विकटस्तुतिः कामासुरेण प्रोक्तम्
कामः करपुटं कृत्वा त्यक्त्वा शस्त्रादिकं पुरः ।
विकटं प्रणनामाथ हर्षयुक्तस्वभावतः ॥ ३२॥
प्रणम्य पूजयामास पुनर्यत्नेन विघ्नपम् ।
तुष्टाव भक्तिसंयुक्तोऽसुरः कामो गजाननम् ॥ ३३॥
कामासुर उवाच -
नमस्ते विकटायैव गणेशाय परात्मने ।
सर्वपूज्याय सर्वेश! देवासुरमयाय च ॥ ३४॥
अनन्तमाययायुक्त! ब्रह्मभूतस्वरूपिणे ।
गजाननाय हेरम्ब! देवेशाय नमो नमः ॥ ३५॥
शूर्पकर्णाय विघ्नानां चालकाय नमो नमः ।
भक्तानां विघ्नहर्ते ते ह्यभक्तानां विनाशिने ॥ ३६॥
स्वानन्दवासिने तुभ्यं योगाकारस्वरूपिणे ।
योगिभ्यः शान्तिदात्रे ते योगेशाय नमो नमः ॥ ३७॥
अनामयाय सर्वादिपूज्याय ज्येष्ठरूपिणे ।
ज्येष्ठेभ्यः पददात्रे ते ज्येष्ठराजाय वै नमः ॥ ३८॥
सिद्धिबुद्धिप्रदात्रे च सिद्धिबुद्धिविहारिणे ।
सिद्धिबुद्धिस्वरूपाय गणानां पतये नमः ॥ ३९॥
त्रिनेत्राय नमस्तुभ्यं चतुर्बाहुधराय च ।
लम्बोदराय ब्रह्मेश! ब्रह्मणां पतये नमः ॥ ४०॥
देवानां पालकायैव दैत्येभ्यो वरदायिने ।
सर्वेषां समभावाय ढुण्ढिराजाय ते नमः ॥ ४१॥
विष्णुपुत्राय शम्भोश्च शक्तेः पुत्राय काश्यप! ।
वरेण्यसूनवे सर्वमात्रे पित्रे नमो नमः ॥ ४२॥
किं स्तौमि त्वां गणाधीश! यत्र योगीन्द्रमुख्यकाः ।
वेदादयो विशेषेण शान्तिं प्राप्ताः स्वभावतः ॥ ४३॥
मायासुखं विशेषेण भ्रान्तिदं सर्वजन्तवे ।
त्यक्त्वा तल्लभ्यसे नाथ! भक्त्या विकटया प्रभो! ॥ ४४॥
अशान्तं मायया युक्तं चित्तं भ्रान्तियुतं सदा ।
विकटे शान्तिमापन्नमतस्त्वं विकटो मतः ॥ ४५॥
विकट उवाच -
त्वया कृतमिदं स्तोत्रं सर्वकामप्रदं भवेत् ।
शृण्वते पठते चैवान्ते स्वानन्दप्रदायकम् ॥ ४९॥
इति कामासुरेणप्रोक्ता विकटस्तुतिः समाप्ता । ६.३४
Encoded by Ajit Krishnan
Proofread by Ajit Krishnan, PSA Easwaran