श्रीहनुमच्चत्वारिंशिका
श्रीगुरुपदपङ्कजनखज्योतिर्मनसि निधाय ।
हनुमच्चत्वारिंशिकां गृणे हरिं प्रणिधाय ॥
अथ सीतापतिचरणरतहनुमन्तं प्रणमामि ।
देहि रामपदरतिमहं त्वामिह शरणं यामि ॥
जय हनुमन्मतिमन्दिरसुन्दर ।
जय रिपुकटकपयोनिधिमन्दर ॥ १॥
जय धृतराघवमानसधामन् ।
भूविश्रुतमारुतसुतनामन् ॥ २॥
जय मण्डितरणरङ्ग कृपालो ।
रामदूत जय दीनदयालो ॥ ३॥
जयतु कनकगिरिसदृशशरीरः ।
वेगिविडम्बितगरुडसमीरः ॥ ४॥
शिवविग्रहपूजितरघुवीरः ।
ब्रह्मचर्यरतसंयमधीरः ॥ ५॥
वन्दे वन्दिचरणजलजातम् ।
आञ्जनेयभवसत्कृतवातम् ॥ ६॥
धृतकलकुण्डललसदुपवीतः ।
कुञ्चितकुन्तलपरमविनीतः ॥ ७॥
खलमदहरकर्कशलाङ्गूलम् ।
सततं जनयति रिपुहृदि शूलम् ॥ ८॥
चन्द्रवदनबलनिधिभुजदण्डः ।
वक्षःस्थलवरपविनखचण्डः ॥ ९॥
रोमरोमप्रतिलेखितरामः ।
वज्रदेहपूरितजनकामः ॥ १०॥
प्रबलपराक्रमविषमकरालः ।
महाकालमदहरखलकालः ॥ ११॥
केसरिनन्दनजनसुखदायी ।
मानसकथासुधारसपायी ॥ १२॥
राघवचरवरमोदविधाता ।
सीतान्वेषकवानरत्राता ॥ १३॥
सुरसासिंहिकादिमदहर्ता ।
कौतुकजलनिधिलङ्घनकर्ता ॥ १४॥
दुष्टलङ्किनीकैतवहर्ता ।
भक्तविभीषणतोषणकर्ता ॥ १५॥
दृष्टविरहरतकृषतनुसीतः ।
दत्तमुद्रिकानाशितचिन्तः ॥ १६॥
श्रुत्वा रामकुशलमथ सीता ।
त्वामाशिषामोदयदभीता ॥ १७॥
जयत्यशोकविपिनश्रीहर्ता ।
अक्षविमर्दनखलसंहर्ता ॥ १८॥
कृतघननादशक्तिमदनाशः ।
अङ्गीकृतरावणसुतपाशः ॥ १९॥
दशमुखबोधकविगताशङ्कः ।
पुच्छहुताशनदाहितलङ्कः ॥ २०॥
सीतातोषणधृतलघुरूपः ।
स्वीकृतचूडामणिकपिभूपः ॥ २१॥
तीर्णवारिनिधिमोदितकीशः ।
प्रमुदितविहितकोसलाधीशः ॥ २२॥
परिष्वज्य हनुमन्तं रामः ।
बहुप्रशंससजलघनश्यामः ॥ २३॥
जयति सुकण्ठशोकभयनाशी ।
जयति विभीषणभाग्यविकाशी ॥ २४॥
जयति पदाश्रितसेवकपाता ।
शाब्दिकमणिसामश्रुतिगाता ॥ २५॥
कालनेमिमकरीसंहारी ।
लक्ष्मणजीवनजनभयहारी ॥ २६॥
रामचन्द्रसुखसिन्धुनिशेशः ।
विकलभरतजलजातदिनेशः ॥ २७॥
जयति पवनसुत घातितवाली ।
महावीर बलविक्रमशाली ॥ २८॥
जय नतसुरवर जय वानरचर ।
जय रणकर्कश जय राघवचर ॥ २९॥
जय सीतासुत विशदपराक्रम ।
जय हृतभक्तशोकसंशयभ्रम ॥ ३०॥
जय रघुवीरपयोधरचातक ।
जय कपीश दशमुखकुलघातक ॥ ३१॥
यातुधानकुलकमलतुषारः ।
रामचन्द्रजनजीवनसारः ॥ ३२॥
सीताशोकपयोधरवायुः ।
सकलसिद्धिदाता दीर्घायुः ॥ ३३॥
रामभक्तिनिधिभाण्डागारम् ।
नौमि कृताञ्जलिपवनकुमारम् ॥ ३४॥
रामकथारसरसिकमुदारम् ।
नौमि विरतिरतिगेहमपारम् ॥ ३५॥
शरणागतवत्सल कपिदेव ।
द्रवतु शिशौ मयि कृतप्रभुसेव ॥ ३६॥
तारय पापपयोनिधिलीनम् ।
कीश पाहि मां शिशुमतिदीनम् ॥ ३७॥
कुटिलकुभाग्यकुमतिकुसमाजम् ।
पाहि कपीश पापिकुलराजम् ॥ ३८॥
जय जय जय हनुमन्सुखसिन्धो ।
दयां विधेहि प्रणतजनबन्धो ॥ ३९॥
गिरिधरमेनमभाग्यमनाथम् ।
दृष्ट्वा दर्शय रघुकुलनाथम् ॥ ४०॥
रामदूत पवमानसुत दत्तभक्तविश्राम ।
सीतारामयुतो विहर गिरिधरहृदि अभिराम ॥
हनुमच्चत्वारिंशिकामिमां पठतु यदि कोऽपि ।
गिरिधरगीतां रामपदरतिं याति किल सोऽपि ॥
इति श्रीहनुमच्चत्वारिंशिका सम्पूर्णा ।
प्रणेतारः - महाकविमहामहोपाध्यायश्रीचित्रकूटतुलसीपीठाधीश्वर
जगद्गुरुरामानन्दाचार्यस्वामिरामभद्राचार्यमहाराजाः ।
Encoded and proofread by Vishal Pandey