गीतार्थ संग्रह
स्वधर्मज्ञानवैराग्यसाध्यभक्त्येकगोचरः ।
नारायणः परं ब्रह्म गीताशास्त्रे समीरितः ॥ १॥
ज्ञानकर्मात्मिके निष्ठे योगलक्ष्ये सुसंस्कृते ।
आत्मानुभूतिसिद्ध्यर्थे पूर्वषट्केन चोदिते ॥ २॥
मध्यमे भगवत्तत्त्वयाथात्म्यावाप्तिसिद्धये ।
ज्ञानकर्माभिनिर्वर्त्यो भक्तियोगः प्रकीर्तितः ॥ ३॥
प्रधानपुरुषव्यक्तसर्वेश्वरविवेचनम् ।
कर्मधीर्भक्तिरित्यादिः पूर्वशेषोऽन्तिमोदितः ॥ ४॥
अस्थानस्नेहकारुण्यधर्माधर्मधियाकुलम् ।
पार्थं प्रपन्नमुद्दिश्य शास्त्रावतरणं कृतम् ॥ ५॥
नित्यात्मासङ्गकर्मेहागोचरा साङ्खययोगधीः ।
द्वितीये स्थितधीलक्षा प्रोक्ता तन्मोहशान्तये ॥ ६॥
असक्त्या लोकरक्षायै गुणेष्वारोप्य कर्तृताम् ।
सर्वेश्वरे वा न्यस्योक्ता तृतीये कर्मकार्यता ॥ ७॥
प्रसङ्गात्स्वस्वभावोक्तिः कर्मणोऽकर्मतास्य च ।
भेदा ज्ञानस्य माहात्म्यं चतुर्थाध्याय उच्यते ॥ ८॥
कर्मयोगस्य सौकर्यं शैघ्रयं काश्चन तद्विधाः ।
ब्रह्मज्ञानप्रकारश्च पञ्चमाध्याय उच्यते ॥ ९॥
योगाभ्यासविधिर्योगी चतुर्धा योगसाधनम् ।
योगसिद्धिस्स्वयोगस्य पारम्यं षष्ठ उच्यते ॥ १०॥
स्वयाथात्म्यं प्रकृत्यास्य तिरोधिश्शरणागतिः ।
भक्तभेदः प्रबुद्धस्य श्रैष्ठ्यं सप्तम उच्यते ॥ ११॥
ऐश्वर्याक्षरयाथात्म्यभगवच्चरणार्थिनाम् ।
वेद्योपादेयभावानामष्टमे भेद उच्यते ॥ १२॥
स्वमाहात्म्यं मनुष्यत्वे परत्वं च महात्मनाम् ।
विशेषो नवमे योगो भक्तिरूपः प्रकीर्तितः ॥ १३॥
स्वकल्याणगुणानन्त्यकृत्स्नस्वाधीनतामतिः ।
भक्त्युत्पत्तिविवृध्द्यर्था विस्तीर्णा दशमोदिता ॥ १४॥
एकादशे स्वयाथात्म्यसाक्षात्कारावलोकनम् ।
दत्तमुक्तं विदिप्राप्त्योर्भक्त्येकोपायता तथा ॥ १५॥
भक्तेश्श्रैष्ठयमुपायोक्तिरशक्तस्यात्मनिष्ठता ।
तत्प्रकारास्त्वतिप्रीतिर्भक्ते द्वादश उच्यते ॥ १६॥
देहस्वरूपमात्माप्तिहेतुरात्मविशोधनम् ।
बन्धहेतुर्वि वेकश्च त्रयोदश उदीर्यते ॥ १७॥
गुणबन्धविधा तेषां कर्तृत्वं तन्निवर्तनम् ।
गतित्रयस्वमूलत्वं चतुर्दश उदीर्यते ॥ १८॥
अचिन्मिश्राद्विशुद्धाच्च चेतनात्पुरुषोत्तमः ।
व्यापनाद्भरणात्स्वाम्यदन्यः पञ्चदशोदितः ॥ १९॥
देवासुरविभगोक्तिपूर्विका शास्त्रवश्यता ।
तत्त्वानुष्ठानविज्ञानस्थेम्ने षोडश उच्यते ॥ २०॥
अशास्त्रमासुरं कृत्स्नं शास्त्रीयं गुणतः पृथक् ।
लक्षणं शास्त्रसिद्धस्य त्रिधा सप्तदशोदितम् ॥ २१॥
ईश्वरे कर्तृताबुद्धिस्सत्त्वोपादेयतान्तिमे ।
स्वकर्मपरिणामश्च शास्त्रसारार्थ उच्यते ॥ २२॥
कर्मयोगस्तपस्तीर्थदानयज्ञादिसेवनम् ।
ज्ञानयोगो जितस्वान्तैः परिशुद्धात्मनि स्थितिः ॥ २३॥
भक्तियोगः परैकान्तप्रीत्या ध्यानादिषु स्थितिः ।
त्रयाणामपि योगानां त्रिभिरन्योन्यसङ्गमः ॥ २४॥
नित्यनैमित्तिकानां च पराराधनरूपिणाम् ।
आत्मदृष्टेस्त्रयोऽप्येते योगद्वारेण साधकाः ॥ २५॥
निरस्तनिखिलाज्ञानो दृष्ट्वात्मानं परानुगम् ।
प्रतिलभ्य परां भक्तिं तयैवाप्नोति तत्पदम् ॥ २६॥
भक्तियोगस्तदर्थी चेत्समग्रैश्वर्यसाधकः ।
आत्मार्थी चेत्त्रयोऽप्येते तत्कैवल्यस्य साधकाः ॥ २७॥
ऐकान्त्यं भगवत्येषां समानमधिकारिणाम् ।
यावत्प्राप्ति परार्थी चेत्तदेवात्यन्तमश्नुते ॥ २८॥
ज्ञानी तु परमैकान्ती तदायत्तात्मजीवनः ।
तत्संश्लेषवियोगैकसुखदुःखस्तदेकधीः ॥ २९॥
भगवद्ध्यानयोगोक्तिवन्दनस्तुतिकीर्तनैः ।
लब्धात्मा तद्गतप्राणमनोबुद्धीन्द्रियक्रियः ॥ ३०॥
निजकर्मादि भक्त्यन्तं कुर्यात्प्रीत्यैव कारितः ।
उपायतां परित्यज्य न्यस्येद्देवेतु तामभीः ॥ ३१॥
एकान्तात्यन्तदास्यैकरतिस्तत्पदमाप्नुयात् ।
तत्प्रधानमिदं शास्त्रमिति गीतार्थसङ्ग्रहः ॥ ३२॥
From http://www.srivaishnava.org/sva/alavan/gsangattm
This is a 32 verse work which has covered the essence of the
Bhagavad Gita from the Shri Vaishnava point of view. Shri RAmAnuja has
followed it very closely in his gItA bhAshya.