विनायकाष्टकम्
एकदन्तमीशपुत्रमाखुवाहमीश्वरं
विघ्नसङ्घध्वान्तसूर्यमन्तरायनायकम् ।
अच्युताद्यशेषदेवपूजिताङ्घ्रिपङ्कजं
विघ्नशैलवज्रिणं विनायकं नमाम्यहम् ॥ १॥
कामरूपधारिणं नागयज्ञसूत्रिणं
कुङ्कुमोत्थकायकान्तिशोभितं वराननम् ।
काञ्चनाभिभास्वरं च वासवादिवन्दितं
विघ्नशैलवज्रिणं विनायकं नमाम्यहम् ॥ २॥
नन्दिवाहनन्दने सुरेन्द्रनाथवन्दितं
नन्दिभृङ्गिनन्दनाथनारदादिनृत्यकम् ।
नन्दगोपनागराजपूर्वकैर्नमस्कृतं
विघ्नशैलवज्रिणं विनायकं नमाम्यहम् ॥ ३॥
सर्पवेष्टितोदरं च सर्पमालधारिणं
शङ्करादिपूजितं शिवात्मजं सुखात्मकम् ।
सावधानताकरं सरस्वतीप्रदायकं
विघ्नशैलवज्रिणं विनायकं नमाम्यहम् ॥ ४॥
विघ्नमत्तनागसिंहमुग्रनेत्रनासिकं
विघ्नमेघजालनाशकारिचण्डमारुतम् ।
विघ्नदाववह्निवारिवारिवारिवाहकं
विघ्नशैलवज्रिणं विनायकं नमाम्यहम् ॥ ५॥
विघ्नसिन्धुवाडवाग्निमिन्दुखण्डमण्डितं
विघ्नगोपमष्टसिद्धियुक्तभक्तसेवितम् ।
शूर्पकर्णवक्रतुण्डकुम्भगण्डशोभितं
विघ्नशैलवज्रिणं विनायकं नमाम्यहम् ॥ ६॥
दक्षयक्षपक्षिमुख्यरक्षिताङ्घियुग्मकं
भुक्तिमुक्तियुक्तिशान्तियुक्तपूजितं विभुम् ।
देवदेववंशवृद्धिसिद्धिसाधकं मुदा
विघ्नशैलवज्रिणं विनायकं नमाम्यहम् ॥ ७॥
देवदैत्ययोगिसिद्धचारणाभिसेवितं
सर्पखेटभूजभूतसङ्घसाधुवेष्टितम् ।
ईप्सितार्थदायकं विशेषकर्मकारकं
विघ्नशैलवज्रिणं विनायकं नमाम्यहम् ॥ ८॥
श्रीविनायकाष्टकं हि शङ्करेण निर्मितं
शङ्करस्य सौख्यदं भक्तविघ्ननाशकम् ।
ये पठन्ति सादरं समस्तसिद्धिदं स्तवं
ते त्वभीष्टसिद्धिपात्रभावमाप्नुवन्ति शम् ॥ ९॥
इति विनायकाष्टकं सम्पूर्णम् ।
Proofread by Aruna Narayanan narayanan.aruna at gmail.com