॥ श्रीमद्भागवतम् - द्वितीयस्कन्धः ॥

॥ ॐ नमो भगवते वासुदेवाय ॥

॥ द्वितीयस्कन्धः ॥

॥ प्रथमोऽध्यायः - १ ॥

श्रीशुक उवाच वरीयानेष ते प्रश्नः कृतो लोकहितं नृप। आत्मवित्सम्मतः पुंसां श्रोतव्यादिषु यः परः ॥१॥ श्रोतव्यादीनि राजेन्द्र नृणां सन्ति सहस्रशः। अपश्यतामात्मतत्त्वं गृहेषु गृहमेधिनाम् ॥२॥ निद्रया ह्रियते नक्तं व्यवायेन च वा वयः। दिवा चार्थेहया राजन् कुटुम्बभरणेन वा ॥३॥ देहापत्यकलत्रादिष्वात्मसैन्येष्वसत्स्वपि। तेषां प्रमत्तो निधनं पश्यन्नपि न पश्यति ॥४॥ तस्माद्भारत सर्वात्मा भगवानीश्वरो हरिः। श्रोतव्यः कीर्तितव्यश्च स्मर्तव्यश्चेच्छताभयम् ॥५॥ एतावान् साङ्ख्ययोगाभ्यां स्वधर्मपरिनिष्ठया। जन्मलाभः परः पुंसामन्ते नारायणस्मृतिः ॥६॥ प्रायेण मुनयो राजन् निवृत्ता विधिषेधतः। नैर्गुण्यस्था रमन्ते स्म गुणानुकथने हरेः ॥७॥ इदं भागवतं नाम पुराणं ब्रह्मसम्मितम्। अधीतवान् द्वापरादौ पितुर्द्वैपायनादहम् ॥८॥ परिनिष्ठितोऽपि नैर्गुण्य उत्तमश्लोकलीलया। गृहीतचेता राजर्षे आख्यानं यदधीतवान् ॥९॥ तदहं तेऽभिधास्यामि महापौरुषिको भवान्। यस्य श्रद्दधतामाशु स्यान्मुकुन्दे मतिः सती ॥१०॥ एतन्निर्विद्यमानानामिच्छतामकुतोभयम्। योगिनां नृप निर्णीतं हरेर्नामानुकीर्तनम् ॥११॥ किं प्रमत्तस्य बहुभिः परोक्षैर्हायनैरिह। वरं मुहूर्तं विदितं घटते श्रेयसे यतः ॥१२॥ खट्वाङ्गो नाम राजर्षिर्ज्ञात्वेयत्तामिहायुषः। मुहूर्तात्सर्वमुत्सृज्य गतवानभयं हरिम् ॥१३॥ तवाप्येतर्हि कौरव्य सप्ताहं जीवितावधिः। उपकल्पय तत्सर्वं तावद्यत्साम्परायिकम् ॥१४॥ अन्तकाले तु पुरुष आगते गतसाध्वसः। छिन्द्यादसङ्गशस्त्रेण स्पृहां देहेऽनु ये च तम् ॥१५॥ गृहात्प्रव्रजितो धीरः पुण्यतीर्थजलाप्लुतः। शुचौ विविक्त आसीनो विधिवत्कल्पितासने ॥१६॥ अभ्यसेन्मनसा शुद्धं त्रिवृद्ब्रह्माक्षरं परम्। मनो यच्छेज्जितश्वासो ब्रह्मबीजमविस्मरन् ॥१७॥ नियच्छेद्विषयेभ्योऽक्षान् मनसा बुद्धिसारथिः। मनः कर्मभिराक्षिप्तं शुभार्थे धारयेद्धिया ॥१८॥ तत्रैकावयवं ध्यायेदव्युच्छिन्नेन चेतसा। मनो निर्विषयं युक्त्वा ततः किञ्चन न स्मरेत्। पदं तत्परमं विष्णोर्मनो यत्र प्रसीदति ॥१९॥ रजस्तमोभ्यामाक्षिप्तं विमूढं मन आत्मनः। यच्छेद्धारणया धीरो हन्ति या तत्कृतं मलम् ॥२०॥ यस्यां सन्धार्यमाणायां योगिनो भक्तिलक्षणः। आशु सम्पद्यते योग आश्रयं भद्रमीक्षतः ॥२१॥ राजोवाच यथा सन्धार्यते ब्रह्मन् धारणा यत्र सम्मता। यादृशी वा हरेदाशु पुरुषस्य मनोमलम् ॥२२॥ श्रीशुक उवाच जितासनो जितश्वासो जितसङ्गो जितेन्द्रियः। स्थूले भगवतो रूपे मनः सन्धारयेद्धिया ॥२३॥ विशेषस्तस्य देहोऽयं स्थविष्ठश्च स्थवीयसाम्। यत्रेदं दृश्यते विश्वं भूतं भव्यं भवच्च सत् ॥२४॥ आण्डकोशे शरीरेऽस्मिन् सप्तावरणसंयुते। वैराजः पुरुषो योऽसौ भगवान् धारणाश्रयः ॥२५॥ पातालमेतस्य हि पादमूलं पठन्ति पार्ष्णिप्रपदे रसातलम्। महातलं विश्वसृजोऽथ गुल्फौ तलातलं वै पुरुषस्य जङ्घे ॥२६॥ द्वे जानुनी सुतलं विश्वमूर्तेरूरुद्वयं वितलं चातलं च। महीतलं तज्जघनं महीपते नभस्तलं नाभिसरो गृणन्ति ॥२७॥ उरःस्थलं ज्योतिरनीकमस्य ग्रीवा महर्वदनं वै जनोऽस्य। तपो रराटीं विदुरादिपुंसः सत्यं तु शीर्षाणि सहस्रशीर्ष्णः ॥२८॥ इन्द्रादयो बाहव आहुरुस्राः कर्णौ दिशः श्रोत्रममुष्य शब्दः। नासत्यदस्रौ परमस्य नासे घ्राणोऽस्य गन्धो मुखमग्निरिद्धः ॥२९॥ द्यौरक्षिणी चक्षुरभूत्पतङ्गः पक्ष्माणि विष्णोरहनी उभे च। तद्भ्रूविजृम्भः परमेष्ठिधिष्ण्यमापोऽस्य तालू रस एव जिह्वा ॥३०॥ छन्दांस्यनन्तस्य शिरो गृणन्ति दंष्ट्रा यमः स्नेहकला द्विजानि। हासो जनोन्मादकरी च माया दुरन्तसर्गो यदपाङ्गमोक्षः ॥३१॥ व्रीडोत्तरोष्ठोऽधर एव लोभो धर्मः स्तनोऽधर्मपथोऽस्य पृष्ठम्। कस्तस्य मेढ्रं वृषणौ च मित्रौ कुक्षिः समुद्रा गिरयोऽस्थिसङ्घाः ॥३२॥ नद्योऽस्य नाड्योऽथ तनूरुहाणि महीरुहा विश्वतनोर्नृपेन्द्र। अनन्तवीर्यः श्वसितं मातरिश्वा गतिर्वयः कर्म गुणप्रवाहः ॥३३॥ ईशस्य केशान् विदुरम्बुवाहान् वासस्तु सन्ध्यां कुरुवर्य भूम्नः। अव्यक्तमाहुर्हृदयं मनश्च सचन्द्रमाः सर्वविकारकोशः ॥३४॥ विज्ञानशक्तिं महिमामनन्ति सर्वात्मनोऽन्तःकरणं गिरित्रम्। अश्वाश्वतर्युष्ट्रगजा नखानि सर्वे मृगाः पशवः श्रोणिदेशे ॥३५॥ वयांसि तद्व्याकरणं विचित्रं मनुर्मनीषा मनुजो निवासः। गन्धर्वविद्याधरचारणाप्सरः स्वरस्मृतीरसुरानीकवीर्यः ॥३६॥ ब्रह्माननं क्षत्रभुजो महात्मा विडूरुरङ्घ्रिश्रितकृष्णवर्णः। नानाभिधाभीज्यगणोपपन्नो द्रव्यात्मकः कर्म वितानयोगः ॥३७॥ इयानसावीश्वरविग्रहस्य यः सन्निवेशः कथितो मया ते। सन्धार्यतेऽस्मिन् वपुषि स्थविष्ठे मनः स्वबुद्ध्या न यतोऽस्ति किञ्चित् ॥३८॥ स सर्वधीवृत्त्यनुभूतसर्व आत्मा यथा स्वप्नजनेक्षितैकः। तं सत्यमानन्दनिधिं भजेत नान्यत्र सज्जेद्यत आत्मपातः ॥३९॥ इति श्रीमद्भागवते महापुराणे हंस्यां पारमहंस्यां संहितायां द्वितीयस्कन्धे महापुरुषसंस्थानुवर्णने प्रथमोऽध्यायः ॥१॥

॥ ॐ नमो भगवते वासुदेवाय ॥

॥ द्वितीयोऽध्यायः - २ ॥

श्रीशुक उवाच एवं पुरा धारणयाऽऽत्मयोनिर्नष्टां स्मृतिं प्रत्यवरुध्य तुष्टात्। तथा ससर्जेदममोघदृष्टि- र्यथाप्ययात्प्राग्व्यवसायबुद्धिः ॥१॥ शाब्दस्य हि ब्रह्मण एष पन्था यन्नामभिर्ध्यायति धीरपार्थैः। परिभ्रमंस्तत्र न विन्दतेऽर्थान् मायामये वासनया शयानः ॥२॥ अतः कविर्नामसु यावदर्थः स्यादप्रमत्तो व्यवसायबुद्धिः। सिद्धेऽन्यथार्थे न यतेत तत्र परिश्रमं तत्र समीक्षमाणः ॥३॥ सत्यां क्षितौ किं कशिपोः प्रयासैर्बाहौ स्वसिद्धे ह्युपबर्हणैः किम्। सत्यञ्जलौ किं पुरुधान्नपात्र्या दिग्वल्कलादौ सति किं दुकूलैः ॥४॥ चीराणि किं पथि न सन्ति दिशन्ति भिक्षां नैवाङ्घ्रिपाः परभृतः सरितोऽप्यशुष्यन् । रुद्धा गुहाः किमजितोऽवति नोपसन्नान् कस्माद्भजन्ति कवयो धनदुर्मदान्धान् ॥५॥ एवं स्वचित्ते स्वत एव सिद्ध आत्मा प्रियोऽर्थो भगवाननन्तः। तं निर्वृतो नियतार्थो भजेत संसारहेतूपरमश्च यत्र ॥६॥ कस्तां त्वनादृत्य परानुचिन्तामृते पशूनसतीं नाम युञ्ज्यात्। पश्यन् जनं पतितं वैतरण्यां स्वकर्मजान् परितापाञ्जुषाणम् ॥७॥ केचित्स्वदेहान्तर्हृदयावकाशे प्रादेशमात्रं पुरुषं वसन्तम्। चतुर्भुजं कञ्जरथाङ्गशङ्खगदाधरं धारणया स्मरन्ति ॥८॥ प्रसन्नवक्त्रं नलिनायतेक्षणं कदम्बकिञ्जल्कपिशङ्गवाससम्। लसन्महारत्नहिरण्मयाङ्गदं स्फुरन्महारत्नकिरीटकुण्डलम् ॥९॥ उन्निद्रहृत्पङ्कजकर्णिकालये योगेश्वरास्थापितपादपल्लवम्। श्रीलक्ष्मणं कौस्तुभरत्नकन्धर- मम्लानलक्ष्म्या वनमालयाऽऽचितम् ॥१०॥ विभूषितं मेखलयाङ्गुलीयकै- र्महाधनैर्नूपुरकङ्कणादिभिः। स्निग्धामलाकुञ्चितनीलकुन्तलै- र्विरोचमानाननहासपेशलम् ॥११॥ अदीनलीलाहसितेक्षणोल्लस- द्भ्रूभङ्गसंसूचितभूर्यनुग्रहम्। ईक्षेत चिन्तामयमेनमीश्वरं यावन्मनो धारणयावतिष्ठते ॥१२॥ एकैकशोऽङ्गानि धियानुभावयेत्पादादि यावद्धसितं गदाभृतः। जितं जितं स्थानमपोह्य धारयेत्परं परं शुद्ध्यति धीर्यथा यथा ॥१३॥ यावन्न जायेत परावरेऽस्मिन् विश्वेश्वरे द्रष्टरि भक्तियोगः। तावत्स्थवीयः पुरुषस्य रूपं क्रियावसाने प्रयतः स्मरेत ॥१४॥ स्थिरं सुखं चासनमास्थितो यतिर्यदा जिहासुरिममङ्ग लोकम्। काले च देशे च मनो न सज्जयेत्प्राणान् नियच्छेन्मनसा जितासुः ॥१५॥ मनः स्वबुध्यामलया नियम्य क्षेत्रज्ञ एतां निनयेत्तमात्मनि। आत्मानमात्मन्यवरुध्य धीरो लब्धोपशान्तिर्विरमेत कृत्यात् ॥१६॥ न यत्र कालोऽनिमिषां परः प्रभुः कुतो नु देवा जगतां य ईशिरे। न यत्र सत्त्वं न रजस्तमश्च न वै विकारो न महान् प्रधानम् ॥१७॥ परं पदं वैष्णवमामनन्ति तद्यन्नेति नेतीत्यतदुत्सिसृक्षवः। विसृज्य दौरात्म्यमनन्यसौहृदा हृदोपगुह्यार्हपदं पदे पदे ॥१८॥ इत्थं मुनिस्तूपरमेद्व्यवस्थितो विज्ञानदृग्वीर्यसुरन्धिताशयः। स्वपार्ष्णिनाऽऽपीड्य गुदं ततोऽनिलं स्थानेषु षट्सून्नमयेज्जितक्लमः ॥१९॥ नाभ्यां स्थितं हृद्यधिरोप्य तस्मादुदानगत्योरसि तं नयेन्मुनिः। ततोऽनुसन्धाय धिया मनस्वी स्वतालुमूलं शनकैर्नयेत ॥२०॥ तस्माद्भ्रुवोरन्तरमुन्नयेत निरुद्धसप्तायतनोऽनपेक्षः। स्थित्वा मुहूर्तार्धमकुण्ठदृष्टिर्निर्भिद्य मूर्धन् विसृजेत्परं गतः ॥२१॥ यदि प्रयास्यन् नृप पारमेष्ठ्यं वैहायसानामुत यद्विहारम्। अष्टाधिपत्यं गुणसन्निवाये सहैव गच्छेन्मनसेन्द्रियैश्च ॥२२॥ योगेश्वराणां गतिमाहुरन्त- र्बहिस्त्रिलोक्याः पवनान्तरात्मनाम्। न कर्मभिस्तां गतिमाप्नुवन्ति विद्यातपोयोगसमाधिभाजाम् ॥२३॥ वैश्वानरं याति विहायसा गतः सुषुम्णया ब्रह्मपथेन शोचिषा। विधूतकल्कोऽथ हरेरुदस्तात्प्रयाति चक्रं नृप शैशुमारम् ॥२४॥ तद्विश्वनाभिं त्वतिवर्त्य विष्णोरणीयसा विरजेनात्मनैकः। नमस्कृतं ब्रह्मविदामुपैति कल्पायुषो यद्विबुधा रमन्ते ॥२५॥ अथो अनन्तस्य मुखानलेन दन्दह्यमानं स निरीक्ष्य विश्वम्। निर्याति सिद्धेश्वरयुष्टधिष्ण्यं यद्द्वैपरार्ध्यं तदु पारमेष्ठ्यम् ॥२६॥ न यत्र शोको न जरा न मृत्युर्नार्तिर्न चोद्वेग ऋते कुतश्चित्। यच्चित्ततोऽदः कृपयानिदंविदां दुरन्तदुःखप्रभवानुदर्शनात् ॥२७॥ ततो विशेषं प्रतिपद्य निर्भय- स्तेनात्मनापोऽनलमूर्तिरत्वरन्। ज्योतिर्मयो वायुमुपेत्य काले वाय्वात्मना खं बृहदात्मलिङ्गम् ॥२८॥ घ्राणेन गन्धं रसनेन वै रसं रूपं च दृष्ट्या श्वसनं त्वचैव। श्रोत्रेण चोपेत्य नभोगुणत्वं प्राणेन चाकूतिमुपैति योगी ॥२९॥ स भूतसूक्ष्मेन्द्रियसन्निकर्षं मनोमयं देवमयं विकार्यम्। संसाद्य गत्या सह तेन याति विज्ञानतत्त्वं गुणसन्निरोधम् ॥३०॥ तेनात्मनाऽऽत्मानमुपैति शान्त- मानन्दमानन्दमयोऽवसाने। एतां गतिं भागवतीं गतो यः स वै पुनर्नेह विषज्जतेऽङ्ग ॥३१॥ एते सृती ते नृप वेदगीते त्वयाभिपृष्टे ह सनातने च। ये वै पुरा ब्रह्मण आह पृष्ट आराधितो भगवान् वासुदेवः ॥३२॥ न ह्यतोऽन्यः शिवः पन्था विशतः संसृताविह। वासुदेवे भगवति भक्तियोगो यतो भवेत् ॥३३॥ भगवान् ब्रह्म कार्त्स्न्येन त्रिरन्वीक्ष्य मनीषया। तदध्यवस्यत्कूटस्थो रतिरात्मन् यतो भवेत् ॥३४॥ भगवान् सर्वभूतेषु लक्षितः स्वात्मना हरिः। दृश्यैर्बुद्ध्यादिभिर्द्रष्टा लक्षणैरनुमापकैः ॥३५॥ तस्मात्सर्वात्मना राजन् हरिः सर्वत्र सर्वदा। श्रोतव्यः कीर्तितव्यश्च स्मर्तव्यो भगवान् नृणाम् ॥३६॥ पिबन्ति ये भगवत आत्मनः सतां कथामृतं श्रवणपुटेषु सम्भृतम्। पुनन्ति ते विषयविदूषिताशयं व्रजन्ति तच्चरणसरोरुहान्तिकम् ॥३७॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वितीयस्कन्धे पुरुषसंस्थावर्णनं नाम द्वितीयोऽध्यायः ॥२॥

॥ ॐ नमो भगवते वासुदेवाय ॥

॥ तृतीयोऽध्यायः - ३ ॥

श्रीशुक उवाच एवमेतन्निगदितं पृष्टवान् यद्भवान् मम। नृणां यन्म्रियमाणानां मनुष्येषु मनीषिणाम् ॥१॥ ब्रह्मवर्चसकामस्तु यजेत ब्रह्मणः पतिम्। इन्द्रमिन्द्रियकामस्तु प्रजाकामः प्रजापतीन् ॥२॥ देवीं मायां तु श्रीकामस्तेजस्कामो विभावसुम्। वसुकामो वसून् रुद्रान् वीर्यकामोऽथ वीर्यवान्॥३॥ अन्नाद्यकामस्त्वदितिं स्वर्गकामोऽदितेः सुतान्। विश्वान् देवान् राज्यकामः साध्यान् संसाधको विशाम्॥४॥ आयुष्कामोऽश्विनौ देवौ पुष्टिकाम इलां यजेत्। प्रतिष्ठाकामः पुरुषो रोदसी लोकमातरौ ॥५॥ रूपाभिकामो गन्धर्वान् स्त्रीकामोऽप्सर उर्वशीम्। आधिपत्यकामः सर्वेषां यजेत परमेष्ठिनम् ॥६॥ यज्ञं यजेद्यशस्कामः कोशकामः प्रचेतसम्। विद्याकामस्तु गिरिशं दाम्पत्यार्थ उमां सतीम्॥७॥ धर्मार्थ उत्तमश्लोकं तन्तुं तन्वन् पितॄन् यजेत्। रक्षाकामः पुण्यजनानोजस्कामो मरुद्गणान् ॥८॥ राज्यकामो मनून् देवान् निरृतिं त्वभिचरन् यजेत्। कामकामो यजेत्सोममकामः पुरुषं परम् ॥९॥ अकामः सर्वकामो वा मोक्षकाम उदारधीः। तीव्रेण भक्तियोगेन यजेत पुरुषं परम् ॥१०॥ एतावानेव यजतामिह निःश्रेयसोदयः। भगवत्यचलो भावो यद्भागवतसङ्गतः ॥११॥ ज्ञानं यदा प्रतिनिवृत्तगुणोर्मिचक्र- मात्मप्रसाद उत यत्र गुणेष्वसङ्गः । कैवल्यसम्मतपथस्त्वथ भक्तियोगः को निर्वृतो हरिकथासु रतिं न कुर्यात् ॥१२॥ शौनक उवाच इत्यभिव्याहृतं राजा निशम्य भरतर्षभः। किमन्यत्पृष्टवान् भूयो वैयासकिमृषिं कविम् ॥१३॥ एतच्छुश्रूषतां विद्वन् सूत नोऽर्हसि भाषितुम्। कथा हरिकथोदर्काः सतां स्युः सदसि ध्रुवम् ॥१४॥ स वै भागवतो राजा पाण्डवेयो महारथः। बालक्रीडनकैः क्रीडन् कृष्णक्रीडां य आददे ॥१५॥ वैयासकिश्च भगवान् वासुदेवपरायणः। उरुगायगुणोदाराः सतां स्युर्हि समागमे ॥१६॥ आयुर्हरति वै पुंसामुद्यन्नस्तं च यन्नसौ। तस्यर्ते यत्क्षणो नीत उत्तमश्लोकवार्तया ॥१७॥ तरवः किं न जीवन्ति भस्त्राः किं न श्वसन्त्युत। न खादन्ति न मेहन्ति किं ग्रामपशवोऽपरे ॥१८॥ श्वविड्वराहोष्ट्रखरैः संस्तुतः पुरुषः पशुः। न यत्कर्णपथोपेतो जातु नाम गदाग्रजः ॥१९॥ बिले बतोरुक्रमविक्रमान् ये न शृण्वतः कर्णपुटे नरस्य। जिह्वासती दार्दुरिकेव सूत न चोपगायत्युरुगायगाथाः ॥२०॥ भारः परं पट्टकिरीटजुष्ट- मप्युत्तमाङ्गं न नमेन्मुकुन्दम्। शावौ करौ नो कुरुतः सपर्यां हरेर्लसत्काञ्चनकङ्कणौ वा ॥२१॥ बर्हायिते ते नयने नराणां लिङ्गानि विष्णोर्न निरीक्षतो ये। पादौ नृणां तौ द्रुमजन्मभाजौ क्षेत्राणि नानुव्रजतो हरेर्यौ ॥२२॥ जीवञ्छवो भागवताङ्घ्रिरेणुं न जातु मर्त्योऽभिलभेत यस्तु। श्रीविष्णुपद्या मनुजस्तुलस्याः श्वसञ्छवो यस्तु न वेद गन्धम् ॥२३॥ तदश्मसारं हृदयं बतेदं यद्गृह्यमाणैर्हरिनामधेयैः। न विक्रियेताथ यदा विकारो नेत्रे जलं गात्ररुहेषु हर्षः ॥२४॥ अथाभिधेह्यङ्ग मनोऽनुकूलं प्रभाषसे भागवतप्रधानः। यदाह वैयासकिरात्मविद्याविशारदो नृपतिं साधु पृष्टः ॥२५॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वितीयस्कन्धे तृतीयोऽध्यायः ॥३॥

॥ ॐ नमो भगवते वासुदेवाय ॥

॥ चतुर्थोऽध्यायः - ४ ॥

सूत उवाच वैयासकेरिति वचस्तत्त्वनिश्चयमात्मनः। उपधार्य मतिं कृष्णे औत्तरेयः सतीं व्यधात् ॥१॥ आत्मजायासुतागारपशुद्रविणबन्धुषु। राज्ये चाविकले नित्यं विरूढां ममतां जहौ ॥२॥ पप्रच्छ चेममेवार्थं यन्मां पृच्छथ सत्तमाः। कृष्णानुभावश्रवणे श्रद्दधानो महामनाः ॥३॥ संस्थां विज्ञाय सन्न्यस्य कर्म त्रैवर्गिकं च यत्। वासुदेवे भगवति आत्मभावं दृढं गतः ॥४॥ राजोवाच समीचीनं वचो ब्रह्मन् सर्वज्ञस्य तवानघ। तमो विशीर्यते मह्यं हरेः कथयतः कथाम् ॥५॥ भूय एव विवित्सामि भगवानात्ममायया। यथेदं सृजते विश्वं दुर्विभाव्यमधीश्वरैः ॥६॥ यथा गोपायति विभुर्यथा संयच्छते पुनः। यां यां शक्तिमुपाश्रित्य पुरुशक्तिः परः पुमान्। आत्मानं क्रीडयन् क्रीडन् करोति विकरोति च॥७॥ नूनं भगवतो ब्रह्मन् हरेरद्भुतकर्मणः। दुर्विभाव्यमिवाभाति कविभिश्चापि चेष्टितम् ॥८॥ यथा गुणांस्तु प्रकृतेर्युगपत्क्रमशोऽपि वा। बिभर्ति भूरिशस्त्वेकः कुर्वन् कर्माणि जन्मभिः॥९॥ विचिकित्सितमेतन्मे ब्रवीतु भगवान् यथा। शाब्दे ब्रह्मणि निष्णातः परस्मिंश्च भवान् खलु॥१०॥ सूत उवाच इत्युपामन्त्रितो राज्ञा गुणानुकथने हरेः। हृषीकेशमनुस्मृत्य प्रतिवक्तुं प्रचक्रमे ॥११॥ श्रीशुक उवाच नमः परस्मै पुरुषाय भूयसे सदुद्भवस्थाननिरोधलीलया। गृहीतशक्तित्रितयाय देहिना- मन्तर्भवायानुपलक्ष्यवर्त्मने ॥१२॥ भूयो नमः सद्वृजिनच्छिदेऽसता- मसम्भवायाखिलसत्त्वमूर्तये। पुंसां पुनः पारमहंस्य आश्रमे व्यवस्थितानामनुमृग्यदाशुषे ॥१३॥ नमो नमस्तेऽस्त्वृषभाय सात्वतां विदूरकाष्ठाय मुहुः कुयोगिनाम्। निरस्तसाम्यातिशयेन राधसा स्वधामनि ब्रह्मणि रंस्यते नमः ॥१४॥ यत्कीर्तनं यत्स्मरणं यदीक्षणं यद्वन्दनं यच्छ्रवणं यदर्हणम्। लोकस्य सद्यो विधुनोति कल्मषं तस्मै सुभद्रश्रवसे नमो नमः ॥१५॥ विचक्षणा यच्चरणोपसादनात्सङ्गं व्युदस्योभयतोऽन्तरात्मनः। विन्दन्ति हि ब्रह्मगतिं गतक्लमास्तस्मै सुभद्रश्रवसे नमो नमः ॥१६॥ तपस्विनो दानपरा यशस्विनो मनस्विनो मन्त्रविदः सुमङ्गलाः। क्षेमं न विन्दन्ति विना यदर्पणं तस्मै सुभद्रश्रवसे नमो नमः ॥१७॥ किरातहूणान्ध्रपुलिन्दपुल्कसा आभीरकङ्का यवनाः खसादयः। येऽन्ये च पापा यदपाश्रयाश्रयाः शुध्यन्ति तस्मै प्रभविष्णवे नमः ॥१८॥ स एष आत्माऽऽत्मवतामधीश्वर- स्त्रयीमयो धर्ममयस्तपोमयः। गतव्यलीकैरजशङ्करादिभि- र्वितर्क्यलिङ्गो भगवान् प्रसीदताम् ॥१९॥ श्रियः पतिर्यज्ञपतिः प्रजापतिर्धियां पतिर्लोकपतिर्धरापतिः। पतिर्गतिश्चान्धकवृष्णिसात्वतां प्रसीदतां मे भगवान् सतां पतिः ॥२०॥ यदङ्घ्र्यभिध्यानसमाधिधौतया धियानुपश्यन्ति हि तत्त्वमात्मनः। वदन्ति चैतत्कवयो यथारुचं स मे मुकुन्दो भगवान् प्रसीदताम् ॥२१॥ प्रचोदिता येन पुरा सरस्वती वितन्वताजस्य सतीं स्मृतिं हृदि। स्वलक्षणा प्रादुरभूत्किलास्यतः स मे ऋषीणामृषभः प्रसीदताम् ॥२२॥ भूतैर्महद्भिर्य इमाः पुरो विभुर्निर्माय शेते यदमूषु पूरुषः। भुङ्क्ते गुणान् षोडश षोडशात्मकः सोऽलङ्कृषीष्ट भगवान् वचांसि मे ॥२३॥ नमस्तस्मै भगवते वासुदेवाय वेधसे। पपुर्ज्ञानमयं सौम्या यन्मुखाम्बुरुहासवम् ॥२४॥ एतदेवात्मभू राजन् नारदाय विपृच्छते। वेदगर्भोऽभ्यधात्साक्षाद्यदाह हरिरात्मनः ॥२५॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वितीयस्कन्धे चतुर्थोऽध्यायः ॥४॥

॥ ॐ नमो भगवते वासुदेवाय ॥

॥ पञ्चमोऽध्यायः - ५ ॥

नारद उवाच देवदेव नमस्तेऽस्तु भूतभावन पूर्वज। तद्विजानीहि यज्ज्ञानमात्मतत्त्वनिदर्शनम् ॥१॥ यद्रूपं यदधिष्ठानं यतः सृष्टमिदं प्रभो। यत्संस्थं यत्परं यच्च तत्तत्त्वं वद तत्त्वतः ॥२॥ सर्वं ह्येतद्भवान् वेद भूतभव्यभवत्प्रभुः। करामलकवद्विश्वं विज्ञानावसितं तव ॥३॥ यद्विज्ञानो यदाधारो यत्परस्त्वं यदात्मकः। एकः सृजसि भूतानि भूतैरेवात्ममायया ॥४॥ आत्मन् भावयसे तानि न पराभावयन् स्वयम्। आत्मशक्तिमवष्टभ्य ऊर्णनाभिरिवाक्लमः ॥५॥ नाहं वेद परं ह्यस्मिन् नापरं न समं विभो। नामरूपगुणैर्भाव्यं सदसत्किञ्चिदन्यतः ॥६॥ स भवानचरद्घोरं यत्तपः सुसमाहितः। तेन खेदयसे नस्त्वं पराशङ्कां प्रयच्छसि ॥७॥ एतन्मे पृच्छतः सर्वं सर्वज्ञ सकलेश्वर। विजानीहि यथैवेदमहं बुध्येऽनुशासितः ॥८॥ ब्रह्मोवाच सम्यक्कारुणिकस्येदं वत्स ते विचिकित्सितम्। यदहं चोदितः सौम्य भगवद्वीर्यदर्शने ॥९॥ नानृतं तव तच्चापि यथा मां प्रब्रवीषि भोः। अविज्ञाय परं मत्त एतावत्त्वं यतो हि मे ॥१०॥ येन स्वरोचिषा विश्वं रोचितं रोचयाम्यहम्। यथार्कोऽग्निर्यथा सोमो यथर्क्षग्रहतारकाः ॥११॥ तस्मै नमो भगवते वासुदेवाय धीमहि। यन्मायया दुर्जयया मां ब्रुवन्ति जगद्गुरुम् ॥१२॥ विलज्जमानया यस्य स्थातुमीक्षापथेऽमुया। विमोहिता विकत्थन्ते ममाहमिति दुर्धियः ॥१३॥ द्रव्यं कर्म च कालश्च स्वभावो जीव एव च। वासुदेवात्परो ब्रह्मन् न चान्योऽर्थोऽस्ति तत्त्वतः॥१४॥ नारायणपरा वेदा देवा नारायणाङ्गजाः। नारायणपरा लोका नारायणपरा मखाः ॥१५॥ नारायणपरो योगो नारायणपरं तपः। नारायणपरं ज्ञानं नारायणपरा गतिः ॥१६॥ तस्यापि द्रष्टुरीशस्य कूटस्थस्याखिलात्मनः। सृज्यं सृजामि सृष्टोऽहमीक्षयैवाभिचोदितः ॥१७॥ सत्त्वं रजस्तम इति निर्गुणस्य गुणास्त्रयः। स्थितिसर्गनिरोधेषु गृहीता मायया विभोः ॥१८॥ कार्यकारणकर्तृत्वे द्रव्यज्ञानक्रियाश्रयाः। बध्नन्ति नित्यदा मुक्तं मायिनं पुरुषं गुणाः ॥१९॥ स एष भगवांल्लिङ्गैस्त्रिभिरेभिरधोक्षजः। स्वलक्षितगतिर्ब्रह्मन् सर्वेषां मम चेश्वरः ॥२०॥ कालं कर्म स्वभावं च मायेशो मायया स्वया। आत्मन् यदृच्छया प्राप्तं विबुभूषुरुपाददे ॥२१॥ कालाद्गुणव्यतिकरः परिणामः स्वभावतः। कर्मणो जन्म महतः पुरुषाधिष्ठितादभूत् ॥२२॥ महतस्तु विकुर्वाणाद्रजःसत्त्वोपबृंहितात्। तमःप्रधानस्त्वभवद्द्रव्यज्ञानक्रियात्मकः ॥२३॥ सोऽहङ्कार इति प्रोक्तो विकुर्वन् समभूत्त्रिधा। वैकारिकस्तैजसश्च तामसश्चेति यद्भिदा। द्रव्यशक्तिः क्रियाशक्तिर्ज्ञानशक्तिरिति प्रभो ॥२४॥ तामसादपि भूतादेर्विकुर्वाणादभून्नभः। तस्य मात्रा गुणः शब्दो लिङ्गं यद्द्रष्टृदृश्ययोः ॥२५॥ नभसोऽथ विकुर्वाणादभूत्स्पर्शगुणोऽनिलः। परान्वयाच्छब्दवांश्च प्राण ओजः सहो बलम् ॥२६॥ वायोरपि विकुर्वाणात्कालकर्मस्वभावतः। उदपद्यत तेजो वै रूपवत्स्पर्शशब्दवत् ॥२७॥ तेजसस्तु विकुर्वाणादासीदम्भो रसात्मकम्। रूपवत्स्पर्शवच्चाम्भो घोषवच्च परान्वयात् ॥२८॥ विशेषस्तु विकुर्वाणादम्भसो गन्धवानभूत्। परान्वयाद्रसस्पर्शशब्दरूपगुणान्वितः ॥२९॥ वैकारिकान्मनो जज्ञे देवा वैकारिका दश। दिग्वातार्कप्रचेतोऽश्विवह्नीन्द्रोपेन्द्रमित्रकाः ॥३०॥ तैजसात्तु विकुर्वाणादिन्द्रियाणि दशाभवन्। ज्ञानशक्तिः क्रियाशक्तिर्बुद्धिः प्राणश्च तैजसौ। श्रोत्रं त्वग्घ्राणदृग्जिह्वा वाग्दोर्मेढ्राङ्घ्रिपायवः ॥३१॥ यदैतेऽसङ्गता भावा भूतेन्द्रियमनोगुणाः। यदायतननिर्माणे न शेकुर्ब्रह्मवित्तम ॥३२॥ तदा संहत्य चान्योन्यं भगवच्छक्तिचोदिताः। सदसत्त्वमुपादाय चोभयं ससृजुर्ह्यदः ॥३३॥ वर्षपूगसहस्रान्ते तदण्डमुदकेशयम्। कालकर्मस्वभावस्थो जीवोऽजीवमजीवयत् ॥३४॥ स एव पुरुषस्तस्मादण्डं निर्भिद्य निर्गतः। सहस्रोर्वङ्घ्रिबाह्वक्षः सहस्राननशीर्षवान् ॥३५॥ यस्येहावयवैर्लोकान् कल्पयन्ति मनीषिणः। कट्यादिभिरधः सप्त सप्तोर्ध्वं जघनादिभिः ॥३६॥ पुरुषस्य मुखं ब्रह्म क्षत्रमेतस्य बाहवः। ऊर्वोर्वैश्यो भगवतः पद्भ्यां शूद्रो व्यजायत ॥३७॥ भूर्लोकः कल्पितः पद्भ्यां भुवर्लोकोऽस्य नाभितः। हृदा स्वर्लोक उरसा महर्लोको महात्मनः ॥३८॥ ग्रीवायां जनलोकश्च तपोलोकः स्तनद्वयात्। मूर्धभिः सत्यलोकस्तु ब्रह्मलोकः सनातनः ॥३९॥ तत्कट्यां चातलं कॢप्तमूरुभ्यां वितलं विभोः। जानुभ्यां सुतलं शुद्धं जङ्घाभ्यां तु तलातलम् ॥४०॥ महातलं तु गुल्फाभ्यां प्रपदाभ्यां रसातलम्। पातालं पादतलत इति लोकमयः पुमान् ॥४१॥ भूर्लोकः कल्पितः पद्भ्यां भुवर्लोकोऽस्य नाभितः। स्वर्लोकः कल्पितो मूर्ध्ना इति वा लोककल्पना॥४२॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वितीयस्कन्धे पञ्चमोऽध्यायः ॥५॥

॥ ॐ नमो भगवते वासुदेवाय ॥

॥ षष्ठोऽध्यायः - ६ ॥

ब्रह्मोवाच वाचां वह्नेर्मुखं क्षेत्रं छन्दसां सप्त धातवः। हव्यकव्यामृतान्नानां जिह्वा सर्वरसस्य च ॥१॥ सर्वासूनां च वायोश्च तन्नासे परमायने। अश्विनोरोषधीनां च घ्राणो मोदप्रमोदयोः ॥२॥ रूपाणां तेजसां चक्षुर्दिवः सूर्यस्य चाक्षिणी। कर्णौ दिशां च तीर्थानां श्रोत्रमाकाशशब्दयोः। तद्गात्रं वस्तुसाराणां सौभगस्य च भाजनम् ॥३॥ त्वगस्य स्पर्शवायोश्च सर्वमेधस्य चैव हि। रोमाण्युद्भिज्जजातीनां यैर्वा यज्ञस्तु सम्भृतः ॥४॥ केशश्मश्रुनखान्यस्य शिलालोहाभ्रविद्युताम्। बाहवो लोकपालानां प्रायशः क्षेमकर्मणाम् ॥५॥ विक्रमो भूर्भुवः स्वश्च क्षेमस्य शरणस्य च। सर्वकामवरस्यापि हरेश्चरण आस्पदम् ॥६॥ अपां वीर्यस्य सर्गस्य पर्जन्यस्य प्रजापतेः। पुंसः शिश्न उपस्थस्तु प्रजात्यानन्दनिर्वृतेः ॥७॥ पायुर्यमस्य मित्रस्य परिमोक्षस्य नारद। हिंसाया निरृतेर्मृत्योर्निरयस्य गुदं स्मृतः ॥८॥ पराभूतेरधर्मस्य तमसश्चापि पश्चिमः। नाड्यो नदनदीनां तु गोत्राणामस्थिसंहतिः ॥९॥ अव्यक्तरससिन्धूनां भूतानां निधनस्य च। उदरं विदितं पुंसो हृदयं मनसः पदम् ॥१०॥ धर्मस्य मम तुभ्यं च कुमाराणां भवस्य च। विज्ञानस्य च सत्त्वस्य परस्यात्मा परायणम् ॥११॥ अहं भवान् भवश्चैव त इमे मुनयोऽग्रजाः। सुरासुरनरा नागाः खगा मृगसरीसृपाः ॥१२॥ गन्धर्वाप्सरसो यक्षा रक्षोभूतगणोरगाः। पशवः पितरः सिद्धा विद्याध्राश्चारणा द्रुमाः ॥१३॥ अन्ये च विविधा जीवा जलस्थलनभौकसः। ग्रहर्क्षकेतवस्तारास्तडितः स्तनयित्नवः ॥१४॥ सर्वं पुरुष एवेदं भूतं भव्यं भवच्च यत्। तेनेदमावृतं विश्वं वितस्तिमधितिष्ठति ॥१५॥ स्वधिष्ण्यं प्रतपन् प्राणो बहिश्च प्रतपत्यसौ। एवं विराजं प्रतपंस्तपत्यन्तर्बहिः पुमान् ॥१६॥ सोऽमृतस्याभयस्येशो मर्त्यमन्नं यदत्यगात्। महिमैष ततो ब्रह्मन् पुरुषस्य दुरत्ययः ॥१७॥ पादेषु सर्वभूतानि पुंसः स्थितिपदो विदुः। अमृतं क्षेममभयं त्रिमूर्ध्नोऽधायि मूर्धसु ॥१८॥ पादास्त्रयो बहिश्चासन्नप्रजानां य आश्रमाः। अन्तस्त्रिलोक्यास्त्वपरो गृहमेधोऽबृहद्व्रतः ॥१९॥ सृती विचक्रमे विष्वङ् साशनानशने उभे। यदविद्या च विद्या च पुरुषस्तूभयाश्रयः ॥२०॥ यस्मादण्डं विराड्जज्ञे भूतेन्द्रियगुणात्मकः। तद्द्रव्यमत्यगाद्विश्वं गोभिः सूर्य इवातपन् ॥२१॥ यदास्य नाभ्यान्नलिनादहमासं महात्मनः। नाविदं यज्ञसम्भारान् पुरुषावयवादृते ॥२२॥ तेषु यज्ञस्य पशवः सवनस्पतयः कुशाः। इदं च देवयजनं कालश्चोरुगुणान्वितः ॥२३॥ वस्तून्योषधयः स्नेहा रसलोहमृदो जलम्। ऋचो यजूंषि सामानि चातुर्होत्रं च सत्तम ॥२४॥ नामधेयानि मन्त्राश्च दक्षिणाश्च व्रतानि च। देवतानुक्रमः कल्पः सङ्कल्पस्तन्त्रमेव च ॥२५॥ गतयो मतयः श्रद्धा प्रायश्चित्तं समर्पणम्। पुरुषावयवैरेते सम्भाराः सम्भृता मया ॥२६॥ इति सम्भृतसम्भारः पुरुषावयवैरहम्। तमेव पुरुषं यज्ञं तेनैवायजमीश्वरम् ॥२७॥ ततस्ते भ्रातर इमे प्रजानां पतयो नव। अयजन् व्यक्तमव्यक्तं पुरुषं सुसमाहिताः ॥२८॥ ततश्च मनवः काले ईजिरे ऋषयोऽपरे। पितरो विबुधा दैत्या मनुष्याः क्रतुभिर्विभुम् ॥२९॥ नारायणे भगवति तदिदं विश्वमाहितम्। गृहीतमायोरुगुणः सर्गादावगुणः स्वतः ॥३०॥ सृजामि तन्नियुक्तोऽहं हरो हरति तद्वशः। विश्वं पुरुषरूपेण परिपाति त्रिशक्तिधृक् ॥३१॥ इति तेऽभिहितं तात यथेदमनुपृच्छसि। नान्यद्भगवतः किञ्चिद्भाव्यं सदसदात्मकम् ॥३२॥ न भारती मेऽङ्ग मृषोपलक्ष्यते न वै क्वचिन्मे मनसो मृषा गतिः। न मे हृषीकाणि पतन्त्यसत्पथे यन्मे हृदौत्कण्ठ्यवता धृतो हरिः ॥३३॥ सोऽहं समाम्नायमयस्तपोमयः प्रजापतीनामभिवन्दितः पतिः। आस्थाय योगं निपुणं समाहितस्तं नाध्यगच्छं यत आत्मसम्भवः ॥३४॥ नतोऽस्म्यहं तच्चरणं समीयुषां भवच्छिदं स्वस्त्ययनं सुमङ्गलम्। यो ह्यात्ममायाविभवं स्म पर्यगाद्यथा नभः स्वान्तमथापरे कुतः ॥३५॥ नाहं न यूयं यदृतां गतिं विदुर्न वामदेवः किमुतापरे सुराः। तन्मायया मोहितबुद्धयस्त्विदं विनिर्मितं चात्मसमं विचक्ष्महे ॥३६॥ यस्यावतारकर्माणि गायन्ति ह्यस्मदादयः। न यं विदन्ति तत्त्वेन तस्मै भगवते नमः ॥३७॥ स एष आद्यः पुरुषः कल्पे कल्पे सृजत्यजः। आत्माऽऽत्मन्यात्मनाऽऽत्मानं संयच्छति च पाति च ॥३८॥ विशुद्धं केवलं ज्ञानं प्रत्यक् सम्यगवस्थितम्। सत्यं पूर्णमनाद्यन्तं निर्गुणं नित्यमद्वयम् ॥३९॥ ऋषे विदन्ति मुनयः प्रशान्तात्मेन्द्रियाशयाः। यदा तदेवासत्तर्कैस्तिरोधीयेत विप्लुतम् ॥४०॥ आद्योऽवतारः पुरुषः परस्य कालः स्वभावः सदसन्मनश्च। द्रव्यं विकारो गुण इन्द्रियाणि विराट् स्वराट् स्थास्नु चरिष्णु भूम्नः ॥४१॥ अहं भवो यज्ञ इमे प्रजेशा दक्षादयो ये भवदादयश्च। स्वर्लोकपालाः खगलोकपाला नृलोकपालास्तललोकपालाः ॥४२॥ गन्धर्वविद्याधरचारणेशा ये यक्षरक्षोरगनागनाथाः। ये वा ऋषीणामृषभाः पितॄणां दैत्येन्द्रसिद्धेश्वरदानवेन्द्राः। अन्ये च ये प्रेतपिशाचभूत- कूष्माण्डयादोमृगपक्ष्यधीशाः ॥४३॥ यत्किञ्च लोके भगवन् महस्व- दोजःसहस्वद्बलवत्क्षमावत्। श्रीह्रीविभूत्यात्मवदद्भुतार्णं तत्त्वं परं रूपवदस्वरूपम् ॥४४॥ प्राधान्यतो यान् ऋष आमनन्ति लीलावतारान् पुरुषस्य भूम्नः। आपीयतां कर्णकषायशोषा- ननुक्रमिष्ये त इमान् सुपेशान् ॥४५॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वितीयस्कन्धे षष्ठोऽध्यायः ॥६॥

॥ ॐ नमो भगवते वासुदेवाय ॥

॥ सप्तमोऽध्यायः - ७ ॥

ब्रह्मोवाच यत्रोद्यतः क्षितितलोद्धरणाय बिभ्रत्क्रौडीं तनुं सकलयज्ञमयीमनन्तः। अन्तर्महार्णव उपागतमादिदैत्यं तं दंष्ट्रयाद्रिमिव वज्रधरो ददार ॥१॥ जातो रुचेरजनयत्सुयमान् सुयज्ञ आकूतिसूनुरमरानथ दक्षिणायाम्। लोकत्रयस्य महतीमहरद्यदार्तिं स्वायम्भुवेन मनुना हरिरित्यनूक्तः ॥२॥ जज्ञे च कर्दमगृहे द्विज देवहूत्यां स्त्रीभिः समं नवभिरात्मगतिं स्वमात्रे। ऊचे ययाऽऽत्मशमलं गुणसङ्गपङ्कमस्मिन् विधूय कपिलस्य गतिं प्रपेदे ॥३॥ अत्रेरपत्यमभिकाङ्क्षत आह तुष्टो दत्तो मयाहमिति यद्भगवान् स दत्तः। यत्पादपङ्कजपरागपवित्रदेहा योगर्द्धिमापुरुभयीं यदुहैहयाद्याः ॥४॥ तप्तं तपो विविधलोकसिसृक्षया मे आदौ सनात्स्वतपसः स चतुःसनोऽभूत्। प्राक्कल्पसम्प्लवविनष्टमिहात्मतत्त्वं सम्यग्जगाद मुनयो यदचक्षतात्मन् ॥५॥ धर्मस्य दक्षदुहितर्यजनिष्ट मूर्त्यां नारायणो नर इति स्वतपःप्रभावः। दृष्ट्वाऽऽत्मनो भगवतो नियमावलोपं देव्यस्त्वनङ्गपृतना घटितुं न शेकुः ॥६॥ कामं दहन्ति कृतिनो ननु रोषदृष्ट्या रोषं दहन्तमुत ते न दहन्त्यसह्यम् । सोऽयं यदन्तरमलं प्रविशन् बिभेति कामः कथं नु पुनरस्य मनः श्रयेत ॥७॥ विद्धः सपत्न्युदितपत्रिभिरन्ति राज्ञो बालोऽपि सन्नुपगतस्तपसे वनानि । तस्मा अदाद्ध्रुवगतिं गृणते प्रसन्नो दिव्याः स्तुवन्ति मुनयो यदुपर्यधस्तात् ॥८॥ यद्वेनमुत्पथगतं द्विजवाक्यवज्र- विप्लुष्टपौरुषभगं निरये पतन्तम् । त्रात्वार्थितो जगति पुत्रपदं च लेभे दुग्धा वसूनि वसुधा सकलानि येन ॥९॥ नाभेरसावृषभ आस सुदेविसूनुर्यो वै चचार समदृग्जडयोगचर्याम्। यत्पारमहंस्यमृषयः पदमामनन्ति स्वस्थः प्रशान्तकरणः परिमुक्तसङ्गः ॥१०॥ सत्रे ममास भगवान् हयशीरषाथो साक्षात्स यज्ञपुरुषस्तपनीयवर्णः। छन्दोमयो मखमयोऽखिलदेवतात्मा वाचो बभूवुरुशतीः श्वसतोऽस्य नस्तः ॥११॥ मत्स्यो युगान्तसमये मनुनोपलब्धः क्षोणीमयो निखिलजीवनिकायकेतः। विस्रंसितानुरुभये सलिले मुखान्मे आदाय तत्र विजहार ह वेदमार्गान् ॥१२॥ क्षीरोदधावमरदानवयूथपाना- मुन्मथ्नताममृतलब्धय आदिदेवः । पृष्ठेन कच्छपवपुर्विदधार गोत्रं निद्राक्षणोऽद्रिपरिवर्तकषाणकण्डूः ॥१३॥ त्रैविष्टपोरुभयहा स नृसिंहरूपं कृत्वा भ्रमद्भ्रुकुटिदंष्ट्रकरालवक्त्रम् । दैत्येन्द्रमाशु गदयाभिपतन्तमारादूरौ निपात्य विददार नखैः स्फुरन्तम् ॥१४॥ अन्तःसरस्युरुबलेन पदे गृहीतो ग्राहेण यूथपतिरम्बुजहस्त आर्तः। आहेदमादिपुरुषाखिललोकनाथ तीर्थश्रवः श्रवणमङ्गलनामधेय ॥१५॥ श्रुत्वा हरिस्तमरणार्थिनमप्रमेय- श्चक्रायुधः पतगराजभुजाधिरूढः। चक्रेण नक्रवदनं विनिपाट्य तस्माद्धस्ते प्रगृह्य भगवान् कृपयोज्जहार ॥१६॥ ज्यायान् गुणैरवरजोऽप्यदितेः सुतानां लोकान् विचक्रम इमान् यदथाधियज्ञः। क्ष्मां वामनेन जगृहे त्रिपदच्छलेन याच्ञामृते पथि चरन् प्रभुभिर्न चाल्यः ॥१७॥ नार्थो बलेरयमुरुक्रमपादशौचमापः शिखाधृतवतो विबुधाधिपत्यम्। यो वै प्रतिश्रुतमृते न चिकीर्षदन्य- दात्मानमङ्ग स शिरसा हरयेऽभिमेने ॥१८॥ तुभ्यं च नारद भृशं भगवान् विवृद्धभावेन साधु परितुष्ट उवाच योगम्। ज्ञानं च भागवतमात्मसतत्त्वदीपं यद्वासुदेवशरणा विदुरञ्जसैव ॥१९॥ चक्रं च दिक्ष्वविहतं दशसु स्वतेजो मन्वन्तरेषु मनुवंशधरो बिभर्ति। दुष्टेषु राजसु दमं व्यदधात्स्वकीर्तिं सत्ये त्रिपृष्ठ उशतीं प्रथयंश्चरित्रैः ॥२०॥ धन्वन्तरिश्च भगवान् स्वयमेव कीर्तिर्नाम्ना नृणां पुरुरुजां रुज आशु हन्ति । यज्ञे च भागममृतायुरवावरुन्ध आयुष्यवेदमनुशास्त्यवतीर्य लोके ॥२१॥ क्षत्रं क्षयाय विधिनोपभृतं महात्मा ब्रह्मध्रुगुज्झितपथं नरकार्तिलिप्सु। उद्धन्त्यसाववनिकण्टकमुग्रवीर्यः त्रिःसप्तकृत्व उरुधारपरश्वधेन ॥२२॥ अस्मत्प्रसादसुमुखः कलया कलेश इक्ष्वाकुवंश अवतीर्य गुरोर्निदेशे। तिष्ठन् वनं सदयितानुज आविवेश यस्मिन् विरुध्य दशकन्धर आर्तिमार्च्छत् ॥२३॥ यस्मा अदादुदधिरूढभयाङ्गवेपो मार्गं सपद्यरिपुरं हरवद्दिधक्षोः । दूरे सुहृन्मथितरोषसुशोणदृष्ट्या तातप्यमानमकरोरगनक्रचक्रः ॥२४॥ वक्षःस्थलस्पर्शरुग्णमहेन्द्रवाह- दन्तैर्विडम्बितककुब्जुष ऊढहासम्। सद्योऽसुभिः सह विनेष्यति दारहर्तुः विस्फूर्जितैर्धनुष उच्चरतोऽधिसैन्ये ॥२५॥ भूमेः सुरेतरवरूथविमर्दितायाः क्लेशव्ययाय कलया सितकृष्णकेशः। जातः करिष्यति जनानुपलक्ष्यमार्गः कर्माणि चात्ममहिमोपनिबन्धनानि ॥२६॥ तोकेन जीवहरणं यदुलूकिकायाः त्रैमासिकस्य च पदा शकटोऽपवृत्तः। यद्रिङ्गतान्तरगतेन दिविस्पृशोर्वा उन्मूलनं त्वितरथार्जुनयोर्न भाव्यम् ॥२७॥ यद्वै व्रजे व्रजपशून् विषतोयपीतान् पालांस्त्वजीवयदनुग्रहदृष्टिवृष्ट्या। तच्छुद्धयेऽतिविषवीर्यविलोलजिह्व- मुच्चाटयिष्यदुरगं विहरन् ह्रदिन्याम् ॥२८॥ तत्कर्म दिव्यमिव यन्निशि निःशयानं दावाग्निना शुचिवने परिदह्यमाने। उन्नेष्यति व्रजमतोऽवसितान्तकालं नेत्रे पिधाय्य सबलोऽनधिगम्यवीर्यः ॥२९॥ गृह्णीत यद्यदुपबन्धममुष्य माता शुल्बं सुतस्य न तु तत्तदमुष्य माति। यज्जृम्भतोऽस्य वदने भुवनानि गोपी संवीक्ष्य शङ्कितमनाः प्रतिबोधिताऽऽसीत् ॥३०॥ नन्दं च मोक्ष्यति भयाद्वरुणस्य पाशाद्गोपान् बिलेषु पिहितान् मयसूनुना च। अह्न्यापृतं निशि शयानमतिश्रमेण लोकं विकुण्ठमुपनेष्यति गोकुलं स्म ॥३१॥ गोपैर्मखे प्रतिहते व्रजविप्लवाय देवेऽभिवर्षति पशून् कृपया रिरक्षुः। धर्तोच्छिलीन्ध्रमिव सप्तदिनानि सप्तवर्षो महीध्रमनघैककरे सलीलम् ॥३२॥ क्रीडन् वने निशि निशाकररश्मिगौर्यां रासोन्मुखः कलपदायतमूर्च्छितेन। उद्दीपितस्मररुजां व्रजभृद्वधूनां हर्तुर्हरिष्यति शिरो धनदानुगस्य ॥३३॥ ये च प्रलम्बखरदर्दुरकेश्यरिष्ट- मल्लेभकंसयवनाः कुजपौण्ड्रकाद्याः। अन्ये च शाल्वकपिबल्वलदन्तवक्त्र- सप्तोक्षशम्बरविदूरथरुक्मिमुख्याः ॥३४॥ ये वा मृधे समितिशालिन आत्तचापाः काम्बोजमत्स्यकुरुसृञ्जयकैकयाद्याः। यास्यन्त्यदर्शनमलं बलपार्थभीम- व्याजाह्वयेन हरिणा निलयं तदीयम् ॥३५॥ कालेन मीलितधियामवमृश्य नॄणां स्तोकायुषां स्वनिगमो बत दूरपारः। आविर्हितस्त्वनुयुगं स हि सत्यवत्यां वेदद्रुमं विटपशो विभजिष्यति स्म ॥३६॥ देवद्विषां निगमवर्त्मनि निष्ठितानां पूर्भिर्मयेन विहिताभिरदृश्यतूर्भिः । लोकान् घ्नतां मतिविमोहमतिप्रलोभं वेषं विधाय बहु भाष्यत औपधर्म्यम् ॥३७॥ यर्ह्यालयेष्वपि सतां न हरेः कथाः स्युः पाखण्डिनो द्विजजना वृषला नृदेवाः। स्वाहा स्वधा वषडिति स्म गिरो न यत्र शास्ता भविष्यति कलेर्भगवान् युगान्ते ॥३८॥ सर्गे तपोऽहमृषयो नव ये प्रजेशाः स्थाने च धर्ममखमन्वमरावनीशाः। अन्ते त्वधर्महरमन्युवशासुराद्या मायाविभूतय इमाः पुरुशक्तिभाजः ॥३९॥ विष्णोर्नु वीर्यगणनां कतमोऽर्हतीह यः पार्थिवान्यपि कविर्विममे रजांसि। चस्कम्भ यः स्वरहसास्खलता त्रिपृष्ठं यस्मात्त्रिसाम्यसदनादुरुकम्पयानम् ॥४०॥ नान्तं विदाम्यहममी मुनयोऽग्रजास्ते मायाबलस्य पुरुषस्य कुतोऽपरे ये। गायन् गुणान् दशशतानन आदिदेवः शेषोऽधुनापि समवस्यति नास्य पारम् ॥४१॥ येषां स एव भगवान् दययेदनन्तः सर्वात्मनाऽऽश्रितपदो यदि निर्व्यलीकम्। ते दुस्तरामतितरन्ति च देवमायां नैषां ममाहमिति धीः श्वशृगालभक्ष्ये ॥४२॥ वेदाहमङ्ग परमस्य हि योगमायां यूयं भवश्च भगवानथ दैत्यवर्यः। पत्नी मनोः स च मनुश्च तदात्मजाश्च प्राचीनबर्हिरृभुरङ्ग उत ध्रुवश्च ॥४३॥ इक्ष्वाकुरैलमुचुकुन्दविदेहगाधि- रघ्वम्बरीषसगरा गयनाहुषाद्याः। मान्धात्रलर्कशतधन्वनुरन्तिदेवा देवव्रतो बलिरमूर्त्तरयो दिलीपः ॥४४॥ सौभर्युतङ्कशिबिदेवलपिप्पलाद- सारस्वतोद्धवपराशरभूरिषेणाः। येऽन्ये विभीषणहनूमदुपेन्द्रदत्त- पार्थार्ष्टिषेणविदुरश्रुतदेववर्याः ॥४५॥ ते वै विदन्त्यतितरन्ति च देवमायां स्त्रीशूद्रहूणशबरा अपि पापजीवाः। यद्यद्भुतक्रमपरायणशीलशिक्षा- स्तिर्यग्जना अपि किमु श्रुतधारणा ये ॥४६॥ शश्वत्प्रशान्तमभयं प्रतिबोधमात्रं शुद्धं समं सदसतः परमात्मतत्त्वम्। शब्दो न यत्र पुरुकारकवान् क्रियार्थो माया परैत्यभिमुखे च विलज्जमाना ॥४७॥ तद्वै पदं भगवतः परमस्य पुंसो ब्रह्मेति यद्विदुरजस्रसुखं विशोकम्। सध्र्यङ् नियम्य यतयो यमकर्तहेतिं जह्युः स्वराडिव निपानखनित्रमिन्द्रः ॥४८॥ स श्रेयसामपि विभुर्भगवान् यतोऽस्य भावस्वभावविहितस्य सतः प्रसिद्धिः। देहे स्वधातुविगमेऽनुविशीर्यमाणे व्योमेव तत्र पुरुषो न विशीर्यतेऽजः ॥४९॥ सोऽयं तेऽभिहितस्तात भगवान् विश्वभावनः। समासेन हरेर्नान्यदन्यस्मात्सदसच्च यत् ॥५०॥ इदं भागवतं नाम यन्मे भगवतोदितम्। सङ्ग्रहोऽयं विभूतीनां त्वमेतद्विपुलीकुरु ॥५१॥ यथा हरौ भगवति नृणां भक्तिर्भविष्यति। सर्वात्मन्यखिलाधारे इति सङ्कल्प्य वर्णय ॥५२॥ मायां वर्णयतोऽमुष्य ईश्वरस्यानुमोदतः। शृण्वतः श्रद्धया नित्यं माययाऽऽत्मा न मुह्यति ॥५३॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वितीयस्कन्धे ब्रह्मनारदसंवादे सप्तमोऽध्यायः ॥७॥

॥ ॐ नमो भगवते वासुदेवाय ॥

॥ अष्टमोऽध्यायः - ८ ॥

राजोवाच ब्रह्मणा चोदितो ब्रह्मन् गुणाख्यानेऽगुणस्य च। यस्मै यस्मै यथा प्राह नारदो देवदर्शनः ॥१॥ एतद्वेदितुमिच्छामि तत्त्वं वेदविदां वर। हरेरद्भुतवीर्यस्य कथा लोकसुमङ्गलाः ॥२॥ कथयस्व महाभाग यथाहमखिलात्मनि। कृष्णे निवेश्य निःसङ्गं मनस्त्यक्ष्ये कलेवरम् ॥३॥ शृण्वतः श्रद्धया नित्यं गृणतश्च स्वचेष्टितम्। कालेन नातिदीर्घेण भगवान् विशते हृदि ॥४॥ प्रविष्टः कर्णरन्ध्रेण स्वानां भावसरोरुहम्। धुनोति शमलं कृष्णः सलिलस्य यथा शरत् ॥५॥ धौतात्मा पुरुषः कृष्णपादमूलं न मुञ्चति। मुक्तसर्वपरिक्लेशः पान्थः स्वशरणं यथा ॥६॥ यदधातुमतो ब्रह्मन् देहारम्भोऽस्य धातुभिः। यदृच्छया हेतुना वा भवन्तो जानते यथा ॥७॥ आसीद्यदुदरात्पद्मं लोकसंस्थानलक्षणम्। यावानयं वै पुरुष इयत्तावयवैः पृथक्। तावानसाविति प्रोक्तः संस्थावयववानिव ॥८॥ अजः सृजति भूतानि भूतात्मा यदनुग्रहात्। ददृशे येन तद्रूपं नाभिपद्मसमुद्भवः ॥९॥ स चापि यत्र पुरुषो विश्वस्थित्युद्भवाप्ययः। मुक्त्वाऽऽत्ममायां मायेशः शेते सर्वगुहाशयः॥१०॥ पुरुषावयवैर्लोकाः सपालाः पूर्वकल्पिताः। लोकैरमुष्यावयवाः सपालैरिति शुश्रुम ॥११॥ यावान् कल्पो विकल्पो वा यथा कालोऽनुमीयते। भूतभव्यभवच्छब्द आयुर्मानं च यत्सतः ॥१२॥ कालस्यानुगतिर्या तु लक्ष्यतेऽण्वी बृहत्यपि। यावत्यः कर्मगतयो यादृशीर्द्विजसत्तम ॥१३॥ यस्मिन् कर्मसमावायो यथा येनोपगृह्यते। गुणानां गुणिनां चैव परिणाममभीप्सताम् ॥१४॥ भूपातालककुब्व्योम ग्रहनक्षत्रभूभृताम्। सरित्समुद्रद्वीपानां सम्भवश्चैतदोकसाम् ॥१५॥ प्रमाणमण्डकोशस्य बाह्याभ्यन्तरभेदतः। महतां चानुचरितं वर्णाश्रमविनिश्चयः ॥१६॥ युगानि युगमानं च धर्मो यश्च युगे युगे। अवतारानुचरितं यदाश्चर्यतमं हरेः ॥१७॥ नृणां साधारणो धर्मः सविशेषश्च यादृशः। श्रेणीनां राजर्षीणां च धर्मः कृच्छ्रेषु जीवताम्॥१८॥ तत्त्वानां परिसङ्ख्यानं लक्षणं हेतुलक्षणम्। पुरुषाराधनविधिर्योगस्याध्यात्मिकस्य च ॥१९॥ योगेश्वरैश्वर्यगतिर्लिङ्गभङ्गस्तु योगिनाम्। वेदोपवेदधर्माणामितिहासपुराणयोः ॥२०॥ सम्प्लवः सर्वभूतानां विक्रमः प्रतिसङ्क्रमः। इष्टापूर्तस्य काम्यानां त्रिवर्गस्य च यो विधिः ॥२१॥ यश्चानुशायिनां सर्गः पाखण्डस्य च सम्भवः। आत्मनो बन्धमोक्षौ च व्यवस्थानं स्वरूपतः ॥२२॥ यथाऽऽत्मतन्त्रो भगवान् विक्रीडत्यात्ममायया। विसृज्य वा यथा मायामुदास्ते साक्षिवद्विभुः ॥२३॥ सर्वमेतच्च भगवन् पृच्छते मेऽनुपूर्वशः। तत्त्वतोऽर्हस्युदाहर्तुं प्रपन्नाय महामुने ॥२४॥ अत्र प्रमाणं हि भवान् परमेष्ठी यथाऽऽत्मभूः। परे चेहानुतिष्ठन्ति पूर्वेषां पूर्वजैः कृतम् ॥२५॥ न मेऽसवः परायन्ति ब्रह्मन्ननशनादमी। पिबतोऽच्युतपीयूषमन्यत्र कुपिताद्द्विजात् ॥२६॥ सूत उवाच स उपामन्त्रितो राज्ञा कथायामिति सत्पतेः। ब्रह्मरातो भृशं प्रीतो विष्णुरातेन संसदि ॥२७॥ प्राह भागवतं नाम पुराणं ब्रह्मसम्मितम्। ब्रह्मणे भगवत्प्रोक्तं ब्रह्मकल्प उपागते ॥२८॥ यद्यत्परीक्षिदृषभः पाण्डूनामनुपृच्छति। आनुपूर्व्येण तत्सर्वमाख्यातुमुपचक्रमे ॥ २९ ॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वितीयस्कन्धे प्रश्नविधिर्नामाष्टमोऽध्यायः ॥८॥

॥ ॐ नमो भगवते वासुदेवाय ॥

॥ नवमोऽध्यायः - ९ ॥

श्रीशुक उवाच आत्ममायामृते राजन् परस्यानुभवात्मनः। न घटेतार्थसम्बन्धः स्वप्नद्रष्टुरिवाञ्जसा ॥१॥ बहुरूप इवाभाति मायया बहुरूपया। रममाणो गुणेष्वस्या ममाहमिति मन्यते ॥२॥ यर्हि वाव महिम्नि स्वे परस्मिन् कालमाययोः। रमेत गतसम्मोहस्त्यक्त्वोदास्ते तदोभयम् ॥३॥ आत्मतत्त्वविशुद्ध्यर्थं यदाह भगवान् ऋतम्। ब्रह्मणे दर्शयन् रूपमव्यलीकव्रतादृतः ॥४॥ स आदिदेवो जगतां परो गुरुः स्वधिष्ण्यमास्थाय सिसृक्षयैक्षत। तां नाध्यगच्छद्दृशमत्र सम्मतां प्रपञ्चनिर्माणविधिर्यया भवेत् ॥५॥ स चिन्तयन् द्व्यक्षरमेकदाम्भसि उपाशृणोद्द्विर्गदितं वचो विभुः। स्पर्शेषु यत्षोडशमेकविंशं निष्किञ्चनानां नृप यद्धनं विदुः ॥६॥ निशम्य तद्वक्तृदिदृक्षया दिशो विलोक्य तत्रान्यदपश्यमानः। स्वधिष्ण्यमास्थाय विमृश्य तद्धितं तपस्युपादिष्ट इवादधे मनः ॥७॥ दिव्यं सहस्राब्दममोघदर्शनो जितानिलात्मा विजितोभयेन्द्रियः। अतप्यत स्माखिललोकतापनं तपस्तपीयांस्तपतां समाहितः ॥८॥ तस्मै स्वलोकं भगवान् सभाजितः सन्दर्शयामास परं न यत्परम्। व्यपेतसङ्क्लेशविमोहसाध्वसं स्वदृष्टवद्भिः पुरुषैरभिष्टुतम् ॥९॥ प्रवर्तते यत्र रजस्तमस्तयोः सत्त्वं च मिश्रं न च कालविक्रमः। न यत्र माया किमुतापरे हरेरनुव्रता यत्र सुरासुरार्चिताः ॥१०॥ श्यामावदाताः शतपत्रलोचनाः पिशङ्गवस्त्राः सुरुचः सुपेशसः। सर्वे चतुर्बाहव उन्मिषन्मणि- प्रवेकनिष्काभरणाः सुवर्चसः। प्रवालवैदूर्यमृणालवर्चसः परिस्फुरत्कुण्डलमौलिमालिनः ॥११॥ भ्राजिष्णुभिर्यः परितो विराजते लसद्विमानावलिभिर्महात्मनाम्। विद्योतमानः प्रमदोत्तमाद्युभिः सविद्युदभ्रावलिभिर्यथा नभः ॥१२॥ श्रीर्यत्र रूपिण्युरुगायपादयोः करोति मानं बहुधा विभूतिभिः। प्रेङ्खं श्रिता या कुसुमाकरानुगैः विगीयमाना प्रियकर्म गायती ॥१३॥ ददर्श तत्राखिलसात्वतां पतिं श्रियः पतिं यज्ञपतिं जगत्पतिम्। सुनन्दनन्दप्रबलार्हणादिभिः स्वपार्षदमुख्यैः परिसेवितं विभुम् ॥१४॥ भृत्यप्रसादाभिमुखं दृगासवं प्रसन्नहासारुणलोचनाननम्। किरीटिनं कुण्डलिनं चतुर्भुजं पीताम्बरं वक्षसि लक्षितं श्रिया ॥१५॥ अध्यर्हणीयासनमास्थितं परं वृतं चतुःषोडशपञ्चशक्तिभिः। युक्तं भगैः स्वैरितरत्र चाध्रुवैः स्व एव धामन् रममाणमीश्वरम् ॥१६॥ तद्दर्शनाह्लादपरिप्लुतान्तरो हृष्यत्तनुः प्रेमभराश्रुलोचनः। ननाम पादाम्बुजमस्य विश्वसृग्- यत्पारमहंस्येन पथाधिगम्यते ॥१७॥ तं प्रीयमाणं समुपस्थितं तदा प्रजाविसर्गे निजशासनार्हणम्। बभाष ईषत्स्मितशोचिषा गिरा प्रियः प्रियं प्रीतमनाः करे स्पृशन् ॥१८॥ श्रीभगवानुवाच त्वयाहं तोषितः सम्यग्वेदगर्भ सिसृक्षया। चिरं भृतेन तपसा दुस्तोषः कूटयोगिनाम् ॥१९॥ वरं वरय भद्रं ते वरेशं माभिवाञ्छितम्। ब्रह्मञ्छ्रेयःपरिश्रामः पुंसो मद्दर्शनावधिः ॥२०॥ मनीषितानुभावोऽयं मम लोकावलोकनम्। यदुपश्रुत्य रहसि चकर्थ परमं तपः ॥२१॥ प्रत्यादिष्टं मया तत्र त्वयि कर्मविमोहिते। तपो मे हृदयं साक्षादात्माहं तपसोऽनघ ॥२२॥ सृजामि तपसैवेदं ग्रसामि तपसा पुनः। बिभर्मि तपसा विश्वं वीर्यं मे दुश्चरं तपः ॥२३॥ ब्रह्मोवाच भगवन् सर्वभूतानामध्यक्षोऽवस्थितो गुहाम्। वेद ह्यप्रतिरुद्धेन प्रज्ञानेन चिकीर्षितम् ॥२४॥ तथापि नाथमानस्य नाथ नाथय नाथितम्। परावरे यथा रूपे जानीयां ते त्वरूपिणः ॥२५॥ यथाऽऽत्ममायायोगेन नानाशक्त्युपबृंहितम्। विलुम्पन् विसृजन् गृह्णन् बिभ्रदात्मानमात्मना ॥२६॥ क्रीडस्यमोघसङ्कल्प ऊर्णनाभिर्यथोर्णुते। तथा तद्विषयां धेहि मनीषां मयि माधव ॥२७॥ भगवच्छिक्षितमहं करवाणि ह्यतन्द्रितः। नेहमानः प्रजासर्गं बध्येयं यदनुग्रहात् ॥२८॥ यावत्सखा सख्युरिवेश ते कृतः प्रजाविसर्गे विभजामि भो जनम्। अविक्लवस्ते परिकर्मणि स्थितो मा मे समुन्नद्धमदोऽजमानिनः ॥२९॥ श्रीभगवानुवाच ज्ञानं परमगुह्यं मे यद्विज्ञानसमन्वितम्। सरहस्यं तदङ्गं च गृहाण गदितं मया ॥३०॥ यावानहं यथाभावो यद्रूपगुणकर्मकः। तथैव तत्त्वविज्ञानमस्तु ते मदनुग्रहात् ॥३१॥ अहमेवासमेवाग्रे नान्यद्यत्सदसत्परम्। पश्चादहं यदेतच्च योऽवशिष्येत सोऽस्म्यहम् ॥३२॥ ऋतेऽर्थं यत्प्रतीयेत न प्रतीयेत चात्मनि। तद्विद्यादात्मनो मायां यथाभासो यथा तमः ॥३३॥ यथा महान्ति भूतानि भूतेषूच्चावचेष्वनु। प्रविष्टान्यप्रविष्टानि तथा तेषु न तेष्वहम् ॥३४॥ एतावदेव जिज्ञास्यं तत्त्वजिज्ञासुनाऽऽत्मनः। अन्वयव्यतिरेकाभ्यां यत्स्यात्सर्वत्र सर्वदा ॥३५॥ एतन्मतं समातिष्ठ परमेण समाधिना। भवान् कल्पविकल्पेषु न विमुह्यति कर्हिचित् ॥३६॥ श्रीशुक उवाच सम्प्रदिश्यैवमजनो जनानां परमेष्ठिनम्। पश्यतस्तस्य तद्रूपमात्मनो न्यरुणद्धरिः ॥३७॥ अन्तर्हितेन्द्रियार्थाय हरये विहिताञ्जलिः। सर्वभूतमयो विश्वं ससर्जेदं स पूर्ववत् ॥३८॥ प्रजापतिर्धर्मपतिरेकदा नियमान् यमान्। भद्रं प्रजानामन्विच्छन्नातिष्ठत्स्वार्थकाम्यया ॥३९॥ तं नारदः प्रियतमो रिक्थादानामनुव्रतः। शुश्रूषमाणः शीलेन प्रश्रयेण दमेन च ॥४०॥ मायां विविदिषन् विष्णोर्मायेशस्य महामुनिः। महाभागवतो राजन् पितरं पर्यतोषयत् ॥४१॥ तुष्टं निशाम्य पितरं लोकानां प्रपितामहम्। देवर्षिः परिपप्रच्छ भवान् यन्मानुपृच्छति ॥४२॥ तस्मा इदं भागवतं पुराणं दशलक्षणम्। प्रोक्तं भगवता प्राह प्रीतः पुत्राय भूतकृत् ॥४३॥ नारदः प्राह मुनये सरस्वत्यास्तटे नृप। ध्यायते ब्रह्म परमं व्यासायामिततेजसे ॥४४॥ यदुताहं त्वया पृष्टो वैराजात्पुरुषादिदम्। यथाऽऽसीत्तदुपाख्यास्ये प्रश्नानन्यांश्च कृत्स्नशः॥४५॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वितीयस्कन्धे नवमोऽध्यायः ॥९॥

॥ ॐ नमो भगवते वासुदेवाय ॥

॥ दशमोऽध्यायः - १० ॥

श्रीशुक उवाच अत्र सर्गो विसर्गश्च स्थानं पोषणमूतयः। मन्वन्तरेशानुकथा निरोधो मुक्तिराश्रयः ॥१॥ दशमस्य विशुद्ध्यर्थं नवानामिह लक्षणम्। वर्णयन्ति महात्मानः श्रुतेनार्थेन चाञ्जसा ॥२॥ भूतमात्रेन्द्रियधियां जन्म सर्ग उदाहृतः। ब्रह्मणो गुणवैषम्याद्विसर्गः पौरुषः स्मृतः ॥३॥ स्थितिर्वैकुण्ठविजयः पोषणं तदनुग्रहः। मन्वन्तराणि सद्धर्म ऊतयः कर्मवासनाः ॥४॥ अवतारानुचरितं हरेश्चास्यानुवर्तिनाम्। सतामीशकथाः प्रोक्ता नानाऽऽख्यानोपबृंहिताः ॥५॥ निरोधोऽस्यानुशयनमात्मनः सह शक्तिभिः। मुक्तिर्हित्वान्यथा रूपं स्वरूपेण व्यवस्थितिः ॥६॥ आभासश्च निरोधश्च यतश्चाध्यवसीयते। स आश्रयः परं ब्रह्म परमात्मेति शब्द्यते ॥७॥ योऽध्यात्मिकोऽयं पुरुषः सोऽसावेवाधिदैविकः। यस्तत्रोभयविच्छेदः पुरुषो ह्याधिभौतिकः ॥८॥ एकमेकतराभावे यदा नोपलभामहे। त्रितयं तत्र यो वेद स आत्मा स्वाश्रयाश्रयः ॥९॥ पुरुषोऽण्डं विनिर्भिद्य यदासौ स विनिर्गतः। आत्मनोऽयनमन्विच्छन्नपोऽस्राक्षीच्छुचिः शुचीः॥१०॥ तास्ववात्सीत्स्वसृष्टासु सहस्रपरिवत्सरान्। तेन नारायणो नाम यदापः पुरुषोद्भवाः ॥११॥ द्रव्यं कर्म च कालश्च स्वभावो जीव एव च। यदनुग्रहतः सन्ति न सन्ति यदुपेक्षया ॥१२॥ एको नानात्वमन्विच्छन् योगतल्पात्समुत्थितः। वीर्यं हिरण्मयं देवो मायया व्यसृजत्त्रिधा ॥१३॥ अधिदैवमथाध्यात्ममधिभूतमिति प्रभुः। यथैकं पौरुषं वीर्यं त्रिधाभिद्यत तच्छृणु ॥१४॥ अन्तःशरीर आकाशात्पुरुषस्य विचेष्टतः। ओजः सहो बलं जज्ञे ततः प्राणो महानसुः ॥१५॥ अनुप्राणन्ति यं प्राणाः प्राणन्तं सर्वजन्तुषु। अपानन्तमपानन्ति नरदेवमिवानुगाः ॥१६॥ प्राणेन क्षिपता क्षुत्तृडन्तरा जायते प्रभोः। पिपासतो जक्षतश्च प्राङ्मुखं निरभिद्यत ॥१७॥ मुखतस्तालु निर्भिन्नं जिह्वा तत्रोपजायते। ततो नानारसो जज्ञे जिह्वया योऽधिगम्यते ॥१८॥ विवक्षोर्मुखतो भूम्नो वह्निर्वाग्व्याहृतं तयोः। जले चैतस्य सुचिरं निरोधः समजायत ॥१९॥ नासिके निरभिद्येतां दोधूयति नभस्वति। तत्र वायुर्गन्धवहो घ्राणो नसि जिघृक्षतः ॥२०॥ यदात्मनि निरालोकमात्मानं च दिदृक्षतः। निर्भिन्ने ह्यक्षिणी तस्य ज्योतिश्चक्षुर्गुणग्रहः ॥२१॥ बोध्यमानस्य ऋषिभिरात्मनस्तज्जिघृक्षतः। कर्णौ च निरभिद्येतां दिशः श्रोत्रं गुणग्रहः ॥२२॥ वस्तुनो मृदुकाठिन्यलघुगुर्वोष्णशीतताम्। जिघृक्षतस्त्वङ् निर्भिन्ना तस्यां रोममहीरुहाः। तत्र चान्तर्बहिर्वातस्त्वचा लब्धगुणो वृतः ॥२३॥ हस्तौ रुरुहतुस्तस्य नानाकर्मचिकीर्षया। तयोस्तु बलमिन्द्रश्च आदानमुभयाश्रयम् ॥२४॥ गतिं जिगीषतः पादौ रुरुहातेऽभिकामिकाम्। पद्भ्यां यज्ञः स्वयं हव्यं कर्मभिः क्रियते नृभिः ॥२५॥ निरभिद्यत शिश्नो वै प्रजानन्दामृतार्थिनः। उपस्थ आसीत्कामानां प्रियं तदुभयाश्रयम् ॥२६॥ उत्सिसृक्षोर्धातुमलं निरभिद्यत वै गुदम्। ततः पायुस्ततो मित्र उत्सर्ग उभयाश्रयः ॥२७॥ आसिसृप्सोः पुरः पुर्या नाभिद्वारमपानतः। तत्रापानस्ततो मृत्युः पृथक्त्वमुभयाश्रयम् ॥२८॥ आदित्सोरन्नपानानामासन् कुक्ष्यन्त्रनाडयः। नद्यः समुद्राश्च तयोस्तुष्टिः पुष्टिस्तदाश्रये ॥२९॥ निदिध्यासोरात्ममायां हृदयं निरभिद्यत। ततो मनस्ततश्चन्द्रः सङ्कल्पः काम एव च ॥३०॥ त्वक्चर्ममांसरुधिरमेदोमज्जास्थिधातवः। भूम्यप्तेजोमयाः सप्त प्राणो व्योमाम्बुवायुभिः ॥३१॥ गुणात्मकानीन्द्रियाणि भूतादिप्रभवा गुणाः। मनः सर्वविकारात्मा बुद्धिर्विज्ञानरूपिणी ॥३२॥ एतद्भगवतो रूपं स्थूलं ते व्याहृतं मया। मह्यादिभिश्चावरणैरष्टभिर्बहिरावृतम् ॥३३॥ अतः परं सूक्ष्मतममव्यक्तं निर्विशेषणम्। अनादिमध्यनिधनं नित्यं वाङ्मनसः परम् ॥३४॥ अमुनी भगवद्रूपे मया ते अनुवर्णिते। उभे अपि न गृह्णन्ति मायासृष्टे विपश्चितः ॥३५॥ स वाच्यवाचकतया भगवान् ब्रह्मरूपधृक्। नामरूपक्रिया धत्ते सकर्माकर्मकः परः ॥३६॥ प्रजापतीन् मनून् देवान् ऋषीन् पितृगणान् पृथक्। सिद्धचारणगन्धर्वान् विद्याध्रासुरगुह्यकान् ॥३७॥ किन्नराप्सरसो नागान् सर्पान् किम्पुरुषोरगान्। मातॄरक्षःपिशाचांश्च प्रेतभूतविनायकान् ॥३८॥ कूष्माण्डोन्मादवेतालान् यातुधानान् ग्रहानपि । खगान् मृगान् पशून् वृक्षान् गिरीन् नृप सरीसृपान् ॥३९॥ द्विविधाश्चतुर्विधा येऽन्ये जलस्थलनभौकसः। कुशलाकुशला मिश्राः कर्मणां गतयस्त्विमाः ॥४०॥ सत्त्वं रजस्तम इति तिस्रः सुरनृनारकाः। तत्राप्येकैकशो राजन् भिद्यन्ते गतयस्त्रिधा। यदैकैकतरोऽन्याभ्यां स्वभाव उपहन्यते ॥४१॥ स एवेदं जगद्धाता भगवान् धर्मरूपधृक्। पुष्णाति स्थापयन् विश्वं तिर्यङ् नरसुरादिभिः ॥४२॥ ततः कालाग्निरुद्रात्मा यत्सृष्टमिदमात्मनः। सन्नियच्छति कालेन घनानीकमिवानिलः ॥४३॥ इत्थम्भावेन कथितो भगवान् भगवत्तमः। नेत्थम्भावेन हि परं द्रष्टुमर्हन्ति सूरयः ॥४४॥ नास्य कर्मणि जन्मादौ परस्यानुविधीयते। कर्तृत्वप्रतिषेधार्थं माययाऽऽरोपितं हि तत् ॥४५॥ अयं तु ब्रह्मणः कल्पः सविकल्प उदाहृतः। विधिः साधारणो यत्र सर्गाः प्राकृतवैकृताः ॥४६॥ परिमाणं च कालस्य कल्पलक्षणविग्रहम्। यथा पुरस्ताद्व्याख्यास्ये पाद्मं कल्पमथो शृणु ॥४७॥ शौनक उवाच यदाह नो भवान् सूत क्षत्ता भागवतोत्तमः। चचार तीर्थानि भुवस्त्यक्त्वा बन्धून् सुदुस्त्यजान्॥४८॥ कुत्र कौषारवेस्तस्य संवादोऽध्यात्मसंश्रितः। यद्वा स भगवांस्तस्मै पृष्टस्तत्त्वमुवाच ह ॥४९॥ ब्रूहि नस्तदिदं सौम्य विदुरस्य विचेष्टितम्। बन्धुत्यागनिमित्तं च तथैवागतवान् पुनः ॥५०॥ सूत उवाच राज्ञा परीक्षिता पृष्टो यदवोचन्महामुनिः। तद्वोऽभिधास्ये शृणुत राज्ञः प्रश्नानुसारतः ॥५१॥ इति श्रीमद्भागवते महापुराणे वैयासक्यामष्टादशसाहस्र्यां पारमहंस्यां संहितायां द्वितीयस्कन्धे पुरुषसंस्तानुवर्णनं नाम दशमोऽध्यायः॥१०॥

॥ इति द्वितीयस्कन्धः समाप्तः ॥

ॐ तत्सत् ॥


GRETIL txt edited as per Gita Press edition along with paaThabheda by PSA Easwaran

% Text title            : shrImadbhAgavatam - 02 - dvitIyaskandhaH
% File name             : bhagpur-02.txt
% itxtitle              : shrImadbhAgavatam - 02 - dvitIyaskandhaH
% engtitle              : Shrimad Bhagavata Purana
% Category              : purana, shrimadbhagavatam, vyAsa, krishna
% Location              : doc_purana
% Sublocation           : purana
% Language              : Sanskrit
% Subject               : hinduism/religion
% Latest update         : July 31, 2017, July 16, 2010
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP