर्जन्नूपुरध्वनिनादितः ।
चलत्तोयप्रवाहाढ्यो नदीजलकणाकरः ॥ १०३॥
भ्रमत्कुञ्जरसङ्घातवन्दिताङ्घ्रिसरोरुहः ।
ब्रह्माच्युतमहारुद्रपुरस्सरसुरार्चितः ॥ १०४॥
अशेषशेषप्रभृतिव्यालजालोपसेवितः ।
गर्जत्पञ्चाननारावव्याप्ताकाशधरातलः (गर्जत्पञ्चाननारावव्याप्ताकाशधरातलः) ॥ १०५॥
हाहाहूहूगतात्युग्रस्वरविभ्रान्तमानसः ।
पञ्चाशद्वर्णबीजाख्यमन्त्रमन्त्रितविग्रहः ॥ १०६॥
वेदान्तशास्त्रपीयूषधाराऽऽप्लावितभूतलः ।
शङ्खध्वनिसमाक्रान्तपातालादिनभस्तलः ॥ १०७॥
चिन्तामणिर्महामल्लो बल्लहस्तो बलिः कविः ।
कृतत्रेतायुगोल्लासभासमानजगत्त्रयः ॥ १०८॥
द्वापरः परलोकैकः कर्मध्वान्तसुधाकरः ।
सुधाऽऽसिक्तवपुर्व्यासो ब्रह्माण्डादिकबाहुकः ॥ १०९॥
अकारादिक्षकारान्तवर्णपङ्क्तिसमुज्ज्वलः ।
अकाराकारप्रोद्गीतताननादनिनादितः ॥ ११०॥
इकारेकारमत्राढ्यमालाभ्रमणलालसः ।
उकारोकारप्रोद्गारिघोरनागोपवीतकः ॥ १११॥
ऋवर्णाङ्कितॠकारिपद्मद्वयसमुज्ज्वलः ।
लृकारयुतलॄकारशङ्खपूर्णदिगन्तरः ॥ ११२॥
एकारैककारगिरिजास्तनपानविचक्षणः ।
ओकारौकारविश्वादिकृतसृष्टिक्रमालसः ॥ ११३॥
अंअःवर्णावलीव्याप्तपादादिशीर्षमण्डलः ।
कर्णतालकृतात्युच्चैर्वायुवीजितनिर्झरः ॥ ११४॥
खगेशध्वजरत्नाङ्ककिरीटारुणपादकः ।
गर्विताशेषगन्धर्वगीततत्परश्रोत्रकः ॥ ११५॥
घनवाहनवागीशपुरस्सरसुरार्चितः ।
ङवर्णामृतधाराढ्यशोभमानैकदन्तकः ॥ ११६॥
चन्द्रकुङ्कुमजम्बाललिप्तसिन्दूरविग्रहः ।
छत्रचामररत्नाढ्यभ्रुकुटालङ्कृताननः ॥ ११७॥
जटाबद्धमहानर्घमणिपङ्क्तिविराजितः ।
झङ्कारिमधुपव्रातगाननादविनादितः ॥ ११८॥
ञवर्णकृतसंहारदैत्यासृक्पर्णमुद्गरः ।
टकाराख्याफलास्वादवेपिताशेषमूर्धजः ॥ ११९॥
ठकाराद्यडकाराङ्कढकारानन्दतोषितः ।
णवर्णामृतपीयूषधाराधारसुधाकरः ॥ १२०॥
ताम्रसिन्दूरपूजाढ्यललाटफलकच्छविः ।
थकारघनपङ्क्त्यातिसन्तोषिताद्विजव्रजः ॥ १२१॥
दयामृतहृदम्भोजधृतत्रैलोक्यमण्डलः ।
धनदादिमहायक्षसंसेवितपदाम्बुजः ॥ १२२॥
नमिताशेषदेवौघकिरीटमणिरञ्जितः ।
परवर्गापवर्गादिभोगेच्छेदनदक्षकः ॥ १२३॥
फणिचक्रसमाक्रान्तगलमण्डलमण्डितः (फणिचक्रसमामल्लमण्डलमण्डितः) ।
बद्धभ्रूयुगभीमोग्रसन्तर्जितसुरसुरः ॥ १२४॥
भवानीहृदयानन्दवर्द्धनैकनिशाकरः ।
मदिराकलशस्फीतकरालैककराम्बुजः ॥ १२५॥
ज्ञान्तरायसङ्घातसज्जीकृतवरायुधः ।
रत्नाकरसुताकान्तिक्रान्तिकीर्तिविवर्धनः ॥ १२६॥
लम्बोदरमहाभीमवपुर्दीप्तकृतासुरः ।
वरुणादिदिगीशानस्वर्चितार्चनचर्चितः ॥ १२७॥
शङ्करैकप्रियप्रेमनयनान्दवर्द्धनः ।
षोडशस्वरितालापगीतगानविचक्षणः ॥ १२८॥
समस्तदुर्गतिसरिन्नाथोत्तारणकोडुपः ।
हरादिब्रह्मवैकुण्ठब्रह्मगीतादिपाठकः ॥ १२९॥
क्षमापूरितहृत्पद्मसंरक्षितचराचरः ।
ताराङ्कमन्त्रवर्णैकाविग्रहोज्ज्वलविग्रहः ॥ १३०॥
अकारादिक्षकारान्तविद्याभूषितविग्रहः ।
ॐ श्रीविनायको ॐ ह्रीं विघ्नाध्यक्षो गणाधिपः ॥ १३१॥
हेरम्बो मोदकाहारो वक्रतुण्डो विधिः स्मृतः ।
वेदान्तगीतो विद्यार्थिसिद्धमन्त्रः षडक्षरः ॥ १३२॥
गणेशो वरदो देवो द्वादशाक्षरमन्त्रितः ।
सप्तकोटिमहामन्त्रमन्त्रिताशेषविग्रहः ॥ १३३॥
गाङ्गेयो गणसेव्यश्च ॐ श्रीद्वैमातुरः शिवः ।
ॐ ह्रीं श्रीं क्लीं ग्लौं गँ देवो महागणपतिः प्रभुः ॥ १३४॥
इदं नामसहस्रं तु महागणपतेः स्मृतम् ।
गुह्यं गोप्यतमं सिद्धं सर्वतन्त्रेषु गोपितम् ॥ १३५॥
सर्वमन्त्रमयं दिव्यं सर्वविघ्नविनाशनम् (सर्वमन्त्रविनायकम्) ।
ग्रहतारामयं राशिवर्णपङ्क्तिसमन्वितम् ॥ १३६॥
सर्वाविद्यामयं ब्रह्मसाधनं साधकप्रियम् ।
गणेशस्य च सर्वस्वं रहस्यं त्रिदिवौकसाम् ॥ १३७॥
यथेष्टफलदं लोके मनोरथप्रपूरणम् ।
अष्टसिद्धिमयं श्रेष्ठं साधकानां जयप्रदम् ॥ १३८॥
विनार्चनं विना होमं विनान्यासं विना जपम् ।
अणिमाद्यष्टसिद्धीनां साधनं स्मृतिमात्रतः ॥ १३९॥
चतुर्थ्यामर्धरात्रे तु पठेन्मन्त्री चतुष्पथे ।
लिखेद्भूर्जे महादेवि ! पुण्यं नामसहस्रकम् ॥ १४०॥
धारयेत्तं चतुर्दश्यां मध्याह्ने मूर्ध्नि वा भुजे ।
योषिद्वामकरे चैव पुरुषो दक्षिणे भुजे ॥ १४१॥
स्तम्भयेदपि ब्रह्याणं मोहयेदपि शङ्करम् ।
वशयेदपि त्रैलोक्यं मारयेदखिलान् रिपून् ॥ १४२॥
उच्चाटयेच्च गीर्वाणं शमयेच्च धनञ्जयम् ।
वन्ध्या पुत्रं लभेच्छीघ्रं निर्धनो धनमाप्नुयात् ॥ १४३॥
त्रिवारं यः पठेद्रात्रौ गणेशस्य पुरः शिवे ।
नग्नः शक्तियुतो देवि भुक्त्वा भोगान्यथेप्सितान् ॥ १४४॥
प्रत्यक्षवरदं पश्येद्गणेशं साधकोत्तमः ।
य इदं पठते नाम्नां सहस्रं भक्तिपूर्वकम् ॥ १४५॥
तस्य वित्तादिविभवोदारायुः सम्पदः सदा ।
रणे राजमये द्यूते पठेन्नामसहस्रकम् ॥ १४६॥
सर्वत्र जयमाप्नोति गणेशस्य प्रसादतः ॥ १४७॥
इतीदं पुण्यसर्वस्वं मन्त्रनामसहस्रकम् ।
महागणपतेः पुण्यं गोपनीयं स्वयोनिवत् ॥ १४८॥
इति श्रीरुद्रयामलतन्त्रे
श्रीमदुच्छिष्टगणेशसहस्रनामस्तोत्र निरूपणं नामचतुर्थं रत्नम् ॥ ४॥
श्रीमदुच्छिष्टगणेशस्तवराजः
श्रीगणेशाय नमः ॥
अथ श्रीमदुच्छिष्टगणेशस्तवराजप्रारम्भः ॥
उत्कं च रुद्रयामले ॥
देव्युवाच ॥
पूजान्ते ह्यनया स्तुत्या स्तुवीत गणनायकम् ।
नमामि देवं सकलार्थदं तं सुवर्णवर्णं भुजगोपवीतम् ।
गजाननं भास्करमेकदन्तं लम्बोदरं वारिभवासनं च ॥ १॥
केयुरिणंहारकिरीटजुष्टं चतुर्भुजं पाशवराभयानि ।
सृणिं च हस्तं गणपं त्रिनेत्रं सचामरस्त्रीयुगलेन युक्तम् ॥ २॥
सृणिंवहन्तं षडक्षरात्मानमनल्पभूषं मुनीश्वरैर्भार्गवपूर्वकैश्च ।
संसेवितं देवमनाथकल्पं रूपं मनोज्ञं शरणं प्रपद्ये ॥ ३॥
वेदान्तवेद्यं जगतामधीशं देवादिवन्द्यं सुकृतैकगम्यम् ।
स्तम्बेरमास्यं नवचन्द्रचूडं विनायकं तं शरणं प्रपद्ये ॥ ४॥
भवाख्यदावानलदह्यमानं भक्तं स्वकीयं परिषिञ्चते यः ।
गण्डस्रुताम्भोभिरनन्यतुल्यं वन्दे गणेशं च तमालनीलम् (तमोऽरिनेत्रम्) ॥ ५॥
शिवस्य मौलाववलोक्य चन्द्रं सुशुण्डया मुग्धतया स्वकीयम् ।
भग्नं विषाणं परिभाव्य चित्ते आकृष्टचन्द्रो गणपोऽवतान्नः ॥ ६॥
पितुर्जटाजूटतटे सदैव भागीरथीं तत्र कुतूहलेन ।
विलोक्य भागीरथीं विहर्तुकामः स महीध्रपुत्र्या निवारितः पातु सदा गजास्यः ॥ ७॥
लम्बोदरो देवकुमारसङ्घैः क्रीडन्कुमारं जितवान्निजेन ।
करेण चोत्तोल्य ननर्त रम्यं दन्तावलास्यो भयतः स पायात् ॥ ८॥
आगत्य योच्चैर्हरिनाभिपद्मं ददर्श तत्राशु करेण तच्च ।
उद्धर्तुमिच्छन्विधिवादवाक्यं (विधिचाटुवाक्यं) मुमोच भूत्वा चतुरो गणेशः ॥ ९॥
निरन्तरं संस्कृतदानपट्टे लग्नां तु गुञ्जद्भ्रमरावलीं वै ।
तं श्रोत्रतालैरपसारयन्तं स्मरेद्गजास्यं निजहृत्सरोजे ॥ १०॥
विश्वेशमौलिस्थितजह्नुकन्याजलं गृहीत्वा निजपुष्करेण ।
हरं सलीलं पितरं स्वकीयं प्रपूजयन्हस्तिमुखः स पायात् ॥ ११॥
स्तम्बेरमास्यं घुसृणाङ्गरागं सिन्दूरपूरारुणकान्तकुम्भम् ।
कुचन्दनाल्यिप्तकरं (कुचन्दनाश्लिष्टकरं) गणेशं ध्यायेत्स्वचित्ते सकलेष्टदं तम् ॥ १२॥
स भीष्ममातुर्निजपुष्करेण जलं समादाय कुचौ स्वमातुः ।
प्रक्षालयामास षडास्यपीतौ स्वार्थं मुदेऽसौ कलभाननोऽस्तु ॥ १३॥
सिञ्चाम नागं शिशुभावमाप्तं केनापि सत्कारणतो धरित्र्याम् ।
वक्तारमाद्यं नियमादिकानां लोकैकवन्द्यं प्रणमामि विघ्नम् (विघ्नं विघ्ननाशनमित्यर्थः) ॥ १४॥
आलिङ्गितं चारुरुचा मृगाक्ष्या सम्भोगलोलं मदविह्वलाङ्गम् ।
विघ्नौघविध्वंसनसक्तमेकं नमामि कान्तं द्विरदाननं तम् ॥ १५॥
हेरम्ब उद्यद्रविकोटिकान्तः पञ्चाननेनापि विचुम्बितास्यः ।
मुनीन्सुरान्भक्तजनांश्च सर्वान्स पातु रथ्यासु सदा गजास्यः ॥ १६॥
द्वैपायनोक्तानि स निश्चयेन स्वदन्तकोट्या निखिलं लिखित्वा ।
द्वैपायनोक्तं सुविचार्य येन दन्तं पुराणं शुभमिन्दुमौलिस्तपोभिरुग्रं मनसा स्मरामि ॥ १७॥
सुतमिन्दुमौलेस्तमग्र्यरूपं
क्रीडातटान्ते जलधाविभास्ये वेलाजले लम्बपतिः प्रभीतः ।
विचिन्त्य कस्येति सुरास्तदा तं विश्वेश्वरं वाग्भिरभिष्टुवन्ति ॥ १८॥
वाचां निमित्तं स निमित्तमाद्यं पदं त्रिलोक्यामददत्स्तुतीनाम् ।
सर्वैश्च वन्द्यं न च तस्य वन्द्यः स्थाणोः परं रूपमसौ स पायात् ॥ १९॥
इमां स्तुतिं यः पठतीह भक्त्या समाहितप्रीतिरतीव शुद्धः ।
संसेव्यते चेन्दिरया नितान्तं दारिद्र्यसङ्घं स विदारयेन्नः ॥ २०॥
॥
इति श्रीरुद्रयामलतन्त्रे हरगौरीसंवादे उच्छिष्टगणेशस्तोत्रनिरूपणं नाम पञ्चमम् ॥ ५॥
इति श्रीमदुच्छिष्टगणपति पञ्चरत्नं सम्पूर्णम् ॥
श्रीगणेशार्पणमस्तु ॥
ॐ गँ ॥
श्रीमदुच्छिष्टचाण्डालिन्युपासना
अथ श्रीबृहज्ज्योतिषार्णवान्तर्गतधर्मस्कन्धान्तःपात्युपासनास्तबके
श्रीमदुच्छिष्टचाण्डालिन्युपासनाप्रारम्भः ॥
अथोच्छिष्टचाण्डाली मन्त्राः ॥
उक्तं च तन्त्रसारे ॥
तदुक्तं फेट्कारिण्याम् ॥
``उच्चार्योच्छिष्टशब्दं तु तथा चाण्डालिनीति च ।
सुमुखीति ततो देवीं कीर्त्तयेत्तदन्तरम् ॥ १॥
महापिशाचिनीं पश्चाल्लज्जाबीजं ततः परम् ।
नादबिन्दुसमायुक्तं ठकारत्रितयं पुनः ॥ २॥
सविसर्गं महादेवि सर्वसिद्धिप्रदायकम् ॥'' मन्त्रान्तरम् ॥
तदुक्तं तन्त्रान्तरे ।
``अथोच्छिष्टचाण्डालिमातङ्गीपदमीरयेत् ॥ ३॥
ततः सर्ववशं चान्ते करिहृद्वह्निवल्लभा ।
एकोनविंशता वर्णैः सर्वाभीष्टकरा भवेति ॥ ४॥''
मन्त्रान्तरं मन्त्रदेवप्रकाशिकायाम् ॥
``वाक्भवं ऐँ माया ह्रीँ कामः क्लीँ सौः ऐँ ज्येष्ठमातङ्गि
नमामि उच्छिष्टचाण्डालिनि त्रैलोक्यवशङ्करि स्वाहा ॥'' इति ।
इमां विद्यां जपेद्देवि चापरा हुंसमाश्रिता ।
इयं विद्या महाविद्या सर्वपापापहारिणी ॥ ५॥
स्वर्गदा मोक्षदा चैव राजसौभाग्यदायिका ।
यां यां प्रार्थयते सिद्धिं हठात्तां तामवाप्नुयात् ॥ ६॥
विधानं च प्रवक्ष्यामि शृणु देवि वरानने ।
भोजनानन्तरं देवि विनैवाचमने कृते ॥ ७॥
बलिं दद्यात्प्रथमतोमूलमन्त्रेण साधकः ।
ततो मन्त्रं जपेद्ध्यात्वा देवीं तामिस्ष्टसिद्धये ॥ ८॥'' बलिमप्युच्छिष्टेन ॥
तथा च -
``नतिथिर्न च नक्षत्रं न चाङ्गन्यासमेव च ।
नारिदोषो न वा विघ्नं नाशौचं नियमो न च ॥ ९॥
यस्य तिष्ठति मन्त्रोऽयं न च विघ्नैः स बाध्यते ॥'' ध्यानं तु - ``शवोपरि समासीनां रक्तम्बर परिच्छदाम् ॥ १०॥
रक्तालङ्कारसंयुक्तां गुञ्जाहारविभूषिताम् ।
षोडशाब्दां च युवतीं पीनोन्नतपयोधराम् ॥ ११॥
कपालकर्त्तिकाहस्तां परज्योतिः स्वरूपिणीम् ।
वामदक्षिणयोगेन ध्यायेन्मन्त्रविदुत्तमः ॥ १२॥
स्थण्डिले च बलिं दत्त्वा जपेत्तद्गतमानसः ।
उच्छिष्टेन च कर्त्तव्यो जपः स्यात्सिद्धिमिच्छता (कर्तव्यः स्यादितिसम्बन्धः) ॥ १३॥
उच्छिष्टे जपमानस्य जायन्ते सर्वसिद्धियः ।
अपरं च प्रवक्ष्यामि शृणु देवि फलप्रदम् ॥ १४॥
होमं च तर्पणं चैव सर्वकामार्थसिद्धये ।
स्थण्डिले मण्डलं कृत्वा चतुरस्र समन्ततः ॥ १५॥
पूजयेन्मण्डले देवि मूल मन्त्रेण साधकः ॥''
ततोमूलमुच्चार्य ॐ मण्डलाय नमः इति मन्त्रेण
वह्निस्वरूपां देवतां ध्यात्वा होमयेत् ॥
तथा च -
``ततो देवीं समाधाय वह्निरूप व्यवस्थिताम् ।
देवीं ध्यात्वाऽऽचरेद्धोमं दधिसिद्धान्नतन्दुलैः ॥ १६॥
सहस्रमात्रहोमेन राजानं वशमानयेत् ।
मार्जारस्य तु मांसेन देव्या होमं समाचरेत् ॥ १७॥
स प्राप्नोति परां विद्यां सर्व शास्त्रवशीकृताम् ।
कुर्याच्छागस्य मांसेन होमं मधुसमन्वितम् ॥ १८॥
सहस्रैकविधानेन भवन्ति कुलसिद्धयः ।
विद्याकामश्चरेद्धोमं शर्करायुतपायसैः ॥ १९॥
तस्य वै देविसिद्ध्यन्ति सद्यो विद्याश्चतुर्दश ।
बिल्वपत्रैस्त्रिमध्वक्तैर्मासमेकं समाहितः (होमं चरेदिति शेषः) ॥ २०॥
वन्ध्यापि लभते पुत्रं चिरन्जीविनमुत्तमम् ।
कर्कन्धूकुसुमं हुत्वा छागरक्तसमन्वितम् ॥ २१॥
दुर्भगाया हठाद्देवि सौभाग्यं शुभदायकम् ।
रजस्वलाया वस्त्रेण मधुना पायसेन च ॥ २२॥
होमं कृत्वा महादेवि त्रैलोक्यं वशमानयेत् ।
इत्येषा कथिता देवि सर्वपापप्रणाशिनी ॥ २३॥
मन्त्रस्स्योच्चारणादेव सर्वपापप्रणाशिनी ।
उच्छिष्टेदूषणं त्यक्त्वा सपवित्रो जपेन्मनुम् ॥ २४॥''
अत्र यद्यपि पुरश्चरणं नोक्तं तथाप्यष्टसहस्र जपः
तद्दशांशेन होमादिकं च बोध्यम् ॥
यथा -
``येषां जपे च होमे च सङ्ख्यानोक्ता मनीषिभिः ।
तेषामष्टसहस्राणि सङ्ख्या स्याज्जपहोमयोः ॥ २५॥''
इत्यभिधानादष्टोत्तरसहस्रमिति सम्प्रदायः आसां
सिद्धविद्यात्वात्पुरश्चरणं नास्तीति निबन्धकाराः ।
अथ मन्त्र कोशे -
``ऐँ नमः उच्छिष्टचाण्डालिमातङ्गि सर्ववशङ्करि स्वाहा'' ॥ १॥
अस्य मन्त्रस्य मदन ऋषिः गायत्री त्रिवृच्छन्दः देवी लघुश्यामा देवता ऐँ बीजं स्वाहा शक्ति अभीष्टसिद्ध्यर्थे जपे विनियोगः ॥
ऐँ रत्यै नमो मूर्ध्नि ।
ह्रीँ प्रीत्यै नमः पादयोः ।
ह्रीँ द्रावण बाणाय नमः भ्रूमध्ये ।
द्रीँ शोषणबाणाय नमः मुखे ।
क्लीँ तापन बाणाय नमः हृदि ।
लूँ मोहनबाणाय नमः गुह्ये ।
सः तापनबाणाय नमः पादयोः ॥
रामा ३ ग्नि ३ गुण ३ रामां ३ क ९ नेत्र २ वर्णैर्मनूस्थितैः ॥
ङेनमोंऽताः कन्याकान्ता ब्रह्म्याद्या अष्टमातरः ॥
ऐँ ब्रह्मकन्यकायै नमः ।
ॐ क्षाँ नमः ब्रह्मकन्यकायै नमः ।
ॐ ऐँ सिद्धकन्यकायै नमः ।
अणिमादिन्यासः ।
ऊर्वश्यादिन्यासः ।
यक्षादिन्यासः ।
क्लीँ यक्षकन्यायै नमः ।
ॐ अणिमाकन्यायै नमः ।
ॐ महिमा कन्यायै नमः ।
क्लीँ ऊर्वशी कन्यायै नमः ।
पश्चान्मूलवर्ण न्यासः ॥
ॐ ऐँ नमः ।
ॐ नँ नमः ।
ॐ मँ नमः ।
ॐ उँ नमः ।
ॐ छिँ नमः ।
ॐ ष्टँ नमः ।
ॐ चाँ नमः ।
इत्यादि न्यासाने वां विधान्कृत्वा मातङ्गी मासने स्मरेत् ॥
माणिक्याभरणान्वितां स्मितमुखीं नीलोत्पलाभाम्बरां
रम्यालक्तकलिप्तपादकमलां नेत्रत्रयोल्लासिनीम् ।
वीणावादनतत्परां सुरनुतां कीरच्छदश्यामलां
मातङ्गीं शशिशेखरामनुभजे ताम्बूलपूर्णाननाम् ॥ २६॥
एकलक्षजपः ॥
मधूकपुष्पैर्होमः ॥
मातङ्गीपीठे लघुश्यामापूजनम् ॥
ऐँ शुकप्रियायै विद्महे क्लीँ कामेश्वरी धीमहि ॥
तन्नः श्यामा प्रचोदयात् ॥
इति श्यामागायत्री मन्त्रः ॥
अस्य उपासनाद्देवसमो भवेत् ।
चिन्तितार्थ सिद्धिःस्यात् ॥ ३॥
अथोच्छिष्टचाण्डालिनीचेटकम् ॥
तदुक्तं मन्त्रमहार्णवे ॥
अथ मन्त्रः ॥
``ॐ नमः उच्छिष्टचाण्डालिनि वाग्वादिनि राजमोहिनि प्रजामोहिनि
स्त्रीमोहिनि आन आन वे वे वायुवायु उच्छिष्टचाण्डालि सत्यवादिनीकी
शक्ति फुरै स्वाहा ॥'' इति मन्त्रः ॥
अस्य विधानम् ॥
भोजन् कर्के जुठेमुख इस मन्त्रको एक लाख जपे ।
पीछे जहा कही एकान्त मे बैठकर् इस मन्त्रका स्मरण करोगे,
वही भोजन् आकर अपने आप उपस्थित होगा ॥
इति श्री हरगौरी संवादे बृहज्ज्योतिषार्णवान्तर्गतधर्मस्कन्दान्तः
पात्युपासनास्तबके श्रीमदुच्छिष्टचाण्डालिन्युपासनानिरूपणं
नाम षट्चत्वारिंशदधिक द्विशततमोऽध्यायः ॥ २४६॥
इति उच्छिष्टगणपत्युच्छिष्टचाण्डालिन्युपासने समाप्ते ॥ ५॥
The Puja Paddhati, sahasranAmastotra, kavacham, and stavarAjaH
are available as separate documents.
Encoded and proofread by Krishna Vallapareddy