श्रीआञ्जनेयद्वादशनामस्तोत्रम्
हनुमानंजनासूनुः वायुपुत्रो महाबलः ।
रामेष्टः फल्गुनसखः पिङ्गाक्षोऽमितविक्रमः ॥ १॥
उदधिक्रमणश्चैव सीताशोकविनाशकः ।
लक्ष्मणप्राणदाता च दशग्रीवस्य दर्पहा ॥ २॥
द्वादशैतानि नामानि कपीन्द्रस्य महात्मनः ।
स्वापकाले पठेन्नित्यं यात्राकाले विशेषतः ।
तस्य मृत्युभयं नास्ति सर्वत्र विजयी भवेत् ॥
इति श्रीआञ्जनेयद्वादशनामस्तोत्रं सम्पूर्णम् ।
Proofread by Madhavi Upadrasta, Ruma Dewan