श्रीसरस्वतीगीता
॥ अथ सरस्वतीगीता ॥
मार्कण्डेय उवाच -
अत्रैव च सरस्वत्या गीतं परपुरञ्जय ।
पृष्टा या मुनिना वीर शृणु तार्क्ष्येण धीमता ॥ १॥
तार्क्ष्य उवाच -
किनु श्रेयः पुरुषस्येह भद्रे कथं कुर्वन्न च्यवते स्वधर्मात् ।
आचक्ष्व मे चारुसर्वांगि कुर्यात्वयाशिष्टो न च्यवेयं स्वधर्मात् ॥ २॥
कथं वाग्निं जुहुयां पूजये वा कस्मिन्काले केन धर्मो न नश्येत् ।
एतत्सर्व सुभगे प्रब्रवीहि यथा लोकान् विरजाः संचरेयम् ॥ ३॥
मार्कण्डेय उवाच -
एवं पृष्टा प्रीतियुक्तेन तेन शुश्रूमीक्ष्योत्तमबुद्धियुक्तम् ।
तार्क्ष्यं विप्रं धर्मयुक्तं हितं च सरस्वती वाक्यमिदं बभाषे ॥ ४॥
सरस्वत्युवाच -
यो ब्रह्म जानाति यथाप्रदेशं स्वाध्यायनित्यः सुचिरप्रमत्तः ।
स वै पारं देवलोकस्य गन्ता सहामरैः प्राप्नुयात्प्रीतियोगम् ॥ ५॥
तत्र स्म रम्याविपुला विशोकाः सुपुष्पिताः पुष्करिण्यः सुपुण्याः ।
अकर्दमामीनवत्यः सुतीर्था हिरण्मयैरावृताः पुण्डरीकैः ॥ ६॥
तासां तीरेष्वासते पुण्यभाजो महीयमानाः पृथगप्सरोभिः ।
सुपुण्यगन्धाभिरलंकृताभिर्हिरण्यवर्णाभिरतीव दृष्टाः ॥ ७॥
परं लोकं गोप्रदास्त्वाप्नुवन्ति दत्वानडुहं सूर्यलोकं व्रजन्ति ।
वासो दत्वा चान्द्रमसं तु लोकं दत्वा हिरण्यममरत्वमेति ॥ ८॥
धेनुं दत्वा सुप्रभां सुप्रदोहां कल्याणवत्सामपलायिनीं च ।
यावन्ति रोमाणि भवन्ति तस्यास्तावद्वर्षाण्यासते देवलोके ॥ ९॥
अनड्वाहं सुव्रतं यो ददाति हलस्य वोढारमनन्तवीर्यम् ।
धुरन्धरं बलवन्तं युद्मनं प्राप्नोति लोकान्दशधेनुदस्य ॥ १०॥
ददाति यो वै कपिलां सचैलां कांस्योपदोहां द्रविणैरुत्तरीयै ।
तैस्तैर्गुणैः कामदुहाथ भूत्वा नरं प्रदातारमुपैति सा गौः ॥ ११॥
यावन्ति रोमाणि भवन्ति धेन्वास्तावत्फलं भवति गोप्रदाने ।
पुत्रांश्च पौत्रांश्च कुलं च सर्वमासप्तमं तारयते परत्र ॥ १२॥
सदक्षिणां कांचनचारुशृङ्गीं कांस्योपदोहां द्रविणैरुत्तरीयैः ।
धेनुं तिलानां ददतो द्विजाय लोका वसूनां सुलभा भवन्ति ॥ १३॥
स्वकर्मभिर्दानवसंनिरुद्धे तीव्रान्धकारे नरके पतन्तम् ।
महार्णवे नौरिव वातयुक्ता दानं गवां तारयते परत्र ॥ १४॥
यो ब्राह्मदेयां तु ददाति कन्यां भूमिप्रदानं च करोति विप्रे ।
ददाति दानं विधिना च यश्च स लोकमाप्नोति पुरन्दरस्य ॥ १५॥
यः सप्तवर्षाणि जुहोति तार्क्ष्य हव्यं त्वग्नौ नियतः साधुशील ।
सप्तावरान्सप्तपूर्वान्पुनाति पितामहानात्मना कर्मभिः स्वैः ॥ १६॥
तार्क्ष्य उवाच -
किमग्निहोत्रस्य व्रतं पुराणमाचक्ष्व मे पृच्छतश्चानुरूपे ।
त्वयानुशिष्टोहमिहाद्य विद्यां यदग्निहोत्रस्य व्रतं पुराणम् ॥ १७॥
सरस्वती उवाच -
न वाशुचिर्नाप्यनिर्णिक्य पाणिर्नाब्रह्मविज्जुहुयान्नाविपश्चित् ।
बुभुत्सवः शुचिकामा हि देवा नाश्रद्दधानाद्धिहविर्जुहन्ति ॥ १८॥
नाश्रोत्रियं देवहव्ये नियुंज्यान्मोघं पुरा सिंचति तादृशो हि ।
अपूर्वमश्रोत्रियमाह तार्क्ष्य न वै तादृग्जुहुयादग्निहोत्रम् ॥ १९॥
कृशाश्च ये जुह्वति श्रद्दधानाः सत्यव्रता हुतशिष्टाशिनश्च ।
गवां लोकं प्राप्य ते पुण्यगन्धं पश्यन्ति देवं परमं चापि सत्यम् ॥ २०॥
तार्क्ष्य उवाच -
क्षेत्रज्ञभूतां परलोकभावे कर्मोदये बुद्धिमति प्रविष्टाम् ।
प्रज्ञां च देवीं सुभगे विमृश्य पृच्छामि त्वां काह्यसि चारुरूपे ॥ २१॥
सरस्वत्युवाच -
अग्निहोत्रादहमभ्यागतास्मि विसर्पमाणा संशयच्छेदनाय ।
त्वत्सन्नियोगादहमेतदब्रुबं भावे स्थिता तथ्यमर्थं यथावत् ॥ २२॥
तार्क्ष्य उवाच -
न हि त्वया सदृशी काचिदस्ति विभ्राजसे ह्यतिमात्रं यथा श्रीः ।
रूपं च ते दिव्यमनन्तकान्ति प्रज्ञां च देवीं सुभगे बिभर्षि ॥ २३॥
सरस्वत्युवाच -
श्रेष्ठानि यानि द्विपदां वरिष्ठ यज्ञेषु विद्वन्नुपपादयन्ति ।
तैरेव चाहं सम्प्रवृद्धा भवामि चाप्यायिता रूपवती च विप्र ॥ २४॥
यच्चापि द्रव्यमुपयुज्यतेह वानस्पत्यमायसम्पार्थिवं वा ।
दिव्येन रूपेण च प्रज्ञया च तवैव सिद्धिरिति विद्धि विद्वन् ॥ २५॥
तार्क्ष्य उवाच -
इदं श्रेयः परमं मन्यमाना व्यापृच्छन्ते मुनयः सम्प्रतीताः ।
आचक्ष्व मे तं परमं विशोकं मोक्षं परं यं प्रविशन्ति धीराः ।
सांख्यं योगाः परमं यं विदन्ति परं पुराणं तमहं न वेद्मि ॥ २६॥
सरस्वत्युवाच -
तं वै परं वेदविदः प्रपन्नाः परं परेभ्यः प्रथितं पुराणम् ।
स्वाध्यायवन्तो व्रतपुण्ययोगैस्तपोधना वीतशोका विमुक्ताः ॥ २७॥
तस्याथ मध्ये चेतसः पुण्यगन्धाः सहस्र शाखा विपुला विभान्ति ।
तस्य मूलात्सरितः प्रस्रवन्ति मधूदकप्रस्रवणाः सुपुण्याः ॥ २८॥
शाखां शाखां महानद्यः संयान्ति सिकताशयाः ।
धानाः पूपा मांसशाका सदा पायसकर्दमाः ॥ २९॥
यस्मिन्नग्निमुखा देवाः सेन्द्राः सहमरुद्गणाः ।
ईजिरे क्रतुभिः श्रेष्ठैस्तत्पदं परमं मम ॥ ३०॥
इति सरस्वतीगीता समाप्ता॥
Encoded and proofread by Sunder Hattangadi