शिवकृता वक्रतुण्डस्तुतिः
॥ श्रीगणेशाय नमः ॥
शिव उवाच ।
नमस्ते वक्रतुण्डाय सर्वसिद्धिप्रदाय च ।
निराकाराय देवाय साकाराय नमो नमः ॥ २१॥
नमः सर्वप्रबोधाय नमः सर्वप्रियङ्कर ।
गणानां पतये तुभ्यं गणेशाय नमो नमः ॥ २२॥
ब्रह्मणे सृष्टिकर्त्रे ते पालकाय च विष्णवे ।
संहर्त्रे ते हरायैव गुणेशाय नमो नमः ॥ २३॥
ब्रह्माकाराय वै तुभ्यं ब्रह्मभूताय ते नमः ।
नमः प्रपञ्चरूपाय प्रपञ्चानां प्रचालक ॥ २४॥
अनन्तगुणधाराय ह्यनन्तविभवाय ते ।
अनन्तोदररूपाय हेरम्बाय नमो नमः ॥ २५॥
कारणानां परायैव कारणाय नमो नमः ।
अकारणाय वै तुभ्यं सिंहवाहाय ते नमः ॥ २६॥
अहं जीवसमानश्च सञ्जातो नात्र संशयः ।
अविमुक्तं विमुक्तं मे जातं देव दयानिधे ॥ २७॥
अतस्त्वां शरणं यातो निर्विघ्नं कुरु मां प्रभो ।
देहि काशीं गणाध्यक्ष अविमुक्ततया च मे ॥ २८॥
त्वया पुरा वरो दत्तः स्मरणेन त्वदग्रतः ।
स्थास्यामि पुत्रभावेन तं पालय गजानन ॥ २९॥
इत्युक्त्वा पादयोस्तस्य प्रणनाम महेश्वरः ।
तमुत्थाप्य गणाध्यक्ष उवाच प्रहसन्निव ॥ ३०॥
(फलश्रुतिः)
वक्रतुण्ड उवाच ।
त्वया कृतमिदं स्तोत्रं सर्वसिद्धिकरं भवेत् ।
पठते शृण्वते चैव भुक्तिमुक्तिप्रदं शिव ॥ ३१॥
अन्यद्यत्प्रार्थितं सर्वं करिष्यामि सदाशिव ।
अविमुक्तं प्रदास्यामि सार्थकं ते च साम्प्रतम् ॥ ३२॥
इति शिवकृता वक्रतुण्डस्तुतिः सम्पूर्णा ॥
- ॥ मुद्गलपुराणं प्रथमः खण्डः । अध्यायः ५१ । १.५१ २१-३२॥
- .. mudgalapurANaM prathamaH khaNDaH . adhyAyaH 51 . 1.51 21-32..
Proofread by Yash Khasbage, Preeti Bhandare