बोध्यगीता
भीम उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
गीतं विदेहराजेन जनकेन प्रशाम्यता ॥ १॥
अनन्तं बत मे वित्तं यस्य मे नास्ति किं चन ।
मिथिलायां प्रदीप्तायां न मे दह्यति किं चन ॥ २॥
अत्रैवोदाहरन्तीमं बोध्यस्य पदसञ्चयम् ।
निर्वेदं प्रति विन्यस्तं प्रतिबोध युधिष्ठिर ॥ ३॥
बोध्यं दान्तमृषिं राजा नहुषः पर्यपृच्छत ।
निर्वेदाच्छान्तिमापन्नं शान्तं प्रज्ञान तर्पितम् ॥ ४॥
उपदेशं महाप्राज्ञ शमस्योपदिशस्व मे ।
कां बुद्धिं समनुध्याय शान्तश्चरसि निर्वृतः ॥ ५॥
बोध्य उवाच ।
उपदेशेन वर्तामि नानुशास्मीह कञ्चन ।
लक्षणं तस्य वक्ष्येऽहं तत्स्वयं परिमृश्यताम् ॥ ६॥
पिङ्गला कुररः सर्पः सारङ्गान्वेषणं वने ।
इषुकारः कुमारी च षडेते गुरवो मम॥ ७॥
भीम उवाच ।
आशा बलवती राजन्नैराश्यं परमं सुखम् ।
आशां निराशां कृत्वा तु सुखं स्वपिति पिङ्गला ॥ ८॥
सामिषं कुररं दृष्ट्वा वध्यमानं निरामिषैः ।
आमिषस्य परित्यागात् कुररः सुखमेधते ॥ ९॥
गृहारम्भो हि दुःखाय न सुखाय कदाचन ।
सर्पः परकृतं वेश्म प्रविश्य सुखमेधते ॥ १०॥
सुखं जीवन्ति मुनयो भैक्ष्यवृत्तिं समाश्रिताः ।
अद्रोहेनैव भूतानां सारङ्गा इव पक्षिणः ॥ ११॥
इषुकारो नरः कश्चिदिषावासक्तमानसः ।
समीपेनापि गच्छन्तं राजानं नावबुद्धवान् ॥ १२॥
बहूनां कलहो नित्यं द्वयोः संकथनं भवेत् ।
एकाकी विचरिष्यामि कुमारीशंखको यथा ॥ १३ ॥
इति बोद्ध्यगीता समाप्ता ॥
From Mahabharata
Encoded and proofread by
Sunder Hattangadi
PSA Easwaran