॥ श्रीमद्भागवतम् - प्रथमस्कन्धः ॥

॥ ॐ नमो भगवते वासुदेवाय ॥

॥ प्रथमस्कन्धः ॥

संसारसागरे मग्नं दीनं मां करुणानिधे । कर्मग्राहगृहीताङ्गं मामुद्धर भवार्णवात्॥ श्रीमद्भागवताख्योऽयं प्रत्यक्षः कृष्ण एव हि । स्वीकृतोऽसि मया नाथ मुक्त्यर्थं भवसागरे ॥ मनोरथो मदीयोऽयं सफलः सर्वथा त्वया । निर्विघ्नेनैव कर्तव्यः दासोऽहं तव केशव ॥ शुकरूपप्रबोधज्ञ सर्वशास्त्रविशारद । एतत्कथाप्रकाशेन मदज्ञानं विनाशय ॥ भवे भवे यथा भक्तिः पादयोस्तव जायते । तथा कुरुष्व देवेश नाथस्त्वं नो यतः प्रभो ॥ नामसङ्कीर्तनं यस्य सर्वपापप्रणाशनम् । प्रणामो दुःखशमनः तं नमामि हरिं परम् ॥ कृष्णाय वासुदेवाय हरये परमात्मने । प्रणतक्लेशनाशाय गोविन्दाय नमो नमः ॥ सर्वत्र गोविन्दनामसङ्कीर्तनं गोविन्द गोविन्द ॥ गुं गुरुभ्यो नमः । गं गणपतये नमः । सं सरस्वत्यै नमः । दं दक्षिणामूर्तये नमः । वं वेदव्यासाय नमः । ओं नमो भगवते वासुदेवाय । हरिश्रीगणपतये नमः ॥

॥ ॐ नमो भगवते वासुदेवाय ॥

॥ प्रथमोऽध्यायः ॥

जन्माद्यस्य यतोऽन्वयादितरतश्चार्थेष्वभिज्ञः स्वराट् तेने ब्रह्महृदा य आदिकवये मुह्यन्ति यत्सूरयः , तेजोवारिमृदां यथा विनिमयो यत्र त्रिसर्गोऽमृषा धाम्ना स्वेन सदा निरस्तकुहकं सत्यं परं धीमहि ॥१॥ धर्मः प्रोज्झितकैतवोऽत्र परमो निर्मत्सराणां सतां वेद्यं वास्तवमत्र वस्तु शिवदं तापत्रयोन्मूलनम् , श्रीमद्भागवते महामुनिकृते किं वा परैरीश्वरः सद्यो हृद्यवरुध्यतेऽत्र कृतिभिः शुश्रूषुभिस्तत्क्षणात्॥२॥ निगमकल्पतरोर्गलितं फलं शुकमुखादमृतद्रवसंयुतम् , पिबत भागवतं रसमालयं मुहुरहो रसिका भुवि भावुकाः ॥३॥ नैमिषेऽनिमिषक्षेत्रे ;यः शौनकादयः। सत्रं स्वर्गाय लोकाय सहस्रसममासत ॥४॥ त एकदा तु मुनयः प्रातर्हुतहुताग्नयः। सत्कृतं सूतमासीनं पप्रच्छुरिदमादरात् ॥५॥ ऋषय ऊचुः त्वया खलु पुराणानि सेतिहासानि चानघ। आख्यातान्यप्यधीतानि धर्मशास्त्राणि यान्युत॥६॥ यानि वेदविदां श्रेष्ठो भगवान् बादरायणः। अन्ये च मुनयः सूत परावरविदो विदुः ॥७॥ वेत्थ त्वं सौम्य तत्सर्वं तत्त्वतस्तदनुग्रहात्। ब्रूयुः स्निग्धस्य शिष्यस्य गुरवो गुह्यमप्युत ॥८॥ तत्र तत्राञ्जसाऽऽयुष्मन् भवता यद्विनिश्चितम्। पुंसामेकान्ततः श्रेयस्तन्नः शंसितुमर्हसि ॥९॥ प्रायेणाल्पायुषः सभ्य कलावस्मिन् युगे जनाः। मन्दाः सुमन्दमतयो मन्दभाग्या ह्युपद्रुताः ॥१०॥ भूरीणि भूरिकर्माणि श्रोतव्यानि विभागशः। अतः साधोऽत्र यत्सारं समुद्धृत्य मनीषया। ब्रूहि नः श्रद्दधानानां येनात्मा संप्रसीदति ॥११॥ सूत जानासि भद्रं ते भगवान् सात्वतां पतिः। देवक्यां वसुदेवस्य जातो यस्य चिकीर्षया ॥१२॥ तन्नः शुश्रूषमाणानामर्हस्यङ्गानुवर्णितुम्। यस्यावतारो भूतानां क्षेमाय च भवाय च ॥१३॥ आपन्नः संसृतिं घोरां यन्नाम विवशो गृणन्। ततः सद्यो विमुच्येत यद्बिभेति स्वयं भयम् ॥१४॥ यत्पादसंश्रयाः सूत मुनयः प्रशमायनाः। सद्यः पुनन्त्युपस्पृष्टाः स्वर्धुन्यापोऽनुसेवया ॥१५॥ को वा भगवतस्तस्य पुण्यश्लोकेड्यकर्मणः। शुद्धिकामो न शृणुयाद्यशः कलिमलापहम् ॥१६॥ तस्य कर्माण्युदाराणि परिगीतानि सूरिभिः। ब्रूहि नः श्रद्दधानानां लीलया दधतः कलाः ॥१७॥ अथाख्याहि हरेर्धीमन्नवतारकथाः शुभाः। लीला विदधतः स्वैरमीश्वरस्यात्ममायया ॥१८॥ वयं तु न वितृप्याम उत्तमश्लोकविक्रमे। यच्छृण्वतां रसज्ञानां स्वादु स्वादु पदे पदे ॥१९॥ कृतवान् किल वीर्याणि सह रामेण केशवः। अतिमर्त्यानि भगवान् गूढः कपटमानुषः ॥२०॥ कलिमागतमाज्ञाय क्षेत्रेऽस्मिन् वैष्णवे वयम्। आसीना दीर्घसत्रेण कथायां सक्षणा हरेः ॥२१॥ त्वं नः सन्दर्शितो धात्रा दुस्तरं निस्तितीर्षताम्। कलिं सत्त्वहरं पुंसां कर्णधार इवार्णवम् ॥२२॥ ब्रूहि योगेश्वरे कृष्णे ब्रह्मण्ये धर्मवर्मणि। स्वां काष्ठामधुनोपेते धर्मः कं शरणं गतः ॥२३॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे नैमिषीयोपाख्याने प्रथमोऽध्यायः ॥१॥

॥ ॐ नमो भगवते वासुदेवाय ॥

॥ द्वितीयोऽध्यायः ॥

व्यास उवाच इति सम्प्रश्नसंहृष्टो विप्राणां रौमहर्षणिः। प्रतिपूज्य वचस्तेषां प्रवक्तुमुपचक्रमे ॥१॥ सूत उवाच यं प्रव्रजन्तमनुपेतमपेतकृत्यं द्वैपायनो विरहकातर आजुहाव। पुत्रेति तन्मयतया तरवोऽभिनेदुस्तं सर्वभूतहृदयं मुनिमानतोऽस्मि ॥२॥ यः स्वानुभावमखिलश्रुतिसारमेक- मध्यात्मदीपमतितितीर्षतां तमोऽन्धम्। संसारिणां करुणयाऽऽह पुराणगुह्यं तं व्याससूनुमुपयामि गुरुं मुनीनाम् ॥३ ॥ नारायणं नमस्कृत्य नरं चैव नरोत्तमम्। देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥४॥ मुनयः साधु पृष्टोऽहं भवद्भिर्लोकमङ्गलम्। यत्कृतः कृष्णसम्प्रश्नो येनात्मा सुप्रसीदति ॥५॥ स वै पुंसां परो धर्मो यतो भक्तिरधोक्षजे। अहैतुक्यप्रतिहता ययाऽऽत्मा संप्रसीदति ॥६॥ वासुदेवे भगवति भक्तियोगः प्रयोजितः। जनयत्याशु वैराग्यं ज्ञानं च यदहैतुकम् ॥७॥ धर्मः स्वनुष्ठितः पुंसां विष्वक्सेनकथासु यः। नोत्पादयेद्यदि रतिं श्रम एव हि केवलम् ॥८॥ धर्मस्य ह्यापवर्ग्यस्य नार्थोऽर्थायोपकल्पते। नार्थस्य धर्मैकान्तस्य कामो लाभाय हि स्मृतः॥९॥ कामस्य नेन्द्रियप्रीतिर्लाभो जीवेत यावता। जीवस्य तत्त्वजिज्ञासा नार्थो यश्चेह कर्मभिः ॥१०॥ वदन्ति तत्तत्त्वविदस्तत्त्वं यज्ज्ञानमद्वयम्। ब्रह्मेति परमात्मेति भगवानिति शब्द्यते ॥११॥ तच्छ्रद्दधाना मुनयो ज्ञानवैराग्ययुक्तया। पश्यन्त्यात्मनि चात्मानं भक्त्या श्रुतगृहीतया॥१२॥ अतः पुम्भिर्द्विजश्रेष्ठा वर्णाश्रमविभागशः। स्वनुष्ठितस्य धर्मस्य संसिद्धिर्हरितोषणम् ॥१३॥ तस्मादेकेन मनसा भगवान् सात्वतां पतिः। श्रोतव्यः कीर्तितव्यश्च ध्येयः पूज्यश्च नित्यदा॥१४॥ यदनुध्यासिना युक्ताः कर्मग्रन्थिनिबन्धनम्। छिन्दन्ति कोविदास्तस्य को न कुर्यात्कथारतिम्॥१५॥ शुश्रूषोः श्रद्दधानस्य वासुदेवकथारुचिः। स्यान्महत्सेवया विप्राः पुण्यतीर्थनिषेवणात् ॥१६॥ शृण्वतां स्वकथां कृष्णः पुण्यश्रवणकीर्तनः। हृद्यन्तःस्थो ह्यभद्राणि विधुनोति सुहृत्सताम् ॥१७॥ नष्टप्रायेष्वभद्रेषु नित्यं भागवतसेवया। भगवत्युत्तमश्लोके भक्तिर्भवति नैष्ठिकी ॥१८॥ तदा रजस्तमोभावाः कामलोभादयश्च ये। चेत एतैरनाविद्धं स्थितं सत्त्वे प्रसीदति ॥१९॥ एवं प्रसन्नमनसो भगवद्भक्तियोगतः। भगवत्तत्त्वविज्ञानं मुक्तसङ्गस्य जायते ॥२०॥ भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः। क्षीयन्ते चास्य कर्माणि दृष्ट एवात्मनीश्वरे ॥२१॥ अतो वै कवयो नित्यं भक्तिं परमया मुदा। वासुदेवे भगवति कुर्वन्त्यात्मप्रसादनीम् ॥२२॥ सत्त्वं रजस्तम इति प्रकृतेर्गुणास्तैः युक्तः परमपूरुष एक इहास्य धत्ते। स्थित्यादये हरिविरिञ्चिहरेति संज्ञाः श्रेयांसि तत्र खलु सत्त्वतनोर्नृणां स्युः ॥२३॥ पार्थिवाद्दारुणो धूमस्तस्मादग्निस्त्रयीमयः। तमसस्तु रजस्तस्मात्सत्त्वं यद्ब्रह्मदर्शनम् ॥२४॥ भेजिरे मुनयोऽथाग्रे भगवन्तमधोक्षजम्। सत्त्वं विशुद्धं क्षेमाय कल्पन्ते येऽनु तानिह ॥२५॥ मुमुक्षवो घोररूपान् हित्वा भूतपतीनथ। नारायणकलाः शान्ता भजन्ति ह्यनसूयवः ॥२६॥ रजस्तमःप्रकृतयः समशीला भजन्ति वै। पितृभूतप्रजेशादीन् श्रियैश्वर्यप्रजेप्सवः ॥२७॥ वासुदेवपरा वेदा वासुदेवपरा मखाः। वासुदेवपरा योगा वासुदेवपराः क्रियाः ॥२८॥ वासुदेवपरं ज्ञानं वासुदेवपरं तपः। वासुदेवपरो धर्मो वासुदेवपरा गतिः ॥२९॥ स एवेदं ससर्जाग्रे भगवानात्ममायया। सदसद्रूपया चासौ गुणमय्याऽगुणे विभुः ॥३०॥ तया विलसितेष्वेषु गुणेषु गुणवानिव। अन्तःप्रविष्ट आभाति विज्ञानेन विजृम्भितः ॥३१॥ यथा ह्यवहितो वह्निर्दारुष्वेकः स्वयोनिषु। नानेव भाति विश्वात्मा भूतेषु च तथा पुमान् ॥३२॥ असौ गुणमयैर्भावैर्भूतसूक्ष्मेन्द्रियात्मभिः। स्वनिर्मितेषु निर्विष्टो भुङ्क्ते भूतेषु तद्गुणान् ॥३३॥ भावयत्येष सत्त्वेन लोकान् वै लोकभावनः। लीलावतारानुरतो देवतिर्यङ्नरादिषु ॥३४॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे नैमिषीयोपाख्याने द्वितीयोऽध्यायः ॥२॥

॥ ॐ नमो भगवते वासुदेवाय ॥

॥ तृतीयोऽध्यायः ॥

सूत उवाच जगृहे पौरुषं रूपं भगवान् महदादिभिः। सम्भूतं षोडशकलमादौ लोकसिसृक्षया ॥१॥ यस्याम्भसि शयानस्य योगनिद्रां वितन्वतः। नाभिह्रदाम्बुजादासीद्ब्रह्मा विश्वसृजां पतिः ॥२॥ यस्यावयवसंस्थानैः कल्पितो लोकविस्तरः। तद्वै भगवतो रूपं विशुद्धं सत्त्वमूर्जितम् ॥३॥ पश्यन्त्यदो रूपमदभ्रचक्षुषा सहस्रपादोरुभुजाननाद्भुतम्। सहस्रमूर्धश्रवणाक्षिनासिकं सहस्रमौल्यम्बरकुण्डलोल्लसत् ॥४॥ एतन्नानावताराणां निधानं बीजमव्ययम्। यस्यांशांशेन सृज्यन्ते देवतिर्यङ्नरादयः ॥५॥ स एव प्रथमं देवः कौमारं सर्गमाश्रितः। चचार दुश्चरं ब्रह्मा ब्रह्मचर्यमखण्डितम् ॥६॥ द्वितीयं तु भवायास्य रसातलगतां महीम्। उद्धरिष्यन्नुपादत्त यज्ञेशः सौकरं वपुः ॥७॥ तृतीयं ऋषिसर्गं च देवर्षित्वमुपेत्य सः। तन्त्रं सात्वतमाचष्ट नैष्कर्म्यं कर्मणां यतः ॥८॥ तुर्ये धर्मकलासर्गे नरनारायणावृषी। भूत्वात्मोपशमोपेतमकरोद्दुश्चरं तपः ॥९॥ पञ्चमः कपिलो नाम सिद्धेशः कालविप्लुतम्। प्रोवाचासुरये साङ्ख्यं तत्त्वग्रामविनिर्णयम् ॥१०॥ षष्ठमत्रेरपत्यत्वं वृतः प्राप्तोऽनसूयया। आन्वीक्षिकीमलर्काय प्रह्लादादिभ्य ऊचिवान् ॥११॥ ततः सप्तम आकूत्यां रुचेर्यज्ञोऽभ्यजायत। स यामाद्यैः सुरगणैरपात्स्वायम्भुवान्तरम् ॥१२॥ अष्टमे मेरुदेव्यां तु नाभेर्जात उरुक्रमः। दर्शयन् वर्त्म धीराणां सर्वाश्रमनमस्कृतम् ॥१३॥ ऋषिभिर्याचितो भेजे नवमं पार्थिवं वपुः। दुग्धेमामोषधीर्विप्रास्तेनायं स उशत्तमः ॥१४॥ रूपं स जगृहे मात्स्यं चाक्षुषोदधिसम्प्लवे। नाव्यारोप्य महीमय्यामपाद्वैवस्वतं मनुम् ॥१५॥ सुरासुराणामुदधिं मथ्नतां मन्दराचलम्। दध्रे कमठरूपेण पृष्ठ एकादशे विभुः ॥१६॥ धान्वन्तरं द्वादशमं त्रयोदशममेव च। अपाययत्सुरानन्यान् मोहिन्या मोहयन् स्त्रिया॥१७॥ चतुर्दशं नारसिंहं बिभ्रद्दैत्येन्द्रमूर्जितम्। ददार करजैर्वक्षस्येरकां कटकृद्यथा ॥१८॥ पञ्चदशं वामनकं कृत्वागादध्वरं बलेः। पदत्रयं याचमानः प्रत्यादित्सुस्त्रिविष्टपम् ॥१९॥ अवतारे षोडशमे पश्यन् ब्रह्मद्रुहो नृपान्। त्रिःसप्तकृत्वः कुपितो निःक्षत्रामकरोन्महीम् ॥२०॥ ततः सप्तदशे जातः सत्यवत्यां पराशरात्। चक्रे वेदतरोः शाखा दृष्ट्वा पुंसोऽल्पमेधसः ॥२१॥ नरदेवत्वमापन्नः सुरकार्यचिकीर्षया। समुद्रनिग्रहादीनि चक्रे वीर्याण्यतः परम् ॥२२॥ एकोनविंशे विंशतिमे वृष्णिषु प्राप्य जन्मनी। रामकृष्णाविति भुवो भगवानहरद्भरम् ॥२३॥ ततः कलौ सम्प्रवृत्ते सम्मोहाय सुरद्विषाम्। बुद्धो नाम्नाजनसुतः कीकटेषु भविष्यति ॥२४॥ अथासौ युगसन्ध्यायां दस्युप्रायेषु राजसु। जनिता विष्णुयशसो नाम्ना कल्किर्जगत्पतिः ॥२५॥ अवतारा ह्यसङ्ख्येया हरेः सत्त्वनिधेर्द्विजाः। यथाविदासिनः कुल्याः सरसः स्युः सहस्रशः॥२६॥ ऋषयो मनवो देवा मनुपुत्रा महौजसः। कलाः सर्वे हरेरेव सप्रजापतयस्तथा ॥२७॥ एते चांशकलाः पुंसः कृष्णस्तु भगवान् स्वयम्। इन्द्रारिव्याकुलं लोकं मृडयन्ति युगे युगे ॥२८॥ जन्म गुह्यं भगवतो य एतत्प्रयतो नरः। सायं प्रातर्गृणन् भक्त्या दुःखग्रामाद्विमुच्यते ॥२९॥ एतद्रूपं भगवतो ह्यरूपस्य चिदात्मनः। मायागुणैर्विरचितं महदादिभिरात्मनि ॥३०॥ यथा नभसि मेघौघो रेणुर्वा पार्थिवोऽनिले। एवं द्रष्टरि दृश्यत्वमारोपितमबुद्धिभिः ॥३१॥ अतः परं यदव्यक्तमव्यूढगुणव्यूहितम्। अदृष्टाश्रुतवस्तुत्वात्स जीवो यत्पुनर्भवः ॥३२॥ यत्रेमे सदसद्रूपे प्रतिषिद्धे स्वसंविदा। अविद्ययाऽऽत्मनि कृते इति तद्ब्रह्मदर्शनम् ॥३३॥ यद्येषोपरता देवी माया वैशारदी मतिः। सम्पन्न एवेति विदुर्महिम्नि स्वे महीयते ॥३४॥ एवं जन्मानि कर्माणि ह्यकर्तुरजनस्य च। वर्णयन्ति स्म कवयो वेदगुह्यानि हृत्पतेः ॥३५॥ स वा इदं विश्वममोघलीलः सृजत्यवत्यत्ति न सज्जतेऽस्मिन्। भूतेषु चान्तर्हित आत्मतन्त्रः षाड्वर्गिकं जिघ्रति षड्गुणेशः ॥३६॥ न चास्य कश्चिन्निपुणेन धातुरवैति जन्तुः कुमनीष ऊतीः। नामानि रूपाणि मनोवचोभिः सन्तन्वतो नटचर्यामिवाज्ञः ॥३७॥ स वेद धातुः पदवीं परस्य दुरन्तवीर्यस्य रथाङ्गपाणेः। योऽमायया सन्ततयानुवृत्त्या भजेत तत्पादसरोजगन्धम् ॥३८॥ अथेह धन्या भगवन्त इत्थं यद्वासुदेवेऽखिललोकनाथे। कुर्वन्ति सर्वात्मकमात्मभावं न यत्र भूयः परिवर्त उग्रः ॥३९॥ इदं भागवतं नाम पुराणं ब्रह्मसम्मितम्। उत्तमश्लोकचरितं चकार भगवान् ऋषिः ॥४०॥ निःश्रेयसाय लोकस्य धन्यं स्वस्त्ययनं महत्। तदिदं ग्राहयामास सुतमात्मवतां वरम् ॥४१॥ सर्ववेदेतिहासानां सारं सारं समुद्धृतम्। स तु संश्रावयामास महाराजं परीक्षितम् ॥४२॥ प्रायोपविष्टं गङ्गायां परीतं परमर्षिभिः। कृष्णे स्वधामोपगते धर्मज्ञानादिभिः सह ॥४३॥ कलौ नष्टदृशामेष पुराणार्कोऽधुनोदितः। तत्र कीर्तयतो विप्रा विप्रर्षेर्भूरितेजसः ॥४४॥ अहं चाध्यगमं तत्र निविष्टस्तदनुग्रहात्। सोऽहं वः श्रावयिष्यामि यथाधीतं यथामति ॥४५॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे नैमिषीयोपाख्याने तृतीयोऽध्यायः ॥३॥

॥ ॐ नमो भगवते वासुदेवाय ॥

॥ चतुर्थोऽध्यायः ॥

व्यास उवाच इति ब्रुवाणं संस्तूय मुनीनां दीर्घसत्रिणाम्। वृद्धः कुलपतिः सूतं बह्वृचः शौनकोऽब्रवीत् ॥१॥ शौनक उवाच सूत सूत महाभाग वद नो वदतां वर। कथां भागवतीं पुण्यां यदाह भगवाञ्छुकः ॥२॥ कस्मिन् युगे प्रवृत्तेयं स्थाने वा केन हेतुना। कुतः सञ्चोदितः कृष्णः कृतवान् संहितां मुनिः॥३॥ तस्य पुत्रो महायोगी समदृङ्निर्विकल्पकः। एकान्तमतिरुन्निद्रो गूढो मूढ इवेयते ॥४॥ दृष्ट्वानुयान्तमृषिमात्मजमप्यनग्नं देव्यो ह्रिया परिदधुर्न सुतस्य चित्रम्। तद्वीक्ष्य पृच्छति मुनौ जगदुस्तवास्ति स्त्रीपुम्भिदा न तु सुतस्य विविक्तदृष्टेः ॥५॥ कथमालक्षितः पौरैः सम्प्राप्तः कुरुजाङ्गलान्। उन्मत्तमूकजडवद्विचरन् गजसाह्वये ॥६॥ कथं वा पाण्डवेयस्य राजर्षेर्मुनिना सह। संवादः समभूत्तात यत्रैषा सात्वती श्रुतिः ॥७॥ स गोदोहनमात्रं हि गृहेषु गृहमेधिनाम्। अवेक्षते महाभागस्तीर्थीकुर्वंस्तदाश्रमम् ॥८॥ अभिमन्युसुतं सूत प्राहुर्भागवतोत्तमम्। तस्य जन्म महाश्चर्यं कर्माणि च गृणीहि नः ॥९॥ स सम्राट् कस्य वा हेतोः पाण्डूनां मानवर्धनः। प्रायोपविष्टो गङ्गायामनादृत्याधिराट् श्रियम् ॥१०॥ नमन्ति यत्पादनिकेतमात्मनः शिवाय हानीय धनानि शत्रवः। कथं स वीरः श्रियमङ्ग दुस्त्यजां युवैषतोत्स्रष्टुमहो सहासुभिः ॥११॥ शिवाय लोकस्य भवाय भूतये य उत्तमश्लोकपरायणा जनाः। जीवन्ति नात्मार्थमसौ पराश्रयं मुमोच निर्विद्य कुतः कलेवरम् ॥१२॥ तत्सर्वं नः समाचक्ष्व पृष्टो यदिह किञ्चन। मन्ये त्वां विषये वाचां स्नातमन्यत्र छान्दसात्॥१३॥ सूत उवाच द्वापरे समनुप्राप्ते तृतीये युगपर्यये। जातः पराशराद्योगी वासव्यां कलया हरेः ॥१४॥ स कदाचित्सरस्वत्या उपस्पृश्य जलं शुचिः। विविक्तदेश आसीन उदिते रविमण्डले ॥१५॥ परावरज्ञः स ऋषिः कालेनाव्यक्तरंहसा। युगधर्मव्यतिकरं प्राप्तं भुवि युगे युगे ॥१६॥ भौतिकानां च भावानां शक्तिह्रासं च तत्कृतम्। अश्रद्दधानान् निःसत्त्वान् दुर्मेधान् ह्रसितायुषः॥१७॥ दुर्भगांश्च जनान् वीक्ष्य मुनिर्दिव्येन चक्षुषा। सर्ववर्णाश्रमाणां यद्दध्यौ हितममोघदृक् ॥१८॥ चातुर्होत्रं कर्म शुद्धं प्रजानां वीक्ष्य वैदिकम्। व्यदधाद्यज्ञसन्तत्यै वेदमेकं चतुर्विधम् ॥१९॥ ऋग्यजुःसामाथर्वाख्या वेदाश्चत्वार उद्धृताः। इतिहासपुराणं च पञ्चमो वेद उच्यते ॥२०॥ तत्रर्ग्वेदधरः पैलः सामगो जैमिनिः कविः। वैशम्पायन एवैको निष्णातो यजुषामुत ॥२१॥ अथर्वाङ्गिरसामासीत्सुमन्तुर्दारुणो मुनिः। इतिहासपुराणानां पिता मे रोमहर्षणः ॥२२॥ त एत ऋषयो वेदं स्वं स्वं व्यस्यन्ननेकधा। शिष्यैः प्रशिष्यैस्तच्छिष्यैर्वेदास्ते शाखिनोऽभवन् ॥२३॥ त एव वेदा दुर्मेधैर्धार्यन्ते पुरुषैर्यथा। एवं चकार भगवान् व्यासः कृपणवत्सलः ॥२४॥ स्त्रीशूद्रद्विजबन्धूनां त्रयी न श्रुतिगोचरा। कर्मश्रेयसि मूढानां श्रेय एवं भवेदिह। इति भारतमाख्यानं कृपया मुनिना कृतम् ॥२५॥ एवं प्रवृत्तस्य सदा भूतानां श्रेयसि द्विजाः। सर्वात्मकेनापि यदा नातुष्यद्धृदयं ततः ॥२६॥ नातिप्रसीदद्धृदयः सरस्वत्यास्तटे शुचौ। वितर्कयन् विविक्तस्थ इदं चोवाच धर्मवित् ॥२७॥ धृतव्रतेन हि मया छन्दांसि गुरवोऽग्नयः। मानिता निर्व्यलीकेन गृहीतं चानुशासनम् ॥२८॥ भारतव्यपदेशेन ह्याम्नायार्थश्च दर्शितः। दृश्यते यत्र धर्मादि स्त्रीशूद्रादिभिरप्युत ॥२९॥ तथापि बत मे दैह्यो ह्यात्मा चैवात्मना विभुः। असम्पन्न इवाभाति ब्रह्मवर्चस्यसत्तमः ॥३०॥ किं वा भागवता धर्मा न प्रायेण निरूपिताः। प्रियाः परमहंसानां त एव ह्यच्युतप्रियाः ॥३१॥ तस्यैवं खिलमात्मानं मन्यमानस्य खिद्यतः। कृष्णस्य नारदोऽभ्यागादाश्रमं प्रागुदाहृतम् ॥३२॥ तमभिज्ञाय सहसा प्रत्युत्थायागतं मुनिः। पूजयामास विधिवन्नारदं सुरपूजितम् ॥३३॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे नैमिषीयोपाख्याने चतुर्थोऽध्यायः ॥४॥

॥ ॐ नमो भगवते वासुदेवाय ॥

॥ पञ्चमोऽध्यायः ॥

सूत उवाच अथ तं सुखमासीन उपासीनं बृहच्छ्रवाः। देवर्षिः प्राह विप्रर्षिं वीणापाणिः स्मयन्निव ॥१॥ नारद उवाच पाराशर्य महाभाग भवतः कच्चिदात्मना। परितुष्यति शारीर आत्मा मानस एव वा ॥२॥ जिज्ञासितं सुसम्पन्नमपि ते महदद्भुतम्। कृतवान् भारतं यस्त्वं सर्वार्थपरिबृंहितम् ॥३॥ जिज्ञासितमधीतं च यत्तद्ब्रह्म सनातनम्। अथापि शोचस्यात्मानमकृतार्थ इव प्रभो ॥४॥ व्यास उवाच अस्त्येव मे सर्वमिदं त्वयोक्तं तथापि नात्मा परितुष्यते मे। तन्मूलमव्यक्तमगाधबोधं पृच्छामहे त्वात्मभवात्मभूतम् ॥५॥ स वै भवान् वेद समस्तगुह्यमुपासितो यत्पुरुषः पुराणः। परावरेशो मनसैव विश्वं सृजत्यवत्यत्ति गुणैरसङ्गः ॥६॥ त्वं पर्यटन्नर्क इव त्रिलोकीमन्तश्चरो वायुरिवात्मसाक्षी। परावरे ब्रह्मणि धर्मतो व्रतैः स्नातस्य मे न्यूनमलं विचक्ष्व ॥७॥ श्रीनारद उवाच भवतानुदितप्रायं यशो भगवतोऽमलम्। येनैवासौ न तुष्येत मन्ये तद्दर्शनं खिलम् ॥८॥ यथा धर्मादयश्चार्था मुनिवर्यानुकीर्तिताः। न तथा वासुदेवस्य महिमा ह्यनुवर्णितः ॥९॥ न यद्वचश्चित्रपदं हरेर्यशो जगत्पवित्रं प्रगृणीत कर्हिचित्। तद्वायसं तीर्थमुशन्ति मानसा न यत्र हंसा निरमन्त्युशिक्क्षयाः ॥१०॥ तद्वाग्विसर्गो जनताघविप्लवो यस्मिन् प्रतिश्लोकमबद्धवत्यपि। नामान्यनन्तस्य यशोऽङ्कितानि यच्छृण्वन्ति गायन्ति गृणन्ति साधवः ॥११ ॥ नैष्कर्म्यमप्यच्युतभाववर्जितं न शोभते ज्ञानमलं निरञ्जनम्। कुतः पुनः शश्वदभद्रमीश्वरे न चार्पितं कर्म यदप्यकारणम् ॥१२॥ अथो महाभाग भवानमोघदृक्शुचिश्रवाः सत्यरतो धृतव्रतः। उरुक्रमस्याखिलबन्धमुक्तये समाधिनानुस्मर तद्विचेष्टितम् ॥१३॥ ततोऽन्यथा किञ्चन यद्विवक्षतः पृथग् दृशस्तत्कृतरूपनामभिः। न कुत्रचित्क्वापि च दुःस्थिता मतिर्लभेत वाताहतनौरिवास्पदम् ॥१४॥ जुगुप्सितं धर्मकृतेऽनुशासतः स्वभावरक्तस्य महान् व्यतिक्रमः। यद्वाक्यतो धर्म इतीतरः स्थितो न मन्यते तस्य निवारणं जनः ॥१५॥ विचक्षणोऽस्यार्हति वेदितुं विभोरनन्तपारस्य निवृत्तितः सुखम्। प्रवर्तमानस्य गुणैरनात्मनस्ततो भवान् दर्शय चेष्टितं विभोः ॥१६॥ त्यक्त्वा स्वधर्मं चरणाम्बुजं हरेर्भजन्नपक्वोऽथ पतेत्ततो यदि। यत्र क्व वाभद्रमभूदमुष्य किं को वार्थ आप्तोऽभजतां स्वधर्मतः ॥१७॥ तस्यैव हेतोः प्रयतेत कोविदो न लभ्यते यद्भ्रमतामुपर्यधः। तल्लभ्यते दुःखवदन्यतः सुखं कालेन सर्वत्र गभीररंहसा ॥१८॥ न वै जनो जातु कथञ्चनाव्रजे- न्मुकुन्दसेव्यन्यवदङ्ग संसृतिम् । स्मरन् मुकुन्दाङ्घ्र्युपगूहनं पुन- र्विहातुमिच्छेन्न रसग्रहो यतः ॥१९॥ इदं हि विश्वं भगवानिवेतरो यतो जगत्स्थाननिरोधसम्भवाः। तद्धि स्वयं वेद भवांस्तथापि वै प्रादेशमात्रं भवतः प्रदर्शितम् ॥२०॥ त्वमात्मनाऽऽत्मानमवेह्यमोघदृक्परस्य पुंसः परमात्मनः कलाम्। अजं प्रजातं जगतः शिवाय तन्महानुभावाभ्युदयोऽधिगण्यताम् ॥२१॥ इदं हि पुंसस्तपसः श्रुतस्य वा स्विष्टस्य सूक्तस्य च बुद्धिदत्तयोः। अविच्युतोऽर्थः कविभिर्निरूपितो यदुत्तमश्लोकगुणानुवर्णनम् ॥२२॥ अहं पुरातीतभवेऽभवं मुने दास्यास्तु कस्याश्चन वेदवादिनाम्। निरूपितो बालक एव योगिनां शुश्रूषणे प्रावृषि निर्विविक्षताम् ॥२३॥ ते मय्यपेताखिलचापलेऽर्भके दान्तेऽधृतक्रीडनकेऽनुवर्तिनि। चक्रुः कृपां यद्यपि तुल्यदर्शनाः शुश्रूषमाणे मुनयोऽल्पभाषिणि ॥२४॥ उच्छिष्टलेपाननुमोदितो द्विजैः सकृत्स्म भुञ्जे तदपास्तकिल्बिषः। एवं प्रवृत्तस्य विशुद्धचेतसस्तद्धर्म एवात्मरुचिः प्रजायते ॥२५॥ तत्रान्वहं कृष्णकथाः प्रगायता- मनुग्रहेणाशृणवं मनोहराः। ताः श्रद्धया मेऽनुपदं विशृण्वतः प्रियश्रवस्यङ्ग ममाभवद्रुचिः ॥२६॥ तस्मिंस्तदा लब्धरुचेर्महामुने प्रियश्रवस्यास्खलिता मतिर्मम। ययाहमेतत्सदसत्स्वमायया पश्ये मयि ब्रह्मणि कल्पितं परे ॥२७॥ इत्थं शरत्प्रावृषिकावृतू हरेर्विशृण्वतो मेऽनुसवं यशोऽमलम्। सङ्कीर्त्यमानं मुनिभिर्महात्मभिर्भक्तिः प्रवृत्ताऽऽत्मरजस्तमोऽपहा ॥२८॥ तस्यैवं मेऽनुरक्तस्य प्रश्रितस्य हतैनसः। श्रद्दधानस्य बालस्य दान्तस्यानुचरस्य च ॥२९॥ ज्ञानं गुह्यतमं यत्तत्साक्षाद्भगवतोदितम्। अन्ववोचन् गमिष्यन्तः कृपया दीनवत्सलाः ॥३०॥ येनैवाहं भगवतो वासुदेवस्य वेधसः। मायानुभावमविदं येन गच्छन्ति तत्पदम् ॥३१॥ एतत्संसूचितं ब्रह्मंस्तापत्रयचिकित्सितम्। यदीश्वरे भगवति कर्म ब्रह्मणि भावितम् ॥३२॥ आमयो यश्च भूतानां जायते येन सुव्रत। तदेव ह्यामयं द्रव्यं न पुनाति चिकित्सितम् ॥३३॥ एवं नृणां क्रियायोगाः सर्वे संसृतिहेतवः। त एवात्मविनाशाय कल्पन्ते कल्पिताः परे ॥३४॥ यदत्र क्रियते कर्म भगवत्परितोषणम्। ज्ञानं यत्तदधीनं हि भक्तियोगसमन्वितम् ॥३५॥ कुर्वाणा यत्र कर्माणि भगवच्छिक्षयासकृत्। गृणन्ति गुणनामानि कृष्णस्यानुस्मरन्ति च ॥३६॥ नमो भगवते तुभ्यं वासुदेवाय धीमहि। प्रद्युम्नायानिरुद्धाय नमः सङ्कर्षणाय च ॥३७॥ इति मूर्त्यभिधानेन मन्त्रमूर्तिममूर्तिकम्। यजते यज्ञपुरुषं स सम्यग्दर्शनः पुमान् ॥३८॥ इमं स्वनिगमं ब्रह्मन्नवेत्य मदनुष्ठितम्। अदान्मे ज्ञानमैश्वर्यं स्वस्मिन् भावं च केशवः ॥३९॥ त्वमप्यदभ्रश्रुतविश्रुतं विभोः समाप्यते येन विदां बुभुत्सितम्। आख्याहि/प्रख्याहि दुःखैर्मुहुरर्दितात्मनां सङ्क्लेशनिर्वाणमुशन्ति नान्यथा ॥४०॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे व्यासनारदसंवादे पञ्चमोऽध्यायः ॥५॥

॥ ॐ नमो भगवते वासुदेवाय ॥

॥ षष्ठोऽध्यायः ॥

सूत उवाच एवं निशम्य भगवान् देवर्षेर्जन्म कर्म च। भूयः पप्रच्छ तं ब्रह्मन् व्यासः सत्यवतीसुतः ॥१॥ व्यास उवाच भिक्षुभिर्विप्रवसिते विज्ञानादेष्टृभिस्तव। वर्तमानो वयस्याद्ये ततः किमकरोद्भवान् ॥२॥ स्वायम्भुव कया वृत्त्या वर्तितं ते परं वयः। कथं चेदमुदस्राक्षीः काले प्राप्ते कलेवरम् ॥३॥ प्राक्कल्पविषयामेतां स्मृतिं ते सुरसत्तम। न ह्येष व्यवधात्काल एष सर्वनिराकृतिः ॥४॥ नारद उवाच भिक्षुभिर्विप्रवसिते विज्ञानादेष्टृभिर्मम। वर्तमानो वयस्याद्ये तत एतदकारषम् ॥५॥ एकात्मजा मे जननी योषिन्मूढा च किङ्करी। मय्यात्मजेऽनन्यगतौ चक्रे स्नेहानुबन्धनम् ॥६॥ सास्वतन्त्रा न कल्पाऽऽसीद्योगक्षेमं ममेच्छती। ईशस्य हि वशे लोको योषा दारुमयी यथा ॥७॥ अहं च तद्ब्रह्मकुले ऊषिवांस्तदपेक्षया। दिग्देशकालाव्युत्पन्नो बालकः पञ्चहायनः ॥८॥ एकदा निर्गतां गेहाद्दुहन्तीं निशि गां पथि। सर्पोऽदशत्पदा स्पृष्टः कृपणां कालचोदितः ॥९॥ तदा तदहमीशस्य भक्तानां शमभीप्सतः। अनुग्रहं मन्यमानः प्रातिष्ठं दिशमुत्तराम् ॥१०॥ स्फीताञ्जनपदांस्तत्र पुरग्रामव्रजाकरान्। खेटखर्वटवाटीश्च वनान्युपवनानि च ॥११॥ चित्रधातुविचित्राद्रीनिभभग्नभुजद्रुमान्। जलाशयाञ्छिवजलान्नलिनीः सुरसेविताः ॥१२॥ चित्रस्वनैः पत्ररथैर्विभ्रमद्भ्रमरश्रियः। नलवेणुशरस्तम्बकुशकीचकगह्वरम् ॥१३॥ एक एवातियातोऽहमद्राक्षं विपिनं महत्। घोरं प्रतिभयाकारं व्यालोलूकशिवाजिरम् ॥१४॥ परिश्रान्तेन्द्रियात्माहं तृट्परीतो बुभुक्षितः। स्नात्वा पीत्वा ह्रदे नद्या उपस्पृष्टो गतश्रमः ॥१५॥ तस्मिन्निर्मनुजेऽरण्ये पिप्पलोपस्थ आस्थितः। आत्मनाऽऽत्मानमात्मस्थं यथाश्रुतमचिन्तयम् ॥१६॥ ध्यायतश्चरणाम्भोजं भावनिर्जितचेतसा। औत्कण्ठ्याश्रुकलाक्षस्य हृद्यासीन्मे शनैर्हरिः ॥१७॥ प्रेमातिभरनिर्भिन्नपुलकाङ्गोऽतिनिर्वृतः। आनन्दसम्प्लवे लीनो नापश्यमुभयं मुने ॥१८॥ रूपं भगवतो यत्तन्मनःकान्तं शुचापहम्। अपश्यन् सहसोत्तस्थे वैक्लव्याद्दुर्मना इव ॥१९॥ दिदृक्षुस्तदहं भूयः प्रणिधाय मनो हृदि। वीक्षमाणोऽपि नापश्यमवितृप्त इवातुरः ॥२०॥ एवं यतन्तं विजने मामाहागोचरो गिराम्। गम्भीरश्लक्ष्णया वाचा शुचः प्रशमयन्निव ॥२१॥ हन्तास्मिञ्जन्मनि भवान् न मां द्रष्टुमिहार्हति। अविपक्वकषायाणां दुर्दर्शोऽहं कुयोगिनाम् ॥२२॥ सकृद्यद्दर्शितं रूपमेतत्कामाय तेऽनघ। मत्कामः शनकैः साधु सर्वान् मुञ्चति हृच्छयान्॥२३॥ सत्सेवयादीर्घया ते जाता मयि दृढा मतिः। हित्वावद्यमिमं लोकं गन्ता मज्जनतामसि ॥२४॥ मतिर्मयि निबद्धेयं न विपद्येत कर्हिचित्। प्रजासर्गनिरोधेऽपि स्मृतिश्च मदनुग्रहात् ॥२५॥ एतावदुक्त्वोपरराम तन्महद्भूतं नभोलिङ्गमलिङ्गमीश्वरम्। अहं च तस्मै महतां महीयसे शीर्ष्णावनामं विदधेऽनुकम्पितः ॥२६॥ नामान्यनन्तस्य हतत्रपः पठन् गुह्यानि भद्राणि कृतानि च स्मरन्। गां पर्यटंस्तुष्टमना गतस्पृहः कालं प्रतीक्षन् विमदो विमत्सरः ॥२७॥ एवं कृष्णमतेर्ब्रह्मन्नसक्तस्यामलात्मनः। कालः प्रादुरभूत्काले तडित्सौदामनी यथा ॥२८॥ प्रयुज्यमाने मयि तां शुद्धां भागवतीं तनुम्। आरब्धकर्मनिर्वाणो न्यपतत्पाञ्चभौतिकः ॥२९॥ कल्पान्त इदमादाय शयानेऽम्भस्युदन्वतः। शिशयिषोरनुप्राणं विविशेऽन्तरहं विभोः ॥३०॥ सहस्रयुगपर्यन्त उत्थायेदं सिसृक्षतः। मरीचिमिश्रा ऋषयः प्राणेभ्योऽहं च जज्ञिरे ॥३१॥ अन्तर्बहिश्च लोकांस्त्रीन् पर्येम्यस्कन्दितव्रतः। अनुग्रहान्महाविष्णोरविघातगतिः क्वचित् ॥३२॥ देवदत्तामिमां वीणां स्वरब्रह्मविभूषिताम्। मूर्च्छयित्वा हरिकथां गायमानश्चराम्यहम् ॥३३॥ प्रगायतः स्ववीर्याणि तीर्थपादः प्रियश्रवाः। आहूत इव मे शीघ्रं दर्शनं याति चेतसि ॥३४॥ एतद्ध्यातुरचित्तानां मात्रास्पर्शेच्छया मुहुः। भवसिन्धुप्लवो दृष्टो हरिचर्यानुवर्णनम् ॥३५॥ यमादिभिर्योगपथैः कामलोभहतो मुहुः। मुकुन्दसेवया यद्वत्तथात्माद्धा न शाम्यति ॥३६॥ सर्वं तदिदमाख्यातं यत्पृष्टोऽहं त्वयानघ। जन्मकर्मरहस्यं मे भवतश्चात्मतोषणम् ॥३७॥ सूत उवाच एवं सम्भाष्य भगवान्नारदो वासवीसुतम्। आमन्त्र्य वीणां रणयन् ययौ यादृच्छिको मुनिः॥३८॥ अहो देवर्षिर्धन्योऽयं यत्कीर्तिं शार्ङ्गधन्वनः। गायन् माद्यन्निदं तन्त्र्या रमयत्यातुरं जगत् ॥३९॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे व्यासनारदसंवादे षष्ठोऽध्यायः ॥६॥

॥ ॐ नमो भगवते वासुदेवाय ॥

॥ सप्तमोऽध्यायः ॥

शौनक उवाच निर्गते नारदे सूत भगवान् बादरायणः। श्रुतवांस्तदभिप्रेतं ततः किमकरोद्विभुः ॥१॥ सूत उवाच ब्रह्मनद्यां सरस्वत्यामाश्रमः पश्चिमे तटे। शम्याप्रास इति प्रोक्त ऋषीणां सत्रवर्धनः ॥२॥ तस्मिन् स्व आश्रमे व्यासो बदरीषण्डमण्डिते। आसीनोऽप उपस्पृश्य प्रणिदध्यौ मनः स्वयम् ॥३॥ भक्तियोगेन मनसि सम्यक् प्रणिहितेऽमले। अपश्यत्पुरुषं पूर्वं मायां च तदुपाश्रयाम् ॥४॥ यया सम्मोहितो जीव आत्मानं त्रिगुणात्मकम्। परोऽपि मनुतेऽनर्थं तत्कृतं चाभिपद्यते ॥५॥ अनर्थोपशमं साक्षाद्भक्तियोगमधोक्षजे। लोकस्याजानतो विद्वांश्चक्रे सात्वतसंहिताम् ॥६॥ यस्यां वै श्रूयमाणायां कृष्णे परमपूरुषे। भक्तिरुत्पद्यते पुंसः शोकमोहभयापहा ॥७॥ स संहितां भागवतीं कृत्वानुक्रम्य चात्मजम्। शुकमध्यापयामास निवृत्तिनिरतं मुनिः ॥८॥ शौनक उवाच स वै निवृत्तिनिरतः सर्वत्रोपेक्षको मुनिः। कस्य वा बृहतीमेतामात्मारामः समभ्यसत् ॥९॥ सूत उवाच आत्मारामाश्च मुनयो निर्ग्रन्था अप्युरुक्रमे। कुर्वन्त्यहैतुकीं भक्तिमित्थम्भूतगुणो हरिः ॥१०॥ हरेर्गुणाक्षिप्तमतिर्भगवान् बादरायणिः। अध्यगान्महदाख्यानं नित्यं विष्णुजनप्रियः ॥११॥ परीक्षितोऽथ राजर्षेर्जन्मकर्मविलापनम्। संस्थां च पाण्डुपुत्राणां वक्ष्ये कृष्णकथोदयम् ॥१२॥ यदा मृधे कौरवसृञ्जयानां वीरेष्वथो वीरगतिं गतेषु। वृकोदराविद्धगदाभिमर्श- भग्नोरुदण्डे धृतराष्ट्रपुत्रे ॥१३॥ भर्तुः प्रियं द्रौणिरिति स्म पश्यन् कृष्णासुतानां स्वपतां शिरांसि। उपाहरद्विप्रियमेव तस्य जुगुप्सितं कर्म विगर्हयन्ति ॥१४॥ माता शिशूनां निधनं सुतानां निशम्य घोरं परितप्यमाना। तदारुदद्बाष्पकलाकुलाक्षी तां सान्त्वयन्नाह किरीटमाली ॥१५॥ तदा शुचस्ते प्रमृजामि भद्रे यद्ब्रह्मबन्धोः शिर आततायिनः। गाण्डीवमुक्तैर्विशिखैरुपाहरे त्वाक्रम्य यत्स्नास्यसि दग्धपुत्रा ॥१६॥ इति प्रियां वल्गुविचित्रजल्पैः स सान्त्वयित्वाच्युतमित्रसूतः। अन्वाद्रवद्दंशित उग्रधन्वा कपिध्वजो गुरुपुत्रं रथेन ॥१७॥ तमापतन्तं स विलक्ष्य दूरात्कुमारहोद्विग्नमना रथेन। पराद्रवत्प्राणपरीप्सुरुर्व्यां यावद्गमं रुद्रभयाद्यथार्कः ॥१८॥ यदाशरणमात्मानमैक्षत श्रान्तवाजिनम्। अस्त्रं ब्रह्मशिरो मेने आत्मत्राणं द्विजात्मजः ॥१९॥ अथोपस्पृश्य सलिलं सन्दधे तत्समाहितः। अजानन्नुपसंहारं प्राणकृच्छ्र उपस्थिते ॥२०॥ ततः प्रादुष्कृतं तेजः प्रचण्डं सर्वतो दिशम्। प्राणापदमभिप्रेक्ष्य विष्णुं जिष्णुरुवाच ह ॥२१॥ अर्जुन उवाच कृष्ण कृष्ण महाभाग भक्तानामभयङ्कर। त्वमेको दह्यमानानामपवर्गोऽसि संसृतेः ॥२२॥ त्वमाद्यः पुरुषः साक्षादीश्वरः प्रकृतेः परः। मायां व्युदस्य चिच्छक्त्या कैवल्ये स्थित आत्मनि ॥२३॥ स एव जीवलोकस्य मायामोहितचेतसः। विधत्से स्वेन वीर्येण श्रेयो धर्मादिलक्षणम् ॥२४॥ तथायं चावतारस्ते भुवो भारजिहीर्षया। स्वानां चानन्यभावानामनुध्यानाय चासकृत् ॥२५॥ किमिदं स्वित्कुतो वेति देवदेव न वेद्म्यहम्। सर्वतोमुखमायाति तेजः परमदारुणम् ॥२६॥ श्रीभगवानुवाच वेत्थेदं द्रोणपुत्रस्य ब्राह्ममस्त्रं प्रदर्शितम्। नैवासौ वेद संहारं प्राणबाध उपस्थिते ॥२७॥ न ह्यस्यान्यतमं किञ्चिदस्त्रं प्रत्यवकर्शनम्। जह्यस्त्रतेज उन्नद्धमस्त्रज्ञो ह्यस्त्रतेजसा ॥२८॥ सूत उवाच श्रुत्वा भगवता प्रोक्तं फाल्गुनः परवीरहा। स्पृष्ट्वापस्तं परिक्रम्य ब्राह्मं ब्राह्माय सन्दधे ॥२९॥ संहत्यान्योन्यमुभयोस्तेजसी शरसंवृते। आवृत्य रोदसी खं च ववृधातेऽर्कवह्निवत् ॥३०॥ दृष्ट्वास्त्रतेजस्तु तयोस्त्रींल्लोकान् प्रदहन् महत्। दह्यमानाः प्रजाः सर्वाः सांवर्तकममंसत ॥३१॥ प्रजोपद्रवमालक्ष्य लोकव्यतिकरं च तम्। मतं च वासुदेवस्य सञ्जहारार्जुनो द्वयम् ॥३२॥ तत आसाद्य तरसा दारुणं गौतमीसुतम्। बबन्धामर्षताम्राक्षः पशुं रशनया यथा ॥३३॥ शिबिराय निनीषन्तं दाम्ना बद्ध्वा रिपुं बलात्। प्राहार्जुनं प्रकुपितो भगवानम्बुजेक्षणः ॥३४॥ मैनं पार्थार्हसि त्रातुं ब्रह्मबन्धुमिमं जहि। योऽसावनागसः सुप्तानवधीन्निशि बालकान् ॥३५॥ मत्तं प्रमत्तमुन्मत्तं सुप्तं बालं स्त्रियं जडम्। प्रपन्नं विरथं भीतं न रिपुं हन्ति धर्मवित् ॥३६॥ स्वप्राणान् यः परप्राणैः प्रपुष्णात्यघृणः खलः। तद्वधस्तस्य हि श्रेयो यद्दोषाद्यात्यधः पुमान् ॥३७॥ प्रतिश्रुतं च भवता पाञ्चाल्यै शृण्वतो मम। आहरिष्ये शिरस्तस्य यस्ते मानिनि पुत्रहा ॥३८॥ तदसौ वध्यतां पाप आतताय्यात्मबन्धुहा। भर्तुश्च विप्रियं वीर कृतवान् कुलपांसनः ॥३९॥ एवं परीक्षता धर्मं पार्थः कृष्णेन चोदितः। नैच्छद्धन्तुं गुरुसुतं यद्यप्यात्महनं महान् ॥४०॥ अथोपेत्य स्वशिबिरं गोविन्दप्रियसारथिः। न्यवेदयत्तं प्रियायै शोचन्त्या आत्मजान् हतान् ॥४१॥ तथाऽऽहृतं पशुवत्पाशबद्धमवाङ्मुखं कर्मजुगुप्सितेन। निरीक्ष्य कृष्णापकृतं गुरोः सुतं वामस्वभावा कृपया ननाम च ॥४२॥ उवाच चासहन्त्यस्य बन्धनानयनं सती। मुच्यतां मुच्यतामेष ब्राह्मणो नितरां गुरुः ॥४३॥ सरहस्यो धनुर्वेदः सविसर्गोपसंयमः। अस्त्रग्रामश्च भवता शिक्षितो यदनुग्रहात् ॥४४॥ स एष भगवान् द्रोणः प्रजारूपेण वर्तते। तस्यात्मनोऽर्धं पत्न्यास्ते नान्वगाद्वीरसूः कृपी ॥४५॥ तद्धर्मज्ञ महाभाग भवद्भिर्गौरवं कुलम्। वृजिनं नार्हति प्राप्तुं पूज्यं वन्द्यमभीक्ष्णशः ॥४६॥ मा रोदीदस्य जननी गौतमी पतिदेवता। यथाहं मृतवत्साऽऽर्ता रोदिम्यश्रुमुखी मुहुः ॥४७॥ यैः कोपितं ब्रह्मकुलं राजन्यैरजितात्मभिः। तत्कुलं प्रदहत्याशु सानुबन्धं शुचार्पितम् ॥४८॥ सूत उवाच धर्म्यं न्याय्यं सकरुणं निर्व्यलीकं समं महत्। राजा धर्मसुतो राज्ञ्याः प्रत्यनन्दद्वचो द्विजाः ॥४९॥ नकुलः सहदेवश्च युयुधानो धनञ्जयः। भगवान् देवकीपुत्रो ये चान्ये याश्च योषितः ॥५०॥ तत्राहामर्षितो भीमस्तस्य श्रेयान् वधः स्मृतः। न भर्तुर्नात्मनश्चार्थे योऽहन् सुप्तान् शिशून् वृथा ॥५१॥ निशम्य भीमगदितं द्रौपद्याश्च चतुर्भुजः। आलोक्य वदनं सख्युरिदमाह हसन्निव ॥५२॥ श्रीकृष्ण उवाच ब्रह्मबन्धुर्न हन्तव्य आततायी वधार्हणः। मयैवोभयमाम्नातं परिपाह्यनुशासनम् ॥५३॥ कुरु प्रतिश्रुतं सत्यं यत्तत्सान्त्वयता प्रियाम्। प्रियं च भीमसेनस्य पाञ्चाल्या मह्यमेव च ॥५४॥ सूत उवाच अर्जुनः सहसाऽऽज्ञाय हरेर्हार्दमथासिना। मणिं जहार मूर्धन्यं द्विजस्य सहमूर्धजम् ॥५५॥ विमुच्य रशनाबद्धं बालहत्याहतप्रभम्। तेजसा मणिना हीनं शिबिरान्निरयापयत् ॥५६॥ वपनं द्रविणादानं स्थानान्निर्यापणं तथा। एष हि ब्रह्मबन्धूनां वधो नान्योऽस्ति दैहिकः ॥५७॥ पुत्रशोकातुराः सर्वे पाण्डवाः सह कृष्णया। स्वानां मृतानां यत्कृत्यं चक्रुर्निर्हरणादिकम् ॥५८॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे द्रौणिनिग्रहो नामसप्तमोऽध्यायः ॥७॥

॥ ॐ नमो भगवते वासुदेवाय ॥

॥ अष्टमोऽध्ययः ॥

सूत उवाच अथ ते सम्परेतानां स्वानामुदकमिच्छताम्। दातुं सकृष्णा गङ्गायां पुरस्कृत्य ययुः स्त्रियः ॥१॥ ते निनीयोदकं सर्वे विलप्य च भृशं पुनः। आप्लुता हरिपादाब्जरजःपूतसरिज्जले ॥२॥ तत्रासीनं कुरुपतिं धृतराष्ट्रं सहानुजम्। गान्धारीं पुत्रशोकार्तां पृथां कृष्णां च माधवः ॥३॥ सान्त्वयामास मुनिभिर्हतबन्धूञ्शुचार्पितान्। भूतेषु कालस्य गतिं दर्शयन्नप्रतिक्रियाम् ॥४॥ साधयित्वाजातशत्रोः स्वं राज्यं कितवैर्हृतम्। घातयित्वासतो राज्ञः कचस्पर्शक्षतायुषः ॥५॥ याजयित्वाश्वमेधैस्तं त्रिभिरुत्तमकल्पकैः। तद्यशः पावनं दिक्षु शतमन्योरिवातनोत् ॥६॥ आमन्त्र्य पाण्डुपुत्रांश्च शैनेयोद्धवसंयुतः। द्वैपायनादिभिर्विप्रैः पूजितैः प्रतिपूजितः ॥७॥ गन्तुं कृतमतिर्ब्रह्मन् द्वारकां रथमास्थितः। उपलेभेऽभिधावन्तीमुत्तरां भयविह्वलाम् ॥८॥ उत्तरोवाच पाहि पाहि महायोगिन् देवदेव जगत्पते। नान्यं त्वदभयं पश्ये यत्र मृत्युः परस्परम् ॥९॥ अभिद्रवति मामीश शरस्तप्तायसो विभो। कामं दहतु मां नाथ मा मे गर्भो निपात्यताम्॥१०॥ सूत उवाच उपधार्य वचस्तस्या भगवान् भक्तवत्सलः। अपाण्डवमिदं कर्तुं द्रौणेरस्त्रमबुध्यत ॥११॥ तर्ह्येवाथ मुनिश्रेष्ठ पाण्डवाः पञ्च सायकान्। आत्मनोऽभिमुखान् दीप्तानालक्ष्यास्त्राण्युपाददुः॥१२॥ व्यसनं वीक्ष्य तत्तेषामनन्यविषयात्मनाम्। सुदर्शनेन स्वास्त्रेण स्वानां रक्षां व्यधाद्विभुः ॥१३॥ अन्तःस्थः सर्वभूतानामात्मा योगेश्वरो हरिः। स्वमाययावृणोद्गर्भं वैराट्याः कुरुतन्तवे ॥१४॥ यद्यप्यस्त्रं ब्रह्मशिरस्त्वमोघं चाप्रतिक्रियम्। वैष्णवं तेज आसाद्य समशाम्यद्भृगूद्वह ॥१५॥ मा मंस्था ह्येतदाश्चर्यं सर्वाश्चर्यमयेऽच्युते। य इदं मायया देव्या सृजत्यवति हन्त्यजः ॥१६॥ ब्रह्मतेजोविनिर्मुक्तैरात्मजैः सह कृष्णया। प्रयाणाभिमुखं कृष्णमिदमाह पृथा सती ॥१७॥ कुन्त्युवाच नमस्ये पुरुषं त्वाद्यमीश्वरं प्रकृतेः परम्। अलक्ष्यं सर्वभूतानामन्तर्बहिरवस्थितम् ॥१८॥ मायाजवनिकाच्छन्नमज्ञाधोक्षजमव्ययम्। न लक्ष्यसे मूढदृशा नटो नाट्यधरो यथा ॥१९॥ तथा परमहंसानां मुनीनाममलात्मनाम्। भक्तियोगविधानार्थं कथं पश्येम हि स्त्रियः ॥२०॥ कृष्णाय वासुदेवाय देवकीनन्दनाय च। नन्दगोपकुमाराय गोविन्दाय नमो नमः ॥२१॥ नमः पङ्कजनाभाय नमः पङ्कजमालिने। नमः पङ्कजनेत्राय नमस्ते पङ्कजाङ्घ्रये ॥२२॥ यथा हृषीकेश खलेन देवकी कंसेन रुद्धातिचिरं शुचार्पिता। विमोचिताहं च सहात्मजा विभो त्वयैव नाथेन मुहुर्विपद्गणात् ॥२३॥ विषान्महाग्नेः पुरुषाददर्शना- दसत्सभाया वनवासकृच्छ्रतः। मृधे मृधेऽनेकमहारथास्त्रतो द्रौण्यस्त्रतश्चास्म हरेऽभिरक्षिताः ॥२४॥ विपदः सन्तु नः शश्वत्तत्र तत्र जगद्गुरो। भवतो दर्शनं यत्स्यादपुनर्भवदर्शनम् ॥२५॥ जन्मैश्वर्यश्रुतश्रीभिरेधमानमदः पुमान्। नैवार्हत्यभिधातुं वै त्वामकिञ्चनगोचरम् ॥२६॥ नमोऽकिञ्चनवित्ताय निवृत्तगुणवृत्तये। आत्मारामाय शान्ताय कैवल्यपतये नमः ॥२७॥ मन्ये त्वां कालमीशानमनादिनिधनं विभुम्। समं चरन्तं सर्वत्र भूतानां यन्मिथः कलिः ॥२८॥ न वेद कश्चिद्भगवंश्चिकीर्षितं तवेहमानस्य नृणां विडम्बनम्। न यस्य कश्चिद्दयितोऽस्ति कर्हिचिद्द्वेष्यश्च यस्मिन्विषमा मतिर्नृणाम् ॥२९॥ जन्म कर्म च विश्वात्मन्नजस्याकर्तुरात्मनः। तिर्यङ्नृर्षिषु यादःसु तदत्यन्तविडम्बनम् ॥३०॥ गोप्याददे त्वयि कृतागसि दाम तावद्- या ते दशाश्रुकलिलाञ्जनसम्भ्रमाक्षम्। वक्त्रं निनीय भयभावनया स्थितस्य सा मां विमोहयति भीरपि यद्बिभेति ॥३१॥ केचिदाहुरजं जातं पुण्यश्लोकस्य कीर्तये। यदोः प्रियस्यान्ववाये मलयस्येव चन्दनम् ॥३२॥ अपरे वसुदेवस्य देवक्यां याचितोऽभ्यगात्। अजस्त्वमस्य क्षेमाय वधाय च सुरद्विषाम् ॥३३॥ भारावतारणायान्ये भुवो नाव इवोदधौ। सीदन्त्या भूरिभारेण जातो ह्यात्मभुवार्थितः ॥३४॥ भवेऽस्मिन् क्लिश्यमानानामविद्याकामकर्मभिः। श्रवणस्मरणार्हाणि करिष्यन्निति केचन ॥३५॥ शृण्वन्ति गायन्ति गृणन्त्यभीक्ष्णशः स्मरन्ति नन्दन्ति तवेहितं जनाः। त एव पश्यन्त्यचिरेण तावकं भवप्रवाहोपरमं पदाम्बुजम् ॥३६॥ अप्यद्य नस्त्वं स्वकृतेहित प्रभो जिहाससि स्वित्सुहृदोऽनुजीविनः। येषां न चान्यद्भवतः पदाम्बुजात्परायणं राजसु योजितांहसाम् ॥३७॥ के वयं नामरूपाभ्यां यदुभिः सह पाण्डवाः। भवतोऽदर्शनं यर्हि हृषीकाणामिवेशितुः ॥३८॥ नेयं शोभिष्यते तत्र यथेदानीं गदाधर। त्वत्पदैरङ्किता भाति स्वलक्षणविलक्षितैः ॥३९॥ इमे जनपदाः स्वृद्धाः सुपक्वौषधिवीरुधः। वनाद्रिनद्युदन्वन्तो ह्येधन्ते तव वीक्षितैः ॥४०॥ अथ विश्वेश विश्वात्मन् विश्वमूर्ते स्वकेषु मे। स्नेहपाशमिमं छिन्धि दृढं पाण्डुषु वृष्णिषु ॥४१॥ त्वयि मेऽनन्यविषया मतिर्मधुपतेऽसकृत्। रतिमुद्वहतादद्धा गङ्गेवौघमुदन्वति ॥४२॥ श्रीकृष्ण कृष्णसख वृष्ण्यृषभावनिध्रुग्- राजन्यवंशदहनानपवर्गवीर्य। गोविन्द गोद्विजसुरार्तिहरावतार योगेश्वराखिलगुरो भगवन् नमस्ते ॥४३॥ सूत उवाच पृथयेत्थं कलपदैः परिणूताखिलोदयः। मन्दं जहास वैकुण्ठो मोहयन्निव मायया ॥४४॥ तां बाढमित्युपामन्त्र्य प्रविश्य गजसाह्वयम्। स्त्रियश्च स्वपुरं यास्यन् प्रेम्णा राज्ञा निवारितः ॥४५॥ व्यासाद्यैरीश्वरेहाज्ञैः कृष्णेनाद्भुतकर्मणा। प्रबोधितोऽपीतिहासैर्नाबुध्यत शुचार्पितः ॥४६॥ आह राजा धर्मसुतश्चिन्तयन् सुहृदां वधम्। प्राकृतेनात्मना विप्राः स्नेहमोहवशं गतः ॥४७॥ अहो मे पश्यताज्ञानं हृदि रूढं दुरात्मनः। पारक्यस्यैव देहस्य बह्व्यो मेऽक्षौहिणीर्हताः ॥४८॥ बालद्विजसुहृन्मित्रपितृभ्रातृगुरुद्रुहः। न मे स्यान्निरयान्मोक्षो ह्यपि वर्षायुतायुतैः ॥४९॥ नैनो राज्ञः प्रजाभर्तुर्धर्मयुद्धे वधो द्विषाम्। इति मे न तु बोधाय कल्पते शासनं वचः ॥५०॥ स्त्रीणां मद्धतबन्धूनां द्रोहो योऽसाविहोत्थितः। कर्मभिर्गृहमेधीयैर्नाहं कल्पो व्यपोहितुम् ॥५१॥ यथा पङ्केन पङ्काम्भः सुरया वा सुराकृतम्। भूतहत्यां तथैवैकां न यज्ञैर्मार्ष्टुमर्हति ॥५२॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे कुन्तीस्तुतिर्युधिष्ठिरानुतापो नामाष्टमोऽध्यायः ॥८॥

॥ ॐ नमो भगवते वासुदेवाय ॥

॥ नवमोऽध्यायः ॥

सूत उवाच इति भीतः प्रजाद्रोहात्सर्वधर्मविवित्सया। ततो विनशनं प्रागाद्यत्र देवव्रतोऽपतत् ॥१॥ तदा ते भ्रातरः सर्वे सदश्वैः स्वर्णभूषितैः। अन्वगच्छन् रथैर्विप्रा व्यासधौम्यादयस्तथा ॥२॥ भगवानपि विप्रर्षे रथेन सधनञ्जयः। स तैर्व्यरोचत नृपः कुबेर इव गुह्यकैः ॥३॥ दृष्ट्वा निपतितं भूमौ दिवश्च्युतमिवामरम्। प्रणेमुः पाण्डवा भीष्मं सानुगाः सह चक्रिणा ॥४॥ तत्र ब्रह्मर्षयः सर्वे देवर्षयश्च सत्तम। राजर्षयश्च तत्रासन् द्रष्टुं भरतपुङ्गवम् ॥५॥ पर्वतो नारदो धौम्यो भगवान् बादरायणः। बृहदश्वो भरद्वाजः सशिष्यो रेणुकासुतः ॥६॥ वसिष्ठ इन्द्रप्रमदस्त्रितो गृत्समदोऽसितः। कक्षीवान् गौतमोऽत्रिश्च कौशिकोऽथ सुदर्शनः॥७॥ अन्ये च मुनयो ब्रह्मन् ब्रह्मरातादयोऽमलाः। शिष्यैरुपेता आजग्मुः कश्यपाङ्गिरसादयः ॥८॥ तान् समेतान् महाभागानुपलभ्य वसूत्तमः। पूजयामास धर्मज्ञो देशकालविभागवित् ॥९॥ कृष्णं च तत्प्रभावज्ञ आसीनं जगदीश्वरम्। हृदिस्थं पूजयामास माययोपात्तविग्रहम् ॥१०॥ पाण्डुपुत्रानुपासीनान् प्रश्रयप्रेमसङ्गतान्। अभ्याचष्टानुरागास्रैरन्धीभूतेन चक्षुषा ॥११॥ अहो कष्टमहोऽन्याय्यं यद्यूयं धर्मनन्दनाः। जीवितुं नार्हथ क्लिष्टं विप्रधर्माच्युताश्रयाः ॥१२॥ संस्थितेऽतिरथे पाण्डौ पृथा बालप्रजा वधूः। युष्मत्कृते बहून् क्लेशान् प्राप्ता तोकवती मुहुः ॥१३॥ सर्वं कालकृतं मन्ये भवतां च यदप्रियम्। सपालो यद्वशे लोको वायोरिव घनावलिः ॥१४॥ यत्र धर्मसुतो राजा गदापाणिर्वृकोदरः। कृष्णोऽस्त्री गाण्डिवं चापं सुहृत्कृष्णस्ततो विपत् ॥१५॥ न ह्यस्य कर्हिचिद्राजन् पुमान् वेद विधित्सितम्। यद्विजिज्ञासया युक्ता मुह्यन्ति कवयोऽपि हि ॥१६॥ तस्मादिदं दैवतन्त्रं व्यवस्य भरतर्षभ। तस्यानुविहितोऽनाथा नाथ पाहि प्रजाः प्रभो ॥१७॥ एष वै भगवान् साक्षादाद्यो नारायणः पुमान्। मोहयन् मायया लोकं गूढश्चरति वृष्णिषु ॥१८॥ अस्यानुभावं भगवान् वेद गुह्यतमं शिवः। देवर्षिर्नारदः साक्षाद्भगवान् कपिलो नृप ॥१९॥ यं मन्यसे मातुलेयं प्रियं मित्रं सुहृत्तमम्। अकरोः सचिवं दूतं सौहृदादथ सारथिम् ॥२०॥ सर्वात्मनः समदृशो ह्यद्वयस्यानहङ्कृतेः। तत्कृतं मतिवैषम्यं निरवद्यस्य न क्वचित् ॥२१॥ तथाप्येकान्तभक्तेषु पश्य भूपानुकम्पितम्। यन्मेऽसूंस्त्यजतः साक्षात्कृष्णो दर्शनमागतः ॥२२॥ भक्त्यावेश्य मनो यस्मिन् वाचा यन्नाम कीर्तयन्। त्यजन् कलेवरं योगी मुच्यते कामकर्मभिः ॥२३॥ स देवदेवो भगवान् प्रतीक्षतां कलेवरं यावदिदं हिनोम्यहम्। प्रसन्नहासारुणलोचनोल्लसन्मुखाम्बुजो ध्यानपथश्चतुर्भुजः ॥२४॥ सूत उवाच युधिष्ठिरस्तदाकर्ण्य शयानं शरपञ्जरे। अपृच्छद्विविधान् धर्मान् ऋषीणां चानुशृण्वताम्॥२५॥ पुरुषस्वभावविहितान् यथावर्णं यथाश्रमम्। वैराग्यरागोपाधिभ्यामाम्नातोभयलक्षणान् ॥२६॥ दानधर्मान् राजधर्मान् मोक्षधर्मान् विभागशः। स्त्रीधर्मान् भगवद्धर्मान् समासव्यासयोगतः ॥२७॥ धर्मार्थकाममोक्षांश्च सहोपायान् यथा मुने। नानाख्यानेतिहासेषु वर्णयामास तत्त्ववित् ॥२८॥ धर्मं प्रवदतस्तस्य स कालः प्रत्युपस्थितः। यो योगिनश्छन्दमृत्योर्वाञ्छितस्तूत्तरायणः ॥२९॥ तदोपसंहृत्य गिरः सहस्रणी- र्विमुक्तसङ्गं मन आदिपूरुषे। कृष्णे लसत्पीतपटे चतुर्भुजे पुरः स्थितेऽमीलितदृग्व्यधारयत् ॥३०॥ विशुद्धया धारणया हताशुभ- स्तदीक्षयैवाशु गतायुधव्यथः/श्रमः। निवृत्तसर्वेन्द्रियवृत्तिविभ्रमस्तुष्टाव जन्यं विसृजञ्जनार्दनम् ॥३१॥ श्रीभीष्म उवाच इति मतिरुपकल्पिता वितृष्णा भगवति सात्वतपुङ्गवे विभूम्नि। स्वसुखमुपगते क्वचिद्विहर्तुं प्रकृतिमुपेयुषि यद्भवप्रवाहः ॥३२॥ त्रिभुवनकमनं तमालवर्णं रविकरगौरवराम्बरं दधाने। वपुरलककुलावृताननाब्जं विजयसखे रतिरस्तु मेऽनवद्या ॥३३॥ युधि तुरगरजोविधूम्रविष्वक् कचलुलितश्रमवार्यलङ्कृतास्ये। मम निशितशरैर्विभिद्यमानत्वचि विलसत्कवचेऽस्तु कृष्ण आत्मा ॥३४॥ सपदि सखिवचो निशम्य मध्ये निजपरयोर्बलयो रथं निवेश्य। स्थितवति परसैनिकायुरक्ष्णा हृतवति पार्थसखे रतिर्ममास्तु ॥३५॥ व्यवहितपृतनामुखं निरीक्ष्य स्वजनवधाद्विमुखस्य दोषबुद्ध्या। कुमतिमहरदात्मविद्यया यश्चरणरतिः परमस्य तस्य मेऽस्तु ॥३६॥ स्वनिगममपहाय मत्प्रतिज्ञां ऋतमधिकर्तुमवप्लुतो रथस्थः। धृतरथचरणोऽभ्ययाच्चलद्गुर्हरिरिव हन्तुमिभं गतोत्तरीयः ॥३७॥ शितविशिखहतो विशीर्णदंशः क्षतजपरिप्लुत आततायिनो मे। प्रसभमभिससार मद्वधार्थं स भवतु मे भगवान् गतिर्मुकुन्दः ॥३८॥ विजयरथकुटुम्ब आत्ततोत्रे धृतहयरश्मिनि तच्छ्रियेक्षणीये। भगवति रतिरस्तु मे मुमूर्षोर्यमिह निरीक्ष्य हता गताः सरूपम् ॥३९॥ ललितगतिविलासवल्गुहास- प्रणयनिरीक्षणकल्पितोरुमानाः। कृतमनुकृतवत्य उन्मदान्धाः प्रकृतिमगन् किल यस्य गोपवध्वः ॥४०॥ मुनिगणनृपवर्यसङ्कुलेऽन्तःसदसि युधिष्ठिरराजसूय एषाम्। अर्हणमुपपेद ईक्षणीयो मम दृशिगोचर एष आविरात्मा ॥४१॥ तमिममहमजं शरीरभाजां हृदि हृदि धिष्ठितमात्मकल्पितानाम्। प्रतिदृशमिव नैकधार्कमेकं समधिगतोऽस्मि विधूतभेदमोहः ॥४२॥ सूत उवाच कृष्ण एवं भगवति मनोवाग्दृष्टिवृत्तिभिः। आत्मन्यात्मानमावेश्य सोऽन्तःश्वास उपारमत्॥४३॥ सगोनसंगोगो सम्पद्यमानमाज्ञाय भीष्मं ब्रह्मणि निष्कले। सर्वे बभूवुस्ते तूष्णीं वयांसीव दिनात्यये ॥४४॥ तत्र दुन्दुभयो नेदुर्देवमानववादिताः। शशंसुः साधवो राज्ञां खात्पेतुः पुष्पवृष्टयः ॥४५॥ तस्य निर्हरणादीनि सम्परेतस्य भार्गव। युधिष्ठिरः कारयित्वा मुहूर्तं दुःखितोऽभवत् ॥४६॥ तुष्टुवुर्मुनयो हृष्टाः कृष्णं तद्गुह्यनामभिः। ततस्ते कृष्णहृदयाः स्वाश्रमान् प्रययुः पुनः ॥४७॥ ततो युधिष्ठिरो गत्वा सहकृष्णो गजाह्वयम्। पितरं सान्त्वयामास गान्धारीं च तपस्विनीम् ॥४८॥ पित्रा चानुमतो राजा वासुदेवानुमोदितः। चकार राज्यं धर्मेण पितृपैतामहं विभुः ॥४९॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे युधिष्ठिरराज्यप्रलम्भो नाम नवमोऽध्यायः ॥९॥

॥ ॐ नमो भगवते वासुदेवाय ॥

॥ दशमोऽध्यायः ॥

शौनक उवाच हत्वा स्वरिक्थस्पृध आततायिनो युधिष्ठिरो धर्मभृतां वरिष्ठः। सहानुजैः प्रत्यवरुद्धभोजनः कथं प्रवृत्तः किमकारषीत्ततः ॥१॥ सूत उवाच वंशं कुरोर्वंशदवाग्निनिर्हृतं संरोहयित्वा भवभावनो हरिः। निवेशयित्वा निजराज्य ईश्वरो युधिष्ठिरं प्रीतमना बभूव ह ॥२॥ निशम्य भीष्मोक्तमथाच्युतोक्तं प्रवृत्तविज्ञानविधूतविभ्रमः। शशास गामिन्द्र इवाजिताश्रयः परिध्युपान्तामनुजानुवर्तितः ॥३॥ कामं ववर्ष पर्जन्यः सर्वकामदुघा मही। सिषिचुः स्म व्रजान् गावः पयसोधस्वतीर्मुदा ॥४॥ नद्यः समुद्रा गिरयः सवनस्पतिवीरुधः। फलन्त्योषधयः सर्वाः काममन्वृतु तस्य वै ॥५॥ नाधयो व्याधयः क्लेशा दैवभूतात्महेतवः। अजातशत्रावभवन् जन्तूनां राज्ञि कर्हिचित् ॥६॥ उषित्वा हास्तिनपुरे मासान् कतिपयान् हरिः। सुहृदां च विशोकाय स्वसुश्च प्रियकाम्यया ॥७॥ आमन्त्र्य चाभ्यनुज्ञातः परिष्वज्याभिवाद्य तम्। आरुरोह रथं कैश्चित्परिष्वक्तोऽभिवादितः ॥८॥ सुभद्रा द्रौपदी कुन्ती विराटतनया तथा। गान्धारी धृतराष्ट्रश्च युयुत्सुर्गौतमो यमौ ॥९॥ वृकोदरश्च धौम्यश्च स्त्रियो मत्स्यसुतादयः। न सेहिरे विमुह्यन्तो विरहं शार्ङ्गधन्वनः ॥१०॥ सत्सङ्गान्मुक्तदुःसङ्गो हातुं नोत्सहते बुधः। कीर्त्यमानं यशो यस्य सकृदाकर्ण्य रोचनम् ॥११॥ तस्मिन् न्यस्तधियः पार्थाः सहेरन् विरहं कथम्। दर्शनस्पर्शसंलापशयनासनभोजनैः ॥१२॥ सर्वे तेऽनिमिषैरक्षैस्तमनुद्रुतचेतसः। वीक्षन्तः स्नेहसम्बद्धा विचेलुस्तत्र तत्र ह ॥१३॥ न्यरुन्धन्नुद्गलद्बाष्पमौत्कण्ठ्याद्देवकीसुते। निर्यात्यगारान्नोऽभद्रमिति स्याद्बान्धवस्त्रियः ॥१४॥ मृदङ्गशङ्खभेर्यश्च वीणापणवगोमुखाः। धुन्धुर्यानकघण्टाद्या नेदुर्दुन्दुभयस्तथा ॥१५॥ प्रासादशिखरारूढाः कुरुनार्यो दिदृक्षया। ववृषुः कुसुमैः कृष्णं प्रेमव्रीडास्मितेक्षणाः ॥१६॥ सितातपत्रं जग्राह मुक्तादामविभूषितम्। रत्नदण्डं गुडाकेशः प्रियः प्रियतमस्य ह ॥१७॥ उद्धवः सात्यकिश्चैव व्यजने परमाद्भुते। विकीर्यमाणः कुसुमै रेजे मधुपतिः पथि ॥१८॥ अश्रूयन्ताशिषः सत्यास्तत्र तत्र द्विजेरिताः। नानुरूपानुरूपाश्च निर्गुणस्य गुणात्मनः ॥१९॥ अन्योन्यमासीत्सञ्जल्प उत्तमश्लोकचेतसाम्। कौरवेन्द्रपुरस्त्रीणां सर्वश्रुतिमनोहरः ॥२०॥ स वै किलायं पुरुषः पुरातनो य एक आसीदविशेष आत्मनि। अग्रे गुणेभ्यो जगदात्मनीश्वरे निमीलितात्मन् निशि सुप्तशक्तिषु ॥२१॥ स एव भूयो निजवीर्यचोदितां स्वजीवमायां प्रकृतिं सिसृक्षतीम्। अनामरूपात्मनि रूपनामनी विधित्समानोऽनुससार शास्त्रकृत् ॥२२॥ स वा अयं यत्पदमत्र सूरयो जितेन्द्रिया निर्जितमातरिश्वनः। पश्यन्ति भक्त्युत्कलितामलात्मना नन्वेष सत्त्वं परिमार्ष्टुमर्हति ॥२३॥ स वा अयं सख्यनुगीतसत्कथो वेदेषु गुह्येषु च गुह्यवादिभिः। य एक ईशो जगदात्मलीलया सृजत्यवत्यत्ति न तत्र सज्जते ॥२४॥ यदा ह्यधर्मेण तमोधियो नृपा जीवन्ति तत्रैष हि सत्त्वतः किल। धत्ते भगं सत्यमृतं दयां यशो भवाय रूपाणि दधद्युगे युगे ॥२५॥ अहो अलं श्लाघ्यतमं यदोः कुलमहो अलं पुण्यतमं मधोर्वनम्। यदेष पुंसामृषभः श्रियः पतिः स्वजन्मना चङ्क्रमणेन चाञ्चति ॥२६॥ अहो बत स्वर्यशसस्तिरस्करी कुशस्थली पुण्ययशस्करी भुवः। पश्यन्ति नित्यं यदनुग्रहेषितं स्मितावलोकं स्वपतिं स्म यत्प्रजाः ॥२७॥ नूनं व्रतस्नानहुतादिनेश्वरः समर्चितो ह्यस्य गृहीतपाणिभिः। पिबन्ति याः सख्यधरामृतं मुहुर्व्रजस्त्रियः सम्मुमुहुर्यदाशयाः ॥२८॥ या वीर्यशुल्केन हृताः स्वयंवरे प्रमथ्य चैद्यप्रमुखान् हि शुष्मिणः। प्रद्युम्नसाम्बाम्बसुतादयोऽपरा याश्चाहृता भौमवधे सहस्रशः ॥२९॥ एताः परं स्त्रीत्वमपास्तपेशलं निरस्तशौचं बत साधु कुर्वते। यासां गृहात्पुष्करलोचनः पतिर्न जात्वपैत्याहृतिभिर्हृदि स्पृशन् ॥३०॥ एवंविधा गदन्तीनां स गिरः पुरयोषिताम्। निरीक्षणेनाभिनन्दन् सस्मितेन ययौ हरिः ॥३१॥ अजातशत्रुः पृतनां गोपीथाय मधुद्विषः। परेभ्यः शङ्कितः स्नेहात्प्रायुङ्क्त चतुरङ्गिणीम् ॥३२॥ अथ दूरागतान् शौरिः कौरवान् विरहातुरान्। सन्निवर्त्य दृढं स्निग्धान् प्रायात्स्वनगरीं प्रियैः ॥३३॥ कुरुजाङ्गलपाञ्चालान् शूरसेनान् सयामुनान्। ब्रह्मावर्तं कुरुक्षेत्रं मत्स्यान् सारस्वतानथ ॥३४॥ मरुधन्वमतिक्रम्य सौवीराभीरयोः परान्। आनर्तान् भार्गवोपागाच्छ्रान्तवाहो मनाग् विभुः॥३५॥ तत्र तत्र ह तत्रत्यैर्हरिः प्रत्युद्यतार्हणः। सायं भेजे दिशं पश्चाद्गविष्ठो गां गतस्तदा ॥३६॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे श्रीकृष्णद्वारकागमनं नाम दशमोऽध्यायः ॥१०॥

॥ ॐ नमो भगवते वासुदेवाय ॥

॥ एकादशोऽध्यायः ॥

सूत उवाच आनर्तान् स उपव्रज्य स्वृद्धाञ्जनपदान् स्वकान्। दध्मौ दरवरं तेषां विषादं शमयन्निव ॥१॥ स उच्चकाशे धवलोदरो दरोऽप्युरुक्रमस्याधरशोणशोणिमा। दाध्मायमानः करकञ्जसम्पुटे यथाब्जखण्डे कलहंस उत्स्वनः ॥२॥ तमुपश्रुत्य निनदं जगद्भयभयावहम्। प्रत्युद्ययुः प्रजाः सर्वा भर्तृदर्शनलालसाः ॥३॥ तत्रोपनीतबलयो रवेर्दीपमिवादृताः। आत्मारामं पूर्णकामं निजलाभेन नित्यदा ॥४॥ प्रीत्युत्फुल्लमुखाः प्रोचुर्हर्षगद्गदया गिरा। पितरं सर्वसुहृदमवितारमिवार्भकाः ॥५॥ नताः स्म ते नाथ सदाङ्घ्रिपङ्कजं विरिञ्चवैरिञ्च्यसुरेन्द्रवन्दितम्। परायणं क्षेममिहेच्छतां परं न यत्र कालः प्रभवेत्परः प्रभुः ॥६॥ भवाय नस्त्वं भव विश्वभावन त्वमेव माताथ सुहृत्पतिः पिता। त्वं सद्गुरुर्नः परमं च दैवतं यस्यानुवृत्त्या कृतिनो बभूविम ॥७॥ अहो सनाथा भवता स्म यद्वयं त्रैविष्टपानामपि दूरदर्शनम्। प्रेमस्मितस्निग्धनिरीक्षणाननं पश्येम रूपं तव सर्वसौभगम् ॥८॥ यर्ह्यम्बुजाक्षापससार भो भवान् कुरून् मधून् वाथ सुहृद्दिदृक्षया। तत्राब्दकोटिप्रतिमः क्षणो भवेद्रविं विनाक्ष्णोरिव नस्तवाच्युत ॥९॥ (कथं वयं नाथ चिरोषिते त्वयि प्रसन्नदृष्ट्याखिलतापशोषणम्। जीवेम ते सुन्दरहासशोभित- मपश्यमाना वदनं मनोहरम् ॥) इति चोदीरिता वाचः प्रजानां भक्तवत्सलः। शृण्वानोऽनुग्रहं दृष्ट्या वितन्वन् प्राविशत्पुरीम् ॥१०॥ मधुभोजदशार्हार्हकुकुरान्धकवृष्णिभिः। आत्मतुल्यबलैर्गुप्तां नागैर्भोगवतीमिव ॥११॥ सर्वर्तुसर्वविभवपुण्यवृक्षलताश्रमैः। उद्यानोपवनारामैर्वृतपद्माकरश्रियम् ॥१२॥ गोपुरद्वारमार्गेषु कृतकौतुकतोरणाम्। चित्रध्वजपताकाग्रैरन्तः प्रतिहतातपाम् ॥१३॥ सम्मार्जितमहामार्गरथ्यापणकचत्वराम्। सिक्तां गन्धजलैरुप्तां फलपुष्पाक्षताङ्कुरैः ॥१४॥ द्वारि द्वारि गृहाणां च दध्यक्षतफलेक्षुभिः। अलङ्कृतां पूर्णकुम्भैर्बलिभिर्धूपदीपकैः ॥१५॥ निशम्य प्रेष्ठमायान्तं वसुदेवो महामनाः। अक्रूरश्चोग्रसेनश्च रामश्चाद्भुतविक्रमः ॥१६॥ प्रद्युम्नश्चारुदेष्णश्च साम्बो जाम्बवतीसुतः। प्रहर्षवेगोच्छ्वसितशयनासनभोजनाः ॥१७॥ वारणेन्द्रं पुरस्कृत्य ब्राह्मणैः ससुमङ्गलैः। शङ्खतूर्यनिनादेन ब्रह्मघोषेण चादृताः। प्रत्युज्जग्मू रथैर्हृष्टाः प्रणयागतसाध्वसाः ॥१८॥ वारमुख्याश्च शतशो यानैस्तद्दर्शनोत्सुकाः। लसत्कुण्डलनिर्भातकपोलवदनश्रियः ॥१९॥ नटनर्तकगन्धर्वाः सूतमागधवन्दिनः। गायन्ति चोत्तमश्लोकचरितान्यद्भुतानि च ॥२०॥ भगवांस्तत्र बन्धूनां पौराणामनुवर्तिनाम्। यथाविध्युपसङ्गम्य सर्वेषां मानमादधे ॥२१॥ प्रह्वाभिवादनाश्लेषकरस्पर्शस्मितेक्षणैः। आश्वास्य चाश्वपाकेभ्यो वरैश्चाभिमतैर्विभुः ॥२२॥ स्वयं च गुरुभिर्विप्रैः सदारैः स्थविरैरपि। आशीर्भिर्युज्यमानोऽन्यैर्वन्दिभिश्चाविशत्पुरम् ॥२३॥ राजमार्गं गते कृष्णे द्वारकायाः कुलस्त्रियः। हर्म्याण्यारुरुहुर्विप्राः तदीक्षणमहोत्सवाः ॥२४॥ नित्यं निरीक्षमाणानां यदपि द्वारकौकसाम्। न वितृप्यन्ति हि दृशः श्रियो धामाङ्गमच्युतम् ॥२५॥ श्रियो निवासो यस्योरः पानपात्रं मुखं दृशाम्। बाहवो लोकपालानां सारङ्गाणां पदाम्बुजम् ॥२६॥ सितातपत्रव्यजनैरुपस्कृतः प्रसूनवर्षैरभिवर्षितः पथि पिशङ्गवासा वनमालया बभौ घनो यथार्कोडुपचापवैद्युतैः ॥२७॥ प्रविष्टस्तु गृहं पित्रोः परिष्वक्तः स्वमातृभिः। ववन्दे शिरसा सप्त देवकीप्रमुखा मुदा ॥२८॥ ताः पुत्रमङ्कमारोप्य स्नेहस्नुतपयोधराः। हर्षविह्वलितात्मानः सिषिचुर्नेत्रजैर्जलैः ॥२९॥ अथाविशत्स्वभवनं सर्वकाममनुत्तमम्। प्रासादा यत्र पत्नीनां सहस्राणि च षोडश ॥३०॥ पत्न्यः पतिं प्रोष्य गृहानुपागतं विलोक्य सञ्जातमनोमहोत्सवाः। उत्तस्थुरारात्सहसासनाशयात्साकं व्रतैर्व्रीडितलोचनाननाः ॥३१॥ तमात्मजैर्दृष्टिभिरन्तरात्मना दुरन्तभावाः परिरेभिरे पतिम्। निरुद्धमप्यास्रवदम्बुनेत्रयोर्विलज्जतीनां भृगुवर्य वैक्लवात् ॥३२॥ यद्यप्यसौ पार्श्वगतो रहोगतस्तथापि तस्याङ्घ्रियुगं नवं नवम्। पदे पदे का विरमेत तत्पदाच्चलापि यच्छ्रीर्न जहाति कर्हिचित् ॥३३॥ एवं नृपाणां क्षितिभारजन्मना- मक्षौहिणीभिः परिवृत्ततेजसाम्। विधाय वैरं श्वसनो यथानलं मिथो वधेनोपरतो निरायुधः ॥३४॥ स एष नरलोकेऽस्मिन्नवतीर्णः स्वमायया। रेमे स्त्रीरत्नकूटस्थो भगवान् प्राकृतो यथा ॥३५॥ उद्दामभावपिशुनामलवल्गुहास- व्रीडावलोकनिहतो मदनोऽपि यासाम्। सम्मुह्य तापमजहात्प्रमदोत्तमास्ता यस्येन्द्रियं विमथितुं कुहकैर्न शेकुः ॥३६॥ तमयं मन्यते लोको ह्यसङ्गमपि सङ्गिनम्। आत्मौपम्येन मनुजं व्यापृण्वानं यतोऽबुधः ॥३७॥ एतदीशनमीशस्य प्रकृतिस्थोऽपि तद्गुणैः। न युज्यते सदाऽऽत्मस्थैर्यथा बुद्धिस्तदाश्रया ॥३८॥ तं मेनिरेऽबला मूढाः स्त्रैणं चानुव्रतं रहः। अप्रमाणविदो भर्तुरीश्वरं मतयो यथा ॥३९॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे नैमिषीयोपाख्याने श्रीकृष्णद्वारकाप्रवेशो नामैकादशोऽध्यायः ॥११॥

॥ ॐ नमो भगवते वासुदेवाय ॥

॥ द्वादशोऽध्यायः ॥

शौनक उवाच अश्वत्थाम्नोपसृष्टेन ब्रह्मशीर्ष्णोरुतेजसा। उत्तराया हतो गर्भ ईशेनाजीवितः पुनः ॥१॥ तस्य जन्म महाबुद्धेः कर्माणि च महात्मनः। निधनं च यथैवासीत्स प्रेत्य गतवान् यथा ॥२॥ तदिदं श्रोतुमिच्छामो गदितुं यदि मन्यसे। ब्रूहि नः श्रद्दधानानां यस्य ज्ञानमदाच्छुकः ॥३॥ सूत उवाच अपीपलद्धर्मराजः पितृवद्रञ्जयन् प्रजाः। निःस्पृहः सर्वकामेभ्यः कृष्णपादाब्जसेवया ॥४॥ सम्पदः क्रतवो लोका महिषी भ्रातरो मही। जम्बूद्वीपाधिपत्यं च यशश्च त्रिदिवं गतम् ॥५॥ किं ते कामाः सुरस्पार्हा मुकुन्दमनसो द्विजाः। अधिजह्रुर्मुदं राज्ञः क्षुधितस्य यथेतरे ॥६॥ मातुर्गर्भगतो वीरस्स तदा भृगुनन्दन। ददर्श पुरुषं कञ्चिद्दह्यमानोऽस्त्रतेजसा ॥७॥ अङ्गुष्ठमात्रममलं स्फुरत्पुरटमौलिनम्। अपीच्यदर्शनं श्यामं तडिद्वाससमच्युतम् ॥८॥ श्रीमद्दीर्घचतुर्बाहुं तप्तकाञ्चनकुण्डलम्। क्षतजाक्षं गदापाणिमात्मनः सर्वतो दिशम्। परिभ्रमन्तमुल्काभां भ्रामयन्तं गदां मुहुः ॥९॥ अस्त्रतेजः स्वगदया नीहारमिव गोपतिः। विधमन्तं सन्निकर्षे पर्यैक्षत क इत्यसौ ॥१०॥ विधूय तदमेयात्मा भगवान् धर्मगुब्विभुः। मिषतो दशमास्यस्य तत्रैवान्तर्दधे हरिः ॥११॥ ततः सर्वगुणोदर्के सानुकूलग्रहोदये। जज्ञे वंशधरः पाण्डोर्भूयः पाण्डुरिवौजसा ॥१२॥ तस्य प्रीतमना राजा विप्रैर्धौम्यकृपादिभिः। जातकं कारयामास वाचयित्वा च मङ्गलम् ॥१३॥ हिरण्यं गां महीं ग्रामान् हस्त्यश्वान् नृपतिर्वरान्। प्रादात्स्वन्नं च विप्रेभ्यः प्रजातीर्थे स तीर्थवित् ॥१४॥ तमूचुर्ब्राह्मणास्तुष्टा राजानं प्रश्रयान्वितम्। एष ह्यस्मिन् प्रजातन्तौ पुरूणां पौरवर्षभ ॥१५॥ दैवेनाप्रतिघातेन शुक्ले संस्थामुपेयुषि। रातो वोऽनुग्रहार्थाय विष्णुना प्रभविष्णुना ॥१६॥ तस्मान्नाम्ना विष्णुरात इति लोके बृहच्छ्रवाः । भविष्यति न सन्देहो महाभागवतो महान् ॥१७॥ युधिष्ठिर उवाच अप्येष वंश्यान् राजर्षीन् पुण्यश्लोकान् महात्मनः। अनुवर्तिता स्विद्यशसा साधुवादेन सत्तमाः ॥१८॥ ब्राह्मणा ऊचुः पार्थ प्रजाविता साक्षादिक्ष्वाकुरिव मानवः। ब्रह्मण्यः सत्यसन्धश्च रामो दाशरथिर्यथा ॥१९॥ एष दाता शरण्यश्च यथा ह्यौशीनरः शिबिः। यशो वितनिता स्वानां दौष्यन्तिरिव यज्वनाम्॥२०॥ धन्विनामग्रणीरेष तुल्यश्चार्जुनयोर्द्वयोः। हुताश इव दुर्धर्षः समुद्र इव दुस्तरः ॥२१॥ मृगेन्द्र इव विक्रान्तो निषेव्यो हिमवानिव। तितिक्षुर्वसुधेवासौ सहिष्णुः पितराविव ॥२२॥ पितामहसमः साम्ये प्रसादे गिरिशोपमः। आश्रयः सर्वभूतानां यथा देवो रमाश्रयः ॥२३॥ सर्वसद्गुणमाहात्म्ये एष कृष्णमनुव्रतः। रन्तिदेव इवोदारो ययातिरिव धार्मिकः ॥२४॥ धृत्या बलिसमः कृष्णे प्रह्लाद इव सद्ग्रहः। आहर्तैषोऽश्वमेधानां वृद्धानां पर्युपासकः ॥२५॥ राजर्षीणां जनयिता शास्ता चोत्पथगामिनाम्। निग्रहीता कलेरेष भुवो धर्मस्य कारणात् ॥२६॥ तक्षकादात्मनो मृत्युं द्विजपुत्रोपसर्जितात्। प्रपत्स्यत उपश्रुत्य मुक्तसङ्गः पदं हरेः ॥२७॥ जिज्ञासितात्मयाथात्म्यो मुनेर्व्याससुतादसौ। हित्वेदं नृप गङ्गायां यास्यत्यद्धाकुतोभयम् ॥२८॥ इति राज्ञ उपादिश्य विप्रा जातककोविदाः। लब्धापचितयः सर्वे प्रतिजग्मुः स्वकान् गृहान्॥२९॥ स एष लोके विख्यातः परीक्षिदिति यत्प्रभुः। गर्भे दृष्टमनुध्यायन् परीक्षेत नरेष्विह ॥३०॥ स राजपुत्रो ववृधे आशु शुक्ल इवोडुपः। आपूर्यमाणः पितृभिः काष्ठाभिरिव सोऽन्वहम्॥३१॥ यक्ष्यमाणोऽश्वमेधेन ज्ञातिद्रोहजिहासया। राजालब्धधनो दध्यावन्यत्र करदण्डयोः ॥३२॥ तदभिप्रेतमालक्ष्य भ्रातरोऽच्युतचोदिताः धनं प्रहीणमाजह्रुरुदीच्यां दिशि भूरिशः ॥३३॥ तेन सम्भृतसम्भारो धर्मपुत्रो युधिष्ठिरः। वाजिमेधैस्त्रिभिर्भीतो यज्ञैः समयजद्धरिम् ॥३४॥ आहूतो भगवान् राज्ञा याजयित्वा द्विजैर्नृपम्। उवास कतिचिन्मासान् सुहृदां प्रियकाम्यया ॥३५॥ ततो राज्ञाभ्यनुज्ञातः कृष्णया सहबन्धुभिः। ययौ द्वारवतीं ब्रह्मन् सार्जुनो यदुभिर्वृतः ॥३६॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे परीक्षिज्जन्माद्युत्कर्षो नाम द्वादशोऽध्यायः ॥१२॥

॥ ॐ नमो भगवते वासुदेवाय ॥

॥ त्रयोदशोऽध्यायः ॥

सूत उवाच विदुरस्तीर्थयात्रायां मैत्रेयादात्मनो गतिम्। ज्ञात्वागाद्धास्तिनपुरं तयावाप्तविवित्सितः ॥१॥ यावतः कृतवान् प्रश्नान् क्षत्ता कौषारवाग्रतः। जातैकभक्तिर्गोविन्दे तेभ्यश्चोपरराम ह ॥२॥ तं बन्धुमागतं दृष्ट्वा धर्मपुत्रः सहानुजः। धृतराष्ट्रो युयुत्सुश्च सूतः शारद्वतः पृथा ॥३॥ गान्धारी द्रौपदी ब्रह्मन् सुभद्रा चोत्तरा कृपी। अन्याश्च जामयः पाण्डोर्ज्ञातयः ससुताः स्त्रियः॥४॥ प्रत्युज्जग्मुः प्रहर्षेण प्राणं तन्व इवागतम्। अभिसङ्गम्य विधिवत्परिष्वङ्गाभिवादनैः ॥५॥ मुमुचुः प्रेमबाष्पौघं विरहौत्कण्ठ्यकातराः। राजा तमर्हयांचक्रे कृतासनपरिग्रहम् ॥६॥ तं भुक्तवन्तं विश्रान्तमासीनं सुखमासने। प्रश्रयावनतो राजा प्राह तेषां च शृण्वताम् ॥७॥ युधिष्ठिर उवाच अपि स्मरथ नो युष्मत्पक्षच्छायासमेधितान्। विपद्गणाद्विषाग्न्यादेर्मोचिता यत्समातृकाः ॥८॥ कया वृत्त्या वर्तितं वश्चरद्भिः क्षितिमण्डलम्। तीर्थानि क्षेत्रमुख्यानि सेवितानीह भूतले ॥९॥ भवद्विधा भागवतास्तीर्थभूताः स्वयं विभो। तीर्थीकुर्वन्ति तीर्थानि स्वान्तःस्थेन गदाभृता ॥१०॥ अपि नः सुहृदस्तात बान्धवाः कृष्णदेवताः। दृष्टाः श्रुता वा यदवः स्वपुर्यां सुखमासते ॥११॥ इत्युक्तो धर्मराजेन सर्वं तत्समवर्णयत्। यथानुभूतं क्रमशो विना यदुकुलक्षयम् ॥१२॥ नन्वप्रियं दुर्विषहं नृणां स्वयमुपस्थितम्। नावेदयत्सकरुणो दुःखितान् द्रष्टुमक्षमः ॥१३॥ कञ्चित्कालमथावात्सीत्सत्कृतो देववत्सुखम्। भ्रातुर्ज्येष्ठस्य श्रेयस्कृत्सर्वेषां प्रीतिमावहन् ॥१४॥ अबिभ्रदर्यमा दण्डं यथावदघकारिषु। यावद्दधार शूद्रत्वं शापाद्वर्षशतं यमः ॥१५॥ युधिष्ठिरो लब्धराज्यो दृष्ट्वा पौत्रं कुलन्धरम्। भ्रातृभिर्लोकपालाभैर्मुमुदे परया श्रिया ॥१६॥ एवं गृहेषु सक्तानां प्रमत्तानां तदीहया। अत्यक्रामदविज्ञातः कालः परमदुस्तरः ॥१७॥ विदुरस्तदभिप्रेत्य धृतराष्ट्रमभाषत। राजन् निर्गम्यतां शीघ्रं पश्येदं भयमागतम् ॥१८॥ प्रतिक्रिया न यस्येह कुतश्चित्कर्हिचित्प्रभो। स एव भगवान् कालः सर्वेषां नः समागतः ॥१९॥ येन चैवाभिपन्नोऽयं प्राणैः प्रियतमैरपि। जनः सद्यो वियुज्येत किमुतान्यैर्धनादिभिः ॥२०॥ पितृभ्रातृसुहृत्पुत्रा हतास्ते विगतं वयः। आत्मा च जरया ग्रस्तः परगेहमुपाससे ॥२१॥ (अन्धः पुरैव बधिरो मन्दप्रज्ञश्च साम्प्रतम्। विशीर्णदन्तो मन्दाग्निः सरागः कफमुद्वहन् ॥) अहो महीयसी जन्तोर्जीविताशा यथा भवान्। भीमापवर्जितं पिण्डमादत्ते गृहपालवत् ॥२२॥ अग्निर्निसृष्टो दत्तश्च गरो दाराश्च दूषिताः। हृतं क्षेत्रं धनं येषां तद्दत्तैरसुभिः कियत् ॥२३॥ तस्यापि तव देहोऽयं कृपणस्य जिजीविषोः। परैत्यनिच्छतो जीर्णो जरया वाससी इव ॥२४॥ गतस्वार्थमिमं देहं विरक्तो मुक्तबन्धनः। अविज्ञातगतिर्जह्यात्स वै धीर उदाहृतः ॥२५॥ यः स्वकात्परतो वेह जातनिर्वेद आत्मवान्। हृदि कृत्वा हरिं गेहात्प्रव्रजेत्स नरोत्तमः ॥२६॥ अथोदीचीं दिशं यातु स्वैरज्ञातगतिर्भवान्। इतोऽर्वाक् प्रायशः कालः पुंसां गुणविकर्षणः ॥२७॥ एवं राजा विदुरेणानुजेन प्रज्ञाचक्षुर्बोधित आजमीढः। छित्त्वा स्वेषु स्नेहपाशान् द्रढिम्नो निश्चक्राम भ्रातृसन्दर्शिताध्वा ॥२८॥ पतिं प्रयान्तं सुबलस्य पुत्री पतिव्रता चानुजगाम साध्वी। हिमालयं न्यस्तदण्डप्रहर्षं मनस्विनामिव सत्सम्प्रहारः ॥२९॥ अजातशत्रुः कृतमैत्रो हुताग्निर्विप्रान् नत्वा तिलगोभूमिरुक्मैः। गृहं प्रविष्टो गुरुवन्दनाय न चापश्यत्पितरौ सौबलीं च ॥३०॥ तत्र सञ्जयमासीनं पप्रच्छोद्विग्नमानसः। गावल्गणे क्व नस्तातो वृद्धो हीनश्च नेत्रयोः ॥३१॥ अम्बा च हतपुत्रार्ता पितृव्यः क्व गतः सुहृत्। अपि मय्यकृतप्रज्ञे हतबन्धुः स भार्यया। आशंसमानः शमलं गङ्गायां दुःखितोपतत् ॥३२॥ पितर्युपरते पाण्डौ सर्वान् नः सुहृदः शिशून्। अरक्षतां व्यसनतः पितृव्यौ क्व गतावितः ॥३३॥ सूत उवाच कृपया स्नेहवैक्लव्यात्सूतो विरहकर्शितः। आत्मेश्वरमचक्षाणो न प्रत्याहातिपीडितः ॥३४॥ विमृज्याश्रूणि पाणिभ्यां विष्टभ्यात्मानमात्मना। अजातशत्रुं प्रत्यूचे प्रभोः पादावनुस्मरन् ॥३५॥ सञ्जय उवाच नाहं वेद व्यवसितं पित्रोर्वः कुलनन्दन। गान्धार्या वा महाबाहो मुषितोऽस्मि महात्मभिः॥ ३६॥ अथाजगाम भगवान् नारदः सह तुम्बुरुः । प्रत्युत्थायाभिवाद्याह सानुजोऽभ्यर्चयन्निव ॥३७॥ युधिष्ठिर उवाच नाहं वेद गतिं पित्रोर्भगवन् क्व गतावितः। अम्बा वा हतपुत्रार्ता क्व गता च तपस्विनी ॥३८॥ कर्णधार इवापारे भगवान् पारदर्शकः। अथाबभाषे भगवान्नारदो मुनिसत्तमः ॥३९॥ मा कञ्चन शुचो राजन् यदीश्वरवशं जगत्। लोकाः सपाला यस्येमे वहन्ति बलिमीशितुः। स संयुनक्ति भूतानि स एव वियुनक्ति च ॥४०॥ यथा गावो नसि प्रोतास्तन्त्यां बद्धाश्च दामभिः। वाक्तन्त्यां नामभिर्बद्धा वहन्ति बलिमीशितुः ॥४१॥ यथा क्रीडोपस्कराणां संयोगविगमाविह। इच्छया क्रीडितुः स्यातां तथैवेशेच्छया नृणाम्॥४२॥ यन्मन्यसे ध्रुवं लोकमध्रुवं वा न चोभयम्। सर्वथा न हि शोच्यास्ते स्नेहादन्यत्र मोहजात् ॥४३॥ तस्माज्जह्यङ्ग वैक्लव्यमज्ञानकृतमात्मनः। कथं त्वनाथाः कृपणा वर्तेरंस्ते च मां विना ॥४४॥ कालकर्मगुणाधीनो देहोऽयं पाञ्चभौतिकः। कथमन्यांस्तु गोपायेत्सर्पग्रस्तो यथा परम् ॥४५॥ अहस्तानि सहस्तानामपदानि चतुष्पदाम्। फल्गूनि तत्र महतां जीवो जीवस्य जीवनम् ॥४६॥ तदिदं भगवान् राजन्नेक आत्माऽऽत्मनां स्वदृक्। अन्तरोऽनन्तरो भाति पश्य तं माययोरुधा ॥४७॥ सोऽयमद्य महाराज भगवान् भूतभावनः। कालरूपोऽवतीर्णोऽस्यामभावाय सुरद्विषाम् ॥४८॥ निष्पादितं देवकृत्यमवशेषं प्रतीक्षते। तावद्यूयमवेक्षध्वं भवेद्यावदिहेश्वरः ॥४९॥ धृतराष्ट्रः सह भ्रात्रा गान्धार्या च स्वभार्यया। दक्षिणेन हिमवत ऋषीणामाश्रमं गतः ॥५०॥ स्रोतोभिः सप्तभिर्या वै स्वर्धुनी सप्तधा व्यधात्। सप्तानां प्रीतये नाना सप्तस्रोतः प्रचक्षते ॥५१॥ स्नात्वानुसवनं तस्मिन् हुत्वा चाग्नीन् यथाविधि। अब्भक्ष उपशान्तात्मा स आस्ते विगतैषणः ॥५२॥ जितासनो जितश्वासः प्रत्याहृतषडिन्द्रियः। हरिभावनया ध्वस्तरजःसत्त्वतमोमलः ॥५३॥ विज्ञानात्मनि संयोज्य क्षेत्रज्ञे प्रविलाप्य तम्। ब्रह्मण्यात्मानमाधारे घटाम्बरमिवाम्बरे ॥५४॥ ध्वस्तमायागुणोदर्को निरुद्धकरणाशयः। निवर्तिताखिलाहार आस्ते स्थाणुरिवाचलः। तस्यान्तरायो मैवाभूः संन्न्यस्ताखिलकर्मणः ॥५५॥ स वा अद्यतनाद्राजन् परतः पञ्चमेऽहनि। कलेवरं हास्यति स्वं तच्च भस्मीभविष्यति ॥५६॥ दह्यमानेऽग्निभिर्देहे पत्युः पत्नी सहोटजे। बहिः स्थिता पतिं साध्वी तमग्निमनुवेक्ष्यति ॥५७॥ विदुरस्तु तदाश्चर्यं निशाम्य कुरुनन्दन। हर्षशोकयुतस्तस्माद्गन्ता तीर्थनिषेवकः ॥५८॥ इत्युक्त्वाथारुहत्स्वर्गं नारदः सहतुम्बुरुः। युधिष्ठिरो वचस्तस्य हृदि कृत्वाजहाच्छुचः ॥५९॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे नैमिषीयोपाख्याने त्रयोदशोऽध्यायः ॥१३॥

॥ ॐ नमो भगवते वासुदेवाय ॥

॥ चतुर्दशोऽध्यायः ॥

सूत उवाच सम्प्रस्थिते द्वारकायां जिष्णौ बन्धुदिदृक्षया। ज्ञातुं च पुण्यश्लोकस्य कृष्णस्य च विचेष्टितम् ॥१॥ व्यतीताः कतिचिन्मासास्तदा नायात्ततोऽर्जुनः। ददर्श घोररूपाणि निमित्तानि कुरूद्वहः ॥२॥ कालस्य च गतिं रौद्रां विपर्यस्तर्तुधर्मिणः। पापीयसीं नृणां वार्तां क्रोधलोभानृतात्मनाम् ॥३॥ जिह्मप्रायं व्यवहृतं शाठ्यमिश्रं च सौहृदम्। पितृमातृसुहृद्भ्रातृदम्पतीनां च कल्कनम् ॥४॥ निमित्तान्यत्यरिष्टानि काले त्वनुगते नृणाम्। लोभाद्यधर्मप्रकृतिं दृष्ट्वोवाचानुजं नृपः ॥५॥ युधिष्ठिर उवाच सम्प्रेषितो द्वारकायां जिष्णुर्बन्धुदिदृक्षया। ज्ञातुं च पुण्यश्लोकस्य कृष्णस्य च विचेष्टितम् ॥६॥ गताः सप्ताधुना मासा भीमसेन तवानुजः। नायाति कस्य वा हेतोर्नाहं वेदेदमञ्जसा ॥७॥ अपि देवर्षिणाऽऽदिष्टः स कालोऽयमुपस्थितः। यदात्मनोऽङ्गमाक्रीडं भगवानुत्सिसृक्षति ॥८॥ यस्मान्नः सम्पदो राज्यं दाराः प्राणाः कुलं प्रजाः। आसन् सपत्नविजयो लोकाश्च यदनुग्रहात् ॥९॥ पश्योत्पातान् नरव्याघ्र दिव्यान् भौमान् सदैहिकान्। दारुणान् शंसतोऽदूराद्भयं नो बुद्धिमोहनम् ॥१०॥ ऊर्वक्षिबाहवो मह्यं स्फुरन्त्यङ्ग पुनः पुनः। वेपथुश्चापि हृदये आराद्दास्यन्ति विप्रियम् ॥११॥ शिवैषोद्यन्तमादित्यमभिरौत्यनलानना। मामङ्ग सारमेयोऽयमभिरेभत्यभीरुवत् ॥१२॥ शस्ताः कुर्वन्ति मां सव्यं दक्षिणं पशवोऽपरे। वाहांश्च पुरुषव्याघ्र लक्षये रुदतो मम ॥१३॥ मृत्युदूतः कपोतोऽयमुलूकः कम्पयन् मनः। प्रत्युलूकश्च कुह्वानैरनिद्रौ शून्यमिच्छतः ॥१४॥ धूम्रा दिशः परिधयः कम्पते भूः सहाद्रिभिः। निर्घातश्च महांस्तात साकं च स्तनयित्नुभिः ॥१५॥ वायुर्वाति खरस्पर्शो रजसा विसृजंस्तमः। असृग्वर्षन्ति जलदा बीभत्समिव सर्वतः ॥१६॥ सूर्यं हतप्रभं पश्य ग्रहमर्दं मिथो दिवि। ससङ्कुलैर्भूतगणैर्ज्वलिते इव रोदसी ॥१७॥ नद्यो नदाश्च क्षुभिताः सरांसि च मनांसि च। न ज्वलत्यग्निराज्येन कालोऽयं किं विधास्यति॥१८॥ न पिबन्ति स्तनं वत्सा न दुह्यन्ति च मातरः। रुदन्त्यश्रुमुखा गावो न हृष्यन्त्यृषभा व्रजे ॥१९॥ दैवतानि रुदन्तीव स्विद्यन्ति ह्युच्चलन्ति च। इमे जनपदा ग्रामाः पुरोद्यानाकराश्रमाः। भ्रष्टश्रियो निरानन्दाः किमघं दर्शयन्ति नः ॥२०॥ मन्य एतैर्महोत्पातैर्नूनं भगवतः पदैः। अनन्यपुरुषश्रीभिर्हीना भूर्हतसौभगा ॥२१॥ इति चिन्तयतस्तस्य दृष्टारिष्टेन चेतसा। राज्ञः प्रत्यागमद्ब्रह्मन् यदुपुर्याः कपिध्वजः ॥२२॥ तं पादयोर्निपतितमयथापूर्वमातुरम्। अधोवदनमब्बिन्दून् सृजन्तं नयनाब्जयोः ॥२३॥ विलोक्योद्विग्नहृदयो विच्छायमनुजं नृपः। पृच्छति स्म सुहृन्मध्ये संस्मरन् नारदेरितम् ॥२४॥ युधिष्ठिर उवाच कच्चिदानर्तपुर्यां नः स्वजनाः सुखमासते। मधुभोजदशार्हार्हसात्वतान्धकवृष्णयः ॥२५॥ शूरो मातामहः कच्चित्स्वस्त्यास्ते वाथ मारिषः। मातुलः सानुजः कच्चित्कुशल्यानकदुन्दुभिः ॥२६॥ सप्त स्वसारस्तत्पत्न्यो मातुलान्यः सहात्मजाः। आसते सस्नुषाः क्षेमं देवकीप्रमुखाः स्वयम् ॥२७॥ कच्चिद्राजाऽऽहुको जीवत्यसत्पुत्रोऽस्य चानुजः। हृदीकः ससुतोऽक्रूरो जयन्तगदसारणाः ॥२८॥ आसते कुशलं कच्चिद्ये च शत्रुजिदादयः। कच्चिदास्ते सुखं रामो भगवान् सात्वतां प्रभुः ॥२९॥ प्रद्युम्नः सर्ववृष्णीनां सुखमास्ते महारथः। गम्भीररयोऽनिरुद्धो वर्धते भगवानुत ॥३०॥ सुषेणश्चारुदेष्णश्च साम्बो जाम्बवतीसुतः। अन्ये च कार्ष्णिप्रवराः सपुत्रा ऋषभादयः ॥३१॥ तथैवानुचराः शौरेः श्रुतदेवोद्धवादयः। सुनन्दनन्दशीर्षण्या ये चान्ये सात्वतर्षभाः ॥३२॥ अपि स्वस्त्यासते सर्वे रामकृष्णभुजाश्रयाः। अपि स्मरन्ति कुशलमस्माकं बद्धसौहृदाः ॥३३॥ भगवानपि गोविन्दो ब्रह्मण्यो भक्तवत्सलः। कच्चित्पुरे सुधर्मायां सुखमास्ते सुहृद्वृतः ॥३४॥ मङ्गलाय च लोकानां क्षेमाय च भवाय च। आस्ते यदुकुलाम्भोधावाद्योऽनन्तसखः पुमान्॥३५॥ यद्बाहुदण्डगुप्तायां स्वपुर्यां यदवोऽर्चिताः। क्रीडन्ति परमानन्दं महापौरुषिका इव ॥३६॥ यत्पादशुश्रूषणमुख्यकर्मणा सत्यादयो द्व्यष्टसहस्रयोषितः। निर्जित्य सङ्ख्ये त्रिदशांस्तदाशिषो हरन्ति वज्रायुधवल्लभोचिताः ॥३७॥ यद्बाहुदण्डाभ्युदयानुजीविनो यदुप्रवीरा ह्यकुतोभया मुहुः। अधिक्रमन्त्यङ्घ्रिभिराहृतां बलात्सभां सुधर्मां सुरसत्तमोचिताम् ॥३८॥ कच्चित्तेऽनामयं तात भ्रष्टतेजा विभासि मे। अलब्धमानोऽवज्ञातः किं वा तात चिरोषितः ॥३९॥ कच्चिन्नाभिहतोऽभावैः शब्दादिभिरमङ्गलैः। न दत्तमुक्तमर्थिभ्य आशया यत्प्रतिश्रुतम् ॥४०॥ कच्चित्त्वं ब्राह्मणं बालं गां वृद्धं रोगिणं स्त्रियम्। शरणोपसृतं सत्त्वं नात्याक्षीः शरणप्रदः ॥४१॥ कच्चित्त्वं नागमोऽगम्यां गम्यां वाऽसत्कृतां स्त्रियम्। पराजितो वाथ भवान् नोत्तमैर्नासमैः पथि ॥४२॥ अपि स्वित्पर्यभुंक्थास्त्वं सम्भोज्यान् वृद्धबालकान्। जुगुप्सितं कर्म किञ्चित्कृतवान् न यदक्षमम् ॥४३॥ कच्चित्प्रेष्ठतमेनाथ हृदयेनात्मबन्धुना। शून्योऽस्मि रहितो नित्यं मन्यसे तेऽन्यथा न रुक् ॥४४॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे युधिष्ठिरवितर्को नाम चतुर्दशोऽध्यायः ॥१४॥

॥ ॐ नमो भगवते वासुदेवाय ॥

॥ पञ्चदशोऽध्यायः ॥

सूत उवाच एवं कृष्णसखः कृष्णो भ्रात्रा राज्ञा विकल्पितः। नानाशङ्कास्पदं रूपं कृष्णविश्लेषकर्शितः ॥१॥ शोकेन शुष्यद्वदनहृत्सरोजो हतप्रभः। विभुं तमेवानुध्यायन्नाशक्नोत्प्रतिभाषितुम् ॥२॥ कृच्छ्रेण संस्तभ्य शुचः पाणिनाऽऽमृज्य नेत्रयोः। परोक्षेण समुन्नद्धप्रणयौत्कण्ठ्यकातरः ॥३॥ सख्यं मैत्रीं सौहृदं च सारथ्यादिषु संस्मरन्। नृपमग्रजमित्याह बाष्पगद्गदया गिरा ॥४॥ अर्जुन उवाच वञ्चितोऽहं महाराज हरिणा बन्धुरूपिणा। येन मेऽपहृतं तेजो देवविस्मापनं महत् ॥५॥ यस्य क्षणवियोगेन लोको ह्यप्रियदर्शनः। उक्थेन रहितो ह्येष मृतकः प्रोच्यते यथा ॥६॥ यत्संश्रयाद्द्रुपदगेहमुपागतानां राज्ञां स्वयंवरमुखे स्मरदुर्मदानाम्। तेजो हृतं खलु मयाभिहतश्च मत्स्यः सज्जीकृतेन धनुषाधिगता च कृष्णा ॥७॥ यत्सन्निधावहमु खाण्डवमग्नयेऽदा- मिन्द्रं च सामरगणं तरसा विजित्य। लब्धा सभा मयकृताद्भुतशिल्पमाया दिग्भ्योऽहरन् नृपतयो बलिमध्वरे ते ॥८॥ यत्तेजसा नृपशिरोऽङ्घ्रिमहन् मखार्थ- मार्योऽनुजस्तव गजायुतसत्त्ववीर्यः । तेनाहृताः प्रमथनाथमखाय भूपा यन्मोचितास्तदनयन् बलिमध्वरे ते ॥९॥ पत्न्यास्तवाधिमखकॢप्तमहाभिषेक- श्लाघिष्ठचारुकबरं कितवैः सभायाम्। स्पृष्टं विकीर्य पदयोः पतिताश्रुमुख्या यस्तत्स्त्रियोऽकृतहतेशविमुक्तकेशाः ॥१०॥ यो नो जुगोप वनमेत्य दुरन्तकृच्छ्रा- द्दुर्वाससोऽरिरचितादयुताग्रभुग् यः। शाकान्नशिष्टमुपयुज्य यतस्त्रिलोकीं तृप्ताममंस्त सलिले विनिमग्नसङ्घः ॥११॥ यत्तेजसाथ भगवान् युधि शूलपाणि- र्विस्मापितः सगिरिजोऽस्त्रमदान्निजं मे। अन्येऽपि चाहममुनैव कलेवरेण प्राप्तो महेन्द्रभवने महदासनार्धम् ॥१२॥ तत्रैव मे विहरतो भुजदण्डयुग्मं गाण्डीवलक्षणमरातिवधाय देवाः। सेन्द्राः श्रिता यदनुभावितमाजमीढ तेनाहमद्य मुषितः पुरुषेण भूम्ना ॥१३॥ यद्बान्धवः कुरुबलाब्धिमनन्तपार- मेको रथेन ततरेऽहमतीर्यसत्त्वम्। प्रत्याहृतं बहुधनं च मया परेषां तेजास्पदं मणिमयं च हृतं शिरोभ्यः ॥१४॥ यो भीष्मकर्णगुरुशल्यचमूष्वदभ्र- राजन्यवर्यरथमण्डलमण्डितासु। अग्रेचरो मम विभो रथयूथपाना- मायुर्मनांसि च दृशा सह ओज आर्च्छत् ॥१५॥ यद्दोःषु मा प्रणिहितं गुरुभीष्मकर्ण- नप्तृत्रिगर्तशलसैन्धवबाह्लिकाद्यैः। अस्त्राण्यमोघमहिमानि निरूपितानि नोपस्पृशुर्नृहरिदासमिवासुराणि ॥१६॥ सौत्ये वृतः कुमतिनाऽऽत्मद ईश्वरो मे यत्पादपद्ममभवाय भजन्ति भव्याः। मां श्रान्तवाहमरयो रथिनो भुविष्ठं न प्राहरन् यदनुभावनिरस्तचित्ताः ॥१७॥ नर्माण्युदाररुचिरस्मितशोभितानि हे पार्थ हेऽर्जुन सखे कुरुनन्दनेति। सञ्जल्पितानि नरदेव हृदिस्पृशानि स्मर्तुर्लुठन्ति हृदयं मम माधवस्य ॥१८॥ शय्यासनाटनविकत्थनभोजनादि- ष्वैक्याद्वयस्य ऋतवानिति विप्रलब्धः। सख्युः सखेव पितृवत्तनयस्य सर्वं सेहे महान् महितया कुमतेरघं मे ॥१९॥ सोऽहं नृपेन्द्र रहितः पुरुषोत्तमेन सख्या प्रियेण सुहृदा हृदयेन शून्यः। अध्वन्युरुक्रमपरिग्रहमङ्ग रक्षन् गोपैरसद्भिरबलेव विनिर्जितोऽस्मि ॥२०॥ तद्वै धनुस्त इषवः स रथो हयास्ते सोऽहं रथी नृपतयो यत आनमन्ति। सर्वं क्षणेन तदभूदसदीशरिक्तं भस्मन् हुतं कुहकराद्धमिवोप्तमूष्याम् ॥२१॥ राजंस्त्वयानुपृष्टानां सुहृदां नः सुहृत्पुरे। विप्रशापविमूढानां निघ्नतां मुष्टिभिर्मिथः ॥२२॥ वारुणीं मदिरां पीत्वा मदोन्मथितचेतसाम्। अजानतामिवान्योन्यं चतुःपञ्चावशेषिताः ॥२३॥ प्रायेणैतद्भगवत ईश्वरस्य विचेष्टितम्। मिथो निघ्नन्ति भूतानि भावयन्ति च यन्मिथः ॥२४॥ जलौकसां जले यद्वन्महान्तोऽदन्त्यणीयसः। दुर्बलान् बलिनो राजन् महान्तो बलिनो मिथः॥२५॥ एवं बलिष्ठैर्यदुभिर्महद्भिरितरान् विभुः। यदून् यदुभिरन्योन्यं भूभारान् सञ्जहार ह ॥२६॥ देशकालार्थयुक्तानि हृत्तापोपशमानि च। हरन्ति स्मरतश्चित्तं गोविन्दाभिहितानि मे ॥२७॥ सूत उवाच एवं चिन्तयतो जिष्णोः कृष्णपादसरोरुहम्। सौहार्देनातिगाढेन शान्ताऽऽसीद्विमला मतिः॥२८॥ वासुदेवाङ्घ्र्यनुध्यानपरिबृंहितरंहसा। भक्त्या निर्मथिताशेषकषायधिषणोऽर्जुनः ॥२९॥ गीतं भगवता ज्ञानं यत्तत्सङ्ग्राममूर्धनि। कालकर्मतमोरुद्धं पुनरध्यगमत्प्रभुः ॥३०॥ विशोको ब्रह्मसम्पत्त्या संच्छिन्नद्वैतसंशयः। लीनप्रकृतिनैर्गुण्यादलिङ्गत्वादसम्भवः ॥३१॥ निशम्य भगवन्मार्गं संस्थां यदुकुलस्य च। स्वःपथाय मतिं चक्रे निभृतात्मा युधिष्ठिरः ॥३२॥ पृथाप्यनुश्रुत्य धनञ्जयोदितं नाशं यदूनां भगवद्गतिं च ताम्। एकान्तभक्त्या भगवत्यधोक्षजे निवेशितात्मोपरराम संसृतेः ॥३३॥ ययाहरद्भुवो भारं तां तनुं विजहावजः। कण्टकं कण्टकेनेव द्वयं चापीशितुः समम् ॥३४॥ यथा मत्स्यादिरूपाणि धत्ते जह्याद्यथा नटः। भूभारः क्षपितो येन जहौ तच्च कलेवरम् ॥३५॥ यदा मुकुन्दो भगवानिमां महीं जहौ स्वतन्वा श्रवणीयसत्कथः। तदा हरेवाप्रतिबुद्धचेतसा- मधर्महेतुः कलिरन्ववर्तत ॥३६॥ युधिष्ठिरस्तत्परिसर्पणं बुधः पुरे च राष्ट्रे च गृहे तथाऽऽत्मनि। विभाव्य लोभानृतजिह्महिंसनाद्यधर्मचक्रं गमनाय पर्यधात् ॥३७॥ स्वराट् पौत्रं विनयिनमात्मनः सुसमं गुणैः। तोयनीव्याः पतिं भूमेरभ्यषिञ्चद्गजाह्वये ॥३८॥ मथुरायां तथा वज्रं शूरसेनपतिं ततः। प्राजापत्यां निरूप्येष्टिमग्नीनपिबदीश्वरः ॥३९॥ विसृज्य तत्र तत्सर्वं दुकूलवलयादिकम्। निर्ममो निरहङ्कारः स<च्छिन्नाशेषबन्धनः ॥४०॥ वाचं जुहाव मनसि तत्प्राण इतरे च तम्। मृत्यावपानं सोत्सर्गं तं पञ्चत्वे ह्यजोहवीत् ॥४१॥ त्रित्वे हुत्वा च पञ्चत्वं तच्चैकत्वेऽजुहोन्मुनिः। सर्वमात्मन्यजुहवीद्ब्रह्मण्यात्मानमव्यये ॥४२॥ चीरवासा निराहारो बद्धवाङ्मुक्तमूर्धजः। दर्शयन्नात्मनो रूपं जडोन्मत्तपिशाचवत् ॥४३॥ अनवेक्षमाणो निरगादशृण्वन् बधिरो यथा। उदीचीं प्रविवेशाशां गतपूर्वां महात्मभिः। हृदि ब्रह्म परं ध्यायन् नावर्तेत यतो गतः ॥४४॥ सर्वे तमनुनिर्जग्मुर्भ्रातरः कृतनिश्चयाः। कलिनाधर्ममित्रेण दृष्ट्वा स्पृष्टाः प्रजा भुवि ॥४५॥ ते साधुकृतसर्वार्था ज्ञात्वात्यन्तिकमात्मनः। मनसा धारयामासुर्वैकुण्ठचरणाम्बुजम् ॥४६॥ तद्ध्यानोद्रिक्तया भक्त्या विशुद्धधिषणाः परे। तस्मिन् नारायणपदे एकान्तमतयो गतिम् ॥४७॥ अवापुर्दुरवापां ते असद्भिर्विषयात्मभिः। विधूतकल्मषा स्थानं विरजेनात्मनैव हि ॥४८॥ विदुरोऽपि परित्यज्य प्रभासे देहमात्मनः। कृष्णावेशेन तच्चित्तः पितृभिः स्वक्षयं ययौ ॥४९॥ द्रौपदी च तदाज्ञाय पतीनामनपेक्षताम्। वासुदेवे भगवति ह्येकान्तमतिराप तम् ॥५०॥ यः श्रद्धयैतद्भगवत्प्रियाणां पाण्डोः सुतानामिति सम्प्रयाणम्। शृणोत्यलं स्वस्त्ययनं पवित्रं लब्ध्वा हरौ भक्तिमुपैति सिद्धिम् ॥५१॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे पाण्डवस्वर्गारोहणं नाम पञ्चदशोऽध्यायः ॥१५॥

॥ ॐ नमो भगवते वासुदेवाय ॥

॥ षोडशोऽध्यायः ॥

सूत उवाच ततः परीक्षिद्द्विजवर्यशिक्षया महीं महाभागवतः शशास ह। यथा हि सूत्यामभिजातकोविदाः समादिशन् विप्र महद्गुणस्तथा ॥१॥ स उत्तरस्य तनयामुपयेम इरावतीम्। जनमेजयादींश्चतुरस्तस्यामुत्पादयत्सुतान् ॥२॥ आजहाराश्वमेधांस्त्रीन् गङ्गायां भूरिदक्षिणान्। शारद्वतं गुरुं कृत्वा देवा यत्राक्षिगोचराः ॥३॥ निजग्राहौजसा वीरः कलिं दिग्विजये क्वचित्। नृपलिङ्गधरं शूद्रं घ्नन्तं गोमिथुनं पदा ॥४॥ शौनक उवाच कस्य हेतोर्निजग्राह कलिं दिग्विजये नृपः। नृदेवचिह्नधृक् शूद्रः कोऽसौ गां यः पदाहनत्। तत्कथ्यतां महाभाग यदि कृष्णकथाश्रयम् ॥५॥ अथवास्य पदाम्भोजमकरन्दलिहां सताम्। किमन्यैरसदालापैरायुषो यदसद्व्ययः ॥६॥ क्षुद्रायुषां नृणामङ्ग मर्त्यानामृतमिच्छताम्। इहोपहूतो भगवान् मृत्युः शामित्रकर्मणि ॥७॥ न कश्चिन्म्रियते तावद्यावदास्त इहान्तकः। एतदर्थं हि भगवानाहूतः परमर्षिभिः। अहो नृलोके पीयेत हरिलीलामृतं वचः ॥८॥ मन्दस्य मन्दप्रज्ञस्य वयो मन्दायुषश्च वै। निद्रया ह्रियते नक्तं दिवा च व्यर्थकर्मभिः ॥९॥ सूत उवाच यदा परीक्षित्कुरुजाङ्गलेऽशृणोत्कलिं प्रविष्टं निजचक्रवर्तिते। निशम्य वार्तामनतिप्रियां ततः शरासनं संयुगशौण्डिराददे ॥१०॥ स्वलङ्कृतं श्यामतुरङ्गयोजितं रथं मृगेन्द्रध्वजमाश्रितः पुरात्। वृतो रथाश्वद्विपपत्तियुक्तया स्वसेनया दिग्विजयाय निर्गतः ॥११॥ भद्राश्वं केतुमालं च भारतं चोत्तरान् कुरून्। किम्पुरुषादीनि वर्षाणि विजित्य जगृहे बलिम्॥१२॥ (नगरांश्च वनांश्चैव नदीश्च विमलोदकाः। पुरुषान् देवकल्पांश्च नारीश्च प्रियदर्शनाः ॥ अदृष्टपूर्वान् सुभगान् स ददर्श धनञ्जयः। सदनानि च शुभ्राणि नारीश्चाप्सरसां निभाः ॥) तत्र तत्रोपशृण्वानः स्वपूर्वेषां महात्मनाम्। प्रगीयमाणं च यशः कृष्णमाहात्म्यसूचकम् ॥१३॥ आत्मानं च परित्रातमश्वत्थाम्नोऽस्त्रतेजसः। स्नेहं च वृष्णिपार्थानां तेषां भक्तिं च केशवे ॥१४॥ तेभ्यः परमसन्तुष्टः प्रीत्युज्जृम्भितलोचनः। महाधनानि वासांसि ददौ हारान् महामनाः ॥१५॥ सारथ्यपारषदसेवनसख्यदौत्य- वीरासनानुगमनस्तवनप्रणामान् । स्निग्धेषु पाण्डुषु जगत्प्रणतिं च विष्णोः भक्तिं करोति नृपतिश्चरणारविन्दे ॥१६॥ तस्यैवं वर्तमानस्य पूर्वेषां वृत्तिमन्वहम्। नातिदूरे किलाश्चर्यं यदासीत्तन्निबोध मे ॥१७॥ धर्मः पदैकेन चरन् विच्छायामुपलभ्य गाम्। पृच्छति स्माश्रुवदनां विवत्सामिव मातरम् ॥१८॥ धर्म उवाच कच्चिद्भद्रेऽनामयमात्मनस्ते विच्छायासि म्लायतेषन्मुखेन। आलक्षये भवतीमन्तराधिं दूरे बन्धुं शोचसि कञ्चनाम्ब ॥१९॥ पादैर्न्यूनं शोचसि मैकपादमात्मानं वा वृषलैर्भोक्ष्यमाणम्। आहो सुरादीन् हृतयज्ञभागान् प्रजा उत स्विन्मघवत्यवर्षति ॥२०॥ अरक्ष्यमाणाः स्त्रिय उर्वि बालान् शोचस्यथो पुरुषादैरिवार्तान्। वाचं देवीं ब्रह्मकुले कुकर्मण्यब्रह्मण्ये राजकुले कुलाग्र्यान् ॥२१॥ किं क्षत्रबन्धून् कलिनोपसृष्टान् राष्ट्राणि वा तैरवरोपितानि। इतस्ततो वाशनपानवासः स्नानव्यवायोन्मुखजीवलोकम् ॥२२॥ यद्वाम्ब ते भूरिभरावतार- कृतावतारस्य हरेर्धरित्रि। अन्तर्हितस्य स्मरती विसृष्टा कर्माणि निर्वाणविलम्बितानि ॥२३॥ इदं ममाचक्ष्व तवाधिमूलं वसुन्धरे येन विकर्शितासि। कालेन वा ते बलिनां बलीयसा सुरार्चितं किं हृतमम्ब सौभगम् ॥२४॥ धरण्युवाच भवान् हि वेद तत्सर्वं यन्मां धर्मानुपृच्छसि। चतुर्भिर्वर्तसे येन पादैर्लोकसुखावहैः ॥२५॥ सत्यं शौचं दया क्षान्तिस्त्यागः सन्तोष आर्जवम्। शमो दमस्तपः साम्यं तितिक्षोपरतिः श्रुतम् ॥२६॥ ज्ञानं विरक्तिरैश्वर्यं शौर्यं तेजो बलं स्मृतिः। स्वातन्त्र्यं कौशलं कान्तिर्धैर्यं मार्दवमेव च ॥२७॥ प्रागल्भ्यं प्रश्रयः शीलं सह ओजो बलं भगः। गाम्भीर्यं स्थैर्यमास्तिक्यं कीर्तिर्मानोऽनहङ्कृतिः॥२८॥ एते चान्ये च भगवन् नित्या यत्र महागुणाः। प्रार्थ्या महत्त्वमिच्छद्भिर्न वियन्ति स्म कर्हिचित्॥२९॥ तेनाहं गुणपात्रेण श्रीनिवासेन साम्प्रतम्। शोचामि रहितं लोकं पाप्मना कलिनेक्षितम् ॥३०॥ आत्मानं चानुशोचामि भवन्तं चामरोत्तमम्। देवानृषीन् पितॄन् साधून् सर्वान् वर्णांस्तथाश्रमान् ॥३१॥ ब्रह्मादयो बहुतिथं यदपाङ्गमोक्षकामास्तपः समचरन् भगवत्प्रपन्नाः। सा श्रीः स्ववासमरविन्दवनं विहाय यत्पादसौभगमलं भजतेऽनुरक्ता ॥३२॥ तस्याहमब्जकुलिशाङ्कुशकेतुकेतैः श्रीमत्पदैर्भगवतः समलङ्कृताङ्गी । त्रीनत्यरोच उपलभ्य ततो विभूतिं लोकान् स मां व्यसृजदुत्स्मयतीं तदन्ते ॥३३॥ यो वै ममातिभरमासुरवंशराज्ञा- मक्षौहिणीशतमपानुददात्मतन्त्रः । त्वां दुःस्थमूनपदमात्मनि पौरुषेण सम्पादयन् यदुषु रम्यमबिभ्रदङ्गम् ॥३४॥ का वा सहेत विरहं पुरुषोत्तमस्य प्रेमावलोकरुचिरस्मितवल्गुजल्पैः। स्थैर्यं समानमहरन्मधुमानिनीनां रोमोत्सवो मम यदङ्घ्रिविटङ्कितायाः ॥३५॥ तयोरेवं कथयतोः पृथिवीधर्मयोस्तदा। परीक्षिन्नाम राजर्षिः प्राप्तः प्राचीं सरस्वतीम् ॥३६॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे पृथ्वीधर्मसंवादो नाम षोडशोऽध्यायः ॥१६॥

॥ ॐ नमो भगवते वासुदेवाय ॥

॥ सप्तदशोऽध्यायः ॥

सूत उवाच तत्र गोमिथुनं राजा हन्यमानमनाथवत्। दण्डहस्तं च वृषलं ददृशे नृपलाञ्छनम् ॥१॥ वृषं मृणालधवलं मेहन्तमिव बिभ्यतम्। वेपमानं पदैकेन सीदन्तं शूद्रताडितम् ॥२॥ गां च धर्मदुघां दीनां भृशं शूद्रपदाहताम्। विवत्सां साश्रुवदनां क्षामां यवसमिच्छतीम् ॥३॥ पप्रच्छ रथमारूढः कार्तस्वरपरिच्छदम्। मेघगम्भीरया वाचा समारोपितकार्मुकः ॥४॥ कस्त्वं मच्छरणे लोके बलाद्धंस्यबलान् बली। नरदेवोऽसि वेषेण नटवत्कर्मणाद्विजः ॥५॥ कस्त्वं कृष्णे गते दूरं सहगाण्डीवधन्वना। शोच्योऽस्यशोच्यान् रहसि प्रहरन् वधमर्हसि ॥६॥ त्वं वा मृणालधवलः पादैर्न्यूनः पदा चरन्। वृषरूपेण किं कश्चिद्देवो नः परिखेदयन् ॥७॥ न जातु कौरवेन्द्राणां दोर्दण्डपरिरम्भिते। भूतलेऽनुपतन्त्यस्मिन् विना ते प्राणिनां शुचः॥८॥ मा सौरभेयानुशुचो व्येतु ते वृषलाद्भयम्। मा रोदीरम्ब भद्रं ते खलानां मयि शास्तरि ॥९॥ यस्य राष्ट्रे प्रजाः सर्वास्त्रस्यन्ते साध्व्यसाधुभिः। तस्य मत्तस्य नश्यन्ति कीर्तिरायुर्भगो गतिः ॥१०॥ एष राज्ञां परो धर्मो ह्यार्तानामार्तिनिग्रहः। अत एनं वधिष्यामि भूतद्रुहमसत्तमम् ॥११॥ कोऽवृश्चत्तव पादांस्त्रीन् सौरभेय चतुष्पद। मा भूवंस्त्वादृशा राष्ट्रे राज्ञां कृष्णानुवर्तिनाम् ॥१२॥ आख्याहि वृष भद्रं वः साधूनामकृतागसाम्। आत्मवैरूप्यकर्तारं पार्थानां कीर्तिदूषणम् ॥१३॥ जनेनागस्यघं युञ्जन् सर्वतोऽस्य च मद्भयम्। साधूनां भद्रमेव स्यादसाधुदमने कृते ॥१४॥ अनागःस्विह भूतेषु य आगस्कृन्निरङ्कुशः। आहर्तास्मि भुजं साक्षादमर्त्यस्यापि साङ्गदम् ॥१५॥ राज्ञो हि परमो धर्मः स्वधर्मस्थानुपालनम्। शासतोऽन्यान् यथाशास्त्रमनापद्युत्पथानिह ॥१६॥ धर्म उवाच एतद्वः पाण्डवेयानां युक्तमार्ताभयं वचः। येषां गुणगणैः कृष्णो दौत्यादौ भगवान् कृतः ॥१७॥ न वयं क्लेशबीजानि यतः स्युः पुरुषर्षभ। पुरुषं तं विजानीमो वाक्यभेदविमोहिताः ॥१८॥ केचिद्विकल्पवसना आहुरात्मानमात्मनः। दैवमन्ये परे कर्म स्वभावमपरे प्रभुम् ॥१९॥ अप्रतर्क्यादनिर्देश्यादिति केष्वपि निश्चयः। अत्रानुरूपं राजर्षे विमृश स्वमनीषया ॥२०॥ सूत उवाच एवं धर्मे प्रवदति स सम्राड्-द्विजसत्तम । समाहितेन मनसा विखेदः पर्यचष्ट तम् ॥२१॥ राजोवाच धर्मं ब्रवीषि धर्मज्ञ धर्मोऽसि वृषरूपधृक्। यदधर्मकृतः स्थानं सूचकस्यापि तद्भवेत् ॥२२॥ अथवा देवमायाया नूनं गतिरगोचरा। चेतसो वचसश्चापि भूतानामिति निश्चयः ॥२३॥ तपः शौचं दया सत्यमिति पादाः कृते कृताः। अधर्मांशैस्त्रयो भग्नाः स्मयसङ्गमदैस्तव ॥२४॥ इदानीं धर्म पादस्ते सत्यं निर्वर्तयेद्यतः। तं जिघृक्षत्यधर्मोऽयमनृतेनैधितः कलिः ॥२५॥ इयं च भूमिर्भगवता न्यासितोरुभरा सती। श्रीमद्भिस्तत्पदन्यासैः सर्वतः कृतकौतुका ॥२६॥ शोचत्यश्रुकला साध्वी दुर्भगेवोज्झिताधुना। अब्रह्मण्या नृपव्याजाः शूद्रा भोक्ष्यन्ति मामिति॥२७॥ इति धर्मं महीं चैव सान्त्वयित्वा महारथः। निशातमाददे खड्गं कलयेऽधर्महेतवे ॥२८॥ तं जिघांसुमभिप्रेत्य विहाय नृपलाञ्छनम्। तत्पादमूलं शिरसा समगाद्भयविह्वलः ॥२९॥ पतितं पादयोर्वीरः कृपया दीनवत्सलः। शरण्यो नावधीच्छ्लोक्य आह चेदं हसन्निव ॥३०॥ राजोवाच न ते गुडाकेशयशोधराणां बद्धाञ्जलेर्वै भयमस्ति किञ्चित्। न वर्तितव्यं भवता कथञ्चन क्षेत्रे मदीये त्वमधर्मबन्धुः ॥३१॥ त्वां वर्तमानं नरदेवदेहे- ष्वनुप्रवृत्तोऽयमधर्मपूगः। लोभोऽनृतं चौर्यमनार्यमंहो ज्येष्ठा च माया कलहश्च दम्भः ॥३२॥ न वर्तितव्यं तदधर्मबन्धो धर्मेण सत्येन च वर्तितव्ये। ब्रह्मावर्ते यत्र यजन्ति यज्ञैर्यज्ञेश्वरं यज्ञवितानविज्ञाः ॥३३॥ यस्मिन् हरिर्भगवानिज्यमान इज्यामूर्तिर्यजतां शं तनोति। कामानमोघान् स्थिरजङ्गमाना- मन्तर्बहिर्वायुरिवैष आत्मा ॥३४॥ सूत उवाच परीक्षितैवमादिष्टः स कलिर्जातवेपथुः। तमुद्यतासिमाहेदं दण्डपाणिमिवोद्यतम् ॥३५॥ कलिरुवाच यत्र क्वचन वत्स्यामि सार्वभौम तवाज्ञया। लक्षये तत्र तत्रापि त्वामात्तेषुशरासनम् ॥३६॥ तन्मे धर्मभृतां श्रेष्ठ स्थानं निर्देष्टुमर्हसि। यत्रैव नियतो वत्स्य आतिष्ठंस्तेऽनुशासनम् ॥३७॥ सूत उवाच अभ्यर्थितस्तदा तस्मै स्थानानि कलये ददौ। द्यूतं पानं स्त्रियः सूना यत्राधर्मश्चतुर्विधः ॥३८॥ पुनश्च याचमानाय जातरूपमदात्प्रभुः। ततोऽनृतं मदं कामं रजो वैरं च पञ्चमम् ॥३९॥ अमूनि पञ्च स्थानानि ह्यधर्मप्रभवः कलिः। औत्तरेयेण दत्तानि न्यवसत्तन्निदेशकृत् ॥४०॥ अथैतानि न सेवेत बुभूषुः पुरुषः क्वचित्। विशेषतो धर्मशीलो राजा लोकपतिर्गुरुः ॥४१॥ वृषस्य नष्टांस्त्रीन् पादान् तपः शौचं दयामिति। प्रतिसन्दध आश्वास्य महीं च समवर्धयत् ॥४२॥ स एष एतर्ह्यध्यास्त आसनं पार्थिवोचितम्। पितामहेनोपन्यस्तं राज्ञारण्यं विविक्षता ॥४३॥ आस्तेऽधुना स राजर्षिः कौरवेन्द्रश्रियोल्लसन्। गजाह्वये महाभागश्चक्रवर्ती बृहच्छ्रवाः ॥४४॥ इत्थम्भूतानुभावोऽयमभिमन्युसुतो नृपः। यस्य पालयतः क्षोणीं यूयं सत्राय दीक्षिताः ॥४५॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे कलिनिग्रहो नाम सप्तदशोऽध्यायः ॥१७॥

॥ ॐ नमो भगवते वासुदेवाय ॥

॥ अष्टादशोऽध्यायः ॥

सूत उवाच यो वै द्रौण्यस्त्रविप्लुष्टो न मातुरुदरे मृतः। अनुग्रहाद्भगवतः कृष्णस्याद्भुतकर्मणः ॥१॥ ब्रह्मकोपोत्थिताद्यस्तु तक्षकात्प्राणविप्लवात्। न सम्मुमोहोरुभयाद्भगवत्यर्पिताशयः ॥२॥ उत्सृज्य सर्वतः सङ्गं विज्ञाताजितसंस्थितिः। वैयासकेर्जहौ शिष्यो गङ्गायां स्वं कलेवरम् ॥३॥ नोत्तमश्लोकवार्तानां जुषतां तत्कथामृतम्। स्यात्सम्भ्रमोऽन्तकालेऽपि स्मरतां तत्पदाम्बुजम् ॥४॥ तावत्कलिर्न प्रभवेत्प्रविष्टोऽपीह सर्वतः। यावदीशो महानुर्व्यामाभिमन्यव एकराट् ॥५॥ यस्मिन्नहनि यर्ह्येव भगवानुत्ससर्ज गाम्। तदैवेहानुवृत्तोऽसावधर्मप्रभवः कलिः ॥६॥ नानुद्वेष्टि कलिं सम्राट् सारङ्ग इव सारभुक्। कुशलान्याशु सिद्ध्यन्ति नेतराणि कृतानि यत् ॥७॥ किं नु बालेषु शूरेण कलिना धीरभीरुणा। अप्रमत्तः प्रमत्तेषु यो वृको नृषु वर्तते ॥८॥ उपवर्णितमेतद्वः पुण्यं पारीक्षितं मया। वासुदेवकथोपेतमाख्यानं यदपृच्छत ॥९॥ या याः कथा भगवतः कथनीयोरुकर्मणः। गुणकर्माश्रयाः पुम्भिः संसेव्यास्ता बुभूषुभिः ॥१०॥ ऋषय ऊचुः सूत जीव समाः सौम्य शाश्वतीर्विशदं यशः। यस्त्वं शंससि कृष्णस्य मर्त्यानाममृतं हि नः ॥११॥ कर्मण्यस्मिन्ननाश्वासे धूमधूम्रात्मनां भवान्। आपाययति गोविन्दपादपद्मासवं मधु ॥१२॥ तुलयाम लवेनापि न स्वर्गं नापुनर्भवम्। भगवत्सङ्गिसङ्गस्य मर्त्यानां किमुताशिषः ॥१३॥ को नाम तृप्येद्रसवित्कथायां महत्तमैकान्तपरायणस्य। नान्तं गुणानामगुणस्य जग्मुर्योगेश्वरा ये भवपाद्ममुख्याः ॥१४॥ तन्नो भवान् वै भगवत्प्रधानो महत्तमैकान्तपरायणस्य। हरेरुदारं चरितं विशुद्धं शुश्रूषतां नो वितनोतु विद्वन् ॥१५॥ स वै महाभागवतः परीक्षि- द्येनापवर्गाख्यमदभ्रबुद्धिः। ज्ञानेन वैयासकिशब्दितेन भेजे खगेन्द्रध्वजपादमूलम् ॥१६॥ तन्नः परं पुण्यमसंवृतार्थ- माख्यानमत्यद्भुतयोगनिष्ठम्। आख्याह्यनन्ताचरितोपपन्नं पारीक्षितं भागवताभिरामम् ॥१७॥ सूत उवाच अहो वयं जन्मभृतोऽद्य हास्म वृद्धानुवृत्त्यापि विलोमजाताः। दौष्कुल्यमाधिं विधुनोति शीघ्रं महत्तमानामभिधानयोगः ॥१८॥ कुतः पुनर्गृणतो नाम तस्य महत्तमैकान्तपरायणस्य। योऽनन्तशक्तिर्भगवाननन्तो महद्गुणत्वाद्यमनन्तमाहुः ॥१९॥ एतावतालं ननु सूचितेन गुणैरसाम्यानतिशायनस्य। हित्वेतरान् प्रार्थयतो विभूति- र्यस्याङ्घ्रिरेणुं जुषतेऽनभीप्सोः ॥२०॥ अथापि यत्पादनखावसृष्टं जगद्विरिञ्चोपहृतार्हणाम्भः। सेशं पुनात्यन्यतमो मुकुन्दात्को नाम लोके भगवत्पदार्थः ॥२१॥ यत्रानुरक्ताः सहसैव धीरा व्यपोह्य देहादिषु सङ्गमूढम्। व्रजन्ति तत्पारमहंस्यमन्त्यं यस्मिन्नहिंसोपशमः स्वधर्मः ॥२२॥ अहं हि पृष्टोऽर्यमणो भवद्भिराचक्ष आत्मावगमोऽत्र यावान्। नभः पतन्त्यात्मसमं पतत्त्रिणस्तथा समं विष्णुगतिं विपश्चितः ॥२३॥ एकदा धनुरुद्यम्य विचरन् मृगयां वने। मृगाननुगतः श्रान्तः क्षुधितस्तृषितो भृशम् ॥२४॥ जलाशयमचक्षाणः प्रविवेश तमाश्रमम्। ददर्श मुनिमासीनं शान्तं मीलितलोचनम् ॥२५॥ प्रतिरुद्धेन्द्रियप्राणमनोबुद्धिमुपारतम्। स्थानत्रयात्परं प्राप्तं ब्रह्मभूतमविक्रियम् ॥२६॥ विप्रकीर्णजटाच्छन्नं रौरवेणाजिनेन च। विशुष्यत्तालुरुदकं तथाभूतमयाचत ॥२७॥ अलब्धतृणभूम्यादिरसम्प्राप्तार्घ्यसूनृतः। अवज्ञातमिवात्मानं मन्यमानश्चुकोप ह ॥२८॥ अभूतपूर्वः सहसा क्षुत्तृट्भ्यामर्दितात्मनः। ब्राह्मणं प्रत्यभूद्ब्रह्मन् मत्सरो मन्युरेव च ॥२९॥ स तु ब्रह्मऋषेरंसे गतासुमुरगं रुषा। विनिर्गच्छन् धनुष्कोट्या निधाय पुरमागमत् ॥३०॥ एष किं निभृताशेषकरणो मीलितेक्षणः। मृषासमाधिराहोस्वित्किं नु स्यात्क्षत्रबन्धुभिः ॥३१॥ तस्य पुत्रोऽतितेजस्वी विहरन् बालकोऽर्भकैः। राज्ञाघं प्रापितं तातं श्रुत्वा तत्रेदमब्रवीत् ॥३२॥ अहो अधर्मः पालानां पीव्नां बलिभुजामिव। स्वामिन्यघं यद्दासानां द्वारपानां शुनामिव ॥३३॥ ब्राह्मणैः क्षत्रबन्धुर्हि गृहपालो निरूपितः। स कथं तद्गृहे द्वाःस्थः सभाण्डं भोक्तुमर्हति ॥३४॥ कृष्णे गते भगवति शास्तर्युत्पथगामिनाम्। तद्भिन्नसेतूनद्याहं शास्मि पश्यत मे बलम् ॥३५॥ इत्युक्त्वा रोषताम्राक्षो वयस्यान् ऋषिबालकः। कौशिक्याप उपस्पृश्य वाग्वज्रं विससर्ज ह ॥३६॥ इति लङ्घितमर्यादं तक्षकः सप्तमेऽहनि। दङ्क्ष्यति स्म कुलाङ्गारं चोदितो मे ततद्रुहम् ॥३७॥ ततोऽभ्येत्याश्रमं बालो गले सर्पकलेवरम्। पितरं वीक्ष्य दुःखार्तो मुक्तकण्ठो रुरोद ह ॥३८॥ स वा आङ्गिरसो ब्रह्मन् श्रुत्वा सुतविलापनम्। उन्मील्य शनकैर्नेत्रे दृष्ट्वा स्वांसे मृतोरगम् ॥३९॥ विसृज्य तं च पप्रच्छ वत्स कस्माद्धि रोदिषि। केन वा ते प्रतिकृतमित्युक्तः स न्यवेदयत् ॥४०॥ निशम्य शप्तमतदर्हं नरेन्द्रं स ब्राह्मणो नात्मजमभ्यनन्दत्। अहो बतांहो महदद्य ते कृत- मल्पीयसि द्रोह उरुर्दमो धृतः ॥४१॥ न वै नृभिर्नरदेवं पराख्यं सम्मातुमर्हस्यविपक्वबुद्धे। यत्तेजसा दुर्विषहेण गुप्ता विन्दन्ति भद्राण्यकुतोभयाः प्रजाः ॥४२॥ अलक्ष्यमाणे नरदेवनाम्नि रथाङ्गपाणावयमङ्ग लोकः। तदा हि चौरप्रचुरो विनङ्क्ष्य- त्यरक्ष्यमाणोऽविवरूथवत्क्षणात् ॥४३॥ तदद्य नः पापमुपैत्यनन्वयं यन्नष्टनाथस्य वसोर्विलुम्पकात्। परस्परं घ्नन्ति शपन्ति वृञ्जते पशून् स्त्रियोऽर्थान् पुरुदस्यवो जनाः ॥४४॥ तदाऽऽर्यधर्मश्च विलीयते नृणां वर्णाश्रमाचारयुतस्त्रयीमयः। ततोऽर्थकामाभिनिवेशितात्मनां शुनां कपीनामिव वर्णसङ्करः ॥४५॥ धर्मपालो नरपतिः स तु सम्राट्बृहच्छ्रवाः। साक्षान्महाभागवतो राजर्षिर्हयमेधयाट्। क्षुत्तृट् श्रमयुतो दीनो नैवास्मच्छापमर्हति ॥४६॥ अपापेषु स्वभृत्येषु बालेनापक्वबुद्धिना। पापं कृतं तद्भगवान् सर्वात्मा क्षन्तुमर्हति ॥४७॥ तिरस्कृता विप्रलब्धाः शप्ताः क्षिप्ता हता अपि। नास्य तत्प्रतिकुर्वन्ति तद्भक्ताः प्रभवोऽपि हि ॥४८॥ इति पुत्रकृताघेन सोऽनुतप्तो महामुनिः। स्वयं विप्रकृतो राज्ञा नैवाघं तदचिन्तयत् ॥४९॥ प्रायशः साधवो लोके परैर्द्वन्द्वेषु योजिताः। न व्यथन्ति न हृष्यन्ति यत आत्मागुणाश्रयः ॥५०॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे विप्रशापोपलम्भनं नामाष्टादशोऽध्यायः ॥१८॥

॥ ॐ नमो भगवते वासुदेवाय ॥

॥ एकोनविंशोऽध्यायः ॥

सूत उवाच महीपतिस्त्वथ तत्कर्म गर्ह्यं विचिन्तयन्नात्मकृतं सुदुर्मनाः। अहो मया नीचमनार्यवत्कृतं निरागसि ब्रह्मणि गूढतेजसि ॥१॥ ध्रुवं ततो मे कृतदेवहेलनाद्दुरत्ययं व्यसनं नातिदीर्घात्। तदस्तु कामं त्वघनिष्कृताय मे यथा न कुर्यां पुनरेवमद्धा ॥२॥ अद्यैव राज्यं बलमृद्धकोशं प्रकोपितब्रह्मकुलानलो मे। दहत्वभद्रस्य पुनर्न मेऽभू- त्पापीयसी धीर्द्विजदेवगोभ्यः ॥३॥ स चिन्तयन्नित्थमथाशृणोद्यथा मुनेः सुतोक्तो निरृतिस्तक्षकाख्यः। स साधु मेने न चिरेण तक्षकानलं प्रसक्तस्य विरक्तिकारणम् ॥४॥ अथो विहायेमममुं च लोकं विमर्शितौ हेयतया पुरस्तात्। कृष्णाङ्घ्रिसेवामधिमन्यमान उपाविशत्प्रायममर्त्यनद्याम् ॥५॥ या वै लसच्छ्रीतुलसीविमिश्र- कृष्णाङ्घ्रिरेण्वभ्यधिकाम्बुनेत्री। पुनाति लोकानुभयत्र सेशान् कस्तां न सेवेत मरिष्यमाणः ॥६॥ इति व्यवच्छिद्य स पाण्डवेयः प्रायोपवेशं प्रति विष्णुपद्याम्। दध्यौ मुकुन्दाङ्घ्रिमनन्यभावो मुनिव्रतो मुक्तसमस्तसङ्गः ॥७॥ तत्रोपजग्मुर्भुवनं पुनाना महानुभावा मुनयः सशिष्याः। प्रायेण तीर्थाभिगमापदेशैः स्वयं हि तीर्थानि पुनन्ति सन्तः ॥८॥ अत्रिर्वसिष्ठश्च्यवनः शरद्वा- नरिष्टनेमिर्भृगुरङ्गिराश्च। पराशरो गाधिसुतोऽथ राम उतथ्य इन्द्रप्रमदेध्मवाहौ ॥९॥ मेधातिथिर्देवल आर्ष्टिषेणो भारद्वाजो गौतमः पिप्पलादः। मैत्रेय और्वः कवषः कुम्भयोनि- र्द्वैपायनो भगवान्नारदश्च ॥१०॥ अन्ये च देवर्षिब्रह्मर्षिवर्या राजर्षिवर्या अरुणादयश्च। नानार्षेयप्रवरान् समेता- नभ्यर्च्य राजा शिरसा ववन्दे ॥११॥ सुखोपविष्टेष्वथ तेषु भूयः कृतप्रणामः स्वचिकीर्षितं यत्। विज्ञापयामास विविक्तचेता उपस्थितोऽग्रेऽभिगृहीतपाणिः ॥१२॥ राजोवाच अहो वयं धन्यतमा नृपाणां महत्तमानुग्रहणीयशीलाः। राज्ञां कुलं ब्राह्मणपादशौचा- द्दूराद्विसृष्टं बत गर्ह्यकर्म ॥१३॥ तस्यैव मेऽघस्य परावरेशो व्यासक्तचित्तस्य गृहेष्वभीक्ष्णम्। निर्वेदमूलो द्विजशापरूपो यत्र प्रसक्तो भयमाशु धत्ते ॥१४॥ तं मोपयातं प्रतियन्तु विप्रा गङ्गा च देवी धृतचित्तमीशे। द्विजोपसृष्टः कुहकस्तक्षको वा दशत्वलं गायत विष्णुगाथाः ॥१५॥ पुनश्च भूयाद्भगवत्यनन्ते रतिः प्रसङ्गश्च तदाश्रयेषु। महत्सु यां यामुपयामि सृष्टिं मैत्र्यस्तु सर्वत्र नमो द्विजेभ्यः ॥१६॥ इति स्म राजाध्यवसाययुक्तः प्राचीनमूलेषु कुशेषु धीरः। उदङ्मुखो दक्षिणकूल आस्ते समुद्रपत्न्याः स्वसुतन्यस्तभारः ॥१७॥ एवं च तस्मिन् नरदेवदेवे प्रायोपविष्टे दिवि देवसङ्घाः। प्रशस्य भूमौ व्यकिरन् प्रसूनैर्मुदा मुहुर्दुन्दुभयश्च नेदुः ॥१८॥ महर्षयो वै समुपागता ये प्रशस्य साध्वित्यनुमोदमानाः। ऊचुः प्रजानुग्रहशीलसारा यदुत्तमश्लोकगुणाभिरूपम् ॥१९॥ न वा इदं राजर्षिवर्य चित्रं भवत्सु कृष्णं समनुव्रतेषु। येऽध्यासनं राजकिरीटजुष्टं सद्यो जहुर्भगवत्पार्श्वकामाः ॥२०॥ सर्वे वयं तावदिहास्महेऽद्य कलेवरं यावदसौ विहाय। लोकं परं विरजस्कं विशोकं यास्यत्ययं भागवतप्रधानः ॥२१॥ आश्रुत्य तदृषिगणवचः परीक्षित्समं मधुच्युद्गुरु चाव्यलीकम्। आभाषतैनानभिनन्द्य युक्तान् शुश्रूषमाणश्चरितानि विष्णोः ॥२२॥ समागताः सर्वत एव सर्वे वेदा यथा मूर्तिधरास्त्रिपृष्ठे। नेहाथ नामुत्र च कश्चनार्थ ऋते परानुग्रहमात्मशीलम् ॥२३॥ ततश्च वः पृच्छ्यमिमं विपृच्छे विश्रभ्य विप्रा इति कृत्यतायाम्। सर्वात्मना म्रियमाणैश्च कृत्यं शुद्धं च तत्रामृशताभियुक्ताः ॥२४॥ तत्राभवद्भगवान् व्यासपुत्रो यदृच्छया गामटमानोऽनपेक्षः। अलक्ष्यलिङ्गो निजलाभतुष्टो वृतश्च बालैरवधूतवेषः ॥२५॥ सगोनासंगोगो तं द्व्यष्टवर्षं सुकुमारपाद- करोरुबाह्वंसकपोलगात्रम्। चार्वायताक्षोन्नसतुल्यकर्ण- सुभ्र्वाननं कम्बुसुजातकण्ठम् ॥२६॥ निगूढजत्रुं पृथुतुङ्गवक्षस- मावर्तनाभिं वलिवल्गूदरं च। दिगम्बरं वक्त्रविकीर्णकेशं प्रलम्बबाहुं स्वमरोत्तमाभम् ॥२७॥ श्यामं सदापीच्यवयोऽङ्गलक्ष्म्या स्त्रीणां मनोज्ञं रुचिरस्मितेन। प्रत्युत्थितास्ते मुनयः स्वासनेभ्य- स्तल्लक्षणज्ञा अपि गूढवर्चसम् ॥२८॥ स विष्णुरातोऽतिथय आगताय तस्मै सपर्यां शिरसाऽऽजहार। ततो निवृत्ता ह्यबुधाः स्त्रियोऽर्भका महासने सोपविवेश पूजितः ॥२९॥ स संवृतस्तत्र महान् महीयसां ब्रह्मर्षिराजर्षिदेवर्षिसङ्घैः। व्यरोचतालं भगवान् यथेन्दु- र्ग्रहर्क्षतारानिकरैः परीतः ॥३०॥ प्रशान्तमासीनमकुण्ठमेधसं मुनिं नृपो भागवतोऽभ्युपेत्य। प्रणम्य मूर्ध्नावहितः कृताञ्जलिर्नत्वा गिरा सूनृतयान्वपृच्छत् ॥३१॥ परीक्षिदुवाच अहो अद्य वयं ब्रह्मन् सत्सेव्याः क्षत्रबन्धवः। कृपयातिथिरूपेण भवद्भिस्तीर्थकाः कृताः ॥३२॥ येषां संस्मरणात्पुंसां सद्यः शुध्यन्ति वै गृहाः। किं पुनर्दर्शनस्पर्शपादशौचासनादिभिः ॥३३॥ सान्निध्यात्ते महायोगिन् पातकानि महान्त्यपि। सद्यो नश्यन्ति वै पुंसां विष्णोरिव सुरेतराः ॥३४॥ अपि मे भगवान् प्रीतः कृष्णः पाण्डुसुतप्रियः। पैतृष्वसेयप्रीत्यर्थं तद्गोत्रस्यात्तबान्धवः ॥३५॥ अन्यथा तेऽव्यक्तगतेर्दर्शनं नः कथं नृणाम्। नितरां म्रियमाणानां संसिद्धस्य वनीयसः ॥३६॥ अतः पृच्छामि संसिद्धिं योगिनां परमं गुरुम्। पुरुषस्येह यत्कार्यं म्रियमाणस्य सर्वथा ॥३७॥ यच्छ्रोतव्यमथो जप्यं यत्कर्तव्यं नृभिः प्रभो। स्मर्तव्यं भजनीयं वा ब्रूहि यद्वा विपर्ययम् ॥३८॥ नूनं भगवतो ब्रह्मन् गृहेषु गृहमेधिनाम्। न लक्ष्यते ह्यवस्थानमपि गोदोहनं क्वचित् ॥३९॥ सूत उवाच एवमाभाषितः पृष्टः स राज्ञा श्लक्ष्णया गिरा। प्रत्यभाषत धर्मज्ञो भगवान् बादरायणिः ॥४०॥ इति श्रीमद्भागवते महापुराणे वैयासक्यामष्टादशसाहस्र्यां पारमहंस्यां संहितायां प्रथमस्कन्धे शुकागमनं नामैकोनविंशोऽध्यायः॥१९॥

॥ इति प्रथमस्कन्धः समाप्तः ॥

॥ ओं तत्सद्ब्रह्मार्पणमस्तु ॥


GRETIL txt edited as per Gita Press edition along with paaThabheda, by PSA Easwaran

% Text title            : shrImadbhAgavatam - 01 - prathamaskandhaH 
% File name             : bhagpur-01.txt
% itxtitle              : shrImadbhAgavatam - 01 - prathamaskandhaH 
% engtitle              : Shrimad Bhagavata Purana
% Category              : purana, shrimadbhagavatam, vyAsa, krishna
% Location              : doc_purana
% Sublocation           : purana
% Language              : Sanskrit
% Subject               : hinduism/religion
% Latest update         : July 31, 2017, July 16, 2010
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP