श्रीमद्भगवद्गीताष्टकम्
॥ श्रीकृष्णो विजयतेतराम् ॥
नमः श्री राघवानन्द-पदपङ्कजरेणवे ।
यत्कृपालवमात्रेण अहमज्ञोऽपि तारितः ॥
॥ अथ श्रीमद्भगवद्गीताष्टकम् ॥
वेदार्थतत्त्वनिपुणैः सादसि प्रगीतां
अज्ञानतान्तपटलं परिकर्षयन्तीम् ।
विज्ञानसूक्तिभिरलङ्कृतगात्रशोभां
गीतां भजामि सततं जगदर्कवर्णाम् ॥ १॥
श्रीकृष्णसुन्दरमुखप्रभवां सुशीलां
आदौ सुधीररणकर्कशजिष्णुपीताम् ।
विज्ञानत्त्वनिचयां निगमैकवेद्यां
गीतां भजामि सततं सकलार्थसाराम् ॥ २॥
श्रीशङ्करादिकृतभाष्यपवित्रसूक्तिः
अद्वैतवादशिशिरीकतमञ्जुवाणी ।
सुश्लोकसप्तशतनिर्मितपुष्पवल्ली
गीता करोतु विमलं कलुषं मनो मे ॥ ३॥
शान्तिप्रवाहमधुराक्षरयुक्तिपूर्णा
दुष्टप्रतर्कवनमक्षणकाननाग्निः ।
शीतांशुवर्षणकरी भवती प्रसिद्धा
गीता सदा वसतु मे हृदये प्रसन्ना ॥ ४॥
पीत्वा न तृप्तिमगमन् मुनयो न सिद्धाः
विद्याधरासुरनराधिपसार्वभौमाः ।
सङ्गीतशास्त्रगुणमण्डितपण्डितौघाः
यत्सारमच्युतमुखप्रभवं विशुद्धम् ॥ ५॥
मातर्महामहिमशालिनि विश्ववन्द्ये
संसारजन्ममृतिरोगविनाशशीले ।
निर्वाणमुक्तिमुकुटीकृतभावदात्रि
गीते मदीयरसनानिलये वस त्वम् ॥ ६॥
यादित्यचन्द्रकिरणैरपि दुर्विभाव्यं
मोहात्मकं तिमिरमाशु जनप्रविष्टम् ।
दूरीकरोति दुरितं वचसा मनोजं
तामीश्वरीं भगवतीं प्रणमामि गीताम् ॥ ७॥
दृष्टं न शास्त्रनिगमेषु समं भवत्याः
माधुर्यवाक्यकलिताक्षरभावपूर्णम् ।
वेदान्ततत्त्वमणिमण्डितनिर्विकल्पं
अत्र त्वमेव जयतान्नितरां सुगीते ! ॥ ८॥
गीताष्टकमिदं प्रोक्तमच्युतानन्दभिक्षुणा ।
यः पठेद्भक्तिभावेन तस्य गीता प्रसीदति ॥
इति श्रीस्वामि अच्युतानन्दकृतं
श्रीमद्भगवद्गीताष्टकं सम्पूर्णम् ।
Proofread by PSA Easwaran