श्रीहनुमदष्टकम्
विलोभनीयशेखरं महाप्रतापिवानरम् ।
त्रिलोकभक्तरञ्जनं भजे समीरनन्दनम् ॥ १॥
जगज्जनार्चितार्चितं जगज्जनानुमोदितम् ।
पुरारिनामजापकं नमामि रामसेवकम् ॥ २॥
विखण्डितं त्रिपातकं समीरणात्मजातकम् ।
विभीषणादिमण्डितं नमामि राममण्डितम् ॥ ३॥
कपीशयोगकारकं नखायुधारिघातकम् ।
निशाचरादिमारकं नमामि सामगायकम् ॥ ४॥
यशोवितानधारिणं प्रचण्डरौद्रलोचनम् ।
समस्तकष्टमोचनं नमामि वायुनन्दनम् ॥ ५॥
पिशङ्गपुच्छसुन्दरं गदास्त्रधारिवानरम् ।
जितेन्द्रियादिवन्दितं नमामि रामपालितम् ॥ ६॥
महासमुद्रलङ्घितं महोरगादिनाशितम् ।
प्रपञ्चभारहारकं नमामि विघ्नघातकम् ॥ ७॥
सुधामयूखधारकं विरोधिवर्गदारकम् ।
कृपाकटाक्षगोचरं नमामि भक्तनागरम् ॥ ८॥
इति प्रदीप्तकुमारनन्दशर्मविरचितं श्रीहनुमदष्टकं समाप्तम् ।
Composed, encoded, proofread by Dr. Pradipta kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com