॥ श्रीमद्भागवतम् - चतुर्थस्कन्धः ॥

॥ ॐ नमो भगवते वासुदेवाय ॥

॥ चतुर्थस्कन्धः ॥

॥ प्रथमोऽध्यायः - १ ॥

मैत्रेय उवाच मनोस्तु शतरूपायां तिस्रः कन्याश्च जज्ञिरे। आकूतिर्देवहूतिश्च प्रसूतिरिति विश्रुताः ॥१॥ आकूतिं रुचये प्रादादपि भ्रातृमतीं नृपः। पुत्रिकाधर्ममाश्रित्य शतरूपानुमोदितः ॥२॥ प्रजापतिः स भगवान् रुचिस्तस्यामजीजनत्। मिथुनं ब्रह्मवर्चस्वी परमेण समाधिना ॥३॥ यस्तयोः पुरुषः साक्षाद्विष्णुर्यज्ञस्वरूपधृक्। या स्त्री सा दक्षिणा भूतेरंशभूतानपायिनी ॥४॥ आनिन्ये स्वगृहं पुत्र्याः पुत्रं विततरोचिषम्। स्वायम्भुवो मुदा युक्तो रुचिर्जग्राह दक्षिणाम् ॥५॥ तां कामयानां भगवानुवाह यजुषां पतिः। तुष्टायां तोषमापन्नोऽजनयद्द्वादशात्मजान् ॥६॥ तोषः प्रतोषः सन्तोषो भद्रः शान्तिरिडस्पतिः। इध्मः कविर्विभुः स्वह्नः सुदेवो रोचनो द्विषट् ॥७॥ तुषिता नाम ते देवा आसन् स्वायम्भुवान्तरे। मरीचिमिश्रा ऋषयो यज्ञः सुरगणेश्वरः ॥८॥ प्रियव्रतोत्तानपादौ मनुपुत्रौ महौजसौ। तत्पुत्रपौत्रनप्तॄणामनुवृत्तं तदन्तरम् ॥९॥ देवहूतिमदात्तात कर्दमायात्मजां मनुः। तत्सम्बन्धि श्रुतप्रायं भवता गदतो मम ॥१०॥ दक्षाय ब्रह्मपुत्राय प्रसूतिं भगवान् मनुः। प्रायच्छद्यत्कृतः सर्गस्त्रिलोक्यां विततो महान्॥११॥ याः कर्दमसुताः प्रोक्ता नव ब्रह्मर्षिपत्नयः। तासां प्रसूतिप्रसवं प्रोच्यमानं निबोध मे ॥१२॥ पत्नी मरीचेस्तु कला सुषुवे कर्दमात्मजा। कश्यपं पूर्णिमानं च ययोरापूरितं जगत् ॥१३॥ पूर्णिमासूत विरजं विश्वगं च परन्तप। देवकुल्यां हरेः पादशौचाद्याभूत्सरिद्दिवः ॥१४॥ अत्रेः पत्न्यनसूया त्रीञ्जज्ञे सुयशसः सुतान्। दत्तं दुर्वाससं सोममात्मेशब्रह्मसम्भवान् ॥१५॥ विदुर उवाच अत्रेर्गृहे सुरश्रेष्ठाः स्थित्युत्पत्त्यन्तहेतवः। किञ्चिच्चिकीर्षवो जाता एतदाख्याहि मे गुरो ॥१६॥ मैत्रेय उवाच ब्रह्मणा नोदितः सृष्टावत्रिर्ब्रह्मविदां वरः। सह पत्न्या ययावृक्षं कुलाद्रिं तपसि स्थितः ॥१७॥ तस्मिन् प्रसूनस्तबकपलाशाशोककानने। वार्भिः स्रवद्भिरुद्घुष्टे निर्विन्ध्यायाः समन्ततः ॥१८॥ प्राणायामेन संयम्य मनो वर्षशतं मुनिः। अतिष्ठदेकपादेन निर्द्वन्द्वोऽनिलभोजनः ॥१९॥ शरणं तं प्रपद्येऽहं य एव जगदीश्वरः। प्रजामात्मसमां मह्यं प्रयच्छत्विति चिन्तयन् ॥२०॥ तप्यमानं त्रिभुवनं प्राणायामैधसाग्निना। निर्गतेन मुनेर्मूर्ध्नः समीक्ष्य प्रभवस्त्रयः ॥२१॥ अप्सरोमुनिगन्धर्वसिद्धविद्याधरोरगैः। वितायमानयशसस्तदाश्रमपदं ययुः ॥२२॥ तत्प्रादुर्भावसंयोगविद्योतितमना मुनिः। उत्तिष्ठन्नेकपादेन ददर्श विबुधर्षभान् ॥२३॥ प्रणम्य दण्डवद्भूमावपतस्थेऽर्हणाञ्जलिः। वृषहंससुपर्णस्थान् स्वैः स्वैश्चिह्नैश्च चिह्नितान् ॥२४॥ कृपावलोकेन हसद्वदनेनोपलम्भितान्। तद्रोचिषा प्रतिहते निमील्य मुनिरक्षिणी ॥२५॥ चेतस्तत्प्रवणं युञ्जन्नस्तावीत्संहताञ्जलिः। श्लक्ष्णया सूक्तया वाचा सर्वलोकगरीयसः ॥२६॥ अत्रिरुवाच विश्वोद्भवस्थितिलयेषु विभज्यमानै- र्मायागुणैरनुयुगं विगृहीतदेहाः । ते ब्रह्मविष्णुगिरिशाः प्रणतोऽस्म्यहं वः तेभ्यः क एव भवतां म इहोपहूतः ॥२७॥ एको मयेह भगवान् विविधप्रधानै- श्चित्तीकृतः प्रजननाय कथं नु यूयम् । अत्रागतास्तनुभृतां मनसोऽपि दूराद्- ब्रूत प्रसीदत महानिह विस्मयो मे ॥२८॥ मैत्रेय उवाच इति तस्य वचः श्रुत्वा त्रयस्ते विबुधर्षभाः। प्रत्याहुः श्लक्ष्णया वाचा प्रहस्य तमृषिं प्रभो ॥२९॥ देवा ऊचुः यथा कृतस्ते सङ्कल्पो भाव्यं तेनैव नान्यथा। सत्सङ्कल्पस्य ते ब्रह्मन् यद्वै ध्यायति ते वयम् ॥३०॥ अथास्मदंशभूतास्ते आत्मजा लोकविश्रुताः। भवितारोऽङ्ग भद्रं ते विस्रप्स्यन्ति च ते यशः ॥३१॥ एवं कामवरं दत्त्वा प्रतिजग्मुः सुरेश्वराः। सभाजितास्तयोः सम्यग्दम्पत्योर्मिषतोस्ततः ॥३२॥ सोमोऽभूद्ब्रह्मणोंऽशेन दत्तो विष्णोस्तु योगवित्। दुर्वासाः शङ्करस्यांशो निबोधाङ्गिरसः प्रजाः ॥३३॥ श्रद्धा त्वङ्गिरसः पत्नी चतस्रोऽसूत कन्यकाः। सिनीवाली कुहू राका चतुर्थ्यनुमतिस्तथा ॥३४॥ तत्पुत्रावपरावास्तां ख्यातौ स्वारोचिषेऽन्तरे। उतथ्यो भगवान् साक्षाद्ब्रह्मिष्ठश्च बृहस्पतिः ॥३५॥ पुलस्त्योऽजनयत्पत्न्यामगस्त्यं च हविर्भुवि। सोऽन्यजन्मनि दह्राग्निर्विश्रवाश्च महातपाः ॥३६॥ तस्य यक्षपतिर्देवः कुबेरस्त्विडविडा सुतः। रावणः कुम्भकर्णश्च तथान्यस्यां विभीषणः ॥३७॥ पुलहस्य गतिर्भार्या त्रीनसूत सती सुतान्। कर्मश्रेष्ठं वरीयांसं सहिष्णुं च महामते ॥३८॥ क्रतोरपि क्रिया भार्या वालखिल्यानसूयत। ऋषीन् षष्टिसहस्राणि ज्वलतो ब्रह्मतेजसा ॥३९॥ ऊर्जायां जज्ञिरे पुत्रा वसिष्ठस्य परन्तप। चित्रकेतुप्रधानास्ते सप्त ब्रह्मर्षयोऽमलाः ॥४०॥ चित्रकेतुः सुरोचिश्च विरजा मित्र एव च। उल्बणो वसुभृद्यानो द्युमान् शक्त्यादयोऽपरे ॥४१॥ चित्तिस्त्वथर्वणः पत्नी लेभे पुत्रं धृतव्रतम्। दध्यञ्चमश्वशिरसं भृगोर्वंशं निबोध मे ॥४२॥ भृगुः ख्यात्यां महाभागः पत्न्यां पुत्रानजीजनत्। धातारं च विधातारं श्रियं च भगवत्पराम् ॥४३॥ आयतिं नियतिं चैव सुते मेरुस्तयोरदात्। ताभ्यां तयोरभवतां मृकण्डः प्राण एव च ॥४४॥ मार्कण्डेयो मृकण्डस्य प्राणाद्वेदशिरा मुनिः। कविश्च भार्गवो यस्य भगवानुशना सुतः ॥४५॥ त एते मुनयः क्षत्तर्लोकान् सर्गैरभावयन्। एष कर्दमदौहित्रसन्तानः कथितस्तव। शृण्वतः श्रद्दधानस्य सद्यः पापहरः परः ॥४६॥ प्रसूतिं मानवीं दक्ष उपयेमे ह्यजात्मजः। तस्यां ससर्ज दुहितॄः षोडशामललोचनाः ॥४७॥ त्रयोदशादाद्धर्माय तथैकामग्नये विभुः। पितृभ्य एकां युक्तेभ्यो भवायैकां भवच्छिदे ॥४८॥ श्रद्धा मैत्री दया शान्तिस्तुष्टिः पुष्टिः क्रियोन्नतिः। बुद्धिर्मेधा तितिक्षा ह्रीर्मूर्तिर्धर्मस्य पत्नयः ॥४९॥ श्रद्धासूत शुभं मैत्री प्रसादमभयं दया । शान्तिः सुखं मुदं तुष्टिः स्मयं पुष्टिरसूयत ॥५०॥ योगं क्रियोन्नतिर्दर्पमर्थं बुद्धिरसूयत। मेधा स्मृतिं तितिक्षा तु क्षेमं ह्रीः प्रश्रयं सुतम् ॥५१॥ मूर्तिः सर्वगुणोत्पत्तिर्नरनारायणावृषी ॥५२॥- सगोनासंगोगो ययोर्जन्मन्यदो विश्वमभ्यनन्दत्सुनिर्वृतम्। मनांसि ककुभो वाताः प्रसेदुः सरितोऽद्रयः ॥५३॥ दिव्यवाद्यन्त तूर्याणि पेतुः कुसुमवृष्टयः। मुनयस्तुष्टुवुस्तुष्टा जगुर्गन्धर्वकिन्नराः ॥५४॥ नृत्यन्ति स्म स्त्रियो देव्य आसीत्परममङ्गलम्। देवा ब्रह्मादयः सर्वे उपतस्थुरभिष्टवैः ॥५५॥ देवा ऊचुः यो मायया विरचितं निजयाऽऽत्मनीदं खे रूपभेदमिव तत्प्रतिचक्षणाय । एतेन धर्मसदने ऋषिमूर्तिनाद्य प्रादुश्चकार पुरुषाय नमः परस्मै ॥५६॥ सोऽयं स्थितिव्यतिकरोपशमाय सृष्टान् सत्त्वेन नः सुरगणाननुमेयतत्त्वः । दृश्याददभ्रकरुणेन विलोकनेन यच्छ्रीनिकेतममलं क्षिपतारविन्दम् ॥५७॥ एवं सुरगणैस्तात भगवन्तावभिष्टुतौ। लब्धावलोकैर्ययतुरर्चितौ गन्धमादनम् ॥५८॥ ताविमौ वै भगवतो हरेरंशाविहागतौ। भारव्ययाय च भुवः कृष्णौ यदुकुरूद्वहौ ॥५९॥ स्वाहाभिमानिनश्चाग्नेरात्मजांस्त्रीनजीजनत्। पावकं पवमानं च शुचिं च हुतभोजनम् ॥६०॥ तेभ्योऽग्नयः समभवन् चत्वारिंशच्च पञ्च च। त एवैकोनपञ्चाशत्साकं पितृपितामहैः ॥६१॥ वैतानिके कर्मणि यन्नामभिर्ब्रह्मवादिभिः। आग्नेय्य इष्टयो यज्ञे निरूप्यन्तेऽग्नयस्तु ते ॥६२॥ अग्निष्वात्ता बर्हिषदः सौम्याः पितर आज्यपाः। साग्नयोऽनग्नयस्तेषां पत्नी दाक्षायणी स्वधा ॥६३॥ तेभ्यो दधार कन्ये द्वे वयुनां धारिणीं स्वधा। उभे ते ब्रह्मवादिन्यौ ज्ञानविज्ञानपारगे ॥६४॥ भवस्य पत्नी तु सती भवं देवमनुव्रता। आत्मनः सदृशं पुत्रं न लेभे गुणशीलतः ॥६५॥ पितर्यप्रतिरूपे स्वे भवायानागसे रुषा। अप्रौढैवात्मनाऽऽत्मानमजहाद्योगसंयुता ॥६६॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे विदुरमैत्रेयसंवादे प्रथमोऽध्यायः ॥१॥

॥ द्वितीयोऽध्यायः - २ ॥

विदुर उवाच भवे शीलवतां श्रेष्ठे दक्षो दुहितृवत्सलः। विद्वेषमकरोत्कस्मादनादृत्यात्मजां सतीम् ॥१॥ कस्तं चराचरगुरुं निर्वैरं शान्तविग्रहम्। आत्मारामं कथं द्वेष्टि जगतो दैवतं महत् ॥२॥ एतदाख्याहि मे ब्रह्मन् जामातुः श्वशुरस्य च। विद्वेषस्तु यतः प्राणांस्तत्यजे दुस्त्यजान् सती॥३॥ मैत्रेय उवाच पुरा विश्वसृजां सत्रे समेताः परमर्षयः। तथामरगणाः सर्वे सानुगा मुनयोऽग्नयः ॥४॥ तत्र प्रविष्टमृषयो दृष्ट्वार्कमिव रोचिषा। भ्राजमानं वितिमिरं कुर्वन्तं तन्महत्सदः ॥५॥ उदतिष्ठन्सदस्यास्ते स्वधिष्ण्येभ्यः सहाग्नयः। ऋते विरिञ्चं शर्वं च तद्भासाक्षिप्तचेतसः ॥६॥ सदसस्पतिभिर्दक्षो भगवान् साधु सत्कृतः। अजं लोकगुरुं नत्वा निषसाद तदाज्ञया ॥७॥ प्राङ्निषण्णं मृडं दृष्ट्वा नामृष्यत्तदनादृतः। उवाच वामं चक्षुर्भ्यामभिवीक्ष्य दहन्निव ॥८॥ श्रूयतां ब्रह्मर्षयो मे सह देवाः सहाग्नयः। साधूनां ब्रुवतो वृत्तं नाज्ञानान्न च मत्सरात् ॥९॥ अयं तु लोकपालानां यशोघ्नो निरपत्रपः। सद्भिराचरितः पन्था येन स्तब्धेन दूषितः ॥१०॥ एष मे शिष्यतां प्राप्तो यन्मे दुहितुरग्रहीत्। पाणिं विप्राग्निमुखतः सावित्र्या इव साधुवत् ॥११॥ गृहीत्वा मृगशावाक्ष्याः पाणिं मर्कटलोचनः। प्रत्युत्थानाभिवादार्हे वाचाप्यकृत नोचितम् ॥१२॥ लुप्तक्रियायाशुचये मानिने भिन्नसेतवे। अनिच्छन्नप्यदां बालां शूद्रायेवोशतीं गिरम् ॥१३॥ प्रेतावासेषु घोरेषु प्रेतैर्भूतगणैर्वृतः। अटत्युन्मत्तवन्नग्नो व्युप्तकेशो हसन् रुदन् ॥१४॥ चिताभस्मकृतस्नानः प्रेतस्रङ् न्रस्थिभूषणः। शिवापदेशो ह्यशिवो मत्तो मत्तजनप्रियः। पतिः प्रमथभूतानां तमोमात्रात्मकात्मनाम् ॥१५॥ तस्मा उन्मादनाथाय नष्टशौचाय दुर्हृदे। दत्ता बत मया साध्वी चोदिते परमेष्ठिना ॥१६॥ मैत्रेय उवाच विनिन्द्यैवं स गिरिशमप्रतीपमवस्थितम्। दक्षोऽथाप उपस्पृश्य क्रुद्धः शप्तुं प्रचक्रमे ॥१७॥ अयं तु देवयजन इन्द्रोपेन्द्रादिभिर्भवः। सह भागं न लभतां देवैर्देवगणाधमः ॥१८॥ निषिध्यमानः स सदस्यमुख्यैर्दक्षो गिरित्राय विसृज्य शापम्। तस्माद्विनिष्क्रम्य विवृद्धमन्युर्जगाम कौरव्य निजं निकेतनम् ॥१९॥ विज्ञाय शापं गिरिशानुगाग्रणीः नन्दीश्वरो रोषकषायदूषितः। दक्षाय शापं विससर्ज दारुणं ये चान्वमोदंस्तदवाच्यतां द्विजाः ॥२०॥ य एतन्मर्त्यमुद्दिश्य भगवत्यप्रतिद्रुहि। द्रुह्यत्यज्ञः पृथग्दृष्टिस्तत्त्वतो विमुखो भवेत् ॥२१॥ गृहेषु कूटधर्मेषु सक्तो ग्राम्यसुखेच्छया। कर्मतन्त्रं वितनुते वेदवादविपन्नधीः ॥२२॥ बुद्ध्या पराभिध्यायिन्या विस्मृतात्मगतिः पशुः। स्त्रीकामः सोऽस्त्वतितरां दक्षो बस्तमुखोऽचिरात् ॥२३॥ विद्याबुद्धिरविद्यायां कर्ममय्यामसौ जडः। संसरन्त्विह ये चामुमनु शर्वावमानिनम् ॥२४॥ गिरः श्रुतायाः पुष्पिण्या मधुगन्धेन भूरिणा। मथ्ना चोन्मथितात्मानः सम्मुह्यन्तु हरद्विषः ॥२५॥ सर्वभक्षा द्विजा वृत्त्यै धृतविद्या तपोव्रताः। वित्तदेहेन्द्रियारामा याचका विचरन्त्विह ॥२६॥ तस्यैवं ददतः शापं श्रुत्वा द्विजकुलाय वै। भृगुः प्रत्यसृजच्छापं ब्रह्मदण्डं दुरत्ययम् ॥२७॥ भवव्रतधरा ये च ये च तान् समनुव्रताः पाखण्डिनस्ते भवन्तु सच्छास्त्रपरिपन्थिनः ॥२८॥ नष्टशौचा मूढधियो जटाभस्मास्थिधारिणः। विशन्तु शिवदीक्षायां यत्र दैवं सुरासवम् ॥२९॥ ब्रह्म च ब्राह्मणांश्चैव यद्यूयं परिनिन्दथ। सेतुं विधारणं पुंसामतः पाखण्डमाश्रिताः ॥३०॥ एष एव हि लोकानां शिवः पन्थाः सनातनः। यं पूर्वे चानुसन्तस्थुर्यत्प्रमाणं जनार्दनः ॥३१॥ तद्ब्रह्म परमं शुद्धं सतां वर्त्म सनातनम्। विगर्ह्य यात पाखण्डं दैवं वो यत्र भूतराट् ॥३२॥ मैत्रेय उवाच तस्यैवं वदतः शापं भृगोः स भगवान् भवः। निश्चक्राम ततः किञ्चिद्विमना इव सानुगः ॥३३॥ तेऽपि विश्वसृजः सत्रं सहस्रपरिवत्सरान्। संविधाय महेष्वास यत्रेज्य ऋषभो हरिः ॥३४॥ आप्लुत्यावभृथं यत्र गङ्गा यमुनयान्विता। विरजेनात्मना सर्वे स्वं स्वं धाम ययुस्ततः ॥३५॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे दक्षशापो नाम द्वितीयोध्यायः ॥२॥

॥ तृतीयोऽध्यायः - ३ ॥

मैत्रेय उवाच सदा विद्विषतोरेवं कालो वै ध्रियमाणयोः। जामातुः श्वशुरस्यापि सुमहानतिचक्रमे ॥१॥ यदाभिषिक्तो दक्षस्तु ब्रह्मणा परमेष्ठिना। प्रजापतीनां सर्वेषामाधिपत्ये स्मयोऽभवत् ॥२॥ इष्ट्वा स वाजपेयेन ब्रह्मिष्ठानभिभूय च। बृहस्पतिसवं नाम समारेभे क्रतूत्तमम् ॥३॥ तस्मिन् ब्रह्मर्षयः सर्वे देवर्षिपितृदेवताः। आसन् कृतस्वस्त्ययनास्तत्पत्न्यश्च सभर्तृकाः ॥४॥ तदुपश्रुत्य नभसि खेचराणां प्रजल्पताम्। सती दाक्षायणी देवी पितुर्यज्ञमहोत्सवम् ॥५॥ व्रजन्तीः सर्वतो दिग्भ्य उपदेववरस्त्रियः। विमानयानाः सप्रेष्ठा निष्ककण्ठीः सुवाससः ॥६॥ दृष्ट्वा स्वनिलयाभ्याशे लोलाक्षीर्मृष्टकुण्डलाः। पतिं भूतपतिं देवमौत्सुक्यादभ्यभाषत ॥७॥ सत्युवाच प्रजापतेस्ते श्वशुरस्य साम्प्रतं निर्यापितो यज्ञमहोत्सवः किल। वयं च तत्राभिसराम वाम ते यद्यर्थितामी विबुधा व्रजन्ति हि ॥८॥ तस्मिन् भगिन्यो मम भर्तृभिः स्वकैर्ध्रुवं गमिष्यन्ति सुहृद्दिदृक्षवः। अहं च तस्मिन् भवताभिकामये सहोपनीतं परिबर्हमर्हितुम् ॥९॥ तत्र स्वसॄर्मे ननु भर्तृसम्मिता मातृष्वसॄः क्लिन्नधियं च मातरम्। द्रक्ष्ये चिरोत्कण्ठमना महर्षिभि- रुन्नीयमानं च मृडाध्वरध्वजम् ॥१०॥ त्वय्येतदाश्चर्यमजात्ममायया विनिर्मितं भाति गुणत्रयात्मकम्। तथाप्यहं योषिदतत्त्वविच्च ते दीना दिदृक्षे भव मे भवक्षितिम् ॥११॥ पश्य प्रयान्तीरभवान्ययोषितो- ऽप्यलङ्कृताः कान्तसखा वरूथशः। यासां व्रजद्भिः शितिकण्ठमण्डितं नभो विमानैः कलहंसपाण्डुभिः ॥१२॥ कथं सुतायाः पितृगेहकौतुकं निशम्य देहः सुरवर्य नेङ्गते। अनाहुता अप्यभियन्ति सौहृदं भर्तुर्गुरोर्देहकृतश्च केतनम् ॥१३॥ तन्मे प्रसीदेदममर्त्यवाञ्छितं कर्तुं भवान् कारुणिको बतार्हति। त्वयाऽऽत्मनोऽर्धेऽहमदभ्रचक्षुषा निरूपिता मानुगृहाण याचितः ॥१४॥ ऋषिरुवाच एवं गिरित्रः प्रिययाभिभाषितः प्रत्यभ्यधत्त प्रहसन् सुहृत्प्रियः। संस्मारितो मर्मभिदः कुवागिषून् यानाह को विश्वसृजां समक्षतः ॥१५॥ श्रीभगवानुवाच त्वयोदितं शोभनमेव शोभने अनाहुता अप्यभियन्ति बन्धुषु। ते यद्यनुत्पादितदोषदृष्टयो बलीयसानात्म्यमदेन मन्युना ॥१६॥ विद्यातपोवित्तवपुर्वयःकुलैः सतां गुणैः षड्भिरसत्तमेतरैः। स्मृतौ हतायां भृतमानदुर्दृशः स्तब्धा न पश्यन्ति हि धाम भूयसाम् ॥१७॥ नैतादृशानां स्वजनव्यपेक्षया गृहान् प्रतीयादनवस्थितात्मनाम्। येऽभ्यागतान् वक्रधियाभिचक्षते आरोपितभ्रूभिरमर्षणाक्षिभिः ॥१८॥ तथारिभिर्न व्यथते शिलीमुखैः शेतेऽर्दिताङ्गो हृदयेन दूयता। स्वानां यथा वक्रधियां दुरुक्तिभि- र्दिवानिशं तप्यति मर्मताडितः ॥१९॥ व्यक्तं त्वमुत्कृष्टगतेः प्रजापतेः प्रियाऽऽत्मजानामसि सुभ्रु सम्मता। अथापि मानं न पितुः प्रपत्स्यसे मदाश्रयात्कः परितप्यते यतः ॥२०॥ पापच्यमानेन हृदाऽऽतुरेन्द्रियः समृद्धिभिः पूरुषबुद्धिसाक्षिणाम्। अकल्प एषामधिरोढुमञ्जसा पदं परं द्वेष्टि यथासुरा हरिम् ॥२१॥ प्रत्युद्गमप्रश्रयणाभिवादनं विधीयते साधु मिथः सुमध्यमे। प्राज्ञैः परस्मै पुरुषाय चेतसा गुहाशयायैव न देहमानिने ॥२२॥ सत्त्वं विशुद्धं वसुदेवशब्दितं यदीयते तत्र पुमानपावृतः। सत्त्वे च तस्मिन् भगवान् वासुदेवो ह्यधोक्षजो मे नमसा विधीयते ॥२३॥ तत्ते निरीक्ष्यो न पितापि देहकृद्दक्षो मम द्विट् तदनुव्रताश्च ये। यो विश्वसृग्यज्ञगतं वरोरु मामनागसं दुर्वचसाकरोत्तिरः ॥२४॥ यदि व्रजिष्यस्यतिहाय मद्वचो भद्रं भवत्या न ततो भविष्यति। सम्भावितस्य स्वजनात्पराभवो यदा स सद्यो मरणाय कल्पते ॥२५॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे सतीरुद्रसंवादे तृतीयोऽध्यायः ॥३॥

॥ चतुर्थोऽध्यायः - ४ ॥

मैत्रेय उवाच एतावदुक्त्वा विरराम शङ्करः पत्न्यङ्गनाशं ह्युभयत्र चिन्तयन्। सुहृद्दिदृक्षुः परिशङ्किता भवान्निष्क्रामती निर्विशती द्विधाऽऽस सा ॥१॥ सुहृद्दिदृक्षाप्रतिघातदुर्मनाः स्नेहाद्रुदत्यश्रुकलातिविह्वला। भवं भवान्यप्रतिपूरुषं रुषा प्रधक्ष्यतीवैक्षत जातवेपथुः ॥२॥ ततो विनिःश्वस्य सती विहाय तं शोकेन रोषेण च दूयता हृदा। पित्रोरगात्स्त्रैणविमूढधीर्गृहान् प्रेम्णाऽऽत्मनो योऽर्धमदात्सतां प्रियः ॥३॥ तामन्वगच्छन्द्रुतविक्रमां सतीमेकां त्रिनेत्रानुचराः सहस्रशः। सपार्षदयक्षा मणिमन्मदादयः पुरो वृषेन्द्रास्तरसा गतव्यथाः ॥४॥ तां सारिकाकन्दुकदर्पणाम्बुज- श्वेतातपत्रव्यजनस्रगादिभिः। गीतायनैर्दुन्दुभिशङ्खवेणुभि- र्वृषेन्द्रमारोप्य विटङ्किता ययुः ॥५॥ आब्रह्मघोषोर्जितयज्ञवैशसं विप्रर्षिजुष्टं विबुधैश्च सर्वशः। मृद्दार्वयःकाञ्चनदर्भचर्मभि- र्निसृष्टभाण्डं यजनं समाविशत् ॥६॥ तामागतां तत्र न कश्चनाद्रिय- द्विमानितां यज्ञकृतो भयाज्जनः। ऋते स्वसॄर्वै जननीं च सादराः प्रेमाश्रुकण्ठ्यः परिषस्वजुर्मुदा ॥७॥ सौदर्यसम्प्रश्नसमर्थवार्तया मात्रा च मातृष्वसृभिश्च सादरम्। दत्तां सपर्यां वरमासनं च सा नादत्त पित्राऽप्रतिनन्दिता सती ॥८॥ अरुद्रभागं तमवेक्ष्य चाध्वरं पित्रा च देवे कृतहेलनं विभौ। अनादृता यज्ञसदस्यधीश्वरी चुकोप लोकानिव धक्ष्यती रुषा ॥९॥ जगर्ह सामर्षविपन्नया गिरा शिवद्विषं धूमपथश्रमस्मयम्। स्वतेजसा भूतगणान् समुत्थितान् निगृह्य देवी जगतोऽभिशृण्वतः ॥१०॥ देव्युवाच न यस्य लोकेऽस्त्यतिशायनः प्रियः तथाप्रियो देहभृतां प्रियात्मनः। तस्मिन् समस्तात्मनि मुक्तवैरके ऋते भवन्तं कतमः प्रतीपयेत् ॥११॥ दोषान् परेषां हि गुणेषु साधवो गृह्णन्ति केचिन्न भवादृशा द्विज। गुणांश्च फल्गून् बहुलीकरिष्णवो महत्तमास्तेष्वविदद्भवानघम् ॥१२॥ नाश्चर्यमेतद्यदसत्सु सर्वदा महद्विनिन्दा कुणपात्मवादिषु। सेर्ष्यं महापूरुषपादपांसुभिः निरस्ततेजःसु तदेव शोभनम् ॥१३॥ यद् द्व्यक्षरं नाम गिरेरितं नृणां सकृत्प्रसङ्गादघमाशु हन्ति तत्। पवित्रकीर्तिं तमलङ्घ्यशासनं भवानहो द्वेष्टि शिवं शिवेतरः ॥१४॥ यत्पादपद्मं महतां मनोऽलिभिः निषेवितं ब्रह्मरसासवार्थिभिः। लोकस्य यद्वर्षति चाशिषोऽर्थिनः तस्मै भवान् द्रुह्यति विश्वबन्धवे ॥१५॥ किं वा शिवाख्यमशिवं न विदुस्त्वदन्ये ब्रह्मादयस्तमवकीर्य जटाः श्मशाने। तन्माल्यभस्मनृकपाल्यवसत्पिशाचैर्ये मूर्धभिर्दधति तच्चरणावसृष्टम् ॥१६॥ कर्णौ पिधाय निरयाद्यदकल्प ईशे धर्मावितर्यसृणिभिर्नृभिरस्यमाने। छिन्द्यात्प्रसह्य रुशतीमसतीं प्रभुश्चे- ज्जिह्वामसूनपि ततो विसृजेत्स धर्मः ॥१७॥ अतस्तवोत्पन्नमिदं कलेवरं न धारयिष्ये शितिकण्ठगर्हिणः। जग्धस्य मोहाद्धि विशुद्धिमन्धसो जुगुप्सितस्योद्धरणं प्रचक्षते ॥१८॥ न वेदवादाननुवर्तते मतिः स्व एव लोके रमतो महामुनेः। यथा गतिर्देवमनुष्ययोः पृथक् स्व एव धर्मे न परं क्षिपेत्स्थितः ॥१९॥ कर्मप्रवृत्तं च निवृत्तमप्यृतं वेदे विविच्योभयलिङ्गमाश्रितम्। विरोधि तद्यौगपदैककर्तरि द्वयं तथा ब्रह्मणि कर्म नर्च्छति ॥२०॥ मा वः पदव्यः पितरस्मदास्थिता या यज्ञशालासु न धूमवर्त्मभिः। तदन्नतृप्तैरसुभृद्भिरीडिता अव्यक्तलिङ्गा अवधूतसेविताः ॥२१॥ नैतेन देहेन हरे कृतागसो देहोद्भवेनालमलं कुजन्मना। व्रीडा ममाभूत्कुजनप्रसङ्गतः तज्जन्म धिग्यो महतामवद्यकृत् ॥२२॥ गोत्रं त्वदीयं भगवान् वृषध्वजो दाक्षायणीत्याह यदा सुदुर्मनाः। व्यपेतनर्मस्मितमाशु तद्ध्यहं व्युत्स्रक्ष्य एतत्कुणपं त्वदङ्गजम् ॥२३॥ मैत्रेय उवाच इत्यध्वरे दक्षमनूद्य शत्रुहन् क्षितावुदीचीं निषसाद शान्तवाक्। स्पृष्ट्वा जलं पीतदुकूलसंवृता निमील्य दृग्योगपथं समाविशत् ॥२४॥ कृत्वा समानावनिलौ जितासना सोदानमुत्थाप्य च नाभिचक्रतः। शनैर्हृदि स्थाप्य धियोरसि स्थितं कण्ठाद्भ्रुवोर्मध्यमनिन्दितानयत् ॥२५॥ एवं स्वदेहं महतां महीयसा मुहुः समारोपितमङ्कमादरात्। जिहासती दक्षरुषा मनस्विनी दधार गात्रेष्वनिलाग्निधारणाम् ॥२६॥ ततः स्वभर्तुश्चरणाम्बुजासवं जगद्गुरोश्चिन्तयती न चापरम्। ददर्श देहो हतकल्मषः सती सद्यः प्रजज्वाल समाधिजाग्निना ॥२७॥ तत्पश्यतां खे भुवि चाद्भुतं महद्- हा हेति वादः सुमहानजायत। हन्त प्रिया दैवतमस्य देवी जहावसून् केन सती प्रकोपिता ॥२८॥ अहो अनात्म्यं महदस्य पश्यत प्रजापतेर्यस्य चराचरं प्रजाः। जहावसून् यद्विमताऽऽत्मजा सती मनस्विनी मानमभीक्ष्णमर्हति ॥२९॥ सोऽयं दुर्मर्षहृदयो ब्रह्मध्रुक् च लोकेऽपकीर्तिं महतीमवाप्स्यति। यदङ्गजां स्वां पुरुषद्विडुद्यतां न प्रत्यषेधन्मृतयेऽपराधतः ॥३०॥ वदत्येवं जने सत्या दृष्ट्वासुत्यागमद्भुतम्। दक्षं तत्पार्षदा हन्तुमुदतिष्ठन्नुदायुधाः ॥३१॥ तेषामापततां वेगं निशाम्य भगवान् भृगुः। यज्ञघ्नघ्नेन यजुषा दक्षिणाग्नौ जुहाव ह ॥३२॥ अध्वर्युणा हूयमाने देवा उत्पेतुरोजसा। ऋभवो नाम तपसा सोमं प्राप्ताः सहस्रशः ॥३३॥ तैरलातायुधैः सर्वे प्रमथाः सह गुह्यकाः। हन्यमाना दिशो भेजुरुशद्भिर्ब्रह्मतेजसा ॥३४॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे सतीदेहोत्सर्गो नाम चतुर्थोऽध्यायः ॥४॥

॥ पञ्चमोऽध्यायः - ५ ॥

मैत्रेय उवाच भवो भवान्या निधनं प्रजापते- रसत्कृताया अवगम्य नारदात्। स्वपार्षदसैन्यं च तदध्वरर्भुभि- र्विद्रावितं क्रोधमपारमादधे ॥१॥ क्रुद्धः सुदष्टौष्ठपुटः स धूर्जटिर्जटां तडिद्वह्निसटोग्ररोचिषम्। उत्कृत्य रुद्रः सहसोत्थितो हसन् गम्भीरनादो विससर्ज तां भुवि ॥२॥ ततोऽतिकायस्तनुवा स्पृशन् दिवं सहस्रबाहुर्घनरुक् त्रिसूर्यदृक्। करालदंष्ट्रो ज्वलदग्निमूर्धजः कपालमाली विविधोद्यतायुधः ॥३॥ तं किं करोमीति गृणन्तमाह बद्धाञ्जलिं भगवान् भूतनाथः। दक्षं सयज्ञं जहि मद्भटानां त्वमग्रणी रुद्रभटांशको मे ॥४॥ आज्ञप्त एवं कुपितेन मन्युना स देवदेवं परिचक्रमे विभुम्। मेने तदात्मानमसङ्गरंहसा महीयसां तात सहः सहिष्णुम् ॥५॥ अन्वीयमानः स तु रुद्र पार्षदैर्भृशं नदद्भिर्व्यनदत्सुभैरवम्। उद्यम्य शूलं जगदन्तकान्तकं स प्राद्रवद्घोषणभूषणाङ्घ्रिः ॥६॥ अथर्त्विजो यजमानः सदस्याः ककुद्भ्युदीच्यां प्रसमीक्ष्य रेणुम्। तमः किमेतत्कुत एतद्रजोऽभूदिति द्विजा द्विजपत्न्यश्च दध्युः ॥७॥ वाता न वान्ति न हि सन्ति दस्यवः प्राचीनबर्हिर्जीवति होग्रदण्डः। गावो न काल्यन्त इदं कुतो रजो लोकोऽधुना किं प्रलयाय कल्पते ॥८॥ प्रसूतिमिश्राः स्त्रिय उद्विग्नचित्ता ऊचुर्विपाको वृजिनस्यैव तस्य। यत्पश्यन्तीनां दुहितॄणां प्रजेशः सुतां सतीमवदध्यावनागाम् ॥९॥ यस्त्वन्तकाले व्युप्तजटाकलापः स्वशूलसूच्यर्पितदिग्गजेन्द्रः। वितत्य नृत्यत्युदितास्त्रदोर्ध्वजा- नुच्चाट्टहासस्तनयित्नुभिन्नदिक् ॥१०॥ अमर्षयित्वा तमसह्यतेजसं मन्युप्लुतं दुर्विषहं भ्रुकुट्या। करालदंष्ट्राभिरुदस्तभागणं स्यात्स्वस्ति किं कोपयतो विधातुः ॥११॥ बह्वेवमुद्विग्नदृशोच्यमाने जनेन दक्षस्य मुहुर्महात्मनः। उत्पेतुरुत्पाततमाः सहस्रशो भयावहा दिवि भूमौ च पर्यक् ॥१२॥ तावत्स रुद्रानुचरैर्मखो महान् नानायुधैर्वामनकैरुदायुधैः। पिङ्गैः पिशङ्गैर्मकरोदराननैः पर्याद्रवद्भिर्विदुरान्वरुध्यत ॥१३॥ केचिद्बभञ्जुः प्राग्वंशं पत्नीशालां तथापरे। सद आग्नीध्रशालां च तद्विहारं महानसम् ॥१४॥ रुरुजुर्यज्ञपात्राणि तथैकेऽग्नीननाशयन्। कुण्डेष्वमूत्रयन् केचिद्बिभिदुर्वेदिमेखलाः ॥१५॥ अबाधन्त मुनीनन्ये एके पत्नीरतर्जयन्। अपरे जगृहुर्देवान् प्रत्यासन्नान् पलायितान् ॥१६॥ भृगुं बबन्ध मणिमान् वीरभद्रः प्रजापतिम्। चण्डेशः पूषणं देवं भगं नन्दीश्वरोऽग्रहीत् ॥१७॥ सर्व एवर्त्विजो दृष्ट्वा सदस्याः सदिवौकसः। तैरर्द्यमानाः सुभृशं ग्रावभिर्नैकधाद्रवन् ॥१८॥ जुह्वतः स्रुवहस्तस्य श्मश्रूणि भगवान् भवः। भृगोर्लुलुञ्चे सदसि योऽहसच्छ्मश्रु दर्शयन् ॥१९॥ भगस्य नेत्रे भगवान् पातितस्य रुषा भुवि। उज्जहार सदःस्थोऽक्ष्णा यः शपन्तमसूसुचत् ॥२०॥ पूष्णश्चापातयद्दन्तान् कालिङ्गस्य यथा बलः। शप्यमाने गरिमणि योऽहसद्दर्शयन् दतः ॥२१॥ आक्रम्योरसि दक्षस्य शितधारेण हेतिना। छिन्दन्नपि तदुद्धर्तुं नाशक्नोत्त्र्यम्बकस्तदा ॥२२॥ शस्त्रैरस्त्रान्वितैरेवमनिर्भिन्नत्वचं हरः। विस्मयं परमापन्नो दध्यौ पशुपतिश्चिरम् ॥२३॥ दृष्ट्वा संज्ञपनं योगं पशूनां स पतिर्मखे। यजमानपशोः कस्य कायात्तेनाहरच्छिरः ॥२४॥ साधुवादस्तदा तेषां कर्म तत्तस्य पश्यताम्। भूतप्रेतपिशाचानामन्येषां तद्विपर्ययः ॥२५॥ जुहावैतच्छिरस्तस्मिन् दक्षिणाग्नावमर्षितः। तद्देवयजनं दग्ध्वा प्रातिष्ठद्गुह्यकालयम् ॥२६ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे दक्षयज्ञविध्वंसो नाम पञ्चमोऽध्यायः ॥५॥

॥ षष्ठोऽध्यायः - ६ ॥

मैत्रेय उवाच अथ देवगणाः सर्वे रुद्रानीकैः पराजिताः। शूलपट्टिशनिस्त्रिंशगदापरिघमुद्गरैः ॥१॥ सञ्छिन्नभिन्नसर्वाङ्गाः सर्त्विक्सभ्या भयाकुलाः। स्वयम्भुवे नमस्कृत्य कार्त्स्न्येनैतन्न्यवेदयन् ॥२॥ उपलभ्य पुरैवैतद्भगवानब्जसम्भवः। नारायणश्च विश्वात्मा न कस्याध्वरमीयतुः ॥३॥ तदाकर्ण्य विभुः प्राह तेजीयसि कृतागसि। क्षेमाय तत्र सा भूयान्न प्रायेण बुभूषताम् ॥४॥ अथापि यूयं कृतकिल्बिषा भवं ये बर्हिषो भागभाजं परादुः। प्रसादयध्वं परिशुद्धचेतसा क्षिप्रप्रसादं प्रगृहीताङ्घ्रिपद्मम् ॥५॥ आशासाना जीवितमध्वरस्य लोकः सपालः कुपिते न यस्मिन्। तमाशु देवं प्रियया विहीनं क्षमापयध्वं हृदि विद्धं दुरुक्तैः ॥६॥ नाहं न यज्ञो न च यूयमन्ये ये देहभाजो मुनयश्च तत्त्वम्। विदुः प्रमाणं बलवीर्ययोर्वा यस्यात्मतन्त्रस्य क उपायं विधित्सेत् ॥७॥ स इत्थमादिश्य सुरानजस्तैः समन्वितः पितृभिः सप्रजेशैः। ययौ स्वधिष्ण्यान्निलयं पुरद्विषः कैलासमद्रिप्रवरं प्रियं प्रभोः ॥८॥ जन्मौषधितपोमन्त्रयोगसिद्धैर्नरेतरैः। जुष्टं किन्नरगन्धर्वैरप्सरोभिर्वृतं सदा ॥९॥ नानामणिमयैः शृङ्गैर्नानाधातुविचित्रितैः। नानाद्रुमलतागुल्मैर्नानामृगगणावृतैः ॥१०॥ नानामलप्रस्रवणैर्नानाकन्दरसानुभिः। रमणं विहरन्तीनां रमणैः सिद्धयोषिताम् ॥११॥ मयूरकेकाभिरुतं मदान्धालिविमूर्च्छितम्। प्लावितै रक्तकण्ठानां कूजितैश्च पतत्त्रिणाम् ॥१२॥ आह्वयन्तमिवोद्धस्तैर्द्विजान् कामदुघैर्द्रुमैः। व्रजन्तमिव मातङ्गैर्गृणन्तमिव निर्झरैः ॥१३॥ मन्दारैः पारिजातैश्च सरलैश्चोपशोभितम्। तमालैः शालतालैश्च कोविदारासनार्जुनैः ॥१४॥ चूतैः कदम्बैर्नीपैश्च नागपुन्नागचम्पकैः। पाटलाशोकबकुलैः कुन्दैः कुरबकैरपि ॥१५॥ स्वर्णार्णशतपत्रैश्च वररेणुकजातिभिः। कुब्जकैर्मल्लिकाभिश्च माधवीभिश्च मण्डितम् ॥१६॥ पनसोदुम्बराश्वत्थप्लक्षन्यग्रोधहिङ्गुभिः। भूर्जैरोषधिभिः पूगै राजपूगैश्च जम्बुभिः ॥१७॥ खर्जूराम्रातकाम्राद्यैः प्रियालमधुकेङ्गुदैः। द्रुमजातिभिरन्यैश्च राजितं वेणुकीचकैः ॥१८॥ कुमुदोत्पलकह्लारशतपत्रवनर्द्धिभिः। नलिनीषु कलं कूजत्खगवृन्दोपशोभितम् ॥१९॥ मृगैः शाखामृगैः क्रोडैर्मृगेन्द्रैरृक्षशल्यकैः गवयैः शरभैर्व्याघ्रै रुरुभिर्महिषादिभिः ॥२०॥ कर्णान्त्रैकपदाश्वास्यैर्निर्जुष्टं वृकनाभिभिः। कदलीखण्डसंरुद्धनलिनीपुलिनश्रियम् ॥२१॥ पर्यस्तं नन्दया सत्याः स्नानपुण्यतरोदया। विलोक्य भूतेशगिरिं विबुधा विस्मयं ययुः ॥२२॥ ददृशुस्तत्र ते रम्यामलकां नाम वै पुरीम्। वनं सौगन्धिकं चापि यत्र तन्नामपङ्कजम् ॥२३॥ नन्दा चालकनन्दा च सरितौ बाह्यतः पुरः। तीर्थपादपदाम्भोजरजसातीव पावने ॥२४॥ ययोः सुरस्त्रियः क्षत्तरवरुह्य स्वधिष्ण्यतः। क्रीडन्ति पुंसः सिञ्चन्त्यो विगाह्य रतिकर्शिताः॥२५॥ ययोस्तत्स्नानविभ्रष्टनवकुङ्कुमपिञ्जरम्। वितृषोऽपि पिबन्त्यम्भः पाययन्तो गजा गजीः॥२६॥ तारहेममहारत्नविमानशतसङ्कुलाम्। जुष्टां पुण्यजनस्त्रीभिर्यथा खं सतडिद्घनम् ॥२७॥ हित्वा यक्षेश्वरपुरीं वनं सौगन्धिकं च तत्। द्रुमैः कामदुघैर्हृद्यं चित्रमाल्यफलच्छदैः ॥२८॥ रक्तकण्ठखगानीकस्वरमण्डितषट्पदम्। कलहंसकुलप्रेष्ठं खरदण्डजलाशयम् ॥२९॥ वनकुञ्जरसङ्घृष्टहरिचन्दनवायुना। अधि पुण्यजनस्त्रीणां मुहुरुन्मथयन् मनः ॥३०॥ वैदूर्यकृतसोपाना वाप्य उत्पलमालिनीः। प्राप्तं किम्पुरुषैर्दृष्ट्वा त आराद्ददृशुर्वटम् ॥३१॥ स योजनशतोत्सेधः पादोनविटपायतः। पर्यक्कृताचलच्छायो निर्नीडस्तापवर्जितः ॥३२॥ तस्मिन् महायोगमये मुमुक्षुशरणे सुराः। ददृशुः शिवमासीनं त्यक्तामर्षमिवान्तकम् ॥३३॥ हर हर नमः पार्वतीपतये हर हर महादेव सनन्दनाद्यैर्महासिद्धैः शान्तैः संशान्तविग्रहम्। उपास्यमानं सख्या च भर्त्रा गुह्यकरक्षसाम् ॥३४॥ विद्यातपोयोगपथमास्थितं तमधीश्वरम्। चरन्तं विश्वसुहृदं वात्सल्याल्लोकमङ्गलम् ॥३५॥ लिङ्गं च तापसाभीष्टं भस्मदण्डजटाजिनम्। अङ्गेन सन्ध्याभ्ररुचा चन्द्रलेखां च बिभ्रतम् ॥३६॥ उपविष्टं दर्भमय्यां बृस्यां ब्रह्म सनातनम्। नारदाय प्रवोचन्तं पृच्छते शृण्वतां सताम् ॥३७॥ कृत्वोरौ दक्षिणे सव्यं पादपद्मं च जानुनि। बाहुं प्रकोष्ठेऽक्षमालामासीनं तर्कमुद्रया ॥३८॥ तं ब्रह्मनिर्वाणसमाधिमाश्रितं व्युपाश्रितं गिरिशं योगकक्षाम्। सलोकपाला मुनयो मनूनामाद्यं मनुं प्राञ्जलयः प्रणेमुः ॥३९॥ स तूपलभ्यागतमात्मयोनिं सुरासुरेशैरभिवन्दिताङ्घ्रिः। उत्थाय चक्रे शिरसाभिवन्दन- मर्हत्तमः कस्य यथैव विष्णुः ॥४०॥ तथापरे सिद्धगणा महर्षिभिर्ये वै समन्तादनु नीललोहितम्। नमस्कृतः प्राह शशाङ्कशेखरं कृतप्रणामं प्रहसन्निवात्मभूः ॥४१॥ ब्रह्मोवाच जाने त्वामीशं विश्वस्य जगतो योनिबीजयोः। शक्तेः शिवस्य च परं यत्तद्ब्रह्म निरन्तरम् ॥४२॥ त्वमेव भगवन्नेतच्छिवशक्त्योः स्वरूपयोः। विश्वं सृजसि पास्यत्सि क्रीडन्नूर्णपटो यथा ॥४३॥ त्वमेव धर्मार्थदुघाभिपत्तये दक्षेण सूत्रेण ससर्जिथाध्वरम्। त्वयैव लोकेऽवसिताश्च सेतवो यान् ब्राह्मणाः श्रद्दधते धृतव्रताः ॥४४॥ त्वं कर्मणां मङ्गलमङ्गलानां कर्तुः स्म लोकं तनुषे स्वः परं वा। अमङ्गलानां च तमिस्रमुल्बणं विपर्ययः केन तदेव कस्यचित् ॥४५॥ न वै सतां त्वच्चरणार्पितात्मनां भूतेषु सर्वेष्वभिपश्यतां तव। भूतानि चात्मन्यपृथग्दिदृक्षतां प्रायेण रोषोऽभिभवेद्यथा पशुम् ॥४६॥ पृथग्धियः कर्मदृशो दुराशयाः परोदयेनार्पितहृद्रुजोऽनिशम्। परान् दुरुक्तैर्वितुदन्त्यरुन्तुदाः तान् मावधीद्दैववधान् भवद्विधः ॥४७॥ यस्मिन् यदा पुष्करनाभमायया दुरन्तया स्पृष्टधियः पृथग्दृशः। कुर्वन्ति तत्र ह्यनुकम्पया कृपां न साधवो दैवबलात्कृते क्रमम् ॥४८॥ भवांस्तु पुंसः परमस्य मायया दुरन्तयास्पृष्टमतिः समस्तदृक्। तया हतात्मस्वनुकर्मचेतः- स्वनुग्रहं कर्तुमिहार्हसि प्रभो ॥४९॥ कुर्वध्वरस्योद्धरणं हतस्य भोः त्वयासमाप्तस्य मनो प्रजापतेः। न यत्र भागं तव भागिनो ददुः कुयज्विनो येन मखो निनीयते ॥५०॥ जीवताद्यजमानोऽयं प्रपद्येताक्षिणी भगः। भृगोः श्मश्रूणि रोहन्तु पूष्णो दन्ताश्च पूर्ववत् ॥५१॥ देवानां भग्नगात्राणाम् ऋत्विजां चायुधाश्मभिः। भवतानुगृहीतानामाशु मन्योऽस्त्वनातुरम् ॥५२॥ एष ते रुद्र भागोऽस्तु यदुच्छिष्टोऽध्वरस्य वै। यज्ञस्ते रुद्रभागेन कल्पतामद्य यज्ञहन् ॥५३॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे रुद्रसान्त्वनं नाम षष्ठोऽध्यायः ॥६॥

॥ सप्तमोऽध्यायः - ७ ॥

मैत्रेय उवाच इत्यजेनानुनीतेन भवेन परितुष्यता। अभ्यधायि महाबाहो प्रहस्य श्रूयतामिति ॥१॥ महादेव उवाच नाघं प्रजेश बालानां वर्णये नानुचिन्तये। देवमायाभिभूतानां दण्डस्तत्र धृतो मया ॥२॥ प्रजापतेर्दग्धशीर्ष्णो भवत्वजमुखं शिरः। मित्रस्य चक्षुषेक्षेत भागं स्वं बर्हिषो भगः ॥३॥ पूषा तु यजमानस्य दद्भिर्जक्षतु पिष्टभुक्। देवाः प्रकृतसर्वाङ्गा ये म उच्छेषणं ददुः ॥४॥ बाहुभ्यामश्विनोः पूष्णो हस्ताभ्यां कृतबाहवः। भवन्त्वध्वर्यवश्चान्ये बस्तश्मश्रुर्भृगुर्भवेत् ॥५॥ मैत्रेय उवाच तदा सर्वाणि भूतानि श्रुत्वा मीढुष्टमोदितम्। परितुष्टात्मभिस्तात साधु साध्वित्यथाब्रुवन् ॥६॥ ततो मीढ्वांसमामन्त्र्य शुनासीराः सहर्षिभिः। भूयस्तद्देवयजनं समीढ्वद्वेधसो ययुः ॥७॥ विधाय कार्त्स्न्येन च तद्यदाह भगवान् भवः। सन्दधुः कस्य कायेन सवनीयपशोः शिरः ॥८॥ सन्धीयमाने शिरसि दक्षो रुद्राभिवीक्षितः। सद्यः सुप्त इवोत्तस्थौ ददृशे चाग्रतो मृडम् ॥९॥ तदा वृषध्वजद्वेषकलिलात्मा प्रजापतिः। शिवावलोकादभवच्छरद्ध्रद इवामलः ॥१०॥ भवस्तवाय कृतधीर्नाशक्नोदनुरागतः। औत्कण्ठ्याद्बाष्पकलया सम्परेतां सुतां स्मरन् ॥११॥ कृच्छ्रात्संस्तभ्य च मनः प्रेमविह्वलितः सुधीः। शशंस निर्व्यलीकेन भावेनेशं प्रजापतिः ॥१२॥ दक्ष उवाच भूयाननुग्रह अहो भवता कृतो मे दण्डस्त्वया मयि भृतो यदपि प्रलब्धः। न ब्रह्मबन्धुषु च वां भगवन्नवज्ञा तुभ्यं हरेश्च कुत एव धृतव्रतेषु ॥१३॥ विद्यातपोव्रतधरान् मुखतः स्म विप्रान् ब्रह्मात्मतत्त्वमवितुं प्रथमं त्वमस्राक् । तद्ब्राह्मणान् परम सर्वविपत्सु पासि पालः पशूनिव विभो प्रगृहीतदण्डः ॥१४॥ योऽसौ मयाविदिततत्त्वदृशा सभायां क्षिप्तो दुरुक्तिविशिखैर्विगणय्य तन्माम् । अर्वाक्पतन्तमर्हत्तम निन्दयापाद्दृष्ट्याऽऽर्द्रया स भगवान् स्वकृतेन तुष्येत् ॥१५॥ मैत्रेय उवाच क्षमाप्यैवं स मीढ्वांसं ब्रह्मणा चानुमन्त्रितः। कर्म सन्तानयामास सोपाध्यायर्त्विगादिभिः ॥१६॥ वैष्णवं यज्ञसन्तत्यै त्रिकपालं द्विजोत्तमाः। पुरोडाशं निरवपन् वीरसंसर्गशुद्धये ॥१७॥ अध्वर्युणाऽऽत्तहविषा यजमानो विशाम्पते। धिया विशुद्धया दध्यौ तथा प्रादुरभूद्धरिः ॥१८॥ तदा स्वप्रभया तेषां द्योतयन्त्या दिशो दश। मुष्णंस्तेज उपानीतस्तार्क्ष्येण स्तोत्रवाजिना ॥१९॥ श्यामो हिरण्यरशनोऽर्ककिरीटजुष्टो नीलालकभ्रमरमण्डितकुण्डलास्यः । कम्ब्वब्जचक्रशरचापगदासिचर्म- व्यग्रैर्हिरण्मयभुजैरिव कर्णिकारः ॥२०॥ वक्षस्यधिश्रितवधूर्वनमाल्युदार- हासावलोककलया रमयंश्च विश्वम् । पार्श्वभ्रमद्व्यजनचामरराजहंसः श्वेतातपत्रशशिनोपरि रज्यमानः ॥२१॥ तमुपागतमालक्ष्य सर्वे सुरगणादयः। प्रणेमुः सहसोत्थाय ब्रह्मेन्द्रत्र्यक्षनायकाः ॥२२॥ तत्तेजसा हतरुचः सन्नजिह्वाः ससाध्वसाः। मूर्ध्ना धृताञ्जलिपुटा उपतस्थुरधोक्षजम् ॥२३॥ अप्यर्वाग्वृत्तयो यस्य महि त्वात्मभुवादयः। यथामति गृणन्ति स्म कृतानुग्रहविग्रहम् ॥२४॥ दक्षो गृहीतार्हणसादनोत्तमं यज्ञेश्वरं विश्वसृजां परं गुरुम् । सुनन्दनन्दाद्यनुगैर्वृतं मुदा गृणन् प्रपेदे प्रयतः कृताञ्जलिः ॥२५॥ दक्ष उवाच शुद्धं स्वधाम्न्युपरताखिलबुद्ध्यवस्थं चिन्मात्रमेकमभयं प्रतिषिध्य मायाम् । तिष्ठंस्तयैव पुरुषत्वमुपेत्य तस्यामास्ते भवानपरिशुद्ध इवात्मतन्त्रः ॥२६॥ ऋत्विज ऊचुः तत्त्वं न ते वयमनञ्जन रुद्रशापात् कर्मण्यवग्रहधियो भगवन् विदामः । धर्मोपलक्षणमिदं त्रिवृदध्वराख्यं ज्ञातं यदर्थमधिदैवमदो व्यवस्थाः ॥२७॥ सदस्या ऊचुः उत्पत्त्यध्वन्यशरण उरुक्लेशदुर्गेऽन्तकोग्र- व्यालान्विष्टे विषयमृगतृष्णाऽऽत्मगेहोरुभारः । द्वन्द्वश्वभ्रे खलमृगभये शोकदावेऽज्ञसार्थः पादौकस्ते शरणद कदा याति कामोपसृष्टः ॥२८॥ रुद्र उवाच तव वरद वराङ्घ्रावाशिषेहाखिलार्थे ह्यपि मुनिभिरसक्तैरादरेणार्हणीये । यदि रचितधियं माविद्यलोकोऽपविद्धं जपति न गणये तत्त्वत्परानुग्रहेण ॥२९॥ भृगुरुवाच यन्मायया गहनयापहृतात्मबोधा ब्रह्मादयस्तनुभृतस्तमसि स्वपन्तः । नात्मन् श्रितं तव विदन्त्यधुनापि तत्त्वं सोऽयं प्रसीदतु भवान् प्रणतात्मबन्धुः ॥३०॥ ब्रह्मोवाच नैतत्स्वरूपं भवतोऽसौ पदार्थ- भेदग्रहैः पुरुषो यावदीक्षेत्। ज्ञानस्य चार्थस्य गुणस्य चाश्रयो मायामयाद्व्यतिरिक्तो यतस्त्वम् ॥३१॥ इन्द्र उवाच इदमप्यच्युत विश्वभावनं वपुरानन्दकरं मनोदृशाम्। सुरविद्विट्क्षपणैरुदायुधैर्भुजदण्डैरुपपन्नमष्टभिः ॥३२॥ पत्न्य ऊचुः यज्ञोऽयं तव यजनाय केन सृष्टो विध्वस्तः पशुपतिनाद्य दक्षकोपात्। तं नस्त्वं शवशयनाभशान्तमेधं यज्ञात्मन् नलिनरुचा दृशा पुनीहि ॥३३॥ ऋषय ऊचुः अनन्वितं ते भगवन् विचेष्टितं यदात्मना चरसि हि कर्म नाज्यसे। विभूतये यत उपसेदुरीश्वरीं न मन्यते स्वयमनुवर्ततीं भवान् ॥३४॥ सिद्धा ऊचुः अयं त्वत्कथामृष्टपीयूषनद्यां मनोवारणः क्लेशदावाग्निदग्धः। तृषार्तोऽवगाढो न सस्मार दावं न निष्क्रामति ब्रह्मसम्पन्नवन्नः ॥३५॥ यजमान्युवाच स्वागतं ते प्रसीदेश तुभ्यं नमः श्रीनिवास श्रिया कान्तया त्राहि नः। त्वामृतेऽधीश नाङ्गैर्मखः शोभते शीर्षहीनः कबन्धो यथा पूरुषः ॥३६॥ लोकपाला ऊचुः दृष्टः किं नो दृग्भिरसद्ग्रहैस्त्वं प्रत्यग्द्रष्टा दृश्यते येन दृश्यम्। माया ह्येषा भवदीया हि भूमन् यस्त्वं षष्ठः पञ्चभिर्भासि भूतैः ॥३७॥ योगेश्वरा ऊचुः प्रेयान्न तेऽन्योऽस्त्यमुतस्त्वयि प्रभो विश्वात्मनीक्षेन्न पृथग्य आत्मनः। अथापि भक्त्येश तयोपधावता- मनन्यवृत्त्यानुगृहाण वत्सल ॥३८॥ जगदुद्भवस्थितिलयेषु दैवतो बहुभिद्यमान गुणयाऽऽत्ममायया। रचितात्मभेदमतये स्वसंस्थया विनिवर्तितभ्रमगुणात्मने नमः ॥३९॥ ब्रह्मोवाच नमस्ते श्रितसत्त्वाय धर्मादीनां च सूतये। निर्गुणाय च यत्काष्ठां नाहं वेदापरेऽपि च ॥४०॥ अग्निरुवाच यत्तेजसाहं सुसमिद्धतेजा हव्यं वहे स्वध्वर आज्यसिक्तम्। तं यज्ञियं पञ्चविधं च पञ्चभिः स्विष्टं यजुर्भिः प्रणतोऽस्मि यज्ञम् ॥४१॥ देवा ऊचुः पुरा कल्पापाये स्वकृतमुदरीकृत्य विकृतं त्वमेवाद्यस्तस्मिन् सलिल उरगेन्द्राधिशयने । पुमान् शेषे सिद्धैर्हृदि विमृशिताध्यात्मपदविः स एवाद्याक्ष्णोर्यः पथि चरसि भृत्यानवसि नः ॥४२॥ गन्धर्वा ऊचुः अंशांशास्ते देव मरीच्यादय एते ब्रह्मेन्द्राद्या देवगणा रुद्रपुरोगाः। क्रीडाभाण्डं विश्वमिदं यस्य विभूमन् तस्मै नित्यं नाथ नमस्ते करवाम ॥४३॥ विद्याधरा ऊचुः त्वन्माययार्थमभिपद्य कलेवरेऽस्मिन् कृत्वा ममाहमिति दुर्मतिरुत्पथैः स्वैः । क्षिप्तोऽप्यसद्विषयलालस आत्ममोहं युष्मत्कथामृतनिषेवक उद्व्युदस्येत् ॥४४॥ ब्राह्मणा ऊचुः त्वं क्रतुस्त्वं हविस्त्वं हुताशः स्वयं त्वं हि मन्त्रः समिद्दर्भ पात्राणि च। त्वं सदस्यर्त्विजो दम्पती देवता अग्निहोत्रं स्वधा सोम आज्यं पशुः ॥४५॥ त्वं पुरा गां रसाया महासूकरो दंष्ट्रया पद्मिनीं वारणेन्द्रो यथा। स्तूयमानो नदँल्लीलया योगिभि- र्व्युज्जहर्थ त्रयीगात्र यज्ञक्रतुः ॥४६॥ स प्रसीद त्वमस्माकमाकाङ्क्षतां दर्शनं ते परिभ्रष्टसत्कर्मणाम्। कीर्त्यमाने नृभिर्नाम्नि यज्ञेश ते यज्ञविघ्नाः क्षयं यान्ति तस्मै नमः ॥४७॥ मैत्रेय उवाच इति दक्षः कविर्यज्ञं भद्र रुद्राभिमर्शितम्। कीर्त्यमाने हृषीकेशे सन्निन्ये यज्ञभावने ॥४८॥ भगवान् स्वेन भागेन सर्वात्मा सर्वभागभुक्। दक्षं बभाष आभाष्य प्रीयमाण इवानघ ॥४९॥ श्रीभगवानुवाच अहं ब्रह्मा च शर्वश्च जगतः कारणं परम्। आत्मेश्वर उपद्रष्टा स्वयंदृगविशेषणः ॥५०॥ आत्ममायां समाविश्य सोऽहं गुणमयीं द्विज। सृजन् रक्षन् हरन् विश्वं दध्रे संज्ञां क्रियोचिताम् ॥५१॥ तस्मिन् ब्रह्मण्यद्वितीये केवले परमात्मनि। ब्रह्मरुद्रौ च भूतानि भेदेनाज्ञोऽनुपश्यति ॥५२॥ यथा पुमान् न स्वाङ्गेषु शिरः पाण्यादिषु क्वचित्। पारक्यबुद्धिं कुरुते एवं भूतेषु मत्परः ॥५३॥ त्रयाणामेकभावानां यो न पश्यति वै भिदाम्। सर्वभूतात्मनां ब्रह्मन् स शान्तिमधिगच्छति ॥५४॥ मैत्रेय उवाच एवं भगवताऽऽदिष्टः प्रजापतिपतिर्हरिम्। अर्चित्वा क्रतुना स्वेन देवानुभयतोऽयजत् ॥५५॥ रुद्रं च स्वेन भागेन ह्युपाधावत्समाहितः। कर्मणोदवसानेन सोमपानितरानपि। उदवस्य सहर्त्विग्भिः सस्नाववभृथं ततः ॥५६॥ तस्मा अप्यनुभावेन स्वेनैवावाप्तराधसे। धर्म एव मतिं दत्त्वा त्रिदशास्ते दिवं ययुः ॥५७॥ एवं दाक्षायणी हित्वा सती पूर्वकलेवरम्। जज्ञे हिमवतः क्षेत्रे मेनायामिति शुश्रुम ॥५८॥ तमेव दयितं भूय आवृङ्क्ते पतिमम्बिका। अनन्यभावैकगतिं शक्तिः सुप्तेव पूरुषम् ॥५९॥ एतद्भगवतः शम्भोः कर्म दक्षाध्वरद्रुहः। श्रुतं भागवताच्छिष्यादुद्धवान्मे बृहस्पतेः ॥६०॥ इदं पवित्रं परमीशचेष्टितं यशस्यमायुष्यमघौघमर्षणम्। यो नित्यदाऽऽकर्ण्य नरोऽनुकीर्तये- द्धुनोत्यघं कौरव भक्तिभावतः ॥६१॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे दक्षयज्ञसन्धानं नाम सप्तमोऽध्यायः ॥७॥

॥ अष्टमोऽध्यायः - ८ ॥

मैत्रेय उवाच सनकाद्या नारदश्च ऋभुर्हंसोऽरुणिर्यतिः। नैते गृहान् ब्रह्मसुता ह्यावसन्नूर्ध्वरेतसः ॥१॥ मृषाधर्मस्य भार्यासीद्दम्भं मायां च शत्रुहन्। असूत मिथुनं तत्तु निरृतिर्जगृहेऽप्रजः ॥२॥ तयोः समभवल्लोभो निकृतिश्च महामते। ताभ्यां क्रोधश्च हिंसा च यद्दुरुक्तिः स्वसा कलिः ॥३॥ दुरुक्तौ कलिराधत्त भयं मृत्युं च सत्तम। तयोश्च मिथुनं जज्ञे यातना निरयस्तथा ॥४॥ सङ्ग्रहेण मयाख्यातः प्रतिसर्गस्तवानघ। त्रिः श्रुत्वैतत्पुमान् पुण्यं विधुनोत्यात्मनो मलम्॥५॥ अथातः कीर्तये वंशं पुण्यकीर्तेः कुरूद्वह। स्वायम्भुवस्यापि मनोर्हरेरंशांशजन्मनः ॥६॥ प्रियव्रतोत्तानपादौ शतरूपापतेः सुतौ। वासुदेवस्य कलया रक्षायां जगतः स्थितौ ॥७॥ जाये उत्तानपादस्य सुनीतिः सुरुचिस्तयोः। सुरुचिः प्रेयसी पत्युर्नेतरा यत्सुतो ध्रुवः ॥८॥ एकदा सुरुचेः पुत्रमङ्कमारोप्य लालयन्। उत्तमं नारुरुक्षन्तं ध्रुवं राजाभ्यनन्दत ॥९॥ तथा चिकीर्षमाणं तं सपत्न्यास्तनयं ध्रुवम्। सुरुचिः शृण्वतो राज्ञः सेर्ष्यमाहातिगर्विता ॥१०॥ न वत्स नृपतेर्धिष्ण्यं भवानारोढुमर्हति। न गृहीतो मया यत्त्वं कुक्षावपि नृपात्मजः ॥११॥ बालोऽसि बत नात्मानमन्यस्त्रीगर्भसम्भृतम्। नूनं वेद भवान् यस्य दुर्लभेऽर्थे मनोरथः ॥१२॥ तपसाऽऽराध्य पुरुषं तस्यैवानुग्रहेण मे। गर्भे त्वं साधयात्मानं यदीच्छसि नृपासनम् ॥१३॥ मैत्रेय उवाच मातुः सपत्न्याः स दुरुक्तिविद्धः श्वसन् रुषा दण्डहतो यथाहिः। हित्वा मिषन्तं पितरं सन्नवाचं जगाम मातुः प्ररुदन् सकाशम् ॥१४॥ तं निःश्वसन्तं स्फुरिताधरोष्ठं सुनीतिरुत्सङ्ग उदूह्य बालम्। निशम्य तत्पौरमुखान्नितान्तं सा विव्यथे यद्गदितं सपत्न्या ॥१५॥ सोत्सृज्य धैर्यं विललाप शोकदावाग्निना दावलतेव बाला। वाक्यं सपत्न्याः स्मरती सरोजश्रिया दृशा बाष्पकलामुवाह ॥१६॥ दीर्घं श्वसन्ती वृजिनस्य पारमपश्यती बालकमाह बाला। मामङ्गलं तात परेषु मंस्था भुङ्क्ते जनो यत्परदुःखदस्तत् ॥१७॥ सत्यं सुरुच्याभिहितं भवान् मे यद्दुर्भगाया उदरे गृहीतः। स्तन्येन वृद्धश्च विलज्जते यां भार्येति वा वोढुमिडस्पतिर्माम् ॥१८॥ आतिष्ठ तत्तात विमत्सरस्त्वमुक्तं समात्रापि यदव्यलीकम्। आराधयाधोक्षजपादपद्मं यदीच्छसेऽध्यासनमुत्तमो यथा ॥१९॥ यस्याङ्घ्रिपद्मं परिचर्य विश्व- विभावनायात्तगुणाभिपत्तेः। अजोऽध्यतिष्ठत्खलु पारमेष्ठ्यं पदं जितात्मश्वसनाभिवन्द्यम् ॥२०॥ तथा मनुर्वो भगवान् पितामहो यमेकमत्या पुरुदक्षिणैर्मखैः। इष्ट्वाभिपेदे दुरवापमन्यतो भौमं सुखं दिव्यमथापवर्ग्यम् ॥२१॥ तमेव वत्साश्रय भृत्यवत्सलं मुमुक्षुभिर्मृग्यपदाब्जपद्धतिम्। अनन्यभावे निजधर्मभाविते मनस्यवस्थाप्य भजस्व पूरुषम् ॥२२॥ नान्यं ततः पद्मपलाशलोचना- द्दुःखच्छिदं ते मृगयामि कञ्चन। यो मृग्यते हस्तगृहीतपद्मया श्रियेतरैरङ्ग विमृग्यमाणया ॥२३॥ मैत्रेय उवाच एवं सञ्जल्पितं मातुराकर्ण्यार्थागमं वचः। सन्नियम्यात्मनाऽऽत्मानं निश्चक्राम पितुः पुरात्॥२४॥ नारदस्तदुपाकर्ण्य ज्ञात्वा तस्य चिकीर्षितम्। स्पृष्ट्वा मूर्धन्यघघ्नेन पाणिना प्राह विस्मितः ॥२५॥ अहो तेजः क्षत्रियाणां मानभङ्गममृष्यताम्। बालोऽप्ययं हृदा धत्ते यत्समातुरसद्वचः ॥२६॥ नारद उवाच नाधुनाप्यवमानं ते सम्मानं वापि पुत्रक। लक्षयामः कुमारस्य सक्तस्य क्रीडनादिषु ॥२७॥ विकल्पे विद्यमानेऽपि न ह्यसन्तोषहेतवः। पुंसो मोहमृते भिन्ना यल्लोके निजकर्मभिः ॥२८॥ परितुष्येत्ततस्तात तावन्मात्रेण पूरुषः। दैवोपसादितं यावद्वीक्ष्येश्वरगतिं बुधः ॥२९॥ अथ मात्रोपदिष्टेन योगेनावरुरुत्ससि। यत्प्रसादं स वै पुंसां दुराराध्यो मतो मम ॥३०॥ मुनयः पदवीं यस्य निःसङ्गेनोरुजन्मभिः। न विदुर्मृगयन्तोऽपि तीव्रयोगसमाधिना ॥३१॥ अतो निवर्ततामेष निर्बन्धस्तव निष्फलः। यतिष्यति भवान् काले श्रेयसां समुपस्थिते ॥३२॥ यस्य यद्दैवविहितं स तेन सुखदुःखयोः। आत्मानं तोषयन् देही तमसः पारमृच्छति ॥३३॥ गुणाधिकान्मुदं लिप्सेदनुक्रोशं गुणाधमात्। मैत्रीं समानादन्विच्छेन्न तापैरभिभूयते ॥३४॥ ध्रुव उवाच सोऽयं शमो भगवता सुखदुःखहतात्मनाम्। दर्शितः कृपया पुंसां दुर्दर्शोऽस्मद्विधैस्तु यः ॥३५॥ अथापि मेऽविनीतस्य क्षात्रं घोरमुपेयुषः। सुरुच्या दुर्वचो बाणैर्न भिन्ने श्रयते हृदि ॥३६॥ पदं त्रिभुवनोत्कृष्टं जिगीषोः साधु वर्त्म मे। ब्रूह्यस्मत्पितृभिर्ब्रह्मन्नन्यैरप्यनधिष्ठितम् ॥३७॥ नूनं भवान् भगवतो योऽङ्गजः परमेष्ठिनः। वितुदन्नटते वीणां हितार्थं जगतोऽर्कवत् ॥३८॥ मैत्रेय उवाच इत्युदाहृतमाकर्ण्य भगवान्नारदस्तदा। प्रीतः प्रत्याह तं बालं सद्वाक्यमनुकम्पया ॥३९॥ नारद उवाच जनन्याभिहितः पन्थाः स वै निःश्रेयसस्य ते। भगवान् वासुदेवस्तं भज तत्प्रवणात्मना ॥४०॥ धर्मार्थकाममोक्षाख्यं य इच्छेच्छ्रेय आत्मनः। एकमेव हरेस्तत्र कारणं पादसेवनम् ॥४१॥ तत्तात गच्छ भद्रं ते यमुनायास्तटं शुचि। पुण्यं मधुवनं यत्र सान्निध्यं नित्यदा हरेः ॥४२॥ स्नात्वानुसवनं तस्मिन् कालिन्द्याः सलिले शिवे। कृत्वोचितानि निवसन्नात्मनः कल्पितासनः ॥४३॥ प्राणायामेन त्रिवृता प्राणेन्द्रियमनोमलम्। शनैर्व्युदस्याभिध्यायेन्मनसा गुरुणा गुरुम् ॥४४॥ प्रसादाभिमुखं शश्वत्प्रसन्नवदनेक्षणम्। सुनासं सुभ्रुवं चारुकपोलं सुरसुन्दरम् ॥४५॥ तरुणं रमणीयाङ्गमरुणोष्ठेक्षणाधरम्। प्रणताश्रयणं नृम्णं शरण्यं करुणार्णवम् ॥४६॥ श्रीवत्साङ्कं घनश्यामं पुरुषं वनमालिनम्। शङ्खचक्रगदापद्मैरभिव्यक्तचतुर्भुजम् ॥४७॥ किरीटिनं कुण्डलिनं केयूरवलयान्वितम्। कौस्तुभाभरणग्रीवं पीतकौशेयवाससम् ॥४८॥ काञ्चीकलापपर्यस्तं लसत्काञ्चननूपुरम्। दर्शनीयतमं शान्तं मनोनयनवर्धनम् ॥४९॥ पद्भ्यां नखमणिश्रेण्या विलसद्भ्यां समर्चताम्। हृत्पद्मकर्णिकाधिष्ण्यमाक्रम्यात्मन्यवस्थितम् ॥५०॥ स्मयमानमभिध्यायेत्सानुरागावलोकनम्। नियतेनैकभूतेन मनसा वरदर्षभम् ॥५१॥ एवं भगवतो रूपं सुभद्रं ध्यायतो मनः। निर्वृत्या परया तूर्णं सम्पन्नं न निवर्तते ॥५२॥ जप्यश्च परमो गुह्यः श्रूयतां मे नृपात्मज। यं सप्तरात्रं प्रपठन् पुमान् पश्यति खेचरान् ॥५३॥ ओं नमो भगवते वासुदेवाय । मन्त्रेणानेन देवस्य कुर्याद्द्रव्यमयीं बुधः। सपर्यां विविधैर्द्रव्यैर्देशकालविभागवित् ॥५४॥ सलिलैः शुचिभिर्माल्यैर्वन्यैर्मूलफलादिभिः। शस्ताङ्कुरांशुकैश्चार्चेत्तुलस्या प्रियया प्रभुम् ॥५५॥ लब्ध्वा द्रव्यमयीमर्चां क्षित्यम्ब्वादिषु वार्चयेत्। आभृतात्मा मुनिः शान्तो यतवाङ्मितवन्यभुक् ॥५६॥ स्वेच्छावतारचरितैरचिन्त्यनिजमायया। करिष्यत्युत्तमश्लोकस्तद्ध्यायेद्धृदयङ्गमम् ॥५७॥ परिचर्या भगवतो यावत्यः पूर्वसेविताः। ता मन्त्रहृदयेनैव प्रयुञ्ज्यान्मन्त्रमूर्तये ॥५८॥ एवं कायेन मनसा वचसा च मनोगतम्। परिचर्यमाणो भगवान् भक्तिमत्परिचर्यया ॥५९॥ पुंसाममायिनां सम्यग्भजतां भाववर्धनः। श्रेयो दिशत्यभिमतं यद्धर्मादिषु देहिनाम् ॥६०॥ विरक्तश्चेन्द्रियरतौ भक्तियोगेन भूयसा। तं निरन्तरभावेन भजेताद्धा विमुक्तये ॥६१॥ इत्युक्तस्तं परिक्रम्य प्रणम्य च नृपार्भकः। ययौ मधुवनं पुण्यं हरेश्चरणचर्चितम् ॥६२॥ तपोवनं गते तस्मिन् प्रविष्टोऽन्तःपुरं मुनिः। अर्हितार्हणको राज्ञा सुखासीन उवाच तम् ॥६३॥ नारद उवाच राजन् किं ध्यायसे दीर्घं मुखेन परिशुष्यता। किं वा न रिष्यते कामो धर्मो वार्थेन संयुतः ॥६४॥ राजोवाच सुतो मे बालको ब्रह्मन् स्त्रैणेनाकरुणात्मना। निर्वासितः पञ्चवर्षः सह मात्रा महान् कविः ॥६५॥ अप्यनाथं वने ब्रह्मन् मा स्मादन्त्यर्भकं वृकाः। श्रान्तं शयानं क्षुधितं परिम्लानमुखाम्बुजम् ॥६६॥ अहो मे बत दौरात्म्यं स्त्रीजितस्योपधारय। योऽङ्कं प्रेम्णारुरुक्षन्तं नाभ्यनन्दमसत्तमः ॥६७॥ नारद उवाच मा मा शुचः स्वतनयं देवगुप्तं विशाम्पते। तत्प्रभावमविज्ञाय प्रावृङ्क्ते यद्यशो जगत् ॥६८॥ सुदुष्करं कर्म कृत्वा लोकपालैरपि प्रभुः। एष्यत्यचिरतो राजन् यशो विपुलयंस्तव ॥६९॥ मैत्रेय उवाच इति देवर्षिणा प्रोक्तं विश्रुत्य जगतीपतिः। राजलक्ष्मीमनादृत्य पुत्रमेवान्वचिन्तयत् ॥७०॥ तत्राभिषिक्तः प्रयतस्तामुपोष्य विभावरीम्। समाहितः पर्यचरदृष्यादेशेन पूरुषम् ॥७१॥ त्रिरात्रान्ते त्रिरात्रान्ते कपित्थबदराशनः। आत्मवृत्त्यनुसारेण मासं निन्येऽर्चयन् हरिम् ॥७२॥ द्वितीयं च तथा मासं षष्ठे षष्ठेऽर्भको दिने। तृणपर्णादिभिः शीर्णैः कृतान्नोऽभ्यर्चयद्विभुम् ॥७३॥ तृतीयं चानयन्मासं नवमे नवमेऽहनि। अब्भक्ष उत्तमश्लोकमुपाधावत्समाधिना ॥७४॥ चतुर्थमपि वै मासं द्वादशे द्वादशेऽहनि। वायुभक्षो जितश्वासो ध्यायन् देवमधारयत् ॥७५॥ पञ्चमे मास्यनुप्राप्ते जितश्वासो नृपात्मजः। ध्यायन् ब्रह्म पदैकेन तस्थौ स्थाणुरिवाचलः ॥७६॥ सर्वतो मन आकृष्य हृदि भूतेन्द्रियाशयम्। ध्यायन् भगवतो रूपं नाद्राक्षीत्किञ्चनापरम् ॥७७॥ आधारं महदादीनां प्रधानपुरुषेश्वरम्। ब्रह्म धारयमाणस्य त्रयो लोकाश्चकम्पिरे ॥७८॥ यदैकपादेन स पार्थिवार्भक- स्तस्थौ तदङ्गुष्ठनिपीडिता मही। ननाम तत्रार्धमिभेन्द्रधिष्ठिता तरीव सव्येतरतः पदे पदे ॥७९॥ तस्मिन्नभिध्यायति विश्वमात्मनो द्वारं निरुध्यासुमनन्यया धिया। लोका निरुच्छ्वासनिपीडिता भृशं सलोकपालाः शरणं ययुर्हरिम् ॥८०॥ देवा ऊचुः नैवं विदामो भगवन् प्राणरोधं चराचरस्याखिलसत्त्वधाम्नः। विधेहि तन्नो वृजिनाद्विमोक्षं प्राप्ता वयं त्वां शरणं शरण्यम् ॥८१॥ श्रीभगवानुवाच मा भैष्ट बालं तपसो दुरत्यया- न्निवर्तयिष्ये प्रतियात स्वधाम। यतो हि वः प्राणनिरोध आसी- दौत्तानपादिर्मयि सङ्गतात्मा ॥८२॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे ध्रुवचरिते अष्टमोऽध्यायः ॥८॥

॥ नवमोऽध्यायः - ९ ॥

मैत्रेय उवाच त एवमुत्सन्नभया उरुक्रमे कृतावनामाः प्रययुस्त्रिविष्टपम्। सहस्रशीर्षापि ततो गरुत्मता मधोर्वनं भृत्यदिदृक्षया गतः ॥१॥ स वै धिया योगविपाकतीव्रया हृत्पद्मकोशे स्फुरितं तडित्प्रभम्। तिरोहितं सहसैवोपलक्ष्य बहिःस्थितं तदवस्थं ददर्श ॥२॥ तद्दर्शनेनागतसाध्वसः क्षिता- ववन्दताङ्गं विनमय्य दण्डवत्। दृग्भ्यां प्रपश्यन् प्रपिबन्निवार्भकः चुम्बन्निवास्येन भुजैरिवाश्लिषन् ॥३॥ स तं विवक्षन्तमतद्विदं हरिः ज्ञात्वास्य सर्वस्य च हृद्यवस्थितः। कृताञ्जलिं ब्रह्ममयेन कम्बुना पस्पर्श बालं कृपया कपोले ॥४॥ स वै तदैव प्रतिपादितां गिरं दैवीं परिज्ञातपरात्मनिर्णयः। तं भक्तिभावोऽभ्यगृणादसत्वरं परिश्रुतोरुश्रवसं ध्रुवक्षितिः ॥५॥ ध्रुव उवाच योऽन्तःप्रविश्य मम वाचमिमां प्रसुप्तां सञ्जीवयत्यखिलशक्तिधरः स्वधाम्ना । अन्यांश्च हस्तचरणश्रवणत्वगादीन् प्राणान् नमो भगवते पुरुषाय तुभ्यम् ॥६॥ एकस्त्वमेव भगवन्निदमात्मशक्त्या मायाख्ययोरुगुणया महदाद्यशेषम् । सृष्ट्वानुविश्य पुरुषस्तदसद्गुणेषु नानेव दारुषु विभावसुवद्विभासि ॥७॥ त्वद्दत्तया वयुनयेदमचष्ट विश्वं सुप्तप्रबुद्ध इव नाथ भवत्प्रपन्नः । तस्यापवर्ग्यशरणं तव पादमूलं विस्मर्यते कृतविदा कथमार्तबन्धो ॥८॥ नूनं विमुष्टमतयस्तव मायया ते ये त्वां भवाप्ययविमोक्षणमन्यहेतोः । अर्चन्ति कल्पकतरुं कुणपोपभोग्य- मिच्छन्ति यत्स्पर्शजं निरयेऽपि नॄणाम् ॥९॥ या निर्वृतिस्तनुभृतां तव पादपद्म- ध्यानाद्भवज्जनकथाश्रवणेन वा स्यात्। सा ब्रह्मणि स्वमहिमन्यपि नाथ मा भूत्किं त्वन्तकासिलुलितात्पततां विमानात् ॥१०॥ भक्तिं मुहुः प्रवहतां त्वयि मे प्रसङ्गो भूयादनन्त महताममलाशयानाम् । येनाञ्जसोल्बणमुरुव्यसनं भवाब्धिं नेष्ये भवद्गुणकथामृतपानमत्तः ॥११॥ ते न स्मरन्त्यतितरां प्रियमीश मर्त्यं ये चान्वदः सुतसुहृद्गृहवित्तदाराः । ये त्वब्जनाभ भवदीयपदारविन्द- सौगन्ध्यलुब्धहृदयेषु कृतप्रसङ्गाः ॥१२॥ तिर्यङ्नगद्विजसरीसृपदेवदैत्य- मर्त्यादिभिः परिचितं सदसद्विशेषम् । रूपं स्थविष्ठमज ते महदाद्यनेकं नातः परं परम वेद्मि न यत्र वादः ॥१३॥ कल्पान्त एतदखिलं जठरेण गृह्णन् शेते पुमान् स्वदृगनन्तसखस्तदङ्के । यन्नाभिसिन्धुरुहकाञ्चनलोकपद्मगर्भे द्युमान् भगवते प्रणतोऽस्मि तस्मै ॥१४॥ त्वं नित्यमुक्तपरिशुद्धविबुद्ध आत्मा कूटस्थ आदिपुरुषो भगवांस्त्र्यधीशः । यद्बुद्ध्यवस्थितिमखण्डितया स्वदृष्ट्या द्रष्टा स्थितावधिमखो व्यतिरिक्त आस्से ॥१५॥ यस्मिन् विरुद्धगतयो ह्यनिशं पतन्ति विद्यादयो विविधशक्तय आनुपूर्व्यात्। तद्ब्रह्मविश्वभवमेकमनन्तमाद्य- मानन्दमात्रमविकारमहं प्रपद्ये ॥१६॥ सत्याशिषो हि भगवंस्तव पादपद्म- माशीस्तथानुभजतः पुरुषार्थमूर्तेः। अप्येवमार्य भगवान् परिपाति दीनान् वाश्रेव वत्सकमनुग्रहकातरोऽस्मान् ॥१७॥ मैत्रेय उवाच अथाभिष्टुत एवं वै सत्सङ्कल्पेन धीमता। भृत्यानुरक्तो भगवान् प्रतिनन्द्येदमब्रवीत् ॥१८॥ श्रीभगवानुवाच वेदाहं ते व्यवसितं हृदि राजन्यबालक। तत्प्रयच्छामि भद्रं ते दुरापमपि सुव्रत ॥१९॥ नान्यैरधिष्ठितं भद्र यद्भ्राजिष्णु ध्रुवक्षिति। यत्र ग्रहर्क्षताराणां ज्योतिषां चक्रमाहितम् ॥२० मेढ्यां गोचक्रवत्स्थास्नु परस्तात्कल्पवासिनाम्। धर्मोऽग्निः कश्यपः शुक्रो मुनयो ये वनौकसः। चरन्ति दक्षिणीकृत्य भ्रमन्तो यत्सतारकाः ॥२१॥ प्रस्थिते तु वनं पित्रा दत्त्वा गां धर्मसंश्रयः। षट्त्रिंशद्वर्षसाहस्रं रक्षिताव्याहतेन्द्रियः ॥२२॥ त्वद्भ्रातर्युत्तमे नष्टे मृगयायां तु तन्मनाः। अन्वेषन्ती वनं माता दावाग्निं सा प्रवेक्ष्यति ॥२३॥ इष्ट्वा मां यज्ञहृदयं यज्ञैः पुष्कलदक्षिणैः। भुक्त्वा चेहाशिषः सत्या अन्ते मां संस्मरिष्यसि ॥२४॥ ततो गन्तासि मत्स्थानं सर्वलोकनमस्कृतम्। उपरिष्टादृषिभ्यस्त्वं यतो नावर्तते गतः ॥२५॥ मैत्रेय उवाच इत्यर्चितः स भगवानतिदिश्यात्मनः पदम्। बालस्य पश्यतो धाम स्वमगाद्गरुडध्वजः ॥२६॥ सोऽपि सङ्कल्पजं विष्णोः पादसेवोपसादितम्। प्राप्य सङ्कल्पनिर्वाणं नातिप्रीतोभ्यगात्पुरम् ॥२७॥ विदुर उवाच सुदुर्लभं यत्परमं पदं हरे- र्मायाविनस्तच्चरणार्चनार्जितम्। लब्ध्वाप्यसिद्धार्थमिवैकजन्मना कथं स्वमात्मानममन्यतार्थवित् ॥२८॥ मैत्रेय उवाच मातुः सपत्न्या वाग्बाणैर्हृदि विद्धस्तु तान् स्मरन्। नैच्छन्मुक्तिपतेर्मुक्तिं तस्मात्तापमुपेयिवान् ॥२९॥ ध्रुव उवाच समाधिना नैकभवेन यत्पदं विदुः सनन्दादय ऊर्ध्वरेतसः। मासैरहं षड्भिरमुष्यपादयोः छायामुपेत्यापगतः पृथङ्मतिः ॥३०॥ अहो बत ममानात्म्यं मन्दभाग्यस्य पश्यत। भवच्छिदः पादमूलं गत्वा याचे यदन्तवत् ॥३१॥ मतिर्विदूषिता देवैः पतद्भिरसहिष्णुभिः। यो नारदवचस्तथ्यं नाग्राहिषमसत्तमः ॥३२॥ दैवीं मायामुपाश्रित्य प्रसुप्त इव भिन्नदृक्। तप्ये द्वितीयेऽप्यसति भ्रातृभ्रातृव्यहृद्रुजा ॥३३॥ मयैतत्प्रार्थितं व्यर्थं चिकित्सेव गतायुषि। प्रसाद्य जगदात्मानं तपसा दुष्प्रसादनम्। भवच्छिदमयाचेऽहं भवं भाग्यविवर्जितः ॥३४॥ स्वाराज्यं यच्छतो मौढ्यान्मानो मे भिक्षितो बत। ईश्वरात्क्षीणपुण्येन फलीकारानिवाधनः ॥३५॥ मैत्रेय उवाच न वै मुकुन्दस्य पदारविन्दयोः रजोजुषस्तात भवादृशा जनाः। वाञ्छन्ति तद्दास्यमृतेऽर्थमात्मनो यदृच्छया लब्धमनः समृद्धयः ॥३६॥ आकर्ण्यात्मजमायान्तं सम्परेत्य यथागतम्। राजा न श्रद्दधे भद्रमभद्रस्य कुतो मम ॥३७॥ श्रद्धाय वाक्यं देवर्षेर्हर्षवेगेन धर्षितः। वार्ताहर्तुरतिप्रीतो हारं प्रादान्महाधनम् ॥३८॥ सदश्वं रथमारुह्य कार्तस्वरपरिष्कृतम्। ब्राह्मणैः कुलवृद्धैश्च पर्यस्तोऽमात्यबन्धुभिः ॥३९॥ शङ्खदुन्दुभिनादेन ब्रह्मघोषेण वेणुभिः। निश्चक्राम पुरात्तूर्णमात्मजाभीक्षणोत्सुकः ॥४०॥ सुनीतिः सुरुचिश्चास्य महिष्यौ रुक्मभूषिते। आरुह्य शिबिकां सार्धमुत्तमेनाभिजग्मतुः ॥४१॥ तं दृष्ट्वोपवनाभ्याश आयान्तं तरसा रथात्। अवरुह्य नृपस्तूर्णमासाद्य प्रेमविह्वलः ॥४२॥ परिरेभेऽङ्गजं दोर्भ्यां दीर्घोत्कण्ठमनाः श्वसन्। विष्वक्सेनाङ्घ्रिसंस्पर्शहताशेषाघबन्धनम् ॥४३॥ अथाजिघ्रन्मुहुर्मूर्ध्नि शीतैर्नयनवारिभिः। स्नापयामास तनयं जातोद्दाममनोरथः ॥४४॥ अभिवन्द्य पितुः पादावाशीर्भिश्चाभिमन्त्रितः। ननाम मातरौ शीर्ष्णा सत्कृतः सज्जनाग्रणीः ॥४५॥ सुरुचिस्तं समुत्थाप्य पादावनतमर्भकम्। परिष्वज्याह जीवेति बाष्पगद्गदया गिरा ॥४६॥ यस्य प्रसन्नो भगवान् गुणैर्मैत्र्यादिभिर्हरिः। तस्मै नमन्ति भूतानि निम्नमाप इव स्वयम् ॥४७॥ उत्तमश्च ध्रुवश्चोभावन्योन्यं प्रेमविह्वलौ। अङ्गसङ्गादुत्पुलकावस्रौघं मुहुरूहतुः ॥४८॥ सुनीतिरस्य जननी प्राणेभ्योऽपि प्रियं सुतम्। उपगुह्य जहावाधिं तदङ्गस्पर्शनिर्वृता ॥४९॥ पयः स्तनाभ्यां सुस्राव नेत्रजैः सलिलैः शिवैः। तदाभिषिच्यमानाभ्यां वीर वीरसुवो मुहुः ॥५०॥ तां शशंसुर्जना राज्ञीं दिष्ट्या ते पुत्र आर्तिहा। प्रतिलब्धश्चिरं नष्टो रक्षिता मण्डलं भुवः ॥५१॥ अभ्यर्चितस्त्वया नूनं भगवान् प्रणतार्तिहा। यदनुध्यायिनो धीरा मृत्युं जिग्युः सुदुर्जयम् ॥५२॥ लाल्यमानं जनैरेवं ध्रुवं सभ्रातरं नृपः। आरोप्य करिणीं हृष्टः स्तूयमानोऽविशत्पुरम् ॥५३॥ तत्र तत्रोपसङ्कॢप्तैर्लसन्मकरतोरणैः। सवृन्दैः कदलीस्तम्भैः पूगपोतैश्च तद्विधैः ॥५४॥ चूतपल्लववासःस्रङ् मुक्तादामविलम्बिभिः। उपस्कृतं प्रतिद्वारमपां कुम्भैः सदीपकैः ॥५५॥ प्राकारैर्गोपुरागारैः शातकुम्भपरिच्छदैः। सर्वतोऽलङ्कृतं श्रीमद्विमानशिखरद्युभिः ॥५६॥ मृष्टचत्वररथ्याट्टमार्गं चन्दनचर्चितम्। लाजाक्षतैः पुष्पफलैस्तण्डुलैर्बलिभिर्युतम् ॥५७॥ ध्रुवाय पथि दृष्टाय तत्र तत्र पुरस्त्रियः सिद्धार्थाक्षतदध्यम्बुदूर्वापुष्पफलानि च ॥५८॥ उपजह्रुः प्रयुञ्जाना वात्सल्यादाशिषः सतीः। शृण्वंस्तद्वल्गुगीतानि प्राविशद्भवनं पितुः ॥५९॥ महामणिव्रातमये स तस्मिन् भवनोत्तमे। लालितो नितरां पित्रा न्यवसद्दिवि देववत् ॥६०॥ पयःफेननिभाः शय्या दान्ता रुक्मपरिच्छदाः। आसनानि महार्हाणि यत्र रौक्मा उपस्कराः ॥६१॥ यत्र स्फटिककुड्येषु महामारकतेषु च। मणिप्रदीपा आभान्ति ललनारत्नसंयुताः ॥६२॥ उद्यानानि च रम्याणि विचित्रैरमरद्रुमैः। कूजद्विहङ्गमिथुनैर्गायन् मत्तमधुव्रतैः ॥६३॥ वाप्यो वैदूर्यसोपानाः पद्मोत्पलकुमुद्वतीः। हंसकारण्डवकुलैर्जुष्टाश्चक्राह्वसारसैः ॥६४॥ उत्तानपादो राजर्षिः प्रभावं तनयस्य तम्। श्रुत्वा दृष्ट्वाद्भुततमं प्रपेदे विस्मयं परम् ॥६५॥ वीक्ष्योढवयसं तं च प्रकृतीनां च सम्मतम्। अनुरक्तप्रजं राजा ध्रुवं चक्रे भुवः पतिम् ॥६६॥ आत्मानं च प्रवयसमाकलय्य विशाम्पतिः। वनं विरक्तः प्रातिष्ठद्विमृशन्नात्मनो गतिम् ॥६७॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे ध्रुवराज्याभिषेकवर्णनं नाम नवमोऽध्यायः ॥९॥

॥ दशमोऽध्यायः - १० ॥

मैत्रेय उवाच प्रजापतेर्दुहितरं शिशुमारस्य वै ध्रुवः। उपयेमे भ्रमिं नाम तत्सुतौ कल्पवत्सरौ ॥१॥ इलायामपि भार्यायां वायोः पुत्र्यां महाबलः। पुत्रमुत्कलनामानं योषिद्रत्नमजीजनत् ॥२॥ उत्तमस्त्वकृतोद्वाहो मृगयायां बलीयसा। हतः पुण्यजनेनाद्रौ तन्मातास्य गतिं गता ॥३॥ ध्रुवो भ्रातृवधं श्रुत्वा कोपामर्षः शुचार्पितः। जैत्रं स्यन्दनमास्थाय गतः पुण्यजनालयम् ॥४॥ गत्वोदीचीं दिशं राजा रुद्रानुचरसेविताम्। ददर्श हिमवद्द्रोण्यां पुरीं गुह्यकसङ्कुलाम् ॥५॥ दध्मौ शङ्खं बृहद्बाहुः खं दिशश्चानुनादयन्। येनोद्विग्नदृशः क्षत्तरुपदेव्योऽत्रसन् भृशम् ॥६॥ ततो निष्क्रम्य बलिन उपदेवमहाभटाः। असहन्तस्तन्निनादमभिपेतुरुदायुधाः ॥७॥ स तानापततो वीर उग्रधन्वा महारथः। एकैकं युगपत्सर्वानहन् बाणैस्त्रिभिस्त्रिभिः ॥८॥ ते वै ललाटलग्नैस्तैरिषुभिः सर्व एव हि। मत्वा निरस्तमात्मानमाशंसन् कर्म तस्य तत् ॥९॥ तेऽपि चामुममृष्यन्तः पादस्पर्शमिवोरगाः। शरैरविध्यन् युगपद्द्विगुणं प्रचिकीर्षवः ॥१ ततः परिघनिस्त्रिंशैः प्रासशूलपरश्वधैः। शक्त्यृष्टिभिर्भुशुण्डीभिश्चित्रवाजैः शरैरपि ॥११॥ अभ्यवर्षन् प्रकुपिताः सरथं सह सारथिम्। इच्छन्तस्तत्प्रतीकर्तुमयुतानि त्रयोदश ॥१२॥ औत्तानपादिः स तदा शस्त्रवर्षेण भूरिणा। न उपादृश्यतच्छन्न आसारेण यथा गिरिः ॥१३॥ हाहाकारस्तदैवासीत्सिद्धानां दिवि पश्यताम्। हतोऽयं मानवः सूर्यो मग्नः पुण्यजनार्णवे ॥१४॥ नदत्सु यातुधानेषु जयकाशिष्वथो मृधे। उदतिष्ठद्रथस्तस्य नीहारादिव भास्करः ॥१५॥ धनुर्विस्फूर्जयन् दिव्यं द्विषतां खेदमुद्वहन्। अस्त्रौघं व्यधमद्बाणैर्घनानीकमिवानिलः ॥१६॥ तस्य ते चापनिर्मुक्ता भित्त्वा वर्माणि रक्षसाम्। कायानाविविशुस्तिग्मा गिरीनशनयो यथा ॥१७॥ भल्लैः सञ्छिद्यमानानां शिरोभिश्चारुकुण्डलैः। ऊरुभिर्हेमतालाभैर्दोर्भिर्वलयवल्गुभिः ॥१८॥ हारकेयूरमुकुटैरुष्णीषैश्च महाधनैः। आस्तृतास्ता रणभुवो रेजुर्वीर मनोहराः ॥१९॥ हतावशिष्टा इतरे रणाजिरा- द्रक्षोगणाः क्षत्रियवर्यसायकैः। प्रायो विवृक्णावयवा विदुद्रुवुः मृगेन्द्रविक्रीडितयूथपा इव ॥२०॥ अपश्यमानः स तदाततायिनं महामृधे कञ्चन मानवोत्तमः। पुरीं दिदृक्षन्नपि नाविशद्द्विषां न मायिनां वेद चिकीर्षितं जनः ॥ज२१॥ इति ब्रुवंश्चित्ररथः स्वसारथिं यत्तः परेषां प्रतियोगशङ्कितः। शुश्राव शब्दं जलधेरिवेरितं नभस्वतो दिक्षु रजोऽन्वदृश्यत ॥२२॥ क्षणेनाच्छादितं व्योम घनानीकेन सर्वतः। विस्फुरत्तडिता दिक्षु त्रासयत्स्तनयित्नुना ॥२३॥ ववृषू रुधिरौघासृक्पूयविण्मूत्रमेदसः। निपेतुर्गगनादस्य कबन्धान्यग्रतोऽनघ ॥२४॥ ततः खेऽदृश्यत गिरिर्निपेतुः सर्वतोदिशम्। गदापरिघनिस्त्रिंशमुसलाः साश्मवर्षिणः ॥२५॥ अहयोऽशनिनिःश्वासा वमन्तोऽग्निं रुषाक्षिभिः। अभ्यधावन् गजा मत्ताः सिंहव्याघ्राश्च यूथशः ॥२६॥ समुद्र ऊर्मिभिर्भीमः प्लावयन् सर्वतोभुवम्। आससाद महाह्रादः कल्पान्त इव भीषणः ॥२७॥ एवं विधान्यनेकानि त्रासनान्यमनस्विनाम्। ससृजुस्तिग्मगतय आसुर्या माययासुराः ॥२८॥ ध्रुवे प्रयुक्तामसुरैस्तां मायामतिदुस्तराम्। निशाम्य तस्य मुनयः समाशंसन् समागताः ॥२९॥ मुनय ऊचुः औत्तानपादे भगवांस्तव शार्ङ्गधन्वा देवः क्षिणोत्ववनतार्तिहरो विपक्षान् । यन्नामधेयमभिधाय निशम्य चाद्धा लोकोऽञ्जसा तरति दुस्तरमङ्ग मृत्युम् ॥३०॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे दशमोऽध्यायः ॥१०॥

॥ एकादशोऽध्यायः - ११ ॥

मैत्रेय उवाच निशम्य गदतामेवं ऋषीणां धनुषि ध्रुवः। सन्दधेऽस्त्रमुपस्पृश्य यन्नारायणनिर्मितम् ॥१॥ सन्धीयमान एतस्मिन् माया गुह्यकनिर्मिताः। क्षिप्रं विनेशुर्विदुर क्लेशा ज्ञानोदये यथा ॥२॥ तस्यार्षास्त्रं धनुषि प्रयुञ्जतः सुवर्णपुङ्खाः कलहंसवाससः। विनिःसृता आविविशुर्द्विषद्बलं यथा वनं भीमरवाः शिखण्डिनः ॥३॥ तैस्तिग्मधारैः प्रधने शिलीमुखै- रितस्ततः पुण्यजना उपद्रुताः। तमभ्यधावन् कुपिता उदायुधाः सुपर्णमुन्नद्धफणा इवाहयः ॥४॥ स तान् पृषत्कैरभिधावतो मृधे निकृत्तबाहूरुशिरोधरोदरान्। निनाय लोकं परमर्कमण्डलं व्रजन्ति निर्भिद्य यमूर्ध्वरेतसः ॥५॥ तान् हन्यमानानभिवीक्ष्य गुह्यका- ननागसश्चित्ररथेन भूरिशः। औत्तानपादिं कृपया पितामहो मनुर्जगादोपगतः सहर्षिभिः ॥६॥ मनुरुवाच अलं वत्सातिरोषेण तमोद्वारेण पाप्मना। येन पुण्यजनानेतानवधीस्त्वमनागसः ॥७॥ नास्मत्कुलोचितं तात कर्मैतत्सद्विगर्हितम्। वधो यदुपदेवानामारब्धस्तेऽकृतैनसाम् ॥८॥ नन्वेकस्यापराधेन प्रसङ्गाद्बहवो हताः। भ्रातुर्वधाभितप्तेन त्वयाङ्ग भ्रातृवत्सल ॥९॥ नायं मार्गो हि साधूनां हृषीकेशानुवर्तिनाम्। यदात्मानं पराग्गृह्य पशुवद्भूतवैशसम् ॥१०॥ सर्वभूतात्मभावेन भूतावासं हरिं भवान्। आराध्याप दुराराध्यं विष्णोस्तत्परमं पदम् ॥११॥ स त्वं हरेरनुध्यातस्तत्पुंसामपि सम्मतः। कथं त्ववद्यं कृतवाननुशिक्षन् सतां व्रतम् ॥१२॥ तितिक्षया करुणया मैत्र्या चाखिलजन्तुषु। समत्वेन च सर्वात्मा भगवान् सम्प्रसीदति ॥१३॥ सम्प्रसन्ने भगवति पुरुषः प्राकृतैर्गुणैः। विमुक्तो जीवनिर्मुक्तो ब्रह्मनिर्वाणमृच्छति ॥१४॥ भूतैः पञ्चभिरारब्धैर्योषित्पुरुष एव हि। तयोर्व्यवायात्सम्भूतिर्योषित्पुरुषयोरिह ॥१५॥ एवं प्रवर्तते सर्गः स्थितिः संयम एव च। गुणव्यतिकराद्राजन् मायया परमात्मनः ॥१६॥ निमित्तमात्रं तत्रासीन्निर्गुणः पुरुषर्षभः। व्यक्ताव्यक्तमिदं विश्वं यत्र भ्रमति लोहवत् ॥१७॥ स खल्विदं भगवान् कालशक्त्या गुणप्रवाहेण विभक्तवीर्यः। करोत्यकर्तैव निहन्त्यहन्ता चेष्टा विभूम्नः खलु दुर्विभाव्या ॥१८॥ सोऽनन्तोऽन्तकरः कालोऽनादिरादिकृदव्ययः। जनं जनेन जनयन् मारयन् मृत्युनान्तकम् ॥१९॥ न वै स्वपक्षोऽस्य विपक्ष एव वा परस्य मृत्योर्विशतः समं प्रजाः। तं धावमानमनुधावन्त्यनीशा यथा रजांस्यनिलं भूतसङ्घाः ॥२०॥ आयुषोऽपचयं जन्तोस्तथैवोपचयं विभुः। उभाभ्यां रहितः स्वस्थो दुःस्थस्य विदधात्यसौ ॥२१॥ केचित्कर्म वदन्त्येनं स्वभावमपरे नृप। एके कालं परे दैवं पुंसः काममुतापरे ॥२२॥ अव्यक्तस्याप्रमेयस्य नानाशक्त्युदयस्य च। न वै चिकीर्षितं तात को वेदाथ स्वसम्भवम् ॥२३॥ न चैते पुत्रक भ्रातुर्हन्तारो धनदानुगाः। विसर्गादानयोस्तात पुंसो दैवं हि कारणम् ॥२४॥ स एव विश्वं सृजति स एवावति हन्ति च। अथापि ह्यनहङ्कारान्नाज्यते गुणकर्मभिः ॥२५॥ एष भूतानि भूतात्मा भूतेशो भूतभावनः। स्वशक्त्या मायया युक्तः सृजत्यत्ति च पाति च ॥२६॥ तमेव मृत्युममृतं तात दैवं सर्वात्मनोपेहि जगत्परायणम् । यस्मै बलिं विश्वसृजो हरन्ति गावो यथा वै नसि दामयन्त्रिताः ॥२७॥ यः पञ्चवर्षो जननीं त्वं विहाय मातुः सपत्न्या वचसा भिन्नमर्मा। वनं गतस्तपसा प्रत्यगक्षमाराध्य लेभे मूर्ध्नि पदं त्रिलोक्याः ॥२८॥ तमेनमङ्गात्मनि मुक्तविग्रहे व्यपाश्रितं निर्गुणमेकमक्षरम्। आत्मानमन्विच्छ विमुक्तमात्मदृग्यस्मिन्निदं भेदमसत्प्रतीयते ॥२९॥ त्वं प्रत्यगात्मनि तदा भगवत्यनन्त आनन्दमात्र उपपन्नसमस्तशक्तौ। भक्तिं विधाय परमां शनकैरविद्याग्रन्थिं विभेत्स्यसि ममाहमिति प्ररूढम् ॥३०॥ संयच्छ रोषं भद्रं ते प्रतीपं श्रेयसां परम्। श्रुतेन भूयसा राजन्नगदेन यथाऽऽमयम् ॥३१॥ येनोपसृष्टात्पुरुषाल्लोक उद्विजते भृशम्। न बुधस्तद्वशं गच्छेदिच्छन्नभयमात्मनः ॥३२॥ हेलनं गिरिशभ्रातुर्धनदस्य त्वया कृतम्। यज्जघ्निवान् पुण्यजनान् भ्रातृघ्नानित्यमर्षितः ॥३३॥ तं प्रसादय वत्साशु सन्नत्या प्रश्रयोक्तिभिः। न यावन्महतां तेजः कुलं नोऽभिभविष्यति ॥३४॥ एवं स्वायम्भुवः पौत्रमनुशास्य मनुर्ध्रुवम्। तेनाभिवन्दितः साकमृषिभिः स्वपुरं ययौ ॥३५॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे एकादशोऽध्यायः ॥११॥

॥ द्वादशोऽध्यायः - १२ ॥

मैत्रेय उवाच ध्रुवं निवृत्तं प्रतिबुद्ध्य वैशसा- दपेतमन्युं भगवान् धनेश्वरः। तत्रागतश्चारणयक्षकिन्नरैः संस्तूयमानोऽभ्यवदत्कृताञ्जलिम् ॥१॥ धनद उवाच भो भोः क्षत्रियदायाद परितुष्टोऽस्मि तेऽनघ। यत्त्वं पितामहादेशाद्वैरं दुस्त्यजमत्यजः ॥२॥ न भवानवधीद्यक्षान् न यक्षा भ्रातरं तव। काल एव हि भूतानां प्रभुरप्ययभावयोः ॥३॥ अहं त्वमित्यपार्था धीरज्ञानात्पुरुषस्य हि। स्वाप्नीवाभात्यतद्ध्यानाद्यया बन्धविपर्ययौ ॥४॥ तद्गच्छ ध्रुव भद्रं ते भगवन्तमधोक्षजम्। सर्वभूतात्मभावेन सर्वभूतात्मविग्रहम् ॥५॥ भजस्व भजनीयाङ्घ्रिमभवाय भवच्छिदम्। युक्तं विरहितं शक्त्या गुणमय्याऽऽत्ममायया ॥६॥ वृणीहि कामं नृप यन्मनोगतं मत्तस्त्वमौत्तानपदेऽविशङ्कितः। वरं वरार्होऽम्बुजनाभपादयो- रनन्तरं त्वां वयमङ्ग शुश्रुम ॥७॥ मैत्रेय उवाच स राजराजेन वराय चोदितो ध्रुवो महाभागवतो महामतिः। हरौ स वव्रेऽचलितां स्मृतिं यया तरत्ययत्नेन दुरत्ययं तमः ॥८॥ तस्य प्रीतेन मनसा तां दत्त्वैडविडस्ततः। पश्यतोऽन्तर्दधे सोऽपि स्वपुरं प्रत्यपद्यत ॥९॥ अथायजत यज्ञेशं क्रतुभिर्भूरिदक्षिणैः। द्रव्यक्रियादेवतानां कर्म कर्मफलप्रदम् ॥१०॥ सर्वात्मन्यच्युतेऽसर्वे तीव्रौघां भक्तिमुद्वहन्। ददर्शात्मनि भूतेषु तमेवावस्थितं विभुम् ॥११॥ तमेवं शीलसम्पन्नं ब्रह्मण्यं दीनवत्सलम्। गोप्तारं धर्मसेतूनां मेनिरे पितरं प्रजाः ॥१२॥ षट्त्रिंशद्वर्षसाहस्रं शशास क्षितिमण्डलम्। भोगैः पुण्यक्षयं कुर्वन्नभोगैरशुभक्षयम् ॥१३॥ एवं बहुसवं कालं महात्माविचलेन्द्रियः। त्रिवर्गौपयिकं नीत्वा पुत्रायादान्नृपासनम् ॥१४॥ मन्यमान इदं विश्वं मायारचितमात्मनि। अविद्यारचितस्वप्नगन्धर्वनगरोपमम् ॥१५॥ आत्मस्त्र्यपत्यसुहृदो बलमृद्धकोश- मन्तःपुरं परिविहारभुवश्च रम्याः। भूमण्डलं जलधिमेखलमाकलय्य कालोपसृष्टमिति स प्रययौ विशालाम् ॥१६॥ तस्यां विशुद्धकरणः शिववार्विगाह्यबद्ध्वाऽऽसनं जितमरुन्मनसाऽऽहृताक्षः । स्थूले दधार भगवत्प्रतिरूप एत- द्ध्यायंस्तदव्यवहितो व्यसृजत्समाधौ ॥१७॥ भक्तिं हरौ भगवति प्रवहन्नजस्र- मानन्दबाष्पकलया मुहुरर्द्यमानः। विक्लिद्यमानहृदयः पुलकाचिताङ्गो नात्मानमस्मरदसाविति मुक्तलिङ्गः ॥१८॥ स ददर्श विमानाग्र्यं नभसोऽवतरद्ध्रुवः। विभ्राजयद्दश दिशो राकापतिमिवोदितम् ॥१९॥ तत्रानु देवप्रवरौ चतुर्भुजौ श्यामौ किशोरावरुणाम्बुजेक्षणौ । स्थिताववष्टभ्य गदां सुवाससौ किरीटहाराङ्गदचारुकुण्डलौ ॥२०॥ विज्ञाय तावुत्तमगायकिङ्करा- वभ्युत्थितः साध्वसविस्मृतक्रमः । ननाम नामानि गृणन् मधुद्विषः पार्षत्प्रधानाविति संहताञ्जलिः ॥२१॥ तं कृष्णपादाभिनिविष्टचेतसं बद्धाञ्जलिं प्रश्रयनम्रकन्धरम् । सुनन्दनन्दावुपसृत्य सस्मितं प्रत्यूचतुः पुष्करनाभसम्मतौ ॥२२॥ सुनन्दनन्दावूचतुः भो भो राजन् सुभद्रं ते वाचं नोऽवहितः शृणु। यः पञ्चवर्षस्तपसा भवान् देवमतीतृपत् ॥२३॥ तस्याखिलजगद्धातुरावां देवस्य शार्ङ्गिणः। पार्षदाविह सम्प्राप्तौ नेतुं त्वां भगवत्पदम् ॥२४॥ सुदुर्जयं विष्णुपदं जितं त्वया यत्सूरयोऽप्राप्य विचक्षते परम्। आतिष्ठ तच्चन्द्रदिवाकरादयो ग्रहर्क्षताराः परियन्ति दक्षिणम् ॥२५॥ अनास्थितं ते पितृभिरन्यैरप्यङ्ग कर्हिचित्। आतिष्ठ जगतां वन्द्यं तद्विष्णोः परमं पदम् ॥२६॥ एतद्विमानप्रवरमुत्तमश्लोकमौलिना। उपस्थापितमायुष्मन्नधिरोढुं त्वमर्हसि ॥२७॥ मैत्रेय उवाच निशम्य वैकुण्ठनियोज्यमुख्ययोर्मधुच्युतं वाचमुरुक्रमप्रियः। कृताभिषेकः कृतनित्यमङ्गलो मुनीन् प्रणम्याशिषमभ्यवादयत् ॥२८॥ परीत्याभ्यर्च्य धिष्ण्याग्र्यं पार्षदावभिवन्द्य च। इयेष तदधिष्ठातुं बिभ्रद्रूपं हिरण्मयम् ॥२९॥ तदोत्तानपदः पुत्रो ददर्शान्तकमागतम्। मृत्योर्मूर्ध्नि पदं दत्त्वा आरुरोहाद्भुतं गृहम् ॥३०॥ तदा दुन्दुभयो नेदुर्मृदङ्गपणवादयः। गन्धर्वमुख्याः प्रजगुः पेतुः कुसुमवृष्टयः ॥३१॥ स च स्वर्लोकमारोक्ष्यन् सुनीतिं जननीं ध्रुवः। अन्वस्मरदगं हित्वा दीनां यास्ये त्रिविष्टपम् ॥३२॥ इति व्यवसितं तस्य व्यवसाय सुरोत्तमौ। दर्शयामासतुर्देवीं पुरो यानेन गच्छतीम् ॥३३॥ तत्र तत्र प्रशंसद्भिः पथि वैमानिकैः सुरैः। अवकीर्यमाणो ददृशे कुसुमैः क्रमशो ग्रहान् ॥३४॥ त्रिलोकीं देवयानेन सोऽतिव्रज्य मुनीनपि। परस्ताद्यद्ध्रुवगतिर्विष्णोः पदमथाभ्यगात् ॥३५॥ यद्भ्राजमानं स्वरुचैव सर्वतो लोकास्त्रयो ह्यनुविभ्राजन्त एते। यन्नाव्रजन् जन्तुषु येऽननुग्रहा व्रजन्ति भद्राणि चरन्ति येऽनिशम् ॥३६॥ शान्ताः समदृशः शुद्धाः सर्वभूतानुरञ्जनाः। यान्त्यञ्जसाच्युतपदमच्युतप्रियबान्धवाः ॥३७॥ इत्युत्तानपदः पुत्रो ध्रुवः कृष्णपरायणः। अभूत्त्रयाणां लोकानां चूडामणिरिवामलः ॥३८॥ गम्भीरवेगोऽनिमिषं ज्योतिषां चक्रमाहितम्। यस्मिन् भ्रमति कौरव्य मेढ्यामिव गवां गणः ॥३९॥ महिमानं विलोक्यास्य नारदो भगवान् ऋषिः। आतोद्यं वितुदञ्श्लोकान् सत्रेऽगायत्प्रचेतसाम् ॥४०॥ नारद उवाच नूनं सुनीतेः पतिदेवताया- स्तपःप्रभावस्य सुतस्य तां गतिम्। दृष्ट्वाभ्युपायानपि वेदवादिनो नैवाधिगन्तुं प्रभवन्ति किं नृपाः ॥४१॥ यः पञ्चवर्षो गुरुदारवाक्शरैर्भिन्नेन यातो हृदयेन दूयता। वनं मदादेशकरोऽजितं प्रभुं जिगाय तद्भक्तगुणैः पराजितम् ॥४२॥ यः क्षत्रबन्धुर्भुवि तस्याधिरूढ- मन्वारुरुक्षेदपि वर्षपूगैः। षट्पञ्चवर्षो यदहोभिरल्पैः प्रसाद्य वैकुण्ठमवाप तत्पदम् ॥४३॥ मैत्रेय उवाच एतत्तेऽभिहितं सर्वं यत्पृष्टोऽहमिह त्वया। ध्रुवस्योद्दामयशसश्चरितं सम्मतं सताम् ॥४४॥ धन्यं यशस्यमायुष्यं पुण्यं स्वस्त्ययनं महत्। स्वर्ग्यं ध्रौव्यं सौमनस्यं प्रशस्यमघमर्षणम् ॥४५॥ श्रुत्वैतच्छ्रद्धयाभीक्ष्णमच्युतप्रियचेष्टितम्। भवेद्भक्तिर्भगवति यया स्यात्क्लेशसङ्क्षयः ॥४६॥ महत्त्वमिच्छतां तीर्थं श्रोतुः शीलादयो गुणाः। यत्र तेजस्तदिच्छूनां मानो यत्र मनस्विनाम् ॥४७॥ प्रयतः कीर्तयेत्प्रातः समवाये द्विजन्मनाम्। सायं च पुण्यश्लोकस्य ध्रुवस्य चरितं महत् ॥४८॥ पौर्णमास्यां सिनीवाल्यां द्वादश्यां श्रवणेऽथवा। दिनक्षये व्यतीपाते सङ्क्रमेऽर्कदिनेऽपि वा ॥४९॥ श्रावयेच्छ्रद्दधानानां तीर्थपादपदाश्रयः। नेच्छंस्तत्रात्मनाऽऽत्मानं सन्तुष्ट इति सिध्यति ॥५०॥ ज्ञानमज्ञाततत्त्वाय यो दद्यात्सत्पथेऽमृतम्। कृपालोर्दीननाथस्य देवास्तस्यानुगृह्णते ॥५१॥ इदं मया तेऽभिहितं कुरूद्वह ध्रुवस्य विख्यातविशुद्धकर्मणः। हित्वार्भकः क्रीडनकानि मातुर्गृहं च विष्णुं शरणं यो जगाम ॥५२॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे ध्रुवचरितं नाम द्वादशोऽध्यायः ॥१२॥

॥ त्रयोदशोऽध्यायः - १३ ॥

सूत उवाच निशम्य कौषारविणोपवर्णितं ध्रुवस्य वैकुण्ठपदाधिरोहणम्। प्ररूढभावो भगवत्यधोक्षजे प्रष्टुं पुनस्तं विदुरः प्रचक्रमे ॥१॥ विदुर उवाच के ते प्रचेतसो नाम कस्यापत्यानि सुव्रत। कस्यान्ववाये प्रख्याताः कुत्र वा सत्रमासत ॥२॥ मन्ये महाभागवतं नारदं देवदर्शनम्। येन प्रोक्तः क्रियायोगः परिचर्याविधिर्हरेः ॥३॥ स्वधर्मशीलैः पुरुषैर्भगवान् यज्ञपूरुषः। इज्यमानो भक्तिमता नारदेनेरितः किल ॥४॥ यास्ता देवर्षिणा तत्र वर्णिता भगवत्कथाः। मह्यं शुश्रूषवे ब्रह्मन् कार्त्स्न्येनाचष्टुमर्हसि ॥५॥ मैत्रेय उवाच ध्रुवस्य चोत्कलः पुत्रः पितरि प्रस्थिते वनम्। सार्वभौमश्रियं नैच्छदधिराजासनं पितुः ॥६॥ स जन्मनोपशान्तात्मा निःसङ्गः समदर्शनः। ददर्श लोके विततमात्मानं लोकमात्मनि ॥७॥ आत्मानं ब्रह्मनिर्वाणं प्रत्यस्तमितविग्रहम्। अवबोधरसैकात्म्यमानन्दमनुसन्ततम् ॥८॥ अव्यवच्छिन्नयोगाग्निदग्धकर्ममलाशयः। स्वरूपमवरुन्धानो नात्मनोऽन्यं तदैक्षत ॥९॥ जडान्धबधिरोन्मत्तमूकाकृतिरतन्मतिः। लक्षितः पथि बालानां प्रशान्तार्चिरिवानलः ॥१०॥ मत्वा तं जडमुन्मत्तं कुलवृद्धाः समन्त्रिणः। वत्सरं भूपतिं चक्रुर्यवीयांसं भ्रमेः सुतम् ॥११॥ स्वर्वीथिर्वत्सरस्येष्टा भार्यासूत षडात्मजान्। पुष्पार्णं तिग्मकेतुं च इषमूर्जं वसुं जयम् ॥१२॥ पुष्पार्णस्य प्रभा भार्या दोषा च द्वे बभूवतुः। प्रातर्मध्यन्दिनं सायमिति ह्यासन् प्रभासुताः ॥१३॥ प्रदोषो निशिथो व्युष्ट इति दोषा सुतास्त्रयः। व्युष्टः सुतं पुष्करिण्यां सर्वतेजसमादधे ॥१४॥ स चक्षुः सुतमाकूत्यां पत्न्यां मनुमवाप ह। मनोरसूत महिषी विरजान् नड्वला सुतान् ॥१५॥ पुरुं कुत्सं त्रितं द्युम्नं सत्यवन्तमृतं व्रतम्। अग्निष्टोममतीरात्रं प्रद्युम्नं शिबिमुल्मुकम् ॥१६॥ उल्मुकोऽजनयत्पुत्रान् पुष्करिण्यां षडुत्तमान्। अङ्गं सुमनसं ख्यातिं क्रतुमङ्गिरसं गयम् ॥१७॥ सुनीथाङ्गस्य या पत्नी सुषुवे वेनमुल्बणम्। यद्दौःशील्यात्स राजर्षिर्निर्विण्णो निरगात्पुरात्॥१८॥ यमङ्ग शेपुः कुपिता वाग्वज्रा मुनयः किल। गतासोस्तस्य भूयस्ते ममन्थुर्दक्षिणं करम् ॥१९॥ अराजके तदा लोके दस्युभिः पीडिताः प्रजाः। जातो नारायणांशेन पृथुराद्यः क्षितीश्वरः ॥२०॥ विदुर उवाच तस्य शीलनिधेः साधोर्ब्रह्मण्यस्य महात्मनः। राज्ञः कथमभूद्दुष्टा प्रजा यद्विमना ययौ ॥२१॥ किं वांहो वेन उद्दिश्य ब्रह्मदण्डमयूयुजन्। दण्डव्रतधरे राज्ञि मुनयो धर्मकोविदाः ॥२२॥ नावध्येयः प्रजापालः प्रजाभिरघवानपि। यदसौ लोकपालानां बिभर्त्योजः स्वतेजसा ॥२३॥ एतदाख्याहि मे ब्रह्मन् सुनीथात्मजचेष्टितम्। श्रद्दधानाय भक्ताय त्वं परावरवित्तमः ॥२४॥ मैत्रेय उवाच अङ्गोऽश्वमेधं राजर्षिराजहार महाक्रतुम्। नाजग्मुर्देवतास्तस्मिन्नाहूता ब्रह्मवादिभिः ॥२५॥ तमूचुर्विस्मितास्तत्र यजमानमथर्त्विजः। हवींषि हूयमानानि न ते गृह्णन्ति देवताः ॥२६॥ राजन् हवींष्यदुष्टानि श्रद्धयासादितानि ते। छन्दांस्ययातयामानि योजितानि धृतव्रतैः ॥२७॥ न विदामेह देवानां हेलनं वयमण्वपि। यन्न गृह्णन्ति भागान् स्वान् ये देवाः कर्मसाक्षिणः ॥२८॥ मैत्रेय उवाच अङ्गो द्विजवचः श्रुत्वा यजमानः सुदुर्मनाः। तत्प्रष्टुं व्यसृजद्वाचं सदस्यांस्तदनुज्ञया ॥२९॥ नागच्छन्त्याहुता देवा न गृह्णन्ति ग्रहानिह। सदसस्पतयो ब्रूत किमवद्यं मया कृतम् ॥३०॥ सदसस्पतय ऊचुः नरदेवेह भवतो नाघं तावन्मनाक्स्थितम्। अस्त्येकं प्राक्तनमघं यदिहेदृक्त्वमप्रजः ॥३१॥ तथा साधय भद्रं ते आत्मानं सुप्रजं नृप। इष्टस्ते पुत्रकामस्य पुत्रं दास्यति यज्ञभुक् ॥३२॥ तथा स्वभागधेयानि ग्रहीष्यन्ति दिवौकसः। यद्यज्ञपुरुषः साक्षादपत्याय हरिर्वृतः ॥३३॥ तांस्तान् कामान् हरिर्दद्याद्यान् यान् कामयते जनः। आराधितो यथैवैष तथा पुंसां फलोदयः ॥३४॥ इति व्यवसिता विप्रास्तस्य राज्ञः प्रजातये। पुरोडाशं निरवपन् शिपिविष्टाय विष्णवे ॥३५॥ तस्मात्पुरुष उत्तस्थौ हेममाल्यमलाम्बरः। हिरण्मयेन पात्रेण सिद्धमादाय पायसम् ॥३६॥ स विप्रानुमतो राजा गृहीत्वाञ्जलिनौदनम्। अवघ्राय मुदा युक्तः प्रादात्पत्न्या उदारधीः ॥३७॥ सा तत्पुंसवनं राज्ञी प्राश्य वै पत्युरादधे। गर्भं काल उपावृत्ते कुमारं सुषुवेऽप्रजा ॥३८॥ स बाल एव पुरुषो मातामहमनुव्रतः। अधर्मांशोद्भवं मृत्युं तेनाभवदधार्मिकः ॥३९॥ स शरासनमुद्यम्य मृगयुर्वनगोचरः। हन्त्यसाधुर्मृगान् दीनान् वेनोऽसावित्यरौज्जनः ॥४०॥ आक्रीडे क्रीडतो बालान् वयस्यानतिदारुणः। प्रसह्य निरनुक्रोशः पशुमारममारयत् ॥४१॥ तं विचक्ष्य खलं पुत्रं शासनैर्विविधैर्नृपः। यदा न शासितुं कल्पो भृशमासीत्सुदुर्मनाः ॥४२॥ प्रायेणाभ्यर्चितो देवो येऽप्रजा गृहमेधिनः। कदपत्यभृतं दुःखं ये न विन्दन्ति दुर्भरम् ॥४३॥ यतः पापीयसी कीर्तिरधर्मश्च महान् नृणाम्। यतो विरोधः सर्वेषां यत आधिरनन्तकः ॥४४॥ कस्तं प्रजापदेशं वै मोहबन्धनमात्मनः। पण्डितो बहु मन्येत यदर्थाः क्लेशदा गृहाः ॥४५॥ कदपत्यं वरं मन्ये सदपत्याच्छुचां पदात्। निर्विद्येत गृहान्मर्त्यो यत्क्लेशनिवहा गृहाः ॥४६॥ एवं स निर्विण्णमना नृपो गृहान् निशीथ उत्थाय महोदयोदयात्। अलब्धनिद्रोऽनुपलक्षितो नृभिर्हित्वा गतो वेनसुवं प्रसुप्ताम् ॥४७॥ विज्ञाय निर्विद्य गतं पतिं प्रजाः पुरोहितामात्यसुहृद्गणादयः। विचिक्युरुर्व्यामतिशोककातरा यथा निगूढं पुरुषं कुयोगिनः ॥४८॥ अलक्षयन्तः पदवीं प्रजापतेः हतोद्यमाः प्रत्युपसृत्य ते पुरीम्। ऋषीन् समेतानभिवन्द्य साश्रवो न्यवेदयन् पौरव भर्तृविप्लवम् ॥४९॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे त्रयोदशोऽध्यायः ॥१३॥

॥ चतुर्दशोऽध्यायः - १४ ॥

मैत्रेय उवाच भृग्वादयस्ते मुनयो लोकानां क्षेमदर्शिनः। गोप्तर्यसति वै नॄणां पश्यन्तः पशुसाम्यताम् ॥१॥ वीरमातरमाहूय सुनीथां ब्रह्मवादिनः। प्रकृत्यसम्मतं वेनमभ्यषिञ्चन् पतिं भुवः ॥२॥ श्रुत्वा नृपासनगतं वेनमत्युग्रशासनम्। निलिल्युर्दस्यवः सद्यः सर्पत्रस्ता इवाखवः ॥३॥ स आरूढनृपस्थान उन्नद्धोऽष्टविभूतिभिः। अवमेने महाभागान् स्तब्धः सम्भावितः स्वतः ॥४॥ एवं मदान्ध उत्सिक्तो निरङ्कुश इव द्विपः। पर्यटन् रथमास्थाय कम्पयन्निव रोदसी ॥५॥ न यष्टव्यं न दातव्यं न होतव्यं द्विजाः क्वचित्। इति न्यवारयद्धर्मं भेरीघोषेण सर्वशः ॥६॥ वेनस्यावेक्ष्य मुनयो दुर्वृत्तस्य विचेष्टितम्। विमृश्य लोकव्यसनं कृपयोचुः स्म सत्रिणः ॥७॥ अहो उभयतः प्राप्तं लोकस्य व्यसनं महत्। दारुण्युभयतो दीप्ते इव तस्करपालयोः ॥८॥ अराजकभयादेष कृतो राजातदर्हणः। ततोऽप्यासीद्भयं त्वद्य कथं स्यात्स्वस्ति देहिनाम् ॥९॥ अहेरिव पयः पोषः पोषकस्याप्यनर्थभृत्। वेनः प्रकृत्यैव खलः सुनीथागर्भसम्भवः ॥१०॥ निरूपितः प्रजापालः स जिघांसति वै प्रजाः। तथापि सान्त्वयेमामुं नास्मांस्तत्पातकं स्पृशेत्॥११॥ तद्विद्वद्भिरसद्वृत्तो वेनोऽस्माभिः कृतो नृपः। सान्त्वितो यदि नो वाचं न ग्रहीष्यत्यधर्मकृत् ॥१२॥ लोकधिक्कारसन्दग्धं दहिष्यामः स्वतेजसा। एवमध्यवसायैनं मुनयो गूढमन्यवः। उपव्रज्याब्रुवन् वेनं सान्त्वयित्वा च सामभिः ॥१३॥ मुनय ऊचुः नृपवर्य निबोधैतद्यत्ते विज्ञापयाम भोः। आयुःश्रीबलकीर्तीनां तव तात विवर्धनम् ॥१४॥ धर्म आचरितः पुंसां वाङ्मनःकायबुद्धिभिः। लोकान् विशोकान् वितरत्यथानन्त्यमसङ्गिनाम् ॥१५॥ स ते मा विनशेद्वीर प्रजानां क्षेमलक्षणः। यस्मिन् विनष्टे नृपतिरैश्वर्यादवरोहति ॥१६॥ राजन्नसाध्वमात्येभ्यश्चोरादिभ्यः प्रजा नृपः। रक्षन् यथा बलिं गृह्णन्निह प्रेत्य च मोदते ॥१७॥ यस्य राष्ट्रे पुरे चैव भगवान् यज्ञपूरुषः। इज्यते स्वेन धर्मेण जनैर्वर्णाश्रमान्वितैः ॥१८॥ तस्य राज्ञो महाभाग भगवान् भूतभावनः। परितुष्यति विश्वात्मा तिष्ठतो निजशासने ॥१९॥ तस्मिंस्तुष्टे किमप्राप्यं जगतामीश्वरेश्वरे। लोकाः सपाला ह्येतस्मै हरन्ति बलिमादृताः ॥२०॥ तं सर्वलोकामरयज्ञसङ्ग्रहं त्रयीमयं द्रव्यमयं तपोमयम्। यज्ञैर्विचित्रैर्यजतो भवाय ते राजन् स्वदेशाननुरोद्धुमर्हसि ॥२१॥ यज्ञेन युष्मद्विषये द्विजातिभि- र्वितायमानेन सुराः कला हरेः। स्विष्टाः सुतुष्टाः प्रदिशन्ति वाञ्छितं तद्धेलनं नार्हसि वीर चेष्टितुम् ॥२२॥ वेन उवाच बालिशा बत यूयं वा अधर्मे धर्ममानिनः। ये वृत्तिदं पतिं हित्वा जारं पतिमुपासते ॥२३॥ अवजानन्त्यमी मूढा नृपरूपिणमीश्वरम्। नानुविन्दन्ति ते भद्रमिह लोके परत्र च ॥२४॥ को यज्ञपुरुषो नाम यत्र वो भक्तिरीदृशी। भर्तृस्नेहविदूराणां यथा जारे कुयोषिताम् ॥२५॥ विष्णुर्विरिञ्चो गिरिश इन्द्रो वायुर्यमो रविः। पर्जन्यो धनदः सोमः क्षितिरग्निरपाम्पतिः ॥२६॥ एते चान्ये च विबुधाः प्रभवो वरशापयोः। देहे भवन्ति नृपतेः सर्वदेवमयो नृपः ॥२७॥ तस्मान्मां कर्मभिर्विप्रा यजध्वं गतमत्सराः। बलिं च मह्यं हरत मत्तोऽन्यः कोऽग्रभुक् पुमान् ॥२८॥ मैत्रेय उवाच इत्थं विपर्ययमतिः पापीयानुत्पथं गतः। अनुनीयमानस्तद्याच्ञां न चक्रे भ्रष्टमङ्गलः ॥२९॥ इति तेऽसत्कृतास्तेन द्विजाः पण्डितमानिना। भग्नायां भव्ययाच्ञायां तस्मै विदुर चुक्रुधुः ॥३०॥ हन्यतां हन्यतामेष पापः प्रकृतिदारुणः। जीवन् जगदसावाशु कुरुते भस्मसाद्ध्रुवम् ॥३१॥ नायमर्हत्यसद्वृत्तो नरदेववरासनम्। योऽधियज्ञपतिं विष्णुं विनिन्दत्यनपत्रपः ॥३२॥ को वैनं परिचक्षीत वेनमेकमृतेऽशुभम्। प्राप्त ईदृशमैश्वर्यं यदनुग्रहभाजनः ॥३३॥ इत्थं व्यवसिता हन्तुं ऋषयो रूढमन्यवः। निजघ्नुर्हुङ्कृतैर्वेनं हतमच्युतनिन्दया ॥३४॥ ऋषिभिः स्वाश्रमपदं गते पुत्रकलेवरम्। सुनीथा पालयामास विद्यायोगेन शोचती ॥३५॥ एकदा मुनयस्ते तु सरस्वत्सलिलाप्लुताः। हुत्वाग्नीन् सत्कथाश्चक्रुरुपविष्टाः सरित्तटे ॥३६॥ वीक्ष्योत्थितान्महोत्पातानाहुर्लोकभयङ्करान्। अप्यभद्रमनाथाया दस्युभ्यो न भवेद्भुवः ॥३७॥ एवं मृशन्त ऋषयो धावतां सर्वतोदिशम्। पांसुः समुत्थितो भूरिश्चोराणामभिलुम्पताम् ॥३८॥ तदुपद्रवमाज्ञाय लोकस्य वसु लुम्पताम्। भर्तर्युपरते तस्मिन्नन्योन्यं च जिघांसताम् ॥३९॥ चोरप्रायं जनपदं हीनसत्त्वमराजकम्। लोकान् नावारयञ्छक्ता अपि तद्दोषदर्शिनः ॥४०॥ ब्राह्मणः समदृक् शान्तो दीनानां समुपेक्षकः। स्रवते ब्रह्म तस्यापि भिन्नभाण्डात्पयो यथा ॥४१॥ नाङ्गस्य वंशो राजर्षेरेष संस्थातुमर्हति। अमोघवीर्या हि नृपा वंशेऽस्मिन् केशवाश्रयाः ॥४२॥ विनिश्चित्यैवमृषयो विपन्नस्य महीपतेः। ममन्थुरूरुं तरसा तत्रासीद्बाहुको नरः ॥४३॥ काककृष्णोऽतिह्रस्वाङ्गो ह्रस्वबाहुर्महाहनुः। ह्रस्वपान्निम्ननासाग्रो रक्ताक्षस्ताम्रमूर्धजः ॥४४॥ तं तु तेऽवनतं दीनं किं करोमीति वादिनम्। निषीदेत्यब्रुवंस्तात स निषादस्ततोऽभवत् ॥४५॥ तस्य वंश्यास्तु नैषादा गिरिकाननगोचराः। येनाहरज्जायमानो वेनकल्मषमुल्बणम् ॥४६॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे पृथुचरिते निषादोत्पत्तिर्नाम चतुर्दशोऽध्यायः ॥१४॥

॥ पञ्चदशोऽध्यायः - १५ ॥

मैत्रेय उवाच अथ तस्य पुनर्विप्रैरपुत्रस्य महीपतेः। बाहुभ्यां मथ्यमानाभ्यां मिथुनं समपद्यत ॥१॥ स गो ना सं गो गो तद्दृष्ट्वा मिथुनं जातं ऋषयो ब्रह्मवादिनः। ऊचुः परमसन्तुष्टा विदित्वा भगवत्कलाम् ॥२॥ ऋषय ऊचुः एष विष्णोर्भगवतः कला भुवनपालिनी। इयं च लक्ष्म्याः सम्भूतिः पुरुषस्यानपायिनी ॥३॥ अयं तु प्रथमो राज्ञां पुमान् प्रथयिता यशः। पृथुर्नाम महाराजो भविष्यति पृथुश्रवाः ॥४॥ इयं च सुदती देवी गुणभूषणभूषणा। अर्चिर्नाम वरारोहा पृथुमेवावरुन्धती ॥५॥ एष साक्षाद्धरेरंशो जातो लोकरिरक्षया। इयं च तत्परा हि श्रीरनुजज्ञेऽनपायिनी ॥६॥ मैत्रेय उवाच प्रशंसन्ति स्म तं विप्रा गन्धर्वप्रवरा जगुः। मुमुचुः सुमनोधाराः सिद्धा नृत्यन्ति स्वःस्त्रियः ॥७॥ शङ्खतूर्यमृदङ्गाद्या नेदुर्दुन्दुभयो दिवि। तत्र सर्व उपाजग्मुर्देवर्षिपितॄणां गणाः ॥८॥ ब्रह्मा जगद्गुरुर्देवैः सहासृत्य सुरेश्वरैः। वैन्यस्य दक्षिणे हस्ते दृष्ट्वा चिह्नं गदाभृतः ॥९॥ पादयोररविन्दं च तं वै मेने हरेः कलाम्। यस्याप्रतिहतं चक्रमंशः स परमेष्ठिनः ॥१०॥ तस्याभिषेक आरब्धो ब्राह्मणैर्ब्रह्मवादिभिः। आभिषेचनिकान्यस्मै आजह्रुः सर्वतो जनाः ॥११॥ सरित्समुद्रा गिरयो नागा गावः खगा मृगाः। द्यौः क्षितिः सर्वभूतानि समाजह्रुरुपायनम् ॥१२॥ सोऽभिषिक्तो महाराजः सुवासाः साध्वलङ्कृतः। पत्न्यार्चिषालङ्कृतया विरेजेऽग्निरिवापरः ॥१३॥ तस्मै जहार धनदो हैमं वीरवरासनम्। वरुणः सलिलस्रावमातपत्रं शशिप्रभम् ॥१४॥ वायुश्च वालव्यजने धर्मः कीर्तिमयीं स्रजम्। इन्द्रः किरीटमुत्कृष्टं दण्डं संयमनं यमः ॥१५॥ ब्रह्मा ब्रह्ममयं वर्म भारती हारमुत्तमम्। हरिः सुदर्शनं चक्रं तत्पत्न्यव्याहतां श्रियम् ॥१६॥ दशचन्द्रमसिं रुद्रः शतचन्द्रं तथाम्बिका। सोमोऽमृतमयानश्वांस्त्वष्टा रूपाश्रयं रथम् ॥१७॥ अग्निराजगवं चापं सूर्यो रश्मिमयानिषून्। भूः पादुके योगमय्यौ द्यौः पुष्पावलिमन्वहम् ॥१८॥ नाट्यं सुगीतं वादित्रमन्तर्धानं च खेचराः। ऋषयश्चाशिषः सत्याः समुद्रः शङ्खमात्मजम् ॥१९॥ सिन्धवः पर्वता नद्यो रथवीथीर्महात्मनः। सूतोऽथ मागधो वन्दी तं स्तोतुमुपतस्थिरे ॥२०॥ स्तावकांस्तानभिप्रेत्य पृथुर्वैन्यः प्रतापवान्। मेघनिर्ह्रादया वाचा प्रहसन्निदमब्रवीत् ॥२१॥ पृथुरुवाच भोः सूत हे मागध सौम्य वन्दिन् लोकेऽधुनास्पष्टगुणस्य मे स्यात्। किमाश्रयो मे स्तव एष योज्यतां मा मय्यभूवन् वितथा गिरो वः ॥२२॥ तस्मात्परोक्षेऽस्मदुपश्रुतान्यलं करिष्यथ स्तोत्रमपीच्यवाचः। सत्युत्तमश्लोकगुणानुवादे जुगुप्सितं न स्तवयन्ति सभ्याः ॥२३॥ महद्गुणानात्मनि कर्तुमीशः कः स्तावकैः स्तावयतेऽसतोऽपि। तेऽस्याभविष्यन्निति विप्रलब्धो जनावहासं कुमतिर्न वेद ॥२४॥ प्रभवो ह्यात्मनः स्तोत्रं जुगुप्सन्त्यपि विश्रुताः। ह्रीमन्तः परमोदाराः पौरुषं वा विगर्हितम् ॥२५॥ वयं त्वविदिता लोके सूताद्यापि वरीमभिः। कर्मभिः कथमात्मानं गापयिष्याम बालवत् ॥२६॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे पृथुचरिते पञ्चदशोऽध्यायः ॥१५॥

॥ षोडशोऽध्यायः - १६ ॥

मैत्रेय उवाच इति ब्रुवाणं नृपतिं गायका मुनिचोदिताः। तुष्टुवुस्तुष्टमनसस्तद्वागमृतसेवया ॥१॥ नालं वयं ते महिमानुवर्णने यो देववर्योऽवततार मायया। वेनाङ्गजातस्य च पौरुषाणि ते वाचस्पतीनामपि बभ्रमुर्धियः ॥२॥ अथाप्युदारश्रवसः पृथोर्हरेः कलावतारस्य कथामृतादृताः। यथोपदेशं मुनिभिः प्रचोदिताः श्लाघ्यानि कर्माणि वयं वितन्महि ॥३॥ एष धर्मभृतां श्रेष्ठो लोकं धर्मेऽनुवर्तयन्। गोप्ता च धर्मसेतूनां शास्ता तत्परिपन्थिनाम् ॥४॥ एष वै लोकपालानां बिभर्त्येकस्तनौ तनूः। काले काले यथा भागं लोकयोरुभयोर्हितम् ॥५॥ वसु काल उपादत्ते काले चायं विमुञ्चति। समः सर्वेषु भूतेषु प्रतपन् सूर्यवद्विभुः ॥६॥ तितिक्षत्यक्रमं वैन्य उपर्याक्रमतामपि। भूतानां करुणः शश्वदार्तानां क्षितिवृत्तिमान् ॥७॥ देवेऽवर्षत्यसौ देवो नरदेववपुर्हरिः। कृच्छ्रप्राणाः प्रजा ह्येष रक्षिष्यत्यञ्जसेन्द्रवत् ॥८॥ आप्याययत्यसौ लोकं वदनामृतमूर्तिना। सानुरागावलोकेन विशदस्मितचारुणा ॥९॥ अव्यक्तवर्त्मैष निगूढकार्यो गम्भीरवेधा उपगुप्तवित्तः। अनन्तमाहात्म्यगुणैकधामा पृथुः प्रचेता इव संवृतात्मा ॥१०॥ दुरासदो दुर्विषह आसन्नोऽपि विदूरवत्। नैवाभिभवितुं शक्यो वेनारण्युत्थितोऽनलः ॥११॥ अन्तर्बहिश्च भूतानां पश्यन् कर्माणि चारणैः। उदासीन इवाध्यक्षो वायुरात्मेव देहिनाम् ॥१२॥ नादण्ड्यं दण्डयत्येष सुतमात्मद्विषामपि। दण्डयत्यात्मजमपि दण्ड्यं धर्मपथे स्थितः ॥१३॥ अस्याप्रतिहतं चक्रं पृथोरामानसाचलात्। वर्तते भगवानर्को यावत्तपति गोगणैः ॥१४॥ रञ्जयिष्यति यल्लोकमयमात्मविचेष्टितैः। अथामुमाहू राजानं मनोरञ्जनकैः प्रजाः ॥१५॥ दृढव्रतः सत्यसन्धो ब्रह्मण्यो वृद्धसेवकः। शरण्यः सर्वभूतानां मानदो दीनवत्सलः ॥१६॥ मातृभक्तिः परस्त्रीषु पत्न्यामर्ध इवात्मनः। प्रजासु पितृवत्स्निग्धः किङ्करो ब्रह्मवादिनाम् ॥१७॥ देहिनामात्मवत्प्रेष्ठः सुहृदां नन्दिवर्धनः। मुक्तसङ्गप्रसङ्गोऽयं दण्डपाणिरसाधुषु ॥१८॥ अयं तु साक्षाद्भगवांस्त्र्यधीशः कूटस्थ आत्मा कलयावतीर्णः। यस्मिन्नविद्यारचितं निरर्थकं पश्यन्ति नानात्वमपि प्रतीतम् ॥१९॥ अयं भुवो मण्डलमोदयाद्रे- र्गोप्तैकवीरो नरदेवनाथः। आस्थाय जैत्रं रथमात्तचापः पर्यस्यते दक्षिणतो यथार्कः ॥२०॥ अस्मै नृपालाः किल तत्र तत्र बलिं हरिष्यन्ति सलोकपालाः। मंस्यन्त एषां स्त्रिय आदिराजं चक्रायुधं तद्यश उद्धरन्त्यः ॥२१॥ अयं महीं गां दुदुहेऽधिराजः प्रजापतिर्वृत्तिकरः प्रजानाम्। यो लीलयाद्रीन् स्वशरासकोट्या भिन्दन् समां गामकरोद्यथेन्द्रः ॥२२॥ विस्फूर्जयन्नाजगवं धनुः स्वयं यदाचरत्क्ष्मामविषह्यमाजौ। तदा निलिल्युर्दिशि दिश्यसन्तो लाङ्गूलमुद्यम्य यथा मृगेन्द्रः ॥२३॥ एषोऽश्वमेधाञ्शतमाजहार सरस्वती प्रादुरभावि यत्र। अहार्षीद्यस्य हयं पुरन्दरः शतक्रतुश्चरमे वर्तमाने ॥२४॥ एष स्वसद्मोपवने समेत्य सनत्कुमारं भगवन्तमेकम्। आराध्य भक्त्यालभतामलं तत्ज्ञानं यतो ब्रह्म परं विदन्ति ॥२५॥ तत्र तत्र गिरस्तास्ता इति विश्रुतविक्रमः। श्रोष्यत्यात्माश्रिता गाथाः पृथुः पृथुपराक्रमः ॥२६॥ दिशो विजित्याप्रतिरुद्धचक्रः स्वतेजसोत्पाटितलोकशल्यः। सुरासुरेन्द्रैरुपगीयमान- महानुभावो भविता पतिर्भुवः ॥२७॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे षोडशोऽध्यायः ॥१६॥

॥ सप्तदशोऽध्यायः - १७ ॥

मैत्रेय उवाच एवं स भगवान् वैन्यः ख्यापितो गुणकर्मभिः। छन्दयामास तान् कामैः प्रतिपूज्याभिनन्द्य च ॥१॥ ब्राह्मणप्रमुखान् वर्णान् भृत्यामात्यपुरोधसः। पौरान् जानपदान् श्रेणीः प्रकृतीः समपूजयत् ॥२॥ विदुर उवाच कस्माद्दधार गोरूपं धरित्री बहुरूपिणी। यां दुदोह पृथुस्तत्र को वत्सो दोहनं च किम् ॥३॥ प्रकृत्या विषमा देवी कृता तेन समा कथम्। तस्य मेध्यं हयं देवः कस्य हेतोरपाहरत् ॥४॥ सनत्कुमाराद्भगवतो ब्रह्मन् ब्रह्मविदुत्तमात्। लब्ध्वा ज्ञानं सविज्ञानं राजर्षिः कां गतिं गतः॥५॥ यच्चान्यदपि कृष्णस्य भवान् भगवतः प्रभोः। श्रवः सुश्रवसः पुण्यं पूर्वदेहकथाश्रयम् ॥६॥ भक्ताय मेऽनुरक्ताय तव चाधोक्षजस्य च। वक्तुमर्हसि योऽदुह्यद्वैन्यरूपेण गामिमाम् ॥७॥ सूत उवाच चोदितो विदुरेणैवं वासुदेवकथां प्रति। प्रशस्य तं प्रीतमना मैत्रेयः प्रत्यभाषत ॥८॥ मैत्रेय उवाच यदाभिषिक्तः पृथुरङ्ग विप्रै- रामन्त्रितो जनतायाश्च पालः। प्रजा निरन्ने क्षितिपृष्ठ एत्य क्षुत्क्षामदेहाः पतिमभ्यवोचन् ॥९॥ वयं राजञ्जाठरेणाभितप्ता यथाग्निना कोटरस्थेन वृक्षाः। त्वामद्य याताः शरणं शरण्यं यः साधितो वृत्तिकरः पतिर्नः ॥१०॥ तन्नो भवानीहतु रातवेऽन्नं क्षुधार्दितानां नरदेवदेव। यावन्न नङ्क्ष्यामह उज्झितोर्जा वार्तापतिस्त्वं किल लोकपालः ॥११॥ मैत्रेय उवाच पृथुः प्रजानां करुणं निशम्य परिदेवितम्। दीर्घं दध्यौ कुरुश्रेष्ठ निमित्तं सोऽन्वपद्यत ॥१२॥ इति व्यवसितो बुद्ध्या प्रगृहीतशरासनः। सन्दधे विशिखं भूमेः क्रुद्धस्त्रिपुरहा यथा ॥१३॥ प्रवेपमाना धरणी निशाम्योदायुधं च तम्। गौः सत्यपाद्रवद्भीता मृगीव मृगयुद्रुता ॥१४॥ तामन्वधावत्तद्वैन्यः कुपितोऽत्यरुणेक्षणः। शरं धनुषि सन्धाय यत्र यत्र पलायते ॥१५॥ सा दिशो विदिशो देवी रोदसी चान्तरं तयोः। धावन्ती तत्र तत्रैनं ददर्शानूद्यतायुधम् ॥१६॥ लोके नाविन्दत त्राणं वैन्यान्मृत्योरिव प्रजाः। त्रस्ता तदा निववृते हृदयेन विदूयता ॥१७॥ उवाच च महाभागं धर्मज्ञाऽऽपन्नवत्सल। त्राहि मामपि भूतानां पालनेऽवस्थितो भवान् ॥१८॥ स त्वं जिघांससे कस्माद्दीनामकृतकिल्बिषाम्। अहनिष्यत्कथं योषां धर्मज्ञ इति यो मतः ॥१९॥ प्रहरन्ति न वै स्त्रीषु कृतागःस्वपि जन्तवः। किमुत त्वद्विधा राजन् करुणा दीनवत्सलाः ॥२०॥ मां विपाट्याजरां नावं यत्र विश्वं प्रतिष्ठितम्। आत्मानं च प्रजाश्चेमाः कथमम्भसि धास्यसि ॥२१॥ पृथुरुवाच वसुधे त्वां वधिष्यामि मच्छासनपराङ्मुखीम्। भागं बर्हिषि या वृङ्क्ते न तनोति च नो वसु ॥२२॥ यवसं जग्ध्यनुदिनं नैव दोग्ध्यौधसं पयः। तस्यामेवं हि दुष्टायां दण्डो नात्र न शस्यते ॥२३॥ त्वं खल्वोषधिबीजानि प्राक्सृष्टानि स्वयम्भुवा। न मुञ्चस्यात्मरुद्धानि मामवज्ञाय मन्दधीः ॥२४॥ अमूषां क्षुत्परीतानामार्तानां परिदेवितम्। शमयिष्यामि मद्बाणैर्भिन्नायास्तव मेदसा ॥२५॥ पुमान् योषिदुत क्लीब आत्मसम्भावनोऽधमः। भूतेषु निरनुक्रोशो नृपाणां तद्वधोऽवधः ॥२६॥ त्वां स्तब्धां दुर्मदां नीत्वा मायागां तिलशः शरैः। आत्मयोगबलेनेमा धारयिष्याम्यहं प्रजाः ॥२७॥ एवं मन्युमयीं मूर्तिं कृतान्तमिव बिभ्रतम्। प्रणता प्राञ्जलिः प्राह मही सञ्जातवेपथुः ॥२८॥ धरोवाच नमः परस्मै पुरुषाय मायया विन्यस्तनानातनवे गुणात्मने। नमः स्वरूपानुभवेन निर्धुत- द्रव्यक्रियाकारकविभ्रमोर्मये ॥२९॥ येनाहमात्माऽऽयतनं विनिर्मिता धात्रा यतोऽयं गुणसर्गसङ्ग्रहः। स एव मां हन्तुमुदायुधः स्वरा- डुपस्थितोऽन्यं शरणं कमाश्रये ॥३०॥ य एतदादावसृजच्चराचरं स्वमाययाऽऽत्माश्रययावितर्क्यया। तयैव सोऽयं किल गोप्तुमुद्यतः कथं नु मां धर्मपरो जिघांसति ॥३१॥ नूनं बतेशस्य समीहितं जनै- स्तन्मायया दुर्जययाकृतात्मभिः। न लक्ष्यते यस्त्वकरोदकारय- द्योऽनेक एकः परतश्च ईश्वरः ॥३२॥ सर्गादि योऽस्यानुरुणद्धि शक्तिभि- र्द्रव्यक्रियाकारकचेतनात्मभिः। तस्मै समुन्नद्धनिरुद्धशक्तये नमः परस्मै पुरुषाय वेधसे ॥३३॥ स वै भवानात्मविनिर्मितं जग- द्भूतेन्द्रियान्तःकरणात्मकं विभो। संस्थापयिष्यन्नज मां रसातला- दभ्युज्जहाराम्भस आदिसूकरः ॥३४॥ अपामुपस्थे मयि नाव्यवस्थिताः प्रजा भवानद्य रिरक्षिषुः किल। स वीरमूर्तिः समभूद्धराधरो यो मां पयस्युग्रशरो जिघांससि ॥३५॥ नूनं जनैरीहितमीश्वराणा- मस्मद्विधैस्तद्गुणसर्गमायया। न ज्ञायते मोहितचित्तवर्त्मभिस्तेभ्यो नमो वीरयशस्करेभ्यः ॥३६॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे धरित्रीनिग्रहो नाम सप्तदशोऽध्यायः ॥१७॥

॥ अष्टादशोऽध्यायः - १८ ॥

मैत्रेय उवाच इत्थं पृथुमभिष्टूय रुषा प्रस्फुरिताधरम्। पुनराहावनिर्भीता संस्तभ्यात्मानमात्मना ॥१॥ सन्नियच्छाभिभो मन्युं निबोध श्रावितं च मे। सर्वतः सारमादत्ते यथा मधुकरो बुधः ॥२॥ अस्मिन् लोकेऽथवामुष्मिन् मुनिभिस्तत्त्वदर्शिभिः। दृष्टा योगाः प्रयुक्ताश्च पुंसां श्रेयःप्रसिद्धये ॥३॥ तानातिष्ठति यः सम्यगुपायान् पूर्वदर्शितान्। अवरः श्रद्धयोपेत उपेयान् विन्दतेऽञ्जसा ॥४॥ ताननादृत्य योऽविद्वानर्थानारभते स्वयम्। तस्य व्यभिचरन्त्यर्था आरब्धाश्च पुनः पुनः ॥५॥ पुरा सृष्टा ह्योषधयो ब्रह्मणा या विशाम्पते। भुज्यमाना मया दृष्टा असद्भिरधृतव्रतैः ॥६॥ अपालितानादृता च भवद्भिर्लोकपालकैः। चोरीभूतेऽथ लोकेऽहं यज्ञार्थेऽग्रसमोषधीः ॥७॥ नूनं ता वीरुधः क्षीणा मयि कालेन भूयसा। तत्र योगेन दृष्टेन भवानादातुमर्हति ॥८॥ वत्सं कल्पय मे वीर येनाहं वत्सला तव। धोक्ष्ये क्षीरमयान् कामाननुरूपं च दोहनम् ॥९॥ दोग्धारं च महाबाहो भूतानां भूतभावन। अन्नमीप्सितमूर्जस्वद्भगवान् वाञ्छते यदि ॥१०॥ समां च कुरु मां राजन् देववृष्टं यथा पयः। अपर्तावपि भद्रं ते उपावर्तेत मे विभो ॥११॥ इति प्रियं हितं वाक्यं भुव आदाय भूपतिः। वत्सं कृत्वा मनुं पाणावदुहत्सकलौषधीः ॥१२॥ तथापरे च सर्वत्र सारमाददते बुधाः। ततोऽन्ये च यथाकामं दुदुहुः पृथुभाविताम् ॥१३॥ ऋषयो दुदुहुर्देवीमिन्द्रियेष्वथ सत्तम। वत्सं बृहस्पतिं कृत्वा पयश्छन्दोमयं शुचि ॥१४॥ कृत्वा वत्सं सुरगणा इन्द्रं सोममदूदुहन्। हिरण्मयेन पात्रेण वीर्यमोजो बलं पयः ॥१५॥ दैतेया दानवा वत्सं प्रह्लादमसुरर्षभम्। विधायादूदुहन् क्षीरमयःपात्रे सुरासवम् ॥१६॥ गन्धर्वाप्सरसोऽधुक्षन् पात्रे पद्ममये पयः। वत्सं विश्वावसुं कृत्वा गान्धर्वं मधु सौभगम् ॥१७॥ वत्सेन पितरोऽर्यम्णा कव्यं क्षीरमधुक्षत। आमपात्रे महाभागाः श्रद्धया श्राद्धदेवताः ॥१८॥ प्रकल्प्य वत्सं कपिलं सिद्धाः सङ्कल्पनामयीम्। सिद्धिं नभसि विद्यां च ये च विद्याधरादयः ॥१९॥ अन्ये च मायिनो मायामन्तर्धानाद्भुतात्मनाम्। मयं प्रकल्प्य वत्सं ते दुदुहुर्धारणामयीम् ॥२०॥ यक्षरक्षांसि भूतानि पिशाचाः पिशिताशनाः। भूतेशवत्सा दुदुहुः कपाले क्षतजासवम् ॥२१॥ तथाहयो दन्दशूकाः सर्पा नागाश्च तक्षकम्। विधाय वत्सं दुदुहुर्बिलपात्रे विषं पयः ॥२२॥ पशवो यवसं क्षीरं वत्सं कृत्वा च गोवृषम्। अरण्यपात्रे चाधुक्षन् मृगेन्द्रेण च दंष्ट्रिणः ॥२३॥ क्रव्यादाः प्राणिनः क्रव्यं दुदुहुः स्वे कलेवरे। सुपर्णवत्सा विहगाश्चरं चाचरमेव च ॥२४॥ वटवत्सा वनस्पतयः पृथग्रसमयं पयः। गिरयो हिमवद्वत्सा नानाधातून् स्वसानुषु ॥२५॥ सर्वे स्वमुख्यवत्सेन स्वे स्वे पात्रे पृथक्पयः। सर्वकामदुघां पृथ्वीं दुदुहुः पृथुभाविताम् ॥२६॥ एवं पृथ्वादयः पृथ्वीमन्नादाः स्वन्नमात्मनः। दोहवत्सादि भेदेन क्षीरभेदं कुरूद्वह ॥२७॥ ततो महीपतिः प्रीतः सर्वकामदुघां पृथुः। दुहितृत्वे चकारेमां प्रेम्णा दुहितृवत्सलः ॥२८॥ चूर्णयन् स्वधनुष्कोट्या गिरिकूटानि राजराट्। भूमण्डलमिदं वैन्यः प्रायश्चक्रे समं विभुः ॥२९॥ अथास्मिन् भगवान् वैन्यः प्रजानां वृत्तिदः पिता। निवासान् कल्पयांचक्रे तत्र तत्र यथार्हतः ॥३०॥ ग्रामान् पुरः पत्तनानि दुर्गाणि विविधानि च। घोषान् व्रजान् सशिबिरानाकरान् खेटखर्वटान्॥३१॥ प्राक्पृथोरिह नैवैषा पुरग्रामादि कल्पना। यथासुखं वसन्ति स्म तत्र तत्राकुतोभयाः ॥३२॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे पृथुविजये अष्टादशोऽध्यायः ॥१८॥

॥ एकोनविंशोऽध्यायः - १९ ॥

मैत्रेय उवाच अथादीक्षत राजा तु हयमेधशतेन सः। ब्रह्मावर्ते मनोः क्षेत्रे यत्र प्राची सरस्वती ॥१॥ तदभिप्रेत्य भगवान् कर्मातिशयमात्मनः। शतक्रतुर्न ममृषे पृथोर्यज्ञमहोत्सवम् ॥२॥ यत्र यज्ञपतिः साक्षाद्भगवान् हरिरीश्वरः। अन्वभूयत सर्वात्मा सर्वलोकगुरुः प्रभुः ॥३॥ अन्वितो ब्रह्मशर्वाभ्यां लोकपालैः सहानुगैः। उपगीयमानो गन्धर्वैर्मुनिभिश्चाप्सरोगणैः ॥४॥ सिद्धा विद्याधरा दैत्या दानवा गुह्यकादयः। सुनन्दनन्दप्रमुखाः पार्षदप्रवरा हरेः ॥५॥ कपिलो नारदो दत्तो योगेशाः सनकादयः। तमन्वीयुर्भागवता ये च तत्सेवनोत्सुकाः ॥६॥ यत्र धर्मदुघा भूमिः सर्वकामदुघा सती। दोग्धि स्माभीप्सितानर्थान् यजमानस्य भारत॥७॥ ऊहुः सर्वरसान् नद्यः क्षीरदध्यन्नगोरसान्। तरवो भूरि वर्ष्माणः प्रासूयन्त मधुच्युतः ॥८॥ सिन्धवो रत्ननिकरान् गिरयोऽन्नं चतुर्विधम्। उपायनमुपाजह्रुः सर्वे लोकाः सपालकाः ॥९॥ इति चाधोक्षजेशस्य पृथोस्तु परमोदयम्। असूयन् भगवानिन्द्रः प्रतिघातमचीकरत् ॥१०॥ चरमेणाश्वमेधेन यजमाने यजुष्पतिम्। वैन्ये यज्ञपशुं स्पर्धन्नपोवाह तिरोहितः ॥११॥ तमत्रिर्भगवानैक्षत्त्वरमाणं विहायसा। आमुक्तमिव पाखण्डं योऽधर्मे धर्मविभ्रमः ॥१२॥ अत्रिणा चोदितो हन्तुं पृथुपुत्रो महारथः। अन्वधावत सङ्क्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत् ॥१३॥ तं तादृशाकृतिं वीक्ष्य मेने धर्मं शरीरिणम्। जटिलं भस्मनाऽऽच्छन्नं तस्मै बाणं न मुञ्चति ॥१४॥ वधान्निवृत्तं तं भूयो हन्तवेऽत्रिरचोदयत्। जहि यज्ञहनं तात महेन्द्रं विबुधाधमम् ॥१५॥ एवं वैन्यसुतः प्रोक्तस्त्वरमाणं विहायसा। अन्वद्रवदभिक्रुद्धो रावणं गृध्रराडिव ॥१६॥ सोऽश्वं रूपं च तद्धित्वा तस्मा अन्तर्हितः स्वराट्। वीरः स्वपशुमादाय पितुर्यज्ञमुपेयिवान् ॥१७॥ तत्तस्य चाद्भुतं कर्म विचक्ष्य परमर्षयः। नामधेयं ददुस्तस्मै विजिताश्व इति प्रभो ॥१८॥ उपसृज्य तमस्तीव्रं जहाराश्वं पुनर्हरिः। चषाल यूपतश्छन्नो हिरण्यरशनं विभुः ॥१९॥ अत्रिः सन्दर्शयामास त्वरमाणं विहायसा। कपालखट्वाङ्गधरं वीरो नैनमबाधत ॥२०॥ अत्रिणा चोदितस्तस्मै सन्दधे विशिखं रुषा। सोऽश्वं रूपं च तद्धित्वा तस्थावन्तर्हितः स्वराट्॥२१॥ वीरश्चाश्वमुपादाय पितृयज्ञमथाव्रजत्। तदवद्यं हरे रूपं जगृहुर्ज्ञानदुर्बलाः ॥२२॥ यानि रूपाणि जगृहे इन्द्रो हयजिहीर्षया। तानि पापस्य खण्डानि लिङ्गं खण्डमिहोच्यते ॥२३॥ एवमिन्द्रे हरत्यश्वं वैन्ययज्ञजिघांसया। तद्गृहीतविसृष्टेषु पाखण्डेषु मतिर्नृणाम् ॥२४॥ धर्म इत्युपधर्मेषु नग्नरक्तपटादिषु। प्रायेण सज्जते भ्रान्त्या पेशलेषु च वाग्मिषु ॥२५॥ तदभिज्ञाय भगवान् पृथुः पृथुपराक्रमः। इन्द्राय कुपितो बाणमादत्तोद्यतकार्मुकः ॥२६॥ तमृत्विजः शक्रवधाभिसन्धितं विचक्ष्य दुष्प्रेक्ष्यमसह्यरंहसम्। निवारयामासुरहो महामते न युज्यतेऽत्रान्यवधः प्रचोदितात् ॥२७॥ वयं मरुत्वन्तमिहार्थनाशनं ह्वयामहे त्वच्छ्रवसा हतत्विषम्। अयातयामोपहवैरनन्तरं प्रसह्य राजन् जुहवाम तेऽहितम् ॥२८॥ इत्यामन्त्र्य क्रतुपतिं विदुरास्यर्त्विजो रुषा। स्रुग्घस्तान् जुह्वतोऽभ्येत्य स्वयम्भूः प्रत्यषेधत॥२९॥ न वध्यो भवतामिन्द्रो यद्यज्ञो भगवत्तनुः। यं जिघांसथ यज्ञेन यस्येष्टास्तनवः सुराः ॥३०॥ तदिदं पश्यत महद्धर्मव्यतिकरं द्विजाः। इन्द्रेणानुष्ठितं राज्ञः कर्मैतद्विजिघांसता ॥३१॥ पृथुकीर्तेः पृथोर्भूयात्तर्ह्येकोनशतक्रतुः। अलं ते क्रतुभिः स्विष्टैर्यद्भवान् मोक्षधर्मवित् ॥३२॥ नैवात्मने महेन्द्राय रोषमाहर्तुमर्हसि। उभावपि हि भद्रं ते उत्तमश्लोकविग्रहौ ॥३३॥ मास्मिन् महाराज कृथाः स्म चिन्तां निशामयास्मद्वच आदृतात्मा। यद्ध्यायतो दैवहतं नु कर्तुं मनोऽतिरुष्टं विशते तमोऽन्धम् ॥३४॥ क्रतुर्विरमतामेष देवेषु दुरवग्रहः। धर्मव्यतिकरो यत्र पाखण्डैरिन्द्रनिर्मितैः ॥३५॥ एभिरिन्द्रोपसंसृष्टैः पाखण्डैर्हारिभिर्जनम्। ह्रियमाणं विचक्ष्वैनं यस्ते यज्ञध्रुगश्वमुट् ॥३६॥ भवान् परित्रातुमिहावतीर्णो धर्मं जनानां समयानुरूपम्। वेनापचारादवलुप्तमद्य तद्देहतो विष्णुकलासि वैन्य ॥३७॥ स त्वं विमृश्यास्य भवं प्रजापते सङ्कल्पनं विश्वसृजां पिपीपृहि। ऐन्द्रीं च मायामुपधर्ममातरं प्रचण्डपाखण्डपथं प्रभो जहि ॥३८॥ मैत्रेय उवाच इत्थं स लोकगुरुणा समादिष्टो विशाम्पतिः। तथा च कृत्वा वात्सल्यं मघोनापि च सन्दधे ॥३९॥ कृतावभृथस्नानाय पृथवे भूरिकर्मणे। वरान् ददुस्ते वरदा ये तद्बर्हिषि तर्पिताः ॥४०॥ विप्राः सत्याशिषस्तुष्टाः श्रद्धया लब्धदक्षिणाः। आशिषो युयुजुः क्षत्तरादिराजाय सत्कृताः ॥४१॥ त्वयाऽऽहूता महाबाहो सर्व एव समागताः। पूजिता दानमानाभ्यां पितृदेवर्षिमानवाः ॥४२॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे पृथुविजये एकोनविंशोऽध्यायः ॥१९॥

॥ विंशोऽध्यायः - २० ॥

मैत्रेय उवाच भगवानपि वैकुण्ठः साकं मघवता विभुः। यज्ञैर्यज्ञपतिस्तुष्टो यज्ञभुक् तमभाषत ॥१॥ श्रीभगवानुवाच एष तेऽकार्षीद्भङ्गं हयमेधशतस्य ह। क्षमापयत आत्मानममुष्य क्षन्तुमर्हसि ॥२॥ सुधियः साधवो लोके नरदेव नरोत्तमाः। नाभिद्रुह्यन्ति भूतेभ्यो यर्हि नात्मा कलेवरम् ॥३॥ पुरुषा यदि मुह्यन्ति त्वादृशा देवमायया। श्रम एव परं जातो दीर्घया वृद्धसेवया ॥४॥ अतः कायमिमं विद्वानविद्याकामकर्मभिः। आरब्ध इति नैवास्मिन् प्रतिबुद्धोऽनुषज्जते ॥५॥ असंसक्तः शरीरेऽस्मिन्नमुनोत्पादिते गृहे। अपत्ये द्रविणे वापि कः कुर्यान्ममतां बुधः ॥६॥ एकः शुद्धः स्वयंज्योतिर्निर्गुणोऽसौ गुणाश्रयः। सर्वगोऽनावृतः साक्षी निरात्माऽऽत्माऽऽत्मनःपरः॥७॥ य एवं सन्तमात्मानमात्मस्थं वेद पूरुषः। नाज्यते प्रकृतिस्थोऽपि तद्गुणैः स मयि स्थितः॥८॥ यः स्वधर्मेण मां नित्यं निराशीः श्रद्धयान्वितः। भजते शनकैस्तस्य मनो राजन् प्रसीदति ॥९॥ परित्यक्तगुणः सम्यग्दर्शनो विशदाशयः। शान्तिं मे समवस्थानं ब्रह्मकैवल्यमश्नुते ॥१०॥ उदासीनमिवाध्यक्षं द्रव्यज्ञानक्रियात्मनाम्। कूटस्थमिममात्मानं यो वेदाप्नोति शोभनम् ॥११॥ भिन्नस्य लिङ्गस्य गुणप्रवाहो द्रव्यक्रियाकारकचेतनाऽऽत्मनः। दृष्टासु सम्पत्सु विपत्सु सूरयो न विक्रियन्ते मयि बद्धसौहृदाः ॥१२॥ समः समानोत्तममध्यमाधमः सुखे च दुःखे च जितेन्द्रियाशयः। मयोपकॢप्ताखिललोकसंयुतो विधत्स्व वीराखिललोकरक्षणम् ॥१३॥ श्रेयः प्रजापालनमेव राज्ञो यत्साम्पराये सुकृतात्षष्ठमंशम्। हर्तान्यथा हृतपुण्यः प्रजाना- मरक्षिता करहारोऽघमत्ति ॥१४॥ एवं द्विजाग्र्यानुमतानुवृत्त- धर्मप्रधानोऽन्यतमोऽवितास्याः। ह्रस्वेन कालेन गृहोपयातान् द्रष्टासि सिद्धाननुरक्तलोकः ॥१५॥ वरं च मत्कञ्चन मानवेन्द्र वृणीष्व तेऽहं गुणशीलयन्त्रितः। नाहं मखैर्वै सुलभस्तपोभि- र्योगेन वा यत्समचित्तवर्ती ॥१६॥ मैत्रेय उवाच स इत्थं लोकगुरुणा विष्वक्सेनेन विश्वजित्। अनुशासित आदेशं शिरसा जगृहे हरेः ॥१७॥ स्पृशन्तं पादयोः प्रेम्णा व्रीडितं स्वेन कर्मणा। शतक्रतुं परिष्वज्य विद्वेषं विससर्ज ह ॥१८॥ भगवानथ विश्वात्मा पृथुनोपहृतार्हणः। समुज्जिहानया भक्त्या गृहीतचरणाम्बुजः ॥१९॥ प्रस्थानाभिमुखोऽप्येनमनुग्रहविलम्बितः। पश्यन् पद्मपलाशाक्षो न प्रतस्थे सुहृत्सताम् ॥२०॥ स आदिराजो रचिताञ्जलिर्हरिं विलोकितुं नाशकदश्रुलोचनः। न किञ्चनोवाच स बाष्पविक्लवो हृदोपगुह्यामुमधादवस्थितः ॥२१॥ अथावमृज्याश्रुकला विलोकय- न्नतृप्तदृग्गोचरमाह पूरुषम्। पदा स्पृशन्तं क्षितिमंस उन्नते विन्यस्तहस्ताग्रमुरङ्गविद्विषः ॥२२॥ पृथुरुवाच वरान्विभो त्वद्वरदेश्वराद्बुधः कथं वृणीते गुणविक्रियात्मनाम्। ये नारकाणामपि सन्ति देहिनां तानीश कैवल्यपते वृणे न च ॥२३॥ न कामये नाथ तदप्यहं क्वचिन्न यत्र युष्मच्चरणाम्बुजासवः। महत्तमान्तर्हृदयान्मुखच्युतो विधत्स्व कर्णायुतमेष मे वरः ॥२४॥ स उत्तमश्लोकमहन्मुखच्युतो भवत्पदाम्भोजसुधाकणानिलः। स्मृतिं पुनर्विस्मृततत्त्ववर्त्मनां कुयोगिनां नो वितरत्यलं वरैः ॥२५॥ यशः शिवं सुश्रव आर्यसङ्गमे यदृच्छया चोपशृणोति ते सकृत्। कथं गुणज्ञो विरमेद्विना पशुं श्रीर्यत्प्रवव्रे गुणसङ्ग्रहेच्छया ॥२६॥ अथाभजे त्वाखिलपूरुषोत्तमं गुणालयं पद्मकरेव लालसः। अप्यावयोरेकपतिस्पृधोः कलिर्न स्यात्कृतत्वच्चरणैकतानयोः ॥२७॥ जगज्जनन्यां जगदीश वैशसं स्यादेव यत्कर्मणि नः समीहितम्। करोषि फल्ग्वप्युरु दीनवत्सलः स्व एव धिष्ण्येऽभिरतस्य किं तया ॥२८॥ भजन्त्यथ त्वामत एव साधवः व्युदस्तमायागुणविभ्रमोदयम्। भवत्पदानुस्मरणादृते सतां निमित्तमन्यद्भगवन् न विद्महे ॥२९॥ मन्ये गिरं ते जगतां विमोहिनीं वरं वृणीष्वेति भजन्तमात्थ यत्। वाचा नु तन्त्या यदि ते जनोऽसितः कथं पुनः कर्म करोति मोहितः ॥३०॥ त्वन्माययाद्धा जन ईश खण्डितो यदन्यदाशास्त ऋतात्मनोऽबुधः। यथा चरेद्बालहितं पिता स्वयं तथा त्वमेवार्हसि नः समीहितुम् ॥३१॥ मैत्रेय उवाच इत्यादिराजेन नुतः स विश्वदृक्तमाह राजन् मयि भक्तिरस्तु ते। दिष्ट्येदृशी धीर्मयि ते कृता यया मायां मदीयां तरति स्म दुस्त्यजाम् ॥३२॥ तत्त्वं कुरु मयादिष्टमप्रमत्तः प्रजापते। मदादेशकरो लोकः सर्वत्राप्नोति शोभनम् ॥३३॥ मैत्रेय उवाच इति वैन्यस्य राजर्षेः प्रतिनन्द्यार्थवद्वचः। पूजितोऽनुगृहीत्वैनं गन्तुं चक्रेऽच्युतो मतिम् ॥३४॥ देवर्षिपितृगन्धर्वसिद्धचारणपन्नगाः। किन्नराप्सरसो मर्त्याः खगा भूतान्यनेकशः ॥३५॥ यज्ञेश्वरधिया राज्ञा वाग्वित्ताञ्जलिभक्तितः। सभाजिता ययुः सर्वे वैकुण्ठानुगतास्ततः ॥३६॥ भगवानपि राजर्षेः सोपाध्यायस्य चाच्युतः। हरन्निव मनोऽमुष्य स्वधाम प्रत्यपद्यत ॥३७॥ अदृष्टाय नमस्कृत्य नृपः सन्दर्शितात्मने। अव्यक्ताय च देवानां देवाय स्वपुरं ययौ ॥३८॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे विंशोऽध्यायः ॥२०॥

॥ एकविंशोऽध्यायः - २१ ॥

मैत्रेय उवाच मौक्तिकैः कुसुमस्रग्भिर्दुकूलैः स्वर्णतोरणैः। महासुरभिभिर्धूपैर्मण्डितं तत्र तत्र वै ॥१॥ चन्दनागुरुतोयार्द्ररथ्याचत्वरमार्गवत्। पुष्पाक्षतफलैस्तोक्मैर्लाजैरर्चिर्भिरर्चितम् ॥२॥ सवृन्दैः कदलीस्तम्भैः पूगपोतैः परिष्कृतम्। तरुपल्लवमालाभिः सर्वतः समलङ्कृतम् ॥३॥ प्रजास्तं दीपबलिभिः सम्भृताशेषमङ्गलैः। अभीयुर्मृष्टकन्याश्च मृष्टकुण्डलमण्डिताः ॥४॥ शङ्खदुन्दुभिघोषेण ब्रह्मघोषेण चर्त्विजाम्। विवेश भवनं वीरः स्तूयमानो गतस्मयः ॥५॥ पूजितः पूजयामास तत्र तत्र महायशाः। पौराञ्जानपदांस्तांस्तान् प्रीतः प्रियवरप्रदः ॥६॥ स एवमादीन्यनवद्यचेष्टितः कर्माणि भूयांसि महान् महत्तमः। कुर्वन् शशासावनिमण्डलं यशः स्फीतं निधायारुरुहे परं पदम् ॥७॥ सूत उवाच तदादिराजस्य यशो विजृम्भितं गुणैरशेषैर्गुणवत्सभाजितम्। क्षत्ता महाभागवतः सदस्पते कौषारविं प्राह गृणन्तमर्चयन् ॥८॥ विदुर उवाच सोऽभिषिक्तः पृथुर्विप्रैर्लब्धाशेषसुरार्हणः। बिभ्रत्स वैष्णवं तेजो बाह्वोर्याभ्यां दुदोह गाम् ॥९॥ को न्वस्य कीर्तिं न शृणोत्यभिज्ञो यद्विक्रमोच्छिष्टमशेषभूपाः। लोकाः सपाला उपजीवन्ति काम- मद्यापि तन्मे वद कर्म शुद्धम् ॥१०॥ मैत्रेय उवाच गङ्गायमुनयोर्नद्योरन्तरा क्षेत्रमावसन्। आरब्धानेव बुभुजे भोगान् पुण्यजिहासया ॥११॥ सर्वत्रास्खलितादेशः सप्तद्वीपैकदण्डधृक्। अन्यत्र ब्राह्मणकुलादन्यत्राच्युतगोत्रतः ॥१२॥ एकदाऽऽसीन्महासत्रदीक्षा तत्र दिवौकसाम्। समाजो ब्रह्मर्षीणां च राजर्षीणां च सत्तम ॥१३॥ तस्मिन्नर्हत्सु सर्वेषु स्वर्चितेषु यथार्हतः। उत्थितः सदसो मध्ये ताराणामुडुराडिव ॥१४॥ प्रांशुः पीनायतभुजो गौरः कञ्जारुणेक्षणः। सुनासः सुमुखः सौम्यः पीनांसः सुद्विजस्मितः ॥१५॥ व्यूढवक्षा बृहच्छ्रोणिर्वलिवल्गुदलोदरः। आवर्तनाभिरोजस्वी काञ्चनोरुरुदग्रपात् ॥१६॥ सूक्ष्मवक्रासितस्निग्धमूर्धजः कम्बुकन्धरः। महाधने दुकूलाग्र्ये परिधायोपवीय च ॥१७॥ व्यञ्जिताशेषगात्रश्रीर्नियमे न्यस्तभूषणः। कृष्णाजिनधरः श्रीमान् कुशपाणिः कृतोचितः ॥१८॥ ७ शिशिरस्निग्धताराक्षः समैक्षत समन्ततः। ऊचिवानिदमुर्वीशः सदः संहर्षयन्निव ॥१९॥ चारुचित्रपदं श्लक्ष्णं मृष्टं गूढमविक्लवम्। सर्वेषामुपकारार्थं तदा अनुवदन्निव ॥२०॥ राजोवाच सभ्याः शृणुत भद्रं वः साधवो य इहागताः। सत्सु जिज्ञासुभिर्धर्ममावेद्यं स्वमनीषितम् ॥२१॥ अहं दण्डधरो राजा प्रजानामिह योजितः। रक्षिता वृत्तिदः स्वेषु सेतुषु स्थापिता पृथक् ॥२२॥ तस्य मे तदनुष्ठानाद्यानाहुर्ब्रह्मवादिनः। लोकाः स्युः कामसन्दोहा यस्य तुष्यति दिष्टदृक् ॥२३॥ य उद्धरेत्करं राजा प्रजा धर्मेष्वशिक्षयन्। प्रजानां शमलं भुङ्क्ते भगं च स्वं जहाति सः ॥२४॥ तत्प्रजा भर्तृपिण्डार्थं स्वार्थमेवानसूयवः। कुरुताधोक्षजधियस्तर्हि मेऽनुग्रहः कृतः ॥२५॥ यूयं तदनुमोदध्वं पितृदेवर्षयोऽमलाः। कर्तुः शास्तुरनुज्ञातुस्तुल्यं यत्प्रेत्य तत्फलम् ॥२६॥ अस्ति यज्ञपतिर्नाम केषाञ्चिदर्हसत्तमाः। इहामुत्र च लक्ष्यन्ते ज्योत्स्नावत्यः क्वचिद्भुवः ॥२७॥ मनोरुत्तानपादस्य ध्रुवस्यापि महीपतेः। प्रियव्रतस्य राजर्षेरङ्गस्यास्मत्पितुः पितुः ॥२८॥ ईदृशानामथान्येषामजस्य च भवस्य च। प्रह्लादस्य बलेश्चापि कृत्यमस्ति गदाभृता ॥२९॥ दौहित्रादीन् ऋते मृत्योः शोच्यान् धर्मविमोहितान्। वर्गस्वर्गापवर्गाणां प्रायेणैकात्म्यहेतुना ॥३०॥ यत्पादसेवाभिरुचिस्तपस्विना- मशेषजन्मोपचितं मलं धियः। सद्यः क्षिणोत्यन्वहमेधती सती यथा पदाङ्गुष्ठविनिःसृता सरित् ॥३१॥ विनिर्धुताशेषमनोमलः पुमा- नसङ्गविज्ञानविशेषवीर्यवान्। यदङ्घ्रिमूले कृतकेतनः पुनर्न संसृतिं क्लेशवहां प्रपद्यते ॥३२॥ तमेव यूयं भजतात्मवृत्तिभि- र्मनोवचःकायगुणैः स्वकर्मभिः। अमायिनः कामदुघाङ्घ्रिपङ्कजं यथाधिकारावसितार्थसिद्धयः ॥३३॥ असाविहानेकगुणोऽगुणोऽध्वरः पृथग्विधद्रव्यगुणक्रियोक्तिभिः। सम्पद्यतेऽर्थाशयलिङ्गनामभि- र्विशुद्धविज्ञानघनः स्वरूपतः ॥३४॥ प्रधानकालाशयधर्मसङ्ग्रहे शरीर एष प्रतिपद्य चेतनाम्। क्रियाफलत्वेन विभुर्विभाव्यते यथानलो दारुषु तद्गुणात्मकः ॥३५॥ अहो ममामी वितरन्त्यनुग्रहं हरिं गुरुं यज्ञभुजामधीश्वरम्। स्वधर्मयोगेन यजन्ति मामका निरन्तरं क्षोणितले दृढव्रताः ॥३६॥ मा जातु तेजः प्रभवेन्महर्द्धिभि- स्तितिक्षया तपसा विद्यया च। देदीप्यमानेऽजितदेवतानां कुले स्वयं राजकुलाद्द्विजानाम् ॥३७॥ ब्रह्मण्यदेवः पुरुषः पुरातनो नित्यं हरिर्यच्चरणाभिवन्दनात्। अवाप लक्ष्मीमनपायिनीं यशो जगत्पवित्रं च महत्तमाग्रणीः ॥३८॥ यत्सेवयाशेषगुहाशयः स्वराड् विप्रप्रियस्तुष्यति काममीश्वरः। तदेव तद्धर्मपरैर्विनीतैः सर्वात्मना ब्रह्मकुलं निषेव्यताम् ॥३९॥ पुमान् लभेतानतिवेलमात्मनः प्रसीदतोऽत्यन्तशमं स्वतः स्वयम्। यन्नित्यसम्बन्धनिषेवया ततः परं किमत्रास्ति मुखं हविर्भुजाम् ॥४०॥ अश्नात्यनन्तः खलु तत्त्वकोविदैः श्रद्धाहुतं यन्मुख इज्यनामभिः। न वै तथा चेतनया बहिष्कृते हुताशने पारमहंस्यपर्यगुः ॥४१॥ यद्ब्रह्म नित्यं विरजं सनातनं श्रद्धातपोमङ्गलमौनसंयमैः। समाधिना बिभ्रति हार्थदृष्टये यत्रेदमादर्श इवावभासते ॥४२॥ तेषामहं पादसरोजरेणु- मार्यावहेयाधिकिरीटमायुः। यं नित्यदा बिभ्रत आशु पापं नश्यत्यमुं सर्वगुणा भजन्ति ॥४३॥ गुणायनं शीलधनं कृतज्ञं वृद्धाश्रयं संवृणतेऽनुसम्पदः। प्रसीदतां ब्रह्मकुलं गवां च जनार्दनः सानुचरश्च मह्यम् ॥४४॥ मैत्रेय उवाच इति ब्रुवाणं नृपतिं पितृदेवद्विजातयः। तुष्टुवुर्हृष्टमनसः साधुवादेन साधवः ॥४६॥ पुत्रेण जयते लोकानिति सत्यवती श्रुतिः। ब्रह्मदण्डहतः पापो यद्वेनोऽत्यतरत्तमः ॥४७॥ हिरण्यकशिपुश्चापि भगवन्निन्दया तमः। विविक्षुरत्यगात्सूनोः प्रह्लादस्यानुभावतः ॥४८॥ वीरवर्य पितः पृथ्व्याः समाः सञ्जीव शाश्वतीः। यस्येदृश्यच्युते भक्तिः सर्वलोकैकभर्तरि ॥४९॥ अहो वयं ह्यद्य पवित्रकीर्ते त्वयैव नाथेन मुकुन्दनाथाः। य उत्तमश्लोकतमस्य विष्णो- र्ब्रह्मण्यदेवस्य कथां व्यनक्ति ॥५०॥ नात्यद्भुतमिदं नाथ तवाजीव्यानुशासनम्। प्रजानुरागो महतां प्रकृतिः करुणात्मनाम् ॥५१॥ अद्य नस्तमसः पारस्त्वयोपासादितः प्रभो। भ्राम्यतां नष्टदृष्टीनां कर्मभिर्दैवसंज्ञितैः ॥५२॥ नमो विवृद्धसत्त्वाय पुरुषाय महीयसे। यो ब्रह्म क्षत्रमाविश्य बिभर्तीदं स्वतेजसा ॥५३॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे एकविंशोऽध्यायः ॥२१॥

॥ द्वाविंशोऽध्यायः - २२ ॥

मैत्रेय उवाच जनेषु प्रगृणत्स्वेवं पृथुं पृथुलविक्रमम्। तत्रोपजग्मुर्मुनयश्चत्वारः सूर्यवर्चसः ॥१॥ तांस्तु सिद्धेश्वरान् राजा व्योम्नोऽवतरतोऽर्चिषा। लोकानपापान् कुर्वत्या सानुगोऽचष्ट लक्षितान् ॥२॥ तद्दर्शनोद्गतान् प्राणान् प्रत्यादित्सुरिवोत्थितः। ससदस्यानुगो वैन्य इन्द्रियेशो गुणानिव ॥३॥ गौरवाद्यन्त्रितः सभ्यः प्रश्रयानतकन्धरः। विधिवत्पूजयांचक्रे गृहीताध्यर्हणासनान् ॥४॥ तत्पादशौचसलिलैर्मार्जितालकबन्धनः। तत्र शीलवतां वृत्तमाचरन् मानयन्निव ॥५॥ हाटकासन आसीनान् स्वधिष्ण्येष्विव पावकान्। श्रद्धासंयमसंयुक्तः प्रीतः प्राह भवाग्रजान् ॥६॥ पृथुरुवाच अहो आचरितं किं मे मङ्गलं मङ्गलायनाः। यस्य वो दर्शनं ह्यासीद्दुर्दर्शानां च योगिभिः ॥७॥ किं तस्य दुर्लभतरमिह लोके परत्र च। यस्य विप्राः प्रसीदन्ति शिवो विष्णुश्च सानुगः॥८॥ नैव लक्षयते लोको लोकान् पर्यटतोऽपि यान्। यथा सर्वदृशं सर्व आत्मानं येऽस्य हेतवः ॥९॥ अधना अपि ते धन्याः साधवो गृहमेधिनः। यद्गृहा ह्यर्हवर्याम्बुतृणभूमीश्वरावराः ॥१०॥ व्यालालयद्रुमा वै तेऽप्यरिक्ताखिलसम्पदः। यद्गृहास्तीर्थपादीयपादतीर्थविवर्जिताः ॥११॥ स्वागतं वो द्विजश्रेष्ठा यद्व्रतानि मुमुक्षवः। चरन्ति श्रद्धया धीरा बाला एव बृहन्ति च ॥१२॥ कच्चिन्नः कुशलं नाथा इन्द्रियार्थार्थवेदिनाम्। व्यसनावाप एतस्मिन् पतितानां स्वकर्मभिः ॥१३॥ भवत्सु कुशलप्रश्न आत्मारामेषु नेष्यते। कुशलाकुशला यत्र न सन्ति मतिवृत्तयः ॥१४॥ तदहं कृतविश्रम्भः सुहृदो वस्तपस्विनाम्। सम्पृच्छे भव एतस्मिन् क्षेमः केनाञ्जसा भवेत् ॥१५॥ व्यक्तमात्मवतामात्मा भगवानात्मभावनः। स्वानामनुग्रहायेमां सिद्धरूपी चरत्यजः ॥१६॥ मैत्रेय उवाच पृथोस्तत्सूक्तमाकर्ण्य सारं सुष्ठु मितं मधु। स्मयमान इव प्रीत्या कुमारः प्रत्युवाच ह ॥१७॥ सनत्कुमार उवाच साधु पृष्टं महाराज सर्वभूतहितात्मना। भवता विदुषा चापि साधूनां मतिरीदृशी ॥१८॥ सङ्गमः खलु साधूनामुभयेषां च सम्मतः। यत्सम्भाषणसम्प्रश्नः सर्वेषां वितनोति शम् ॥१९॥ अस्त्येव राजन् भवतो मधुद्विषः पादारविन्दस्य गुणानुवादने। रतिर्दुरापा विधुनोति नैष्ठिकी कामं कषायं मलमन्तरात्मनः ॥२०॥ शास्त्रेष्वियानेव सुनिश्चितो नृणां क्षेमस्य सध्र्यग् विमृशेषु हेतुः। असङ्ग आत्मव्यतिरिक्त आत्मनि दृढा रतिर्ब्रह्मणि निर्गुणे च या ॥२१॥ सा श्रद्धया भगवद्धर्मचर्यया जिज्ञासयाऽऽध्यात्मिकयोगनिष्ठया। योगेश्वरोपासनया च नित्यं पुण्यश्रवः कथया पुण्यया च ॥२२॥ अर्थेन्द्रियारामसगोष्ठ्यतृष्णया तत्सम्मतानामपरिग्रहेण च। विविक्तरुच्या परितोष आत्मन् विना हरेर्गुणपीयूषपानात् ॥२३॥ अहिंसया पारमहंस्यचर्यया स्मृत्या मुकुन्दाचरिताग्र्यसीधुना। यमैरकामैर्नियमैश्चाप्यनिन्दया निरीहया द्वन्द्वतितिक्षया च ॥२४॥ हरेर्मुहुस्तत्परकर्णपूर- गुणाभिधानेन विजृम्भमाणया। भक्त्या ह्यसङ्गः सदसत्यनात्मनि स्यान्निर्गुणे ब्रह्मणि चाञ्जसा रतिः ॥२५॥ यदा रतिर्ब्रह्मणि नैष्ठिकी पुमा- नाचार्यवान् ज्ञानविरागरंहसा। दहत्यवीर्यं हृदयं जीवकोशं पञ्चात्मकं योनिमिवोत्थितोऽग्निः ॥२६॥ दग्धाशयो मुक्तसमस्ततद्गुणो नैवात्मनो बहिरन्तर्विचष्टे। परात्मनोर्यद्व्यवधानं पुरस्तात्स्वप्ने यथा पुरुषस्तद्विनाशे ॥२७॥ आत्मानमिन्द्रियार्थं च परं यदुभयोरपि। सत्याशय उपाधौ वै पुमान् पश्यति नान्यदा ॥२८॥ निमित्ते सति सर्वत्र जलादावपि पूरुषः। आत्मनश्च परस्यापि भिदां पश्यति नान्यदा ॥२९॥ इन्द्रियैर्विषयाकृष्टैराक्षिप्तं ध्यायतां मनः। चेतनां हरते बुद्धेः स्तम्बस्तोयमिव ह्रदात् ॥३०॥ भ्रश्यत्यनुस्मृतिश्चित्तं ज्ञानभ्रंशः स्मृतिक्षये। तद्रोधं कवयः प्राहुरात्मापह्नवमात्मनः ॥३१॥ नातः परतरो लोके पुंसः स्वार्थव्यतिक्रमः। यदध्यन्यस्य प्रेयस्त्वमात्मनः स्वव्यतिक्रमात् ॥३२॥ अर्थेन्द्रियार्थाभिध्यानं सर्वार्थापह्नवो नृणाम्। भ्रंशितो ज्ञानविज्ञानाद्येनाविशति मुख्यताम् ॥३३॥ न कुर्यात्कर्हिचित्सङ्गं तमस्तीव्रं तितीरिषुः। धर्मार्थकाममोक्षाणां यदत्यन्तविघातकम् ॥३४॥ तत्रापि मोक्ष एवार्थ आत्यन्तिकतयेष्यते। त्रैवर्ग्योऽर्थो यतो नित्यं कृतान्तभयसंयुतः ॥३५॥ परेऽवरे च ये भावा गुणव्यतिकरादनु। न तेषां विद्यते क्षेममीश विध्वंसिताशिषाम् ॥३६॥ तत्त्वं नरेन्द्र जगतामथ तस्थुषां च देहेन्द्रियासुधिषणात्मभिरावृतानाम् । यः क्षेत्रवित्तपतया हृदि विश्वगाविः प्रत्यक् चकास्ति भगवांस्तमवेहि सोऽस्मि ॥ ३७॥ यस्मिन्निदं सदसदात्मतया विभाति मायाविवेकविधुति स्रजि वाहिबुद्धिः । तं नित्यमुक्तपरिशुद्धविशुद्धतत्त्वं प्रत्यूढकर्मकलिलप्रकृतिं प्रपद्ये ॥३८॥ यत्पादपङ्कजपलाशविलासभक्त्या कर्माशयं ग्रथितमुद्ग्रथयन्ति सन्तः । तद्वन्न रिक्तमतयो यतयोऽपि रुद्धस्रोतोगणास्तमरणं भज वासुदेवम् ॥३९॥ कृच्छ्रो महानिह भवार्णवमप्लवेशां षड्वर्गनक्रमसुखेन तितीर्षन्ति । तत्त्वं हरेर्भगवतो भजनीयमङ्घ्रिं कृत्वोडुपं व्यसनमुत्तर दुस्तरार्णम् ॥४०॥ मैत्रेय उवाच स एवं ब्रह्मपुत्रेण कुमारेणात्ममेधसा। दर्शितात्मगतिः सम्यक् प्रशस्योवाच तं नृपः ॥४१॥ राजोवाच कृतो मेऽनुग्रहः पूर्वं हरिणाऽऽर्तानुकम्पिना। तमापादयितुं ब्रह्मन् भगवन् यूयमागताः ॥४२॥ निष्पादितश्च कार्त्स्न्येन भगवद्भिर्घृणालुभिः। साधूच्छिष्टं हि मे सर्वमात्मना सह किं ददे ॥४३॥ प्राणा दाराः सुता ब्रह्मन् गृहाश्च सपरिच्छदाः। राज्यं बलं मही कोश इति सर्वं निवेदितम् ॥४४॥ सैनापत्यं च राज्यं च दण्डनेतृत्वमेव च। सर्वलोकाधिपत्यं च वेदशास्त्रविदर्हति ॥४५॥ स्वमेव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति च। तस्यैवानुग्रहेणान्नं भुञ्जते क्षत्रियादयः ॥४६॥ यैरीदृशी भगवतो गतिरात्मवाद एकान्ततो निगमिभिः प्रतिपादिता नः । तुष्यन्त्वदभ्रकरुणाः स्वकृतेन नित्यं को नाम तत्प्रतिकरोति विनोदपात्रम् ॥४७॥ मैत्रेय उवाच त आत्मयोगपतय आदिराजेन पूजिताः। शीलं तदीयं शंसन्तः खेऽभूवन् मिषतां नृणाम् ॥४८॥ वैन्यस्तु धुर्यो महतां संस्थित्याध्यात्मशिक्षया। आप्तकाममिवात्मानं मेन आत्मन्यवस्थितः ॥४९॥ कर्माणि च यथाकालं यथादेशं यथाबलम्। यथोचितं यथावित्तमकरोद्ब्रह्मसात्कृतम् ॥५०॥ फलं ब्रह्मणि विन्न्यस्य निर्विषङ्गः समाहितः। कर्माध्यक्षं च मन्वान आत्मानं प्रकृतेः परम् ॥५१॥ गृहेषु वर्तमानोऽपि स साम्राज्यश्रियान्वितः। नासज्जतेन्द्रियार्थेषु निरहम्मतिरर्कवत् ॥५२॥ एवमध्यात्मयोगेन कर्माण्यनुसमाचरन्। पुत्रानुत्पादयामास पञ्चार्चिष्याऽऽत्मसम्मतान् ॥५३॥ विजिताश्वं धूम्रकेशं हर्यक्षं द्रविणं वृकम्। सर्वेषां लोकपालानां दधारैकः पृथुर्गुणान् ॥५४॥ गोपीथाय जगत्सृष्टेः काले स्वे स्वेऽच्युतात्मकः। मनोवाग्वृत्तिभिः सौम्यैर्गुणैः संरञ्जयन् प्रजाः ॥५५॥ राजेत्यधान्नामधेयं सोमराज इवापरः। सूर्यवद्विसृजन् गृह्णन् प्रतपंश्च भुवो वसु ॥५६॥ दुर्धर्षस्तेजसेवाग्निर्महेन्द्र इव दुर्जयः। तितिक्षया धरित्रीव द्यौरिवाभीष्टदो नृणाम् ॥५७॥ वर्षति स्म यथाकामं पर्जन्य इव तर्पयन्। समुद्र इव दुर्बोधः सत्त्वेनाचलराडिव ॥५८॥ धर्मराडिव शिक्षायामाश्चर्ये हिमवानिव। कुबेर इव कोशाढ्यो गुप्तार्थो वरुणो यथा ॥५९॥ मातरिश्वेव सर्वात्मा बलेन महसौजसा। अविषह्यतया देवो भगवान् भूतराडिव ॥६०॥ कन्दर्प इव सौन्दर्ये मनस्वी मृगराडिव। वात्सल्ये मनुवन्नृणां प्रभुत्वे भगवानजः ॥६१॥ बृहस्पतिर्ब्रह्मवादे आत्मवत्त्वे स्वयं हरिः। भक्त्या गोगुरुविप्रेषु विष्वक्सेनानुवर्तिषु। ह्रिया प्रश्रयशीलाभ्यामात्मतुल्यः परोद्यमे ॥६२॥ कीर्त्योर्ध्वगीतया पुम्भिस्त्रैलोक्ये तत्र तत्र ह। प्रविष्टः कर्णरन्ध्रेषु स्त्रीणां रामः सतामिव ॥६३॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे द्वाविंशोऽध्यायः ॥ २२ ॥

॥ त्रयोविंशोऽध्यायः - २३ ॥

मैत्रेय उवाच दृष्ट्वाऽऽत्मानं प्रवयसमेकदा वैन्य आत्मवान्। आत्मना वर्धिताशेषस्वानुसर्गः प्रजापतिः ॥१॥ जगतस्तस्थुषश्चापि वृत्तिदो धर्मभृत्सताम्। निष्पादितेश्वरादेशो यदर्थमिह जज्ञिवान् ॥२॥ आत्मजेष्वात्मजां न्यस्य विरहाद्रुदतीमिव। प्रजासु विमनःस्वेकः सदारोऽगात्तपोवनम् ॥३॥ तत्राप्यदाभ्यनियमो वैखानससुसम्मते। आरब्ध उग्रतपसि यथा स्वविजये पुरा ॥४॥ कन्दमूलफलाहारः शुष्कपर्णाशनः क्वचित्। अब्भक्षः कतिचित्पक्षान् वायुभक्षस्ततः परम् ॥५॥ ग्रीष्मे पञ्चतपा वीरो वर्षास्वासारषाण्मुनिः। आकण्ठमग्नः शिशिरे उदके स्थण्डिलेशयः ॥६॥ तितिक्षुर्यतवाग्दान्त ऊर्ध्वरेता जितानिलः। आरिराधयिषुः कृष्णमचरत्तप उत्तमम् ॥७॥ तेन क्रमानुसिद्धेन ध्वस्तकर्ममलाशयः। प्राणायामैः सन्निरुद्धषड्वर्गश्छिन्नबन्धनः ॥८॥ सनत्कुमारो भगवान् यदाहाध्यात्मिकं परम्। योगं तेनैव पुरुषमभजत्पुरुषर्षभः ॥९॥ भगवद्धर्मिणः साधोः श्रद्धया यततः सदा। भक्तिर्भगवति ब्रह्मण्यनन्यविषयाभवत् ॥१०॥ तस्यानया भगवतः परिकर्मशुद्ध- सत्त्वात्मनस्तदनुसंस्मरणानुपूर्त्या। ज्ञानं विरक्तिमदभून्निशितेन येन चिच्छेद संशयपदं निजजीवकोशम् ॥११॥ छिन्नान्यधीरधिगतात्मगतिर्निरीहस्तत् तत्यजेऽच्छिनदिदं वयुनेन येन। तावन्न योगगतिभिर्यतिरप्रमत्तो यावद्गदाग्रजकथासु रतिं न कुर्यात् ॥१२॥ एवं स वीरप्रवरः संयोज्यात्मानमात्मनि। ब्रह्मभूतो दृढं काले तत्याज स्वं कलेवरम् ॥१३॥ सम्पीड्य पायुं पार्ष्णिभ्यां वायुमुत्सारयञ्छनैः। नाभ्यां कोष्ठेष्ववस्थाप्य हृदुरःकण्ठशीर्षणि ॥१४॥ उत्सर्पयंस्तु तं मूर्ध्नि क्रमेणावेश्य निःस्पृहः। वायुं वायौ क्षितौ कायं तेजस्तेजस्ययूयुजत् ॥१५॥ खान्याकाशे द्रवं तोये यथास्थानं विभागशः। क्षितिमम्भसि तत्तेजस्यदो वायौ नभस्यमुम् ॥१६॥ इन्द्रियेषु मनस्तानि तन्मात्रेषु यथोद्भवम्। भूतादिनामून्युत्कृष्य महत्यात्मनि सन्दधे ॥१७॥ तं सर्वगुणविन्यासं जीवे मायामये न्यधात्। तं चानुशयमात्मस्थमसावनुशयी पुमान्। ज्ञानवैराग्यवीर्येण स्वरूपस्थोऽजहात्प्रभुः ॥१८॥ अर्चिर्नाम महाराज्ञी तत्पत्न्यनुगता वनम्। सुकुमार्यतदर्हा च यत्पद्भ्यां स्पर्शनं भुवः ॥१९॥ अतीव भर्तुर्व्रतधर्मनिष्ठया शुश्रूषया चार्षदेहयात्रया। नाविन्दतार्तिं परिकर्शितापि सा प्रेयस्करस्पर्शनमाननिर्वृतिः ॥२०॥ देहं विपन्नाखिलचेतनादिकं पत्युः पृथिव्या दयितस्य चात्मनः। आलक्ष्य किञ्चिच्च विलप्य सा सती चितामथारोपयदद्रिसानुनि ॥२१॥ विधाय कृत्यं ह्रदिनी जलाप्लुता दत्त्वोदकं भर्तुरुदारकर्मणः। नत्वा दिविस्थांस्त्रिदशांस्त्रिः परीत्य विवेश वह्निं ध्यायती भर्तृपादौ ॥२२॥ विलोक्यानुगतां साध्वीं पृथुं वीरवरं पतिम्। तुष्टुवुर्वरदा देवैर्देवपत्न्यः सहस्रशः ॥२३॥ कुर्वत्यः कुसुमासारं तस्मिन् मन्दरसानुनि। नदत्स्वमरतूर्येषु गृणन्ति स्म परस्परम् ॥२४॥ देव्य ऊचुः अहो इयं वधूर्धन्या या चैवं भूभुजां पतिम्। सर्वात्मना पतिं भेजे यज्ञेशं श्रीर्वधूरिव ॥२५॥ सैषा नूनं व्रजत्यूर्ध्वमनु वैन्यं पतिं सती। पश्यतास्मानतीत्यार्चिर्दुर्विभाव्येन कर्मणा ॥२६॥ तेषां दुरापं किं त्वन्यन्मर्त्यानां भगवत्पदम्। भुवि लोलायुषो ये वै नैष्कर्म्यं साधयन्त्युत ॥२७॥ स वञ्चितो बतात्मध्रुक् कृच्छ्रेण महता भुवि। लब्ध्वापवर्ग्यं मानुष्यं विषयेषु विषज्जते ॥२८॥ मैत्रेय उवाच स्तुवतीष्वमरस्त्रीषु पतिलोकं गता वधूः। यं वा आत्मविदां धुर्यो वैन्यः प्रापाच्युताश्रयः ॥२९॥ इत्थम्भूतानुभावोऽसौ पृथुः स भगवत्तमः। कीर्तितं तस्य चरितमुद्दामचरितस्य ते ॥३०॥ य इदं सुमहत्पुण्यं श्रद्धयावहितः पठेत्। श्रावयेच्छृणुयाद्वापि स पृथोः पदवीमियात् ॥३१॥ ब्राह्मणो ब्रह्मवर्चस्वी राजन्यो जगतीपतिः। वैश्यः पठन् विट्पतिः स्याच्छूद्रः सत्तमतामियात्॥३२॥ त्रिकृत्व इदमाकर्ण्य नरो नार्यथवाऽऽदृता। अप्रजः सुप्रजतमो निर्धनो धनवत्तमः ॥३३॥ अस्पष्टकीर्तिः सुयशा मूर्खो भवति पण्डितः। इदं स्वस्त्ययनं पुंसाममङ्गल्यनिवारणम् ॥३४॥ धन्यं यशस्यमायुष्यं स्वर्ग्यं कलिमलापहम्। धर्मार्थकाममोक्षाणां सम्यक् सिद्धिमभीप्सुभिः। श्रद्धयैतदनुश्राव्यं चतुर्णां कारणं परम् ॥३५॥ विजयाभिमुखो राजा श्रुत्वैतदभियाति यान्। बलिं तस्मै हरन्त्यग्रे राजानः पृथवे यथा ॥३६॥ मुक्तान्यसङ्गो भगवत्यमलां भक्तिमुद्वहन्। वैन्यस्य चरितं पुण्यं शृणुयाच्छ्रावयेत्पठेत् ॥३७॥ वैचित्रवीर्याभिहितं महन्माहात्म्यसूचकम्। अस्मिन् कृतमतिर्मर्त्यः पार्थवीं गतिमाप्नुयात् ॥३८॥ अनुदिनमिदमादरेण शृण्वन् पृथुचरितं प्रथयन् विमुक्तसङ्गः। भगवति भवसिन्धुपोतपादे स च निपुणां लभते रतिं मनुष्यः ॥३९॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे त्रयोविंशोऽध्यायः ॥२३॥

॥ चतुर्विंशोऽध्यायः - २४ ॥

मैत्रेय उवाच विजिताश्वोऽधिराजाऽऽसीत्पृथुपुत्रः पृथुश्रवाः। यवीयोभ्योऽददात्काष्ठा भ्रातृभ्यो भ्रातृवत्सलः ॥१॥ हर्यक्षायादिशत्प्राचीं धूम्रकेशाय दक्षिणाम्। प्रतीचीं वृकसंज्ञाय तुर्यां द्रविणसे विभुः ॥२॥ अन्तर्धानगतिं शक्राल्लब्ध्वान्तर्धानसंज्ञितः। अपत्यत्रयमाधत्त शिखण्डिन्यां सुसम्मतम् ॥३॥ पावकः पवमानश्च शुचिरित्यग्नयः पुरा। वसिष्ठशापादुत्पन्नाः पुनर्योगगतिं गताः ॥४॥ अन्तर्धानो नभस्वत्यां हविर्धानमविन्दत। य इन्द्रमश्वहर्तारं विद्वानपि न जघ्निवान् ॥५॥ राज्ञां वृत्तिं करादानदण्डशुल्कादिदारुणाम्। मन्यमानो दीर्घसत्त्रव्याजेन विससर्ज ह ॥६॥ तत्रापि हंसं पुरुषं परमात्मानमात्मदृक्। यजंस्तल्लोकतामाप कुशलेन समाधिना ॥७॥ हविर्धानाद्धविर्धानी विदुरासूत षट् सुतान्। बर्हिषदं गयं शुक्लं कृष्णं सत्यं जितव्रतम् ॥८॥ बर्हिषत्सुमहाभागो हाविर्धानिः प्रजापतिः। क्रियाकाण्डेषु निष्णातो योगेषु च कुरूद्वह ॥९॥ यस्येदं देवयजनमनुयज्ञं वितन्वतः। प्राचीनाग्रैः कुशैरासीदास्तृतं वसुधातलम् ॥१०॥ सामुद्रीं देवदेवोक्तामुपयेमे शतद्रुतिम्। यां वीक्ष्य चारुसर्वाङ्गीं किशोरीं सुष्ठ्वलङ्कृताम्। परिक्रमन्तीमुद्वाहे चकमेऽग्निः शुकीमिव ॥११॥ विबुधासुरगन्धर्वमुनिसिद्धनरोरगाः। विजिताः सूर्यया दिक्षु क्वणयन्त्यैव नूपुरैः ॥१२॥ प्राचीनबर्हिषः पुत्राः शतद्रुत्यां दशाभवन्। तुल्यनामव्रताः सर्वे धर्मस्नाताः प्रचेतसः ॥१३॥ पित्राऽऽदिष्टाः प्रजासर्गे तपसेऽर्णवमाविशन्। दशवर्षसहस्राणि तपसार्चंस्तपस्पतिम् ॥१४॥ यदुक्तं पथि दृष्टेन गिरिशेन प्रसीदता। तद्ध्यायन्तो जपन्तश्च पूजयन्तश्च संयताः ॥१५॥ विदुर उवाच प्रचेतसां गिरित्रेण यथाऽऽसीत्पथि सङ्गमः। यदुताह हरः प्रीतस्तन्नो ब्रह्मन् वदार्थवत् ॥१६॥ सङ्गमः खलु विप्रर्षे शिवेनेह शरीरिणाम्। दुर्लभो मुनयो दध्युरसङ्गाद्यमभीप्सितम् ॥१७॥ आत्मारामोऽपि यस्त्वस्य लोककल्पस्य राधसे। शक्त्या युक्तो विचरति घोरया भगवान् भवः ॥१८॥ मैत्रेय उवाच प्रचेतसः पितुर्वाक्यं शिरसाऽऽदाय साधवः। दिशं प्रतीचीं प्रययुस्तपस्यादृतचेतसः ॥१९॥ समुद्रमुप विस्तीर्णमपश्यन् सुमहत्सरः। महन्मन इव स्वच्छं प्रसन्नसलिलाशयम् ॥२०॥ नीलरक्तोत्पलाम्भोजकह्लारेन्दीवराकरम्। हंससारसचक्राह्वकारण्डवनिकूजितम् ॥२१॥ मत्तभ्रमरसौस्वर्यहृष्टरोमलताङ्घ्रिपम्। पद्मकोशरजो दिक्षु विक्षिपत्पवनोत्सवम् ॥२२॥ तत्र गान्धर्वमाकर्ण्य दिव्यमार्गमनोहरम्। विसिस्म्यू राजपुत्रास्ते मृदङ्गपणवाद्यनु ॥२३॥ तर्ह्येव सरसस्तस्मान्निष्क्रामन्तं सहानुगम्। उपगीयमानममरप्रवरं विबुधानुगैः ॥२४॥ तप्तहेमनिकायाभं शितिकण्ठं त्रिलोचनम्। प्रसादसुमुखं वीक्ष्य प्रणेमुर्जातकौतुकाः ॥२५॥ स तान् प्रपन्नार्तिहरो भगवान् धर्मवत्सलः। धर्मज्ञान् शीलसम्पन्नान् प्रीतः प्रीतानुवाच ह ॥२६॥ रुद्र उवाच यूयं वेदिषदः पुत्रा विदितं वश्चिकीर्षितम्। अनुग्रहाय भद्रं व एवं मे दर्शनं कृतम् ॥२७॥ यः परं रंहसः साक्षात्त्रिगुणाज्जीवसंज्ञितात्। भगवन्तं वासुदेवं प्रपन्नः स प्रियो हि मे ॥२८॥ स्वधर्मनिष्ठः शतजन्मभिः पुमान् विरिञ्चतामेति ततः परं हि माम्। अव्याकृतं भागवतोऽथ वैष्णवं पदं यथाहं विबुधाः कलात्यये ॥२९॥ अथ भागवता यूयं प्रियाः स्थ भगवान् यथा। न मद्भागवतानां च प्रेयानन्योऽस्ति कर्हिचित् ॥३०॥ इदं विविक्तं जप्तव्यं पवित्रं मङ्गलं परम्। निःश्रेयसकरं चापि श्रूयतां तद्वदामि वः ॥३१॥ मैत्रेय उवाच इत्यनुक्रोशहृदयो भगवानाह ताञ्छिवः। बद्धाञ्जलीन् राजपुत्रान् नारायणपरो वचः ॥३२॥ रुद्र उवाच जितं त आत्मविद्धुर्यस्वस्तये स्वस्तिरस्तु मे। भवता राधसा राद्धं सर्वस्मा आत्मने नमः ॥३३॥ नमः पङ्कजनाभाय भूतसूक्ष्मेन्द्रियात्मने। वासुदेवाय शान्ताय कूटस्थाय स्वरोचिषे ॥३४॥ सङ्कर्षणाय सूक्ष्माय दुरन्तायान्तकाय च। नमो विश्वप्रबोधाय प्रद्युम्नायान्तरात्मने ॥३५॥ नमो नमोऽनिरुद्धाय हृषीकेशेन्द्रियात्मने। नमः परमहंसाय पूर्णाय निभृतात्मने ॥३६॥ स्वर्गापवर्गद्वाराय नित्यं शुचिषदे नमः। नमो हिरण्यवीर्याय चातुर्होत्राय तन्तवे ॥३७॥ नम ऊर्ज इषे त्रय्याः पतये यज्ञरेतसे। तृप्तिदाय च जीवानां नमः सर्वरसात्मने ॥३८॥ सर्वसत्त्वात्मदेहाय विशेषाय स्थवीयसे। नमस्त्रैलोक्यपालाय सह ओजो बलाय च ॥३९॥ अर्थलिङ्गाय नभसे नमोऽन्तर्बहिरात्मने। नमः पुण्याय लोकाय अमुष्मै भूरिवर्चसे ॥४०॥ प्रवृत्ताय निवृत्ताय पितृदेवाय कर्मणे। नमोऽधर्मविपाकाय मृत्यवे दुःखदाय च ॥४१॥ नमस्त आशिषामीश मनवे कारणात्मने। नमो धर्माय बृहते कृष्णायाकुण्ठमेधसे। पुरुषाय पुराणाय साङ्ख्ययोगेश्वराय च ॥४२॥ शक्तित्रयसमेताय मीढुषेऽहङ्कृतात्मने। चेत आकूतिरूपाय नमो वाचो विभूतये ॥४३॥ दर्शनं नो दिदृक्षूणां देहि भागवतार्चितम्। रूपं प्रियतमं स्वानां सर्वेन्द्रियगुणाञ्जनम् ॥४४॥ स्निग्धप्रावृट् घनश्यामं सर्वसौन्दर्यसङ्ग्रहम्। चार्वायतचतुर्बाहुं सुजातरुचिराननम् ॥४५॥ पद्मकोशपलाशाक्षं सुन्दरभ्रू सुनासिकम्। सुद्विजं सुकपोलास्यं समकर्णविभूषणम् ॥४६॥ प्रीतिप्रहसितापाङ्गमलकैरुपशोभितम्। लसत्पङ्कजकिञ्जल्कदुकूलं मृष्टकुण्डलम् ॥४७॥ स्फुरत्किरीटवलयहारनूपुरमेखलम्। शङ्खचक्रगदापद्ममालामण्युत्तमर्द्धिमत् ॥४८॥ सिंहस्कन्धत्विषो बिभ्रत्सौभगग्रीवकौस्तुभम्। श्रियानपायिन्या क्षिप्तनिकषाश्मोरसोल्लसत् ॥४९॥ पूररेचकसंविग्नवलिवल्गुदलोदरम्। प्रतिसङ्क्रामयद्विश्वं नाभ्याऽऽवर्तगभीरया ॥५०॥ श्यामश्रोण्यधिरोचिष्णु दुकूलस्वर्णमेखलम्। समचार्वङ्घ्रिजङ्घोरुनिम्नजानुसुदर्शनम् ॥५१॥ पदा शरत्पद्मपलाशरोचिषा नखद्युभिर्नोऽन्तरघं विधुन्वता। प्रदर्शय स्वीयमपास्तसाध्वसं पदं गुरो मार्गगुरुस्तमोजुषाम् ॥५२॥ एतद्रूपमनुध्येयमात्मशुद्धिमभीप्सताम्। यद्भक्तियोगोभयदः स्वधर्ममनुतिष्ठताम् ॥५३॥ भवान् भक्तिमता लभ्यो दुर्लभः सर्वदेहिनाम्। स्वाराज्यस्याप्यभिमत एकान्तेनात्मविद्गतिः ॥५४॥ तं दुराराध्यमाराध्य सतामपि दुरापया। एकान्तभक्त्या को वाञ्छेत्पादमूलं विना बहिः ॥५५॥ यत्र निर्विष्टमरणं कृतान्तो नाभिमन्यते। विश्वं विध्वंसयन् वीर्यशौर्यविस्फूर्जितभ्रुवा ॥५६॥ क्षणार्धेनापि तुलये न स्वर्गं नापुनर्भवम्। भगवत्सङ्गिसङ्गस्य मर्त्यानां किमुताशिषः ॥५७॥ अथानघाङ्घ्रेस्तव कीर्तितीर्थयोरन्तर्बहिः स्नानविधूतपाप्मनाम्। भूतेष्वनुक्रोशसुसत्त्वशीलिनां स्यात्सङ्गमोऽनुग्रह एष नस्तव ॥५८॥ न यस्य चित्तं बहिरर्थविभ्रमं तमोगुहायां च विशुद्धमाविशत्। यद्भक्तियोगानुगृहीतमञ्जसा मुनिर्विचष्टे ननु तत्र ते गतिम् ॥५९॥ यत्रेदं व्यज्यते विश्वं विश्वस्मिन्नवभाति यत्। तत्त्वं ब्रह्म परंज्योतिराकाशमिव विस्तृतम् ॥६०॥ यो माययेदं पुरुरूपयासृजद्बिभर्ति भूयः क्षपयत्यविक्रियः। यद्भेदबुद्धिः सदिवात्मदुःस्थया तमात्मतन्त्रं भगवन् प्रतीमहि ॥६१॥ क्रियाकलापैरिदमेव योगिनः श्रद्धान्विताः साधु यजन्ति सिद्धये। भूतेन्द्रियान्तःकरणोपलक्षितं वेदे च तन्त्रे च त एव कोविदाः ॥६२॥ त्वमेक आद्यः पुरुषः सुप्तशक्तिस्तया रजःसत्त्वतमो विभिद्यते। महानहं खं मरुदग्निवार्धराः सुरर्षयो भूतगणा इदं यतः ॥६३॥ सृष्टं स्वशक्त्येदमनुप्रविष्ट- श्चतुर्विधं पुरमात्मांशकेन। अथो विदुस्तं पुरुषं सन्तमन्त- र्भुङ्क्ते हृषीकैर्मधु सारघं यः ॥६४॥ स एष लोकानतिचण्डवेगो विकर्षसि त्वं खलु कालयानः। भूतानि भूतैरनुमेयतत्त्वो घनावलीर्वायुरिवाविषह्यः ॥६५॥ प्रमत्तमुच्चैरितिकृत्यचिन्तया प्रवृद्धलोभं विषयेषु लालसम्। त्वमप्रमत्तः सहसाभिपद्यसे क्षुल्लेलिहानोऽहिरिवाखुमन्तकः ॥६६॥ कस्त्वत्पदाब्जं विजहाति पण्डितो यस्तेऽवमानव्ययमानकेतनः। विशङ्कयास्मद्गुरुरर्चति स्म यद्विनोपपत्तिं मनवश्चतुर्दश ॥६७॥ अथ त्वमसि नो ब्रह्मन् परमात्मन् विपश्चिताम्। विश्वं रुद्रभयध्वस्तमकुतश्चिद्भया गतिः ॥६८॥ इदं जपत भद्रं वो विशुद्धा नृपनन्दनाः। स्वधर्ममनुतिष्ठन्तो भगवत्यर्पिताशयाः ॥६९॥ तमेवात्मानमात्मस्थं सर्वभूतेष्ववस्थितम्। पूजयध्वं गृणन्तश्च ध्यायन्तश्चासकृद्धरिम् ॥७०॥ योगादेशमुपासाद्य धारयन्तो मुनिव्रताः। समाहितधियः सर्व एतदभ्यसतादृताः ॥७१॥ इदमाह पुरास्माकं भगवान् विश्वसृक्पतिः। भृग्वादीनामात्मजानां सिसृक्षुः संसिसृक्षताम् ॥७२॥ ते वयं नोदिताः सर्वे प्रजासर्गे प्रजेश्वराः। अनेन ध्वस्ततमसः सिसृक्ष्मो विविधाः प्रजाः ॥७३॥ अथेदं नित्यदा युक्तो जपन्नवहितः पुमान्। अचिराच्छ्रेय आप्नोति वासुदेवपरायणः ॥७४॥ श्रेयसामिह सर्वेषां ज्ञानं निःश्रेयसं परम्। सुखं तरति दुष्पारं ज्ञाननौर्व्यसनार्णवम् ॥७५॥ य इमं श्रद्धया युक्तो मद्गीतं भगवत्स्तवम्। अधीयानो दुराराध्यं हरिमाराधयत्यसौ ॥७६॥ विन्दते पुरुषोऽमुष्माद्यद्यदिच्छत्यसत्वरम्। मद्गीतगीतात्सुप्रीताच्छ्रेयसामेकवल्लभात् ॥७७॥ इदं यः कल्य उत्थाय प्राञ्जलिः श्रद्धयान्वितः। शृणुयाच्छ्रावयेन्मर्त्यो मुच्यते कर्मबन्धनैः ॥७८॥ गीतं मयेदं नरदेवनन्दनाः परस्य पुंसः परमात्मनः स्तवम्। जपन्त एकाग्रधियस्तपो महच्चरध्वमन्ते तत आप्स्यथेप्सितम् ॥७९॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे रुद्रगीतं नाम चतुर्दशोऽध्यायः ॥२४॥

॥ पञ्चविंशोऽध्यायः - २५ ॥

मैत्रेय उवाच इति सन्दिश्य भगवान् बार्हिषदैरभिपूजितः। पश्यतां राजपुत्राणां तत्रैवान्तर्दधे हरः ॥१॥ रुद्रगीतं भगवतः स्तोत्रं सर्वे प्रचेतसः। जपन्तस्ते तपस्तेपुर्वर्षाणामयुतं जले ॥२॥ प्राचीनबर्हिषं क्षत्तः कर्मस्वासक्तमानसम्। नारदोऽध्यात्मतत्त्वज्ञः कृपालुः प्रत्यबोधयत् ॥३॥ श्रेयस्त्वं कतमद्राजन् कर्मणाऽऽत्मन ईहसे। दुःखहानिः सुखावाप्तिः श्रेयस्तन्नेह चेष्यते ॥४॥ राजोवाच न जानामि महाभाग परं कर्मापविद्धधीः। ब्रूहि मे विमलं ज्ञानं येन मुच्येय कर्मभिः ॥५॥ गृहेषु कूटधर्मेषु पुत्रदारधनार्थधीः। न परं विन्दते मूढो भ्राम्यन् संसारवर्त्मसु ॥६॥ नारद उवाच भो भोः प्रजापते राजन् पशून् पश्य त्वयाध्वरे। संज्ञापिताञ्जीवसङ्घान् निर्घृणेन सहस्रशः ॥७॥ एते त्वां सम्प्रतीक्षन्ते स्मरन्तो वैशसं तव। सम्परेतमयःकूटैश्छिन्दन्त्युत्थितमन्यवः ॥८॥ अत्र ते कथयिष्येऽमुमितिहासं पुरातनम्। पुरञ्जनस्य चरितं निबोध गदतो मम ॥९॥ आसीत्पुरञ्जनो नाम राजा राजन् बृहच्छ्रवाः। तस्याविज्ञातनामाऽऽसीत्सखाविज्ञातचेष्टितः ॥१०॥ सोऽन्वेषमाणः शरणं बभ्राम पृथिवीं प्रभुः। नानुरूपं यदाविन्ददभूत्स विमना इव ॥११॥ न साधु मेने ताः सर्वा भूतले यावतीः पुरः। कामान् कामयमानोऽसौ तस्य तस्योपपत्तये ॥१२॥ स एकदा हिमवतो दक्षिणेष्वथ सानुषु। ददर्श नवभिर्द्वार्भिः पुरं लक्षितलक्षणाम् ॥१३॥ प्राकारोपवनाट्टालपरिखैरक्षतोरणैः। स्वर्णरौप्यायसैः शृङ्गैः सङ्कुलां सर्वतो गृहैः ॥१४॥ नीलस्फटिकवैदूर्यमुक्तामरकतारुणैः। कॢप्तहर्म्यस्थलीं दीप्तां श्रिया भोगवतीमिव ॥१५॥ सभाचत्वररथ्याभिराक्रीडायतनापणैः। चैत्यध्वजपताकाभिर्युक्तां विद्रुमवेदिभिः ॥१६॥ पुर्यास्तु बाह्योपवने दिव्यद्रुमलताकुले। नदद्विहङ्गालिकुलकोलाहलजलाशये ॥१७॥ हिमनिर्झरविप्रुष्मत्कुसुमाकरवायुना। चलत्प्रवालविटपनलिनीतटसम्पदि ॥१८॥ नानारण्यमृगव्रातैरनाबाधे मुनिव्रतैः। आहूतं मन्यते पान्थो यत्र कोकिलकूजितैः ॥१९॥ यदृच्छयाऽऽगतां तत्र ददर्श प्रमदोत्तमाम्। भृत्यैर्दशभिरायान्तीमेकैकशतनायकैः ॥२०॥ पञ्चशीर्षाहिना गुप्तां प्रतीहारेण सर्वतः। अन्वेषमाणामृषभमप्रौढां कामरूपिणीम् ॥२१॥ सुनासां सुदतीं बालां सुकपोलां वराननाम्। समविन्यस्तकर्णाभ्यां बिभ्रतीं कुण्डलश्रियम् ॥२२॥ पिशङ्गनीवीं सुश्रोणीं श्यामां कनकमेखलाम्। पद्भ्यां क्वणद्भ्यां चलतीं नूपुरैर्देवतामिव ॥२३॥ स्तनौ व्यञ्जितकैशोरौ समवृत्तौ निरन्तरौ। वस्त्रान्तेन निगूहन्तीं व्रीडया गजगामिनीम् ॥२४॥ तामाह ललितं वीरः सव्रीडस्मितशोभनाम्। स्निग्धेनापाङ्गपुङ्खेन स्पृष्टः प्रेमोद्भ्रमद्भ्रुवा ॥२५॥ का त्वं कञ्जपलाशाक्षि कस्यासीह कुतः सति। इमामुप पुरीं भीरु किं चिकीर्षसि शंस मे ॥२६॥ क एतेऽनुपथा ये त एकादश महाभटाः। एता वा ललनाः सुभ्रु कोऽयं तेऽहिः पुरःसरः ॥२७॥ त्वं ह्रीर्भवान्यस्यथवाग्रमा पतिं विचिन्वती किं मुनिवद्रहो वने। त्वदङ्घ्रिकामाप्तसमस्तकामं क्व पद्मकोशः पतितः कराग्रात् ॥२८॥ नासां वरोर्वन्यतमा भुविस्पृक् पुरीमिमां वीरवरेण साकम्। अर्हस्यलङ्कर्तुमदभ्रकर्मणा लोकं परं श्रीरिव यज्ञपुंसा ॥२९॥ यदेष मापाङ्गविखण्डितेन्द्रियं सव्रीडभावस्मितविभ्रमद्भ्रुवा। त्वयोपसृष्टो भगवान् मनोभवः प्रबाधतेऽथानुगृहाण शोभने ॥३०॥ त्वदाननं सुभ्रु सुतारलोचनं व्यालम्बि नीलालकवृन्दसंवृतम्। उन्नीय मे दर्शय वल्गु वाचकं यद्व्रीडया नाभिमुखं शुचिस्मिते ॥३१॥ नारद उवाच इत्थं पुरञ्जनं नारी याचमानमधीरवत्। अभ्यनन्दत तं वीरं हसन्ती वीरमोहिता ॥३२॥ न विदाम वयं सम्यक्कर्तारं पुरुषर्षभ। आत्मनश्च परस्यापि गोत्रं नाम च यत्कृतम् ॥३३॥ इहाद्य सन्तमात्मानं विदाम न ततः परम्। येनेयं निर्मिता वीर पुरी शरणमात्मनः ॥३४॥ एते सखायः सख्यो मे नरा नार्यश्च मानद। सुप्तायां मयि जागर्ति नागोऽयं पालयन् पुरीम् ॥३५॥ दिष्ट्याऽऽगतोऽसि भद्रं ते ग्राम्यान् कामानभीप्ससे। उद्वहिष्यामि तांस्तेऽहं स्वबन्धुभिररिन्दम ॥३६॥ इमां त्वमधितिष्ठस्व पुरीं नवमुखीं विभो। मयोपनीतान् गृह्णानः कामभोगान् शतं समाः ॥३७॥ कं नु त्वदन्यं रमये ह्यरतिज्ञमकोविदम्। असम्परायाभिमुखमश्वस्तनविदं पशुम् ॥३८॥ धर्मो ह्यत्रार्थकामौ च प्रजानन्दोऽमृतं यशः। लोका विशोका विरजा यान्न केवलिनो विदुः ॥३९॥ पितृदेवर्षिमर्त्यानां भूतानामात्मनश्च ह। क्षेम्यं वदन्ति शरणं भवेऽस्मिन् यद्गृहाश्रमः ॥४०॥ का नाम वीर विख्यातं वदान्यं प्रियदर्शनम्। न वृणीत प्रियं प्राप्तं मादृशी त्वादृशं पतिम् ॥४१॥ कस्या मनस्ते भुवि भोगिभोगयोः स्त्रिया न सज्जेद्भुजयोर्महाभुज। योऽनाथवर्गाधिमलं घृणोद्धत- स्मितावलोकेन चरत्यपोहितुम् ॥४२॥ नारद उवाच इति तौ दम्पती तत्र समुद्य समयं मिथः। तां प्रविश्य पुरीं राजन् मुमुदाते शतं समाः ॥४३॥ उपगीयमानो ललितं तत्र तत्र च गायकैः। क्रीडन् परिवृतः स्त्रीभिर्ह्रदिनीमाविशच्छुचौ ॥४४॥ सप्तोपरि कृता द्वारः पुरस्तस्यास्तु द्वे अधः। पृथग्विषयगत्यर्थं तस्यां यः कश्चनेश्वरः ॥४५॥ पञ्चद्वारस्तु पौरस्त्या दक्षिणैका तथोत्तरा। पश्चिमे द्वे अमूषां ते नामानि नृप वर्णये ॥४६॥ खद्योताविर्मुखी च प्राग्द्वारावेकत्र निर्मिते। विभ्राजितं जनपदं याति ताभ्यां द्युमत्सखः ॥४७॥ नलिनी नालिनी च प्राग्द्वारावेकत्र निर्मिते। अवधूतसखस्ताभ्यां विषयं याति सौरभम् ॥४८॥ मुख्या नाम पुरस्ताद्द्वास्तयापणबहूदनौ। विषयौ याति पुरराड्रसज्ञविपणान्वितः ॥४९॥ पितृहूर्नृप पुर्या द्वार्दक्षिणेन पुरञ्जनः। राष्ट्रं दक्षिणपञ्चालं याति श्रुतधरान्वितः ॥५०॥ देवहूर्नाम पुर्या द्वा उत्तरेण पुरञ्जनः। राष्ट्रमुत्तरपञ्चालं याति श्रुतधरान्वितः ॥५१॥ आसुरी नाम पश्चाद्द्वास्तया याति पुरञ्जनः। ग्रामकं नाम विषयं दुर्मदेन समन्वितः ॥५२॥ निरृतिर्नाम पश्चाद्द्वास्तया याति पुरञ्जनः। वैशसं नाम विषयं लुब्धकेन समन्वितः ॥५३॥ अन्धावमीषां पौराणां निर्वाक्पेशस्कृतावुभौ। अक्षण्वतामधिपतिस्ताभ्यां याति करोति च ॥५४॥ स यर्ह्यन्तःपुरगतो विषूचीनसमन्वितः। मोहं प्रसादं हर्षं वा याति जायात्मजोद्भवम् ॥५५॥ एवं कर्मसु संसक्तः कामात्मा वञ्चितोऽबुधः। महिषी यद्यदीहेत तत्तदेवान्ववर्तत ॥५६॥ क्वचित्पिबन्त्यां पिबति मदिरां मदविह्वलः। अश्नन्त्यां क्वचिदश्नाति जक्षत्यां सह जक्षिति ॥५७॥ क्वचिद्गायति गायन्त्यां रुदत्यां रुदति क्वचित्। क्वचिद्धसन्त्यां हसति जल्पन्त्यामनु जल्पति ॥५८॥ क्वचिद्धावति धावन्त्यां तिष्ठन्त्यामनु तिष्ठति। अनु शेते शयानायामन्वास्ते क्वचिदासतीम् ॥५९॥ क्वचिच्छृणोति शृण्वन्त्यां पश्यन्त्यामनु पश्यति। क्वचिज्जिघ्रति जिघ्रन्त्यां स्पृशन्त्यां स्पृशति क्वचित् ॥६०॥ क्वचिच्च शोचतीं जायामनु शोचति दीनवत्। अनु हृष्यति हृष्यन्त्यां मुदितामनु मोदते ॥६१॥ विप्रलब्धो महिष्यैवं सर्वप्रकृतिवञ्चितः। नेच्छन्ननुकरोत्यज्ञः क्लैब्यात्क्रीडामृगो यथा ॥६२॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे पुरञ्जनोपाख्याने पञ्चविंशोऽध्यायः ॥२५॥

॥ षड्विंशोऽध्यायः - २६ ॥

नारद उवाच स एकदा महेष्वासो रथं पञ्चाश्वमाशुगम्। द्वीषं द्विचक्रमेकाक्षं त्रिवेणुं पञ्चबन्धुरम् ॥१॥ एकरश्म्येकदमनमेकनीडं द्विकूबरम्। पञ्चप्रहरणं सप्तवरूथं पञ्चविक्रमम् ॥२॥ हैमोपस्करमारुह्य स्वर्णवर्माक्षयेषुधिः। एकादशचमूनाथः पञ्चप्रस्थमगाद्वनम् ॥३॥ चचार मृगयां तत्र दृप्त आत्तेषुकार्मुकः। विहाय जायामतदर्हां मृगव्यसनलालसः ॥४॥ आसुरीं वृत्तिमाश्रित्य घोरात्मा निरनुग्रहः। न्यहनन्निशितैर्बाणैर्वनेषु वनगोचरान् ॥५॥ तीर्थेषु प्रतिदृष्टेषु राजा मेध्यान् पशून् वने। यावदर्थमलं लुब्धो हन्यादिति नियम्यते ॥६॥ य एवं कर्म नियतं विद्वान् कुर्वीत मानवः। कर्मणा तेन राजेन्द्र ज्ञानेन न स लिप्यते ॥७॥ अन्यथा कर्म कुर्वाणो मानारूढो निबध्यते। गुणप्रवाहपतितो नष्टप्रज्ञो व्रजत्यधः ॥८॥ तत्र निर्भिन्नगात्राणां चित्रवाजैः शिलीमुखैः। विप्लवोऽभूद्दुःखितानां दुःसहः करुणात्मनाम् ॥९॥ शशान् वराहान् महिषान् गवयान् रुरुशल्यकान्। मेध्यानन्यांश्च विविधान् विनिघ्नन् श्रममध्यगात्॥१०॥ ततः क्षुत्तृट् परिश्रान्तो निवृत्तो गृहमेयिवान्। कृतस्नानोचिताहारः संविवेश गतक्लमः ॥११॥ आत्मानमर्हयांचक्रे धूपालेपस्रगादिभिः। साध्वलङ्कृतसर्वाङ्गो महिष्यामादधे मनः ॥१२॥ तृप्तो हृष्टः सुदृप्तश्च कन्दर्पाकृष्टमानसः। न व्यचष्ट वरारोहां गृहिणीं गृहमेधिनीम् ॥१३॥ अन्तःपुरस्त्रियोऽपृच्छद्विमना इव वेदिषत्। अपि वः कुशलं रामाः सेश्वरीणां यथा पुरा ॥१४॥ न तथैतर्हि रोचन्ते गृहेषु गृहसम्पदः। यदि न स्याद्गृहे माता पत्नी वा पतिदेवता। व्यङ्गे रथ इव प्राज्ञः को नामासीत दीनवत् ॥१५॥ क्व वर्तते सा ललना मज्जन्तं व्यसनार्णवे। या मामुद्धरते प्रज्ञां दीपयन्ती पदे पदे ॥१६॥ रामा ऊचुः नरनाथ न जानीमस्त्वत्प्रिया यद्व्यवस्यति। भूतले निरवस्तारे शयानां पश्य शत्रुहन् ॥१७॥ नारद उवाच पुरञ्जनः स्वमहिषीं निरीक्ष्यावधुतां भुवि। तत्सङ्गोन्मथितज्ञानो वैक्लव्यं परमं ययौ ॥१८॥ सान्त्वयन् श्लक्ष्णया वाचा हृदयेन विदूयता। प्रेयस्याः स्नेहसंरम्भलिङ्गमात्मनि नाभ्यगात् ॥१९॥ अनुनिन्येऽथ शनकैर्वीरोऽनुनयकोविदः। पस्पर्श पादयुगलमाह चोत्सङ्गलालिताम् ॥२०॥ पुरञ्जन उवाच नूनं त्वकृतपुण्यास्ते भृत्या येष्वीश्वराः शुभे। कृतागःस्वात्मसात्कृत्वा शिक्षा दण्डं न युञ्जते॥२१॥ परमोऽनुग्रहो दण्डो भृत्येषु प्रभुणार्पितः। बालो न वेद तत्तन्वि बन्धुकृत्यममर्षणः ॥२२॥ सा त्वं मुखं सुदति सुभ्र्वनुरागभार- व्रीडाविलम्बविलसद्धसितावलोकम्। नीलालकालिभिरुपस्कृतमुन्नसं नः स्वानां प्रदर्शय मनस्विनि वल्गु वाक्यम् ॥२३॥ तस्मिन् दधे दममहं तव वीरपत्नि योऽन्यत्र भूसुरकुलात्कृतकिल्बिषस्तम्। पश्ये न वीतभयमुन्मुदितं त्रिलोक्यामन्यत्र वै मुररिपोरितरत्र दासात् ॥२४॥ वक्त्रं न ते वितिलकं मलिनं विहर्षं संरम्भभीममविमृष्टमपेतरागम्। पश्ये स्तनावपि शुचोपहतौ सुजातौ बिम्बाधरं विगतकुङ्कुमपङ्करागम् ॥२५॥ तन्मे प्रसीद सुहृदः कृतकिल्बिषस्य स्वैरं गतस्य मृगयां व्यसनातुरस्य। का देवरं वशगतं कुसुमास्त्रवेग- विस्रस्तपौंस्नमुशती न भजेत कृत्ये ॥२६॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे पुरञ्जनोपाख्याने षड्विंशोऽध्यायः ॥२६॥

॥ सप्तविंशोऽध्यायः - २७ ॥

नारद उवाच इत्थं पुरञ्जनं सध्र्यग् वशमानीय विभ्रमैः। पुरञ्जनी महाराज रेमे रमयती पतिम् ॥१॥ स राजा महिषीं राजन् सुस्नातां रुचिराननाम्। कृतस्वस्त्ययनां तृप्तामभ्यनन्ददुपागताम् ॥२॥ तयोपगूढः परिरब्धकन्धरो रहोऽनुमन्त्रैरपकृष्टचेतनः। न कालरंहो बुबुधे दुरत्ययं दिवानिशेति प्रमदापरिग्रहः ॥३॥ शयान उन्नद्धमदो महामना महार्हतल्पे महिषीभुजोपधिः। तामेव वीरो मनुते परं यत- स्तमोऽभिभूतो न निजं परं च यत् ॥४॥ तयैवं रममाणस्य कामकश्मलचेतसः। क्षणार्धमिव राजेन्द्र व्यतिक्रान्तं नवं वयः ॥५॥ तस्यामजनयत्पुत्रान् पुरञ्जन्यां पुरञ्जनः। शतान्येकादश विराडायुषोऽर्धमथात्यगात् ॥६॥ दुहितॄर्दशोत्तरशतं पितृमातृयशस्करीः। शीलौदार्यगुणोपेताः पौरञ्जन्यः प्रजापते ॥७॥ स पञ्चालपतिः पुत्रान् पितृवंशविवर्धनान्। दारैः संयोजयामास दुहितॄः सदृशैर्वरैः ॥८॥ पुत्राणां चाभवन् पुत्रा एकैकस्य शतं शतम्। यैर्वै पौरञ्जनो वंशः पञ्चालेषु समेधितः ॥९॥ तेषु तद्रिक्थहारेषु गृहकोशानुजीविषु। निरूढेन ममत्वेन विषयेष्वन्वबध्यत ॥१०॥ ईजे च क्रतुभिर्घोरैर्दीक्षितः पशुमारकैः। देवान् पितॄन् भूतपतीन् नानाकामो यथा भवान् ॥११॥ युक्तेष्वेवं प्रमत्तस्य कुटुम्बासक्तचेतसः। आससाद स वै कालो योऽप्रियः प्रिययोषिताम् ॥१२॥ चण्डवेग इति ख्यातो गन्धर्वाधिपतिर्नृप। गन्धर्वास्तस्य बलिनः षष्ट्युत्तरशतत्रयम् ॥१३॥ गन्धर्व्यस्तादृशीरस्य मैथुन्यश्च सितासिताः। परिवृत्त्या विलुम्पन्ति सर्वकामविनिर्मिताम् ॥१४॥ ते चण्डवेगानुचराः पुरञ्जनपुरं यदा। हर्तुमारेभिरे तत्र प्रत्यषेधत्प्रजागरः ॥१५॥ स सप्तभिः शतैरेको विंशत्या च शतं समाः। पुरञ्जनपुराध्यक्षो गन्धर्वैर्युयुधे बली ॥१६॥ क्षीयमाणे स्वसम्बन्धे एकस्मिन् बहुभिर्युधा। चिन्तां परां जगामार्तः स राष्ट्रपुरबान्धवः ॥१७॥ स एव पुर्यां मधुभुक् पञ्चालेषु स्वपार्षदैः। उपनीतं बलिं गृह्णन् स्त्रीजितो नाविदद्भयम् ॥१८॥ कालस्य दुहिता काचित्त्रिलोकीं वरमिच्छती। पर्यटन्ती न बर्हिष्मन् प्रत्यनन्दत कश्चन ॥१९॥ दौर्भाग्येनात्मनो लोके विश्रुता दुर्भगेति सा। या तुष्टा राजर्षये तु वृतादात्पूरवे वरम् ॥२०॥ कदाचिदटमाना सा ब्रह्मलोकान्महीं गतम्। वव्रे बृहद्व्रतं मां तु जानती काममोहिता ॥२१॥ मयि संरभ्य विपुलमदाच्छापं सुदुःसहम्। स्थातुमर्हसि नैकत्र मद्याच्ञाविमुखो मुने ॥२२॥ ततो विहतसङ्कल्पा कन्यका यवनेश्वरम्। मयोपदिष्टमासाद्य वव्रे नाम्ना भयं पतिम् ॥२३॥ ऋषभं यवनानां त्वां वृणे वीरेप्सितं पतिम्। सङ्कल्पस्त्वयि भूतानां कृतः किल न रिष्यति ॥२४॥ द्वाविमावनुशोचन्ति बालावसदवग्रहौ। यल्लोकशास्त्रोपनतं न राति न तदिच्छति ॥२५॥ अथो भजस्व मां भद्र भजन्तीं मे दयां कुरु। एतावान् पौरुषो धर्मो यदार्ताननुकम्पते ॥२६॥ कालकन्योदितवचो निशम्य यवनेश्वरः। चिकीर्षुर्देवगुह्यं स सस्मितं तामभाषत ॥२७॥ मया निरूपितस्तुभ्यं पतिरात्मसमाधिना। नाभिनन्दति लोकोऽयं त्वामभद्रामसम्मताम् ॥२८॥ त्वमव्यक्तगतिर्भुङ्क्ष्व लोकं कर्मविनिर्मितम्। या हि मे पृतना युक्ता प्रजानाशं प्रणेष्यसि ॥२९॥ प्रज्वारोऽयं मम भ्राता त्वं च मे भगिनी भव। चराम्युभाभ्यां लोकेऽस्मिन्नव्यक्तो भीमसैनिकः ॥३०॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे पुरञ्जनोपाख्याने सप्तविंशोऽध्यायः ॥२७॥

॥ अष्टाविंशोऽध्यायः - २८ ॥

नारद उवाच सैनिका भयनाम्नो ये बर्हिष्मन् दिष्टकारिणः। प्रज्वारकालकन्याभ्यां विचेरुरवनीमिमाम् ॥१॥ त एकदा तु रभसा पुरञ्जनपुरीं नृप। रुरुधुर्भौमभोगाढ्यां जरत्पन्नगपालिताम् ॥२॥ कालकन्यापि बुभुजे पुरञ्जनपुरं बलात्। ययाभिभूतः पुरुषः सद्यो निःसारतामियात् ॥३॥ तयोपभुज्यमानां वै यवनाः सर्वतोदिशम्। द्वार्भिः प्रविश्य सुभृशं प्रार्दयन् सकलां पुरीम् ॥४॥ तस्यां प्रपीड्यमानायामभिमानी पुरञ्जनः। अवापोरुविधांस्तापान् कुटुम्बी ममताऽऽकुलः॥५॥ कन्योपगूढो नष्टश्रीः कृपणो विषयात्मकः। नष्टप्रज्ञो हृतैश्वर्यो गन्धर्वयवनैर्बलात् ॥६॥ विशीर्णां स्वपुरीं वीक्ष्य प्रतिकूलाननादृतान्। पुत्रान् पौत्रानुगामात्यान् जायां च गतसौहृदाम् ॥७॥ आत्मानं कन्यया ग्रस्तं पञ्चालानरिदूषितान्। दुरन्तचिन्तामापन्नो न लेभे तत्प्रतिक्रियाम् ॥८॥ कामानभिलषन् दीनो यातयामांश्च कन्यया। विगतात्मगतिस्नेहः पुत्रदारांश्च लालयन् ॥९॥ गन्धर्वयवनाक्रान्तां कालकन्योपमर्दिताम्। हातुं प्रचक्रमे राजा तां पुरीमनिकामतः ॥१०॥ भयनाम्नोऽग्रजो भ्राता प्रज्वारः प्रत्युपस्थितः। ददाह तां पुरीं कृत्स्नां भ्रातुः प्रियचिकीर्षया ॥११॥ तस्यां सन्दह्यमानायां सपौरः सपरिच्छदः। कौटुम्बिकः कुटुम्बिन्या उपातप्यत सान्वयः ॥१२॥ यवनोपरुद्धायतनो ग्रस्तायां कालकन्यया। पुर्यां प्रज्वारसंसृष्टः पुरपालोऽन्वतप्यत ॥१३॥ न शेके सोऽवितुं तत्र पुरुकृच्छ्रोरुवेपथुः। गन्तुमैच्छत्ततो वृक्षकोटरादिव सानलात् ॥१४॥ शिथिलावयवो यर्हि गन्धर्वैर्हृतपौरुषः। यवनैररिभी राजन्नुपरुद्धो रुरोद ह ॥१५॥ दुहितॄः पुत्रपौत्रांश्च जामिजामातृपार्षदान्। स्वत्वावशिष्टं यत्किञ्चिद्गृहकोशपरिच्छदम् ॥१६॥ अहं ममेति स्वीकृत्य गृहेषु कुमतिर्गृही। दध्यौ प्रमदया दीनो विप्रयोग उपस्थिते ॥१७॥ लोकान्तरं गतवति मय्यनाथा कुटुम्बिनी। वर्तिष्यते कथं त्वेषा बालकाननुशोचती ॥१८॥ न मय्यनाशिते भुङ्क्ते नास्नाते स्नाति मत्परा। मयि रुष्टे सुसन्त्रस्ता भर्त्सिते यतवाग्भयात् ॥१९॥ प्रबोधयति माविज्ञं व्युषिते शोककर्शिता। वर्त्मैतद्गृहमेधीयं वीरसूरपि नेष्यति ॥२०॥ कथं नु दारका दीना दारकीर्वापरायणाः। वर्तिष्यन्ते मयि गते भिन्ननाव इवोदधौ ॥२१॥ एवं कृपणया बुद्ध्या शोचन्तमतदर्हणम्। ग्रहीतुं कृतधीरेनं भयनामाभ्यपद्यत ॥२२॥ पशुवद्यवनैरेष नीयमानः स्वकं क्षयम्। अन्वद्रवन्ननुपथाः शोचन्तो भृशमातुराः ॥२३॥ पुरीं विहायोपगत उपरुद्धो भुजङ्गमः। यदा तमेवानु पुरी विशीर्णा प्रकृतिं गता ॥२४॥ विकृष्यमाणः प्रसभं यवनेन बलीयसा। नाविन्दत्तमसाऽऽविष्टः सखायं सुहृदं पुरः ॥२५॥ तं यज्ञपशवोऽनेन संज्ञप्ता येऽदयालुना। कुठारैश्चिच्छिदुः क्रुद्धाः स्मरन्तोऽमीवमस्य तत्॥२६॥ अनन्तपारे तमसि मग्नो नष्टस्मृतिः समाः। शाश्वतीरनुभूयार्तिं प्रमदासङ्गदूषितः ॥२७॥ तामेव मनसा गृह्णन् बभूव प्रमदोत्तमा। अनन्तरं विदर्भस्य राजसिंहस्य वेश्मनि ॥२८॥ उपयेमे वीर्यपणां वैदर्भीं मलयध्वजः। युधि निर्जित्य राजन्यान् पाण्ड्यः परपुरञ्जयः ॥२९॥ तस्यां स जनयांचक्र आत्मजामसितेक्षणाम्। यवीयसः सप्त सुतान् सप्त द्रविडभूभृतः ॥३०॥ एकैकस्याभवत्तेषां राजन्नर्बुदमर्बुदम्। भोक्ष्यते यद्वंशधरैर्मही मन्वन्तरं परम् ॥३१॥ अगस्त्यः प्राग्दुहितरमुपयेमे धृतव्रताम्। यस्यां दृढच्युतो जात इध्मवाहात्मजो मुनिः ॥३२॥ विभज्य तनयेभ्यः क्ष्मां राजर्षिर्मलयध्वजः। आरिराधयिषुः कृष्णं स जगाम कुलाचलम् ॥३३॥ हित्वा गृहान् सुतान् भोगान् वैदर्भी मदिरेक्षणा। अन्वधावत पाण्ड्येशं ज्योत्स्नेव रजनीकरम् ॥३४॥ तत्र चन्द्रवसा नाम ताम्रपर्णी वटोदका। तत्पुण्यसलिलैर्नित्यमुभयत्रात्मनो मृजन् ॥३५॥ कन्दाष्टिभिर्मूलफलैः पुष्पपर्णैस्तृणोदकैः। वर्तमानः शनैर्गात्रकर्शनं तप आस्थितः ॥३६॥ शीतोष्णवातवर्षाणि क्षुत्पिपासे प्रियाप्रिये। सुखदुःखे इति द्वन्द्वान्यजयत्समदर्शनः ॥३७॥ तपसा विद्यया पक्वकषायो नियमैर्यमैः। युयुजे ब्रह्मण्यात्मानं विजिताक्षानिलाशयः ॥३८॥ आस्ते स्थाणुरिवैकत्र दिव्यं वर्षशतं स्थिरः। वासुदेवे भगवति नान्यद्वेदोद्वहन् रतिम् ॥३९॥ स व्यापकतयाऽऽत्मानं व्यतिरिक्ततयाऽऽत्मनि। विद्वान् स्वप्न इवामर्शसाक्षिणं विरराम ह ॥४०॥ साक्षाद्भगवतोक्तेन गुरुणा हरिणा नृप। विशुद्धज्ञानदीपेन स्फुरता विश्वतोमुखम् ॥४१॥ परे ब्रह्मणि चात्मानं परं ब्रह्म तथाऽऽत्मनि। वीक्षमाणो विहायेक्षामस्मादुपरराम ह ॥४२॥ पतिं परमधर्मज्ञं वैदर्भी मलयध्वजम्। प्रेम्णा पर्यचरद्धित्वा भोगान् सा पतिदेवता ॥४३॥ चीरवासा व्रतक्षामा वेणीभूतशिरोरुहा। बभावुप पतिं शान्ता शिखा शान्तमिवानलम् ॥४४॥ अजानती प्रियतमं यदोपरतमङ्गना। सुस्थिरासनमासाद्य यथापूर्वमुपाचरत् ॥४५॥ यदा नोपलभेताङ्घ्रावूष्माणं पत्युरर्चती। आसीत्संविग्नहृदया यूथभ्रष्टा मृगी यथा ॥४६॥ आत्मानं शोचती दीनमबन्धुं विक्लवाश्रुभिः। स्तनावासिच्य विपिने सुस्वरं प्ररुरोद सा ॥४७॥ उत्तिष्ठोत्तिष्ठ राजर्षे इमामुदधिमेखलाम्। दस्युभ्यः क्षत्रबन्धुभ्यो बिभ्यतीं पातुमर्हसि ॥४८॥ एवं विलपती बाला विपिनेऽनुगता पतिम्। पतिता पादयोर्भर्तू रुदत्यश्रूण्यवर्तयत् ॥४९॥ चितिं दारुमयीं चित्वा तस्यां पत्युः कलेवरम्। आदीप्य चानुमरणे विलपन्ती मनो दधे ॥५०॥ तत्र पूर्वतरः कश्चित्सखा ब्राह्मण आत्मवान्। सान्त्वयन् वल्गुना साम्ना तामाह रुदतीं प्रभो ॥५१॥ ब्राह्मण उवाच का त्वं कस्यासि को वायं शयानो यस्य शोचसि। जानासि किं सखायं मां येनाग्रे विचचर्थ ह ॥५२॥ अपि स्मरसि चात्मानमविज्ञातसखं सखे। हित्वा मां पदमन्विच्छन् भौमभोगरतो गतः ॥५३॥ हंसावहं च त्वं चार्य सखायौ मानसायनौ। अभूतामन्तरा वौकः सहस्रपरिवत्सरान् ॥५४॥ स त्वं विहाय मां बन्धो गतो ग्राम्यमतिर्महीम्। विचरन् पदमद्राक्षीः कयाचिन्निर्मितं स्त्रिया ॥५५॥ पञ्चारामं नवद्वारमेकपालं त्रिकोष्ठकम्। षट्कुलं पञ्चविपणं पञ्चप्रकृति स्त्रीधवम् ॥५६॥ पञ्चेन्द्रियार्था आरामा द्वारः प्राणा नव प्रभो। तेजोऽबन्नानि कोष्ठानि कुलमिन्द्रियसङ्ग्रहः ॥५७॥ विपणस्तु क्रिया शक्तिर्भूतप्रकृतिरव्यया। शक्त्यधीशः पुमांस्त्वत्र प्रविष्टो नावबुध्यते ॥५८॥ तस्मिंस्त्वं रामया स्पृष्टो रममाणोऽश्रुतस्मृतिः। तत्सङ्गादीदृशीं प्राप्तो दशां पापीयसीं प्रभो ॥५९॥ न त्वं विदर्भदुहिता नायं वीरः सुहृत्तव। न पतिस्त्वं पुरञ्जन्या रुद्धो नवमुखे यया ॥६०॥ माया ह्येषा मया सृष्टा यत्पुमांसं स्त्रियं सतीम्। मन्यसे नोभयं यद्वै हंसौ पश्यावयोर्गतिम् ॥६१॥ अहं भवान् न चान्यस्त्वं त्वमेवाहं विचक्ष्व भोः। न नौ पश्यन्ति कवयश्छिद्रं जातु मनागपि ॥६२॥ यथा पुरुष आत्मानमेकमादर्शचक्षुषोः। द्विधाभूतमवेक्षेत तथैवान्तरमावयोः ॥६३॥ एवं स मानसो हंसो हंसेन प्रतिबोधितः। स्वस्थस्तद्व्यभिचारेण नष्टामाप पुनः स्मृतिम् ॥६४॥ बर्हिष्मन्नेतदध्यात्मं पारोक्ष्येण प्रदर्शितम्। यत्परोक्षप्रियो देवो भगवान् विश्वभावनः ॥६५॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे पुरञ्जनोपाख्याने अष्टाविंशोऽध्यायः ॥२८॥

॥ एकोनत्रिंशोऽध्यायः - २९ ॥

प्राचीनबर्हिरुवाच भगवंस्ते वचोऽस्माभिर्न सम्यगवगम्यते। कवयस्तद्विजानन्ति न वयं कर्ममोहिताः ॥१॥ नारद उवाच पुरुषं पुरञ्जनं विद्याद्यद्व्यनक्त्यात्मनः पुरम्। एकद्वित्रिचतुष्पादं बहु पादमपादकम् ॥२॥ योऽविज्ञाताहृतस्तस्य पुरुषस्य सखेश्वरः। यन्न विज्ञायते पुम्भिर्नामभिर्वा क्रियागुणैः ॥३॥ यदा जिघृक्षन् पुरुषः कार्त्स्न्येन प्रकृतेर्गुणान्। नवद्वारं द्विहस्ताङ्घ्रि तत्रामनुत साध्विति ॥४॥ बुद्धिं तु प्रमदां विद्यान्ममाहमिति यत्कृतम्। यामधिष्ठाय देहेऽस्मिन् पुमान् भुङ्क्तेऽक्षभिर्गुणान् ॥५॥ सखाय इन्द्रियगणा ज्ञानं कर्म च यत्कृतम्। सख्यस्तद्वृत्तयः प्राणः पञ्चवृत्तिर्यथोरगः ॥६॥ बृहद्बलं मनो विद्यादुभयेन्द्रियनायकम्। पञ्चालाः पञ्चविषया यन्मध्ये नव खं पुरम् ॥७॥ अक्षिणी नासिके कर्णौ मुखं शिश्नगुदाविति। द्वे द्वे द्वारौ बहिर्याति यस्तदिन्द्रियसंयुतः ॥८॥ अक्षिणी नासिके आस्यमिति पञ्च पुरः कृताः। दक्षिणा दक्षिणः कर्ण उत्तरा चोत्तरः स्मृतः ॥९॥ पश्चिमे इत्यधो द्वारौ गुदं शिश्नमिहोच्यते। खद्योताविर्मुखी चात्र नेत्रे एकत्र निर्मिते। रूपं विभ्राजितं ताभ्यां विचष्टे चक्षुषेश्वरः ॥१०॥ नलिनी नालिनी नासे गन्धः सौरभ उच्यते। घ्राणोऽवधूतो मुख्यास्यं विपणो वाग्रसविद्रसः॥११॥ आपणो व्यवहारोऽत्र चित्रमन्धो बहूदनम्। पितृहूर्दक्षिणः कर्ण उत्तरो देवहूः स्मृतः ॥१२॥ प्रवृत्तं च निवृत्तं च शास्त्रं पञ्चालसंज्ञितम्। पितृयानं देवयानं श्रोत्राच्छ्रुतधराद्व्रजेत् ॥१३॥ आसुरी मेढ्रमर्वाग्द्वार्व्यवायो ग्रामिणां रतिः। उपस्थो दुर्मदः प्रोक्तो निरृतिर्गुद उच्यते ॥१४॥ वैशसं नरकं पायुर्लुब्धकोऽन्धौ तु मे शृणु। हस्तपादौ पुमांस्ताभ्यां युक्तो याति करोति च ॥१५॥ अन्तःपुरं च हृदयं विषूचिर्मन उच्यते। तत्र मोहं प्रसादं वा हर्षं प्राप्नोति तद्गुणैः ॥१६॥ यथा यथा विक्रियते गुणाक्तो विकरोति वा। तथा तथोपद्रष्टाऽऽत्मा तद्वृत्तीरनुकार्यते ॥१७॥ देहो रथस्त्विन्द्रियाश्वः संवत्सररयोऽगतिः। द्विकर्मचक्रस्त्रिगुणध्वजः पञ्चासुबन्धुरः ॥१८॥ मनोरश्मिर्बुद्धिसूतो हृन्नीडो द्वन्द्वकूबरः। पञ्चेन्द्रियार्थप्रक्षेपः सप्तधातुवरूथकः ॥१९॥ आकूतिर्विक्रमो बाह्यो मृगतृष्णां प्रधावति। एकादशेन्द्रियचमूः पञ्चसूना विनोदकृत् ॥२०॥ संवत्सरश्चण्डवेगः कालो येनोपलक्षितः। तस्याहानीह गन्धर्वा गन्धर्व्यो रात्रयः स्मृताः। हरन्त्यायुः परिक्रान्त्या षष्ट्युत्तरशतत्रयम् ॥२१॥ कालकन्या जरा साक्षाल्लोकस्तां नाभिनन्दति। स्वसारं जगृहे मृत्युः क्षयाय यवनेश्वरः ॥२२॥ आधयो व्याधयस्तस्य सैनिका यवनाश्चराः। भूतोपसर्गाशुरयः प्रज्वारो द्विविधो ज्वरः ॥२३॥ एवं बहुविधैर्दुःखैर्दैवभूतात्मसम्भवैः। क्लिश्यमानः शतं वर्षं देहे देही तमोवृतः ॥२४॥ प्राणेन्द्रियमनोधर्मानात्मन्यध्यस्य निर्गुणः। शेते कामलवान् ध्यायन् ममाहमिति कर्मकृत्॥२५॥ यदात्मानमविज्ञाय भगवन्तं परं गुरुम्। पुरुषस्तु विषज्जेत गुणेषु प्रकृतेः स्वदृक् ॥२६॥ गुणाभिमानी स तदा कर्माणि कुरुतेऽवशः। शुक्लं कृष्णं लोहितं वा यथा कर्माभिजायते ॥२७॥ शुक्लात्प्रकाशभूयिष्ठान् लोकानाप्नोति कर्हिचित्। दुःखोदर्कान् क्रियायासांस्तमः शोकोत्कटान् क्वचित्॥२८॥ क्वचित्पुमान् क्वचिच्च स्त्री क्वचिन्नोभयमन्धधीः। देवो मनुष्यस्तिर्यग्वा यथा कर्मगुणं भवः ॥२९॥ क्षुत्परीतो यथा दीनः सारमेयो गृहं गृहम्। चरन् विन्दति यद्दिष्टं दण्डमोदनमेव वा ॥३०॥ तथा कामाशयो जीव उच्चावचपथा भ्रमन्। उपर्यधो वा मध्ये वा याति दिष्टं प्रियाप्रियम् ॥३१॥ दुःखेष्वेकतरेणापि दैवभूतात्महेतुषु। जीवस्य न व्यवच्छेदः स्याच्चेत्तत्तत्प्रतिक्रिया ॥३२॥ यथा हि पुरुषो भारं शिरसा गुरुमुद्वहन्। तं स्कन्धेन स आधत्ते तथा सर्वाः प्रतिक्रियाः ॥३३॥ नैकान्ततः प्रतीकारः कर्मणां कर्म केवलम्। द्वयं ह्यविद्योपसृतं स्वप्ने स्वप्न इवानघ ॥३४॥ अर्थे ह्यविद्यमानेऽपि संसृतिर्न निवर्तते। मनसा लिङ्गरूपेण स्वप्ने विचरतो यथा ॥३५॥ अथात्मनोऽर्थभूतस्य यतोऽनर्थपरम्परा। संसृतिस्तद्व्यवच्छेदो भक्त्या परमया गुरौ ॥३६॥ वासुदेवे भगवति भक्तियोगः समाहितः। सध्रीचीनेन वैराग्यं ज्ञानं च जनयिष्यति ॥३७॥ सोऽचिरादेव राजर्षे स्यादच्युतकथाश्रयः। शृण्वतः श्रद्दधानस्य नित्यदा स्यादधीयतः ॥३८॥ यत्र भागवता राजन् साधवो विशदाशयाः। भगवद्गुणानुकथनश्रवणव्यग्रचेतसः ॥३९॥ तस्मिन् महन्मुखरिता मधुभिच्चरित्र- पीयूषशेषसरितः परितः स्रवन्ति। ता ये पिबन्त्यवितृषो नृप गाढकर्णै- स्तान् न स्पृशन्त्यशनतृड्भयशोकमोहाः ॥४०॥ एतैरुपद्रुतो नित्यं जीवलोकः स्वभावजैः। न करोति हरेर्नूनं कथामृतनिधौ रतिम् ॥४१॥ प्रजापतिपतिः साक्षाद्भगवान् गिरिशो मनुः। दक्षादयः प्रजाध्यक्षा नैष्ठिकाः सनकादयः ॥४२॥ मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः। भृगुर्वसिष्ठ इत्येते मदन्ता ब्रह्मवादिनः ॥४३॥ अद्यापि वाचस्पतयस्तपोविद्यासमाधिभिः। पश्यन्तोऽपि न पश्यन्ति पश्यन्तं परमेश्वरम् ॥४४॥ शब्दब्रह्मणि दुष्पारे चरन्त उरु विस्तरे। मन्त्रलिङ्गैर्व्यवच्छिन्नं भजन्तो न विदुः परम् ॥४५॥ (सर्वेषामेव जन्तूनां सततं देहपोषणे। अस्ति प्रज्ञा समायत्ता को विशेषस्तदा नृणाम् ॥ लब्ध्वेहान्ते मनुष्यत्वं हित्वा देहाद्यसद्ग्रहम्। आत्मसृत्या विहायेदं जीवात्मा स विशिष्यते ॥) यदा यमनुगृह्णाति भगवानात्मभावितः। स जहाति मतिं लोके वेदे च परिनिष्ठिताम् ॥४६॥ तस्मात्कर्मसु बर्हिष्मन्नज्ञानादर्थकाशिषु। मार्थदृष्टिं कृथाः श्रोत्रस्पर्शिष्वस्पृष्टवस्तुषु ॥४७॥ स्वं लोकं न विदुस्ते वै यत्र देवो जनार्दनः। आहुर्धूम्रधियो वेदं सकर्मकमतद्विदः ॥४८॥ आस्तीर्य दर्भैः प्रागग्रैः कार्त्स्न्येन क्षितिमण्डलम्। स्तब्धो बृहद्वधान्मानी कर्म नावैषि यत्परम्। तत्कर्म हरितोषं यत्सा विद्या तन्मतिर्यया ॥४९॥ हरिर्देहभृतामात्मा स्वयं प्रकृतिरीश्वरः। तत्पादमूलं शरणं यतः क्षेमो नृणामिह ॥५०॥ स वै प्रियतमश्चात्मा यतो न भयमण्वपि। इति वेद स वै विद्वान् यो विद्वान् स गुरुर्हरिः ॥५१॥ नारद उवाच प्रश्न एवं हि सञ्छिन्नो भवतः पुरुषर्षभ। अत्र मे वदतो गुह्यं निशामय सुनिश्चितम् ॥५२॥ क्षुद्रं चरं सुमनसां शरणे मिथित्वा रक्तं षडङ्घ्रिगणसामसु लुब्धकर्णम् । अग्रे वृकानसुतृपोऽविगणय्य यान्तं पृष्ठे मृगं मृगयलुब्धकबाणभिन्नम् ॥५३॥ अस्यार्थः - सुमनः समधर्मणां स्त्रीणां शरण आश्रमे पुष्पमधुगन्धवत्क्षुद्रतमं काम्यकर्म- विपाकजं कामसुखलवं जैह्व्यौपस्थ्यादि विचिन्वन्तं मिथुनीभूय तदभिनिवेशितमनसं षडङ्घ्रिगणसामगीतवदतिमनोहरवनितादि जनालापेष्वतितरामतिप्रलोभितकर्णमग्रे वृकयूथवदात्मन आयुर्हरतोऽहोरात्रान् तान् काललवविशेषानविगणय्य गृहेषु विहरन्तं पृष्ठत एव परोक्षमनुप्रवृत्तो लुब्धकः कृतान्तोऽन्तः शरेण यमिह पराविध्यति तमिममात्मानमहो राजन् भिन्नहृदयं द्रष्टुमर्हसीति ॥५४॥ स त्वं विचक्ष्य मृगचेष्टितमात्मनोऽन्तश्चित्तं नियच्छ हृदि कर्णधुनीं च चित्ते । जह्यङ्गनाश्रममसत्तमयूथगाथं प्रीणीहि हंसशरणं विरम क्रमेण ॥५५॥ राजोवाच श्रुतमन्वीक्षितं ब्रह्मन् भगवान् यदभाषत। नैतज्जानन्त्युपाध्यायाः किं न ब्रूयुर्विदुर्यदि ॥५६॥ संशयोऽत्र तु मे विप्र सञ्छिन्नस्तत्कृतो महान्। ऋषयोऽपि हि मुह्यन्ति यत्र नेन्द्रियवृत्तयः ॥५७॥ कर्माण्यारभते येन पुमानिह विहाय तम्। अमुत्रान्येन देहेन जुष्टानि स यदश्नुते ॥५८॥ इति वेदविदां वादः श्रूयते तत्र तत्र ह। कर्म यत्क्रियते प्रोक्तं परोक्षं न प्रकाशते ॥५९॥ नारद उवाच येनैवारभते कर्म तेनैवामुत्र तत्पुमान्। भुङ्क्ते ह्यव्यवधानेन लिङ्गेन मनसा स्वयम् ॥६०॥ शयानमिममुत्सृज्य श्वसन्तं पुरुषो यथा। कर्मात्मन्याहितं भुङ्क्ते तादृशेनेतरेण वा ॥६१॥ ममैते मनसा यद्यदसावहमिति ब्रुवन्। गृह्णीयात्तत्पुमान् राद्धं कर्म येन पुनर्भवः ॥६२॥ यथानुमीयते चित्तमुभयैरिन्द्रियेहितैः। एवं प्राग्देहजं कर्म लक्ष्यते चित्तवृत्तिभिः ॥६३॥ नानुभूतं क्व चानेन देहेनादृष्टमश्रुतम्। कदाचिदुपलभ्येत यद्रूपं यादृगात्मनि ॥६४॥ तेनास्य तादृशं राजन् लिङ्गिनो देहसम्भवम्। श्रद्धत्स्वाननुभूतोऽर्थो न मनः स्प्रष्टुमर्हति ॥६५॥ मन एव मनुष्यस्य पूर्वरूपाणि शंसति। भविष्यतश्च भद्रं ते तथैव न भविष्यतः ॥६६॥ अदृष्टमश्रुतं चात्र क्वचिन्मनसि दृश्यते। यथा तथानुमन्तव्यं देशकालक्रियाश्रयम् ॥६७॥ सर्वे क्रमानुरोधेन मनसीन्द्रियगोचराः। आयान्ति वर्गशो यान्ति सर्वे समनसो जनाः ॥६८॥ सत्त्वैकनिष्ठे मनसि भगवत्पार्श्ववर्तिनि। तमश्चन्द्रमसीवेदमुपरज्यावभासते ॥६९॥ नाहं ममेति भावोऽयं पुरुषे व्यवधीयते। यावद्बुद्धिमनोऽक्षार्थगुणव्यूहो ह्यनादिमान् ॥७०॥ सुप्तिमूर्च्छोपतापेषु प्राणायनविघाततः। नेहतेऽहमिति ज्ञानं मृत्युप्रज्वारयोरपि ॥७१॥ गर्भे बाल्येऽप्यपौष्कल्यादेकादशविधं तदा। लिङ्गं न दृश्यते यूनः कुह्वां चन्द्रमसो यथा ॥७२॥ अर्थे ह्यविद्यमानेऽपि संसृतिर्न निवर्तते। ध्यायतो विषयानस्य स्वप्नेऽनर्थागमो यथा ॥७३॥ एवं पञ्चविधं लिङ्गं त्रिवृत्षोडशविस्तृतम्। एष चेतनया युक्तो जीव इत्यभिधीयते ॥७४॥ अनेन पुरुषो देहानुपादत्ते विमुञ्चति। हर्षं शोकं भयं दुःखं सुखं चानेन विन्दति ॥७५॥ (भक्तिः कृष्णे दया जीवेष्वकुण्ठज्ञानमात्मनि। यदि स्यादात्मनो भूयादपवर्गस्तु संसृतेः ॥) यथा तृणजलूकेयं नापयात्यपयाति च। न त्यजेन्म्रियमाणोऽपि प्राग्देहाभिमतिं जनः ॥७६॥ यावदन्यं न विन्देत व्यवधानेन कर्मणाम्। मन एव मनुष्येन्द्र भूतानां भवभावनम् ॥७७॥ यदाक्षैश्चरितान् ध्यायन् कर्माण्याचिनुतेऽसकृत्। सति कर्मण्यविद्यायां बन्धः कर्मण्यनात्मनः ॥७८॥ अतस्तदपवादार्थं भज सर्वात्मना हरिम्। पश्यंस्तदात्मकं विश्वं स्थित्युत्पत्त्यप्यया यतः॥७९॥ मैत्रेय उवाच भागवतमुख्यो भगवान् नारदो हंसयोर्गतिम्। प्रदर्श्य ह्यमुमामन्त्र्य सिद्धलोकं ततोऽगमत् ॥८०॥ प्राचीनबर्ही राजर्षिः प्रजासर्गाभिरक्षणे। आदिश्य पुत्रानगमत्तपसे कपिलाश्रमम् ॥८१॥ तत्रैकाग्रमना वीरो गोविन्दचरणाम्बुजम्। विमुक्तसङ्गोऽनुभजन् भक्त्या तत्साम्यतामगात्॥८२॥ एतदध्यात्मपारोक्ष्यं गीतं देवर्षिणानघ। यः श्रावयेद्यः शृणुयात्स लिङ्गेन विमुच्यते ॥८३॥ एतन्मुकुन्दयशसा भुवनं पुनानं देवर्षिवर्यमुखनिःसृतमात्मशौचम् । यः कीर्त्यमानमधिगच्छति पारमेष्ठ्यं नास्मिन् भवे भ्रमति मुक्तसमस्तबन्धः ॥८४॥ अध्यात्मपारोक्ष्यमिदं मयाधिगतमद्भुतम्। एवं स्त्रियाश्रमः पुंसश्छिन्नोऽमुत्र च संशयः ॥८५॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे प्राचीनबर्हिर्नारदसंवादो नामैकोनत्रिंशोऽध्यायः ॥२९॥

॥ त्रिंशोऽध्यायः - ३० ॥

विदुर उवाच ये त्वयाभिहिता ब्रह्मन् सुताः प्राचीनबर्हिषः। ते रुद्रगीतेन हरिं सिद्धिमापुः प्रतोष्य काम् ॥१॥ किं बार्हस्पत्येह परत्र वाथ कैवल्यनाथप्रियपार्श्ववर्तिनः। आसाद्य देवं गिरिशं यदृच्छया प्रापुः परं नूनमथ प्रचेतसः ॥२॥ मैत्रेय उवाच प्रचेतसोऽन्तरुदधौ पितुरादेशकारिणः। जपयज्ञेन तपसा पुरञ्जनमतोषयन् ॥३॥ दशवर्षसहस्रान्ते पुरुषस्तु सनातनः। तेषामाविरभूत्कृच्छ्रं शान्तेन शमयन् रुचा ॥४॥ सुपर्णस्कन्धमारूढो मेरुशृङ्गमिवाम्बुदः। पीतवासा मणिग्रीवः कुर्वन् वितिमिरा दिशः ॥५॥ काशिष्णुना कनकवर्णविभूषणेन भ्राजत्कपोलवदनो विलसत्किरीटः । अष्टायुधैरनुचरैर्मुनिभिः सुरेन्द्रैरासेवितो गरुडकिन्नरगीतकीर्तिः ॥६॥ पीनायताष्टभुजमण्डलमध्यलक्ष्म्या स्पर्धच्छ्रिया परिवृतो वनमालयाऽऽद्यः। बर्हिष्मतः पुरुष आह सुतान् प्रपन्नान् पर्जन्यनादरुतया सघृणावलोकः ॥७॥ श्रीभगवानुवाच वरं वृणीध्वं भद्रं वो यूयं मे नृपनन्दनाः। सौहार्देनापृथग्धर्मास्तुष्टोऽहं सौहृदेन वः ॥८॥ योऽनुस्मरति सन्ध्यायां युष्माननुदिनं नरः। तस्य भ्रातृष्वात्मसाम्यं तथा भूतेषु सौहृदम् ॥९॥ ये तु मां रुद्रगीतेन सायं प्रातः समाहिताः। स्तुवन्त्यहं कामवरान् दास्ये प्रज्ञां च शोभनाम् ॥१०॥ यद्यूयं पितुरादेशमग्रहीष्ट मुदान्विताः। अथो व उशती कीर्तिर्लोकाननु भविष्यति ॥११॥ भविता विश्रुतः पुत्रोऽनवमो ब्रह्मणो गुणैः। य एतामात्मवीर्येण त्रिलोकीं पूरयिष्यति ॥१२॥ कण्डोः प्रम्लोचया लब्धा कन्या कमललोचना। तां चापविद्धां जगृहुर्भूरुहा नृपनन्दनाः ॥१३॥ क्षुत्क्षामाया मुखे राजा सोमः पीयूषवर्षिणीम्। देशिनीं रोदमानाया निदधे स दयान्वितः ॥४॥ प्रजाविसर्ग आदिष्टाः पित्रा मामनुवर्तता। तत्र कन्यां वरारोहां तामुद्वहत मा चिरम् ॥१५॥ अपृथग्धर्मशीलानां सर्वेषां वः सुमध्यमा। अपृथग्धर्मशीलेयं भूयात्पत्न्यर्पिताशया ॥१६॥ दिव्यवर्षसहस्राणां सहस्रमहतौजसः। भौमान् भोक्ष्यथ भोगान् वै दिव्यांश्चानुग्रहान्मम ॥१७॥ अथ मय्यनपायिन्या भक्त्या पक्वगुणाशयाः। उपयास्यथ मद्धाम निर्विद्य निरयादतः ॥१८॥ गृहेष्वाविशतां चापि पुंसां कुशलकर्मणाम्। मद्वार्ता यातयामानां न बन्धाय गृहा मताः ॥१९॥ न व्यवद्धृदये यज्ज्ञो ब्रह्मैतद्ब्रह्मवादिभिः। न मुह्यन्ति न शोचन्ति न हृष्यन्ति यतो गताः ॥२०॥ मैत्रेय उवाच एवं ब्रुवाणं पुरुषार्थभाजनं जनार्दनं प्राञ्जलयः प्रचेतसः। तद्दर्शनध्वस्ततमोरजोमला गिरागृणन् गद्गदया सुहृत्तमम् ॥२१॥ प्रचेतस ऊचुः नमो नमः क्लेशविनाशनाय निरूपितोदारगुणाह्वयाय। मनोवचोवेगपुरोजवाय सर्वाक्षमार्गैरगताध्वने नमः ॥२२॥ शुद्धाय शान्ताय नमः स्वनिष्ठया मनस्यपार्थं विलसद्द्वयाय। नमो जगत्स्थानलयोदयेषु गृहीतमायागुणविग्रहाय ॥२३॥ नमो विशुद्धसत्त्वाय हरये हरिमेधसे। वासुदेवाय कृष्णाय प्रभवे सर्वसात्वताम् ॥२४॥ नमः कमलनाभाय नमः कमलमालिने। नमः कमलपादाय नमस्ते कमलेक्षण ॥२५॥ नमः कमलकिञ्जल्कपिशङ्गामलवाससे। सर्वभूतनिवासाय नमोऽयुङ्क्ष्महि साक्षिणे ॥२६॥ रूपं भगवता त्वेतदशेषक्लेशसङ्क्षयम्। आविष्कृतं नः क्लिष्टानां किमन्यदनुकम्पितम् ॥२७॥ एतावत्त्वं हि विभुभिर्भाव्यं दीनेषु वत्सलैः। यदनुस्मर्यते काले स्वबुद्ध्याभद्ररन्धन ॥२८॥ येनोपशान्तिर्भूतानां क्षुल्लकानामपीह ताम्। अन्तर्हितोऽन्तर्हृदये कस्मान्नो वेद नाशिषः ॥२९॥ असावेव वरोऽस्माकमीप्सितो जगतः पते। प्रसन्नो भगवान् येषामपवर्गगुरुर्गतिः ॥३०॥ वरं वृणीमहेऽथापि नाथ त्वत्परतः परात्। न ह्यन्तस्त्वद्विभूतीनां सोऽनन्त इति गीयसे ॥३१॥ पारिजातेऽञ्जसा लब्धे सारङ्गोऽन्यन्न सेवते। त्वदङ्घ्रिमूलमासाद्य साक्षात्किं किं वृणीमहि ॥३२॥ यावत्ते मायया स्पृष्टा भ्रमाम इह कर्मभिः। तावद्भवत्प्रसङ्गानां सङ्गः स्यान्नो भवे भवे ॥३३॥ तुलयाम लवेनापि न स्वर्गं नापुनर्भवम्। भगवत्सङ्गिसङ्गस्य मर्त्यानां किमुताशिषः ॥३४॥ यत्रेड्यन्ते कथा मृष्टास्तृष्णायाः प्रशमो यतः। निर्वैरं यत्र भूतेषु नोद्वेगो यत्र कश्चन ॥३५॥ यत्र नारायणः साक्षाद्भगवान् न्यासिनां गतिः। संस्तूयते सत्कथासु मुक्तसङ्गैः पुनः पुनः ॥३६॥ तेषां विचरतां पद्भ्यां तीर्थानां पावनेच्छया। भीतस्य किं न रोचेत तावकानां समागमः ॥३७॥ वयं तु साक्षाद्भगवन् भवस्य प्रियस्य सख्युः क्षणसङ्गमेन। सुदुश्चिकित्स्यस्य भवस्य मृत्यो- र्भिषक्तमं त्वाद्य गतिं गताः स्म ॥३८॥ यन्नः स्वधीतं गुरवः प्रसादिता विप्राश्च वृद्धाश्च सदानुवृत्त्या। आर्या नताः सुहृदो भ्रातरश्च सर्वाणि भूतान्यनसूययैव ॥३९॥ यन्नः सुतप्तं तप एतदीश निरन्धसां कालमदभ्रमप्सु। सर्वं तदेतत्पुरुषस्य भूम्नो वृणीमहे ते परितोषणाय ॥४०॥ मनुः स्वयम्भूर्भगवान् भवश्च येऽन्ये तपोज्ञानविशुद्धसत्त्वाः। अदृष्टपारा अपि यन्महिम्नः स्तुवन्त्यथो त्वात्मसमं गृणीमः ॥४१॥ नमः समाय शुद्धाय पुरुषाय पराय च। वासुदेवाय सत्त्वाय तुभ्यं भगवते नमः ॥४२॥ मैत्रेय उवाच इति प्रचेतोभिरभिष्टुतो हरिः प्रीतस्तथेत्याह शरण्यवत्सलः। अनिच्छतां यानमतृप्तचक्षुषां ययौ स्वधामानपवर्गवीर्यः ॥४३॥ अथ निर्याय सलिलात्प्रचेतस उदन्वतः। वीक्ष्याकुप्यन् द्रुमैश्छन्नां गां गां रोद्धुमिवोच्छ्रितैः ॥४४॥ ततोऽग्निमारुतौ राजन्नमुञ्चन् मुखतो रुषा। महीं निर्वीरुधं कर्तुं संवर्तक इवात्यये ॥४५॥ भस्मसात्क्रियमाणांस्तान् द्रुमान् वीक्ष्य पितामहः। आगतः शमयामास पुत्रान् बर्हिष्मतो नयैः ॥४६॥ तत्रावशिष्टा ये वृक्षा भीता दुहितरं तदा। उज्जह्रुस्ते प्रचेतोभ्य उपदिष्टाः स्वयम्भुवा ॥४७॥ ते च ब्रह्मण आदेशान्मारिषामुपयेमिरे। यस्यां महदवज्ञानादजन्यजनयोनिजः ॥४८॥ चाक्षुषे त्वन्तरे प्राप्ते प्राक्सर्गे कालविद्रुते। यः ससर्ज प्रजा इष्टाः स दक्षो दैवचोदितः ॥४९॥ यो जायमानः सर्वेषां तेजस्तेजस्विनां रुचा। स्वयोपादत्त दाक्ष्याच्च कर्मणां दक्षमब्रुवन् ॥५०॥ तं प्रजासर्गरक्षायामनादिरभिषिच्य च। युयोज युयुजेऽन्यांश्च स वै सर्वप्रजापतीन् ॥५१॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे त्रिंशोऽध्यायः ॥३०॥

॥ एकत्रिंशोऽध्यायः - ३१ ॥

मैत्रेय उवाच तत उत्पन्नविज्ञाना आश्वधोक्षजभाषितम्। स्मरन्त आत्मजे भार्यां विसृज्य प्राव्रजन् गृहात्॥१॥ दीक्षिता ब्रह्मसत्रेण सर्वभूतात्ममेधसा। प्रतीच्यां दिशि वेलायां सिद्धोऽभूद्यत्र जाजलिः ॥२॥ तान्निर्जितप्राणमनोवचोदृशो जितासनान् शान्तसमानविग्रहान्। परेऽमले ब्रह्मणि योजितात्मनः सुरासुरेड्यो ददृशे स्म नारदः ॥३॥ तमागतं त उत्थाय प्रणिपत्याभिनन्द्य च। पूजयित्वा यथादेशं सुखासीनमथाब्रुवन् ॥४॥ प्रचेतस ऊचुः स्वागतं ते सुरर्षेऽद्य दिष्ट्या नो दर्शनं गतः। तव चङ्क्रमणं ब्रह्मन्नभयाय यथा रवेः ॥५॥ यदादिष्टं भगवता शिवेनाधोक्षजेन च। तद्गृहेषु प्रसक्तानां प्रायशः क्षपितं प्रभो ॥६॥ तन्नः प्रद्योतयाध्यात्मज्ञानं तत्त्वार्थदर्शनम्। येनाञ्जसा तरिष्यामो दुस्तरं भवसागरम् ॥७॥ मैत्रेय उवाच इति प्रचेतसां पृष्टो भगवान् नारदो मुनिः। भगवत्युत्तमश्लोक आविष्टात्माब्रवीन्नृपान् ॥८॥ नारद उवाच तज्जन्म तानि कर्माणि तदायुस्तन्मनो वचः। नृणां येनेह विश्वात्मा सेव्यते हरिरीश्वरः ॥९॥ किं जन्मभिस्त्रिभिर्वेह शौक्लसावित्रयाज्ञिकैः। कर्मभिर्वा त्रयीप्रोक्तैः पुंसोऽपि विबुधायुषा ॥१०॥ श्रुतेन तपसा वा किं वचोभिश्चित्तवृत्तिभिः। बुद्ध्या वा किं निपुणया बलेनेन्द्रियराधसा ॥११॥ किं वा योगेन साङ्ख्येन न्यासस्वाध्याययोरपि। किं वा श्रेयोभिरन्यैश्च न यत्रात्मप्रदो हरिः ॥१२॥ श्रेयसामपि सर्वेषामात्मा ह्यवधिरर्थतः। सर्वेषामपि भूतानां हरिरात्माऽऽत्मदः प्रियः ॥१३॥ यथा तरोर्मूलनिषेचनेन तृप्यन्ति तत्स्कन्धभुजोपशाखाः। प्राणोपहाराच्च यथेन्द्रियाणां तथैव सर्वार्हणमच्युतेज्या ॥१४॥ यथैव सूर्यात्प्रभवन्ति वारः पुनश्च तस्मिन् प्रविशन्ति काले। भूतानि भूमौ स्थिरजङ्गमानि तथा हरावेव गुणप्रवाहः ॥१५॥ एतत्पदं तज्जगदात्मनः परं सकृद्विभातं सवितुर्यथा प्रभा। यथासवो जाग्रति सुप्तशक्तयो द्रव्यक्रियाज्ञानभिदा भ्रमात्ययः ॥१६॥ यथा नभस्यभ्रतमः प्रकाशा भवन्ति भूपा न भवन्त्यनुक्रमात्। एवं परे ब्रह्मणि शक्तयस्त्वमू रजस्तमःसत्त्वमिति प्रवाहः ॥१७॥ तेनैकमात्मानमशेषदेहिनां कालं प्रधानं पुरुषं परेशम्। स्वतेजसा ध्वस्तगुणप्रवाह- मात्मैकभावेन भजध्वमद्धा ॥१८॥ दयया सर्वभूतेषु सन्तुष्ट्या येन केन वा। सर्वेन्द्रियोपशान्त्या च तुष्यत्याशु जनार्दनः ॥१९॥ अपहतसकलैषणामलात्म- न्यविरतमेधितभावनोपहूतः। निजजनवशगत्वमात्मनो यन्न सरति छिद्रवदक्षरः सतां हि ॥२०॥ न भजति कुमनीषिणां स इज्यां हरिरधनात्मधनप्रियो रसज्ञः। श्रुतधनकुलकर्मणां मदैर्ये विदधति पापमकिञ्चनेषु सत्सु ॥२१॥ श्रियमनुचरतीं तदर्थिनश्च द्विपदपतीन् विबुधांश्च यत्स्वपूर्णः। न भजति निजभृत्यवर्गतन्त्रः कथममुमुद्विसृजेत्पुमान् कृतज्ञः ॥२२॥ मैत्रेय उवाच इति प्रचेतसो राजन्नन्याश्च भगवत्कथाः। श्रावयित्वा ब्रह्मलोकं ययौ स्वायम्भुवो मुनिः ॥२३॥ तेऽपि तन्मुखनिर्यातं यशो लोकमलापहम्। हरेर्निशम्य तत्पादं ध्यायन्तस्तद्गतिं ययुः ॥२४॥ एतत्तेऽभिहितं क्षत्तर्यन्मां त्वं परिपृष्टवान्। प्रचेतसां नारदस्य संवादं हरिकीर्तनम् ॥२५॥ श्रीशुक उवाच य एष उत्तानपदो मानवस्यानुवर्णितः। वंशः प्रियव्रतस्यापि निबोध नृपसत्तम ॥२६॥ यो नारदादात्मविद्यामधिगम्य पुनर्महीम्। भुक्त्वा विभज्य पुत्रेभ्य ऐश्वरं समगात्पदम् ॥२७॥ इमां तु कौषारविणोपवर्णितां क्षत्ता निशम्याजितवादसत्कथाम्। प्रवृद्धभावोऽश्रुकलाकुलो मुनेर्दधार मूर्ध्ना चरणं हृदा हरेः ॥२८॥ विदुर उवाच सोऽयमद्य महायोगिन् भवता करुणात्मना। दर्शितस्तमसः पारो यत्राकिञ्चनगो हरिः ॥२९॥ श्रीशुक उवाच इत्यानम्य तमामन्त्र्य विदुरो गजसाह्वयम्। स्वानां दिदृक्षुः प्रययौ ज्ञातीनां निर्वृताशयः ॥३०॥ एतद्यः शृणुयाद्राजन् राज्ञां हर्यर्पितात्मनाम्। आयुर्धनं यशः स्वस्ति गतिमैश्वर्यमाप्नुयात् ॥३१॥ इति श्रीमद्भागवते महापुराणे वैयासक्यामष्टादशसाहस्र्यां पारमहंस्यां संहितायां चतुर्थस्कन्धे प्रचेत उपाख्यानं नामैकत्रिंशोऽध्यायः ॥३१॥

॥ इति चतुर्थस्कन्धः समाप्तः ॥

॥ हरिः ओं तत्सत् ॥


GRETIL txt edited as per Gita Press edition along with paaThabheda by PSA Easwaran
% Text title            : shrImadbhAgavatam - 04 - chaturthaskandhaH
% File name             : bhagpur-04.itx
% itxtitle              : shrImadbhAgavatam - 04 - chaturthaskandhaH
% engtitle              : shrImadbhAgavatam - chaturthaskandhaH
% Category              : purana, shrimadbhagavatam, vyAsa, krishna
% Location              : doc_purana
% Sublocation           : purana
% Language              : Sanskrit
% Subject               : hinduism/religion
% Indexextra            : ()
% Latest update         : July 31, 2017, July 16, 2010
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP