पञ्चमुखिहनुमत्कवचम्
(सुदर्शनसंहितातः)
अस्य श्रीपञ्चमुखिहनुमत्कवचस्तोत्रमन्त्रस्य ब्रह्मा ऋषिः ।
गायत्री छन्दः । श्रीहनुमान् देवता । रां बीजम् । मं शक्तिः ।
चन्द्रः कीलकम् ।
ॐ रौं कवचाय हुम् । हौं अस्त्राय फट् ।
ॐ हरिमर्कटमर्कटाय स्वाहा
ॐ नमो भगवते पञ्चवदनाय पूर्वकपिमुखाय
सकलशत्रुसंहरणाय स्वाहा ।
ॐ नमो भगवते पञ्चवदनाय दक्षिणमुखाय करालवदनाय नरसिंहाय
सकलभूतप्रमथनाय स्वाहा ।
ॐ नमो भगवते पञ्चवदनाय पश्चिममुखाय गरुडाननाय
सकलविषहराय स्वाहा ।
ॐ नमो भगवते पञ्चवदनाय उत्तरमुखाय आदिवराहाय
सकलसम्पत्कराय स्वाहा ।
ॐ नमो भगवते पञ्चवदनाय ऊर्ध्वमुखाय
हयग्रीवाय सकलजनवशङ्कराय स्वाहा ।
न्यासाः-
अस्य श्रीपञ्चमुखिहनुमत्कवचस्तोत्रस्य श्रीरामचन्द्र ऋषिः ।
अनुष्टुप्छन्दः । श्रीरामचन्द्रो देवता । सीता इति बीजम् ।
हनुमानिति शक्तिः । हनुमत्प्रीत्यर्थे जपे विनियोगः ।
पुनर्हनुमानिति बीजम् । ॐ वायुपुत्राय इति शक्तिः ।
अञ्जनासुतायेति कीलकम् ।
श्रीरामचन्द्रवरप्रसादसिद्ध्यर्थे जपे विनियोगः ।
ॐ अञ्जनासुताय अङ्गुष्ठाभ्यां नमः ।
ॐ रुद्रमूर्तये तर्जनीभ्यां नमः ।
ॐ वायुपुत्राय मध्यमाभ्यां नमः ।
ॐ अग्निगर्भाय अनामिकाभ्यां नमः ।
ॐ रामदूताय कनिष्ठिकाभ्यां नमः ।
ॐ सीताशोकनिवारणाय करतलकरपृष्ठाभ्यां नमः ।
ॐ अञ्जनासुताय हृदयाय नमः ।
ॐ रुद्रमूर्तये शिरसे स्वाहा ।
ॐ वायुपुत्राय शिखायै वषट् ।
ॐ अग्निगर्भाय कवचाय हुम् ।
ॐ रामदूताय नेत्रत्रयाय वौषट् ।
ॐ पञ्चमुखिहनुमते अस्त्राय फट् ।
ॐ पञ्चमुखिहनुमते स्वाहा इति दिग्बन्धः ।
ध्यानं-
वन्दे वानरनारसिंहखगराट्क्रोडाश्ववक्त्रान्वितं
दिव्यालङ्करणं त्रिपञ्चनयनं देदीप्यमानं रुचा ।
हस्ताब्जैरसिखेटपुस्तकसुधाकुम्भाङ्कुशाद्रिं हलं
खट्वाङ्गं फणिभूरुहं दशभुजं सर्वारिवीरापहम् ॥
श्रीरामदूताय आञ्जनेयाय वायुपुत्राय महाबलाय
सीताशोकनिवारणाय महाबलप्रचण्डाय लङ्कापुरीदहनाय,
फाल्गुनसखाय कोलाहलसकलब्रह्माण्डविश्वरूपाय,
सप्तसमुद्रान्तराललङ्घिताय पिङ्गलनयनायामितविक्रमाय,
सूर्यबिम्बफलसेवाधिष्ठितपराक्रमाय,
सञ्जीवन्या अङ्गदलक्ष्मणमहाकपिसैन्यप्राणदात्रे
दशग्रीवविध्वंसनाय रामेष्टाय सीतासहितरामचन्द्रवरप्रसादाय ।
षट्प्रयोगागमपञ्चमुखिहनुमन्मन्त्रजपे विनियोगः ।
ॐ हरिमर्कटमर्कटाय स्वाहा ।
ॐ हरिमर्कटमर्कटाय वं वं वं वं वं वौषट् स्वाहा ।
ॐ हरिमर्कटमर्कटाय फं फं फं फं फं फट् स्वाहा ।
ॐ हरिमर्कटमर्कटाय खं खं खं खं खं मारणाय स्वाहा ।
ॐ हरिमर्कटमर्कटाय ठं ठं ठं ठं ठं स्तम्भनाय स्वाहा ।
ॐ हरिमर्कटमर्कटाय डं डं डं डं डं
आकर्षणाय सकलसम्पत्कराय
पञ्चमुखिवीरहनुमते स्वाहा ।
उच्चाटने
ॐ ढं ढं ढं ढं ढं कूर्ममूर्तये पञ्चमुखिहनुमते
परयन्त्रतन्त्रोच्चाटनाय स्वाहा ।
कं खं गं घं ङं चं छं जं,
झं ञं टं ठं डं ढं णं,
तं थं दं धं नं पं फं,
बं भं मं यं रं लं वं,
शं षं सं हं क्षं स्वाहा इति दिग्बन्धः ।
ॐ पूर्वकपिमुखाय पञ्चमुखिहनुमते ठं ठं ठं ठं ठं,
सकलशत्रुसंहरणाय स्वाहा ।
ॐ दक्षिणमुखाय पञ्चमुखिहनुमते करालवदनाय नरसिंहाय
ह्रां ह्रां ह्रां ह्रां ह्रां सकलभूतप्रेतदमनाय स्वाहा ।
ॐ पश्चिममुखाय गरुडासनाय पञ्चमुखिवीरहनुमते
मं मं मं मं मं सकलविषहराय स्वाहा ।
ॐ उत्तरमुखे आदिवराहाय लं लं लं लं लं नृसिंहाय
नीलकण्ठाय पञ्चमुखिहनुमते स्वाहा ।
ॐ अञ्जनासुताय वायुपुत्राय महाबलाय रामेष्टफाल्गुनसखाय
सीताशोकनिवारणाय लक्ष्मणप्राणरक्षकाय कपिसैन्यप्रकाशाय,
दशग्रीवाभिमानदहनाय श्रीरामचन्द्रवरप्रसादकाय महावीर्याय,
प्रथमब्रह्माण्डनायकाय पञ्चमुखिहनुमते,
भूत-प्रेतपिशाच-ब्रह्मराक्षस-शाकिनी-डाकिनी-
अन्तरिक्ष-गृह-परयन्त्र-परतन्त्र-सर्वग्रहोच्चाटनाय,
सकलशत्रुसंहरणाय पञ्चमुखिहनुमद्वरप्रसादाय सर्वरक्षकाय
जं जं जं जं स्वाहा ।
पठित्वेदं तु कवचं महान्तं कवचं पठेत् ।
एकवारं पठेन्नित्यं सर्वशत्रुनिवारणम् ॥ १॥
द्विवारं तु पठेन्नित्यं पुत्रपौत्रप्रवर्द्धनम् ।
त्रिवारं पठते नित्यं सर्वसम्पत्करं परम् ॥ २॥
चतुर्वारं पठेन्नित्यं सर्वमर्त्यवशङ्करम् ।
पञ्चवारं पठेन्नित्यं सर्वरोगनिवारणम् ॥ ३॥
षड्वारं तु पठेन्नित्यं सर्वदेववशीकरम् ।
सप्तवारं पठेन्नित्यं सर्वकामार्थसिद्धिदम् ॥
अष्टवारं पठेन्नित्यं सर्वसौभाग्यदायकम् ।
नववारं पठेन्नित्यं सर्वैश्वर्यप्रदायकम् ॥ ५॥
दशवारं पठेन्नित्यं त्रैलोक्यज्ञानदर्शनम् ।
एकादशं पठेन्नित्यं सर्वसिद्धिं लभेन्नरः ॥ ६॥
कवचं स्मृतिमात्रेण महालक्ष्मीफलप्रदम् ।
तस्माच्च प्रयता भाव्यं कार्यं हनुमतः प्रियम् ॥ ७॥
(श्रीचिन्तामणिरामभद्रे सुदर्शनसंहितायां)
Proofread by PSA Easwaran psaeaswaran at gmail