सनकादयकृता विनायकस्तुतिः
॥ श्रीगणेशाय नमः ॥
सनकादय ऊचुः ।
नमो विनायकायैव कश्यपप्रियसूनवे ।
अदितेर्जठरोत्पन्नब्रह्मचारिन्नमोऽस्तु ते ॥ ४८॥
गणेशाय सदा मायाधार चैतद्विवर्जित ।
भक्त्यधीनाय वै तुभ्यं हेरम्बाय नमो नमः ॥ ४९॥
त्वं ब्रह्म शाश्वतं देव ब्रह्मणां पतिरोजसा ।
योगायोगादिभेदेन क्रीडसे नात्र संशयः ॥ ५०॥
आदिमध्यान्तरूपस्त्वं प्रकृतिः पुरुषस्तथा ।
नादानादौ च सूक्ष्मस्त्वं स्थूलरूपो भवान् प्रभो ॥ ५१॥
सुरासुरमयः साक्षान्नरनागस्वरूपधृक् ।
जलस्थलादिभेदेन शोभसे त्वं गजानन ॥ ५२॥
सर्वेभ्यो वर्जितस्त्वं वै मायाहीनस्वरूपधृक् ।
मायामायिकरूपं त्वां को जानाति गतिं पराम् ॥ ५३॥
कथं स्तुमो गणाधीशं योगाकारमयं सदा ।
वेदा न शम्भुमुख्याश्च शक्ताः स्तोतुं कदाचन ॥ ५४॥
वयं धन्या वयं धन्या येन प्रत्यक्षतां गतः ।
अस्माकं योगिनां ढुण्ढे कुलदेवस्त्वमञ्जसा ॥ ५५॥
इत्युक्त्वा मौनमास्थाय नमामो दण्डवत् स्म तम् ।
उवाच नो गणाधीशो भक्तिभावनियन्त्रितः ॥ ५६॥
(फलश्रुतिः)
विनायक उवाच ।
भवद्भिर्यत्कृतं स्तोत्रं मदीयं योगशान्तिदम् ।
भविष्यति महाभागाः पठते शृण्वते सदा ॥ ५७॥
यं यमिच्छति तं तं वै दास्यामि स्तोत्रभावितः ।
भवन्तो गाणपत्याश्च भविष्यथ यथा शिवः ॥ ५८॥
इति सनकादयकृता विनायकस्तुतिः सम्पूर्णा ॥
- ॥ मुद्गलपुराणं द्वितीयः खण्डः । अध्यायः २५ । २.२५ ४८-५८॥
- .. mudgalapurANaM dvitIyaH khaNDaH . adhyAyaH 25 . 2.25 48-58..
Proofread by Yash Khasbage, Preeti Bhandare