श्रीदत्तात्रेयगीता अथवा श्रीदत्तगीता मुद्गलपुराणान्तर्गता

श्रीदत्तात्रेयगीता अथवा श्रीदत्तगीता मुद्गलपुराणान्तर्गता

७.१३ दत्तगीतावर्णनं नाम त्रयोदशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ कश्यप उवाच । एकदा माघमासे तु मकरस्थे दिवाकरे । तीर्थानि देवविप्राद्याः प्रयागं जग्मुरादरात् ॥ १॥ सर्वे संहृष्टभावस्था माघस्नानपरायणाः । ओङ्कारगणनाथं ते पुपूजुर्भक्तिसंयुताः ॥ २॥ ततः शूलभृतं पूज्य तत्रस्थं माधवं प्रिये । त्रिवेणीं भावसंयुक्ताः कथां चक्रुः पुरातनीम् ॥ ३॥ भ्रमंस्तत्राऽऽजगामैव दत्तो योगीन्द्रसत्तमः । अवधूतस्य मार्गस्य प्रकाशक उदाहृतः ॥ ४॥ गाणेशं ब्रह्मपं ब्रह्म परं सर्वार्थदायकम् । ओङ्कारगणनाथं स प्रणम्य स्तोत्रमारभत् ॥ ५॥ तत् दृष्ट्वा परमाश्चर्यमाययुस्तं शिवादयः । योगिनः कश्यपाद्याश्चाऽन्ये देवादयादरात् ॥ ६॥ तं प्रणम्य स्थिताः सर्वे योगीन्द्रं ब्रह्म तत्परम् । गणेशभजने सक्तं दृष्ट्वा पप्रच्छुरादरात् ॥ ७॥ शिवादय ऊचुः । भगवन् सर्वतत्त्वज्ञ ब्रह्मभूतपरायण । साक्षाद्ब्रह्मशरीरस्त्वं समागतो यदृच्छया ॥ ८॥ अवधूतस्य मार्गस्य प्रकाशार्थं विशेषतः । देहधारी भवान्नाथ पावनाय शरीरिणाम् ॥ ९॥ तव दर्शनमात्रेण कृतकृत्या वयं प्रभो । जाताः कुलयुताः स्वामिन् बोधयस्व मुनीन् सुरान् ॥ १०॥ एवं विनयसंयुक्तैः स्तुतः पृष्टो महामुनिः । जगाद तान् महाभागान् हर्षेण महताऽऽवृतः ॥ ११॥ दत्तात्रेय उवाच । ब्रह्मविष्णुशिवाद्याश्चाङ्गिराद्या मुनयोऽमलाः । शेषाद्या नागराजाश्च श‍ृणुध्वं मे वचो हितम् ॥ १२॥ ब्रह्मेदं सर्वमाभाति तं भजध्वं हिताय वः । समर्था ब्रह्मभूताश्च भविष्यथ न संशयः ॥ १३॥ तस्य तद्वचनं श्रुत्वा पुनः सर्वे जगुर्वचः । हर्षेण योगिवन्द्यं तं कृत्वा करपुटं प्रिये ॥ १४॥ शिवाद्या ऊचुः । ब्रह्मणि ब्रह्मभूतस्त्वं गणेशं भजसे कथम् । नामरूपधरं देवमोङ्काराकृतिधारकम् ॥ १५॥ अस्माकं कुलदेवोऽयं त्रिगुणात्मशरीरिणाम् । मूलभूतो न सन्देहो योगिनां कथमञ्जसा ॥ १६॥ तेषां तद्वचनं श्रुत्वा स्मयमानो महायशाः । दत्तो जगाद हर्षेण ज्ञानदानार्थमादरात् ॥ १७॥ दत्त उवाच । गणेशो ब्रह्मणां नाथो वेदेषु परिकीर्तितः । ब्रह्म नानाविधं तद्वत् कथितं मायया युतम् ॥ १८॥ अन्नं ब्रह्मेति देवेशा मुनयः श‍ृणुत प्रियाः । तत्रान्नमयरूपा तु माया मोहकरी बभौ ॥ १९॥ प्राणो ब्रह्मेति तत्रैव प्राणाकारविमोहिनी । माया मनोमयी तद्वन् मनो ब्रह्मणि संस्थिता ॥ २०॥ विज्ञानं ब्रह्म तत्रेयं माया विज्ञानरूपिणी । आनन्दं ब्रह्म यत् प्रोक्तं युतमानन्दमायया ॥ २१॥ चैतन्यं ब्रह्म यत् प्रोक्तं माया चेतनरूपिणी । बिन्दुब्रह्मेति तत्रैव माया बिन्दुमयी बभौ ॥ २२॥ सोऽहं ब्रह्मेति यत्रेयं माया सोऽहं प्रकाशिनी । बोधो ब्रह्मेति बोधाख्या माया तत्र विमोहिनी ॥ २३॥ विदेहं ब्रह्म यत् प्रोक्तं माया वै देहरूपिणी । तया तत्र महादेवा भ्रमन्ति ब्रह्ममानिनः ॥ २४॥ कर्म ब्रह्मेति कर्माख्या माया तत्र विमोहिनी । ज्ञानं ब्रह्मेति तद्वत्तु ज्ञानमायायुतं बभौ ॥ २५॥ समं ब्रह्मेति तत्रैव माया समस्वरूपिणी । सहजं ब्रह्म यत् प्रोक्तं सहजाख्यविकारदम् ॥ २६॥ असद्ब्रह्मेति यत् प्रोक्तं तत्रासन्मायया युतम् । सद्ब्रह्मेति सदाकारमायायुक्तं प्रकीर्तितम् ॥ २७॥ सदसन्मयभावाख्यं ब्रह्म प्रोक्तं मुनीश्वराः । उभयात्मविकारेण ज्ञातव्यं संयुतं सदा ॥ २८॥ अव्यक्तं ब्रह्म यत् प्रोक्तं युतमव्यक्तमायया । स्वसंवेद्यं परं ब्रह्म युतं स्वानन्दमायया ॥ २९॥ आत्माद्वयैकसर्वाख्याद्याः शब्दाः परिकीर्तिताः । महावाक्यादिभिस्ते तु तत्तन्मायाप्रकाशकाः ॥ ३०॥ शिवविष्णुमुखाः शब्दा ब्रह्मवाच्याः प्रकीर्तिताः । तत्तद्विकारसंयुक्तान् जानीत देवसत्तमाः ॥ ३१॥ पृथ्वी जलादितत्त्वानि ब्रह्मणां वाचकानि तु । तत्तद्विकारयुक्तानि जानीत देवसत्तमाः ॥ ३२॥ एवं नानाविधान्येव ब्रह्माणि कथितानि च । वेदादिषु समस्तानि मायामोहयुतानि तु ॥ ३३॥ तेषां स्वामिस्वरूपेण तिष्ठति ब्रह्मणस्पतिः । ब्रह्मणां पातृभावाच्च पालयितृत्वकारणात् ॥ ३४॥ स एवायं गणाध्यक्षो वेदेषु कथितोऽभवत् । ब्रह्मभूयमयः साक्षात्तं भजामि द्विजोत्तमाः ॥ ३५॥ उत्पत्तिनाशहीनं यद् गजाख्यं ब्रह्म चक्षते । साङ्ख्यं शिरो गणेशस्य गजानन इति स्मृतः ॥ ३६॥ भूमिसाधनभावेन भवेत् ब्रह्मणि तन्मयः । देहस्तस्य च योगाख्यो नानाभूमिप्रधारणात् ॥ ३७॥ तयोर्योगे गणेशानो देहधारी बभूव ह । साङ्ख्ये योगमयः साक्षात् पूर्णशान्तिप्रदायकः ॥ ३८॥ संयोगेऽयं गकाराख्यो ह्ययोगे णमयः स्मृतः । तयोरीशो गणेशानो नामाऽयं वेदवादतः ॥ ३९॥ पञ्चचित्तमयी बुद्धिर्दक्षिणाङ्गं बभूव ह । पञ्चभ्रान्तिकरी सिद्धिर्वामाङ्गं तस्य सर्वदा ॥ ४०॥ तयोः स्वामी गणाध्यक्षो मायाभ्यामत्र खेलति । चित्ते चिन्तामणिः साक्षात् प्रकाशकारकस्तयोः ॥ ४१॥ समोहं चित्तमुत्सृज्य योगीन्द्रो जायते नरः । तं भजामि विशेषेण चित्तचालनकारकम् ॥ ४२॥ कृतानि सिद्धिबुद्धिभ्यां ब्रह्माणि सकलानि वै । तानि त्यक्त्वा कथं ब्रह्म लभ्यते मानवैः परम् ॥ ४३॥ अतोऽयं देहभृद्भूत्वा भक्तमार्गप्रदायकः । सुलभत्वाय देवेशा परो जानीत संस्थितः ॥ ४४॥ तस्य तद्वचनं श्रुत्वा वसिष्ठस्तमुवाच ह । संशयस्य विनाशार्थं सर्वैः सम्प्रेरितो वचः ॥ ४५॥ वसिष्ठ उवाच । ब्रह्म ब्रह्मैव वेदेषु कथितं सर्वसम्मतम् । ब्रह्मणस्पतिरेकोऽयं पतिस्तत्र कथं मुने ॥ ४६॥ पतिरूपा महामाया गणेशे संस्थिताऽभवत् । यथाऽन्नादिविकारस्थं ब्रह्म तद्वदयं मतः ॥ ४७॥ वसिष्ठस्य वचः श्रुत्वा दत्तो हर्षसमन्वितः । जगाद तं विशेषज्ञं योगीन्द्रः परमार्थवित् ॥ ४८॥ अन्नप्राणादियुक्तानि ब्रह्माणि रचितानि तु । गणेशेन महायोगिंस्तेनायं पतिरुच्यते ॥ ४९॥ ब्रह्मभिः कथितश्चायं पतिस्तेषां न संशयः । स्वयं ब्रह्मैव तन्नाशे तथाऽपि पातृभावतः ॥ ५०॥ अन्नप्राणादिकान्येव विकारान् सन्त्यजन्ति च । ब्रह्माणि ब्रह्मभूतानि भविष्यन्त्यस्य सेवनात् ॥ ५१॥ ब्रह्माणि ब्रह्मणि यदि चेद्गतानि महामुने । पतिः केषां गणेशानः कथ्यते कैर्वदाशु मे ॥ ५२॥ अतो मायाविकारेण हीनोऽयं गणनायकः । ब्रह्मैवोपास्यभावात्तु पतित्वं कथनात्मकम् ॥ ५३॥ इति तस्य वचः श्रुत्वा पुनस्तं नारदोऽब्रवीत् । योगीन्द्रं भावबोधार्थमवधूतमकल्मषम् ॥ ५४॥ नारद उवाच । गणेशे त्वं महायोगिंस्तदाकारो न संशयः । अहं दत्तोऽयमेकश्च गणेशः कुत्र वर्तते ॥ ५५॥ न भिन्नश्चेन् महाभाग भजसे कं पुरः स्थितम् । इमं मे संशयं छिन्धि सर्वज्ञोऽसि महामते ॥ ५६॥ दत्त उवाच । देहोऽयं नरतुल्यो मे करोति कर्म नित्यदा । शुभाशुभं विशेषेण नामरूपविकारतः ॥ ५७॥ ब्रह्म सर्वत्र विप्रेश तन्मयं नात्र संशयः । सत्ता न्यूनाधिका भाति विचारय विचक्षण ॥ ५८॥ ब्रह्मणस्पतिशब्दाख्या सत्ता गणपतौ स्थिता । नान्यत्र शम्भुविष्ण्वादि भावेषु पश्य मानद ॥ ५९॥ अतः प्रत्यक्षचित्तस्थं ब्रह्म विघ्नेशवाचकम् । दृष्ट्वा तन्न भजेत् कोऽपि ब्रह्मभूयपरः कथम् ॥ ६०॥ अतो देहधरोऽहं तु ब्रह्माकारो गणेश्वरः । तं भजामि विशेषेण देहचेष्टापरायणः ॥ ६१॥ देहः क्रियात्मकः प्रोक्तश्चित्तं चिन्तनकारकम् । स्वभावेन यथाऽन्यद्वै करोति चिन्तनादिकम् ॥ ६२॥ तथा गणेश्वरं मेऽत्र देहश्चित्तं भजेत् ध्रुवम् । तयोः प्रकाशकं ब्रह्म कथं भजेद्गजाननम् ॥ ६३॥ ब्रह्म ब्रह्मैव सञ्जातं तदाकारं मदीयकम् । देहश्चित्तं भजेत्तं वै स्वप्रकाशकरं सदा ॥ ६४॥ अनेन योगमार्गेण भजामि गणनायकम् । न भिन्नोऽहं गणेशानात् कं पृच्छसि विचारय ॥ ६५॥ यथा करोमि नित्यं तु भक्षणादिकमादरात् । तथा गणेश्वरं तात भजामि भक्तिसंयुतः ॥ ६६॥ नाऽहं भोक्ता स्वदेहस्थस्तथा मां विद्धि देहगम् । न भक्तं गणराजस्य देहधर्मः प्रवर्तते ॥ ६७॥ ब्रह्मणि ब्रह्मभूतो यो न भजेद्गणनायकम् । तथाऽपि देहचित्तेऽन्यत् करिष्यतः स्वभावतः ॥ ६८॥ न मुख्यो ब्रह्मभूतेषु योगिषु भक्त उच्यते । श्रेष्ठस्तस्माद्गणेशानं भजामि हर्षसंयुतः ॥ ६९॥ अनायासेन चित्तस्थं देहस्थं ब्रह्म प्राप्य यः । दृष्ट्वा तं न भजेत् सोऽपि ब्रह्मघ्नः परिकीर्तितः ॥ ७०॥ गणेशं मूर्तिगं दृष्ट्वा योगेशं शान्तिदायकम् । कस्य योगिजनस्यात्र प्रीतिः सद्यो न जायते ॥ ७१॥ इति तस्य वचः श्रुत्वा हर्षयुक्ताः शिवादयः । नारदाद्याः प्रणेमुस्तं विस्मितास्तस्य चेष्टितैः ॥ ७२॥ जगुस्तं हर्षसंयुक्ता वयं संशयवर्जिताः । कृतास्त्वया महाभाग एकमार्गपरायणाः ॥ ७३॥ नानामतविभेदेन भ्रान्तियुक्ता भ्रमन्ति तु । त्यक्त्वा गणेश्वरं पूर्णं सर्वपूज्यं महामुने ॥ ७४॥ भ्रान्तिनाशार्थमत्यन्तं भवान् विघ्नेश्वरेण च । निर्मितो योगमार्गज्ञः सर्वशान्तिप्रदायकः ॥ ७५॥ एवं तैः संस्तुतो दत्तः प्रहस्य प्रययौ ततः । शिवादयो वसिष्ठाद्याः स्वालयं प्रययुः प्रिये ॥ ७६॥ सर्वसारां समाख्यातां गीतां दत्तमुखाच्च्युताम् । पठनाच्छ्रवणान्नृभ्यः शान्तिदां सर्वसिद्धिदाम् ॥ ७७॥ कश्यपस्य वचः श्रुत्वा हर्षिता तं प्रणम्य सा । जगाद भावगम्भीरा दितिर्विघ्नेश्वरे रता ॥ ७८॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खण्डे विघ्नराजचरिते दत्तगीतावर्णनं नाम त्रयोदशोऽध्यायः ॥ ७.१३ Proofread by Yash Khasbage
% Text title            : Dattatreyagita or Dattagita 2 from Mudgala Purana 7.13
% File name             : dattagItAmudgala.itx
% itxtitle              : dattAtreyagItA athavA dattagItA 2 (mudgalapurANAntargatA khaNDaH 7 adhyAyaH 13)
% engtitle              : dattAtreyagItA athavA dattagItA 2 (mudgalapurANAntargatA khaNDaH 7 adhyAyaH 13)
% Category              : giitaa, gItA, mudgalapurANa, dattAtreya, gurudev
% Location              : doc_giitaa
% Sublocation           : giitaa
% SubDeity              : dattAtreya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Yash Khasbage
% Description/comments  : Mudgalapurana 7.13
% Indexextra            : (Scans 1, 2, 3)
% Latest update         : September 18-19, 2023 Ganeshachaturthi, July 23, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org