विघ्नेश्वरं गणेशं गौरीसुतं नमामि
(गणेशम्)
विघ्नेश्वरं गणेशं गौरीसुतं नमामि ।
लम्बोदरं सदा त्वां कल्याणकं भजामि ॥ १॥
कुर्मो वयं न पूजां जानीमहे न भक्तिं
याचेकृपान्त्वदीयां ते मन्दिरे न यामि ॥ २॥
हे ! देव ! बुद्धिदाता स्वामी ददासि सिद्धीः,
किं मे न मङ्गलं ते छायातले वसामि ॥ ३॥
नो त्वत्समो जगत्यां सर्वाधिपो गणानाम्,
देवाधिदेवपुत्रं विद्याधरं व्रजामि ॥ ४॥
चिन्ता न मे यदाऽयं नौवाहको गणेशः,
संसारसागरं तं जाने ध्रुवं तरामि ॥ ५॥
कार्येषु मे सहायः स्यान्मोदकप्रियो वै,
दाता विराजते सोऽहं केवलं कृषामि ॥ ६॥
गौरी-महेश- गेहे मज्जन्मजात निष्ठा
गोपी गणेशमाता तच्छावको भवामि ॥ ७॥
गौरीज ! प्रार्थनेयं श्रव्या त्वया मदीया,
मन्त्रं विशालकाये कर्णे हृदोच्चरामि ॥ ८॥
पश्यामि नैव तोयं ह्यर्घ्यं ददानि तुभ्यम्,
नाथ ! प्रसीद तस्मादश्रूणि वाहयामि ॥ ९॥
प्रेम-प्रसूनयुक्तां त्वामर्पयामि मालां
त्वत्पादयोर्रजतच्छीर्षे मुदा धरामि ॥ १०॥
-- प्रेम शङ्कर शर्मा
Encoded and proofread by Mohan Chettoor