सेनजिद्गीता भारतमञ्जर्यां क्षेमेन्द्रविरचिता
कथं समाश्रयेद्धर्मं विनष्टधनबान्धवः ॥ १३.६९७॥
स तेन पृष्टः प्रोवाच शृणु सेनजितं नृपम् ।
पुत्रशोकाकुलं कश्चिज्ज्ञात्वाभ्येत्यावदद्विजः ॥ १३.६९८॥
अभावायैव जायन्ते भवेऽस्मिन्सर्वजन्तवः ।
शोच्यस्त्वमपि कालेन कथं शोचसि पार्थिव ॥ १३.६९९॥
यदृच्छया सङ्गतश्चेत्प्रतियातो यदृच्छया ।
संसाराध्वनि तत्कोऽयं वियोगे मोहविभ्रमः ॥ १३.७००॥
जायते क्षणदृष्टेषु स्नेहो दुःखाय देहिनाम् ।
ममायमिति मुग्धानां न स तेषां न तस्य ते ॥ १३.७०१॥
शोचन्त्यलुब्धं वाञ्छन्तः प्राप्तं शोचन्ति दुर्भगम् ।
नष्टं शोचन्ति दुःखार्ता जन्तवः सुखिनः कदा ॥ १३.७०२॥
धनपुत्रकलत्रेषु न स्निह्यन्ति विपश्चितः ।
अवश्यं विप्रयोगो हि तैः परैश्च नृणां सदा ॥ १३.७०३॥
को नाम प्रियसंयोगान्न मन्येतामृतोपमान् ।
मर्मच्छिदो वियोगेषु यदि न स्युर्विषोत्कटाः ॥ १३.७०४॥
पिङ्गला दत्तसङ्केतं कान्तं वाराङ्गना पुरा ।
अनागतं चिरं ध्यात्वा स्वयमेकाब्रवीन्निशि ॥ १३.७०५॥
आगतेनापि किं तेन वियोगे दुःखदायिना ।
भजे कान्तमिहान्तस्थामनश्वरमशोचकम् ॥ १३.७०६॥
इति सन्तोषपीयूषशान्ता शापापवेदना ।
प्रतिबुद्ध्वैव सुष्वाप परमे धाम्नि पिङ्गला ॥ १३.७०७॥
इति भारतमञ्जर्यां क्षेमेन्द्रविरचिता सेनजिद्गीता समाप्ता ।