युधिष्ठिरगीता

युधिष्ठिरगीता

॥ अथ युधिष्ठिरगीता ॥

अध्यायः २९५

जनमेजय उवाच । एवं हृतायां कृष्णायां प्राप्य क्लेशमनुत्तमम् । प्रतिलभ्य ततः कृष्णां किमकुर्वन्त पाण्डवाः ॥ १॥ वैशम्पायन उवाच । एवं हृतायां कृष्णायां प्राप्य क्लेशमनुत्तमम् । विहाय काम्यकं राजा सह भ्रातृभिरच्युतः ॥ २॥ पुनर्द्वैतवनं रम्यमाजगाम युधिष्ठिरः । स्वादुमूलफलं रम्यं मार्कण्डेयाश्रमं प्रति ॥ ३॥ अनुगुप्त फलाहाराः सर्व एव मिताशनाः । न्यवसन्पाण्डवास्तत्र कृष्णया सह भारत ॥ ४॥ वसन्द्वैतवने राजा कुन्तीपुत्रो युधिष्ठिरः । भीमसेनोऽर्जुनश्चैव माद्रीपुत्रौ च पाण्डवौ ॥ ५॥ ब्राह्मणार्थे पराक्रान्ता धर्मात्मानो यतव्रताः । क्लेशमार्छन्त विपुलं सुखोदर्कं परन्तपाः ॥ ६॥ अजातशत्रुमासीनं भ्रतृभिः सहितं वने । आगम्य ब्राह्मणस्तूर्णं सन्तप्त इदमब्रवीत् ॥ ७॥ अरणी सहितं मह्यं समासक्तं वनस्पतौ । मृगस्य घर्षमाणस्य विषाणे समसज्जत ॥ ८॥ तदादाय गतो राजंस्त्वरमाणो महामृगः । आश्रमात्त्वरितः शीघ्रं प्लवमानो महाजवः ॥ ९॥ तस्य गत्वा पदं शीघ्रमासाद्य च महामृगम् । अग्निहोत्रं न लुप्येत तदानयत पाण्डवाः ॥ १०॥ ब्राह्मणस्य वचो श्रुत्वा सन्तप्तोऽथ युधिष्ठिरः । धनुरादाय कौन्तेयः प्राद्रवद्भ्रातृभिः सह ॥ ११॥ सन्नद्धा धन्विनः सर्वे प्राद्रवन्नरपुङ्गवाः । ब्राह्मणार्थे यतन्तस्ते शीघ्रमन्वगमन्मृगम् ॥ १२॥ कर्णिनालीकनाराचानुत्सृजन्तो महारथाः । नाविध्यन्पाण्डवास्तत्र पश्यन्तो मृगमन्तिकात् ॥ १३॥ तेषां प्रयतमानानां नादृश्यत महामृगः । अपश्यन्तो मृगं श्रान्ता दुःखं प्राप्ता मनस्विनः ॥ १४॥ शीतलछायमासाद्य न्यग्रोधं गहने वने । क्षुत्पिपासापरीताङ्गाः पाण्डवाः समुपाविशन् ॥ १५॥ तेषां समुपविष्टानां नकुलो दुःखितस्तदा । अब्रवीद्भ्रातरं ज्येष्ठममर्षात्कुरुसत्तम ॥ १६॥ नास्मिन्कुले जातु ममज्ज धर्मो न चालस्यादर्थलोपो बभूव । अनुत्तराः सर्वभूतेषु भूयः सम्प्राप्ताः स्मः संशयं केन राजन् ॥ १७॥

अध्यायः २९६

युधिष्ठिर उवाच । नापदामस्ति मर्यादा न निमित्तं न कारणम् । धर्मस्तु विभजत्यत्र उभयोः पुण्यपापयोः ॥ १॥ भीम उवाच । प्रातिकाम्यनयत्कृष्णां सभायां प्रेष्यवत्तदा । न मया निहतस्तत्र तेन प्राप्ताः स्म संशयम् ॥ २॥ अर्जुन उवाच । वाचस्तीक्ष्णास्थि भेदिन्यः सूतपुत्रेण भाषिताः । अतितीक्ष्णा मया क्षान्तास्तेन प्राप्तः स्म संशयम् ॥ ३॥ सहदेव उवाच । शकुनिस्त्वां यदाजैषीदक्षद्यूतेन भारत । स मया न हतस्तत्र तेन प्राप्ताः स्म संशयम् ॥ ४॥ वैशम्पायन उवाच । ततो युधिष्ठिरो राजा नकुलं वाक्यमब्रवीत् । आरुह्य वृक्षं माद्रेय निरीक्षस्व दिशो दश ॥ ५॥ पानीयमन्तिके पश्य वृक्षान्वाप्युदकाश्रयान् । इमे हि भ्रातरः श्रान्तास्तव तात पिपासिताः ॥ ६॥ नकुलस्तु तथेत्युक्त्वा शीघ्रमारुह्य पादमम् । अब्रवीद्भ्रातरं ज्येष्ठमभिवीक्ष्य समन्ततः ॥ ७॥ पश्यामि बहुलान्राजन्वृक्षानुदकसंश्रयान् । सारसानां च निर्ह्रादमत्रोदकमसंशयम् ॥ ८॥ ततोऽब्रवीत्सत्यधृतिः कुन्तीपुत्रो युधिष्ठिरः । गच्छ सौम्य ततः शीघ्रं तूर्णं पानीयमानय ॥ ९॥ नकुलस्तु तथेत्युक्त्वा भ्रातुर्ज्येष्ठस्य शासनात् । प्राद्रवद्यत्र पानीयं शीघ्रं चैवान्वपद्यत ॥ १०॥ स दृष्ट्वा विमलं तोयं सारसैः परिवारितम् । पातु काकस्ततो वाचमन्तरिक्षात्स शुश्रुवे ॥ ११॥ मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः । प्रश्नानुक्त्वा तु माद्रेय ततः पिब हरस्व च ॥ १२॥ अनादृत्य तु तद्वाक्यं नकुलः सुपिपासितः । अपिबच्छीतलं तोयं पीत्वा च निपपात ह ॥ १३॥ चिरायमाणे नकुले कुन्तीपुत्रो युधिष्ठिरः । अब्रवीद्भ्रातरं वीरं सहदेवमरिन्दमम् ॥ १४॥ भ्राता चिरायते तात सहदेव तवाग्रजः । तं चैवानय सोदर्यं पानीयं च त्वमानय ॥ १५॥ सहदेवस्तथेत्युक्त्वा तां दिशं प्रत्यपद्यत । ददर्श च हतं भूमौ भ्रातरं नकुलं तदा ॥ १६॥ भ्रातृशोकाभिसन्तप्तस्तृषया च प्रपीडितः । अभिदुद्राव पानीयं ततो वागभ्यभाषत ॥ १७॥ मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः । प्रश्नानुक्त्वा यथाकामं ततः पिब हरस्व च ॥ १८॥ अनादृत्य तु तद्वाक्यं सहदेवः पिपासितः । अपिबच्छीतलं तोयं पीत्वा च निपपात ह ॥ १९॥ अथाब्रवीत्स विजयं कुन्तीपुत्रो युधिष्ठिरः । भ्रातरौ ते चिरगतौ बीभत्सो शत्रुकर्शन । तौ चैवानय भद्रं ते पानीयं च त्वमानय ॥ २०॥ एवमुक्तो गुडाकेशः प्रगृह्य सशरं धनुः । आमुक्तखड्गो मेधावी तत्सरो प्रत्यपद्यत ॥ २१॥ यतः पुरुषशार्दूलौ पानीय हरणे गतु । तौ ददर्श हतौ तत्र भ्रातरौ श्वेतवाहनः ॥ २२॥ प्रसुप्ताविव तौ दृष्ट्वा नरसिंहः सुदुःखितः । धनुरुद्यम्य कौन्तेयो व्यलोकयत तद्वनम् ॥ २३॥ नापश्यत्तत्र किं चित्स भूतं तस्मिन्महावने । सव्यसाची ततः श्रान्तः पानीयं सोऽभ्यधावत ॥ २४॥ अभिधावंस्ततो वाचमन्तरिक्षात्स शुश्रुवे । किमासीदसि पानीयं नैतच्छक्यं बलात्त्वया ॥ २५॥ कौन्तेय यदि वैशम्पायन उवाच । प्रश्नान्मयोक्तान्प्रतिपत्स्यसे । ततः पास्यसि पानीयं हरिष्यसि च भारत ॥ २६॥ वारितस्त्वब्रवीत्पार्थो दृश्यमानो निवारय । यावद्बाणैर्विनिर्भिन्नः पुनर्नैवं वदिष्यसि ॥ २७॥ एवमुक्त्वा ततः पार्थः शरैरस्त्रानुमन्त्रितैः । ववर्ष तां दिशं कृत्स्नां शब्दवेधं च दर्शयन् ॥ २८॥ कर्णिनालीकनाराचानुत्सृजन्भरतर्षभ । अनेकैरिषुसङ्घातैरन्तरिक्षं ववर्ष ह ॥ २९॥ यक्ष उवाच । किं विघातेन ते पार्थ प्रश्नानुक्त्वा ततः पिब । अनुक्त्वा तु ततः प्रश्नान्पीत्वैव न भविष्यसि ॥ ३०॥ वैशम्पायन उवाच । स त्वमोघानिषून्मुक्त्वा तृष्णयाभिप्रपीडितः । अविज्ञायैव तान्प्रश्नान्पीत्वैव निपपात ह ॥ ३१॥ अथाब्रवीद्भीमसेनं कुन्तीपुत्रो युधिष्ठिरः । नकुलः सहदेवश्च बीभत्सुश्चापराजितः ॥ ३२॥ चिरं गतास्तोयहेतोर्न चागच्छन्ति भारत । तांश्चैवानय भद्रं ते पानीयं च त्वमानय ॥ ३३॥ भीमसेनस्तथेत्युक्त्वा तां दिशं पत्यपद्यत । यत्र ते पुरुषव्याघ्रा भ्रातरोऽस्य निपातिताः ॥ ३४॥ तान्दृष्ट्वा दुःखितो भीमस्तृषया च प्रपीडितः । अमन्यत महाबाहुः कर्म तद्यक्षरक्षसाम् । स चिन्तयामास तदा योद्धव्यं ध्रुवमद्य मे ॥ ३५॥ पास्यामि तावत्पानीयमिति पार्थो वृकोदरः । ततोऽभ्यधावत्पानीयं पिपासुः पुरुषर्षभः ॥ ३६॥ यक्ष उवाच । मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः । प्रश्नानुक्त्वा तु कौन्तेय ततः पिब हरस्व च ॥ ३७॥ वैशम्पायन उवाच । एवमुक्तस्ततो भीमो यक्षेणामित तेजसा । अविज्ञायैव तान्प्रश्नान्पीत्वैव निपपात ह ॥ ३८॥ ततः कुन्तीसुतो राजा विचिन्त्य पुरुषर्षभः । समुत्थाय महाबाहुर्दह्यमानेन चेतसा ॥ ३९॥ अपेतजननिर्घोषं प्रविवेश महावनम् । रुरुभिश्च वराहैश्च पक्षिभिश्च निषेवितम् ॥ ४०॥ नीलभास्वरवर्णैश्च पादपैरुपशोभितम् । भ्रमरैरुपगीतं च पक्षिभिश्च महायशः ॥ ४१॥ स गच्छन्कानने तस्मिन्हेमजालपरिष्कृतम् । ददर्श तत्सरो श्रीमान्विश्वकर्म कृतं यथा ॥ ४२॥ उपेतं नलिनी जालैः सिन्धुवारैश्च वेतसैः । केतकैः करवीरैश्च पिप्पलैश्चैव संवृतम् । श्रमार्तस्तदुपागम्य सरो दृष्ट्वाथ विस्मितः ॥ ४३॥

अध्यायः २९७

वैशम्पायन उवाच । स ददर्श हतान्भ्रातॄँल्लोकपालानिव च्युतान् । युगान्ते समनुप्राप्ते शक्र प्रतिमगौरवान् ॥ १॥ विप्रकीर्णधनुर्बाणं दृष्ट्वा निहतमर्जुनम् । भीमसेनं यमौ चोभौ निर्विचेष्टान्गतायुरः ॥ २॥ स दीर्घमुष्णं निःश्वस्य शोकबाष्पपरिप्लुतः । बुद्ध्या विचिन्तयामास वीराः केन निपातिताः ॥ ३॥ नैषां शस्त्रप्रहारोऽस्ति पदं नेहास्ति कस्य चित् । भूतं महदिदं मन्ये भ्रातरो येन मे हताः । एकाग्रं चिन्तयिष्यामि पीत्वा वेत्स्यामि वा जलम् ॥ ४॥ स्यात्तु दुर्योधनेनेदमुपांशु विहितं कृतम् । गन्धार राजरचितं सततं जिह्मबुद्धिना ॥ ५॥ यस्य कार्यमकार्यं वा सममेव भवत्युत । कस्तस्य विश्वसेद्वीरो दुर्मतेरकृतात्मनः ॥ ६॥ अथ वा पुरुषैर्गूढैः प्रयोगोऽयं दुरात्मनः । भवेदिति महाबाहुर्बहुधा समचिन्तयत् ॥ ७॥ तस्यासीन्न विषेणेदमुदकं दूषितं यथा । मुखवर्णाः प्रसन्ना मे भ्रातॄणां इत्यचिन्तयत् ॥ ८॥ एकैकशश्चौघबलानिमान्पुरुषसत्तमान् । कोऽन्यः प्रतिसमासेत कालान्तकयमादृते ॥ ९॥ एतेनाध्यवसायेन तत्तोयमवगाढवान् । गाहमानश्च तत्तोयमन्तरिक्षात्स शुश्रुवे ॥ १०॥ यक्ष उवाच । अहं बकः शैवलमत्स्यभक्षो मया नीताः प्रेतवशं तवानुजाः । त्वं पञ्चमो भविता राजपुत्र न चेत्प्रश्नान्पृच्छतो व्याकरोषि ॥ ११॥ मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः । प्रश्नानुक्त्वा तु कौन्तेय ततः पिब हरस्व च ॥ १२॥ युधिष्ठिर उवाच । रुद्राणां वा वसूनां वा मरुतां वा प्रधानभाक् । पृच्छामि को भवान्देवो नैतच्छकुनिना कृतम् ॥ १३॥ हिमवान्पारियात्रश् च विन्ध्यो मलय एव च । चत्वारः पर्वताः केन पातिता भुवि तेजसा ॥ १४॥ अतीव ते महत्कर्मकृतं बलवतां वर । यन्न देवा न गन्धर्वा नासुरा न च राक्षसाः । विषहेरन्महायुद्धे कृतं ते तन्महाद्भुतम् ॥ १५॥ न ते जानामि यत्कार्यं नाभिजानामि काङ्क्षितम् । कौतूहलं महज्जातं साध्वसं चागतं मम ॥ १६॥ येनास्म्युद्विग्नहृदयः समुत्पन्न शिरो ज्वरः । पृच्छामि भगवंस्तस्मात्को भवानिह तिष्ठति ॥ १७॥ यक्ष उवाच । यक्षोऽहमस्मि भद्रं ते नास्मि पक्षी जले चरः । मयैते निहताः सर्वे भ्रातरस्ते महौजसः ॥ १८॥ वैशम्पायन उवाच । ततस्तामशिवां श्रुत्वा वाचं स परुषाक्षराम् । यक्षस्य ब्रुवतो राजन्नुपक्रम्य तदा स्थितः ॥ १९॥ विरूपाक्षं महाकायं यक्षं तालसमुच्छ्रयम् । ज्वलनार्कप्रतीकाशमधृष्यं पर्वतोपमम् ॥ २०॥ सेतुमाश्रित्य तिष्ठन्तं ददर्श भरतर्षभः । मेघगन्मीरया वाचा तर्जयन्तं महाबलम् ॥ २१॥ यक्ष उवाच । इमे ते भ्रातरो राजन्वार्यमाणा मयासकृत् । बलात्तोयं जिहीर्षन्तस्ततो वैशम्पायन उवाच । सूदिता मया ॥ २२॥ न पेयमुदकं राजन्प्राणानिह परीप्सता । पार्थ मा साहसं कार्षीर्मम पूर्वपरिग्रहः । प्रश्नानुक्त्वा तु कौन्तेय ततः पिब हरस्व च ॥ २३॥ युधिष्ठिर उवाच । नैवाहं कामये यक्ष तव पूर्वपरिग्रहम् । कामनैतत्प्रशंसन्ति सन्तो हि पुरुषाः सदा ॥ २४॥ यदात्मना स्वमात्मानं प्रशंसेत्पुरुषः प्रभो । यथा प्रज्ञं तु ते प्रश्नान्प्रतिवक्ष्यामि पृच्छ माम् ॥ २५॥ यक्ष उवाच । किं स्विदादित्यमुन्नयति केच तस्याभितश्चराः । कश्चैनमस्तं नयति कस्मिंश्च प्रतितिष्ठति ॥ २६॥ युधिष्ठिर उवाच । ब्रह्मादित्यमुन्नयति देवास्तस्याभितश्चराः । धर्मश्चास्तं नयति च सत्ये च प्रतितिष्ठति ॥ २७॥ यक्ष उवाच । केन स्विच्छ्रोत्रियो भवति केन स्विद्विन्दते महत् । केन द्वितीयवान्भवति राजन्केन च बुद्धिमान् ॥ २८॥ युधिष्ठिर उवाच । श्रुतेन श्रोत्रियो भवति तपसा विन्दते महत् । धृत्या द्वितीयवान्भवति बुद्धिमान्वृद्धसेवया ॥ २९॥ यक्ष उवाच । किं ब्राह्मणानां देवत्वं कश्च धर्मः सतां इव । कश्चैषां मानुषो भावः किमेषामसतां इव ॥ ३०॥ युधिष्ठिर उवाच । स्वाध्याय एषां देवत्वं तप एषां सतां इव । मरणं मानुषो भावः परिवादोऽसतां इव ॥ ३१॥ यक्ष उवाच । किं क्षत्रियाणां देवत्वं कश्च धर्मः सतां इव । कश्चैषां मानुषो भावः किमेषामसतां इव ॥ ३२॥ युधिष्ठिर उवाच । इष्वस्त्रमेषां देवत्वं यज्ञ एषां सतां इव । भयं वैशम्पायन उवाच । मानुषो भावः परित्यागोऽसतां इव ॥ ३३॥ यक्ष उवाच । किमेकं यज्ञियं साम किमेकं यज्ञियं यजुः । का चैका वृश्चते यज्ञं कां यज्ञो नातिवर्तते ॥ ३४॥ युधिष्ठिर उवाच । प्राणो वैशम्पायन उवाच । यज्ञियं साम मनो वै यज्ञियं यजुः । वागेका वृश्चते यज्ञं तां यज्ञो नातिवर्तते ॥ ३५॥ यक्ष उवाच । किं स्विदापततां श्रेष्ठं बीजं निपततां वरम् । किं स्वित्प्रतिष्ठमानानां किं स्वित्प्रवदतां वरम् ॥ ३६॥ युधिष्ठिर उवाच । वर्षमापततां श्रेष्ठं बीजं निपततां वरम् । गावः प्रतिष्ठमानानां पुत्रः प्रवदतां वरः ॥ ३७॥ यक्ष उवाच । इन्द्रियार्थाननुभवन्बुद्धिमाँल्लोकपूजितः । संमतः सर्वभूतानामुच्छ्वसन्को न जीवति ॥ ३८॥ युधिष्ठिर उवाच । देवतातिथिभृत्यानां पितॄणामात्मनश्च यः । न निर्वपति पञ्चानामुच्छ्वसन्न स जीवति ॥ ३९॥ यक्ष उवाच । किं स्विद्गुरुतरं भूमेः किं स्विदुच्चतरं च खात् । किं स्विच्छीघ्रतरं वायोः किं स्विद्बहुतरं नृणाम् ॥ ४०॥ युधिष्ठिर उवाच । माता गुरुतरा भूमेः पिता उच्चरतश्च खात् । मनो शीघ्रतरं वायोश्चिन्ता बहुतरी नृणाम् ॥ ४१॥ यक्ष उवाच । किं स्वित्सुप्तं न निमिषति किं स्विज्जातं न चोपति । कस्य स्विद्धृदयं नास्ति किं स्विद्वेगेन वर्घते ॥ ४२॥ युधिष्ठिर उवाच । मत्स्यः सुप्तो न निमिषत्यण्डं जातं न चोपति । अश्मनो हृदयं नास्ति नदीवेगेन वर्धते ॥ ४३॥ यक्ष उवाच । किं स्वित्प्रवसतो मित्रं किं स्विन्मित्रं गृहे सतः । आतुरस्य च किं मित्रं किं स्विन्मित्रं मरिष्यतः ॥ ४४॥ युधिष्ठिर उवाच । सार्थः प्रवसतो मित्रं भार्या मित्रं गृहे सतः । आतुरस्य भिषन्मित्रं दानं मित्रं मरिष्यतः ॥ ४५॥ यक्ष उवाच । किं स्विदेको विचरति जातः को जायते पुनः । किं स्विद्धिमस्य भैषज्यं किं स्विदावपनं महत् ॥ ४६॥ युधिष्ठिर उवाच । सूर्य एको विचरति चन्द्रमा जायते पुनः । अग्निर्हिमस्य भैषज्यं भूमिरापवनं महत् ॥ ४७॥ यक्ष उवाच । किं स्विदेकपदं धर्म्यं किं स्विदेकपदं यशः । किं स्विदेकपदं स्वर्ग्यं किं स्विदेकपदं सुखम् ॥ ४८॥ युधिष्ठिर उवाच । दाक्ष्यमेकपदं धर्म्यं दानमेकपदं यशः । सत्यमेकपदं स्वर्ग्यं शीलमेकपदं सुखम् ॥ ४९॥ यक्ष उवाच । किं स्विदात्मा मनुष्यस्य किं स्विद्दैवकृतः सखा । उपजीवनं किं स्विदस्य किं स्विदस्य परायणम् ॥ ५०॥ युधिष्ठिर उवाच । पुत्र आत्मा मनुष्यस्य भार्या दैवकृतः सखा । उपजीवनं च पर्जन्यो दानमस्य परायणम् ॥ ५१॥ यक्ष उवाच । धन्यानामुत्तमं किं स्विद्धनानां किं स्विदुत्तमम् । लाभानामुत्तमं किं स्वित्किं सुखानां तथोत्तमम् ॥ ५२॥ युधिष्ठिर उवाच । धन्यानामुत्तमं दाक्ष्यं धनानामुत्तमं श्रुतम् । लाभानां श्रेष्ठमारोग्यं सुखानां तुष्टिरुत्तमा ॥ ५३॥ यक्ष उवाच । कश्च धर्मः परो लोके कश्च धर्मः सदा फलः । किं नियम्य न शोचन्ति कैश्च सन्धिर्न जीर्यते ॥ ५४॥ युधिष्ठिर उवाच । आनृशंस्यं परो धर्मस्त्रयीधर्मः सदा फलः । अनो यम्य न शोचन्ति सद्भिः सन्धिर्न जीर्यते ॥ ५५॥ यक्ष उवाच । किं नु हित्वा प्रियो भवति किं नु हित्वा न शोचति । किं नु हित्वार्थवान्भवति किं नु हित्वा सुखी भवेत् ॥ ५६॥ युधिष्ठिर उवाच । मानं हित्वा प्रियो भवति क्रोधं हित्वा न शोचति । कामं हित्वार्थवान्भवति लोभं हित्वा सुखू भवेत् ॥ ५७॥ यक्ष उवाच । मृतं कथं स्यात्पुरुषः कथं राष्ट्रं मृतं भवेत् । श्राधं मृतं कथं च स्यात्कथं यज्ञो मृतो भवेत् ॥ ५८॥ युधिष्ठिर उवाच । मृतो दरिद्रः पुरुषो मृतं राष्ट्रमराजकम् । मृतमश्रोत्रियं श्राद्धं मृतो यज्ञो त्वदक्षिणः ॥ ५९॥ यक्ष उवाच । का दिक्किमुदकं प्रोक्तं किमन्नं पार्थ किं विषम् । श्राद्धस्य कालमाख्याहि ततः पिब हरस्व च ॥ ६०॥ युधिष्ठिर उवाच । सन्तो दिग्जलमाकाशं गौरन्नं प्रार्थना विषम् । श्राद्धस्य ब्राह्मणः कालः कथं वा यक्ष मन्यसे ॥ ६१॥ यक्ष उवाच । व्याख्याता मे त्वया प्रश्ना याथातथ्यं परन्तप । पुरुषं त्विदानीमाख्याहि यश्च सर्वधनी नरः ॥ ६२॥ युधिष्ठिर उवाच । दिवं स्पृशति भूमिं च शब्दः पुण्यस्य कर्मणः । यावत्स शब्दो भवति तावत्पुरुष उच्यते ॥ ६३॥ तुल्ये प्रियाप्रिये यस्य सुखदुःखे तथैव च । अतीतानागते चोभे स वैशम्पायन उवाच । सर्वधनी नरः ॥ ६४॥ यक्ष उवाच । व्याख्यातः पुरुषो राजन्यश्च सर्वधनी नरः । तस्मात्तवैको भ्रातॄणां यमिच्छसि स जीवतु ॥ ६५॥ युधिष्ठिर उवाच । श्यामो य एष रक्ताक्षो बृहच्छाल इवोद्गतः । व्यूढोरस्को महाबाहुरङ्कुलो यक्ष जीवतु ॥ ६६॥ यक्ष उवाच । प्रियस्ते भीमसेनोऽयमर्जुनो वः परायणम् । स कस्मान्नकुलं राजन्सापत्नं जीवमिच्छसि ॥ ६७॥ यस्य नागसहस्रेण दश सङ्ख्येन वैशम्पायन उवाच । बलम् । तुल्यं तं भीममुत्सृज्य नकुलं जीवमिच्छसि ॥ ६८॥ तथैनं मनुजाः प्राहुर्भीमसेनं प्रियं तव । अथ केनानुभावेन सापत्नं जीवमिच्छसि ॥ ६९॥ यस्य बाहुबलं सर्वे पाण्डवाः समुपाश्रिताः । अर्जुनं तमपाहाय नकुलं जीवमिच्छसि ॥ ७०॥ युधिष्ठिर उवाच । आनृशंस्य परो धर्मः परमार्थाच्च मे मतम् । आनृशंस्यं चिकीर्षामि नकुलो यक्ष जीवतु ॥ ७१॥ धर्मशीलः सदा राजा इति मां मानवा विदुः । स्वधर्मान्न चलिष्यामि नकुलो यक्ष जीवतु ॥ ७२॥ यथा कुन्ती तथा माद्री विशेषो नास्ति मे तयोः । मातृभ्यां सममिच्छामि नकुलो यक्ष जीवतु ॥ ७३॥ यक्ष उवाच । यस्य तेऽर्थाच्च कामाच्च आनृशंस्यं परं मतम् । अस्मात्ते भ्रातरः सर्वे जीवन्तु भरतर्षभ ॥ ७४॥

अध्यायः २९८

वैशम्पायन उवाच । ततस्ते यक्षवचनादुदतिष्ठन्त पाण्डवाः । क्षुत्पिपासे च सर्वेषां क्षणे तस्मिन्व्यगच्छताम् ॥ १॥ युधिष्ठिर उवाच । रसस्येकेन पादेन तिष्ठन्तमपराजितम् । पृच्छामि को भवान्देवो न मे यक्षो मतो भवान् ॥ २॥ वसूनां वा भवानेको रुद्राणामथ वा भवान् । अथ वा मरुतां श्रेष्ठो वर्जी वा त्रिदशेश्वरः ॥ ३॥ मम हि भ्रातर इमे सहस्रशतयोधिनः । न तं योगं प्रपश्यामि येन स्युर्विनिपातिताः ॥ ४॥ सुखं प्रतिविबुद्धानामिन्द्रियाण्युपलक्षये । स भवान्सुहृदस्माकमथ वा नः पिता भवान् ॥ ५॥ यक्ष उवाच । अहं ते जनकस्तात धर्मो मृदु पराक्रम । त्वां दिदृक्षुरनुप्राप्तो विद्धि मां भरतर्षभ ॥ ६॥ यशो सत्यं दमः शौचमार्जवं ह्रीरचापलम् । दानं तपो ब्रह्मचर्यमित्येतास्तनवो मम ॥ ७॥ अहिंसा समता शान्तिस्तपो शौचममत्सरः । द्वाराण्येतानि मे विद्धि प्रियो ह्यसि सदा मम ॥ ८॥ दिष्ट्या पञ्चसु रक्तोऽसि दिष्ट्या ते षट्पदी जिता । द्वे पूर्वे मध्यमे द्वे च द्वे चान्ते साम्परायिके ॥ ९॥ धर्मोऽहमस्मि भद्रं ते जिज्ञासुस्त्वमिहागतः । आनृशंस्येन तुष्टोऽस्मि वरं दास्यामि तेऽनघ ॥ १०॥ वरं वृणीष्व राजेन्द्र दाता ह्यस्मि तवानघ । ये हि मे पुरुषा भक्ता न तेषामस्ति दुर्गतिः ॥ ११॥ युधिष्ठिर उवाच । अरणी सहितं यस्य मृग आदाय गच्छति । तस्याग्नयो न लुप्येरन्प्रथमोऽस्तु वरो मम ॥ १२॥ धर्म उवाच । अरणी सहितं तस्य ब्राह्मणस्य हृतं मया । मृगवेषेण कौन्तेय जिज्ञासार्थं तव प्रभो ॥ १३॥ वैशम्पायन उवाच । ददानीत्येव भवगानुत्तरं प्रत्यपद्यत । अन्यं वरय भद्रं ते वरं त्वममरोपम ॥ १४॥ युधिष्ठिर उवाच । वर्षाणि द्वादशारण्ये त्रयोदशमुपस्थितम् । तत्र नो नाभिजानीयुर्वसतो मनुजाः क्व चित् ॥ १५॥ वैशम्पायन उवाच । ददानीत्येव भगवानुत्तरं प्रत्यपद्यत । भूयो चाश्वासयामास कौन्तेयं सत्यविक्रमम् ॥ १६॥ यद्यपि स्वेन रूपेण चरिष्यथ महीमिमाम् । न वो विज्ञास्यते कश्चित्त्रिषु लोकेषु भारत ॥ १७॥ वर्षं त्रयोदशं चेदं मत्प्रसादात्कुरूर्वहाः । विराटनगरे गूढा अविज्ञाताश्चरिष्यथ ॥ १८॥ यद्वः सङ्कल्पितं रूपं मनसा यस्य यादृशम् । तादृशं तादृशं सर्वे छन्दतो धारयिष्यथ ॥ १९॥ अरिणी सहितं चेदं ब्राह्मणाय प्रयच्छत । जिज्ञासार्थं मया ह्येतदाहृतं मृगरूपिणा ॥ २०॥ तृतीयं गृह्यतां पुत्र वरमप्रतिमं महत् । त्वं हि मत्प्रभवो राजन्विदुरश्च ममांश भाक् ॥ २१॥ युधिष्ठिर उवाच । देवदेवो मया दृष्टो भवान्साक्षात्सनातनः । यं ददासि वरं तुष्टस्तं ग्रहीष्याम्यहं पितः ॥ २२॥ जयेयं लोभमोहौ च क्रोधं चाहं सदा विभो । दाने तपसि सत्ये च मनो मे सततं भवेत् ॥ २३॥ धर्म उवाच । उपपन्नो गुणैः सर्वैः स्वभावेनासि पाण्डव । भवान्धर्मः पुनश्चैव यथोक्तं ते भविष्यति ॥ २४॥ वैशम्पायन उवाच । इत्युक्त्वान्तर्दधे धर्मो भगवाँल्लोकभावनः । समेताः पाण्डवाश्चैव सुखसुप्ता मनस्विनः ॥ २५॥ अभ्येत्य चाश्रमं वीराः सर्व एव गतक्लमाः । आरणेयं ददुस्तस्मै ब्राह्मणाय तपस्विने ॥ २६॥ इदं समुत्थान समागमं महत् पितुश्च पुत्रस्य च कीर्तिवर्धनम् । पठन्नरः स्याद्विजीतेन्द्रियो वशी सपुत्रपौत्रः शतवर्ष भाग्भवेत् ॥ २७॥ न चाप्यधर्मे न सुहृद्विभेदने परस्वहारे परदारमर्शने । कदर्य भावे न रमेन्मनो सदा नृणां सदाख्यानमिदं विजानताम् ॥ २८॥ Proofread by Sunder Hattangadi
% Text title            : yudhiShThiragItA
% File name             : yudhiShThiragiitaa.itx
% itxtitle              : yudhiShThiragItA (antargatA prashnittara muktAvali)
% engtitle              : yudhiShThiragItA
% Category              : gItA, giitaa
% Location              : doc_giitaa
% Sublocation           : giitaa
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Sunder Hattangadi sunder at hotmail.com
% Indexextra            : (scanned, Part Hindi)
% Latest update         : December 15, 2012
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org