काश्यपगीता
अत्राप्युदाहरन्तीमा गाथा नित्यं क्षमावताम् ।
गीताः क्षमावतां कृष्णे काश्यपेन महात्मना ॥ १॥
क्षमा धर्मः क्षमा यज्ञः क्षमा वेदाः क्षमा श्रुतम् ।
य एतदेव जानाति स सर्व क्षन्तुमर्हति ॥ २॥
क्षमा ब्रह्म क्षमा सत्यं क्षमा भूतं च भावि च ।
क्षमा तपः क्षमा शौचं क्षमयेदं धृतं जगत् ॥ ३॥
अतियज्ञविदांलोकान्क्षमिणः प्राप्नुवन्ति च ।
अतिब्रह्मविदांलोकानतिचापि तपस्विनाम् ॥ ४॥
अन्येवै यजुषां लोकाः कर्मिणामपरे तथा ।
क्षमावतां ब्रह्मलोके लोकाः परमपूजिताः ॥ ५॥
क्षमा तेजस्विनां तेजः क्षमा ब्रह्म तपस्विनाम् ।
क्षमा सत्यं सत्यवतां क्षमा यज्ञः क्षमा शमः ॥ ६॥
तां क्षमां तादृशीं कृष्णे कथमस्मद्विधस्त्यजेत् ।
यस्यां ब्रह्म च सत्यं च यज्ञालोकाश्चधिष्ठिताः ॥ ७॥
क्षन्तव्यमेव सततं पुरुषेण विजानता ।
यदा हि क्षमते सर्वं ब्रह्म सम्पद्यते तदा ॥ ८॥
क्षमावतामयं लोकः परश्चैव क्षमावताम् ।
इह सन्मानमृच्छति परत्र च शुभां गतिम् ॥ ९॥
येषां मन्युर्मनुष्याणां क्षमयाऽभिहतः सदा ।
तेषां परतरे लोकास्तस्मात्क्षान्तिः परा मता ॥ १०॥
इति गीताः काश्यपेन गाथा नित्यं क्षमावताम् ।
श्रुत्वा गाथाः क्षमायास्त्वं तुष्य द्रौपदि माक्रुधः ॥ ११॥
पितामहः शान्तनवः क्षमां सम्पूजयिष्यति ।
कृष्णश्च देवकीपुत्रः क्षमां सम्पूजयिष्यति ॥ १२॥
आचार्यो विदुरः क्षत्ता शममेव वदिष्यतः ।
कृपश्च संजयश्चैव शममेव वदिष्यतः ॥ १३॥
सोमदत्तो युयुत्सुश्च द्रोणपुत्रस्तथैव च ।
पितामहश्च नो व्यासः शमं वदति नित्यशः ॥ १४॥
सुयोधनो नार्हतीति क्षमामेवं न विन्दति ।
अर्हस्तत्राहमित्येवं तस्मान्मां विन्दते क्षमा ॥ १५॥
एतदात्मवतां वृत्तमेष धर्मः सनातनः ।
क्षमाचैवानृशंस्यं च तत्कर्तास्म्यहमंजसा ॥ १६॥
परैस्ताडितस्यापितत्ताडनसमर्थस्य
चिते क्षोभानुत्पत्तिः क्षमा ॥ १७॥
॥ इति काश्यपगीता समाप्ता ॥
Encoded and proofread by Sunder Hattangadi sunder at hotmail.com