उतथ्यगीता भारतमञ्जर्यां क्षेमेन्द्रविरचिता

उतथ्यगीता भारतमञ्जर्यां क्षेमेन्द्रविरचिता

तस्मात्क्रमागतं कुर्याद्द्रष्टारं नृपतिर्हितम् । भवन्ति यद्भयात्सर्वे कायस्था भिन्नसंहताः ॥ १३.३५१॥ दासाधिपशतस्यैको भवेदुपरिचिन्तकः । तत्सहस्रस्य चाध्यक्षः सर्वं राज्ञो निवेदयेत् । १३.३५२॥ घोषं ग्रामं पुरं राष्ट्रं भक्षयन्त्यधिकारिणः । क्रियन्ते यदि न प्राज्ञौरुपर्युपरि चिन्तकाः । मलोपदानेनार्हाश्च तीव्रपाकानिवारिणः ॥ १३.३५३॥ शीत्कारकमलोत्कारविपर्यस्तलिपिक्रमैः । क एषां भृतभस्त्राणां चौर्यस्योद्भासने क्षमः ॥ १३.३५४॥ तेषां लुण्ठकवृत्तीनां जृम्भारम्भमृजा जुषाम् । नगराण्येव चुलकं गलगर्तगलद्गिराम् ॥ १३.३५५॥ तैर्घट्यमानां पृथिवीं रक्षेद्वेतालचेष्टितैः । येषां नरकपाकोग्रपर्यन्ते विषमा स्थितिः ॥ १३.३५६॥ यौवनाश्वं नरपतिं प्रागुतथ्योऽवदन्मुनिः । पृथिवीपालने राजन्कुरु कण्ठकशोधनम् ॥ १३.३५७॥ अनाथान्दुर्बलान्रक्षेत्कृपणांश्चानुलेपयेत् । राज्ञां हि कृपणाक्रन्दैर्मूलान्नश्यन्ति सम्पदः ॥ १३.३५८॥ अर्थोऽप्यनर्थतां याति भूभुजां जनपीडनात् । जनापवादपरशुं सहते श्रीलता कथम् ॥ १३.३५९॥ वदान्यः सभ्यवान्वीरः कृतज्ञः सत्यवाक्पटुः । अभिजातो भवत्येव प्रजानां सुकृतैर्नृपः ॥ १३.३६०॥ उतथ्येनेति कथिते मान्धाता पृथिवीपतिः । तथा शशास यशसा यथा जीवन्निव स्थितः ॥ १३.३६१॥ इति भारतमञ्जर्यां क्षेमेन्द्रविरचिता उतथ्यगीता समाप्ता । शान्तिपर्वणि राजधर्माः श्लोकानि ३५१-३६१
% Text title            : utathyagItA from Bharatamanjari of Kshemendra
% File name             : utathyagItABM.itx
% itxtitle              : utathyagItA (bhAratamanjaryAM kShemendravirachitA)
% engtitle              : utathyagItA from Bharata manjari of Kshemendra
% Category              : giitaa, kShemendra
% Location              : doc_giitaa
% Sublocation           : giitaa
% Author                : Kshemendra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description/comments  : kAvyamAlA 65. Bharatamanjari
% Indexextra            : (Scan)
% Latest update         : October 15, 2022
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org