॥ गुहगीता ॥

अथ गुहगीता प्रारम्भः । अथ प्रथमोऽध्यायः मनोविकारः विप्रा ऊचुः- सूतपुत्र महाप्राज्ञ कथकोऽसि दयाकर । गुहगीतां च नो वक्तुं त्वमेवार्हसि चानघ ॥ १.१॥ सूत उवाच- कुतुकी गुहगीतायाः श्रवणे तत्परो मुनिः । कर्मयोगी हिडिम्भं च प्रार्थयन् प्रत्यहं स्थितः ॥ १.२॥ श्रान्तोऽसि किं वा श्रोतुं मे चारित्रं वच्मि सादरम् । वदन्नेवं हिडिम्भश्चाप्यागतः पुनरेकदा ॥ १.३॥ मुनिरुवाच- सत्कारं स्वीकुरुष्वाद्य गुहगीतां दयानिधे । हिडिम्भ ब्रूहि मे वक्ता त्वमेव खलु भक्तराट् ॥ १.४॥ हिडिम्भ उवाच- बहुधा सेवितः स्वामी मया भिक्षुः षडाननः । प्रसादमकरोत् दिव्यकरुणापाङ्गतो मयि ॥ १.५॥ तदाऽहं सभयं भक्त्या सहितः प्रणमन् गुरो । किं त्वया निहता भिक्षो पूर्वजा मम चान्वये ॥ १.६॥ किमहं रक्षितश्चास्मि त्वया तत्कारणं वद । न मन्ये त्वां विना ह्यन्यं मत्सन्देहनिवारकम् ॥ १.७॥ श्रीभिक्षुरुवाच- प्रशिष्योऽसि हिडिम्भ त्वं साक्षात् शिष्यश्च पार्षदः । हन्त ते कथयिष्यामि तत्त्वं शृणु समाहितः ॥ १.८॥ अभयं सत्त्वसंशुद्धिः ज्ञानयोगव्यवस्थितिः । दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥ १.९॥ अहिंसा सत्यमक्रोधः त्यागश्शान्तिरपैशुनम् । दया भूतेष्वलोलुप्तिः मार्दवं ह्रीरचापलम् ॥ १.१०॥ तेजः क्षमा धृतिः शौचं अद्रोहो नातिमानिता । भवन्ति सम्पदं दैवीं अभिजाते हिडिम्भक ॥ १.११॥ दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च । अज्ञानं चाभिजातेषु सम्पदं राक्षसीं बत ॥ १.१२॥ ते पूर्वजाः शूरमुख्या अभिजाताश्च राक्षसीम् । प्रवृत्तिं च निवृत्तिं च न जानन्ति हि राक्षसाः ॥ १.१३॥ न शौचं न सदाचारो न सत्यं तेषु विद्यते । प्रभूता ह्युग्रकर्माणः क्षयाय जगतोऽहिताः ॥ १.१४॥ कामोपभोगपरमाः क्रोधोपात्तबलाधिकाः । असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् ॥ १.१५॥ ईश्वरोऽहमहं भोगी कोऽन्योस्ति सदृशो मया । यक्ष्ये दास्यामि मोदिष्ये इत्यज्ञानविमोहिताः ॥ १.१६॥ मयैव निहताः पूर्वे लोकरक्षेच्छया किल । मा शुचः सम्पदं दैवीं अभिजातोऽस्यनामयः ॥ १.१७॥ पुण्यपुञ्जप्रभावोऽसि गुरुणा कुम्भजन्मना । मयैव सञ्जीवितोऽसि निहतोऽपि हिडिम्भक ॥ १.१८॥ आर्तोऽसि जिज्ञासुरसि ज्ञानी चासि हिडिम्भक । मत्सेवार्थ्यसि का चिन्ता सुखी भव निरन्तरम् ॥ १.१९॥ हिडिम्भ उवाच- तदा मे सद्गुरोर्भिक्षोः उक्तदिव्योपदेशतः । मत्पूर्विकमहाभोगभाग्यवैभवसंसृतेः ॥ १.२०॥ आनन्दबाष्पा उद्रिक्ताः साकं दुःखाश्रुभिर्बत । निर्विण्णोऽहं स्वयं बुद्धो निश्चेष्टोऽस्मि ततो गुरोः ॥ १.२१॥ भिक्षुरुवाच- कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् । गतासूनगतांसूंश्च नानुशोचति तत्ववित् ॥ १.२२॥ नत्वेवाहं जातु नासं न त्वं नेमे त्वदग्रजाः । न चैव न भविष्यामः सर्वे वयमतः परम् ॥ १.२३॥ देहिनोऽस्मिन् यथा देहे कौमारं यौवनं जरा । तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥ १.२४॥ अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् । विनाशमव्ययस्यास्य न कश्चित् कर्तुमर्हति ॥ १.२५॥ य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् । उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥ १.२६॥ अच्छेद्योऽयमदाह्योऽयं अक्लेद्योऽशोष्य एव च । नित्यस्सर्वगतः स्थाणुः अचलोऽयं सनातनः ॥ १.२७॥ अव्यक्तोऽयं अचिन्त्योऽयं अविकार्योऽयमुच्यते । तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ॥ १.२८॥ यदिदं दृश्यते सर्वं जगत् स्थावरजङ्गमम् । तत् सुषुप्ताविव स्वप्नः कल्पान्ते प्रविनश्यति ॥ १.२९॥ ऋतमात्मा परं ब्रह्म सत्यमित्यादिका बुधैः । कल्पिता व्यवहारार्थं यस्य सञ्ज्ञा महात्मनः ॥ १.३०॥ यथा कटकशब्दार्थः पृथग्भावो न काञ्चनात् । न हेमकटकात् तद्वत् जगत् शब्दार्थता परे ॥ १.३१॥ तेनेयमिन्द्रजाल क्रीडागतिः प्रवितन्यते । द्रष्टुर्दृश्यस्य सत्तान्तः बन्ध इत्यभिधीयते ॥ १.३२॥ दृष्ट्वा दृश्यवशात् बद्धो दृश्याभावे विमुच्यते । जगत्त्वमहमित्यादि सर्गात्मा दृश्यमुच्यते ॥ १.३३॥ मनस्तेनेन्द्रजलश्रीः जगती प्रवितन्यते । यावदेतत् सम्भवति तावन्मोक्षो न विद्यते ॥ १.३४॥ ब्रह्मणा तन्यते विश्वं मनसैव स्वयम्भुवा । मनोमयमतो विश्वं यन्नाम परिदृश्यते ॥ १.३५॥ न बाह्ये नापि हृदये सद्रूपं विद्यते मनः । यदर्थं प्रतिभानं तत् मन इत्यभिधीयते ॥ १.३६॥ सङ्कल्पनं मनो विद्धि सङ्कल्पस्तत्र विद्यते । यत्र सङ्कल्पनं तत्र मनोऽस्तीत्यवगम्यताम् ॥ १.३७॥ सङ्कल्पमनसी भिन्ने न कदाचन केनचित् । सङ्कल्पजाते गलिते स्वरूपमवशिष्यते ॥ १.३८॥ अहं त्वं जगदित्यादौ प्रशान्ते दृश्यसम्भ्रमे । स्यात् तादृशी केवलता दृश्ये सत्तामुपागते ॥ १.३९॥ महाप्रलय सम्पत्तौ ह्यसत्तां समुपागते । अशेषदृश्ये सर्गादौ शान्तमेवावशिष्यते ॥ १.४०॥ मनसा भाव्यमानो हि देहतां याति देहकः । मनोविलासः संसार इति मे निश्चिता मतिः ॥ १.४१॥ अन्तःकरणसद्भावस्त्वविद्यायाश्च सम्भवः । अनेककोटिब्रह्माण्डं सर्वं मिथ्येति निश्चिनु ॥ १.४२॥ जीवन्नेव सदा मुक्तः कृतार्थो ब्रह्मवित्तमः । उपाधिनाशाद्ब्रह्मैव स ब्रह्माप्नोति निर्भयम् ॥ १.४३॥ तद्ब्रह्मानन्दमद्वन्द्वं निर्गुणं सत्यचिद्घनम् । विदित्वा स्वात्मनो रूपं मा बिभेस्त्वं कदाचन ॥ १.४४॥ सर्वं च खल्विदं ब्रह्म नित्यं चिद्घनमक्षतम् । कल्पनाऽन्या मनोनाम्नी विद्यते नहि काचन ॥ १.४५॥ न जायते न म्रियते किञ्चिदत्र जगत्त्रये । न च भावविकाराणां सत्ता कचन विद्यते ॥ १.४६॥ नाहं मांसं न चास्थीनि देहादन्यः परोऽस्म्यहम् । इति निश्चितवानन्तः क्षीणाविद्यो विमुच्यते ॥ १.४७॥ मा भवाज्ञो भव ज्ञस्त्वं जहि संसारभावनाम् । अनात्मन्यात्मभावेन किमज्ञ इव रोदषि ॥ १.४८॥ कस्तवायं जडो मूको देहो मांसमयोऽशुचिः । यदर्थं सुखदुःखाभ्यां अवशः परिभूयसे ॥ १.४९॥ अङ्गान्यङ्गैरिवाक्रम्य जयेदादौ स्वकं मनः । मनसो विजयान्नान्या गतिरस्ति भवार्णवे ॥ १.५०॥ प्रक्षीणचित्तदर्पस्य निगृहीतेन्द्रियद्विषः । पद्मिन्य इव हेमन्ते क्षीयन्ते भोगवासनाः ॥ १.५१॥ विवेकं परमाश्रित्य बुद्ध्या सत्यमवेक्ष्य च । इन्द्रियारीनलं छित्वा तीर्णो भव भवार्णवात् ॥ १.५२॥ यद्यत्करोषि सत्येन सर्वं मिथ्येति निश्चिनु । त्वमेव परमात्मासि त्वं ब्रह्मासि न संशयः ॥ १.५३॥ इति कलिसन्तारक श्रीगुहगीतायां ब्रह्मविद्यायां अद्वैतशास्त्रे भिक्षुरूपिगुहहिडिम्भसंवादे मनोविकारो नाम प्रथमोऽध्यायः ॥ १॥
अथ द्वितीयोऽध्यायः सर्वत्र समभावना श्रीभिक्षुरुवाच- अन्तरास्थां परित्यज्य भावश्रीं भावनामयीम् । योऽसि सोऽसि जगत्यस्मिन् लीलया विहरानघ ॥ २.१॥ सर्वत्राहं अकर्तेति दृढभावनयाऽनया । परमामृतनाम्नी सा समतैवावशिष्यते ॥ २.२॥ खेदोल्लासविलासेषु स्वात्मकर्तृतयैकया । स्वसङ्कल्पे क्षयं याते समतैवावशिष्यते ॥ २.३॥ समता सर्वभूतेषु यासौ सत्यपरा स्थितिः । तस्यां अवस्थितं चित्तं न भूयो जन्मभाग्भवेत् ॥ २.४॥ अथवा सर्वकर्तृत्वं अकर्तृत्वं तथैव च । सर्वं त्यक्त्वा मनः पीत्वा योऽसि सोऽसि स्थिरो भव ॥ २.५॥ शेषस्थिरसमाधानो येन त्यजसि तत्त्यज । चिन्मनः कलनाकारं प्रकाशतिमिरादिकम् ॥ २.६॥ वासनां वासितारं च प्राणस्पन्दनपूर्वकम् । समूलमखिलं त्यक्त्वा व्योमसाम्यः प्रशान्तधीः ॥ २.७॥ हृदयात्सम्परित्यज्य वासनापङ्क्तयोऽखिलाः । यस्तिष्ठति गतव्यग्रः स मुक्तः परमेश्वरः ॥ २.८॥ दृष्टं द्रष्टव्यमखिलं भ्रान्तं भ्रान्त्या दिशो दश । युक्त्या वै चरतोऽज्ञस्य संसारो गोष्पदाकृतिः ॥ २.९॥ सबाह्याभ्यन्तरे देहे ह्यध ऊर्ध्वं च दिक्षु च । इत आत्मा ततोऽप्यात्मा नास्त्यनात्ममयं जगत् ॥ २.१०॥ न तदस्ति न यत्राहं न तदस्ति न तन्मयम् । किमन्यत् अभिवाञ्छामि सर्वं सच्चिन्मयं ततम् ॥ २.११॥ समस्तं खल्विदं ब्रह्म परमात्मेदमाततम् । अहमन्यत् इदं चान्यत् इति भ्रान्ति त्यजानघ ॥ २.१२॥ ततो ब्रह्मघने नित्ये सम्भवन्ति न कल्पिताः । न शोकोऽस्ति न मोहोऽस्ति न जराऽस्ति न जन्म च ॥ २.१३॥ यदस्तीह तदेवास्ति विज्वरो भव सर्वदा । यया प्राप्तानुभवतः सर्वत्रानभिवाञ्छनात् । त्यागादान परित्यागी विज्वरो भव सर्वदा ॥ २.१४॥ न वर्णाश्रमाचारधर्माः कुतस्ते न पुण्यं न पापं न धर्मोऽप्यधर्मः । न पूज्योऽप्यपूज्यः सदाऽऽनन्दभावं परं ब्रह्म साक्षात् त्वमेवासि तात ॥ हिडिम्भ उवाच- एवमुक्त्वा विसृष्टोऽहं ब्रह्मसाक्षात्कृतिं ददौ । तदादि ब्रह्मभावेन स्थितोऽहं गतकल्मषः ॥ २.१६॥ ब्रह्माकाराकारितान्तर्वृत्तिः कल्पितवानहम् । सर्वं सुब्रह्मण्यमयं जगद्भाति न संशयः ॥ २.१७॥ वाचामगोचरं दिव्यं मनोऽतीतं महाद्युतिम् । तद्ब्रह्मानुभवं पूर्णानन्दं वक्तुं न शक्यते ॥ २.१८॥ तूष्णीं स्थित्वा भिक्षुणा सम्बोधितोऽहं प्रणम्य तम् । यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ॥ २.१९॥ तवैवानुग्रहेणाहं सच्चिदानन्दमात्रकः । किं वा वक्तुं न शक्नोमि भगवन् तव सन्निधौ ॥ २.२०॥ एवं गद्गदया वाचाऽप्यपृच्छं भिक्षुमव्ययम् । कृताञ्जलिपुटो भूत्वा नमस्कृत्य पुनःपुनः ॥ २.२१॥ स्थाने भिक्षो तवोक्त्याऽहं ध्यात्वा त्वामेव सन्ततम् । जीवन्मुक्तोऽस्मि तादात्म्यनिश्चयादेव षण्मुख ॥ २.२२॥ वर्णाश्रमाचारधर्माः किमर्थं वेदचोदिताः । तैर्बद्धाः कीदृशा लोके मुक्ताः कीदृग्विधा अपि ॥ २.२३॥ श्रीभिक्षुरुवाच- हन्त ते कथयाम्यद्य तत्त्वं शृणु सनातनम् । अविद्योपाधिनाऽशान्तप्राणिनो जगति स्थिताः ॥ २.२४॥ वर्णाश्रमादिधर्माश्च सुकृतं दुष्कृतं तथा । साप्यविद्याऽनेकजन्मवासनापिहिता मता ॥ २.२५॥ नादिरन्तोऽस्ति तस्यास्तु ब्रह्मज्ञानेन केवलम् । बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते ॥ २.२६॥ सर्वं ब्रह्मैवेति मतिः स महात्मा सुदुर्लभः । पुराऽपृच्छदगस्त्योऽपि प्रणम्य पितरं मम ॥ २.२७॥ वर्णाश्रमादिधर्मास्तु कथम्भूता विभो इति । तदहं सङ्ग्रहेणैव वच्मि शृणु सनातनम् ॥ २.२८॥ सहस्रशीर्षे भगवान् स्थितो नारायणाभिधः । क्षीराब्धौ चिन्तयन् शम्भुं शङ्करं शिवमव्ययम् ॥ २.२९॥ कदाचित् पङ्कजं दिव्यं तरुणादित्यसन्निभम् । तस्य सुप्तस्य देवस्य नाभ्यां जातं महत्तरम् ॥ २.३०॥ हिरण्यगर्भो भगवान् ब्रह्मा विश्वजगत्पतिः । आस्थाय परमां मूर्तिं तस्मिन् पद्मे समुद्बभौ ॥ २.३१॥ शिवाज्ञया तस्य पूर्ववासनासहितान्मुखात् । ब्रह्मणा ब्राह्मणस्त्रीभिः सहजाता हिडिम्भक ॥ २.३२॥ तस्य हस्तात् सह स्त्रीभिः जज्ञिरे शङ्कराज्ञया । स्वस्त्रीषु स्वस्वधर्मेण मार्गेणोत्थः स्वभुर्भवेत् ॥ २.३४॥ अपरासूत्तमाज्जातः त्वनुलोमः प्रकीर्तितः । उत्तमास्वपराज्जातः प्रतिलोम इति स्मृतः ॥ २.३५॥ वर्णस्त्रीषु अनुलोमेन जातस्स्यादान्तरालिकः । वर्णासु प्रतिलोमेन जातो व्रात्य इति स्मृतः ॥ २.३६॥ ब्राह्मण्यां सधवायां यो ब्राह्मणेनैव मोहतः । जातश्चैर्येण कुण्डोऽसौ विधवायां तु गोलकः ॥ २.३७॥ एवमेवानुलोमाश्च प्रतिलोमाश्च जातयः । उच्चावचप्रपञ्चेऽस्मिन् बह्व्यो जाता हि कामतः ॥ २.३८॥ वर्णानामाश्रमाः प्रोक्ता मुनिभिश्च सनातनैः । तेषां वर्णाश्रमस्थानां वेदकिङ्करता सदा ॥ २.३९॥ चक्षुरादिप्रियाणां च भेदो लोकिपकारकः । तद्वद्वर्णाश्रमादीनां भेदो लोकिपकारकः ॥ २.४०॥ षण्णां रसानां भेदोऽस्ति यथा जिह्वोपकारकः । तथा वर्णाश्रमादीनां भेदो लोकिपकारकः ॥ २.४१॥ यथा भाक्ष्यविशेषाणां भेदो भोक्तुः प्रयोजकः । तथा वर्णाश्रमादीनां भेदो लोकप्रयोजकः ॥ २.४२॥ यथा तरुलतादीनां भेदः फलसमृद्धिदः । तथा वर्णाश्रमादीनां भेदः फलसमृद्धिदः ॥ २.४३॥ यथा बहूनां लोहानां भेदः कर्मसमृद्धिदः । तथा वर्णाश्रमादीनां भेदः कर्मसमृद्धिदः ॥ २.४४॥ यथा रत्नादिपाषाणभेदो गौरवदायकः । तथा वर्णाश्रमादीनां भेदो गौरवदायकः ॥ २.४५॥ यथा पाकप्रभेदो हि देहस्यारोग्यदो भवेत् । तथा वर्णाश्रमादीनां भेदो लोकस्य सौख्यदः ॥ २.४६॥ यथा मृगाणां भेदो हि वनस्योल्लासको भवेत् । तथा वर्णाश्रमादीनां भेदो लोकस्य रञ्जकः ॥ २.४७॥ यथाऽलङ्कारभेदो हि लोकव्यावृत्तिसूचकः । तथा वर्णाश्रमादीनां भेदो व्यावृत्तिसूचकः ॥ २.४८॥ यथाऽनेकायुधानां च भेदो युद्धजयप्रदः । तथा वर्णाश्रमादीनां भेदो ज्ञानजयप्रदः ॥ २.४९॥ यथा बहूनां पुष्पाणां भेदो भोगसमृद्धिदः । तथा वर्णाश्रमादीनां भेदो धर्मसमृद्धिदः ॥ २.५०॥ यथा शुक्लादिवर्णानां भेदः चक्षुःसुखङ्करः । तथा वर्णाश्रमादीनां भेदो जनसुखङ्करः ॥ २.५१॥ ततो वर्णाश्रमाचारे न वैरं परिकल्पयेत् । यदा वर्णाश्रमादीनां शात्रवं स्यात् परस्परम् ॥ २.५२॥ तदा लोकस्य संहारः स्वाङ्गैर्देहस्य नाशवत् । वर्णानामाश्रमाणां च सङ्करो धर्मनाशकः ॥ २.५३॥ मल्लोकपाशदोऽसि त्वं ततस्त्वां शिक्षयाम्यहम् । यदा वर्णाश्रमादीनां यत्र लोपः प्रजायते ॥ २.५४॥ तत्र स्थित्वा प्रसन्नस्त्वं धार्मिकावनदो भव । हिडिम्भ स्त्रीषु दुष्टासु जायते वर्णसङ्करः ॥ २.५५॥ स कालः कलिरित्युक्तो लोकधर्मविनाशकः । अदृशूला जनपदाः शिवशूलाः चतुष्पदाः ॥ २.५६॥ प्रमदाः केशशूलिन्यो जनकाः पाकशूलिनः । स्वदेहशूलिनः सर्वे प्रभवन्ति कलौ युगे ॥ २.५७॥ तस्मात् वर्णाश्रमादीनां रक्षको भव सन्ततम् । व्यावहारिकलोकेऽस्मिन् इदं कार्यं त्वया शृणु ॥ २.५८॥ सर्वेषां कर्मणा जातिः नान्यथा कल्पकोटिभिः । पश्वादीनां यथा जातिः जन्मनैव च नान्यथा ॥ २.५९॥ साऽपि स्थूलस्य देहस्य भौतिकस्य न चात्मनः । तथापि देहेऽहम्मानात् आत्मा विप्रादिसञ्ज्ञितः ॥ २.६०॥ स्वस्वरूपापरिज्ञानात् देहेऽहम्मान आत्मनः । अपरिज्ञानमप्यस्य चाविद्यावासनाबलात् ॥ २.६१॥ यस्यापरोक्षविज्ञानं अस्ति श्रीगुर्वनुग्रहात् । तस्य नास्ति नियोज्यत्वं इति मे निश्चिता मतिः ॥ २.६२॥ अस्ति चेत् ब्रह्मविज्ञानं स्त्रियो वा पुरुषस्य वा । वर्णाश्रमसमाचारः तस्य नास्त्येव सर्वदा ॥ २.६३॥ अविज्ञायात्मविज्ञानं ये स्ववर्णाश्रमादिकान् । त्यजन्ति मूढात्मानस्ते पतन्त्येव न संशयः ॥ २.६४॥ हिडिम्भ निस्संशयभावतस्त्वं दृढं भजन्मां सुविहारको भव । मदङ्घ्रिभक्तस्य सदाऽस्तु निर्भयं पुनश्च किं पृच्छसि मां महामते ॥ २.६५॥ इति कलिसन्तारक श्रीगुहगीतायां ब्रह्मविद्यायां अद्वैतशास्त्रे भिक्षुरूपिगुहहिडिम्भसंवादे सर्वत्र समभावनानाम द्वितीयोऽध्यायः ॥ २॥
अथ तृतीयोऽध्यायः अज्ञानमूलम् हिडिम्भ उवाच- स्वामिन् रहस्यं मे ब्रूहि देवानां देहिनां विभो । यद्भावनाबलेनैव प्राणी मोक्षमवाप्नुयात् ॥ ३.१॥ श्रीभिक्षुरुवाच- रहस्यं ते प्रवक्ष्यामि समासेन सविस्तरात् । श्रद्धया शृणु शैरेय सर्वसिद्धिकरं परम् ॥ ३.२॥ सर्वेषां कारणं साक्षात् परतत्त्वमवस्थितम् । त्वगसृङ्मांसमेदोऽस्थिमज्जाषट्कौशिके स्वयम् ॥ ३.३॥ पाञ्चभौतिकदेहेऽस्मिन् शिवश्शिवतरोऽस्म्यहम् । शिवः पञ्चमुखोऽहन्तु षण्मुखस्तत उच्यते ॥ ३.४॥ आवयोरैक्यभावो हि मुक्तिहेतुर्हि प्राणिनाम् । शिवपञ्चमुखान्येव ब्रह्माण्डे पञ्चदेवताः ॥ ३.५॥ कार्यं ब्रह्मा महीभागे कायं विष्णुर्जलाशये । कार्यं रुद्रोऽग्निभागे च वाय्वंशे चेश्वरः परः ॥ ३.६॥ आकाशांशे शरीरस्य स्थितस्साक्षात् सदाशिवः । शरीरस्य बहिर्भागे विराडात्मा स्थितस्सदा ॥ ३.७॥ अन्तर्भागे स्वराडात्मा सम्राड्देहस्य मध्यमे । ज्ञानेन्द्रियेषु मनसि श्रोत्रादिषु च पञ्चसु ॥ ३.८॥ मम षड्वदनान्येव ग्लौदिग्वाय्वर्कवार्वराः । भूमिश्च कायभूताः स्युः पञ्चहस्तो गणेश्वरः ॥ ३.९॥ कर्मेन्द्रियस्वरूपश्च पादपाण्यादिषु क्रमात् । त्रिविक्रमेन्द्र वह्व्याख्याः कायभूताः प्रजापतिः ॥ ३.१०॥ मित्रश्चापि तथा प्राणे सूत्रात्मा सुस्थितस्सदा । चतुर्मुखोऽन्तः करणे तदवस्थासु च क्रमात् ॥ ३.११॥ चन्द्रमा मनसि प्रोक्तो बुद्धौ तु स बृहस्पतिः । अहङ्कारे च कालाग्निः रुद्रश्चित्ते शिवः स्थितः ॥ ३.१२॥ भूतप्रेतपिशाचाद्याः देहस्यास्थिषु संस्थिताः । मज्जाख्ये पितृगन्धर्वाः रोमसु क्षुद्रदेवताः ॥ ३.१३॥ सर्वाश्च राक्षसाश्चैव स्थिताः स्नायुषु सर्वशः । वर्तन्ते देवतास्सर्वाः देहेऽस्मिन्नेव संस्थिताः ॥ ३.१४॥ त्रिमूर्तिनां तु यो ब्रह्मा तस्य घोराभिधा तनुः । दक्षिणाक्षिणि जन्तूनां शान्ताख्या च तनुस्तथा ॥ ३.१५॥ वर्तन्ते वामनेत्रे चाप्यन्तर्भागे तयोः पुनः । बहिर्भागे सूर्यचन्द्रौ वर्तेते कन्धरे तथा ॥ ३.१६॥ त्रिमूर्तीनां तु यो विष्णुः शान्तो घोरोऽन्ततो बहिः । त्रिमूर्तीनां तु यो रुद्रः शान्तो घोरोऽन्ततो बहिः ॥ ३.१७॥ चिच्छक्तिः परमा देहमध्ये कुण्डलिनी स्थिता । मायाशक्तिर्ललाटाग्रे तन्मध्ये नादरूपिणी ॥ ३.१८॥ अपरांशे बिन्दुमयी तस्य शक्तिः स्थिता स्वयम् । जीवात्मा बिन्दुमध्ये तु सूक्ष्मरूपः प्रकाशते ॥ ३.१९॥ हृदये स्थूलरूपेण तयोर्मध्ये तु मध्यमः । हृन्मध्ये तु महालक्ष्मीः जिह्वायां तु सरस्वती ॥ ३.२०॥ रुद्राणी सह रुद्रेण हृदये वर्तते सदा । ईश्वरस्सर्वत्र देहे सर्वसाक्षी सदाशिवः ॥ ३.२१॥ ज्ञा सम्यक् नवतां देहे सकला देवता अमूः । प्रत्यगात्मतया भान्ति देवतारूपतोऽपि च ॥ ३.२२॥ वेदमार्गेकनिष्ठानां विशुद्धानां तु विग्रहे । देवतारूपतो भान्ति न भाति प्रत्यगात्मना ॥ ३.२३॥ तान्त्रिकाणां शरीरे तु वर्तन्ते न प्रकाशकाः । शुद्धभावात् यथाजातप्राणिनां सर्वदेवताः ॥ ३.२४॥ तिरोभूततया नित्यं वर्तन्ते न स्वरूपतः । अतश्च भोगमोक्षार्थी शरीरं देवतामयम् ॥ ३.२५॥ स्वकीयं परकीयं च पूजयेत् सुविशेषतः । नावमानं सदा कुर्यात् मोहतो वापि बुद्धिमान् ॥ ३.२६॥ यदि कुर्यात् प्रमादेन पतत्येव भवार्णवे । दुर्वृत्तमपि मूर्खं च पूजयेत् देवतात्मना ॥ ३.२७॥ देवतारूपतः पश्यन् मुच्यते जन्मबन्धनात् । मोहेनापि सदा नैव कुर्यादप्रियभाषणम् ॥ ३.२८॥ यदि कुर्यात् प्रमादेन हन्ति तं परदेवता । देहे तु न क्षतं कुर्यात् अस्त्रशस्त्रनखादिभिः ॥ ३.२९॥ तथा न लोहितं कुर्यात् यदि कुर्यात् पतत्यधः । एषा सनातनी विद्या भोगमोक्षप्रदायिनी ॥ ३.३०॥ मयैव कथिता नित्या सर्वलोकोपकारिणी । कथिताऽभूते हिडिम्भ सर्वं ब्रह्ममयं जगत् ॥ ३.३१॥ ब्रह्माण्डेऽपि च पिण्डाण्डे सर्वत्र ब्रह्मभावतः । तत्त्वमेवास्यहं चासि देवदेव सुखी भव ॥ ३.३२॥ इति कलिसन्तारक श्रीगुहगीतायां ब्रह्मविद्यायां अद्वैतशास्त्रे भिक्षुरूपिगुहहिडिम्भसंवादे अज्ञानमूलं नाम तृतीयोऽध्यायः ॥ ३॥
अथ चतुर्थोऽध्यायः ज्ञानोत्पत्तिः हिडिम्भ उवाच- सङ्कोचो देहयात्रायां प्राणिनां अस्ति षण्मुख । तेषु ज्ञानार्थिनां बुद्धिरुपक्षीणा भवेत्किल ॥ ४.१॥ तद्धेतोः ज्ञानसम्पत्तिः देहयात्रा च दुर्लभा । तस्यास्तस्याश्च सौलभ्यं कथं भवति सद्गुरो ॥ ४.२॥ श्रीभिक्षुरुवाच- हन्त तात प्रवक्ष्यामि ज्ञानोत्पत्तेस्तु कारणम् । विना येन शिवज्ञानं न जायेत कथञ्चन ॥ ४.३॥ मुमुक्षुरतिसन्तुष्टः सिद्ध्यत्येव गतिर्मम । इति निश्चयबुद्धिस्तु प्रतिबन्धनिवृत्तये ॥ ४.४॥ देवतास्सकला नित्यं प्रार्थयेन्मतिमुत्तमः । अधिकारी भवेत्तत्र जन्मना कर्मणा द्विजः ॥ ४.५॥ शन्नो मित्रश्शं वरुणः शन्नो भवतु चार्यमा । शन्न इन्द्रो बृहस्पतिः शन्नो विष्णुरुरुक्रमः ॥ ४.६॥ नमोऽस्तु ब्रह्मणे वायो नमोऽस्तु तव शोभनम् । त्वमेव साक्षाद् ब्रह्मासि त्वां वदिष्यामि शङ्करम् ॥ ४.७॥ ऋतं च सत्यं चाहं त्वां वदिष्यामि समाहितः । तन्मामवतु कल्याणं तद्वक्तारं च शोभनम् ॥ ४.८॥ मां भूयोऽवतु वक्तारं अपि चावतु शोभनम् । शान्तिः शान्तिः पुनः शान्तिः दोषत्रयनिवृत्तये ॥ ४.९॥ कृत्वैवं प्रार्थनां आत्मज्ञानार्थं मतिमान् सदा । तस्य विज्ञानसम्पत्तिः क्रमतो जायते ध्रुवम् ॥ ४.१०॥ जपेन्नित्यं गुरोर्लब्ध्वा मन्त्रं यश्छन्दसामिति । मे गोपायेति पर्यन्तम् ज्ञानोत्पत्तेश्च कारणम् ॥ ४.११॥ शताक्षरां च गायत्रीं जपेन्नित्यं दिने दिने । तन्मन्त्रपूतोदकेन स्नानपानादिनाऽपि च ॥ ४.१२॥ ज्ञानोत्पत्तिर्भवत्येव शिवभक्त्या च सन्ततम् । उपायमपरं चापि ब्रवीमि शृणु सादरम् ॥ ४.१३॥ गुरोर्भक्तिर्दृढा यस्य स्वतो ज्ञानं प्रजायते । बहूनां जन्मनामन्ते गुरुभक्तिः प्रजायते ॥ ४.१४॥ गुरुभक्तियुते जन्तौ ज्ञानोत्पत्तिर्न संशयः । यथाकथञ्चित् स भवेत् ब्राह्मणो जायते भुवि ॥ ४.१५॥ ब्राह्मणो गुरुभक्तस्तु श्रुतिज्ञानात् प्रमुच्यते । श्रुतिप्रामाण्यबुद्धिर्हि मोक्षस्य गतिरुच्यते ॥ ४.१६॥ प्रारब्धं पुष्यति वपुः इति निश्चित्य चेतसा । धैर्यमालम्ब्य यत्नेन तूष्णीं स्थितिरपि स्वयम् ॥ ४.१७॥ वैदेकानां भवेद् ज्ञानजनने कारणं सदा । सङ्कोचो देहयात्रायां तदृशानां भवेत्खलु ॥ ४.१८॥ अतः सङ्कोचहानाय चावहन्तीति मन्त्रतः । आज्येनान्नेन चोभाभ्यां जुहुयाच्च दिने दिने ॥ ४.१९॥ तदशक्तः स्मरेन्नित्यं मन्त्रं वा श्रद्धया सह । ब्रह्मचारी गृहस्थो वा वानप्रस्थश्च भिक्षुकः ॥ ४.२०॥ नित्यं आचार्यशुश्रूषां प्रकुर्यात् भक्तिपूर्वकम् । प्राणिनां तादृशानां तु लोकयात्रा भवेत्स्वयम् ॥ ४.२१॥ अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते । तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ ४.२२॥ अहमेव परं साक्षात् अहमेव सदाशिवः । अहमेव जगत्साक्षी चाहमेव जगद्गुरुः ॥ ४.२३॥ नित्यं लिङ्गे महादेवं पूजयेत् भक्तिमान्नरः । वेदान्तश्रवणं कुर्यात् मननं च समाहितः ॥ ४.२४॥ रुद्राध्यायी भवेन्नित्यं रुद्राक्षाभरणो भवेत् । भस्मत्रिपुण्ड्रधारी च ज्ञानवान्मां प्रपद्यते ॥ ४.२५॥ शम्भोर्ममैक्यभावो हि मायाऽविद्याविनाशकः । उक्तसाधनसम्पन्नः ज्ञानाद् भस्माधिगच्छति ॥ ४.२६॥ शिवस्वरूपं परमं भासनात् भस्मसञ्ज्ञितम् । तदेव स्वीयमायोत्थप्रपञ्चे जलसूर्यवत् ॥ ४.२७॥ अनुप्रविष्टं तद्रूपं भस्मलेशमुदाहृतम् । तेन लेशेन देवेशः प्रतिबिम्बेन भस्मना ॥ ४.२८॥ स्वतन्त्रो बिम्बभूतस्तु सदैवोद्धूलितः शिवः । सदैव पूजनीयस्तु ब्रह्मविष्ण्वादिभिः सुरैः ॥ ४.२९॥ सोऽहं चाहं स एवास्मिन् विषये मास्तु संशयः । आवयोरन्तरं नास्ति तात शब्दार्थयोरिव ॥ ४.३०॥ तत्प्रसादेन सर्वेषां देवत्वं न स्वभावतः । स्वभावादेव देवत्वं देवदेवस्य मेऽपि च ॥ ४.३१॥ तं विदित्वा विमुच्यन्ते शान्ता दान्ता मुनीश्वराः । गृहस्थाश्च तथैवान्ये सत्यधर्मपरायणाः ॥ ४.३२॥ भस्मसञ्छन्नसर्वाङ्गाः त्रिपुण्ड्राङ्कितमस्तकाः । रुद्राक्षमालाभरणाः श्रीषडक्षरजापकाः ॥ ४.३३॥ नित्यं देवाचर्नपराः सत्क्रियादग्धकिल्बिषाः । एवं ज्ञानार्थिनां सम्यक् साधनानि बहूनि च ॥ ४.३४॥ सन्ति तेषां मुख्यतमानीदानीं कथितानि वै । ज्ञानं वेदान्तविज्ञानं ब्रह्मात्मैकत्वगोचरम् ॥ ४.३५॥ सम्पादनीयं तज्ज्ञानं ज्ञानान्मुच्येत बन्धनात् । मदुक्तार्तेषु विश्वासं हिडिम्भ कुरु सन्ततम् ॥ ४.३६॥ सर्वसौलभ्यमेवाहं उपायं वच्मि सादरम् । मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ॥ ४.३७॥ अहं त्वा सर्वकष्टेभ्यो मोक्षयिष्यामि मा शुचः । एवमेव वचस्साक्षात् सद्गुरोः करुणामृतम् ॥ ४.३८॥ देवे रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन । त्वमेव तत्र दृष्टान्तरूपोऽगस्त्यकृपोदितः ॥ ४.३९॥ इति कलिसन्तारक श्रीगुहगीतायां ब्रह्मविद्यायां अद्वैतशास्त्रे भिक्षुरूपिगुहहिडिम्भसंवादे ज्ञानोत्पत्तिर्नाम चतुर्थोऽध्यायः ॥ ४॥
अथ पञ्चमोऽध्यायः मायामोहजालम् हिडिम्भ उवाच- अहो सर्वमिदं ब्रह्म बद्धो मुक्तश्च कः पुनः । सर्वमाश्वर्यमेव स्यात् मन्मनः क्लिश्यते प्रभो ॥ ५.१॥ सद्गुरो भगवन् स्वामिन् किमर्थं जगदीदृशम् । उच्चावचं भाति ब्रह्म मायामूलं च मे वद ॥ ५.२॥ श्रीभिक्षुरुवाच- मायाऽविद्या विशुद्धा चित् जीव आत्मा च वासना । व्यावहारिकसत्तायां षडस्माकं अनादयः ॥ ५.३॥ व्यावहारिकसर्वस्वं मिथ्यैव परमार्थतः । त्रैकालिकाबाध्यवस्तु सच्चिदानन्दलक्षणम् ॥ ५.४॥ ब्रह्मैकमेव सत्यं हि तदात्मा परिकीर्तितः । स्वस्वरूपानुसन्धाने ज्ञाने सर्वं विलीयते ॥ ५.५॥ बद्धो मुक्त इति व्याख्या गुणतो नैव वस्तुतः । गुणस्तु मायामूलत्वात् न ते मोक्षो न बन्धनम् ॥ ५.६॥ वक्ष्ये शृणु समासेन सर्वसाधनमुत्तमम् । व्यावहारिकलोकानां उद्धारार्थं हिडिम्भक ॥ ५.७॥ अपेक्षितार्थः सर्वेषां भुक्तिर्मुक्तिश्च सर्वदा । मुक्तिर्नानाविधा प्रोक्ता मया वेदानुसारतः ॥ ५.८॥ तत्र सायुज्यरूपाया मुक्तेः साक्षात्तु साधनम् । सम्यक् ज्ञानं न कर्मोक्तं न तयोश्च समुच्चयः ॥ ५.९॥ नित्यसिद्धाऽथवा मुक्तिः साध्यरूपा द्वयोर्गतिः । नित्यसिद्धा तु सर्वेषां आत्मरूपाऽथवाऽपरा ॥ ५.१०॥ आत्मरूपैव चेन्मुक्तिः नित्यप्राप्ता हि सात्मनः । नित्यप्राप्तस्य चाप्राप्तिः विभ्रमः खलु देहिनाम् ॥ ५.११॥ विभ्रमस्य निवृत्त्या सा प्राप्तेति व्यपदिश्यते । विभ्रमस्य निवृत्तिस्तु सिद्ध्यत्यज्ञाननाशनात् ॥ ५.१२॥ अज्ञानस्य विनाशस्तु ज्ञानादेव न चान्यतः । ज्ञानादज्ञाननाशस्तु प्रसिद्धस्सर्वदेहिनाम् ॥ ५.१३॥ अपरा सा परा मुक्तिः आत्मरूपैव चेन्मतम् । तथापि मुक्तिः प्राप्या वा नाप्राप्या वाऽऽत्मना भवेत् ॥ ५.१४॥ प्राप्या चेत् आत्मना मुक्तिः अप्राप्तप्राप्तिरेव सा । अप्राप्तप्राप्तिरप्यस्य सम्बन्धो वैक्यमेव च ॥ ५.१५॥ स सम्बन्धश्च साध्यो वा नित्यो वा साध्य एव चेत् । अनित्यस्स तु सम्बन्धो भवेन्नित्यो न सर्वदा ॥ ५.१६॥ साध्यानामपि भावानां अनित्यत्वं व्यवस्थितम् । अभावस्य न साध्यत्वं प्रध्वंसाख्यस्य सर्वदा ॥ ५.१७॥ साध्यत्वाख्यस्तु धर्मश्च नैवाभावाश्रयो भवेत् । नित्यो यदि स सम्बन्धः तर्हि सम्बन्धसञ्ज्ञिता ॥ ५.१८॥ मुक्तिश्च नित्यसिद्धैव मुमुक्षोरात्मनो भवेत् । तथापि नित्यप्राप्ताया मुक्तेः प्राप्तिस्तु पूर्ववत् ॥ ५.१९॥ विज्ञानेनैव नान्येन सत्यमुक्तं चिदात्मकम् । अप्राप्तप्राप्तिरूपाय मुक्तेरैक्यं भवेद्यदि ॥ ५.२०॥ तन्न युक्तं द्वयोरैक्यं न सिद्ध्यति कदाचन । भिन्नयोः भेदनाशे वा मुक्तिर्भेदे स्थितेऽथवा ॥ ५.२१॥ भेदनाशे तयोरैक्यं घटते नात्र संशयः । भेदे सति भवेदैक्यं इति चेत् तन्न सङ्गतम् ॥ ५.२२॥ भेदस्य सन्निधानैक्यं विरोधान्नैव सिद्ध्यति । न प्राप्या ह्यात्मना मुक्तिः इति चेत् तन्न सङ्गतम् ॥ ५.२३॥ अप्राप्यायास्तु मुक्तेश्च नास्त्यपेक्षा हि साधने । साधने सति सा मुक्तिः अप्राप्यैव सदा खलु ॥ ५.२४॥ न नित्यसिद्धा सा मुक्तिः साध्यरूपैव चेन्मतम् । साध्यत्वे सत्यनित्यत्वं पूर्वमेवाभिभाषितम् ॥ ५.२५॥ प्रध्वंसस्य तु नित्यत्वं सर्वशो न भविष्यति । अचिद्रूपस्य सर्वस्य विनाशो गम्यते यतः ॥ ५.२६॥ भावत्वे सति साध्यत्वात् विनाशश्चेतनस्य तु । प्रध्वंसस्य तु साध्यत्वेऽप्यभावत्वेन हेतुना ॥ ५.२७॥ न सिद्ध्यति विनाशश्चेत् तच्च नैव सुसङ्गतम् । प्रागभावसमाख्यस्याप्यनित्यत्वस्य दर्शनात् ॥ ५.२८॥ प्रागभावस्य साध्यत्वाभावे सत्यप्यभावतः । अनित्यत्वं यदिष्येत प्रध्वंसस्यापि तत्समम् ॥ ५.२९॥ भावानामप्यभावानां साध्यानां च हिडिम्भक । असाध्यानां च सर्वेषां अनित्यत्वे प्रयोजकम् ॥ ५.३०॥ अचेतनत्वमेवोक्तं नेतरद्व्यभिचारतः । चेतनस्य तु नित्यत्वं श्रुतिराह सनातनी ॥ ५.३१॥ तस्मादुक्तप्रकारेण मुक्तिः सायुज्यरूपिणी । ज्ञानलभ्या क्रियामात्रात् न लभ्या न समुच्चयात् ॥ ५.३२॥ ज्ञानं नामाखिलं चेदं मद्रूपेणावभासनम् । क्रिया तु कारणापेक्षा न ज्ञानालम्बिनी सदा ॥ ५.३३॥ अतः क्रियाया ज्ञानेन विरोधादेव सर्वदा । समुच्चयो न युज्येत कुतस्तेन परा गतिः ॥ ५.३४॥ सारूप्याख्या तु सा मुक्तिः सामीप्याख्या च याऽपरा । सालोक्याख्या च या तासां केवलं कर्म साधनम् ॥ ५.३५॥ ऐहिकामुष्मिकाकारा मुक्तयः सर्वदेहिनाम् । कर्मणैव हि सिद्ध्यन्ति न ज्ञानेन विरोधतः ॥ ५.३६॥ ज्ञानं कर्म च वेदोक्तमेव नान्योदितं भवेत् । अन्योदितं तु मन्यन्ते व्यवहारे विवेकिनाम् ॥ ५.३७॥ अपेक्ष्य बुद्धिं विज्ञानं कर्म चेति विधीयते । तयापि व्यवहारे ते व्यावहारिकसिद्धिदे ॥ ५.३८॥ वेदश्शिवः शिवोऽहं वै सर्वं ब्रह्ममयं जगत् । वेदनिन्दा न कर्तव्या ज्ञानिना यत्रकुत्रचित् ॥ ५.३९॥ तस्मात्सर्वत्र नास्तिक्यं न कुर्यान्मे मतिसत्तमः । नास्तिक्यादेव सर्वेषां संसारे परिवर्तनम् ॥ ५.४०॥ अस्तीत्येवोपलब्धव्यः परमात्मा श्रुतेस्स्वयम् । लीलामात्रं प्रभोर्जन्म संसारपरिवर्तनम् ॥ ५.४१॥ धर्माधर्मै पुण्यपापे प्राणिनां कर्मबन्धनम् । भस्मसात्कुरुते ज्ञानवह्निः संसारवासनाम् ॥ ५.४२॥ सर्वं त्यक्त्वैव मनसा येन त्यजसि तत्त्यज । स्वयमेव स्वयं साक्षात् किं वक्तव्यमतः परम् ॥ ५.४३॥ इति कलिसन्तारक श्रीगुहगीतायां ब्रह्मविद्यायां अद्वैतशास्त्रे भिक्षुरूपिगुहहिडिम्भसंवादे मायामोहजालं नाम पञ्चमोऽध्यायः ॥ ५॥
अथ षष्ठोऽध्यायः जीवब्रह्मैक्यम् हिडिम्भ उवाच- सर्वमुक्तं समासेन सद्गुरो मय्यनुग्रहात् त्वयैवाहं ब्रह्मविच्च न मे जन्म न मे मृतिः ॥ ६.१॥ देहबुद्ध्या भवद्दासः जीवबुद्ध्या त्वदंशकः । आत्मबुद्ध्या त्वमेवाहं सद्गतोऽस्मिन् न संशयः ॥ ६.२॥ अथ केन प्रयुक्तोऽहं कुर्वे कर्म जगद्गुरो । जीवन्मुक्तः सुखी तूष्णीं स्थास्यामीत्यब्रुवं मुने ॥ ६.३॥ श्रीभिक्षुरुवाच- सम्यग्व्यवसिता बुद्धिः हिडिम्भ तव तात्त्विके । अपि चेद्देहयात्रायां अवशस्त्वं हि मायया ॥ ६.४॥ आधिकारिकजीवोऽसि मल्लोके पार्षदोऽसि च । आकल्पान्तं मयाऽज्ञप्तः कर्म कर्तुं त्वमर्हसि ॥ ६.५॥ ब्रह्मणा सह मुक्तिः स्यात् प्रलये तव चानघ । कर्मतत्त्वं प्रवक्ष्यामि शृणु गुह्यं सनातनम् ॥ ६.६॥ नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः । शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः ॥ ६.७॥ नहि कश्चित् क्षणमपि जातु तिष्ठत्यकर्मकृत् । कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥ ६.८॥ कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् । तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥ ६.९॥ सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः । अनेन प्रसविष्यध्वं एष वोऽस्त्विष्टकामधुक् ॥ ६.१०॥ देवान् भावयतानेन ते देवा भावयन्तु वः । परस्परं भावयन्तः श्रेयः परं अवाप्स्यथ ॥ ६.११॥ इष्टान् भोगान् हि वो देवाः दास्यन्ते यज्ञभाविताः । तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ॥ ६.१२॥ यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः । भुञ्जन्ते ते त्वघं पापा ये पचन्त्यात्मकारणात् ॥ ६.१३॥ अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः । यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ॥ ६.१४॥ यज्ञाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः । यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ॥ ६.१४॥ repeat यज्ञार्थात् कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः । तदर्थं कर्म शैरेय मुक्तसङ्गः समाचर ॥ ६.१५॥ एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः । अघायुरिन्द्रियारामो व्यर्थजीवी स एव हि ॥ ६.१६॥ आत्मानं रथिनं विद्धि शरीरं रथमेव तु । बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥ ६.१७॥ इन्द्रियाणि हयानाहुः विषयांस्तेषु गोचरान् । आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुः मनीषिणः ॥ ६.१८॥ यस्त्वविज्ञानवान् भवति अयुक्तेन मनसा सदा । तस्येन्द्रियाणि वश्यानि दुष्टाश्चा इव सारथेः ॥ ६.१९॥ यस्तु विज्ञानवान् भवति युक्तेन मनसा सदा । तस्येन्द्रियाणि वश्यानि सदश्चा इव सारथेः ॥ ६.२०॥ यस्त्वविज्ञानवान् भवत्यमनस्कः सदाऽशुचिः । न स तत्पदमाप्नोति संसारं चाधिगच्छति ॥ ६.२१॥ यस्तु विज्ञानवान् भवति समनस्कः सदा शुचिः । स तु तत्पदमाप्नोति यस्माद्भूयो न जायते ॥ ६.२२॥ विज्ञानसारथिर्यस्तु मनःप्रग्रहवान्नरः । सोऽध्वनः पारमाप्नोति मत्पदं परमं शिवम् ॥ ६.२३॥ इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः । मनसश्च परा बुद्धिः बुद्धेरात्मा महान् परः ॥ ६.२४॥ महतः परमव्यक्तं अव्यक्तात् पुरुषः परः । पुरुषान्न परं किञ्चित् सा काष्ठा सा परा गतिः ॥ ६.२५॥ एष सर्वेषु भूतेषु गूढः आत्मा न प्रकाशते । दृश्यते त्वग्र्य्या बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः ॥ ६.२६॥ यच्छेद्वाङ्मनसी प्राज्ञः तद्यच्छेत् ज्ञान आत्मनी । ज्ञानमात्मनि महति तद्यच्छेत् शान्त आत्मनि ॥ ६.२७॥ मयि सर्वाणि कर्माणि सन्न्यस्याध्यात्मचेतसा । असक्तो ह्याचरन् कर्म परमाप्नोति नान्यथा । किं भवानिच्छति पुनर्निस्सन्देहो भवार्भक ॥ ६.२८॥ हिडिम्भ उवाच- परमात्मन् गुरो भिक्षो त्वमेवाहं गतिर्मम । द्रष्टुमिच्छामि ते भूयो रूपं षाण्मुखमैश्वरम् ॥ ६.२९॥ भवदाज्ञावशः कुर्वे त्वदिष्टं कर्म नान्यथा । त्वत्षण्मुखत्वस्वरूपं ब्रह्म पिण्डाण्डयोः कथम् ॥ ६.३०॥ श्रीभिक्षुरुवाच- ज्ञानेन्द्रियमनोबुद्धिः महदव्यक्तपूरुषः । पिण्डाण्डे षण्मुखानीति मदीयानि विभावय ॥ ६.३१॥ तदशक्तौ तु सर्वत्र ज्ञानेन्द्रियमनांसि च । दृश्यं जगच्च ब्रह्माणं विष्णुं रुद्रं तथेश्वरम् ॥ ६.३२॥ सदाशिवं शिवशतं ब्रह्माण्डे परिभावय । पश्य मे तादृशं रूपं मल्लोके स्कन्दनामके । मामेव शरणं गच्छ मय्यर्पितमना भव ॥ ६.३३॥ हिडिम्भ उवाच- इत्युक्त्वा षाण्मुखैश्वर्यरूपं धृत्वाऽथ भिक्षुकः । स्कन्दलोकं जगामाथ सुब्रह्मण्यः शिखीन्द्रगः ॥ ६.३४॥ षाण्मुखैश्वर्यं ताद्रूप्यं तदानीन्तनवैभवम् । सर्वलोकेषु सर्वेषु दृष्ट्वा मयि च विस्मितः ॥ ६.३५॥ जडदेही कियत्कालं नीतोऽहं मामपि स्वयम् । न जानेऽथ स्वयं मन्दम् प्रबुद्धो व्यावहारिके ॥ ६.३६॥ जगतीत्थं चरिष्यामि स्वामिप्रेरणया यथा । गुहगीतामिमां श्रुत्वा धन्यो भवति मानवः ॥ ६.३७॥ अर्थानुसन्धानपरो मुक्त एव न संशयः । इयं चोक्ता तव मुने गुह्याद्गुह्यतरं खलु । न चाशुश्रूषवे वाच्या नाभक्ताय कदाचन ॥ ६.३८॥ इति कलिसन्तारक श्रीगुहगीतायां ब्रह्मविद्यायां अद्वैतशास्त्रे भिक्षुरूपिगुहहिडिम्भसंवादे जीवब्रह्मैक्यं नाम षष्ठोऽध्यायः ॥ ६॥ ॐ तत्सत् ब्रह्मार्पणमस्तु ॥ Proofread by Sunder Hattangadi sunderh at hotmail.com PSA Easwaran psaeaswaran at gmail.com
% Text title            : Guha Gita
% File name             : guhagiitaa.itx
% itxtitle              : guhagItA
% engtitle              : Guha Gita
% Category              : gItA, giitaa
% Location              : doc_giitaa
% Sublocation           : giitaa
% Language              : Sanskrit
% Subject               : philosophy
% Transliterated by     : Sunder Hattangadi (sunderh at hotmail.com)
% Proofread by          : Sunder Hattangadi, PSA Easwaran psaeaswaran at gmail.com
% Source                : Subrahmanyastutimanjari, Mahaperiaval Trust
% Indexextra            : (Subrahmanyastutimanjari)
% Latest update         : June 7, 2015
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP