विघ्नेश्वरपूजाविधानम्

विघ्नेश्वरपूजाविधानम्

आदौ विघ्नेश्वरपूजा (चिकीर्षितस्य कर्मणः निर्विघ्नेन परिसमाप्त्यर्थं हरिद्राबिम्बे क्रियमाणा पूजा) ॐ वक्रतुण्ड महाकाय सूर्यकोटिसमप्रभ । अविघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥ श्रीगुरुभ्यो नमः । शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये ॥ प्राणायामः । करिष्यमाणस्य कर्मणो निर्विघ्नेन परिसमात्यर्थं आदौ विघ्नेश्वर पूजां करिष्ये (अप उपस्पृश्य) गणानां त्वा गणपतिं हवामहे कविं कवीनां उपमश्रवस्तमम् । ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आ नः श‍ृण्वन्नूतिभिः सीद सादनम् । अस्मिन् हरिद्राबिम्बे सुमुखं विघ्नेश्वरं ध्यायामि । आवाहयामि । (सर्वत्र आदी ओमिति प्रणवो योज्यः ।) सुमुखाय विघ्नेश्वराय नमः आसनं समर्पयामि । सुमुखाय विघ्नेश्वराय नमः पाद्यं समर्पयामि । सुमुखाय विघ्नेश्वराय नमः अर्ध्यं समर्पयामि । सुमुखाय विघ्नेश्वराय नमः आचमनीयं समर्पयामि । सुमुखाय विघ्नेश्वराय नमः मधुपर्कं समर्पयामि । सुमुखाय विघ्नेश्वराय नमः स्रपयामि । स्नानानन्तरं आचमनीयं समर्पयामि । सुमुखाय विघ्नेश्वराय नमः वस्त्राणि धारयामि । सुमुखाय विघ्नेश्वराय नमः उपवीतं समर्पयामि । सुमुखाय विघ्नेश्वराय नमः आभरणानि समर्पयामि । सुमुखाय विघ्नेश्वराय नमः गन्धान्धारयामि । गन्धोपरि हरिद्राकुङ्कुमं समर्पयामि । सुमुखाय विघ्नेश्वराय नमः अक्षतान् समर्पयामि । सुमुखाय विघ्नेश्वराय नमः पुष्पैः पूजयामि । ॐ सुमुखाय नमः । ॐ एकदन्ताय नमः । ॐ कपिलाय नमः । ॐ गजकर्णकाय नमः । ॐ लम्बोदराय नमः । ॐ विकटाय नमः । ॐ विघ्नराजाय नमः । ॐ विनायकाय नमः । ॐ धूमकेतवे नमः । ॐ गणाध्यक्षाय नमः । ॐ फालचन्द्राय नमः । ॐ गजाननाय नमः । ॐ वक्रतुण्डाय नमः । ॐ शूर्पकर्णाय नमः । ॐ हेरम्बाय नमः । ॐ स्कन्दपूर्वजाय नमः । ॐ विघ्नेश्वराय नमः । सुमुखाय विघ्नेश्वराय नमः धूपमाघ्रापयामि । सुमुखाय विघ्नेश्वराय नमः दीपं दर्शयामि । सुमुखाय विघ्नेश्वराय नमः नारिकेलखण्डद्वयं कदलीफलं गुडं सर्वं महानैवेद्यं निवेदयामि । निवेदनानन्तरं आचमनं समर्पयामि । सुमुखाय विघ्नेश्वराय नमः कर्पूरताम्बूलं समर्पयामि । सुमुखाय विघ्नेश्वराय नमः मन्त्रपुष्पं समर्पयामि । सुमुखाय विघ्नेश्वराय नमः स्वर्णपुष्पं समर्पयामि । सुमुखाय विघ्नेश्वराय नमः सर्वोपचारपूजाः समर्पयामि । वक्रतुण्ड महाकाय सूर्यकोटि समप्रभ । निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा । सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः । लम्बोदरश्च विकटो विघ्नराजो विनायकः । धूमकेतुर्गणाध्यक्षः फालचन्द्रो गजाननः । वक्रतुण्डः शूर्पकर्णो हेरम्बः स्कन्दपूर्वजः । षोडशैतानि नामानि यः पठेच्छृणुयादपि । विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा । सङ्ग्रामे सर्वकार्येषु विघ्नस्तस्य न जायते ॥ (चिकीर्षितं कर्म आरभ्य विघ्नेश्वरं यथास्थानं प्रतिष्ठापयेत् ।)अस्मात् हरिद्राबिम्बात् भगवन्तं सुमुखं विघ्नेश्वरं यथास्थानं प्रतिष्ठापयामि -शोभनार्थे क्षेमाय पुनरागमनाय च ॥ इति विघ्नेश्वरपूजाविधानं सम्पूर्णम् । Proofread by Narendran Madathil
% Text title            : Vighneshvara Pujavidhanam
% File name             : vighneshvarapUjAvidhAnam.itx
% itxtitle              : vighneshvarapUjAvidhAnam
% engtitle              : vighneshvarapUjAvidhAnam
% Category              : ganesha, pUjA
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Narendran Madathil
% Description/comments  : From Vighneshvara-stuti-manjari 4
% Indexextra            : (Scans 1, 2)
% Latest update         : October 1, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org