विघ्नस्त्वं विघ्नवारणः
परस्पर-मुखालोक -फलायितगणेश्वरौ ।
जगतो विघ्नहरणे दीक्षितौ तौ शिवौ स्तुमः ॥
पाशेन पाशहन्तारं अङ्कुशेन निरङ्कुशम् ।
सुकृत्ये चोदयन्तं त्वां नौम्यभीतिवरप्रदम् ॥
गुणेश! विघ्नस्त्वं भूयाः कुकृत्यान्मम वारणे ।
शुण्डाग्रेण नयेः कृत्ये शोभने विघ्नवारणः ।
इति विघ्नस्त्वं विघ्नवारणः सम्पूर्णः ।
Proofread by Narendran Madathil