श्रीमद्भगवद्गीताष्टोत्तरशतनामस्तोत्रम्
ॐ गीता गोविन्दहृद्गङ्गा गुरुगेया गिरामृता ।
गायत्री गोपिता गूढा गुडाकेशार्तिहारिणी ॥ १॥
मधुसूदनमुखाम्भोजसुधा सर्वार्थमञ्जरी ।
महाभारत-मध्यस्था मुकुन्दघनदामिनी ॥ २॥
हरिझङ्कृतचिद्वीणा त्रिषट्तन्त्रीवरस्वरा ।
प्रस्थानप्रमुखा प्रत्यग्दीपिका प्रणवात्मिका ॥ ३॥
प्रपत्त्यङ्कुरिता सीता सत्या कृष्णाब्जशारदा ।
कृष्णापतिसमुद्धर्त्री कार्पण्याधिमहौषधी ॥ ४॥
अम्बा चिन्त्यपदा मात्रा चिन्मात्रा नन्दवर्षिणी ।
अष्टादशभुजा दुर्गाऽध्यात्मशस्त्रास्त्रधारिणी ॥ ५॥
वरदाऽभयदा ज्ञानमुद्रा मन्त्राक्षमालिका ।
वेणुगानरता शूल-शङ्ख-चक्र-गदा-धरा ॥ ६॥
विद्याकुम्भोल्लसत्पाणिः बाणकोदण्डमण्डिता ।
करताललयोपेता पद्मपाशाङ्कुशच्छविः ॥ ७॥
अनुष्टुप्सङ्कुला नानाछन्दालङ्कारसुन्दरी ।
इन्द्रोपेन्द्रसंवलिता चोपजातिसुसज्जिता ॥ ८॥
विपरीतवृत्तियुक्ता वर्णमङ्गलविग्रहा ।
व्यासप्रिया व्यसनहा वासुदेवप्रसादजा ॥ ९॥
विषादघ्नी विरागिणी विद्या व्यामोहनाशिनी ।
विनेयवत्सला श्रेया निश्चितार्थ-प्रकाशिनी ॥ १०॥
देहीदेहविवेकाढ्या बुद्धिद्वयविलासिनी ।
निर्द्वन्द्वा नित्य सत्त्वस्था निःस्पृहा संशयापहा ॥ ११॥
ब्राह्मीस्थितिः स्थितप्रज्ञा ब्रह्मस्पर्शसुखास्पदा ।
ब्रह्मयोनिर्यज्ञमयी ब्रह्मनिर्वाणदायिनी ॥ १२॥
कर्मान्ता कामहा काम्या सौम्या योगत्रयाश्रया ।
धर्मक्षेत्रोद्भवा धर्म्या ध्यानस्था भक्ति निर्झरी ॥ १३॥
ज्ञानविज्ञानसोपाना दिव्यस्मरणसन्ततिः ।
राजविद्या राजगुह्या प्रत्यक्षा सुलभागतिः ॥ १४॥
विभूतिभूषितानन्ता विश्वरूपप्रदर्शिनी ।
अद्वेष्टृत्वादिसन्दोहा क्षेत्रक्षेत्रज्ञपालिनी ॥ १५॥
गुणज्ञा त्रिगुणातीता क्षराक्षरविमर्शिनी ।
पुरुषोत्तमपरा पूर्णा कृतकृत्यपदप्रदा ॥ १६॥
दिव्यसम्पत्प्रसूर्दिव्या शरणागतिधर्मिणी ।
संन्यासरसिका मुक्ता सर्वपापप्रमोचिनी ॥ १७॥
श्रीशङ्करादृताऽद्वैता श्रीनिवासनिवासभूः ।
सर्वशास्त्रमयी संवित् स्मृतिः समरसाकृतिः ॥ १८॥
योगेश्वरानन्दकरी गीतां भगवतीं सदा ।
ये स्तुवन्त्यनया भक्त्या यान्ति परमागतिम् ॥ १९॥
इति श्रीमद्भगवद्गीताष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।
Proofread by Narendran Madathil