श्रीदत्तात्रेयगीता अथवा श्रीदत्तगीता मुद्गलपुराणान्तर्गता
७.१३ दत्तगीतावर्णनं नाम त्रयोदशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
कश्यप उवाच ।
एकदा माघमासे तु मकरस्थे दिवाकरे ।
तीर्थानि देवविप्राद्याः प्रयागं जग्मुरादरात् ॥ १॥
सर्वे संहृष्टभावस्था माघस्नानपरायणाः ।
ओङ्कारगणनाथं ते पुपूजुर्भक्तिसंयुताः ॥ २॥
ततः शूलभृतं पूज्य तत्रस्थं माधवं प्रिये ।
त्रिवेणीं भावसंयुक्ताः कथां चक्रुः पुरातनीम् ॥ ३॥
भ्रमंस्तत्राऽऽजगामैव दत्तो योगीन्द्रसत्तमः ।
अवधूतस्य मार्गस्य प्रकाशक उदाहृतः ॥ ४॥
गाणेशं ब्रह्मपं ब्रह्म परं सर्वार्थदायकम् ।
ओङ्कारगणनाथं स प्रणम्य स्तोत्रमारभत् ॥ ५॥
तत् दृष्ट्वा परमाश्चर्यमाययुस्तं शिवादयः ।
योगिनः कश्यपाद्याश्चाऽन्ये देवादयादरात् ॥ ६॥
तं प्रणम्य स्थिताः सर्वे योगीन्द्रं ब्रह्म तत्परम् ।
गणेशभजने सक्तं दृष्ट्वा पप्रच्छुरादरात् ॥ ७॥
शिवादय ऊचुः ।
भगवन् सर्वतत्त्वज्ञ ब्रह्मभूतपरायण ।
साक्षाद्ब्रह्मशरीरस्त्वं समागतो यदृच्छया ॥ ८॥
अवधूतस्य मार्गस्य प्रकाशार्थं विशेषतः ।
देहधारी भवान्नाथ पावनाय शरीरिणाम् ॥ ९॥
तव दर्शनमात्रेण कृतकृत्या वयं प्रभो ।
जाताः कुलयुताः स्वामिन् बोधयस्व मुनीन् सुरान् ॥ १०॥
एवं विनयसंयुक्तैः स्तुतः पृष्टो महामुनिः ।
जगाद तान् महाभागान् हर्षेण महताऽऽवृतः ॥ ११॥
दत्तात्रेय उवाच ।
ब्रह्मविष्णुशिवाद्याश्चाङ्गिराद्या मुनयोऽमलाः ।
शेषाद्या नागराजाश्च शृणुध्वं मे वचो हितम् ॥ १२॥
ब्रह्मेदं सर्वमाभाति तं भजध्वं हिताय वः ।
समर्था ब्रह्मभूताश्च भविष्यथ न संशयः ॥ १३॥
तस्य तद्वचनं श्रुत्वा पुनः सर्वे जगुर्वचः ।
हर्षेण योगिवन्द्यं तं कृत्वा करपुटं प्रिये ॥ १४॥
शिवाद्या ऊचुः ।
ब्रह्मणि ब्रह्मभूतस्त्वं गणेशं भजसे कथम् ।
नामरूपधरं देवमोङ्काराकृतिधारकम् ॥ १५॥
अस्माकं कुलदेवोऽयं त्रिगुणात्मशरीरिणाम् ।
मूलभूतो न सन्देहो योगिनां कथमञ्जसा ॥ १६॥
तेषां तद्वचनं श्रुत्वा स्मयमानो महायशाः ।
दत्तो जगाद हर्षेण ज्ञानदानार्थमादरात् ॥ १७॥
दत्त उवाच ।
गणेशो ब्रह्मणां नाथो वेदेषु परिकीर्तितः ।
ब्रह्म नानाविधं तद्वत् कथितं मायया युतम् ॥ १८॥
अन्नं ब्रह्मेति देवेशा मुनयः शृणुत प्रियाः ।
तत्रान्नमयरूपा तु माया मोहकरी बभौ ॥ १९॥
प्राणो ब्रह्मेति तत्रैव प्राणाकारविमोहिनी ।
माया मनोमयी तद्वन् मनो ब्रह्मणि संस्थिता ॥ २०॥
विज्ञानं ब्रह्म तत्रेयं माया विज्ञानरूपिणी ।
आनन्दं ब्रह्म यत् प्रोक्तं युतमानन्दमायया ॥ २१॥
चैतन्यं ब्रह्म यत् प्रोक्तं माया चेतनरूपिणी ।
बिन्दुब्रह्मेति तत्रैव माया बिन्दुमयी बभौ ॥ २२॥
सोऽहं ब्रह्मेति यत्रेयं माया सोऽहं प्रकाशिनी ।
बोधो ब्रह्मेति बोधाख्या माया तत्र विमोहिनी ॥ २३॥
विदेहं ब्रह्म यत् प्रोक्तं माया वै देहरूपिणी ।
तया तत्र महादेवा भ्रमन्ति ब्रह्ममानिनः ॥ २४॥
कर्म ब्रह्मेति कर्माख्या माया तत्र विमोहिनी ।
ज्ञानं ब्रह्मेति तद्वत्तु ज्ञानमायायुतं बभौ ॥ २५॥
समं ब्रह्मेति तत्रैव माया समस्वरूपिणी ।
सहजं ब्रह्म यत् प्रोक्तं सहजाख्यविकारदम् ॥ २६॥
असद्ब्रह्मेति यत् प्रोक्तं तत्रासन्मायया युतम् ।
सद्ब्रह्मेति सदाकारमायायुक्तं प्रकीर्तितम् ॥ २७॥
सदसन्मयभावाख्यं ब्रह्म प्रोक्तं मुनीश्वराः ।
उभयात्मविकारेण ज्ञातव्यं संयुतं सदा ॥ २८॥
अव्यक्तं ब्रह्म यत् प्रोक्तं युतमव्यक्तमायया ।
स्वसंवेद्यं परं ब्रह्म युतं स्वानन्दमायया ॥ २९॥
आत्माद्वयैकसर्वाख्याद्याः शब्दाः परिकीर्तिताः ।
महावाक्यादिभिस्ते तु तत्तन्मायाप्रकाशकाः ॥ ३०॥
शिवविष्णुमुखाः शब्दा ब्रह्मवाच्याः प्रकीर्तिताः ।
तत्तद्विकारसंयुक्तान् जानीत देवसत्तमाः ॥ ३१॥
पृथ्वी जलादितत्त्वानि ब्रह्मणां वाचकानि तु ।
तत्तद्विकारयुक्तानि जानीत देवसत्तमाः ॥ ३२॥
एवं नानाविधान्येव ब्रह्माणि कथितानि च ।
वेदादिषु समस्तानि मायामोहयुतानि तु ॥ ३३॥
तेषां स्वामिस्वरूपेण तिष्ठति ब्रह्मणस्पतिः ।
ब्रह्मणां पातृभावाच्च पालयितृत्वकारणात् ॥ ३४॥
स एवायं गणाध्यक्षो वेदेषु कथितोऽभवत् ।
ब्रह्मभूयमयः साक्षात्तं भजामि द्विजोत्तमाः ॥ ३५॥
उत्पत्तिनाशहीनं यद् गजाख्यं ब्रह्म चक्षते ।
साङ्ख्यं शिरो गणेशस्य गजानन इति स्मृतः ॥ ३६॥
भूमिसाधनभावेन भवेत् ब्रह्मणि तन्मयः ।
देहस्तस्य च योगाख्यो नानाभूमिप्रधारणात् ॥ ३७॥
तयोर्योगे गणेशानो देहधारी बभूव ह ।
साङ्ख्ये योगमयः साक्षात् पूर्णशान्तिप्रदायकः ॥ ३८॥
संयोगेऽयं गकाराख्यो ह्ययोगे णमयः स्मृतः ।
तयोरीशो गणेशानो नामाऽयं वेदवादतः ॥ ३९॥
पञ्चचित्तमयी बुद्धिर्दक्षिणाङ्गं बभूव ह ।
पञ्चभ्रान्तिकरी सिद्धिर्वामाङ्गं तस्य सर्वदा ॥ ४०॥
तयोः स्वामी गणाध्यक्षो मायाभ्यामत्र खेलति ।
चित्ते चिन्तामणिः साक्षात् प्रकाशकारकस्तयोः ॥ ४१॥
समोहं चित्तमुत्सृज्य योगीन्द्रो जायते नरः ।
तं भजामि विशेषेण चित्तचालनकारकम् ॥ ४२॥
कृतानि सिद्धिबुद्धिभ्यां ब्रह्माणि सकलानि वै ।
तानि त्यक्त्वा कथं ब्रह्म लभ्यते मानवैः परम् ॥ ४३॥
अतोऽयं देहभृद्भूत्वा भक्तमार्गप्रदायकः ।
सुलभत्वाय देवेशा परो जानीत संस्थितः ॥ ४४॥
तस्य तद्वचनं श्रुत्वा वसिष्ठस्तमुवाच ह ।
संशयस्य विनाशार्थं सर्वैः सम्प्रेरितो वचः ॥ ४५॥
वसिष्ठ उवाच ।
ब्रह्म ब्रह्मैव वेदेषु कथितं सर्वसम्मतम् ।
ब्रह्मणस्पतिरेकोऽयं पतिस्तत्र कथं मुने ॥ ४६॥
पतिरूपा महामाया गणेशे संस्थिताऽभवत् ।
यथाऽन्नादिविकारस्थं ब्रह्म तद्वदयं मतः ॥ ४७॥
वसिष्ठस्य वचः श्रुत्वा दत्तो हर्षसमन्वितः ।
जगाद तं विशेषज्ञं योगीन्द्रः परमार्थवित् ॥ ४८॥
अन्नप्राणादियुक्तानि ब्रह्माणि रचितानि तु ।
गणेशेन महायोगिंस्तेनायं पतिरुच्यते ॥ ४९॥
ब्रह्मभिः कथितश्चायं पतिस्तेषां न संशयः ।
स्वयं ब्रह्मैव तन्नाशे तथाऽपि पातृभावतः ॥ ५०॥
अन्नप्राणादिकान्येव विकारान् सन्त्यजन्ति च ।
ब्रह्माणि ब्रह्मभूतानि भविष्यन्त्यस्य सेवनात् ॥ ५१॥
ब्रह्माणि ब्रह्मणि यदि चेद्गतानि महामुने ।
पतिः केषां गणेशानः कथ्यते कैर्वदाशु मे ॥ ५२॥
अतो मायाविकारेण हीनोऽयं गणनायकः ।
ब्रह्मैवोपास्यभावात्तु पतित्वं कथनात्मकम् ॥ ५३॥
इति तस्य वचः श्रुत्वा पुनस्तं नारदोऽब्रवीत् ।
योगीन्द्रं भावबोधार्थमवधूतमकल्मषम् ॥ ५४॥
नारद उवाच ।
गणेशे त्वं महायोगिंस्तदाकारो न संशयः ।
अहं दत्तोऽयमेकश्च गणेशः कुत्र वर्तते ॥ ५५॥
न भिन्नश्चेन् महाभाग भजसे कं पुरः स्थितम् ।
इमं मे संशयं छिन्धि सर्वज्ञोऽसि महामते ॥ ५६॥
दत्त उवाच ।
देहोऽयं नरतुल्यो मे करोति कर्म नित्यदा ।
शुभाशुभं विशेषेण नामरूपविकारतः ॥ ५७॥
ब्रह्म सर्वत्र विप्रेश तन्मयं नात्र संशयः ।
सत्ता न्यूनाधिका भाति विचारय विचक्षण ॥ ५८॥
ब्रह्मणस्पतिशब्दाख्या सत्ता गणपतौ स्थिता ।
नान्यत्र शम्भुविष्ण्वादि भावेषु पश्य मानद ॥ ५९॥
अतः प्रत्यक्षचित्तस्थं ब्रह्म विघ्नेशवाचकम् ।
दृष्ट्वा तन्न भजेत् कोऽपि ब्रह्मभूयपरः कथम् ॥ ६०॥
अतो देहधरोऽहं तु ब्रह्माकारो गणेश्वरः ।
तं भजामि विशेषेण देहचेष्टापरायणः ॥ ६१॥
देहः क्रियात्मकः प्रोक्तश्चित्तं चिन्तनकारकम् ।
स्वभावेन यथाऽन्यद्वै करोति चिन्तनादिकम् ॥ ६२॥
तथा गणेश्वरं मेऽत्र देहश्चित्तं भजेत् ध्रुवम् ।
तयोः प्रकाशकं ब्रह्म कथं भजेद्गजाननम् ॥ ६३॥
ब्रह्म ब्रह्मैव सञ्जातं तदाकारं मदीयकम् ।
देहश्चित्तं भजेत्तं वै स्वप्रकाशकरं सदा ॥ ६४॥
अनेन योगमार्गेण भजामि गणनायकम् ।
न भिन्नोऽहं गणेशानात् कं पृच्छसि विचारय ॥ ६५॥
यथा करोमि नित्यं तु भक्षणादिकमादरात् ।
तथा गणेश्वरं तात भजामि भक्तिसंयुतः ॥ ६६॥
नाऽहं भोक्ता स्वदेहस्थस्तथा मां विद्धि देहगम् ।
न भक्तं गणराजस्य देहधर्मः प्रवर्तते ॥ ६७॥
ब्रह्मणि ब्रह्मभूतो यो न भजेद्गणनायकम् ।
तथाऽपि देहचित्तेऽन्यत् करिष्यतः स्वभावतः ॥ ६८॥
न मुख्यो ब्रह्मभूतेषु योगिषु भक्त उच्यते ।
श्रेष्ठस्तस्माद्गणेशानं भजामि हर्षसंयुतः ॥ ६९॥
अनायासेन चित्तस्थं देहस्थं ब्रह्म प्राप्य यः ।
दृष्ट्वा तं न भजेत् सोऽपि ब्रह्मघ्नः परिकीर्तितः ॥ ७०॥
गणेशं मूर्तिगं दृष्ट्वा योगेशं शान्तिदायकम् ।
कस्य योगिजनस्यात्र प्रीतिः सद्यो न जायते ॥ ७१॥
इति तस्य वचः श्रुत्वा हर्षयुक्ताः शिवादयः ।
नारदाद्याः प्रणेमुस्तं विस्मितास्तस्य चेष्टितैः ॥ ७२॥
जगुस्तं हर्षसंयुक्ता वयं संशयवर्जिताः ।
कृतास्त्वया महाभाग एकमार्गपरायणाः ॥ ७३॥
नानामतविभेदेन भ्रान्तियुक्ता भ्रमन्ति तु ।
त्यक्त्वा गणेश्वरं पूर्णं सर्वपूज्यं महामुने ॥ ७४॥
भ्रान्तिनाशार्थमत्यन्तं भवान् विघ्नेश्वरेण च ।
निर्मितो योगमार्गज्ञः सर्वशान्तिप्रदायकः ॥ ७५॥
एवं तैः संस्तुतो दत्तः प्रहस्य प्रययौ ततः ।
शिवादयो वसिष्ठाद्याः स्वालयं प्रययुः प्रिये ॥ ७६॥
सर्वसारां समाख्यातां गीतां दत्तमुखाच्च्युताम् ।
पठनाच्छ्रवणान्नृभ्यः शान्तिदां सर्वसिद्धिदाम् ॥ ७७॥
कश्यपस्य वचः श्रुत्वा हर्षिता तं प्रणम्य सा ।
जगाद भावगम्भीरा दितिर्विघ्नेश्वरे रता ॥ ७८॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
सप्तमे खण्डे विघ्नराजचरिते दत्तगीतावर्णनं नाम त्रयोदशोऽध्यायः ॥ ७.१३
Proofread by Yash Khasbage