अनुगीता भारतमञ्जर्यां क्षेमेन्द्रविरचिता

अनुगीता भारतमञ्जर्यां क्षेमेन्द्रविरचिता

कृष्णेनाश्वारस्यमानोऽथ मुनिभिर्भ्रातृभिस्तथा । अश्वमेधधृतोद्योगो धृतिं लेभे युधिष्ठिरः ॥ १४.५०॥ द्रष्टुं ततः प्रजाकार्यं प्रवृत्ते धर्मनन्दने । अन्तर्दधे तमामन्त्र्य सर्वं तन्मुनिमण्डलम् ॥ १४.५१॥ हेमरत्नलताकान्ते विकासिकनकाम्बुजे । अथ कृष्णौ सभोद्याने स्वैरं प्रीत्या विजह्वतुः ॥ १४.५२॥ कथान्ते तत्र कंसारिं सुभद्रावल्लभोऽवदत् । युद्धारम्भे त्वयोक्तं यत्सर्वं तन्मम विस्मृतम् ॥ १४.५३॥ विसृष्टं परमार्थज्ञ ज्ञानं तत्पुनरुच्यताम् । इत्युक्तः पाण्डुपुत्रेण विषण्णः केशवोऽब्रवीत् ॥ १४.५४॥ अहो त्वयावधानेन न श्रुतं तदबुद्धिना । न शक्यते पुनर्वक्तुं तथापि श्रूयतामिदम् ॥ १४.५५॥ ब्राह्मणेन पुरा कश्चिज्जीवन्मुक्तदशां श्रितः । सिद्धः पृष्टोऽवदत्सर्वं विज्ञाय भवविभ्रमम् ॥ १४.५६॥ अस्मिन्नसत्यसङ्घाते भूतानां पाञ्चभौतिके । गुणैर्निबद्धः पक्षीव जीवस्तिष्ठति पञ्जरे ॥ १४.५७॥ अहङ्कारैकसाराणां देहिनां विस्मृतात्मनाम् । चक्रवत्परिवर्तन्ते सुखदुःखक्षयोदयाः ॥ १४.५८॥ देहान्ते कर्मसंसर्गाज्जन्तवः शुभदुष्कृतैः । तारारूपा विमानानि भजन्ते नरकाणि वा ॥ १४.५९॥ ततो भोगक्षये गर्भं जरायुपरिवेष्टितम् । शुक्ररूपो विशत्यात्मा योन्यां शोणितसम्प्लुतः ॥ १४.६०॥ निःश्वासाग्रैर्यथा वारि लीयते दर्पणोदरे । निर्धूतस्य यथा वह्नेरूष्मा व्योम्नि प्रसर्पति ॥ १४.६१॥ यथा वा कुसुमामोदः प्रविशत्यन्तरेऽनिले । रागः सङ्क्रान्तिमायाति सरन्ध्रे स्फटिके यथा ॥ १४.६२॥ तथा दुर्लक्ष्यसञ्चारो गर्भमात्मा प्रधावति । बिभ्राणो वासनामन्तः शीतस्पर्शमिवानिलः ॥ १४.६३॥ जातस्य जायते तस्य वर्धमानस्य वर्धते । तृष्णातन्तुर्भि(र्वि)सस्येव शुष्यतो न तु शुष्यति ॥ १४.६४॥ विवेकाद्दुःखसंयोगाद्वैराग्यं गाढमाश्रितः । नाहमसस्मीति मन्त्रेण मुच्यते ब्रह्मदीक्षितः ॥ १४.६५॥ पूर्वं भावेषु निर्वाणस्ततः कारणवृत्तिषु । निरालम्बदशामेत्य योगी ब्रह्मणि लीयते ॥ १४.६६॥ सर्वतः पाणिचरणं सर्वव्यापिनमव्ययम् । आत्मानं स परिज्ञाय सत्यामेतां भवस्थितिम् ॥ १४.६७॥ इत्युक्त्वा ब्राह्मणं सिद्धः सहसान्तरधीयत । इदमन्यच्च कौन्तेय श्रेयसे प्रयतः श‍ृणु ॥ १४.६८॥ उवाच ब्राह्मणी काचिद्भर्तारं विजने पुरा । गमिष्यामि गतिं साध्वी कामहं त्वत्परायणा ॥ १४.६९॥ इति पृष्टस्तया विप्रस्तामुवाच स्मिताननः । अग्निर्वैश्वानरो नाम स्थितोऽन्तः किल देहिनाम् ॥ १४.७०॥ इन्द्रियाणि मनोबुद्धिस्तस्य सप्तार्चिष स्मृताः । विषयाश्चास्य समिधो भोक्तारः सप्त चर्त्विजः । तस्मिन्हते सर्वमिदं जायते च पुनः पुनः ॥ १४.७१॥ इन्द्रियाणीव मनसो मनस्तेषां च सर्वदा । परस्परोपकारेण प्रीयते देहसङ्गमे ॥ १४.७२॥ मनोबुद्धिप्रभृतयः सप्तेन्द्रियमृगाः पुरा । अतर्केणैव निहता राज्ञा योगमयैः शरैः ॥ १४.७३॥ जितेन्द्रियस्य नो किञ्चिदिदं तस्यैव चाखिलम् । विषया विषयस्येति जनको विप्रमभ्यदात् ॥ १४.७४॥ तस्मादसक्तमनसा दृष्ट्वा सर्वमिदं मया । त्यक्तं परावरज्ञेन भवाविर्भावशान्तये ॥ १४.७५॥ गतिस्तवापि कल्याणि मद्भावसदृशी सदा । ब्रह्मारणीसमुद्भूतं जानीहि ज्ञानपावकम् ॥ १४.७६॥ एतत्पत्युर्वचः श्रुत्वा ब्राह्मणी तत्त्वदर्शिनी । क्षेत्रक्षेत्रज्ञविज्ञानं परं प्रावीण्यमाययौ ॥ १४.७७॥ श्रुत्वैतदर्जुनः कृष्णं बभाषे विस्मयाकुलः । योगीन्द्रो ब्राह्मणः कोऽसौ क्वास्ते वा सा च तद्वधूः ॥ १४.७८॥ इत्युक्तः कैटभारातिः पुनरूचे धनञ्जयम् । शिष्येण पृष्टः सर्वज्ञः पुरा गुरुरभाषत ॥ १४.७९॥ बृहस्पतिप्रभृतिभिर्मुनीन्द्रैः सर्वदर्शिभिः । श्रुतेयं भवविच्छेदकथा प्रोक्ता स्वयम्भुवा ॥ १४.८०॥ गुणत्रयनिबद्धानां कर्मभेदविकारिणाम् । भावोऽयं प्राणिनां शश्वदल्पोऽप्यायात्यनल्पताम् ॥ १४.८१॥ विचित्रः किल सर्गोऽयमहङ्काराद्विनिर्गतः । तस्मिन्नेव लयं याति श्वभ्रे पुष्पचयो यथा ॥ १४.८२॥ जन्मान्तरशताभ्यासादन्तरङ्गत्वमागतः । अहङ्कारः स मनसो लीलया केन भेद्यते ॥ १४.८३॥ अविद्या तानवेनैव शनैः सन्न्यस्तकर्मणः । विकल्पद्वन्द्वविरतौ ज्ञानालोकः प्रजायते ॥ १४.८४॥ ज्ञानाग्निना प्रवृद्धेन दग्ध्वा भवविषद्रुमम् । सर्वग्रन्थिविनिर्मुक्तः परमामृतमश्नुते ॥ १४.८५॥ इति ब्रह्मोदितं ज्ञानं शिष्याय गुरुणा पुरा । नानानिदर्शनोपेतं कथितं भवशान्तये ॥ १४.८६॥ अहमेव गुरुः पार्थ शिष्यश्च त्वं समो मम । इत्युक्त्वा ज्ञानसर्वस्वं विरराम जनार्दनः ॥ १४.८७॥ इति भारतमञ्जर्यां क्षेमेन्द्रविरचिता अनुगीता समाप्ता ।
% Text title            : anugItA from Bharatamanjari of Kshemendra
% File name             : anugItABM.itx
% itxtitle              : anugItA (bhAratamanjaryAM kShemendravirachitA)
% engtitle              : anugItA from Bharata manjari of Kshemendra
% Category              : giitaa, kShemendra
% Location              : doc_giitaa
% Sublocation           : giitaa
% Author                : Kshemendra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description/comments  : kAvyamAlA 65. Bharatamanjari
% Indexextra            : (Scan)
% Latest update         : October 15, 2022
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org