श्रीहनुमत्स्तवः
कन्दर्पकोटिलावण्यं सर्वविद्याविशारदम् ।
उद्यदादित्यसङ्काशमुदारभुजविक्रमम् ॥ १॥
श्रीरामहृदयानन्दं भक्तकल्पमहीरुहम् ।
अभयं वरदं दोर्भ्यां कलये मारुतात्मजम् ॥ २॥
वामहस्तं महाकृत्स्नं दशास्यशिरखण्डनम् ।
उद्यद्दक्षिणदोर्दण्डं हनूमन्तं विचिन्तयेत् ॥ ३॥
बालार्कायुततेजसं त्रिभुवनप्रक्षोभकं सुन्दरं
सुग्रीवाद्यखिलप्लवङ्गनिकरैराराधितं साञ्जलिम् ।
नादेनैव समस्तराक्षसगणान् सन्त्रासयन्तं प्रभुं
श्रीमद्रामपदाम्बुजस्मृतिरतं ध्यायामि वातात्मजम् ॥ ४॥
आमिषीकृतमार्ताण्डं गोष्पदीकृतसागरम् ।
तृणीकृतदशग्रीवमाञ्जनेयं नमाम्यहम् ॥ ५॥
चित्ते मे पूर्णबोधोऽस्तु वाचि मे भातु भारती ।
क्रियासुर्गुरवः सर्वे दयां मयि दयालवः ॥ ६॥
इति श्रीहनुमत्स्तवः सम्पूर्णः ।
Proofread by PSA Easwaran psaeaswaran at gmail