सक्षेत्रादेवाकृता श्रीविघ्नराजस्तुतिः

सक्षेत्रादेवाकृता श्रीविघ्नराजस्तुतिः

॥ श्रीगणेशाय नमः ॥ सक्षेत्रा देवा ऊचुः । ब्रह्मणे विघ्नराजाय स्वानन्दस्थाय ते नमः । आदिमध्यान्तहीनायादिमध्यान्तस्वरूपिणे ॥ १६॥ गणेशाय नमस्तुभ्यं भुक्तिमुक्तिप्रदायिने । नानाखेलकरायैव ज्येष्ठराजाय ते नमः ॥ १७॥ सृष्टिकर्त्रे च संहर्त्रे पात्रे मोहप्रचारिणे । गुणेशाय गुणानां तु चालकाय नमो नमः ॥ १८॥ परेशाय परेशेभ्यो मोहदाय गजानन । सर्वयोगमयायैव योगेशाय नमो नमः ॥ १९॥ सिद्धिबुद्धिपते तुभ्यं सिद्धिबुद्धिमयाय च । सिद्धिबुद्धिप्रदात्रे ते नमश्चिन्तामणे नमः ॥ २०॥ पूर्वाङ्गे विष्णुरूपाय दक्षिणाङ्गे शिवात्मने । पश्चिमाङ्गे च मायायै रवये उत्तराङ्गके ॥ २१॥ चतुर्विधं गणेशान सृष्ट्वा खेलसि नित्यदा । नानाविधं तथा त्वां तु कश्च स्तोतुं क्षमो भवेत् ॥ २२॥ वयं धन्या वयं धन्या दृष्टवन्तो गजाननम् । ब्रह्मणस्पतिनामानं ब्रह्मणां चालकं परम् ॥ २३॥ यं स्तोतुं न समर्थाश्च वेदाः साङ्गा गजानन । किं प्रस्तुमश्च देवेश अतस्त्वां प्रणमामहे ॥ २४॥ एवं स्तुत्वा गणेशानं देवाः क्षेत्रसमन्विताः । प्रणेमुस्तं प्रहर्षेण भक्तिभावसमन्विताः ॥ २५॥ ततस्तान् प्रत्युवाचेदं वचनं गणनायकः । भक्तान् भक्तिप्रियः साक्षात्तपसा तोषितः परः ॥ २६॥ (फलश्रुतिः) श्रीगणेश उवाच । वरं ब्रूत महाभागाः सक्षेत्रा देवमुख्यकाः । दास्यामि तपसा तुष्टो भक्त्या स्तोत्रेण चेप्सितम् ॥ २७॥ स्तोत्रं भवत्कृतं चैव यः पठिष्यति मामकम् । स मत्प्रियो भवेद्देवाः श‍ृणुयाच्छ्रावयेत्तथा ॥ २८॥ भुक्तिमुक्तिप्रदं चैव धनधान्यविवर्धनम् । पुत्रपौत्रप्रदं पूर्णं भविष्यति सुसिद्धिदम् ॥ २९॥ मम सन्निधिगो भूत्वा पठति स्तोत्रमुत्तमम् । सर्वक्षेत्रभवं पुण्यं लभते नात्र संशयः ॥ ३०॥ इति सक्षेत्रादेवाकृता श्रीविघ्नराजस्तुतिः सम्पूर्णा ॥ एकादशस्तोत्रं - ॥ मुद्गलपुराणं षष्टः खण्डः । अध्यायः ८ । ६.८ १६-३०॥ - .. mudgalapurANaM ShaShTaH khaNDaH . adhyAyaH 8 . 6.8 16-30.. Proofread by Yash Khasbage, Preeti Bhandare
% Text title            : Shri Vighnaraja Stuti Sakshetradevakrita
% File name             : vighnarAjastutiHsakShetrAdevAkRRitA.itx
% itxtitle              : vighnarAjastutiH sakShetrAdevAkRitA (mudgalapurANAntargatA)
% engtitle              : vighnarAjastutiH sakShetrAdevAkRRitA
% Category              : ganesha, mudgalapurANa, stuti, ekAdasha
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Yash Khasbage, Preeti Bhandare
% Description/comments  : mudgalapurANaM ShaShTaH khaNDaH | adhyAyaH 8 | 6.8 16-30||
% Indexextra            : (Scans 1, 2)
% Latest update         : June 4, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org