वक्रतुण्डस्तुतिः देवर्षिभिः प्रोक्तम्
श्रीगणेशाय नमः ।
देवर्षय ऊचुः -
सदा ब्रह्मभूतं विकारादिहीनं विकारादिभूतं महेशादिवन्द्यम् ।
अपारस्वरूपं स्वसंवेद्यमेकं नमामः सदा वक्रतुण्डं भजामः ॥ २॥
अजं निर्विकल्पं कलाकालहीनं हृदिस्थं सदा साक्षिरूपं परेशम् ।
जनज्ञानकारं प्रकाशैर्विहीनं नमामः सदा वक्रतुण्डं भजामः ॥ ३॥
अनन्तस्वरूपं सदानन्दकन्दं प्रकाशस्वरूपं सदा सर्वगं तम् ।
अनादिं गुणादिं गुणाधारभूतं नमामः सदा वक्रतुण्डं भजामः ॥ ४॥
धरावायुतेजोमयं तोयभावं सदाकाशरूपं महाभूतसंस्थम् ।
अहङ्कारधारं तमोमात्रसंस्थं नमामः सदा वक्रतुण्डं भजामः ॥ ५॥
रविप्राणविष्णुप्रचेतोयमेशविधात्रश्विवैश्वानरेन्द्रप्रकाशम् ।
दिशां बोधकं सर्वदेवाधिरूपं नमामः सदा वक्रतुण्डं भजामः ॥ ६॥
उपस्थत्वगुक्तीक्षणस्थप्रकाशं कराङ्घ्रिस्वरूपं कृतघ्राणजिह्वम् ।
गुदस्थं श्रुतिस्थं महाखप्रकाशं नमामः सदा वक्रतुण्डं भजामः ॥ ७॥
रजोरूपसृष्टिप्रकाशं विधिं तं सदा पालने केशवं सत्त्वसंस्थम् ।
तमोरूपधारं हरं संहरं तं नमामः सदा वक्रतुण्डं भजामः ॥ ८॥
दिशाधीशरूपं सदाशास्वरूपं ग्रहादिप्रकाशं ध्रुवादिं खगस्थम् ।
अनन्तोडुरूपं तदाकारहीनं नमामः सदा वक्रतुण्डं भजामः ॥ ९॥
महत्तत्त्वरूपं प्रधानस्वरूपं अहङ्कारधारं त्रयीबोधकारम् ।
अनाद्यन्तमायं तदाधारपुच्छं नमामः सदा वक्रतुण्डं भजामः ॥ १०॥
सदा कर्मधारं फलैः स्वर्गदं तं अकर्मप्रकाशेन मुक्तिप्रदं तम् ।
विकर्मादिना यातनाऽऽधारभूतं नमामः सदा वक्रतुण्डं भजामः ॥ ११॥
अलोभस्वरूपं सदा लोभधारं जनज्ञानकारं जनाधीशपालम् ।
नृणां सिद्धिदं मानवं मानवस्थं नमामः सदा वक्रतुण्डं भजामः । १२
लतावृक्षरूपं सदा पक्षिरूपं धनादिप्रकाशं सदा धान्यरूपम् ।
प्रसूपुत्रपौत्रादिनानास्वरूपं नमामः सदा वक्रतुण्डं भजामः ॥ १३॥
खगेशस्वरूपं वृषादिप्रसंस्थं मृगेन्द्रादिबोधं मृगेन्द्रस्वरूपम् ।
धराधारहेमाद्रिमेरुस्वरूपं नमामः सदा वक्रतुण्डं भजामः ॥ १४॥
सुवर्णादिधातुस्थसद्रङ्गसंस्थं समुद्रादिमेघस्वरूपं जलस्थम् ।
जले जन्तुमत्स्यादिनानाविभेदं नमामः सदा वक्रतुण्डं भजामः ॥ १५॥
सदा शेषनागादिनागस्वरूपं सदा नागभूषं च लीलाकरं तैः ।
सुरारिस्वरूपं च दैत्यादिभूतं नमामः सदा वक्रतुण्डं भजामः ॥ १६॥
वरं पाशधारं सदा भक्तपोषं महापौरुषं मायिनं सिंहसंस्थम् ।
चतुर्बाहुधारं सदा विघ्ननाशं नमामः सदा वक्रतुण्डं भजामः ॥ १७॥
गणेशं गणेशादिवन्द्यं सुरेशं परं सर्वपूज्यं सुबोधादिगम्यम् ।
महावाक्यवेदान्तवेद्यं परेशं नमामः सदा वक्रतुण्डं भजामः ॥ १८॥
अनन्तावतारैः सदा पालयन्तं स्वधर्मादिसंस्थं जनं कारयन्तम् ।
सुरैर्दैत्यपैर्वन्द्यमेकं समं त्वां नमामः सदा वक्रतुण्डं भजामः ॥ १९॥
त्वया नाशितोऽयं महादैत्यभूपः सुशान्तेर्धरोऽयं कृतस्तेन विश्वम् ।
अखण्डप्रहर्षेण युक्तं च तं वै नमामः सदा वक्रतुण्डं भजामः ॥ २०॥
न विन्दन्ति यं वेदवेदज्ञमर्त्या न विन्दन्ति यं शास्त्रशास्त्रज्ञभूपाः ।
न विन्दन्ति यं योगयोगीशकाद्या नमामः सदा वक्रतुण्डं भजामः ॥ २१॥
न वेदा विदुर्यं च देवेन्द्रमुख्या न योगैर्मुनीन्द्रा वयं किं स्तुमश्च ।
तथाऽपि स्वबुध्या स्तुतं वक्रतुण्डं नमामः सदा वक्रतुण्डं भजामः ॥ २२॥
मुद्गल उवाच ।
एवं स्तुत्वा वक्रतुण्डं स्थिता देवर्षयः प्रभो ।
बद्धाञ्जलिपुटाः सर्वे तूष्णींभावेन मानद ॥ २३॥
देवानां च मुनीनां स स्तुतिं श्रुत्वा गजाननः ।
उवाच तान् प्रसन्नात्मा हर्षयन् वचनं महत् ॥ २४॥
वक्रतुण्ड उवाच ।
शृणुध्वं मुनयः सर्वे देवा मे वचनं महत् ।
भवत्कृतमिदं स्तोत्रं मत्प्रीतेर्वर्धनं भवेत् ॥ २५॥
अनेन स्तौति यो नित्यं मां तस्य परिपूरये ।
भोगान्नानाविधांश्चैव पुत्रपौत्रादिसम्पदः ॥ २६॥
यं यमिच्छति तं तं च दास्येऽहं नात्र संशयः ।
भुक्तिमुक्तिप्रदं चैतद्ब्रह्मभूयकरं भवेत् ॥ २७॥
नानासिद्धिप्रदं चैव हृदि बुद्धिप्रकाशकम् ।
सुरेन्द्रैवद्यतां याति यो मां स्तौति त्वनेन सः ॥ २८॥
सहस्रावर्तनान् मर्त्यः कारागृहगतं नरम् ।
मोचयेन्नात्र सन्देहो मत्प्रियः सर्वदा भवेत् ॥ २९॥
अपराधशतयुक्तो यो वैभवति मानवः ।
तस्यापराधसहनं करोमि स्तोत्रपाठतः ॥ ३०॥
एकविंशतिवारं य एकविंशद्दिनानि वै ।
पठिष्यति सदा तस्मै चिन्तितं प्रददाम्यहम् ॥ ३१॥
एकविंशतिकाः श्लोका भवद्भिर्मत्प्रियात्मकैः ।
कृतास्तैर्मां स देवास्तु स्तुता वै मुनयोऽखिलाः ॥ ३२॥
तेन विघ्नविहीनाश्च स्वधर्मरुचयस्तथा ।
भविष्यथ महाभागा भुक्तिमुक्तिपदास्तथा ॥ ३३॥
वरं ब्रूत महाभागा येषां यन्मनसि स्थितम् ।
तद्दास्यामि न सन्देहः स्तोत्रसन्तोषितो ह्यहम् ॥ ३४॥
इति देवर्षिभिर्प्रोक्ता वक्रतुण्डस्तुतिः समाप्ता । १.३९
Encoded by Ajit Krishnan
Proofread by Ajit Krishnan, PSA Easwaran