देवेन्द्राकृता श्रीविघ्नराजस्तुतिः
॥ श्रीगणेशाय नमः ॥
देवेन्द्रा ऊचुः ।
नमस्ते विघ्नराजाय भक्तविघ्नविदारण ।
अभक्तेभ्यो विशेषेण विघ्नदात्रे नमो नमः ॥ १९॥
गणेशाय परेशाय हेरम्बाय नमो नमः ।
चतुर्बाहुधरायैव नागेशध्वजिने नमः ॥ २०॥
अमेयायाप्रतार्क्याय सदा स्वानन्दवासिने ।
ब्रह्मणां पतये तुभ्यं ब्रह्मदात्रे नमो नमः ॥ २१॥
साङ्ख्याय बोधरूपाय पुरुषाय परात्मने ।
गणेशाय प्रकृतये त्रिगुणाय नमो नमः ॥ २२॥
स्रष्ट्रे पात्रे च संहर्त्रे प्रकाशरूपधारिणे ।
मोहकाय त्रिलोकस्थनाथाय ते नमो नमः ॥ २३॥
नानामायाप्रचालाय मायिभ्यो मायया प्रभो ।
मोहदाय विशेषेण मायिकाय नमो नमः ॥ २४॥
नानाभेदमयं ब्रह्म विघ्नयुक्तं न संशयः ।
तत्रानन्दयुतायैव समभावाय ते नमः ॥ २५॥
सर्वभेदविहीनं यद्ब्रह्मामृतमयं परम् ।
भेदहीनेन विघ्नेन युतं शास्त्रप्रमाणतः ॥ २६॥
भेदयुक्तं गणाधीश भेदहीनं त्वया परम् ।
सृष्टं द्वन्द्वमयं नाथ तयोर्नाथाय ते नमः ॥ २७॥
आनन्दं परमं ब्रह्म विघ्नानां हारकं मतम् ।
दायकं तत्त्वमेवेति विघ्नराज नमोऽस्तु ते ॥ २८॥
तं विघ्नराजराजं तु पश्यामश्चर्मचक्षुषा ।
धन्या वयं गणाधीश तव पादस्य दर्शनात् ॥ २९॥
एवमुक्त्वा प्रणेमुस्ते देवाः शम्भुपुरोगमाः ।
स तानुवाच विघ्नेशो भक्त्या स्तोत्रेण यन्त्रितः ॥ ३०॥
(फलश्रुतिः)
श्रीविघ्नराज उवाच ।
वरान् ब्रूत महादेवा येषां यान् मनसीप्सितान् ।
दास्यामि स्तोत्रसन्तुष्टस्तपसा ध्यानशालिना ॥ ३१॥
भवत्कृतमिदं स्तोत्रं सर्वसिद्धिप्रदं भवेत् ।
पठते शृण्वते देवा वाञ्छितार्थप्रदायकम् ॥ ३२॥
इति देवेन्द्राकृता श्रीविघ्नराजस्तुतिः सम्पूर्णा ॥
- ॥ मुद्गलपुराणं सप्तमः खण्डः । अध्यायः ६ । ७.६ १९-३२॥
- .. mudgalapurANaM saptamaH khaNDaH . adhyAyaH 6 . 7.6 19-32..
Proofread by Yash Khasbage, Preeti Bhandare