विश्वामित्रकृता वक्रतुण्डस्तुतिः

विश्वामित्रकृता वक्रतुण्डस्तुतिः

॥ श्रीगणेशाय नमः ॥ विश्वामित्र उवाच । नमस्ते गणनाथाय विघ्नेशाय नमो नमः । निर्गुणाय गुणानां च पते वै ते नमो नमः ॥ १५॥ नमः सर्वविदां श्रेष्ठ नमः सर्वप्रियङ्कर । गजाकाराय देवाय गणेशाय नमो नमः ॥ १६॥ गजवक्त्र नमस्तुभ्यं ब्रह्मणां च पते नमः । अनादये च सततमादिपूज्याय ते नमः ॥ १७॥ सर्वसिद्धिप्रदात्रे ते नानामायाधराय च । मायिभ्यो मोहदात्रे वै तद्धीनाय नमो नमः ॥ १८॥ बुद्धेः पते नमस्तुभ्यं बुद्धिपञ्चकधारिणे । मनोवाणीमयायैव तद्धीनाय नमो नमः ॥ १९॥ सिंहारूढाय देवाय देवानां च पते नमः । देवदेवेशसेव्यायानादिसिद्धाय ते नमः ॥ २०॥ नमश्चतुर्भुजायैव मूषकध्वजधारिणे । नमो मूषकवाहाय हेरम्बाय नमो नमः ॥ २१॥ लम्बोदर नमस्तुभ्यं शूर्पकर्णाय ते नमः । योगिनां कुलदेवाय योगिनां च पते नमः ॥ २२॥ एवं तस्मिन् संस्तुवति प्रादुर्भूतो गजाननः । अनन्तादित्यसङ्काशः सिंहारूढो महोदरः ॥ २३॥ (फलश्रुतिः) वक्रतुण्ड उवाच । तं दृष्ट्वा निपपातोर्व्यां साश्रुनेत्रो महामुनिः । पुलकाङ्कितसर्वाङ्गो भक्तिभावेन सम्प्लुतः ॥ २४॥ तं दृष्ट्वा गणराजस्तु जगाद मुनिसत्तमम् । त्वया कृतमिदं स्तोत्रं मम प्रीतिकरं भवेत् ॥ २५॥ यः पठेच्छ्रुणुयाद्योऽपि स मे मान्यो भविष्यति । भुक्तिं मुक्तिं च दास्यामीप्सितं तस्मै न संशयः ॥ २६॥ इति विश्वामित्रकृता वक्रतुण्डस्तुतिः सम्पूर्णा ॥ - ॥ मुद्गलपुराणं प्रथमः खण्डः । अध्यायः ५४ । १.५४ १५-२६॥ - .. mudgalapurANaM prathamaH khaNDaH . adhyAyaH 54 . 1.54 15-26.. Proofread by Yash Khasbage, Preeti Bhandare
% Text title            : Vakratunda Stuti Vishvamitrakrita
% File name             : vakratuNDastutiHvishvAmitrakRRitA.itx
% itxtitle              : vakratuNDastutiH vishvAmitrakRitA (mudgalapurANAntargatA)
% engtitle              : vakratuNDastutiH vishvAmitrakRRitA
% Category              : ganesha, mudgalapurANa, stuti, aShTaka
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Yash Khasbage, Preeti Bhandare
% Description/comments  : mudgalapurANaM prathamaH khaNDaH | adhyAyaH 54 | 1.54 15-26||
% Indexextra            : (Scans 1, 2)
% Latest update         : June 4, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org