योगशान्तिज्ञानप्रदं गणेशस्तोत्रम्
श्रीगणेशाय नमः ।
सनकाद्या ऊचुः ।
धन्योऽसि नृपशार्दूल बुद्धिस्ते परमाद्भुता ।
निर्वेदं राजभोगेभ्यः सम्प्राप्तः पृथुलश्रवाः ॥ १॥
योगशन्तिमयं पूर्णं गणेशं विद्धि भूमिप ।
तं भजस्व महाभक्त्या तया शान्तिं गमिष्यसि ॥ २॥
एकदा स्म वयं सर्वे सङ्गताः शङ्करालयम् ।
वटमूले समासीनं पश्यामो ध्यानसंस्थितम् ॥ ३॥
तम् प्रणम्य स्थिताः सर्वे वयं विनयसंस्थिताः ।
स्तोत्रैस्तं बोधयन्तश्च बुबोध वै शिवस्ततः ॥ ४॥
त्यक्त्वा ध्यानं गणेशाय नमो वदतमादरात् ।
श्रुत्वा भ्रान्ता वयं तस्मै पृच्छामः संशयान्विताः ॥ ५॥
कोऽसौ गणाधिपः स्वामिन्नमसि त्वं कथं प्रभो ।
शिवः सहजरूपस्त्वं स्वाधीनः सततं मतः ॥ ६॥
अस्माकं वचनं श्रुत्वा शिवो हर्पसमन्वितः ।
जगाद ज्ञानमाद्यं यद्गाणपत्यं स शान्तिदम् ॥ ७॥
श्रीशिव उवाच ।
ब्रह्म यत्कथ्यते वेदैः कथं तत्र प्रवर्तते ।
स्वाधीनं सहजं विप्रापराधीनं त्रिधाभवम् ॥ ८॥
कर्मयोगादिभेदेन वेदेषु वेदवादिभिः ।
नानाविधं वर्णितं यद् ब्रह्म तन्माययान्वितम् ॥ ९॥
कर्मणां सकलानां संयोगो ब्रह्मणि जायते ।
तेन कर्मात्मकं ब्रह्म तदज्ञानाधिकं मतम् ॥ १०॥
समूहात्मकशब्दश्च गण इत्यभिधीयते ।
बाह्यान्तराधिभेदेनासंयोगे समूहो मतः ॥ ११॥
अन्नप्राणादिकाः शब्दा ब्रह्मणो वाचका मताः ।
ते सर्वे गणरूपाश्च तेषां स्वामी गणेश्वर ॥ १२॥
संयोगाऽयोगकाद्या ये नाना योगा मता बुधैः ।
योगानां योगरूपोऽयं गणेशो नात्र संशयः ॥ १३॥
गणो योगात्मकः प्रोक्तस्तसमात्तस्य गणा वयम् ।
योगरूपं विशेषेण नमामो भक्तिसंयुताः ॥ १४॥
माया विघ्नात्मिका प्रोक्ता भ्रान्तिदा बिम्बभावतः ।
तां जयन्ति जना ईशा विघ्नराजस्य सेवया ॥ १५॥
भवन्ति ते ब्रह्मभूता योगीन्द्रा गाणपाः स्मृताः ।
अहं गणेशरूपो वै भिन्नं मायामयं मतम् ॥ १६॥
चित्तं पञ्चविधं प्रोक्तं सा बुद्धिर्विविधात्मिका ।
तत्रैश्चर्यं च यत्प्रोक्तं सिद्धिदः सा परमाद्भुता ॥ १७॥
तत्र यद् बिम्बभावेन गणेशः प्रतितिष्ठति ।
मायाभ्यां मोहितोऽत्यन्तं सर्वत्रासौ विराजते ॥ १८॥
बिम्बभावं परित्यजय गणेशस्यैव सेवया ।
पञ्चधा चित्तमुत्सृज्य स्वयं चिन्तामणिर्भवेत् ॥ १९॥
गणेशोऽहं यदा विप्रास्तदा कुत्र प्रवर्तते ।
संयोगो मे तथा योगः शान्तियोगं लभेत्ततः ॥ २०॥
न भिन्नोऽहं कदा तस्माद्गणेशान्नात्र संशयः ।
योगीन्द्रः शान्तियोगेन ब्रह्मभूतो भविष्यति ॥ २१॥
एतदेव मदीयं यद्गुह्यं ध्यानं प्रकीर्तितम् ।
अतो गणेशदासोऽहं तं नमामि सदा द्विजाः ॥ २२॥
एवमुक्त्वा महायोगी वीरराम स शङ्करः ।
उच्छिन्नसंशया जाताः सनकाद्या वयं नृप ॥ २३॥
विचरामो महीमेताम् स्वर्गेषु विवरेषु ।
योगमार्गेण योगीशा गाणपत्यस्वभावतः ॥ २४॥
गणेशदर्शने जाता लालसा वयमादरात् ।
तस्मिन्काले गणाधीशः कश्यपस्यात्मजोऽभवत् ॥ २५॥
काशीराजो महाभक्तो गाणपत्यपरायणः ।
तस्य गृहे गतो देवः स्वकीयाचार्यसाधनात् ॥ २६॥
दर्शनार्थं वयं तत्र गताः काश्यां महामते ।
दर्शयामो गणेशं स्म ब्रह्मचारिस्वरूपिणम् ॥ २७॥
तम् प्रणम्य वयं राजन् स्थिता भक्त्या समन्विताः ।
बालरूपधरं देवं स्तुमः स्म बालयूथगम् ॥ २८॥
सनकाद्या ऊचुः ।
नमो विनायकायैव कश्यपप्रियसूनवे ।
अदितेर्जठरोत्पन्न ब्रह्मचारिन्नमोऽस्तु ते ॥ २९॥
गणेशाय सदा मायाधाराय तद्विवर्जित ।
भक्त्य्धीनाय वै तुभ्यं हेरम्बाय नमो नमः ॥ ३०॥
तद् ब्रह्म शाश्वतं देव ब्रह्मणां पतिरञ्जसा ।
योयायोगादिभेदेन क्रीडसे नात्र संशयः ॥ ३१॥
आदिमध्यान्तरूपस्त्वं प्रकृतिः पुरुषस्तथा ।
नादानन्दौ च सूक्षस्त्वं स्थूलरूपो भवान् प्रभो ॥ ३२॥
सुरासुरमयः साक्षान्नरनागस्वरूपधृक् ।
जलस्थलादिभेदेन शोभसे त्वं गजानन ॥ ३३॥
सर्वेभ्यो वर्जितस्त्वं वै मायाहीनः स्वरूपधृक् ।
मायामायिकरूपश्च को जानाति गतिं पराम् ॥ ३४॥
कथं स्तुमो गणाधीशं योगाकारमयं सदा ।
देवा न शंभुमुख्याश्च शक्ताः स्तोतुं कदाचन ॥ ३५॥
वयं धन्या वयं धन्या येन प्रत्यक्षतां गतः ।
अस्माकं योगिनां ढुण्ढे कुलदेवस्त्वमञ्जसा ॥ ३६॥
इत्युक्त्वा मौनमास्थाय ननाम दण्डवच्च तम् ।
उवाच नो गणाधीशो भक्तिभावनियन्त्रितः ॥ ३७॥
विनायक उवाच ।
भवद्भिर्यत्कृतं स्तोत्रं मदीयं योगशान्तिदम् ।
भविष्यति महाभागाः पठतः शृण्वतः सदा ॥ ३८॥
यं यमिच्छति तं तं वै दास्यामि स्तोत्रभावतः ।
भवन्तो गाणपत्याश्च भविष्यथ यथा शिवः ॥ ३९॥
एवमुक्त्वा स्वयं बालश्चिक्रीड प्राकृतो यथा ।
बालकैः सह योगात्मा काश्यपः पूर्ववन्नृपः ॥ ४०॥
वयं काशीपते राजन् दर्शनार्थं गतास्ततः ।
तेनापि मानिताः सम्यक् भुक्त्वा च स्वपदे पुनः ॥ ४१॥
एतत्ते कथितं सर्वं योगशान्तिमयं महत् ।
ज्ञानं पूर्णं गणेशाख्यं तं भजस्व गणाधिपम् ॥ ४२॥
इति श्रीमुद्गलपुराणान्तर्गतं गणेशस्तोत्रं समाप्तम् ।
Encoded and proofread by
Karthik Chandan.P (kardan5380@yahoo.com)
Amith K Nagaraj (amithkn@rediffmail.com)