॥ श्रीमद्भागवतम् - षष्ठस्कन्धः ॥

॥ ॐ नमो भगवते वासुदेवाय ॥

॥ षष्ठस्कन्धः ॥

॥ प्रथमोऽध्यायः - १ ॥

राजोवाच निवृत्तिमार्गः कथित आदौ भगवता यथा। क्रमयोगोपलब्धेन ब्रह्मणा यदसंसृतिः ॥१॥ प्रवृत्तिलक्षणश्चैव त्रैगुण्यविषयो मुने। योऽसावलीनप्रकृतेर्गुणसर्गः पुनः पुनः ॥२॥ अधर्मलक्षणा नाना नरकाश्चानुवर्णिताः। मन्वन्तरश्च व्याख्यात आद्यः स्वायम्भुवो यतः॥३॥ प्रियव्रतोत्तानपदोर्वंशस्तच्चरितानि च। द्वीपवर्षसमुद्राद्रिनद्युद्यानवनस्पतीन् ॥४॥ धरामण्डलसंस्थानं भागलक्षणमानतः। ज्योतिषां विवराणां च यथेदमसृजद्विभुः ॥५॥ अधुनेह महाभाग यथैव नरकान्नरः। नानोग्रयातनान् नेयात्तन्मे व्याख्यातुमर्हसि ॥६॥ श्रीशुक उवाच न चेदिहैवापचितिं यथांहसः कृतस्य कुर्यान्मन उक्तपाणिभिः। ध्रुवं स वै प्रेत्य नरकानुपैति ये कीर्तिता मे भवतस्तिग्मयातनाः ॥७॥ तस्मात्पुरैवाश्विह पापनिष्कृतौ यतेत मृत्योरविपद्यतात्मना। दोषस्य दृष्ट्वा गुरुलाघवं यथा भिषक्चिकित्सेत रुजां निदानवित्॥८॥ राजोवाच दृष्टश्रुताभ्यां यत्पापं जानन्नप्यात्मनोऽहितम्। करोति भूयो विवशः प्रायश्चित्तमथो कथम् ॥९॥ क्वचिन्निवर्ततेऽभद्रात्क्वचिच्चरति तत्पुनः। प्रायश्चित्तमथोऽपार्थं मन्ये कुञ्जरशौचवत् ॥१०॥ श्रीशुक उवाच कर्मणा कर्मनिर्हारो न ह्यात्यन्तिक इष्यते। अविद्वदधिकारित्वात्प्रायश्चित्तं विमर्शनम् ॥११॥ नाश्नतः पथ्यमेवान्नं व्याधयोऽभिभवन्ति हि। एवं नियमकृद्राजन् शनैः क्षेमाय कल्पते ॥१२॥ तपसा ब्रह्मचर्येण शमेन च दमेन च। त्यागेन सत्यशौचाभ्यां यमेन नियमेन च ॥१३॥ देहवाग्बुद्धिजं धीरा धर्मज्ञाः श्रद्धयान्विताः। क्षिपन्त्यघं महदपि वेणुगुल्ममिवानलः ॥१४॥ केचित्केवलया भक्त्या वासुदेवपरायणाः। अघं धुन्वन्ति कार्त्स्न्येन नीहारमिव भास्करः ॥१५॥ न तथा ह्यघवान् राजन् पूयेत तप आदिभिः। यथा कृष्णार्पितप्राणस्तत्पूरुषनिषेवया ॥१६॥ सध्रीचीनो ह्ययं लोके पन्थाः क्षेमोऽकुतोभयः। सुशीलाः साधवो यत्र नारायणपरायणाः ॥१७॥ प्रायश्चित्तानि चीर्णानि नारायणपराङ्मुखम्। न निष्पुनन्ति राजेन्द्र सुराकुम्भमिवापगाः ॥१८॥ सकृन्मनः कृष्णपदारविन्दयो- र्निवेशितं तद्गुणरागि यैरिह। न ते यमं पाशभृतश्च तद्भटान् स्वप्नेऽपि पश्यन्ति हि चीर्णनिष्कृताः ॥१९॥ अत्र चोदाहरन्तीममितिहासं पुरातनम्। दूतानां विष्णुयमयोः संवादस्तं निबोध मे ॥२०॥ कान्यकुब्जे द्विजः कश्चिद्दासीपतिरजामिलः। नाम्ना नष्टसदाचारो दास्याः संसर्गदूषितः ॥२१॥ बन्द्यक्षकैतवैश्चौर्यैर्गर्हितां वृत्तिमास्थितः। बिभ्रत्कुटुम्बमशुचिर्यातयामास देहिनः ॥२२॥ एवं निवसतस्तस्य लालयानस्य तत्सुतान्। कालोऽत्यगान्महान् राजन्नष्टाशीत्यायुषः समाः ॥२३॥ तस्य प्रवयसः पुत्रा दश तेषां तु योऽवमः। बालो नारायणो नाम्ना पित्रोश्च दयितो भृशम् ॥२४॥ स बद्धहृदयस्तस्मिन्नर्भके कलभाषिणि। निरीक्षमाणस्तल्लीलां मुमुदे जरठो भृशम् ॥२५॥ भुञ्जानः प्रपिबन् खादन् बालकस्नेहयन्त्रितः। भोजयन् पाययन् मूढो न वेदागतमन्तकम् ॥२६॥ स एवं वर्तमानोऽज्ञो मृत्युकाल उपस्थिते। मतिं चकार तनये बाले नारायणाह्वये ॥२७॥ स पाशहस्तांस्त्रीन् दृष्ट्वा पुरुषान् भृशदारुणान्। वक्रतुण्डानूर्ध्वरोम्ण आत्मानं नेतुमागतान् ॥२८॥ दूरे क्रीडनकासक्तं पुत्रं नारायणाह्वयम्। प्लावितेन स्वरेणोच्चैराजुहावाकुलेन्द्रियः ॥२९॥ निशम्य म्रियमाणस्य ब्रुवतो हरिकीर्तनम्। भर्तुर्नाम महाराज पार्षदाः सहसापतन् ॥३०॥ स गो ना सं गो गो विकर्षतोऽन्तर्हृदयाद्दासीपतिमजामिलम्। यमप्रेष्यान् विष्णुदूता वारयामासुरोजसा ॥३१॥ ऊचुर्निषेधितास्तांस्ते वैवस्वतपुरःसराः। के यूयं प्रतिषेद्धारो धर्मराजस्य शासनम् ॥३२॥ कस्य वा कुत आयाताः कस्मादस्य निषेधथ। किं देवा उपदेवा या यूयं किं सिद्धसत्तमाः ॥३३॥ सर्वे पद्मपलाशाक्षाः पीतकौशेयवाससः। किरीटिनः कुण्डलिनो लसत्पुष्करमालिनः ॥३४॥ सर्वे च नूत्नवयसः सर्वे चारुचतुर्भुजाः। धनुर्निषङ्गासिगदाशङ्खचक्राम्बुजश्रियः ॥३५॥ दिशो वितिमिरालोकाः कुर्वन्तः स्वेन रोचिषा। किमर्थं धर्मपालस्य किङ्करान्नो निषेधथ ॥३६॥ श्रीशुक उवाच इत्युक्ते यमदूतैस्तैर्वासुदेवोक्तकारिणः। तान् प्रत्यूचुः प्रहस्येदं मेघनिर्ह्रादया गिरा ॥३७॥ विष्णुदूता ऊचुः यूयं वै धर्मराजस्य यदि निर्देशकारिणः। ब्रूत धर्मस्य नस्तत्त्वं यच्च धर्मस्य लक्षणम् ॥३८॥ कथं स्विद्ध्रियते दण्डः किं वास्य स्थानमीप्सितम्। दण्ड्याः किं कारिणः सर्वे आहोस्वित्कतिचिन्नृणाम्॥३९॥ यमदूता ऊचुः वेदप्रणिहितो धर्मो ह्यधर्मस्तद्विपर्ययः। वेदो नारायणः साक्षात्स्वयम्भूरिति शुश्रुम ॥४०॥ येन स्वधाम्न्यमी भावा रजःसत्त्वतमोमयाः। गुणनामक्रियारूपैर्विभाव्यन्ते यथातथम् ॥४१॥ सूर्योऽग्निः खं मरुद्गावः सोमः सन्ध्याहनी दिशः। कं कुः स्वयं धर्म इति ह्येते दैह्यस्य साक्षिणः ॥४२॥ एतैरधर्मो विज्ञातः स्थानं दण्डस्य युज्यते। सर्वे कर्मानुरोधेन दण्डमर्हन्ति कारिणः ॥४३॥ सम्भवन्ति हि भद्राणि विपरीतानि चानघाः। कारिणां गुणसङ्गोऽस्ति देहवान् न ह्यकर्मकृत् ॥४४॥ येन यावान् यथाधर्मो धर्मो वेह समीहितः। स एव तत्फलं भुङ्क्ते तथा तावदमुत्र वै ॥४५॥ यथेह देवप्रवरास्त्रैविध्यमुपलभ्यते। भूतेषु गुणवैचित्र्यात्तथान्यत्रानुमीयते ॥४६॥ वर्तमानोऽन्ययोः कालो गुणाभिज्ञापको यथा। एवं जन्मान्ययोरेतद्धर्माधर्मनिदर्शनम् ॥४७॥ मनसैव पुरे देवः पूर्वरूपं विपश्यति। अनुमीमांसतेऽपूर्वं मनसा भगवानजः ॥४८॥ यथाज्ञस्तमसा युक्त उपास्ते व्यक्तमेव हि। न वेद पूर्वमपरं नष्टजन्मस्मृतिस्तथा ॥४९॥ पञ्चभिः कुरुते स्वार्थान् पञ्च वेदाथ पञ्चभिः। एकस्तु षोडशेन त्रीन् स्वयं सप्तदशोऽश्नुते ॥५०॥ तदेतत्षोडशकलं लिङ्गं शक्तित्रयं महत्। धत्तेऽनु संसृतिं पुंसि हर्षशोकभयार्तिदाम् ॥५१॥ देह्यज्ञोऽजितषड्वर्गो नेच्छन् कर्माणि कार्यते। कोशकार इवात्मानं कर्मणाऽऽच्छाद्य मुह्यति ॥५२॥ न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत्। कार्यते ह्यवशः कर्म गुणैः स्वाभाविकैर्बलात् ॥५३॥ लब्ध्वा निमित्तमव्यक्तं व्यक्ताव्यक्तं भवत्युत। यथायोनि यथाबीजं स्वभावेन बलीयसा ॥५४॥ एष प्रकृतिसङ्गेन पुरुषस्य विपर्ययः। आसीत्स एव न चिरादीशसङ्गाद्विलीयते ॥५५॥ अयं हि श्रुतसम्पन्नः शीलवृत्तगुणालयः। धृतव्रतो मृदुर्दान्तः सत्यवान्मन्त्रविच्छुचिः ॥५६॥ गुर्वग्न्यतिथिवृद्धानां शुश्रूषुरनहङ्कृतः। सर्वभूतसुहृत्साधुर्मितवागनसूयकः ॥५७॥ एकदासौ वनं यातः पितृसन्देशकृद्द्विजः। आदाय तत आवृत्तः फलपुष्पसमित्कुशान् ॥५८॥ ददर्श कामिनं कञ्चिच्छूद्रं सह भुजिष्यया। पीत्वा च मधु मैरेयं मदाघूर्णितनेत्रया ॥५९॥ मत्तया विश्लथन्नीव्या व्यपेतं निरपत्रपम्। क्रीडन्तमनुगायन्तं हसन्तमनयान्तिके ॥६०॥ दृष्ट्वा तां कामलिप्तेन बाहुना परिरम्भिताम्। जगाम हृच्छयवशं सहसैव विमोहितः ॥६१॥ स्तम्भयन्नात्मनाऽऽत्मानं यावत्सत्त्वं यथाश्रुतम्। न शशाक समाधातुं मनो मदनवेपितम् ॥६२॥ तन्निमित्तस्मरव्याजग्रहग्रस्तो विचेतनः। तामेव मनसा ध्यायन् स्वधर्माद्विरराम ह ॥६३॥ तामेव तोषयामास पित्र्येणार्थेन यावता। ग्राम्यैर्मनोरमैः कामैः प्रसीदेत यथा तथा ॥६४॥ विप्रां स्वभार्यामप्रौढां कुले महति लम्भिताम्। विससर्जाचिरात्पापः स्वैरिण्यापाङ्गविद्धधीः ॥६५॥ यतस्ततश्चोपनिन्ये न्यायतोऽन्यायतो धनम्। बभारास्याः कुटुम्बिन्याः कुटुम्बं मन्दधीरयम् ॥६६॥ यदसौ शास्त्रमुल्लङ्घ्य स्वैरचार्यार्यगर्हितः। अवर्तत चिरं कालमघायुरशुचिर्मलात् ॥६७॥ तत एनं दण्डपाणेः सकाशं कृतकिल्बिषम्। नेष्यामोऽकृतनिर्वेशं यत्र दण्डेन शुद्ध्यति ॥६८॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे अजामिलोपाख्याने प्रथमोऽध्यायः ॥१॥

॥ द्वितीयोऽध्यायः - २ ॥

श्रीशुक उवाच एवं ते भगवद्दूता यमदूताभिभाषितम्। उपधार्याथ तान् राजन् प्रत्याहुर्नयकोविदाः ॥१॥ विष्णुदूता ऊचुः अहो कष्टं धर्मदृशामधर्मः स्पृशते सभाम्। यत्रादण्ड्येष्वपापेषु दण्डो यैर्ध्रियते वृथा ॥२॥ प्रजानां पितरो ये च शास्तारः साधवः समाः। यदि स्यात्तेषु वैषम्यं कं यान्ति शरणं प्रजाः ॥३॥ यद्यदाचरति श्रेयानितरस्तत्तदीहते। स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥४॥ यस्याङ्के शिर आधाय लोकः स्वपिति निर्वृतः। स्वयं धर्ममधर्मं वा न हि वेद यथा पशुः ॥५॥ स कथं न्यर्पितात्मानं कृतमैत्रमचेतनम्। विस्रम्भणीयो भूतानां सघृणो द्रोग्धुमर्हति ॥६॥ अयं हि कृतनिर्वेशो जन्मकोट्यंहसामपि। यद्व्याजहार विवशो नाम स्वस्त्ययनं हरेः ॥७॥ एतेनैव ह्यघोनोऽस्य कृतं स्यादघनिष्कृतम्। यदा नारायणायेति जगाद चतुरक्षरम् ॥८॥ स्तेनः सुरापो मित्रध्रुग् ब्रह्महा गुरुतल्पगः। स्त्रीराजपितृगोहन्ता ये च पातकिनोऽपरे ॥९॥ सर्वेषामप्यघवतामिदमेव सुनिष्कृतम्। नामव्याहरणं विष्णोर्यतस्तद्विषया मतिः ॥१०॥ न निष्कृतैरुदितैर्ब्रह्मवादिभि स्तथा विशुद्ध्यत्यघवान् व्रतादिभिः। यथा हरेर्नामपदैरुदाहृतै- स्तदुत्तमश्लोकगुणोपलम्भकम् ॥११॥ नैकान्तिकं तद्धि कृतेऽपि निष्कृते मनः पुनर्धावति चेदसत्पथे। तत्कर्मनिर्हारमभीप्सतां हरे- र्गुणानुवादः खलु सत्त्वभावनः ॥१२॥ अथैनं मापनयत कृताशेषाघनिष्कृतम्। यदसौ भगवन्नाम म्रियमाणः समग्रहीत् ॥१३॥ साङ्केत्यं पारिहास्यं वा स्तोभं हेलनमेव वा। वैकुण्ठनामग्रहणमशेषाघहरं विदुः ॥१४॥ पतितः स्खलितो भग्नः सन्दष्टस्तप्त आहतः। हरिरित्यवशेनाह पुमान् नार्हति यातनाम् ॥१५॥ गुरूणां च लघूनां च गुरूणि च लघूनि च। प्रायश्चित्तानि पापानां ज्ञात्वोक्तानि महर्षिभिः ॥१६॥ तैस्तान्यघानि पूयन्ते तपोदानजपादिभिः। नाधर्मजं तद्धृदयं तदपीशाङ्घ्रिसेवया ॥१७॥ अज्ञानादथवा ज्ञानादुत्तमश्लोकनाम यत्। सङ्कीर्तितमघं पुंसो दहेदेधो यथानलः ॥१८॥ यथागदं वीर्यतममुपयुक्तं यदृच्छया। अजानतोऽप्यात्मगुणं कुर्यान्मन्त्रोऽप्युदाहृतः ॥१९॥ श्रीशुक उवाच त एवं सुविनिर्णीय धर्मं भागवतं नृप। तं याम्यपाशान्निर्मुच्य विप्रं मृत्योरमूमुचन् ॥२०॥ इति प्रत्युदिता याम्या दूता यात्वा यमान्तिके। यमराज्ञे यथा सर्वमाचचक्षुररिन्दम ॥२१॥ द्विजः पाशाद्विनिर्मुक्तो गतभीः प्रकृतिं गतः। ववन्दे शिरसा विष्णोः किङ्करान् दर्शनोत्सवः ॥२२॥ तं विवक्षुमभिप्रेत्य महापुरुषकिङ्कराः। सहसा पश्यतस्तस्य तत्रान्तर्दधिरेऽनघ ॥२३॥ अजामिलोऽप्यथाकर्ण्य दूतानां यमकृष्णयोः। धर्मं भागवतं शुद्धं त्रैविद्यं च गुणाश्रयम् ॥२४॥ भक्तिमान् भगवत्याशु माहात्म्यश्रवणाद्धरेः। अनुतापो महानासीत्स्मरतोऽशुभमात्मनः ॥२५॥ अहो मे परमं कष्टमभूदविजितात्मनः। येन विप्लावितं ब्रह्म वृषल्यां जायताऽऽत्मना ॥२६॥ धिङ् मां विगर्हितं सद्भिर्दुष्कृतं कुलकज्जलम्। हित्वा बालां सतीं योऽहं सुरापामसतीमगाम् ॥२७॥ वृद्धावनाथौ पितरौ नान्यबन्धू तपस्विनौ। अहो मयाधुना त्यक्तावकृतज्ञेन नीचवत् ॥२८॥ सोऽहं व्यक्तं पतिष्यामि नरके भृशदारुणे। धर्मघ्नाः कामिनो यत्र विन्दन्ति यमयातनाः ॥२९॥ किमिदं स्वप्न आहोस्वित्साक्षाद्दृष्टमिहाद्भुतम्। क्व याता अद्य ते ये मां व्यकर्षन् पाशपाणयः ॥३०॥ अथ ते क्व गताः सिद्धाश्चत्वारश्चारुदर्शनाः। व्यमोचयन् नीयमानं बद्ध्वा पाशैरधो भुवः ॥३१॥ अथापि मे दुर्भगस्य विबुधोत्तमदर्शने। भवितव्यं मङ्गलेन येनात्मा मे प्रसीदति ॥३२॥ अन्यथा म्रियमाणस्य नाशुचेर्वृषलीपतेः। वैकुण्ठनामग्रहणं जिह्वा वक्तुमिहार्हति ॥३३॥ क्व चाहं कितवः पापो ब्रह्मघ्नो निरपत्रपः। क्व च नारायणेत्येतद्भगवन्नाम मङ्गलम् ॥३४॥ सोऽहं तथा यतिष्यामि यतचित्तेन्द्रियानिलः। यथा न भूय आत्मानमन्धे तमसि मज्जये ॥३५॥ विमुच्य तमिमं बन्धमविद्याकामकर्मजम्। सर्वभूतसुहृच्छान्तो मैत्रः करुण आत्मवान् ॥३६॥ मोचये ग्रस्तमात्मानं योषिन्मय्याऽऽत्ममायया। विक्रीडितो ययैवाहं क्रीडामृग इवाधमः ॥३७॥ ममाहमिति देहादौ हित्वा मिथ्यार्थधीर्मतिम्। धास्ये मनो भगवति शुद्धं तत्कीर्तनादिभिः ॥३८॥ श्रीशुक उवाच इति जातसुनिर्वेदः क्षणसङ्गेन साधुषु। गङ्गाद्वारमुपेयाय मुक्तसर्वानुबन्धनः ॥३९॥ स तस्मिन् देवसदन आसीनो योगमाश्रितः। प्रत्याहृतेन्द्रियग्रामो युयोज मन आत्मनि ॥४०॥ ततो गुणेभ्य आत्मानं वियुज्यात्मसमाधिना। युयुजे भगवद्धाम्नि ब्रह्मण्यनुभवात्मनि ॥४१॥ यर्ह्युपारतधीस्तस्मिन्नद्राक्षीत्पुरुषान् पुरः। उपलभ्योपलब्धान् प्राग्ववन्दे शिरसा द्विजः ॥४२॥ हित्वा कलेवरं तीर्थे गङ्गायां दर्शनादनु। सद्यः स्वरूपं जगृहे भगवत्पार्श्ववर्तिनाम् ॥४३॥ साकं विहायसा विप्रो महापुरुषकिङ्करैः। हैमं विमानमारुह्य ययौ यत्र श्रियः पतिः ॥४४॥ एवं स विप्लावितसर्वधर्मा दास्याः पतिः पतितो गर्ह्यकर्मणा। निपात्यमानो निरये हतव्रतः सद्यो विमुक्तो भगवन्नाम गृह्णन् ॥४५॥ नातः परं कर्मनिबन्धकृन्तनं मुमुक्षतां तीर्थपदानुकीर्तनात्। न यत्पुनः कर्मसु सज्जते मनो रजस्तमोभ्यां कलिलं ततोऽन्यथा ॥४६॥ य एवं परमं गुह्यमितिहासमघापहम्। शृणुयाच्छ्रद्धया युक्तो यश्च भक्त्यानुकीर्तयेत् ॥४७॥ न वै स नरकं याति नेक्षितो यमकिङ्करैः। यद्यप्यमङ्गलो मर्त्यो विष्णुलोके महीयते ॥४८॥ म्रियमाणो हरेर्नाम गृणन् पुत्रोपचारितम्। अजामिलोऽप्यगाद्धाम किं पुनः श्रद्धया गृणन् ॥४९॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे अजामिलोपाख्याने द्वितीयोऽध्यायः ॥२॥

॥ तृतीयोऽध्यायः - ३ ॥

राजोवाच निशम्य देवः स्वभटोपवर्णितं प्रत्याह किं तान् प्रति धर्मराजः। एवं हताज्ञो विहतान् मुरारे- र्नैदेशिकैर्यस्य वशे जनोऽयम् ॥१॥ यमस्य देवस्य न दण्डभङ्गः कुतश्चनर्षे श्रुतपूर्व आसीत्। एतन्मुने वृश्चति लोकसंशयं न हि त्वदन्य इति मे विनिश्चितम् ॥२॥ श्रीशुक उवाच भगवत्पुरुषै राजन् याम्याः प्रतिहतोद्यमाः। पतिं विज्ञापयामासुर्यमं संयमनीपतिम् ॥३॥ यमदूता ऊचुः कति सन्तीह शास्तारो जीवलोकस्य वै प्रभो। त्रैविध्यं कुर्वतः कर्म फलाभिव्यक्तिहेतवः ॥४॥ यदि स्युर्बहवो लोके शास्तारो दण्डधारिणः। कस्य स्यातां न वा कस्य मृत्युश्चामृतमेव वा ॥५॥ किन्तु शास्तृबहुत्वे स्याद्बहूनामिह कर्मिणाम्। शास्तृत्वमुपचारो हि यथा मण्डलवर्तिनाम् ॥६॥ अतस्त्वमेको भूतानां सेश्वराणामधीश्वरः। शास्ता दण्डधरो नॄणां शुभाशुभविवेचनः ॥७॥ तस्य ते विहतो दण्डो न लोके वर्ततेऽधुना। चतुर्भिरद्भुतैः सिद्धैराज्ञा ते विप्रलम्भिता ॥८॥ नीयमानं तवादेशादस्माभिर्यातनागृहान्। व्यमोचयन् पातकिनं छित्त्वा पाशान् प्रसह्य ते ॥९॥ तांस्ते वेदितुमिच्छामो यदि नो मन्यसे क्षमम्। नारायणेत्यभिहिते मा भैरित्याययुर्द्रुतम् ॥१०॥ श्रीशुक उवाच इति देवः स आपृष्टः प्रजासंयमनो यमः। प्रीतः स्वदूतान् प्रत्याह स्मरन् पादाम्बुजं हरेः ॥११॥ यम उवाच परो मदन्यो जगतस्तस्थुषश्च ओतं प्रोतं पटवद्यत्र विश्वम्। यदंशतोऽस्य स्थितिजन्मनाशा नस्योतवद्यस्य वशे च लोकः ॥१२॥ यो नामभिर्वाचि जनान्निजायां बध्नाति तन्त्र्यामिव दामभिर्गाः। यस्मै बलिं त इमे नामकर्म- निबन्धबद्धाश्चकिता वहन्ति ॥१३॥ अहं महेन्द्रो निरृतिः प्रचेताः सोमोऽग्निरीशः पवनोऽर्को विरिञ्चः । आदित्यविश्वे वसवोऽथ साध्या मरुद्गणा रुद्रगणाः ससिद्धाः ॥१४॥ अन्ये च ये विश्वसृजोऽमरेशा भृग्वादयोऽस्पृष्टरजस्तमस्काः। यस्येहितं न विदुः स्पृष्टमायाः सत्त्वप्रधाना अपि किं ततोऽन्ये ॥१५॥ यं वै न गोभिर्मनसासुभिर्वा हृदा गिरा वासुभृतो विचक्षते। आत्मानमन्तर्हृदि सन्तमात्मनां चक्षुर्यथैवाकृतयस्ततः परम् ॥१६॥ तस्यात्मतन्त्रस्य हरेरधीशितुः परस्य मायाधिपतेर्महात्मनः। प्रायेण दूता इह वै मनोहरा- श्चरन्ति तद्रूपगुणस्वभावाः ॥१७॥ भूतानि विष्णोः सुरपूजितानि दुर्दर्शलिङ्गानि महाद्भुतानि। रक्षन्ति तद्भक्तिमतः परेभ्यो मत्तश्च मर्त्यानथ सर्वतश्च ॥१८॥ धर्मं तु साक्षाद्भगवत्प्रणीतं न वै विदुरृषयो नापि देवाः। न सिद्धमुख्या असुरा मनुष्याः कुतश्च विद्याधरचारणादयः ॥१९॥ स्वयम्भूर्नारदः शम्भुः कुमारः कपिलो मनुः। प्रह्लादो जनको भीष्मो बलिर्वैयासकिर्वयम् ॥२०॥ द्वादशैते विजानीमो धर्मं भागवतं भटाः। गुह्यं विशुद्धं दुर्बोधं यं ज्ञात्वामृतमश्नुते ॥२१॥ एतावानेव लोकेऽस्मिन् पुंसां धर्मः परः स्मृतः। भक्तियोगो भगवति तन्नामग्रहणादिभिः ॥२२॥ नामोच्चारणमाहात्म्यं हरेः पश्यत पुत्रकाः। अजामिलोऽपि येनैव मृत्युपाशादमुच्यत ॥२३॥ एतावतालमघनिर्हरणाय पुंसां सङ्कीर्तनं भगवतो गुणकर्मनाम्नाम् । विक्रुश्य पुत्रमघवान् यदजामिलोऽपि नारायणेति म्रियमाण इयाय मुक्तिम् ॥२४॥ प्रायेण वेद तदिदं न महाजनोऽयं देव्या विमोहितमतिर्बत माययालम् । त्रय्यां जडीकृतमतिर्मधुपुष्पितायां वैतानिके महति कर्मणि युज्यमानः ॥२५॥ एवं विमृश्य सुधियो भगवत्यनन्ते सर्वात्मना विदधते खलु भावयोगम् । ते मे न दण्डमर्हन्त्यथ यद्यमीषां स्यात्पातकं तदपि हन्त्युरुगायवादः ॥२६॥ ते देवसिद्धपरिगीतपवित्रगाथाः ये साधवः समदृशो भगवत्प्रपन्नाः । तान् नोपसीदत हरेर्गदयाभिगुप्तान् नैषां वयं न च वयः प्रभवाम दण्डे ॥२७॥ तानानयध्वमसतो विमुखान् मुकुन्द- पादारविन्दमकरन्दरसादजस्रम् । निष्किञ्चनैः परमहंसकुलै रसज्ञैः जुष्टाद्गृहे निरयवर्त्मनि बद्धतृष्णान् ॥२८॥ जिह्वा न वक्ति भगवद्गुणनामधेयं चेतश्च न स्मरति तच्चरणारविन्दम् । कृष्णाय नो नमति यच्छिर एकदापि तानानयध्वमसतोऽकृतविष्णुकृत्यान् ॥२९॥ तत्क्षम्यतां स भगवान् पुरुषः पुराणो नारायणः स्वपुरुषैर्यदसत्कृतं नः । स्वानामहो न विदुषां रचिताञ्जलीनां क्षान्तिर्गरीयसि नमः पुरुषाय भूम्ने ॥३०॥ तस्मात्सङ्कीर्तनं विष्णोर्जगन्मङ्गलमंहसाम्। महतामपि कौरव्य विद्ध्यैकान्तिकनिष्कृतिम् ॥३१॥ शृण्वतां गृणतां वीर्याण्युद्दामानि हरेर्मुहुः। यथा सुजातया भक्त्या शुद्ध्येन्नात्मा व्रतादिभिः ॥३२॥ कृष्णाङ्घ्रिपद्ममधुलिण् न पुनर्विसृष्ट- मायागुणेषु रमते वृजिनावहेषु । अन्यस्तु कामहत आत्मरजः प्रमार्ष्टुमीहेत कर्म यत एव रजः पुनः स्यात् ॥३३॥ इत्थं स्वभर्तृगदितं भगवन्महित्वं संस्मृत्य विस्मितधियो यमकिङ्करास्ते । नैवाच्युताश्रयजनं प्रतिशङ्कमाना द्रष्टुं च बिभ्यति ततः प्रभृति स्म राजन् ॥३४॥ इतिहासमिमं गुह्यं भगवान् कुम्भसम्भवः। कथयामास मलये आसीनो हरिमर्चयन् ॥३५॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे यमपुरुषसंवादे तृतीयोऽध्यायः ॥३॥

॥ चतुर्थोऽध्यायः - ४ ॥

राजोवाच देवासुरनृणां सर्गो नागानां मृगपक्षिणाम्। सामासिकस्त्वया प्रोक्तो यस्तु स्वायम्भुवेऽन्तरे ॥१॥ तस्यैव व्यासमिच्छामि ज्ञातुं ते भगवन् यथा। अनुसर्गं यया शक्त्या ससर्ज भगवान् परः ॥२॥ सूत उवाच इति सम्प्रश्नमाकर्ण्य राजर्षेर्बादरायणिः। प्रतिनन्द्य महायोगी जगाद मुनिसत्तमाः ॥३॥ श्रीशुक उवाच यदा प्रचेतसः पुत्रा दश प्राचीनबर्हिषः। अन्तःसमुद्रादुन्मग्ना ददृशुर्गां द्रुमैर्वृताम् ॥४॥ द्रुमेभ्यः क्रुध्यमानास्ते तपोदीपितमन्यवः। मुखतो वायुमग्निं च ससृजुस्तद्दिधक्षया ॥५॥ ताभ्यां निर्दह्यमानांस्तानुपलभ्य कुरूद्वह। राजोवाच महान् सोमो मन्युं प्रशमयन्निव ॥६॥ न द्रुमेभ्यो महाभागा दीनेभ्यो द्रोग्धुमर्हथ। विवर्धयिषवो यूयं प्रजानां पतयः स्मृताः ॥७॥ अहो प्रजापतिपतिर्भगवान् हरिरव्ययः। वनस्पतीनोषधीश्च ससर्जोर्जमिषं विभुः ॥८॥ अन्नं चराणामचरा ह्यपदः पादचारिणाम्। अहस्ता हस्तयुक्तानां द्विपदां च चतुष्पदः ॥९॥ यूयं च पित्रान्वादिष्टा देवदेवेन चानघाः। प्रजासर्गाय हि कथं वृक्षान् निर्दग्धुमर्हथ ॥१०॥ आतिष्ठत सतां मार्गं कोपं यच्छत दीपितम्। पित्रा पितामहेनापि जुष्टं वः प्रपितामहैः ॥११॥ तोकानां पितरौ बन्धू दृशः पक्ष्म स्त्रियाः पतिः। पतिः प्रजानां भिक्षूणां गृह्यज्ञानां बुधः सुहृत् ॥१२॥ अन्तर्देहेषु भूतानामात्माऽऽस्ते हरिरीश्वरः। सर्वं तद्धिष्ण्यमीक्षध्वमेवं वस्तोषितो ह्यसौ ॥१३॥ यः समुत्पतितं देह आकाशान्मन्युमुल्बणम्। आत्मजिज्ञासया यच्छेत्स गुणानतिवर्तते ॥१४॥ अलं दग्धैर्द्रुमैर्दीनैः खिलानां शिवमस्तु वः। वार्क्षी ह्येषा वरा कन्या पत्नीत्वे प्रतिगृह्यताम् ॥१५॥ इत्यामन्त्र्य वरारोहां कन्यामाप्सरसीं नृप। सोमो राजा ययौ दत्त्वा ते धर्मेणोपयेमिरे ॥१६॥ तेभ्यस्तस्यां समभवद्दक्षः प्राचेतसः किल। यस्य प्रजाविसर्गेण लोका आपूरितास्त्रयः ॥१७॥ यथा ससर्ज भूतानि दक्षो दुहितृवत्सलः। रेतसा मनसा चैव तन्ममावहितः शृणु ॥१८॥ मनसैवासृजत्पूर्वं प्रजापतिरिमाः प्रजाः। देवासुरमनुष्यादीन् नभःस्थलजलौकसः ॥१९॥ तमबृंहितमालोक्य प्रजासर्गं प्रजापतिः। विन्ध्यपादानुपव्रज्य सोऽचरद्दुष्करं तपः ॥२०॥ तत्राघमर्षणं नाम तीर्थं पापहरं परम्। उपस्पृश्यानुसवनं तपसातोषयद्धरिम् ॥२१॥ अस्तौषीद्धंसगुह्येन भगवन्तमधोक्षजम्। तुभ्यं तदभिधास्यामि कस्यातुष्यद्यथा हरिः ॥२२॥ प्रजापतिरुवाच नमः परायावितथानुभूतये गुणत्रयाभासनिमित्तबन्धवे। अदृष्टधाम्ने गुणतत्त्वबुद्धिभि- र्निवृत्तमानाय दधे स्वयम्भुवे ॥२३॥ न यस्य सख्यं पुरुषोऽवैति सख्युः सखा वसन् संवसतः पुरेऽस्मिन्। गुणो यथा गुणिनो व्यक्तदृष्टेस्तस्मै महेशाय नमस्करोमि ॥२४॥ देहोऽसवोऽक्षा मनवो भूतमात्रा नात्मानमन्यं च विदुः परं यत्। सर्वं पुमान् वेद गुणांश्च तज्ज्ञो न वेद सर्वज्ञमनन्तमीडे ॥२५॥ यदोपरामो मनसो नामरूप- रूपस्य दृष्टस्मृतिसम्प्रमोषात्। य ईयते केवलया स्वसंस्थया हंसाय तस्मै शुचिसद्मने नमः ॥२६॥ मनीषिणोऽन्तर्हृदि सन्निवेशितं स्वशक्तिभिर्नवभिश्च त्रिवृद्भिः। वह्निं यथा दारुणि पाञ्चदश्यं मनीषया निष्कर्षन्ति गूढम् ॥२७॥ स वै ममाशेषविशेषमाया- निषेधनिर्वाणसुखानुभूतिः। स सर्वनामा स च विश्वरूपः प्रसीदतामनिरुक्तात्मशक्तिः ॥२८॥ यद्यन्निरुक्तं वचसा निरूपितं धियाक्षभिर्वा मनसोऽत यस्य। मा भूत्स्वरूपं गुणरूपं हि तत्तत्स वै गुणापायविसर्गलक्षणः ॥२९॥ यस्मिन् यतो येन च यस्य यस्मै यद्यो यथा कुरुते कार्यते च। परावरेषां परमं प्राक्प्रसिद्धं तद्ब्रह्म तद्धेतुरनन्यदेकम् ॥३०॥ यच्छक्तयो वदतां वादिनां वै विवादसंवादभुवो भवन्ति। कुर्वन्ति चैषां मुहुरात्ममोहं तस्मै नमोऽनन्तगुणाय भूम्ने ॥३१॥ अस्तीति नास्तीति च वस्तुनिष्ठयो- रेकस्थयोर्भिन्नविरुद्धधर्मयोः। अवेक्षितं किञ्चन योगसाङ्ख्ययोः समं परं ह्यनुकूलं बृहत्तत् ॥३२॥ योऽनुग्रहार्थं भजतां पादमूल- मनामरूपो भगवाननन्तः। नामानि रूपाणि च जन्मकर्मभि- र्भेजे स मह्यं परमः प्रसीदतु ॥३३॥ यः प्राकृतैर्ज्ञानपथैर्जनानां यथाशयं देहगतो विभाति। यथानिलः पार्थिवमाश्रितो गुणं स ईश्वरो मे कुरुतान्मनोरथम् ॥३४॥ श्रीशुक उवाच इति स्तुतः संस्तुवतः स तस्मिन्नघमर्षणे। आविरासीत्कुरुश्रेष्ठ भगवान् भक्तवत्सलः ॥३५॥ स गो ना सं गोगो कृतपादः सुपर्णांसे प्रलम्बाष्टमहाभुजः। चक्रशङ्खासिचर्मेषु धनुःपाशगदाधरः ॥३६॥ पीतवासा घनश्यामः प्रसन्नवदनेक्षणः। वनमालानिवीताङ्गो लसच्छ्रीवत्सकौस्तुभः ॥३७॥ महाकिरीटकटकः स्फुरन्मकरकुण्डलः। काञ्च्यङ्गुलीयवलयनूपुराङ्गदभूषितः ॥३८॥ त्रैलोक्यमोहनं रूपं बिभ्रत्त्रिभुवनेश्वरः। वृतो नारदनन्दाद्यैः पार्षदैः सुरयूथपैः ॥३९॥ स्तूयमानोऽनुगायद्भिः सिद्धगन्धर्वचारणैः। रूपं तन्महदाश्चर्यं विचक्ष्यागतसाध्वसः ॥४०॥ ननाम दण्डवद्भूमौ प्रहृष्टात्मा प्रजापतिः। न किञ्चनोदीरयितुमशकत्तीव्रया मुदा। आपूरितमनोद्वारैर्ह्रदिन्य इव निर्झरैः ॥४१॥ तं तथावनतं भक्तं प्रजाकामं प्रजापतिम्। चित्तज्ञः सर्वभूतानामिदमाह जनार्दनः ॥४२॥ श्रीभगवानुवाच प्राचेतस महाभाग संसिद्धस्तपसा भवान्। यच्छ्रद्धया मत्परया मयि भावं परं गतः ॥४३॥ प्रीतोऽहं ते प्रजानाथ यत्तेऽस्योद्बृंहणं तपः। ममैष कामो भूतानां यद्भूयासुर्विभूतयः ॥४४॥ ब्रह्मा भवो भवन्तश्च मनवो विबुधेश्वराः। विभूतयो मम ह्येता भूतानां भूतिहेतवः ॥४५॥ तपो मे हृदयं ब्रह्मंस्तनुर्विद्या क्रियाकृतिः। अङ्गानि क्रतवो जाता धर्म आत्मासवः सुराः ॥४६॥ अहमेवासमेवाग्रे नान्यत्किञ्चान्तरं बहिः। संज्ञानमात्रमव्यक्तं प्रसुप्तमिव विश्वतः ॥४७॥ मय्यनन्तगुणेऽनन्ते गुणतो गुणविग्रहः। यदासीत्तत एवाद्यः स्वयम्भूः समभूदजः ॥४८॥ स वै यदा महादेवो मम वीर्योपबृंहितः। मेने खिलमिवात्मानमुद्यतः सर्गकर्मणि ॥४९॥ अथ मेऽभिहितो देवस्तपोऽतप्यत दारुणम्। नव विश्वसृजो युष्मान् येनादावसृजद्विभुः ॥५०॥ एषा पञ्चजनस्याङ्ग दुहिता वै प्रजापतेः। असिक्नी नाम पत्नीत्वे प्रजेश प्रतिगृह्यताम् ॥५१॥ मिथुनव्यवायधर्मस्त्वं प्रजासर्गमिमं पुनः। मिथुनव्यवायधर्मिण्यां भूरिशो भावयिष्यसि ॥५२॥ त्वत्तोऽधस्तात्प्रजाः सर्वा मिथुनीभूय मायया। मदीयया भविष्यन्ति हरिष्यन्ति च मे बलिम् ॥५३॥ श्रीशुक उवाच इत्युक्त्वा मिषतस्तस्य भगवान् विश्वभावनः। स्वप्नोपलब्धार्थ इव तत्रैवान्तर्दधे हरिः ॥५४॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे चतुर्थोऽध्यायः ॥४॥

॥ पञ्चमोऽध्यायः - ५ ॥

श्रीशुक उवाच तस्यां स पाञ्चजन्यां वै विष्णुमायोपबृंहितः। हर्यश्वसंज्ञानयुतं पुत्रानजनयद्विभुः ॥१॥ अपृथग्धर्मशीलास्ते सर्वे दाक्षायणा नृप। पित्रा प्रोक्ताः प्रजासर्गे प्रतीचीं प्रययुर्दिशम् ॥२॥ तत्र नारायणसरस्तीर्थं सिन्धुसमुद्रयोः। सङ्गमो यत्र सुमहन्मुनिसिद्धनिषेवितम् ॥३॥ तदुपस्पर्शनादेव विनिर्धूतमलाशयाः। धर्मे पारमहंस्ये च प्रोत्पन्नमतयोऽप्युत ॥४॥ तेपिरे तप एवोग्रं पित्रादेशेन यन्त्रिताः। प्रजाविवृद्धये यत्तान् देवर्षिस्तान् ददर्श ह ॥५॥ उवाच चाथ हर्यश्वाः कथं स्रक्ष्यथ वै प्रजाः। अदृष्ट्वान्तं भुवो यूयं बालिशा बत पालकाः ॥६॥ तथैकपुरुषं राष्ट्रं बिलं चादृष्टनिर्गमम्। बहुरूपां स्त्रियं चापि पुमांसं पुंश्चलीपतिम् ॥७॥ नदीमुभयतो वाहां पञ्चपञ्चाद्भुतं गृहम्। क्वचिद्धंसं चित्रकथं क्षौरपव्यं स्वयं भ्रमिम् ॥८॥ कथं स्वपितुरादेशमविद्वांसो विपश्चितः। अनुरूपमविज्ञाय अहो सर्गं करिष्यथ ॥९॥ श्रीशुक उवाच तन्निशम्याथ हर्यश्वा औत्पत्तिकमनीषया। वाचः कूटं तु देवर्षेः स्वयं विममृशुर्धिया ॥१०॥ भूः क्षेत्रं जीवसंज्ञं यदनादि निजबन्धनम्। अदृष्ट्वा तस्य निर्वाणं किमसत्कर्मभिर्भवेत् ॥११॥ एक एवेश्वरस्तुर्यो भगवान् स्वाश्रयः परः। तमदृष्ट्वाभवं पुंसः किमसत्कर्मभिर्भवेत् ॥१२॥ पुमान् नैवैति यद्गत्वा बिलस्वर्गं गतो यथा। प्रत्यग्धामाविद इह किमसत्कर्मभिर्भवेत् ॥१३॥ नानारूपात्मनो बुद्धिः स्वैरिणीव गुणान्विता। तन्निष्ठामगतस्येह किमसत्कर्मभिर्भवेत् ॥१४॥ तत्सङ्गभ्रंशितैश्वर्यं संसरन्तं कुभार्यवत्। तद्गतीरबुधस्येह किमसत्कर्मभिर्भवेत् ॥१५॥ सृष्ट्यप्ययकरीं मायां वेलाकूलान्तवेगिताम्। मत्तस्य तामविज्ञस्य किमसत्कर्मभिर्भवेत् ॥१६॥ पञ्चविंशतितत्त्वानां पुरुषोऽद्भुतदर्पणम्। अध्यात्ममबुधस्येह किमसत्कर्मभिर्भवेत् ॥१७॥ ऐश्वरं शास्त्रमुत्सृज्य बन्धमोक्षानुदर्शनम्। विविक्तपदमज्ञाय किमसत्कर्मभिर्भवेत् ॥१८॥ कालचक्रं भ्रमिस्तीक्ष्णं सर्वं निष्कर्षयज्जगत्। स्वतन्त्रमबुधस्येह किमसत्कर्मभिर्भवेत् ॥१९॥ शास्त्रस्य पितुरादेशं यो न वेद निवर्तकम्। कथं तदनुरूपाय गुणविस्रम्भ्युपक्रमेत् ॥२०॥ इति व्यवसिता राजन् हर्यश्वा एकचेतसः। प्रययुस्तं परिक्रम्य पन्थानमनिवर्तनम् ॥२१॥ स्वरब्रह्मणि निर्भातहृषीकेशपदाम्बुजे। अखण्डं चित्तमावेश्य लोकाननुचरन् मुनिः ॥२२॥ नाशं निशम्य पुत्राणां नारदाच्छीलशालिनाम्। अन्वतप्यत कः शोचन् सुप्रजास्त्वं शुचां पदम् ॥२३॥ स भूयः पाञ्चजन्यायामजेन परिसान्त्वितः। पुत्रानजनयद्दक्षः शबलाश्वान् सहस्रशः ॥२४॥ तेऽपि पित्रा समादिष्टाः प्रजासर्गे धृतव्रताः। नारायणसरो जग्मुर्यत्र सिद्धाः स्वपूर्वजाः ॥२५॥ तदुपस्पर्शनादेव विनिर्धूतमलाशयाः। जपन्तो ब्रह्म परमं तेपुस्तेऽत्र महत्तपः ॥२६॥ अब्भक्षाः कतिचिन्मासान् कतिचिद्वायुभोजनाः। आराधयन् मन्त्रमिममभ्यस्यन्त इडस्पतिम् ॥२७॥ ओं नमो नारायणाय पुरुषाय महात्मने। विशुद्धसत्त्वधिष्ण्याय महाहंसाय धीमहि ॥२८॥ इति तानपि राजेन्द्र प्रतिसर्गधियो मुनिः। उपेत्य नारदः प्राह वाचः कूटानि पूर्ववत् ॥२९॥ दाक्षायणाः संशृणुत गदतो निगमं मम। अन्विच्छतानुपदवीं भ्रातॄणां भ्रातृवत्सलाः ॥३०॥ भ्रातॄणां प्रायणं भ्राता योऽनुतिष्ठति धर्मवित्। स पुण्यबन्धुः पुरुषो मरुद्भिः सह मोदते ॥३१॥ एतावदुक्त्वा प्रययौ नारदोऽमोघदर्शनः। तेऽपि चान्वगमन् मार्गं भ्रातॄणामेव मारिष ॥३२॥ सध्रीचीनं प्रतीचीनं परस्यानुपथं गताः। नाद्यापि ते निवर्तन्ते पश्चिमा यामिनीरिव ॥३३॥ एतस्मिन् काल उत्पातान् बहून् पश्यन् प्रजापतिः। पूर्ववन्नारदकृतं पुत्रनाशमुपाशृणोत् ॥३४॥ चुक्रोध नारदायासौ पुत्रशोकविमूर्च्छितः। देवर्षिमुपलभ्याह रोषाद्विस्फुरिताधरः ॥३५॥ दक्ष उवाच अहो असाधो साधूनां साधुलिङ्गेन नस्त्वया। असाध्वकार्यर्भकाणां भिक्षोर्मार्गः प्रदर्शितः ॥३६॥ ऋणैस्त्रिभिरमुक्तानाममीमांसितकर्मणाम्। विघातः श्रेयसः पाप लोकयोरुभयोः कृतः ॥३७॥ एवं त्वं निरनुक्रोशो बालानां मतिभिद्धरेः। पार्षदमध्ये चरसि यशोहा निरपत्रपः ॥३८॥ ननु भागवता नित्यं भूतानुग्रहकातराः। ऋते त्वां सौहृदघ्नं वै वैरङ्करमवैरिणाम् ॥३९॥ नेत्थं पुंसां विरागः स्यात्त्वया केवलिना मृषा। मन्यसे यद्युपशमं स्नेहपाशनिकृन्तनम् ॥४०॥ नानुभूय न जानाति पुमान् विषयतीक्ष्णताम्। निर्विद्यते स्वयं तस्मान्न तथा भिन्नधीः परैः ॥४१॥ यन्नस्त्वं कर्मसन्धानां साधूनां गृहमेधिनाम्। कृतवानसि दुर्मर्षं विप्रियं तव मर्षितम् ॥४२॥ तन्तुकृन्तन यन्नस्त्वमभद्रमचरः पुनः। तस्माल्लोकेषु ते मूढ न भवेद्भ्रमतः पदम् ॥४३॥ श्रीशुक उवाच प्रतिजग्राह तद्बाढं नारदः साधुसम्मतः। एतावान् साधुवादो हि तितिक्षेतेश्वरः स्वयम् ॥४४॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे नारदशापो नाम पञ्चमोऽध्यायः ॥५॥

॥ षष्ठोऽध्यायः - ६ ॥

श्रीशुक उवाच ततः प्राचेतसोऽसिक्न्यामनुनीतः स्वयम्भुवा। षष्टिं सञ्जनयामास दुहितॄः पितृवत्सलाः ॥१॥ दश धर्माय कायेन्दोर्द्विषट्त्रिणव दत्तवान्। भूताङ्गिरःकृशाश्वेभ्यो द्वे द्वे तार्क्ष्याय चापराः ॥२॥ नामधेयान्यमूषां त्वं सापत्यानां च मे शृणु। यासां प्रसूतिप्रसवैर्लोका आपूरितास्त्रयः ॥३॥ भानुर्लम्बा ककुद्यामिर्विश्वा साध्या मरुत्वती। वसुर्मुहूर्ता सङ्कल्पा धर्मपत्न्यः सुताञ्शृणु ॥४॥ भानोस्तु देवऋषभ इन्द्रसेनस्ततो नृप। विद्योत आसील्लम्बायास्ततश्च स्तनयित्नवः ॥५॥ ककुदः सङ्कटस्तस्य कीकटस्तनयो यतः। भुवो दुर्गाणि जामेयः स्वर्गो नन्दिस्ततोऽभवत्॥६॥ विश्वेदेवास्तु विश्वाया अप्रजांस्तान् प्रचक्षते। साध्योगणस्तु साध्याया अर्थसिद्धिस्तु तत्सुतः ॥७॥ मरुत्वांश्च जयन्तश्च मरुत्वत्यां बभूवतुः। जयन्तो वासुदेवांश उपेन्द्र इति यं विदुः ॥८॥ मौहूर्तिका देवगणा मुहूर्तायाश्च जज्ञिरे। ये वै फलं प्रयच्छन्ति भूतानां स्वस्वकालजम् ॥९॥ सङ्कल्पायाश्च सङ्कल्पः कामः सङ्कल्पजः स्मृतः। वसवोऽष्टौ वसोः पुत्रास्तेषां नामानि मे शृणु ॥१०॥ द्रोणः प्राणो ध्रुवोऽर्कोऽग्निर्दोषो वसुर्विभावसुः। द्रोणस्याभिमतेः पत्न्या हर्षशोकभयादयः ॥११॥ प्राणस्योर्जस्वती भार्या सह आयुः पुरोजवः। ध्रुवस्य भार्या धरणिरसूत विविधाः पुरः ॥१२॥ अर्कस्य वासना भार्या पुत्रास्तर्षादयः स्मृताः। अग्नेर्भार्या वसोर्धारा पुत्रा द्रविणकादयः ॥१३॥ स्कन्दश्च कृत्तिकापुत्रो ये विशाखादयस्ततः। दोषस्य शर्वरीपुत्रः शिशुमारो हरेः कला ॥१४॥ वसोराङ्गिरसीपुत्रो विश्वकर्मा कृतीपतिः। ततो मनुश्चाक्षुषोऽभूद्विश्वे साध्या मनोः सुताः ॥१५॥ विभावसोरसूतोषा व्युष्टं रोचिषमातपम्। पञ्चयामोऽथ भूतानि येन जाग्रति कर्मसु ॥१६॥ सरूपासूत भूतस्य भार्या रुद्रांश्च कोटिशः। रैवतोऽजो भवो भीमो वाम उग्रो वृषाकपिः ॥१७॥ अजैकपादहिर्बुध्न्यो बहुरूपो महानिति। रुद्रस्य पार्षदाश्चान्ये घोराः भूतविनायकाः ॥१८॥ प्रजापतेरङ्गिरसः स्वधा पत्नी पितॄनथ। अथर्वाङ्गिरसं वेदं पुत्रत्वे चाकरोत्सती ॥१९॥ कृशाश्वोऽर्चिषि भार्यायां धूम्रकेशमजीजनत्। धिषणायां वेदशिरो देवलं वयुनं मनुम् ॥२०॥ तार्क्ष्यस्य विनता कद्रूः पतङ्गी यामिनीति च। पतङ्ग्यसूत पतगान् यामिनी शलभानथ ॥२१॥ सुपर्णासूत गरुडं साक्षाद्यज्ञेशवाहनम्। सूर्यसूतमनूरुं च कद्रूर्नागाननेकशः ॥२२॥ कृत्तिकादीनि नक्षत्राणीन्दोः पत्न्यस्तु भारत। दक्षशापात्सोऽनपत्यस्तासु यक्ष्मग्रहार्दितः ॥२३॥ पुनः प्रसाद्य तं सोमः कला लेभे क्षये दिताः। शृणु नामानि लोकानां मातॄणां शङ्कराणि च ॥२४॥ अथ कश्यपपत्नीनां यत्प्रसूतमिदं जगत्। अदितिर्दितिर्दनुः काष्ठा अरिष्टा सुरसा इला ॥२५॥ मुनिः क्रोधवशा ताम्रा सुरभिः सरमा तिमिः। तिमेर्यादोगणा आसन् श्वापदाः सरमासुताः ॥२६॥ सुरभेर्महिषा गावो ये चान्ये द्विशफा नृप। ताम्रायाः श्येनगृध्राद्या मुनेरप्सरसां गणाः ॥२७॥ दन्दशूकादयः सर्पा राजन् क्रोधवशात्मजाः। इलाया भूरुहाः सर्वे यातुधानाश्च सौरसाः ॥२८॥ अरिष्टायाश्च गन्धर्वाः काष्ठाया द्विशफेतराः। सुता दनोरेकषष्टिस्तेषां प्राधानिकाञ्छ्रृणु ॥२९॥ द्विमूर्धा शम्बरोऽरिष्टो हयग्रीवो विभावसुः। अयोमुखः शङ्कुशिराः स्वर्भानुः कपिलोऽरुणः ॥३०॥ पुलोमा वृषपर्वा च एकचक्रोऽनुतापनः। धूम्रकेशो विरूपाक्षो विप्रचित्तिश्च दुर्जयः ॥३१॥ स्वर्भानोः सुप्रभां कन्यामुवाह नमुचिः किल। वृषपर्वणस्तु शर्मिष्ठां ययातिर्नाहुषो बली ॥३२॥ वैश्वानरसुता याश्च चतस्रश्चारुदर्शनाः। उपदानवी हयशिरा पुलोमा कालका तथा ॥३३॥ उपदानवीं हिरण्याक्षः क्रतुर्हयशिरां नृप। पुलोमां कालकां च द्वे वैश्वानरसुते तु कः ॥३४॥ उपयेमेऽथ भगवान् कश्यपो ब्रह्मचोदितः। पौलोमाः कालकेयाश्च दानवा युद्धशालिनः ॥३५॥ तयोः षष्टिसहस्राणि यज्ञघ्नांस्ते पितुः पिता। जघान स्वर्गतो राजन्नेक इन्द्रप्रियङ्करः ॥३६॥ विप्रचित्तिः सिंहिकायां शतं चैकमजीजनत्। राहुज्येष्ठं केतुशतं ग्रहत्वं य उपागतः ॥३७॥ अथातः श्रूयतां वंशो योऽदितेरनुपूर्वशः। यत्र नारायणो देवः स्वांशेनावातरद्विभुः ॥३८॥ विवस्वानर्यमा पूषा त्वष्टाथ सविता भगः। धाता विधाता वरुणो मित्रः शक्र उरुक्रमः ॥३९॥ विवस्वतः श्राद्धदेवं संज्ञासूयत वै मनुम्। मिथुनं च महाभागा यमं देवं यमीं तथा। सैव भूत्वाथ बडवा नासत्यौ सुषुवे भुवि ॥४०॥ छाया शनैश्चरं लेभे सावर्णिं च मनुं ततः। कन्यां च तपतीं या वै वव्रे संवरणं पतिम् ॥४१॥ अर्यम्णो मातृका पत्नी तयोश्चर्षणयः सुताः। यत्र वै मानुषी जातिर्ब्रह्मणा चोपकल्पिता ॥४२॥ पूषानपत्यः पिष्टादो भग्नदन्तोऽभवत्पुरा। योऽसौ दक्षाय कुपितं जहास विवृतद्विजः ॥४३॥ त्वष्टुर्दैत्यानुजा भार्या रचना नाम कन्यका। सन्निवेशस्तयोर्जज्ञे विश्वरूपश्च वीर्यवान् ॥४४॥ तं वव्रिरे सुरगणा स्वस्रीयं द्विषतामपि। विमतेन परित्यक्ता गुरुणाङ्गिरसेन यत् ॥४५॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे षष्ठोऽध्यायः ॥६॥

॥ सप्तमोऽध्यायः - ७ ॥

राजोवाच कस्य हेतोः परित्यक्ता आचार्येणात्मनः सुराः। एतदाचक्ष्व भगवञ्छिष्याणामक्रमं गुरौ ॥१॥ श्रीशुक उवाच इन्द्रस्त्रिभुवनैश्वर्यमदोल्लङ्घितसत्पथः। मरुद्भिर्वसुभी रुद्रैरादित्यैरृभुभिर्नृप ॥२॥ विश्वेदेवैश्च साध्यैश्च नासत्याभ्यां परिश्रितः। सिद्धचारणगन्धर्वैर्मुनिभिर्ब्रह्मवादिभिः ॥३॥ विद्याधराप्सरोभिश्च किन्नरैः पतगोरगैः। निषेव्यमाणो मघवान् स्तूयमानश्च भारत ॥४॥ उपगीयमानो ललितमास्थानाध्यासनाश्रितः। पाण्डुरेणातपत्रेण चन्द्रमण्डलचारुणा ॥५॥ युक्तश्चान्यैः पारमेष्ठ्यैश्चामरव्यजनादिभिः। विराजमानः पौलोम्या सहार्धासनया भृशम् ॥६॥ स यदा परमाचार्यं देवानामात्मनश्च ह। नाभ्यनन्दत सम्प्राप्तं प्रत्युत्थानासनादिभिः ॥७॥ वाचस्पतिं मुनिवरं सुरासुरनमस्कृतम्। नोच्चचालासनादिन्द्रः पश्यन्नपि सभागतम् ॥८॥ ततो निर्गत्य सहसा कविराङ्गिरसः प्रभुः। आययौ स्वगृहं तूष्णीं विद्वान् श्रीमदविक्रियाम् ॥९॥ तर्ह्येव प्रतिबुध्येन्द्रो गुरुहेलनमात्मनः। गर्हयामास सदसि स्वयमात्मानमात्मना ॥१०॥ अहो बत मयासाधु कृतं वै दभ्रबुद्धिना। यन्मयैश्वर्यमत्तेन गुरुः सदसि कात्कृतः ॥११॥ को गृध्येत्पण्डितो लक्ष्मीं त्रिविष्टपपतेरपि। ययाहमासुरं भावं नीतोऽद्य विबुधेश्वरः ॥१२॥ ये पारमेष्ठ्यं धिषणमधितिष्ठन्न कञ्चन। प्रत्युत्तिष्ठेदिति ब्रूयुर्धर्मं ते न परं विदुः ॥१३॥ तेषां कुपथदेष्टॄणां पततां तमसि ह्यधः। ये श्रद्दध्युर्वचस्ते वै मज्जन्त्यश्मप्लवा इव ॥१४॥ अथाहममराचार्यमगाधधिषणं द्विजम्। प्रसादयिष्ये निशठः शीर्ष्णा तच्चरणं स्पृशन् ॥१५॥ एवं चिन्तयतस्तस्य मघोनो भगवान् गृहात्। बृहस्पतिर्गतोऽदृष्टां गतिमध्यात्ममायया ॥१६॥ गुरोर्नाधिगतः संज्ञां परीक्षन् भगवान् स्वराट्। ध्यायन् धिया सुरैर्युक्तः शर्म नालभतात्मनः ॥१७॥ तच्छ्रुत्वैवासुराः सर्व आश्रित्यौशनसं मतम्। देवान् प्रत्युद्यमं चक्रुर्दुर्मदा आततायिनः ॥१८॥ तैर्विसृष्टेषुभिस्तीक्ष्णैर्निर्भिन्नाङ्गोरुबाहवः। ब्रह्माणं शरणं जग्मुः सहेन्द्रा नतकन्धराः ॥१९॥ तांस्तथाभ्यर्दितान् वीक्ष्य भगवानात्मभूरजः। कृपया परया देव उवाच परिसान्त्वयन् ॥२०॥ ब्रह्मोवाच अहो बत सुरश्रेष्ठा ह्यभद्रं वः कृतं महत्। ब्रह्मिष्ठं ब्राह्मणं दान्तमैश्वर्यान्नाभ्यनन्दत ॥२१॥ तस्यायमनयस्यासीत्परेभ्यो वः पराभवः। प्रक्षीणेभ्यः स्ववैरिभ्यः समृद्धानां च यत्सुराः ॥२२॥ मघवन् द्विषतः पश्य प्रक्षीणान् गुर्वतिक्रमात्। सम्प्रत्युपचितान् भूयः काव्यमाराध्य भक्तितः। आददीरन् निलयनं ममापि भृगुदेवताः ॥२३॥ त्रिविष्टपं किं गणयन्त्यभेद्यमन्त्रा भृगूणामनुशिक्षितार्थाः। न विप्रगोविन्दगवीश्वराणां भवन्त्यभद्राणि नरेश्वराणाम् ॥२४॥ तद्विश्वरूपं भजताशु विप्रं तपस्विनं त्वाष्ट्रमथात्मवन्तम्। सभाजितोऽर्थान् स विधास्यते वो यदि क्षमिष्यध्वमुतास्य कर्म ॥२५॥ श्रीशुक उवाच त एवमुदिता राजन् ब्रह्मणा विगतज्वराः। ऋषिं त्वाष्ट्रमुपव्रज्य परिष्वज्येदमब्रुवन् ॥२६॥ देवा ऊचुः वयं तेऽतिथयः प्राप्ता आश्रमं भद्रमस्तु ते। कामः सम्पाद्यतां तात पितॄणां समयोचितः ॥२७॥ पुत्राणां हि परो धर्मः पितृशुश्रूषणं सताम्। अपि पुत्रवतां ब्रह्मन् किमुत ब्रह्मचारिणाम् ॥२८॥ आचार्यो ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेः। भ्राता मरुत्पतेर्मूर्तिर्माता साक्षात्क्षितेस्तनुः ॥२९॥ दयाया भगिनी मूर्तिर्धर्मस्यात्मातिथिः स्वयम्। अग्नेरभ्यागतो मूर्तिः सर्वभूतानि चात्मनः ॥३०॥ तस्मात्पितॄणामार्तानामार्तिं परपराभवम्। तपसापनयंस्तात सन्देशं कर्तुमर्हसि ॥३१॥ वृणीमहे त्वोपाध्यायं ब्रह्मिष्ठं ब्राह्मणं गुरुम्। यथाञ्जसा विजेष्यामः सपत्नांस्तव तेजसा ॥३२॥ न गर्हयन्ति ह्यर्थेषु यविष्ठाङ्घ्र्यभिवादनम्। छन्दोभ्योऽन्यत्र न ब्रह्मन् वयो ज्यैष्ठ्यस्य कारणम् ॥३३॥ ऋषिरुवाच अभ्यर्थितः सुरगणैः पौरोहित्ये महातपाः। स विश्वरूपस्तानाह प्रसन्नः श्लक्ष्णया गिरा ॥३४॥ विश्वरूप उवाच विगर्हितं धर्मशीलैर्ब्रह्मवर्च उपव्ययम्। कथं नु मद्विधो नाथा लोकेशैरभियाचितम्। प्रत्याख्यास्यति तच्छिष्यः स एव स्वार्थ उच्यते ॥३५॥ अकिञ्चनानां हि धनं शिलोञ्छनं तेनेह निर्वर्तितसाधुसत्क्रियः। कथं विगर्ह्यं नु करोम्यधीश्वराः पौरोधसं हृष्यति येन दुर्मतिः ॥३६॥ तथापि न प्रतिब्रूयां गुरुभिः प्रार्थितं कियत्। भवतां प्रार्थितं सर्वं प्राणैरर्थैश्च साधये ॥३७॥ श्रीशुक उवाच तेभ्य एवं प्रतिश्रुत्य विश्वरूपो महातपाः। पौरोहित्यं वृतश्चक्रे परमेण समाधिना ॥३८॥ सुरद्विषां श्रियं गुप्तामौशनस्यापि विद्यया। आच्छिद्यादान्महेन्द्राय वैष्णव्या विद्यया विभुः ॥३९॥ यया गुप्तः सहस्राक्षो जिग्येऽसुरचमूर्विभुः। तां प्राह स महेन्द्राय विश्वरूप उदारधीः ॥४०॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे सप्तमोऽध्यायः ॥७॥

॥ अष्टमोऽध्यायः - ८ ॥

राजोवाच यया गुप्तः सहस्राक्षः सवाहान् रिपुसैनिकान्। क्रीडन्निव विनिर्जित्य त्रिलोक्या बुभुजे श्रियम् ॥१॥ भगवंस्तन्ममाख्याहि वर्म नारायणात्मकम्। यथाऽऽततायिनः शत्रून् येन गुप्तोऽजयन् मृधे ॥२॥ श्रीशुक उवाच वृतः पुरोहितस्त्वाष्ट्रो महेन्द्रायानुपृच्छते। नारायणाख्यं वर्माह तदिहैकमनाः शृणु ॥३॥ विश्वरूप उवाच धौताङ्घ्रिपाणिराचम्य सपवित्र उदङ्मुखः। कृतस्वाङ्गकरन्यासो मन्त्राभ्यां वाग्यतः शुचिः ॥४॥ नारायणमयं वर्म सन्नह्येद्भय आगते। पादयोर्जानुनोरूर्वोरुदरे हृद्यथोरसि ॥५॥ मुखे शिरस्यानुपूर्व्यादोंकारादीनि विन्यसेत्। ओं नमो नारायणायेति विपर्ययमथापि वा ॥६॥ करन्यासं ततः कुर्याद्द्वादशाक्षरविद्यया। प्रणवादियकारान्तमङ्गुल्यङ्गुष्ठपर्वसु ॥७॥ न्यसेद्धृदय ओंकारं विकारमनु मूर्धनि। षकारं तु भ्रुवोर्मध्ये णकारं शिखया दिशेत् ॥८॥ वेकारं नेत्रयोर्युञ्ज्यान्नकारं सर्वसन्धिषु। मकारमस्त्रमुद्दिश्य मन्त्रमूर्तिर्भवेद्बुधः ॥९॥ सविसर्गं फडन्तं तत्सर्वदिक्षु विनिर्दिशेत्। ओं विष्णवे नम इति ॥१०॥ आत्मानं परमं ध्यायेद्ध्येयं षट् शक्तिभिर्युतम्। विद्यातेजस्तपोमूर्तिमिमं मन्त्रमुदाहरेत् ॥११॥ ओं हरिर्विदध्यान्मम सर्वरक्षां न्यस्ताङ्घ्रिपद्मः पतगेन्द्रपृष्ठे। दरारिचर्मासिगदेषुचापपाशान् दधानोऽष्टगुणोऽष्टबाहुः ॥१२॥ जलेषु मां रक्षतु मत्स्यमूर्ति- र्यादोगणेभ्यो वरुणस्य पाशात्। स्थलेषु मायावटुवामनोऽव्या- त्त्रिविक्रमः खेऽवतु विश्वरूपः ॥१३॥ दुर्गेष्वटव्याजिमुखादिषु प्रभुः पायान्नृसिंहोऽसुरयूथपारिः। विमुञ्चतो यस्य महाट्टहासं दिशो विनेदुर्न्यपतंश्च गर्भाः ॥१४॥ रक्षत्वसौ माध्वनि यज्ञकल्पः स्वदंष्ट्रयोन्नीतधरो वराहः। रामोऽद्रिकूटेष्वथ विप्रवासे सलक्ष्मणोऽव्याद्भरताग्रजोऽस्मान् ॥१५॥ मामुग्रधर्मादखिलात्प्रमादा- न्नारायणः पातु नरश्च हासात्। दत्तस्त्वयोगादथ योगनाथः पायाद्गुणेशः कपिलः कर्मबन्धात् ॥१६॥ सनत्कुमारोऽवतु कामदेवा- द्धयशीर्षा मां पथि देवहेलनात्। देवर्षिवर्यः पुरुषार्चनान्तरा- त्कूर्मो हरिर्मां निरयादशेषात् ॥१७॥ धन्वन्तरिर्भगवान् पात्वपथ्या- द्द्वन्द्वाद्भयादृषभो निर्जितात्मा। यज्ञश्च लोकादवताज्जनान्ता- द्बलो गणात्क्रोधवशादहीन्द्रः ॥१८॥ द्वैपायनो भगवानप्रबोधा- द्बुद्धस्तु पाखण्डगणप्रमादात्। कल्किः कलेः कालमलात्प्रपातु धर्मावनायोरुकृतावतारः ॥१९॥ मां केशवो गदया प्रातरव्या- द्गोविन्द आसङ्गवमात्तवेणुः। नारायणः प्राह्ण उदात्तशक्ति- र्मध्यन्दिने विष्णुररीन्द्रपाणिः ॥२०॥ देवोऽपराह्णे मधुहोग्रधन्वा सायं त्रिधामावतु माधवो माम्। दोषे हृषीकेश उतार्धरात्रे निशीथ एकोऽवतु पद्मनाभः ॥२१॥ श्रीवत्सधामापररात्र ईशः प्रत्यूष ईशोऽसिधरो जनार्दनः। दामोदरोऽव्यादनुसन्ध्यं प्रभाते विश्वेश्वरो भगवान् कालमूर्तिः ॥२२॥ चक्रं युगान्तानलतिग्मनेमि भ्रमत्समन्ताद्भगवत्प्रयुक्तम्। दन्दग्धि दन्दग्ध्यरिसैन्यमाशु कक्षं यथा वातसखो हुताशः ॥२३॥ गदेऽशनिस्पर्शनविस्फुलिङ्गे निष्पिण्ढि निष्पिण्ढ्यजितप्रियासि। कूष्माण्डवैनायकयक्षरक्षो- भूतग्रहांश्चूर्णय चूर्णयारीन् ॥२४॥ त्वं यातुधानप्रमथप्रेतमातृ- पिशाचविप्रग्रहघोरदृष्टीन्। दरेन्द्र विद्रावय कृष्णपूरितो भीमस्वनोऽरेर्हृदयानि कम्पयन् ॥२५॥ त्वं तिग्मधारासिवरारिसैन्य- मीशप्रयुक्तो मम छिन्धि छिन्धि। चक्षूंषि चर्मन्छतचन्द्र छादय द्विषामघोनां हर पापचक्षुषाम् ॥२६॥ यन्नो भयं ग्रहेभ्योऽभूत्केतुभ्यो नृभ्य एव च। सरीसृपेभ्यो दंष्ट्रिभ्यो भूतेभ्योंऽहोभ्य एव वा ॥२७॥ सर्वाण्येतानि भगवन् नामरूपास्त्रकीर्तनात्। प्रयान्तु सङ्क्षयं सद्यो ये नः श्रेयःप्रतीपकाः ॥२८॥ गरुडो भगवान् स्तोत्रस्तोभश्छन्दोमयः प्रभुः। रक्षत्वशेषकृच्छ्रेभ्यो विष्वक्सेनः स्वनामभिः ॥२९॥ सर्वापद्भ्यो हरेर्नामरूपयानायुधानि नः। बुद्धीन्द्रियमनःप्राणान् पान्तु पार्षदभूषणाः ॥३०॥ यथा हि भगवानेव वस्तुतः सदसच्च यत्। सत्येनानेन नः सर्वे यान्तु नाशमुपद्रवाः ॥३१॥ यथैकात्म्यानुभावानां विकल्परहितः स्वयम्। भूषणायुधलिङ्गाख्या धत्ते शक्तीः स्वमायया ॥३२॥ तेनैव सत्यमानेन सर्वज्ञो भगवान् हरिः। पातु सर्वैः स्वरूपैर्नः सदा सर्वत्र सर्वगः ॥३३॥ विदिक्षु दिक्षूर्ध्वमधः समन्ता- दन्तबर्हिर्भगवान् नारसिंहः। प्रहापयँल्लोकभयं स्वनेन स्वतेजसा ग्रस्तसमस्ततेजाः ॥३४॥ मघवन्निदमाख्यातं वर्म नारायणात्मकम्। विजेष्यस्यञ्जसा येन दंशितोऽसुरयूथपान् ॥३५॥ एतद्धारयमाणस्तु यं यं पश्यति चक्षुषा। पदा वा संस्पृशेत्सद्यः साध्वसात्स विमुच्यते ॥३६॥ न कुतश्चिद्भयं तस्य विद्यां धारयतो भवेत्। राजदस्युग्रहादिभ्यो व्याध्यादिभ्यश्च कर्हिचित् ॥३७॥ इमां विद्यां पुरा कश्चित्कौशिको धारयन् द्विजः। योगधारणया स्वाङ्गं जहौ स मरुधन्वनि ॥३८॥ तस्योपरि विमानेन गन्धर्वपतिरेकदा। ययौ चित्ररथः स्त्रीभिर्वृतो यत्र द्विजक्षयः ॥३९॥ गगनान्न्यपतत्सद्यः सविमानो ह्यवाक्शिराः। स वालखिल्यवचनादस्थीन्यादाय विस्मितः। प्रास्य प्राचीसरस्वत्यां स्नात्वा धाम स्वमन्वगात्॥४०॥ श्रीशुक उवाच य इदं शृणुयात्काले यो धारयति चादृतः। तं नमस्यन्ति भूतानि मुच्यते सर्वतो भयात् ॥४१॥ एतां विद्यामधिगतो विश्वरूपाच्छतक्रतुः। त्रैलोक्यलक्ष्मीं बुभुजे विनिर्जित्य मृधेऽसुरान् ॥४२॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे नारायणवर्मकथनं नामाष्टमोऽध्यायः ॥८॥

॥ नवमोऽध्यायः - ९ ॥

श्रीशुक उवाच तस्यासन् विश्वरूपस्य शिरांसि त्रीणि भारत। सोमपीथं सुरापीथमन्नादमिति शुश्रुम ॥१॥ स वै बर्हिषि देवेभ्यो भागं प्रत्यक्षमुच्चकैः। अददद्यस्य पितरो देवाः सप्रश्रयं नृप ॥२॥ स एव हि ददौ भागं परोक्षमसुरान् प्रति। यजमानोऽवहद्भागं मातृस्नेहवशानुगः ॥३॥ तद्देवहेलनं तस्य धर्मालीकं सुरेश्वरः। आलक्ष्य तरसा भीतस्तच्छीर्षाण्यच्छिनद्रुषा ॥४॥ सोमपीथं तु यत्तस्य शिर आसीत्कपिञ्जलः। कलविङ्कः सुरापीथमन्नादं यत्स तित्तिरिः ॥५॥ ब्रह्महत्यामञ्जलिना जग्राह यदपीश्वरः। संवत्सरान्ते तदघं भूतानां स विशुद्धये ॥६॥ भूम्यम्बुद्रुमयोषिद्भ्यश्चतुर्धा व्यभजद्धरिः। भूमिस्तुरीयं जग्राह खातपूरवरेण वै ॥७॥ ईरिणं ब्रह्महत्याया रूपं भूमौ प्रदृश्यते। तुर्यं छेदविरोहेण वरेण जगृहुर्द्रुमाः ॥८॥ तेषां निर्यासरूपेण ब्रह्महत्या प्रदृश्यते। शश्वत्कामवरेणांहस्तुरीयं जगृहुः स्त्रियः ॥९॥ रजोरूपेण तास्वंहो मासि मासि प्रदृश्यते। द्रव्यभूयोवरेणापस्तुरीयं जगृहुर्मलम् ॥१०॥ तासु बुद्बुदफेनाभ्यां दृष्टं तद्धरति क्षिपन्। हतपुत्रस्ततस्त्वष्टा जुहावेन्द्राय शत्रवे ॥११॥ इन्द्रशत्रो विवर्धस्व मा चिरं जहि विद्विषम्। अथान्वाहार्यपचनादुत्थितो घोरदर्शनः ॥१२॥ कृतान्त इव लोकानां युगान्तसमये यथा। विष्वग्विवर्धमानं तमिषुमात्रं दिने दिने ॥१३॥ दग्धशैलप्रतीकाशं सन्ध्याभ्रानीकवर्चसम्। तप्तताम्रशिखाश्मश्रुं मध्याह्नार्कोग्रलोचनम् ॥१४॥ देदीप्यमाने त्रिशिखे शूल आरोप्य रोदसी। नृत्यन्तमुन्नदन्तं च चालयन्तं पदा महीम् ॥१५॥ दरीगम्भीरवक्त्रेण पिबता च नभस्तलम्। लिहता जिह्वयर्क्षाणि ग्रसता भुवनत्रयम् ॥१६॥ महता रौद्रदंष्ट्रेण जृम्भमाणं मुहुर्मुहुः। वित्रस्ता दुद्रुवुर्लोका वीक्ष्य सर्वे दिशो दश ॥१७॥ येनावृता इमे लोकास्तमसा त्वाष्ट्रमूर्तिना। स वै वृत्र इति प्रोक्तः पापः परमदारुणः ॥१८॥ तं निजघ्नुरभिद्रुत्य सगणा विबुधर्षभाः। स्वैः स्वैर्दिव्यास्त्रशस्त्रौघैः सोऽग्रसत्तानि कृत्स्नशः ॥१९॥ ततस्ते विस्मिताः सर्वे विषण्णा ग्रस्ततेजसः। प्रत्यञ्चमादिपुरुषमुपतस्थुः समाहिताः ॥२०॥ देवा ऊचुः वाय्वम्बराग्न्यप्क्षितयस्त्रिलोका ब्रह्मादयो ये वयमुद्विजन्तः। हराम यस्मै बलिमन्तकोऽसौ बिभेति यस्मादरणं ततो नः ॥२१॥ अविस्मितं तं परिपूर्णकामं स्वेनैव लाभेन समं प्रशान्तम्। विनोपसर्पत्यपरं हि बालिशः श्वलाङ्गुलेनातितितर्ति सिन्धुम् ॥२२॥ यस्योरुशृङ्गे जगतीं स्वनावं मनुर्यथाबध्य ततार दुर्गम्। स एव नस्त्वाष्ट्रभयाद्दुरन्ता- त्त्राताश्रितान् वारिचरोऽपि नूनम् ॥२३॥ पुरा स्वयम्भूरपि संयमाम्भ- स्युदीर्णवातोर्मिरवैः कराले। एकोऽरविन्दात्पतितस्ततार तस्माद्भयाद्येन स नोऽस्तु पारः ॥२४॥ य एक ईशो निजमायया नः ससर्ज येनानुसृजाम विश्वम्। वयं न यस्यापि पुरः समीहतः पश्याम लिङ्गं पृथगीशमानिनः ॥२५॥ यो नः सपत्नैर्भृशमर्द्यमानान् देवर्षितिर्यङ्नृषु नित्य एव। कृतावतारस्तनुभिः स्वमायया कृत्वात्मसात्पाति युगे युगे च ॥२६॥ तमेव देवं वयमात्मदैवतं परं प्रधानं पुरुषं विश्वमन्यम्। व्रजाम सर्वे शरणं शरण्यं स्वानां स नो धास्यति शं महात्मा ॥२७॥ श्रीशुक उवाच इति तेषां महाराज सुराणामुपतिष्ठताम्। प्रतीच्यां दिश्यभूदाविः शङ्खचक्रगदाधरः ॥२८॥ आत्मतुल्यैः षोडशभिर्विना श्रीवत्सकौस्तुभौ। पर्युपासितमुन्निद्रशरदम्बुरुहेक्षणम् ॥२९॥ दृष्ट्वा तमवनौ सर्व ईक्षणाह्लादविक्लवाः। दण्डवत्पतिता राजञ्छनैरुत्थाय तुष्टुवुः ॥३०॥ देवा ऊचुः नमस्ते यज्ञवीर्याय वयसे उत ते नमः। नमस्ते ह्यस्तचक्राय नमः सुपुरुहूतये ॥३१॥ यत्ते गतीनां तिसृणामीशितुः परमं पदम्। नार्वाचीनो विसर्गस्य धातर्वेदितुमर्हति ॥३२॥ ओं नमस्तेऽस्तु भगवन् नारायण वासुदेवाऽऽदिपुरुष महापुरुष महानुभाव परममङ्गल परमकल्याण परमकारुणिक केवल जगदाधार लोकैकनाथ सर्वेश्वर लक्ष्मीनाथ परमहंसपरिव्राजकैः परमेणात्मयोगसमाधिना परिभावित-परिस्फुटपारमहंस्यधर्मेणोद्घाटिततमः- कपाटद्वारे चित्तेऽपावृत आत्मलोके स्वयमुपलब्धनिजसुखानुभवो भवान् ॥३३॥ दुरवबोध इव तवायं विहारयोगो यदशरणोऽशरीर इदमनवेक्षितास्म- त्समवाय आत्मनैवाविक्रियमाणेन सगुणमगुणः सृजसि पासि हरसि ॥३४॥ अथ तत्र भवान् किं देवदत्तवदिह गुणविसर्गपतितः पारतन्त्र्येण स्वकृत- कुशलाकुशलं फलमुपाददात्याहोस्वि- दात्माराम उपशमशीलः समञ्जसदर्शन उदास्त इति ह वाव न विदामः ॥३५॥ न हि विरोध उभयं भगवत्यपरिमित- गुणगण ईश्वरेऽनवगाह्यमाहात्म्येऽर्वाचीन- विकल्पवितर्कविचारप्रमाणाभासकुतर्क- शास्त्रकलिलान्तःकरणाश्रयदुरवग्रहवादिनां विवादानवसर उपरतसमस्तमायामये केवल एवात्ममायामन्तर्धाय को न्वर्थो दुर्घट इव भवति स्वरूपद्वयाभावात् ॥३६॥ समविषममतीनां मतमनुसरसि यथा रज्जुखण्डः सर्पादिधियाम् ॥३७॥ स एव हि पुनः सर्ववस्तुनि वस्तुस्वरूपः सर्वेश्वरः सकलजगत्कारणकारणभूतः सर्वप्रत्यगात्मत्वात्सर्वगुणाभासोपलक्षित एक एव पर्यवशेषितः ॥३८॥ अथ ह वाव तव महिमामृतरससमुद्र- विप्रुषा सकृदवलीढया स्वमनसि निष्यन्दमानानवरतसुखेन विस्मारित- दृष्टश्रुतविषयसुखलेशाभासाः परमभागवता एकान्तिनो भगवति सर्वभूतप्रियसुहृदि सर्वात्मनि नितरां निरन्तरं निर्वृतमनसः कथमु ह वा एते मधुमथन पुनः स्वार्थकुशला ह्यात्मप्रिय- सुहृदः साधवस्त्वच्चरणाम्बुजानुसेवां विसृजन्ति न यत्र पुनरयं संसारपर्यावर्तः ॥३९॥ त्रिभुवनात्मभवन त्रिविक्रम त्रिनयन त्रिलोकमनोहरानुभाव तवैव विभूतयो दितिजदनुजादयश्चापि तेषामनुपक्रम- समयोऽयमिति स्वात्ममायया सुरनरमृगमिश्रितजलचराकृतिभि- र्यथापराधं दण्डं दण्डधर दधर्थ एवमेनमपि भगवन् जहि त्वाष्ट्रमुत यदि मन्यसे ॥४०॥ अस्माकं तावकानां तव नतानां तत ततामह तव चरणनलिनयुगलध्याना- नुबद्धहृदयनिगडानां स्वलिङ्गविवरणेना- त्मसात्कृतानामनुकम्पानुरञ्जितविशद- रुचिरशिशिरस्मितावलोकेन विगलित- मधुरमुखरसामृतकलया चान्तस्ताप- मनघार्हसि शमयितुम् ॥४१॥ अथ भगवंस्तवास्माभिरखिलजग- दुत्पत्तिस्थितिलयनिमित्तायमानदिव्य- मायाविनोदस्य सकलजीवनिकायाना- मन्तर्हृदयेषु बहिरपि च ब्रह्मप्रत्यगात्म- स्वरूपेण प्रधानरूपेण च यथादेशकाल- देहावस्थानविशेषं तदुपादानो- पलम्भकतयानुभवतः सर्वप्रत्ययसाक्षिण आकाशशरीरस्य साक्षात्परब्रह्मणः परमात्मनः कियानिह वार्थविशेषो विज्ञापनीयः स्याद्विस्फुलिङ्गादिभिरिव हिरण्यरेतसः ॥४२॥ अत एव स्वयं तदुपकल्पयास्माकं भगवतः परमगुरोस्तव चरणशत- पलाशच्छायां विविधवृजिनसंसार- परिश्रमोपशमनीमुपसृतानां वयं यत्कामेनोपसादिताः ॥४३॥ अथो ईश जहि त्वाष्ट्रं ग्रसन्तं भुवनत्रयम्। ग्रस्तानि येन नः कृष्ण तेजांस्यस्त्रायुधानि च ॥४४॥ हंसाय दह्रनिलयाय निरीक्षकाय कृष्णाय मृष्टयशसे निरुपक्रमाय। सत्सङ्ग्रहाय भवपान्थनिजाश्रमाप्तवन्ते परीष्टगतये हरये नमस्ते ॥४५॥ श्रीशुक उवाच अथैवमीडितो राजन् सादरं त्रिदशैर्हरिः। स्वमुपस्थानमाकर्ण्य प्राह तानभिनन्दितः ॥४६॥ श्रीभगवानुवाच प्रीतोऽहं वः सुरश्रेष्ठा मदुपस्थानविद्यया। आत्मैश्वर्यस्मृतिः पुंसां भक्तिश्चैव यया मयि ॥४७॥ किं दुरापं मयि प्रीते तथापि विबुधर्षभाः। मय्येकान्तमतिर्नान्यन्मत्तो वाञ्छति तत्त्ववित्॥४८॥ न वेद कृपणः श्रेय आत्मनो गुणवस्तुदृक्। तस्य तानिच्छतो यच्छेद्यदि सोऽपि तथाविधः ॥४९॥ स्वयं निःश्रेयसं विद्वान् न वक्त्यज्ञाय कर्म हि। न राति रोगिणोऽपथ्यं वाञ्छतो हि भिषक्तमः ॥५०॥ मघवन् यात भद्रं वो दध्यञ्चमृषिसत्तमम्। विद्याव्रततपःसारं गात्रं याचत मा चिरम् ॥५१॥ स वा अधिगतो दध्यङ्ङश्विभ्यां ब्रह्म निष्कलम्। यद्वा अश्वशिरो नाम तयोरमरतां व्यधात् ॥५२॥ दध्यङ्ङाथर्वणस्त्वष्ट्रे वर्माभेद्यं मदात्मकम्। विश्वरूपाय यत्प्रादात्त्वष्टा यत्त्वमधास्ततः ॥५३॥ युष्मभ्यं याचितोऽश्विभ्यां धर्मज्ञोऽङ्गानि दास्यति। ततस्तैरायुधश्रेष्ठो विश्वकर्मविनिर्मितः। येन वृत्रशिरो हर्ता मत्तेज उपबृंहितः ॥५४॥ तस्मिन् विनिहते यूयं तेजोऽस्त्रायुधसम्पदः। भूयः प्राप्स्यथ भद्रं वो न हिंसन्ति च मत्परान् ॥५५॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे नवमोऽध्यायः ॥९॥

॥ दशमोऽध्यायः - १० ॥

श्रीशुक उवाच इन्द्रमेवं समादिश्य भगवान् विश्वभावनः। पश्यतामनिमेषाणां तत्रैवान्तर्दधे हरिः ॥१॥ तथाभियाचितो देवैरृषिराथर्वणो महान्। मोदमान उवाचेदं प्रहसन्निव भारत ॥२॥ अपि वृन्दारका यूयं न जानीथ शरीरिणाम्। संस्थायां यस्त्वभिद्रोहो दुःसहश्चेतनापहः ॥३॥ जिजीविषूणां जीवानामात्मा प्रेष्ठ इहेप्सितः। क उत्सहेत तं दातुं भिक्षमाणाय विष्णवे ॥४॥ देवा ऊचुः किं नु तद्दुस्त्यजं ब्रह्मन् पुंसां भूतानुकम्पिनाम्। भवद्विधानां महतां पुण्यश्लोकेड्यकर्मणाम् ॥५॥ न नु स्वार्थपरो लोको न वेद परसङ्कटम्। यदि वेद न याचेत नेति नाह यदीश्वरः ॥६॥ ऋषिरुवाच धर्मं वः श्रोतुकामेन यूयं मे प्रत्युदाहृताः। एष वः प्रियमात्मानं त्यजन्तं सन्त्यजाम्यहम्॥७॥ योऽध्रुवेणात्मना नाथा न धर्मं न यशः पुमान्। ईहेत भूतदयया स शोच्यः स्थावरैरपि ॥८॥ एतावानव्ययो धर्मः पुण्यश्लोकैरुपासितः। यो भूतशोकहर्षाभ्यामात्मा शोचति हृष्यति ॥९॥ अहो दैन्यमहो कष्टं पारक्यैः क्षणभङ्गुरैः। यन्नोपकुर्यादस्वार्थैर्मर्त्यः स्वज्ञातिविग्रहैः ॥१०॥ श्रीशुक उवाच एवं कृतव्यवसितो दध्यङ्ङाथर्वणस्तनुम्। परे भगवति ब्रह्मण्यात्मानं सन्नयन् जहौ ॥११॥ यताक्षासुमनोबुद्धिस्तत्त्वदृग् ध्वस्तबन्धनः। आस्थितः परमं योगं न देहं बुबुधे गतम् ॥१२॥ अथेन्द्रो वज्रमुद्यम्य निर्मितं विश्वकर्मणा। मुनेः शुक्तिभिरुत्सिक्तो भगवत्तेजसान्वितः ॥१३॥ वृतो देवगणैः सर्वैर्गजेन्द्रोपर्यशोभत। स्तूयमानो मुनिगणैस्त्रैलोक्यं हर्षयन्निव ॥१४॥ वृत्रमभ्यद्रवच्छत्रुमसुरानीकयूथपैः। पर्यस्तमोजसा राजन् क्रुद्धो रुद्र इवान्तकम् ॥१५॥ ततः सुराणामसुरै रणः परमदारुणः। त्रेतामुखे नर्मदायामभवत्प्रथमे युगे ॥१६॥ रुद्रैर्वसुभिरादित्यैरश्विभ्यां पितृवह्निभिः। मरुद्भिरृभुभिः साध्यैर्विश्वेदेवैर्मरुत्पतिम् ॥१७॥ दृष्ट्वा वज्रधरं शक्रं रोचमानं स्वया श्रिया। नामृष्यन्नसुरा राजन् मृधे वृत्रपुरःसराः ॥१८॥ नमुचिः शम्बरोऽनर्वा द्विमूर्धा ऋषभोऽसुरः। हयग्रीवः शङ्कुशिरा विप्रचित्तिरयोमुखः ॥१९॥ पुलोमा वृषपर्वा च प्रहेतिर्हेतिरुत्कलः। दैतेया दानवा यक्षा रक्षांसि च सहस्रशः ॥२०॥ सुमालिमालिप्रमुखाः कार्तस्वरपरिच्छदाः। प्रतिषिध्येन्द्रसेनाग्रं मृत्योरपि दुरासदम् ॥२१॥ अभ्यर्दयन्नसम्भ्रान्ताः सिंहनादेन दुर्मदाः। गदाभिः परिघैर्बाणैः प्रासमुद्गरतोमरैः ॥२२॥ शूलैः परश्वधैः खड्गैः शतघ्नीभिर्भुशुण्डिभिः। सर्वतोऽवाकिरन् शस्त्रैरस्त्रैश्च विबुधर्षभान् ॥२३॥ न तेऽदृश्यन्त सञ्छन्नाः शरजालैः समन्ततः। पुङ्खानुपुङ्खपतितैर्ज्योतींषीव नभोघनैः ॥२४॥ न ते शस्त्रास्त्रवर्षौघा ह्यासेदुः सुरसैनिकान्। छिन्नाः सिद्धपथे देवैर्लघुहस्तैः सहस्रधा ॥२५॥ अथ क्षीणास्त्रशस्त्रौघा गिरिशृङ्गद्रुमोपलैः। अभ्यवर्षन् सुरबलं चिच्छिदुस्तांश्च पूर्ववत् ॥२६॥ तानक्षतान् स्वस्तिमतो निशाम्य शस्त्रास्त्रपूगैरथ वृत्रनाथाः। द्रुमैर्दृषद्भिर्विविधाद्रिशृङ्गै- रविक्षतांस्तत्रसुरिन्द्रसैनिकान् ॥२७॥ सर्वे प्रयासा अभवन् विमोघाः कृताः कृता देवगणेषु दैत्यैः। कृष्णानुकूलेषु यथा महत्सु क्षुद्रैः प्रयुक्ता रुशती रूक्षवाचः ॥२८॥ ते स्वप्रयासं वितथं निरीक्ष्य हरावभक्ता हतयुद्धदर्पाः। पलायनायाजिमुखे विसृज्य पतिं मनस्ते दधुरात्तसाराः ॥२९॥ वृत्रोऽसुरांस्ताननुगान् मनस्वी प्रधावतः प्रेक्ष्य बभाष एतत्। पलायितं प्रेक्ष्य बलं च भग्नं भयेन तीव्रेण विहस्य वीरः ॥३०॥ कालोपपन्नां रुचिरां मनस्विनां उवाच वाचं पुरुषप्रवीरः। हे विप्रचित्ते नमुचे पुलोमन् मयानर्वन्छम्बर मे शृणुध्वम् ॥३१॥ जातस्य मृत्युर्ध्रुव एव सर्वतः प्रतिक्रिया यस्य न चेह कॢप्ता। लोको यशश्चाथ ततो यदि ह्यमुं को नाम मृत्युं न वृणीत युक्तम् ॥३२॥ द्वौ सम्मताविह मृत्यू दुरापौ यद्ब्रह्मसन्धारणया जितासुः। कलेवरं योगरतो विजह्या- द्यदग्रणीर्वीरशयेऽनिवृत्तः ॥३३॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे इन्द्रवृत्रासुरयुद्धवर्णनं नाम दशमोऽध्यायः ॥१०॥

॥ एकादशोऽध्यायः - ११ ॥

श्रीशुक उवाच त एवं शंसतो धर्मं वचः पत्युरचेतसः। नैवागृह्णन् भयत्रस्ताः पलायनपरा नृप ॥१॥ विशीर्यमाणां पृतनामासुरीमसुरर्षभः। कालानुकूलैस्त्रिदशैः काल्यमानामनाथवत् ॥२॥ दृष्ट्वातप्यत सङ्क्रुद्ध इन्द्रशत्रुरमर्षितः। तान् निवार्यौजसा राजन् निर्भर्त्स्येदमुवाच ह ॥३॥ किं व उच्चरितैर्मातुर्धावद्भिः पृष्ठतो हतैः। न हि भीतवधः श्लाघ्यो न स्वर्ग्यः शूरमानिनाम् ॥४॥ यदि वः प्रधने श्रद्धा सारं वा क्षुल्लका हृदि। अग्रे तिष्ठत मात्रं मे न चेद्ग्राम्यसुखे स्पृहा ॥५॥ एवं सुरगणान् क्रुद्धो भीषयन् वपुषा रिपून्। व्यनदत्सुमहाप्राणो येन लोका विचेतसः ॥६॥ तेन देवगणाः सर्वे वृत्रविस्फोटनेन वै। निपेतुर्मूर्च्छिता भूमौ यथैवाशनिना हताः ॥७॥ ममर्द पद्भ्यां सुरसैन्यमातुरं निमीलिताक्षं रणरङ्गदुर्मदः। गां कम्पयन्नुद्यतशूल ओजसा नालं वनं यूथपतिर्यथोन्मदः ॥८॥ विलोक्य तं वज्रधरोऽत्यमर्षितः स्वशत्रवेऽभिद्रवते महागदाम्। चिक्षेप तामापततीं सुदुःसहां जग्राह वामेन करेण लीलया ॥९॥ स इन्द्रशत्रुः कुपितो भृशं तया महेन्द्रवाहं गदयोरुविक्रमः। जघान कुम्भस्थल उन्नदन् मृधे तत्कर्म सर्वे समपूजयन् नृप ॥१०॥ ऐरावतो वृत्रगदाभिमृष्टो विघूर्णितोऽद्रिः कुलिशाहतो यथा। अपासरद्भिन्नमुखः सहेन्द्रो मुञ्चन्नसृक् सप्तधनुर्भृशार्तः ॥११॥ न सन्नवाहाय विषण्णचेतसे प्रायुङ्क्त भूयः स गदां महात्मा। इन्द्रोऽमृतस्यन्दिकराभिमर्श- वीतव्यथक्षतवाहोऽवतस्थे ॥१२॥ स तं नृपेन्द्राहवकाम्यया रिपुं वज्रायुधं भ्रातृहणं विलोक्य। स्मरंश्च तत्कर्म नृशंसमंहः शोकेन मोहेन हसन् जगाद ॥१३॥ वृत्र उवाच दिष्ट्या भवान् मे समवस्थितो रिपुर्यो ब्रह्महा गुरुहा भ्रातृहा च। दिष्ट्यानृणोऽद्याहमसत्तम त्वया मच्छूलनिर्भिन्नदृषद्धृदाचिरात् ॥१४॥ यो नोऽग्रजस्यात्मविदो द्विजाते- र्गुरोरपापस्य च दीक्षितस्य। विश्रभ्य खड्गेन शिरांस्यवृश्च- त्पशोरिवाकरुणः स्वर्गकामः ॥१५॥ श्रीह्रीदयाकीर्तिभिरुज्झितं त्वां स्वकर्मणा पुरुषादैश्च गर्ह्यम्। कृच्छ्रेण मच्छूलविभिन्नदेह- मस्पृष्टवह्निं समदन्ति गृध्राः ॥१६॥ अन्येऽनु ये त्वेह नृशंसमज्ञा ये ह्युदुद्यतास्त्राः प्रहरन्ति मह्यम्। तैर्भूतनाथान् सगणान् निशात- त्रिशूलनिर्भिन्नगलैर्यजामि ॥१७॥ अथो हरे मे कुलिशेन वीर हर्ता प्रमथ्यैव शिरो यदीह। तत्रानृणो भूतबलिं विधाय मनस्विनां पादरजः प्रपत्स्ये ॥१८॥ सुरेश कस्मान्न हिनोषि वज्रं पुरः स्थिते वैरिणि मय्यमोघम्। मा संशयिष्ठा न गदेव वज्रः स्यान्निष्फलः कृपणार्थेव याच्ञा ॥१९॥ नन्वेष वज्रस्तव शक्र तेजसा हरेर्दधीचेस्तपसा च तेजितः। तेनैव शत्रुं जहि विष्णुयन्त्रितो यतो हरिर्विजयः श्रीर्गुणास्ततः ॥२०॥ अहं समाधाय मनो यथाऽऽह सङ्कर्षणस्तच्चरणारविन्दे। त्वद्वज्ररंहोलुलितग्राम्यपाशो गतिं मुनेर्याम्यपविद्धलोकः ॥२१॥ पुंसां किलैकान्तधियां स्वकानां याः सम्पदो दिवि भूमौ रसायाम्। न राति यद्द्वेष उद्वेग आधिर्मदः कलिर्व्यसनं सम्प्रयासः ॥२२॥ त्रैवर्गिकायासविघातमस्म- त्पतिर्विधत्ते पुरुषस्य शक्र। ततोऽनुमेयो भगवत्प्रसादो यो दुर्लभोऽकिञ्चनगोचरोऽन्यैः ॥२३॥ अहं हरे तव पादैकमूल- दासानुदासो भवितास्मि भूयः। मनः स्मरेतासुपतेर्गुणांस्ते गृणीत वाक्कर्म करोतु कायः ॥२४॥ न नाकपृष्ठं न च पारमेष्ठ्यं न सार्वभौमं न रसाधिपत्यम्। न योगसिद्धीरपुनर्भवं वा समञ्जस त्वा विरहय्य काङ्क्षे ॥२५॥ अजातपक्षा इव मातरं खगाः स्तन्यं यथा वत्सतराः क्षुधार्ताः। प्रियं प्रियेव व्युषितं विषण्णा मनोऽरविन्दाक्ष दिदृक्षते त्वाम् ॥२६॥ ममोत्तमश्लोकजनेषु सख्यं संसारचक्रे भ्रमतः स्वकर्मभिः। त्वन्माययाऽऽत्माऽऽत्मजदारगेहे- ष्वासक्तचित्तस्य न नाथ भूयात् ॥२७॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे वृत्रस्य इन्द्रोपदेशो नामैकादशोऽध्यायः ॥११॥

॥ द्वादशोऽध्यायः ॥

ऋषिरुवाच एवं जिहासुर्नृप देहमाजौ मृत्युं वरं विजयान्मन्यमानः। शूलं प्रगृह्याभ्यपतत्सुरेन्द्रं यथा महापुरुषं कैटभोऽप्सु ॥१॥ ततो युगान्ताग्निकठोरजिह्व- माविध्य शूलं तरसासुरेन्द्रः। क्षिप्त्वा महेन्द्राय विनद्य वीरो हतोऽसि पापेति रुषा जगाद ॥२॥ ख आपतत्तद्विचलद्ग्रहोल्कव- न्निरीक्ष्य दुष्प्रेक्ष्यमजातविक्लवः। वज्रेण वज्री शतपर्वणाच्छिनद्भुजं च तस्योरगराजभोगम् ॥३॥ छिन्नैकबाहुः परिघेण वृत्रः संरब्ध आसाद्य गृहीतवज्रम्। हनौ तताडेन्द्रमथामरेभं वज्रं च हस्तान्न्यपतन्मघोनः ॥४॥ वृत्रस्य कर्मातिमहाद्भुतं तत्सुरासुराश्चारणसिद्धसङ्घाः। अपूजयंस्तत्पुरुहूतसङ्कटं निरीक्ष्य हा हेति विचुक्रुशुर्भृशम् ॥५॥ इन्द्रो न वज्रं जगृहे विलज्जितश्च्युतं स्वहस्तादरिसन्निधौ पुनः। तमाह वृत्रो हर आत्तवज्रो जहि स्वशत्रुं न विषादकालः ॥६॥ युयुत्सतां कुत्रचिदाततायिनां जयः सदैकत्र न वै परात्मनाम्। विनैकमुत्पत्तिलयस्थितीश्वरं सर्वज्ञमाद्यं पुरुषं सनातनम् ॥७॥ लोकाः सपाला यस्येमे श्वसन्ति विवशा वशे। द्विजा इव शिचा बद्धाः स काल इह कारणम् ॥८॥ ओजः सहो बलं प्राणममृतं मृत्युमेव च। तमज्ञाय जनो हेतुमात्मानं मन्यते जडम् ॥९॥ यथा दारुमयी नारी यथा यन्त्रमयो मृगः। एवं भूतानि मघवन्नीशतन्त्राणि विद्धि भोः ॥१०॥ पुरुषः प्रकृतिर्व्यक्तमात्मा भूतेन्द्रियाशयाः। शक्नुवन्त्यस्य सर्गादौ न विना यदनुग्रहात् ॥११॥ अविद्वानेवमात्मानं मन्यतेऽनीशमीश्वरम्। भूतैः सृजति भूतानि ग्रसते तानि तैः स्वयम् ॥१२॥ आयुः श्रीः कीर्तिरैश्वर्यमाशिषः पुरुषस्य याः। भवन्त्येव हि तत्काले यथानिच्छोर्विपर्ययाः ॥१३॥ तस्मादकीर्तियशसोर्जयापजययोरपि। समः स्यात्सुखदुःखाभ्यां मृत्युजीवितयोस्तथा ॥१४॥ सत्त्वं रजस्तम इति प्रकृतेर्नात्मनो गुणाः। तत्र साक्षिणमात्मानं यो वेद न स बध्यते ॥१५॥ पश्य मां निर्जितं शक्र वृक्णायुधभुजं मृधे। घटमानं यथाशक्ति तव प्राणजिहीर्षया ॥१६॥ प्राणग्लहोऽयं समर इष्वक्षो वाहनासनः। अत्र न ज्ञायतेऽमुष्य जयोऽमुष्य पराजयः ॥१७॥ श्रीशुक उवाच इन्द्रो वृत्रवचः श्रुत्वा गतालीकमपूजयत्। गृहीतवज्रः प्रहसंस्तमाह गतविस्मयः ॥१८॥ इन्द्र उवाच अहो दानव सिद्धोऽसि यस्य ते मतिरीदृशी। भक्तः सर्वात्मनाऽऽत्मानं सुहृदं जगदीश्वरम् ॥१९॥ भवानतार्षीन्मायां वै वैष्णवीं जनमोहिनीम्। यद्विहायासुरं भावं महापुरुषतां गतः ॥२०॥ खल्विदं महदाश्चर्यं यद्रजःप्रकृतेस्तव। वासुदेवे भगवति सत्त्वात्मनि दृढा मतिः ॥२१॥ यस्य भक्तिर्भगवति हरौ निःश्रेयसेश्वरे। विक्रीडतोऽमृताम्भोधौ किं क्षुद्रैः खातकोदकैः॥२२॥ श्रीशुक उवाच इति ब्रुवाणावन्योन्यं धर्मजिज्ञासया नृप। युयुधाते महावीर्याविन्द्रवृत्रौ युधाम्पती ॥२३॥ आविध्य परिघं वृत्रः कार्ष्णायसमरिन्दमः। इन्द्राय प्राहिणोद्घोरं वामहस्तेन मारिष ॥२४॥ स तु वृत्रस्य परिघं करं च करभोपमम्। चिच्छेद युगपद्देवो वज्रेण शतपर्वणा ॥२५॥ दोर्भ्यामुत्कृत्तमूलाभ्यां बभौ रक्तस्रवोऽसुरः। छिन्नपक्षो यथा गोत्रः खाद्भ्रष्टो वज्रिणा हतः ॥२६॥ कृत्वाधरां हनुं भूमौ दैत्यो दिव्युत्तरां हनुम् । नभोगम्भीरवक्त्रेण लेलिहोल्बणजिह्वया ॥२७॥ दंष्ट्राभिः कालकल्पाभिर्ग्रसन्निव जगत्त्रयम् । अतिमात्रमहाकाय आक्षिपंस्तरसा गिरीन् ॥२८॥ गिरिराट् पादचारीव पद्भ्यां निर्जरयन् महीम् । जग्रास स समासाद्य वज्रिणं सहवाहनम् ॥२९॥ महाप्राणो महावीर्यो महासर्प इव द्विपम्। वृत्रग्रस्तं तमालक्ष्य सप्रजापतयः सुराः। हा कष्टमिति निर्विण्णाश्चुक्रुशुः समहर्षयः ॥३०॥ निगीर्णोऽप्यसुरेन्द्रेण न ममारोदरं गतः। महापुरुषसन्नद्धो योगमायाबलेन च ॥३१॥ भित्त्वा वज्रेण तत्कुक्षिं निष्क्रम्य बलभिद्विभुः। उच्चकर्त शिरः शत्रोर्गिरिशृङ्गमिवौजसा ॥३२॥ वज्रस्तु तत्कन्धरमाशुवेगः कृन्तन् समन्तात्परिवर्तमानः। न्यपातयत्तावदहर्गणेन यो ज्योतिषामयने वार्त्रहत्ये ॥३३॥ तदा च खे दुन्दुभयो विनेदु- र्गन्धर्वसिद्धाः समहर्षिसङ्घाः। वार्त्रघ्नलिङ्गैस्तमभिष्टुवाना मन्त्रैर्मुदा कुसुमैरभ्यवर्षन् ॥३४॥ वृत्रस्य देहान्निष्क्रान्तमात्मज्योतिररिन्दम। पश्यतां सर्वलोकानामलोकं समपद्यत ॥३५॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे वृत्रवधो नाम द्वादशोऽध्यायः ॥१२॥

॥ त्रयोदशोऽध्यायः - १३ ॥

श्रीशुक उवाच वृत्रे हते त्रयो लोका विना शक्रेण भूरिद। सपाला ह्यभवन् सद्यो विज्वरा निर्वृतेन्द्रियाः ॥१॥ देवर्षिपितृभूतानि दैत्या देवानुगाः स्वयम्। प्रतिजग्मुः स्वधिष्ण्यानि ब्रह्मेशेन्द्रादयस्ततः ॥२॥ राजोवाच इन्द्रस्यानिर्वृतेर्हेतुं श्रोतुमिच्छामि भो मुने। येनासन् सुखिनो देवा हरेर्दुःखं कुतोऽभवत् ॥३॥ श्रीशुक उवाच वृत्रविक्रमसंविग्नाः सर्वे देवाः सहर्षिभिः। तद्वधायार्थयन्निन्द्रं नैच्छद्भीतो बृहद्वधात् ॥४॥ इन्द्र उवाच स्त्रीभूजलद्रुमैरेनो विश्वरूपवधोद्भवम्। विभक्तमनुगृह्णद्भिर्वृत्रहत्यां क्व मार्ज्म्यहम् ॥५॥ श्रीशुक उवाच ऋषयस्तदुपाकर्ण्य महेन्द्रमिदमब्रुवन्। याजयिष्याम भद्रं ते हयमेधेन मा स्म भैः ॥६॥ हयमेधेन पुरुषं परमात्मानमीश्वरम्। इष्ट्वा नारायणं देवं मोक्ष्यसेऽपि जगद्वधात् ॥७॥ ब्रह्महा पितृहा गोघ्नो मातृहाऽऽचार्यहाघवान्। श्वादः पुल्कसको वापि शुद्ध्येरन् यस्य कीर्तनात्॥८॥ तमश्वमेधेन महामखेन श्रद्धान्वितोऽस्माभिरनुष्ठितेन। हत्वापि सब्रह्मचराचरं त्वं न लिप्यसे किं खलनिग्रहेण ॥९॥ श्रीशुक उवाच एवं सञ्चोदितो विप्रैर्मरुत्वानहनद्रिपुम्। ब्रह्महत्या हते तस्मिन्नाससाद वृषाकपिम् ॥१०॥ तयेन्द्रः स्मासहत्तापं निर्वृतिर्नामुमाविशत्। ह्रीमन्तं वाच्यतां प्राप्तं सुखयन्त्यपि नो गुणाः ॥११॥ तां ददर्शानुधावन्तीं चाण्डालीमिव रूपिणीम्। जरया वेपमानाङ्गीं यक्ष्मग्रस्तामसृक्पटाम् ॥१२॥ विकीर्य पलितान् केशांस्तिष्ठ तिष्ठेति भाषिणीम्। मीनगन्ध्यसुगन्धेन कुर्वतीं मार्गदूषणम् ॥१३॥ नभो गतो दिशः सर्वाः सहस्राक्षो विशाम्पते। प्रागुदीचीं दिशं तूर्णं प्रविष्टो नृप मानसम् ॥१४॥ स आवसत्पुष्करनालतन्तू- नलब्धभोगो यदिहाग्निदूतः। वर्षाणि साहस्रमलक्षितोऽन्तः स चिन्तयन् ब्रह्मवधाद्विमोक्षम् ॥१५॥ तावत्त्रिणाकं नहुषः शशास विद्यातपोयोगबलानुभावः। स सम्पदैश्वर्यमदान्धबुद्धि- र्नीतस्तिरश्चां गतिमिन्द्रपत्न्या ॥१६॥ ततो गतो ब्रह्मगिरोपहूत ऋतम्भरध्याननिवारिताघः। पापस्तु दिग्देवतया हतौजास्तं नाभ्यभूदवितं विष्णुपत्न्या ॥१७॥ तं च ब्रह्मर्षयोऽभ्येत्य हयमेधेन भारत। यथावद्दीक्षयांचक्रुः पुरुषाराधनेन ह ॥१८॥ अथेज्यमाने पुरुषे सर्वदेवमयात्मनि। अश्वमेधे महेन्द्रेण वितते ब्रह्मवादिभिः ॥१९॥ स वै त्वाष्ट्रवधो भूयानपि पापचयो नृप। नीतस्तेनैव शून्याय नीहार इव भानुना ॥२०॥ स वाजिमेधेन यथोदितेन वितायमानेन मरीचिमिश्रैः। इष्ट्वाधियज्ञं पुरुषं पुराणमिन्द्रो महानास विधूतपापः ॥२१॥ इदं महाख्यानमशेषपाप्मनां प्रक्षालनं तीर्थपदानुकीर्तनम्। भक्त्युच्छ्रयं भक्तजनानुवर्णनं महेन्द्रमोक्षं विजयं मरुत्वतः ॥२२॥ पठेयुराख्यानमिदं सदा बुधाः शृण्वन्त्यथो पर्वणि पर्वणीन्द्रियम्। धन्यं यशस्यं निखिलाघमोचनं रिपुञ्जयं स्वस्त्ययनं तथायुषम् ॥२३॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे इन्द्रविजये त्रयोदशोऽध्यायः ॥१३॥

॥ चतुर्दशोऽध्यायः - १४ ॥

परीक्षिदुवाच रजस्तमःस्वभावस्य ब्रह्मन् वृत्रस्य पाप्मनः। नारायणे भगवति कथमासीद्दृढा मतिः ॥१॥ देवानां शुद्धसत्त्वानामृषीणां चामलात्मनाम्। भक्तिर्मुकुन्दचरणे न प्रायेणोपजायते ॥२॥ रजोभिः समसङ्ख्याताः पार्थिवैरिह जन्तवः। तेषां ये केचनेहन्ते श्रेयो वै मनुजादयः ॥३॥ प्रायो मुमुक्षवस्तेषां केचनैव द्विजोत्तम। मुमुक्षूणां सहस्रेषु कश्चिन्मुच्येत सिध्यति ॥४॥ मुक्तानामपि सिद्धानां नारायणपरायणः। सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामुने ॥५॥ वृत्रस्तु स कथं पापः सर्वलोकोपतापनः। इत्थं दृढमतिः कृष्ण आसीत्सङ्ग्राम उल्बणे ॥६॥ अत्र नः संशयो भूयाञ्छ्रोतुं कौतूहलं प्रभो। यः पौरुषेण समरे सहस्राक्षमतोषयत् ॥७॥ सूत उवाच परीक्षितोऽथ सम्प्रश्नं भगवान् बादरायणिः। निशम्य श्रद्दधानस्य प्रतिनन्द्य वचोऽब्रवीत् ॥८॥ श्रीशुक उवाच शृणुष्वावहितो राजन्नितिहासमिमं यथा। श्रुतं द्वैपायनमुखान्नारदाद्देवलादपि ॥९॥ आसीद्राजा सार्वभौमः शूरसेनेषु वै नृप। चित्रकेतुरिति ख्यातो यस्यासीत्कामधुङ्मही ॥१०॥ तस्य भार्यासहस्राणां सहस्राणि दशाभवन्। सान्तानिकश्चापि नृपो न लेभे तासु सन्ततिम् ॥११॥ रूपौदार्यवयोजन्मविद्यैश्वर्यश्रियादिभिः। सम्पन्नस्य गुणैः सर्वैश्चिन्ता वन्ध्यापतेरभूत् ॥१२॥ न तस्य सम्पदः सर्वा महिष्यो वामलोचनाः। सार्वभौमस्य भूश्चेयमभवन् प्रीतिहेतवः ॥१३॥ तस्यैकदा तु भवनमङ्गिरा भगवान् ऋषिः। लोकाननुचरन्नेतानुपागच्छद्यदृच्छया ॥१४॥ तं पूजयित्वा विधिवत्प्रत्युत्थानार्हणादिभिः। कृतातिथ्यमुपासीदत्सुखासीनं समाहितः ॥१५॥ महर्षिस्तमुपासीनं प्रश्रयावनतं क्षितौ। प्रतिपूज्य महाराज समाभाष्येदमब्रवीत् ॥१६॥ अङ्गिरा उवाच अपि तेऽनामयं स्वस्ति प्रकृतीनां तथात्मनः। यथा प्रकृतिभिर्गुप्तः पुमान् राजापि सप्तभिः ॥१७॥ आत्मानं प्रकृतिष्वद्धा निधाय श्रेय आप्नुयात्। राज्ञा तथा प्रकृतयो नरदेवाहिताधयः ॥१८॥ अपि दाराः प्रजामात्या भृत्याः श्रेण्योऽथ मन्त्रिणः। पौरा जानपदा भूपा आत्मजा वशवर्तिनः ॥१९॥ यस्यात्मानुवशश्चेत्स्यात्सर्वे तद्वशगा इमे। लोकाः सपाला यच्छन्ति सर्वे बलिमतन्द्रिताः ॥२०॥ आत्मनः प्रीयते नात्मा परतः स्वत एव वा। लक्षयेऽलब्धकामं त्वां चिन्तया शबलं मुखम् ॥२१॥ एवं विकल्पितो राजन् विदुषा मुनिनापि सः। प्रश्रयावनतोऽभ्याह प्रजाकामस्ततो मुनिम् ॥२२॥ चित्रकेतुरुवाच भगवन् किं न विदितं तपोज्ञानसमाधिभिः। योगिनां ध्वस्तपापानां बहिरन्तः शरीरिषु ॥२३॥ तथापि पृच्छतो ब्रूयां ब्रह्मन्नात्मनि चिन्तितम्। भवतो विदुषश्चापि चोदितस्त्वदनुज्ञया ॥२४॥ लोकपालैरपि प्रार्थ्याः साम्राज्यैश्वर्यसम्पदः। न नन्दयन्त्यप्रजं मां क्षुत्तृट्काममिवापरे ॥२५॥ ततः पाहि महाभाग पूर्वैः सह गतं तमः। यथा तरेम दुस्तारं प्रजया तद्विधेहि नः ॥२६॥ श्रीशुक उवाच इत्यर्थितः स भगवान् कृपालुर्ब्रह्मणः सुतः। श्रपयित्वा चरुं त्वाष्ट्रं त्वष्टारमयजद्विभुः ॥२७॥ ज्येष्ठा श्रेष्ठा च या राज्ञो महिषीणां च भारत। नाम्ना कृतद्युतिस्तस्यै यज्ञोच्छिष्टमदाद्द्विजः ॥२८॥ अथाह नृपतिं राजन् भवितैकस्तवात्मजः। हर्षशोकप्रदस्तुभ्यमिति ब्रह्मसुतो ययौ ॥२९॥ सापि तत्प्राशनादेव चित्रकेतोरधारयत्। गर्भं कृतद्युतिर्देवी कृत्तिकाग्नेरिवात्मजम् ॥३०॥ तस्या अनुदिनं गर्भः शुक्लपक्ष इवोडुपः। ववृधे शूरसेनेश तेजसा शनकैर्नृप ॥३१॥ अथ काल उपावृत्ते कुमारः समजायत। जनयन् शूरसेनानां शृण्वतां परमां मुदम् ॥३२॥ हृष्टो राजा कुमारस्य स्नातः शुचिरलङ्कृतः। वाचयित्वाऽऽशिषो विप्रैः कारयामास जातकम् ॥३३॥ तेभ्यो हिरण्यं रजतं वासांस्याभरणानि च। ग्रामान् हयान् गजान् प्रादाद्धेनूनामर्बुदानि षट्॥३४॥ ववर्ष काममन्येषां पर्जन्य इव देहिनाम्। धन्यं यशस्यमायुष्यं कुमारस्य महामनाः ॥३५॥ कृच्छ्रलब्धेऽथ राजर्षेस्तनयेऽनुदिनं पितुः। यथा निःस्वस्य कृच्छ्राप्ते धने स्नेहोऽन्ववर्धत ॥३६॥ मातुस्त्वतितरां पुत्रे स्नेहो मोहसमुद्भवः। कृतद्युतेः सपत्नीनां प्रजाकामज्वरोऽभवत् ॥३७॥ चित्रकेतोरतिप्रीतिर्यथा दारे प्रजावति। न तथान्येषु सञ्जज्ञे बालं लालयतोऽन्वहम् ॥३८॥ ताः पर्यतप्यन्नात्मानं गर्हयन्त्योऽभ्यसूयया। आनपत्येन दुःखेन राज्ञोऽनादरेण च ॥३९॥ धिगप्रजां स्त्रियं पापां पत्युश्चागृहसम्मताम्। सुप्रजाभिः सपत्नीभिर्दासीमिव तिरस्कृताम् ॥४०॥ दासीनां को नु सन्तापः स्वामिनः परिचर्यया। अभीक्ष्णं लब्धमानानां दास्या दासीव दुर्भगाः ॥४१॥ एवं सन्दह्यमानानां सपत्न्याः पुत्रसम्पदा। राज्ञोऽसम्मतवृत्तीनां विद्वेषो बलवानभूत् ॥४२॥ विद्वेषनष्टमतयः स्त्रियो दारुणचेतसः। गरं ददुः कुमाराय दुर्मर्षा नृपतिं प्रति ॥४३॥ कृतद्युतिरजानन्ती सपत्नीनामघं महत्। सुप्त एवेति सञ्चिन्त्य निरीक्ष्य व्यचरद्गृहे ॥४४॥ शयानं सुचिरं बालमुपधार्य मनीषिणी। पुत्रमानय मे भद्रे इति धात्रीमचोदयत् ॥४५॥ सा शयानमुपव्रज्य दृष्ट्वा चोत्तारलोचनम्। प्राणेन्द्रियात्मभिस्त्यक्तं हतास्मीत्यपतद्भुवि ॥४६॥ तस्यास्तदाकर्ण्य भृशातुरं स्वरं घ्नन्त्याः कराभ्यामुर उच्चकैरपि। प्रविश्य राज्ञी त्वरयाऽऽत्मजान्तिकं ददर्श बालं सहसा मृतं सुतम् ॥४७॥ पपात भूमौ परिवृद्धया शुचा मुमोह विभ्रष्टशिरोरुहाम्बरा ॥४८॥ ततो नृपान्तःपुरवर्तिनो जना नराश्च नार्यश्च निशम्य रोदनम् । आगत्य तुल्यव्यसनाः सुदुःखितास्ताश्च व्यलीकं रुरुदुः कृतागसः ॥४९॥ श्रुत्वा मृतं पुत्रमलक्षितान्तकं विनष्टदृष्टिः प्रपतन् स्खलन् पथि। स्नेहानुबन्धैधितया शुचा भृशं विमूर्च्छितोऽनुप्रकृतिर्द्विजैर्वृतः ॥५०॥ पपात बालस्य स पादमूले मृतस्य विस्रस्तशिरोरुहाम्बरः। दीर्घं श्वसन् बाष्पकलोपरोधतो निरुद्धकण्ठो न शशाक भाषितुम् ॥५१॥ पतिं निरीक्ष्योरुशुचार्पितं तदा मृतं च बालं सुतमेकसन्ततिम्। जनस्य राज्ञी प्रकृतेश्च हृद्रुजं सती दधाना विललाप चित्रधा ॥५२॥ स्तनद्वयं कुङ्कुमगन्धमण्डितं निषिञ्चती साञ्जनबाष्पबिन्दुभिः। विकीर्य केशान् विगलत्स्रजः सुतं शुशोच चित्रं कुररीव सुस्वरम् ॥५३॥ अहो विधातस्त्वमतीव बालिशो यस्त्वात्मसृष्ट्यप्रतिरूपमीहसे। परे नु जीवत्यपरस्य या मृति- र्विपर्ययश्चेत्त्वमसि ध्रुवः परः ॥५४॥ न हि क्रमश्चेदिह मृत्युजन्मनोः शरीरिणामस्तु तदात्मकर्मभिः। यः स्नेहपाशो निजसर्गवृद्धये स्वयं कृतस्ते तमिमं विवृश्चसि ॥५५॥ त्वं तात नार्हसि च मां कृपणामनाथां त्यक्तुं विचक्ष्व पितरं तव शोकतप्तम् । अञ्जस्तरेम भवताप्रजदुस्तरं यद्- ध्वान्तं न याह्यकरुणेन यमेन दूरम् ॥५६॥ उत्तिष्ठ तात त इमे शिशवो वयस्या- स्त्वामाह्वयन्ति नृपनन्दन संविहर्तुम् । सुप्तश्चिरं ह्यशनया च भवान् परीतो भुङ्क्ष्व स्तनं पिब शुचो हर नः स्वकानाम् ॥५७॥ नाहं तनूज ददृशे हतमङ्गला ते मुग्धस्मितं मुदितवीक्षणमाननाब्जम् किं वा गतोऽस्यपुनरन्वयमन्यलोकं नीतोऽघृणेन न शृणोमि कला गिरस्ते ॥५८॥ श्रीशुक उवाच विलपन्त्या मृतं पुत्रमिति चित्रविलापनैः। चित्रकेतुर्भृशं तप्तो मुक्तकण्ठो रुरोद ह ॥५९॥ तयोर्विलपतोः सर्वे दम्पत्योस्तदनुव्रताः। रुरुदुः स्म नरा नार्यः सर्वमासीदचेतनम् ॥६०॥ एवं कश्मलमापन्नं नष्टसंज्ञमनायकम्। ज्ञात्वाङ्गिरा नाम मुनिराजगाम सनारदः ॥६१॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे चित्रकेतुविलापो नाम चतुर्दशोऽध्यायः ॥१४॥

॥ पञ्चदशोऽध्यायः - १५ ॥

श्रीशुक उवाच ऊचतुर्मृतकोपान्ते पतितं मृतकोपमम्। शोकाभिभूतं राजानं बोधयन्तौ सदुक्तिभिः ॥१॥ कोऽयं स्यात्तव राजेन्द्र भवान् यमनुशोचति। त्वं चास्य कतमः सृष्टौ पुरेदानीमतः परम् ॥२॥ यथा प्रयान्ति संयान्ति स्रोतोवेगेन वालुकाः। संयुज्यन्ते वियुज्यन्ते तथा कालेन देहिनः ॥३॥ यथा धानासु वै धाना भवन्ति न भवन्ति च। एवं भूतेषु भूतानि चोदितानीशमायया ॥४॥ वयं च त्वं च ये चेमे तुल्यकालाश्चराचराः। जन्ममृत्योर्यथा पश्चात्प्राङ् नैवमधुनापि भोः ॥५॥ भूतैर्भूतानि भूतेशः सृजत्यवति हन्त्यजः। आत्मसृष्टैरस्वतन्त्रैरनपेक्षोऽपि बालवत् ॥६॥ देहेन देहिनो राजन् देहाद्देहोऽभिजायते। बीजादेव यथा बीजं देह्यर्थ इव शाश्वतः ॥७॥ देहदेहिविभागोऽयमविवेककृतः पुरा। जातिव्यक्तिविभागोऽयं यथा वस्तुनि कल्पितः॥८॥ श्रीशुक उवाच एवमाश्वासितो राजा चित्रकेतुर्द्विजोक्तिभिः। प्रमृज्य पाणिना वक्त्रमाधिम्लानमभाषत ॥९॥ राजोवाच कौ युवां ज्ञानसम्पन्नौ महिष्ठौ च महीयसाम्। अवधूतेन वेषेण गूढाविह समागतौ ॥१०॥ चरन्ति ह्यवनौ कामं ब्राह्मणा भगवत्प्रियाः। मादृशां ग्राम्यबुद्धीनां बोधायोन्मत्तलिङ्गिनः ॥११॥ कुमारो नारद ऋभुरङ्गिरा देवलोऽसितः। अपान्तरतमो व्यासो मार्कण्डेयोऽथ गौतमः ॥१२॥ वसिष्ठो भगवान् रामः कपिलो बादरायणिः। दुर्वासा याज्ञवल्क्यश्च जातूकर्ण्यस्तथारुणिः ॥१३॥ रोमशश्च्यवनो दत्त आसुरिः सपतञ्जलिः। ऋषिर्वेदशिरा बोध्यः मुनिः पञ्चशिरास्तथा ॥१४॥ हिरण्यनाभः कौसल्यः श्रुतदेव ऋतध्वजः। एते परे च सिद्धेशाश्चरन्ति ज्ञानहेतवः ॥१५॥ तस्माद्युवां ग्राम्यपशोर्मम मूढधियः प्रभू। अन्धे तमसि मग्नस्य ज्ञानदीप उदीर्यताम् ॥१६॥ अङ्गिरा उवाच अहं ते पुत्रकामस्य पुत्रदोऽस्म्यङ्गिरा नृप। एष ब्रह्मसुतः साक्षान्नारदो भगवान् ऋषिः ॥१७॥ इत्थं त्वां पुत्रशोकेन मग्नं तमसि दुस्तरे। अतदर्हमनुस्मृत्य महापुरुषगोचरम् ॥१८॥ अनुग्रहाय भवतः प्राप्तावावामिह प्रभो। ब्रह्मण्यो भगवद्भक्तो नावसीदितुमर्हति ॥१९॥ तदैव ते परं ज्ञानं ददामि गृहमागतः। ज्ञात्वान्याभिनिवेशं ते पुत्रमेव ददावहम् ॥२०॥ अधुना पुत्रिणां तापो भवतैवानुभूयते। एवं दारा गृहा रायो विविधैश्वर्यसम्पदः ॥२१॥ शब्दादयश्च विषयाश्चला राज्यविभूतयः। मही राज्यं बलं कोशो भृत्यामात्यसुहृज्जनाः ॥२२॥ सर्वेऽपि शूरसेनेमे शोकमोहभयार्तिदाः। गन्धर्वनगरप्रख्याः स्वप्नमायामनोरथाः ॥२३॥ दृश्यमाना विनार्थेन न दृश्यन्ते मनोभवाः। कर्मभिर्ध्यायतो नानाकर्माणि मनसोऽभवन् ॥२४॥ अयं हि देहिनो देहो द्रव्यज्ञानक्रियात्मकः। देहिनो विविधक्लेशसन्तापकृदुदाहृतः ॥२५॥ तस्मात्स्वस्थेन मनसा विमृश्य गतिमात्मनः। द्वैते ध्रुवार्थविश्रम्भं त्यजोपशममाविश ॥२६॥ नारद उवाच एतां मन्त्रोपनिषदं प्रतीच्छ प्रयतो मम। यां धारयन् सप्तरात्राद्द्रष्टा सङ्कर्षणं प्रभुम् ॥२७॥ यत्पादमूलमुपसृत्य नरेन्द्र पूर्वे शर्वादयो भ्रममिमं द्वितयं विसृज्य । सद्यस्तदीयमतुलानधिकं महित्वं प्रापुर्भवानपि परं न चिरादुपैति ॥२८॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे चित्रकेतुसान्त्वनं नाम पञ्चदशोऽध्यायः ॥१५॥

॥ षोडशोऽध्यायः - १६ ॥

श्रीशुक उवाच अथ देवऋषी राजन् सम्परेतं नृपात्मजम्। दर्शयित्वेति होवाच ज्ञातीनामनुशोचताम् ॥१॥ नारद उवाच जीवात्मन् पश्य भद्रं ते मातरं पितरं च ते। सुहृदो बान्धवास्तप्ताः शुचा त्वत्कृतया भृशम् ॥२॥ कलेवरं स्वमाविश्य शेषमायुः सुहृद्वृतः। भुङ्क्ष्व भोगान् पितृप्रत्तानधितिष्ठ नृपासनम् ॥३॥ जीव उवाच कस्मिन् जन्मन्यमी मह्यं पितरो मातरोऽभवन्। कर्मभिर्भ्राम्यमाणस्य देवतिर्यङ्नृयोनिषु ॥४॥ बन्धुज्ञात्यरिमध्यस्थमित्रोदासीनविद्विषः। सर्व एव हि सर्वेषां भवन्ति क्रमशो मिथः ॥५॥ यथा वस्तूनि पण्यानि हेमादीनि ततस्ततः। पर्यटन्ति नरेष्वेवं जीवो योनिषु कर्तृषु ॥६॥ नित्यस्यार्थस्य सम्बन्धो ह्यनित्यो दृश्यते नृषु। यावद्यस्य हि सम्बन्धो ममत्वं तावदेव हि ॥७॥ एवं योनिगतो जीवः स नित्यो निरहङ्कृतः। यावद्यत्रोपलभ्येत तावत्स्वत्वं हि तस्य तत् ॥८॥ एष नित्योऽव्ययः सूक्ष्म एष सर्वाश्रयः स्वदृक्। आत्ममायागुणैर्विश्वमात्मानं सृजति प्रभुः ॥९॥ न ह्यस्यातिप्रियः कश्चिन् नाप्रियः स्वः परोपि वा । एकः सर्वधियां द्रष्टा कर्तॄणां गुणदोषयोः ॥१०॥ नादत्त आत्मा हि गुणं न दोषं न क्रियाफलम्। उदासीनवदासीनः परावरदृगीश्वरः ॥११॥ श्रीशुक उवाच इत्युदीर्य गतो जीवो ज्ञातयस्तस्य ते तदा। विस्मिता मुमुचुः शोकं छित्त्वात्मस्नेहशृङ्खलाम् ॥१२॥ निर्हृत्य ज्ञातयो ज्ञातेर्देहं कृत्वोचिताः क्रियाः। तत्यजुर्दुस्त्यजं स्नेहं शोकमोहभयार्तिदम् ॥१३॥ बालघ्न्यो व्रीडितास्तत्र बालहत्याहतप्रभाः। बालहत्याव्रतं चेरुर्ब्राह्मणैर्यन्निरूपितम्। यमुनायां महाराज स्मरन्त्यो द्विजभाषितम् ॥१४॥ स इत्थं प्रतिबुद्धात्मा चित्रकेतुर्द्विजोक्तिभिः। गृहान्धकूपान्निष्क्रान्तः सरःपङ्कादिव द्विपः ॥१५॥ कालिन्द्यां विधिवत्स्नात्वा कृतपुण्यजलक्रियः। मौनेन संयतप्राणो ब्रह्मपुत्राववन्दत ॥१६॥ अथ तस्मै प्रपन्नाय भक्ताय प्रयतात्मने। भगवान्नारदः प्रीतो विद्यामेतामुवाच ह ॥१७॥ ओं नमस्तुभ्यं भगवते वासुदेवाय धीमहि। प्रद्युम्नायानिरुद्धाय नमः सङ्कर्षणाय च ॥१८॥ नमो विज्ञानमात्राय परमानन्दमूर्तये। आत्मारामाय शान्ताय निवृत्तद्वैतदृष्टये ॥१९॥ आत्मानन्दानुभूत्यैव न्यस्तशक्त्यूर्मये नमः। हृषीकेशाय महते नमस्ते विश्वमूर्तये ॥२०॥ वचस्युपरतेऽप्राप्य य एको मनसा सह। अनामरूपश्चिन्मात्रः सोऽव्यान्नः सदसत्परः ॥२१॥ यस्मिन्निदं यतश्चेदं तिष्ठत्यप्येति जायते। मृण्मयेष्विव मृज्जातिस्तस्मै ते ब्रह्मणे नमः ॥२२॥ यन्न स्पृशन्ति न विदुर्मनोबुद्धीन्द्रियासवः। अन्तर्बहिश्च विततं व्योमवत्तन्नतोऽस्म्यहम् ॥२३॥ देहेन्द्रियप्राणमनोधियोऽमी यदंशविद्धाः प्रचरन्ति कर्मसु। नैवान्यदा लोहमिवाप्रतप्तं स्थानेषु तद्द्रष्ट्रपदेशमेति ॥२४॥ ओं नमो भगवते महापुरुषाय महानुभावाय महाविभूतिपतये सकलसात्वतपरिवृढ- निकरकरकमलकुड्मलोपलालितचरणा- रविन्दयुगल परम परमेष्ठिन् नमस्ते ॥२५॥ श्रीशुक उवाच भक्तायैतां प्रपन्नाय विद्यामादिश्य नारदः। ययावङ्गिरसा साकं धाम स्वायम्भुवं प्रभो ॥२६॥ चित्रकेतुस्तु विद्यां तां यथा नारदभाषिताम्। धारयामास सप्ताहमब्भक्षः सुसमाहितः ॥२७॥ ततः स सप्तरात्रान्ते विद्यया धार्यमाणया। विद्याधराधिपत्यं स लेभेऽप्रतिहतं नृप ॥२८॥ ततः कतिपयाहोभिर्विद्ययेद्धमनोगतिः। जगाम देवदेवस्य शेषस्य चरणान्तिकम् ॥२९॥ मृणालगौरं शितिवाससं स्फुर- त्किरीटकेयूरकटित्रकङ्कणम्। प्रसन्नवक्त्रारुणलोचनं वृतं ददर्श सिद्धेश्वरमण्डलैः प्रभुम् ॥३०॥ तद्दर्शनध्वस्तसमस्तकिल्बिषः स्वस्थामलान्तःकरणोऽभ्ययान्मुनिः। प्रवृद्धभक्त्या प्रणयाश्रुलोचनः प्रहृष्टरोमाऽऽनमदादिपुरुषम् ॥३१॥ स उत्तमश्लोकपदाब्जविष्टरं प्रेमाश्रुलेशैरुपमेहयन् मुहुः। प्रेमोपरुद्धाखिलवर्णनिर्गमो नैवाशकत्तं प्रसमीडितुं चिरम् ॥३२॥ ततः समाधाय मनो मनीषया बभाष एतत्प्रतिलब्धवागसौ। नियम्य सर्वेन्द्रियबाह्यवर्तनं जगद्गुरुं सात्वतशास्त्रविग्रहम् ॥३३॥ चित्रकेतुरुवाच अजित जितः सममतिभिः साधुभिर्भवान् जितात्मभिर्भवता। विजितास्तेऽपि च भजतामकामात्मनां य आत्मदोऽतिकरुणः ॥३४॥ तव विभवः खलु भगवन् जगदुदयस्थितिलयादीनि। विश्वसृजस्तेंऽशांशास्तत्र मृषा स्पर्धन्ते पृथगभिमत्या ॥३५॥ परमाणुपरममहतोस्त्व- माद्यन्तान्तरवर्ती त्रयविधुरः। आदावन्तेऽपि च सत्त्वानां यद्ध्रुवं तदेवान्तरालेऽपि ॥३६॥ क्षित्यादिभिरेष किलावृतः सप्तभिर्दशगुणोत्तरैरण्डकोशः। यत्र पतत्यणुकल्पः सहाण्डकोटिकोटिभिस्तदनन्तः ॥३७॥ विषयतृषो नरपशवो य उपासते विभूतीर्न परं त्वाम्। तेषामाशिष ईश तदनु विनश्यन्ति यथा राजकुलम् ॥३८॥ कामधियस्त्वयि रचिता न परम रोहन्ति यथा करम्भबीजानि। ज्ञानात्मन्यगुणमये गुणगणतोऽस्य द्वन्द्वजालानि ॥३९॥ जितमजित तदा भवता यदाह भागवतं धर्ममनवद्यम्। निष्किञ्चना ये मुनय आत्मारामा यमुपासतेऽपवर्गाय ॥४०॥ विषममतिर्न यत्र नृणां त्वमहमिति मम तवेति च यदन्यत्र। विषमधिया रचितो यः स ह्यविशुद्धः क्षयिष्णुरधर्मबहुलः ॥४१॥ कः क्षेमो निजपरयोः कियानर्थः स्वपरद्रुहा धर्मेण। स्वद्रोहात्तव कोपः परसम्पीडया च तथाधर्मः ॥४२॥ न व्यभिचरति तवेक्षा यया ह्यभिहितो भागवतो धर्मः। स्थिरचरसत्त्वकदम्बेष्वपृथग्धियो यमुपासते त्वार्याः ॥४३॥ न हि भगवन्नघटितमिदं त्वद्दर्शनान्नृणामखिलपापक्षयः। यन्नाम सकृच्छ्रवणात्पुल्कसकोऽपि विमुच्यते संसारात् ॥४४॥ अथ भगवन् वयमधुना त्वदवलोकपरिमृष्टाशयमलाः। सुरऋषिणा यदुदितं तावकेन कथमन्यथा भवति ॥४५॥ विदितमनन्त समस्तं तव जगदात्मनो जनैरिहाचरितम्। विज्ञाप्यं परमगुरोः कियदिव सवितुरिव खद्योतैः ॥४६॥ नमस्तुभ्यं भगवते सकलजग- त्स्थितिलयोदयेशाय। दुरवसितात्मगतये कुयोगिनां भिदा परमहंसाय ॥४७॥ यं वै श्वसन्तमनु विश्वसृजः श्वसन्ति यं चेकितानमनु चित्तय उच्चकन्ति । भूमण्डलं सर्षपायति यस्य मूर्ध्नि तस्मै नमो भगवतेऽस्तु सहस्रमूर्ध्ने ॥४८॥ श्रीशुक उवाच संस्तुतो भगवानेवमनन्तस्तमभाषत। विद्याधरपतिं प्रीतश्चित्रकेतुं कुरूद्वह ॥४९॥ श्रीभगवानुवाच यन्नारदाङ्गिरोभ्यां ते व्याहृतं मेऽनुशासनम्। संसिद्धोऽसि तया राजन् विद्यया दर्शनाच्च मे ॥५०॥ अहं वै सर्वभूतानि भूतात्मा भूतभावनः। शब्दब्रह्म परं ब्रह्म ममोभे शाश्वती तनू ॥५१॥ लोके विततमात्मानं लोकं चात्मनि सन्ततम्। उभयं च मया व्याप्तं मयि चैवोभयं कृतम् ॥५२॥ यथा सुषुप्तः पुरुषो विश्वं पश्यति चात्मनि। आत्मानमेकदेशस्थं मन्यते स्वप्न उत्थितः ॥५३॥ एवं जागरणादीनि जीवस्थानानि चात्मनः। मायामात्राणि विज्ञाय तद्द्रष्टारं परं स्मरेत् ॥५४॥ येन प्रसुप्तः पुरुषः स्वापं वेदात्मनस्तदा। सुखं च निर्गुणं ब्रह्म तमात्मानमवेहि माम् ॥५५॥ उभयं स्मरतः पुंसः प्रस्वापप्रतिबोधयोः। अन्वेति व्यतिरिच्येत तज्ज्ञानं ब्रह्म तत्परम् ॥५६॥ यदेतद्विस्मृतं पुंसो मद्भावं भिन्नमात्मनः। ततः संसार एतस्य देहाद्देहो मृतेर्मृतिः ॥५७॥ लब्ध्वेह मानुषीं योनिं ज्ञानविज्ञानसम्भवाम्। आत्मानं यो न बुद्ध्येत न क्वचित्क्षेममाप्नुयात् ॥५८॥ स्मृत्वेहायां परिक्लेशं ततः फलविपर्ययम्। अभयं चाप्यनीहायां सङ्कल्पाद्विरमेत्कविः ॥५९॥ सुखाय दुःखमोक्षाय कुर्वाते दम्पती क्रियाः। ततोऽनिवृत्तिरप्राप्तिर्दुःखस्य च सुखस्य च ॥६०॥ एवं विपर्ययं बुद्ध्वा नृणां विज्ञाभिमानिनाम्। आत्मनश्च गतिं सूक्ष्मां स्थानत्रयविलक्षणाम् ॥६१॥ दृष्टश्रुताभिर्मात्राभिर्निर्मुक्तः स्वेन तेजसा। ज्ञानविज्ञानसन्तुष्टो मद्भक्तः पुरुषो भवेत् ॥६२॥ एतावानेव मनुजैर्योगनैपुण्यबुद्धिभिः। स्वार्थः सर्वात्मना ज्ञेयो यत्परात्मैकदर्शनम् ॥६३॥ त्वमेतच्छ्रद्धया राजन्नप्रमत्तो वचो मम। ज्ञानविज्ञानसम्पन्नो धारयन्नाशु सिध्यसि ॥६४॥ श्रीशुक उवाच आश्वास्य भगवानित्थं चित्रकेतुं जगद्गुरुः। पश्यतस्तस्य विश्वात्मा ततश्चान्तर्दधे हरिः ॥६५॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे चित्रकेतोः परमात्मदर्शनं नाम षोडशोऽध्यायः ॥१६॥

॥ सप्तदशोऽध्यायः - १७ ॥

श्रीशुक उवाच यतश्चान्तर्हितोऽनन्तस्तस्यै कृत्वा दिशे नमः। विद्याधरश्चित्रकेतुश्चचार गगनेचरः ॥१॥ स लक्षं वर्षलक्षाणामव्याहतबलेन्द्रियः। स्तूयमानो महायोगी मुनिभिः सिद्धचारणैः ॥२॥ कुलाचलेन्द्रद्रोणीषु नानासङ्कल्पसिद्धिषु। रेमे विद्याधरस्त्रीभिर्गापयन् हरिमीश्वरम् ॥३॥ एकदा स विमानेन विष्णुदत्तेन भास्वता। गिरिशं ददृशे गच्छन् परीतं सिद्धचारणैः ॥४॥ आलिङ्ग्याङ्कीकृतां देवीं बाहुना मुनिसंसदि। उवाच देव्याः शृण्वत्या जहासोच्चैस्तदन्तिके ॥५॥ चित्रकेतुरुवाच एष लोकगुरुः साक्षाद्धर्मं वक्ता शरीरिणाम्। आस्ते मुख्यः सभायां वै मिथुनीभूय भार्यया ॥६॥ जटाधरस्तीव्रतपा ब्रह्मवादिसभापतिः। अङ्कीकृत्य स्त्रियं चास्ते गतह्रीः प्राकृतो यथा ॥७॥ प्रायशः प्राकृताश्चापि स्त्रियं रहसि बिभ्रति। अयं महाव्रतधरो बिभर्ति सदसि स्त्रियम् ॥८॥ श्रीशुक उवाच भगवानपि तच्छ्रुत्वा प्रहस्यागाधधीर्नृप। तूष्णीं बभूव सदसि सभ्याश्च तदनुव्रताः ॥९॥ इत्यतद्वीर्यविदुषि ब्रुवाणे बह्वशोभनम्। रुषाऽऽह देवी धृष्टाय निर्जितात्माभिमानिने ॥१०॥ पार्वत्युवाच अयं किमधुना लोके शास्ता दण्डधरः प्रभुः। अस्मद्विधानां दुष्टानां निर्लज्जानां च विप्रकृत् ॥११॥ न वेद धर्मं किल पद्मयोनिर्न ब्रह्मपुत्रा भृगुनारदाद्याः। न वै कुमारः कपिलो मनुश्च ये नो निषेधन्त्यतिवर्तिनं हरम् ॥१२॥ एषामनुध्येयपदाब्जयुग्मं जगद्गुरुं मङ्गलमङ्गलं स्वयम्। यः क्षत्रबन्धुः परिभूय सूरीन् प्रशास्ति धृष्टस्तदयं हि दण्ड्यः ॥१३॥ नायमर्हति वैकुण्ठपादमूलोपसर्पणम्। सम्भावितमतिः स्तब्धः साधुभिः पर्युपासितम् ॥१४॥ अतः पापीयसीं योनिमासुरीं याहि दुर्मते। यथेह भूयो महतां न कर्ता पुत्र किल्बिषम् ॥१५॥ श्रीशुक उवाच एवं शप्तश्चित्रकेतुर्विमानादवरुह्य सः। प्रसादयामास सतीं मूर्ध्ना नम्रेण भारत ॥१६॥ चित्रकेतुरुवाच प्रतिगृह्णामि ते शापमात्मनोऽञ्जलिनाम्बिके। देवैर्मर्त्याय यत्प्रोक्तं पूर्वदिष्टं हि तस्य तत् ॥१७॥ संसारचक्र एतस्मिञ्जन्तुरज्ञानमोहितः। भ्राम्यन् सुखं च दुःखं च भुङ्क्ते सर्वत्र सर्वदा ॥१८॥ नैवात्मा न परश्चापि कर्ता स्यात्सुखदुःखयोः। कर्तारं मन्यतेऽत्राज्ञ आत्मानं परमेव च ॥१९॥ गुणप्रवाह एतस्मिन् कः शापः को न्वनुग्रहः। कः स्वर्गो नरकः को वा किं सुखं दुःखमेव वा ॥२०॥ एकः सृजति भूतानि भगवानात्ममायया। एषां बन्धं च मोक्षं च सुखं दुःखं च निष्कलः ॥२१॥ न तस्य कश्चिद्दयितः प्रतीपो न ज्ञातिबन्धुर्न परो न च स्वः। समस्य सर्वत्र निरञ्जनस्य सुखे न रागः कुत एव रोषः ॥२२॥ तथापि तच्छक्तिविसर्ग एषां सुखाय दुःखाय हिताहिताय। बन्धाय मोक्षाय च मृत्युजन्मनोः शरीरिणां संसृतयेव कल्पते ॥२३॥ अथ प्रसादये न त्वां शापमोक्षाय भामिनि। यन्मन्यसे असाधूक्तं मम तत्क्षम्यतां सति ॥२४॥ श्रीशुक उवाच इति प्रसाद्य गिरिशौ चित्रकेतुररिन्दम। जगाम स्वविमानेन पश्यतोः स्मयतोस्तयोः ॥२५॥ ततस्तु भगवान् रुद्रो रुद्राणीमिदमब्रवीत्। देवर्षिदैत्यसिद्धानां पार्षदानां च शृण्वताम् ॥२६॥ श्रीरुद्र उवाच दृष्टवत्यसि सुश्रोणि हरेरद्भुतकर्मणः। माहात्म्यं भृत्यभृत्यानां निःस्पृहाणां महात्मनाम् ॥२७॥ नारायणपराः सर्वे न कुतश्चन बिभ्यति। स्वर्गापवर्गनरकेष्वपि तुल्यार्थदर्शिनः ॥२८॥ देहिनां देहसंयोगाद्द्वन्द्वानीश्वरलीलया। सुखं दुःखं मृतिर्जन्म शापोऽनुग्रह एव च ॥२९॥ अविवेककृतः पुंसो ह्यर्थभेद इवात्मनि। गुणदोषविकल्पश्च भिदेव स्रजिवत्कृतः ॥३०॥ वासुदेवे भगवति भक्तिमुद्वहतां नृणाम्। ज्ञानवैराग्यवीर्याणां नेह कश्चिद्व्यपाश्रयः ॥३१॥ नाहं विरिञ्चो न कुमारनारदौ न ब्रह्मपुत्रा मुनयः सुरेशाः। विदाम यस्येहितमंशकांशका न तत्स्वरूपं पृथगीशमानिनः ॥३२॥ न ह्यस्यास्ति प्रियः कश्चिन्नाप्रियः स्वः परोऽपि वा। आत्मत्वात्सर्वभूतानां सर्वभूतप्रियो हरिः ॥३३॥ तस्य चायं महाभागश्चित्रकेतुः प्रियोऽनुगः। सर्वत्र समदृक् शान्तो ह्यहं चैवाच्युतप्रियः ॥३४॥ तस्मान्न विस्मयः कार्यः पुरुषेषु महात्मसु। महापुरुषभक्तेषु शान्तेषु समदर्शिषु ॥३५॥ श्रीशुक उवाच इति श्रुत्वा भगवतः शिवस्योमाभिभाषितम्। बभूव शान्तधी राजन् देवी विगतविस्मया ॥३६॥ इति भागवतो देव्याः प्रतिशप्तुमलन्तमः। मूर्ध्ना संजगृहे शापमेतावत्साधुलक्षणम् ॥३७॥ जज्ञे त्वष्टुर्दक्षिणाग्नौ दानवीं योनिमाश्रितः। वृत्र इत्यभिविख्यातो ज्ञानविज्ञानसंयुतः ॥३८॥ एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि। वृत्रस्यासुरजातेश्च कारणं भगवन्मतेः ॥३९॥ इतिहासमिमं पुण्यं चित्रकेतोर्महात्मनः। माहात्म्यं विष्णुभक्तानां श्रुत्वा बन्धाद्विमुच्यते ॥४०॥ य एतत्प्रातरुत्थाय श्रद्धया वाग्यतः पठेत्। इतिहासं हरिं स्मृत्वा स याति परमां गतिम् ॥४१॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे चित्रकेतुशापो नाम सप्तदशोऽध्यायः ॥१७॥

॥ अष्टादशोऽध्यायः - १८ ॥

श्रीशुक उवाच पृश्निस्तु पत्नी सवितुः सावित्रीं व्याहृतिं त्रयीम्। अग्निहोत्रं पशुं सोमं चातुर्मास्यं महामखान् ॥१॥ सिद्धिर्भगस्य भार्याङ्ग महिमानं विभुं प्रभुम्। आशिषं च वरारोहां कन्यां प्रासूत सुव्रताम् ॥२॥ धातुः कुहूः सिनीवाली राका चानुमतिस्तथा। सायं दर्शमथ प्रातः पूर्णमासमनुक्रमात् ॥३॥ अग्नीन् पुरीष्यानाधत्त क्रियायां समनन्तरः। चर्षणी वरुणस्यासीद्यस्यां जातो भृगुः पुनः ॥४॥ वाल्मीकिश्च महायोगी वल्मीकादभवत्किल। अगस्त्यश्च वसिष्ठश्च मित्रावरुणयोरृषी ॥५॥ रेतः सिषिचतुः कुम्भे उर्वश्याः सन्निधौ द्रुतम्। रेवत्यां मित्र उत्सर्गमरिष्टं पिप्पलं व्यधात् ॥६॥ पौलोम्यामिन्द्र आधत्त त्रीन् पुत्रानिति नः श्रुतम्। जयन्तमृषभं तात तृतीयं मीढुषं प्रभुः ॥७॥ उरुक्रमस्य देवस्य मायावामनरूपिणः। कीर्तौ पत्न्यां बृहच्छ्लोकस्तस्यासन् सौभगादयः ॥८॥ तत्कर्मगुणवीर्याणि काश्यपस्य महात्मनः। पश्चाद्वक्ष्यामहेऽदित्यां यथा वावततार ह ॥९॥ अथ कश्यपदायादान् दैतेयान् कीर्तयामि ते। यत्र भागवतः श्रीमान् प्रह्लादो बलिरेव च ॥१०॥ दितेर्द्वावेव दायादौ दैत्यदानववन्दितौ। हिरण्यकशिपुर्नाम हिरण्याक्षश्च कीर्तितौ ॥११॥ हिरण्यकशिपोर्भार्या कयाधुर्नाम दानवी। जम्भस्य तनया दत्ता सुषुवे चतुरः सुतान् ॥१२॥ संह्लादं प्रागनुह्लादं ह्लादं प्रह्लादमेव च। तत्स्वसा सिंहिका नाम राहुं विप्रचितोऽग्रहीत्॥१३॥ शिरोऽहरद्यस्य हरिश्चक्रेण पिबतोऽमृतम्। संह्लादस्य कृतिर्भार्यासूत पञ्चजनं ततः ॥१४॥ ह्लादस्य धमनिर्भार्यासूत वातापिमिल्वलम्। योऽगस्त्याय त्वतिथये पेचे वातापिमिल्वलः ॥१५॥ अनुह्लादस्य सूर्म्यायां बाष्कलो महिषस्तथा। विरोचनस्तु प्राह्लादिर्देव्यास्तस्याभवद्बलिः ॥१६॥ बाणज्येष्ठं पुत्रशतमशनायां ततोऽभवत्। तस्यानुभावं सुश्लोक्याः पश्चादेवाभिधास्यते ॥१७॥ बाण आराध्य गिरिशं लेभे तद्गणमुख्यताम्। यत्पार्श्वे भगवानास्ते ह्यद्यापि पुरपालकः ॥१८॥ मरुतश्च दितेः पुत्राश्चत्वारिंशन्नवाधिकाः। त आसन्नप्रजाः सर्वे नीता इन्द्रेण सात्मताम् ॥१९॥ राजोवाच कथं त आसुरं भावमपोह्यौत्पत्तिकं गुरो। इन्द्रेण प्रापिताः सात्म्यं किं तत्साधु कृतं हि तैः ॥२०॥ इमे श्रद्दधते ब्रह्मन्नृषयो हि मया सह। परिज्ञानाय भगवंस्तन्नो व्याख्यातुमर्हसि ॥२१॥ सूत उवाच तद्विष्णुरातस्य स बादरायणिर्वचो निशम्यादृतमल्पमर्थवत्। सभाजयन् सन्निभृतेन चेतसा जगाद सत्रायण सर्वदर्शनः ॥२२॥ श्रीशुक उवाच हतपुत्रा दितिः शक्रपार्ष्णिग्राहेण विष्णुना। मन्युना शोकदीप्तेन ज्वलन्ती पर्यचिन्तयत् ॥२३॥ कदा नु भ्रातृहन्तारमिन्द्रियाराममुल्बणम्। अक्लिन्नहृदयं पापं घातयित्वा शये सुखम् ॥२४॥ कृमिविड्भस्मसंज्ञासीद्यस्येशाभिहितस्य च। भूतध्रुक् तत्कृते स्वार्थं किं वेद निरयो यतः ॥२५॥ आशासानस्य तस्येदं ध्रुवमुन्नद्धचेतसः। मदशोषक इन्द्रस्य भूयाद्येन सुतो हि मे ॥२६॥ इति भावेन सा भर्तुराचचारासकृत्प्रियम्। शुश्रूषयानुरागेण प्रश्रयेण दमेन च ॥२७॥ भक्त्या परमया राजन् मनोज्ञैर्वल्गुभाषितैः। मनो जग्राह भावज्ञा सुस्मितापाङ्गवीक्षणैः ॥२८॥ एवं स्त्रिया जडीभूतो विद्वानपि विदग्धया। बाढमित्याह विवशो न तच्चित्रं हि योषिति ॥२९॥ विलोक्यैकान्तभूतानि भूतान्यादौ प्रजापतिः। स्त्रियं चक्रे स्वदेहार्धं यया पुंसां मतिर्हृता ॥३०॥ एवं शुश्रूषितस्तात भगवान् कश्यपः स्त्रिया। प्रहस्य परमप्रीतो दितिमाहाभिनन्द्य च ॥३१॥ कश्यप उवाच वरं वरय वामोरु प्रीतस्तेऽहमनिन्दिते। स्त्रिया भर्तरि सुप्रीते कः काम इह चागमः ॥३२॥ पतिरेव हि नारीणां दैवतं परमं स्मृतम्। मानसः सर्वभूतानां वासुदेवः श्रियः पतिः ॥३३॥ स एव देवतालिङ्गैर्नामरूपविकल्पितैः। इज्यते भगवान् पुम्भिः स्त्रीभिश्च पतिरूपधृक् ॥३४॥ तस्मात्पतिव्रता नार्यः श्रेयस्कामाः सुमध्यमे। यजन्तेऽनन्यभावेन पतिमात्मानमीश्वरम् ॥३५॥ सोऽहं त्वयार्चितो भद्रे ईदृग्भावेन भक्तितः। तत्ते सम्पादये काममसतीनां सुदुर्लभम् ॥३६॥ दितिरुवाच वरदो यदि मे ब्रह्मन् पुत्रमिन्द्रहणं वृणे। अमृत्युं मृतपुत्राहं येन मे घातितौ सुतौ ॥३७॥ निशम्य तद्वचो विप्रो विमनाः पर्यतप्यत। अहो अधर्मः सुमहानद्य मे समुपस्थितः ॥३८॥ अहो अद्येन्द्रियारामो योषिन्मय्येह मायया। गृहीतचेताः कृपणः पतिष्ये नरके ध्रुवम् ॥३९॥ कोऽतिक्रमोऽनुवर्तन्त्याः स्वभावमिह योषितः। धिङ् मां बताबुधं स्वार्थे यदहं त्वजितेन्द्रियः ॥४०॥ शरत्पद्मोत्सवं वक्त्रं वचश्च श्रवणामृतम्। हृदयं क्षुरधाराभं स्त्रीणां को वेद चेष्टितम् ॥४१॥ न हि कश्चित्प्रियः स्त्रीणामञ्जसा स्वाशिषात्मनाम्। पतिं पुत्रं भ्रातरं वा घ्नन्त्यर्थे घातयन्ति च ॥४२॥ प्रतिश्रुतं ददामीति वचस्तन्न मृषा भवेत्। वधं नार्हति चेन्द्रोपि तत्रेदमुपकल्पते ॥४३॥ इति सञ्चिन्त्य भगवान् मारीचः कुरुनन्दन। उवाच किञ्चित्कुपित आत्मानं च विगर्हयन् ॥४४॥ कश्यप उवाच पुत्रस्ते भविता भद्रे इन्द्रहा देवबान्धवः। संवत्सरं व्रतमिदं यद्यञ्जो धारयिष्यसि ॥४५॥ दितिरुवाच धारयिष्ये व्रतं ब्रह्मन् ब्रूहि कार्याणि यानि मे। यानि चेह निषिद्धानि न व्रतं घ्नन्ति यानि तु ॥४६॥ कश्यप उवाच न हिंस्याद्भूतजातानि न शपेन्नानृतं वदेत्। न छिन्द्यान्नखरोमाणि न स्पृशेद्यदमङ्गलम् ॥४७॥ नाप्सु स्नायान्न कुप्येत न सम्भाषेत दुर्जनैः। न वसीताधौतवासः स्रजं च विधृतां क्वचित् ॥४८॥ नोच्छिष्टं चण्डिकान्नं च सामिषं वृषलाहृतम्। भुञ्जीतोदक्यया दृष्टं पिबेदञ्जलिना त्वपः ॥४९॥ नोच्छिष्टास्पृष्टसलिला सन्ध्यायां मुक्तमूर्धजा। अनर्चितासंयतवाक् नासंवीता बहिश्चरेत् ॥५०॥ नाधौतपादाप्रयता नार्द्रपादा उदक्शिराः। शयीत नापराङ्नान्यैर्न नग्ना न च सन्ध्ययोः ॥५१॥ धौतवासा शुचिर्नित्यं सर्वमङ्गलसंयुता। पूजयेत्प्रातराशात्प्राग्गोविप्राञ्श्रियमच्युतम् ॥५२॥ स्त्रियो वीरवतीश्चार्चेत्स्रग्गन्धबलिमण्डनैः। पतिं चार्च्योपतिष्ठेत ध्यायेत्कोष्ठगतं च तम् ॥५३॥ सांवत्सरं पुंसवनं व्रतमेतदविप्लुतम्। धारयिष्यसि चेत्तुभ्यं शक्रहा भविता सुतः ॥५४॥ बाढमित्यभिप्रेत्याथ दिती राजन् महामनाः। कश्यपाद्गर्भमाधत्त व्रतं चाञ्जो दधार सा ॥५५॥ मातृष्वसुरभिप्रायमिन्द्र आज्ञाय मानद। शुश्रूषणेनाश्रमस्थां दितिं पर्यचरत्कविः ॥५६॥ नित्यं वनात्सुमनसः फलमूलसमित्कुशान्। पत्राङ्कुरमृदोऽपश्च काले काल उपाहरत् ॥५७॥ एवं तस्या व्रतस्थाया व्रतच्छिद्रं हरिर्नृप। प्रेप्सुः पर्यचरज्जिह्मो मृगहेव मृगाकृतिः ॥५८॥ नाध्यगच्छद्व्रतच्छिद्रं तत्परोऽथ महीपते। चिन्तां तीव्रां गतः शक्रः केन मे स्याच्छिवं त्विह ॥५९॥ एकदा सा तु सन्ध्यायामुच्छिष्टा व्रतकर्शिता। अस्पृष्टवार्यधौताङ्घ्रिः सुष्वाप विधिमोहिता ॥६०॥ लब्ध्वा तदन्तरं शक्रो निद्रापहृतचेतसः। दितेः प्रविष्ट उदरं योगेशो योगमायया ॥६१॥ चकर्त सप्तधा गर्भं वज्रेण कनकप्रभम्। रुदन्तं सप्तधैकैकं मा रोदीरिति तान् पुनः ॥६२॥ ते तमूचुः पाट्यमानास्ते सर्वे प्राञ्जलयो नृप। नो जिघांससि किमिन्द्र भ्रातरो मरुतस्तव ॥६३॥ मा भैष्ट भ्रातरो मह्यं यूयमित्याह कौशिकः। अनन्यभावान् पार्षदानात्मनो मरुतां गणान् ॥६४॥ न ममार दितेर्गर्भः श्रीनिवासानुकम्पया। बहुधा कुलिशक्षुण्णो द्रौण्यस्त्रेण यथा भवान् ॥६५॥ सकृदिष्ट्वाऽऽदिपुरुषं पुरुषो याति साम्यताम्। संवत्सरं किञ्चिदूनं दित्या यद्धरिरर्चितः ॥६६॥ सजूरिन्द्रेण पञ्चाशद्देवास्ते मरुतोऽभवन्। व्यपोह्य मातृदोषं ते हरिणा सोमपाः कृताः ॥६७॥ दितिरुत्थाय ददृशे कुमाराननलप्रभान्। इन्द्रेण सहितान् देवी पर्यतुष्यदनिन्दिता ॥६८॥ अथेन्द्रमाह ताताहमादित्यानां भयावहम्। अपत्यमिच्छन्त्यचरं व्रतमेतत्सुदुष्करम् ॥६९॥ एकः सङ्कल्पितः पुत्रः सप्त सप्ताभवन् कथम्। यदि ते विदितं पुत्र सत्यं कथय मा मृषा ॥७०॥ इन्द्र उवाच अम्ब तेऽहं व्यवसितमुपधार्यागतोऽन्तिकम्। लब्धान्तरोऽच्छिदं गर्भमर्थबुद्धिर्न धर्मदृक् ॥७१॥ कृत्तो मे सप्तधा गर्भ आसन् सप्त कुमारकाः। तेऽपि चैकैकशो वृक्णाः सप्तधा नापि मम्रिरे ॥७२॥ ततस्तत्परमाश्चर्यं वीक्ष्याध्यवसितं मया। महापुरुषपूजायाः सिद्धिः काप्यनुषङ्गिणी ॥७३॥ आराधनं भगवत ईहमाना निराशिषः। ये तु नेच्छन्त्यपि परं ते स्वार्थकुशलाः स्मृताः॥७४॥ आराध्यात्मप्रदं देवं स्वात्मानं जगदीश्वरम्। को वृणीते गुणस्पर्शं बुधः स्यान्नरकेऽपि यत् ॥७५॥ तदिदं मम दौर्जन्यं बालिशस्य महीयसि। क्षन्तुमर्हसि मातस्त्वं दिष्ट्या गर्भो मृतोत्थितः ॥७६॥ श्रीशुक उवाच इन्द्रस्तयाभ्यनुज्ञातः शुद्धभावेन तुष्टया। मरुद्भिः सह तां नत्वा जगाम त्रिदिवं प्रभुः ॥७७॥ एवं ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि। मङ्गलं मरुतां जन्म किं भूयः कथयामि ते ॥७८॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे मरुदुत्पत्तिकथनं नाम अष्टादशोऽध्यायः ॥१८॥

॥ एकोनविंशोऽध्यायः - १९ ॥

राजोवाच व्रतं पुंसवनं ब्रह्मन् भवता यदुदीरितम्। तस्य वेदितुमिच्छामि येन विष्णुः प्रसीदति ॥१॥ श्रीशुक उवाच शुक्ले मार्गशिरे पक्षे योषिद्भर्तुरनुज्ञया। आरभेत व्रतमिदं सार्वकामिकमादितः ॥२॥ निशम्य मरुतां जन्म ब्राह्मणाननुमन्त्र्य च। स्नात्वा शुक्लदती शुक्ले वसीतालङ्कृताम्बरे। पूजयेत्प्रातराशात्प्राग्भगवन्तं श्रिया सह ॥३॥ अलं ते निरपेक्षाय पूर्णकाम नमोस्तु ते। महाविभूतिपतये नमः सकलसिद्धये ॥४॥ यथा त्वं कृपया भूत्या तेजसा महिमौजसा। जुष्ट ईश गुणैः सर्वैस्ततोऽसि भगवान् प्रभुः ॥५॥ विष्णुपत्नि महामाये महापुरुषलक्षणे। प्रीयेथा मे महाभागे लोकमातर्नमोस्तु ते ॥६॥ ओं नमो भगवते महापुरुषाय महानुभावाय महाविभूतिपतये सह महाविभूतिभिर्बलिमुप- हराणीति अनेनाहरहर्मन्त्रेण विष्णोरावाहना- र्घ्यपाद्योपस्पर्शनस्नान वासौपवीतविभूषण- गन्धपुष्पधूपदीपोपहाराद्युपचारांश्च समाहितोपाहरेत् ॥७॥ हविःशेषं तु जुहुयादनले द्वादशाहुतीः। ओं नमो भगवते महापुरुषाय महाविभूतिपतये स्वाहेति ॥८॥ श्रियं विष्णुं च वरदावाशिषां प्रभवावुभौ। भक्त्या सम्पूजयेन्नित्यं यदीच्छेत्सर्वसम्पदः ॥९॥ प्रणमेद्दण्डवद्भूमौ भक्तिप्रह्वेण चेतसा। दशवारं जपेन्मन्त्रं ततः स्तोत्रमुदीरयेत् ॥१०॥ युवां तु विश्वस्य विभू जगतः कारणं परम्। इयं हि प्रकृतिः सूक्ष्मा मायाशक्तिर्दुरत्यया ॥११॥ तस्या अधीश्वरः साक्षात्त्वमेव पुरुषः परः। त्वं सर्वयज्ञ इज्येयं क्रियेयं फलभुग्भवान् ॥१२॥ गुणव्यक्तिरियं देवी व्यञ्जको गुणभुग्भवान्। त्वं हि सर्वशरीर्यात्मा श्रीः शरीरेन्द्रियाशया। नामरूपे भगवती प्रत्ययस्त्वमपाश्रयः ॥१३॥ यथा युवां त्रिलोकस्य वरदौ परमेष्ठिनौ। तथा म उत्तमश्लोक सन्तु सत्या महाशिषः ॥१४॥ इत्यभिष्टूय वरदं श्रीनिवासं श्रिया सह। तन्निःसार्योपहरणं दत्त्वाचमनमर्चयेत् ॥१५॥ ततः स्तुवीत स्तोत्रेण भक्तिप्रह्वेण चेतसा। यज्ञोच्छिष्टमवघ्राय पुनरभ्यर्चयेद्धरिम् ॥१६॥ पतिं च परया भक्त्या महापुरुषचेतसा। प्रियैस्तैस्तैरुपनमेत्प्रेमशीलः स्वयं पतिः। बिभृयात्सर्वकर्माणि पत्न्या उच्चावचानि च ॥१७॥ कृतमेकतरेणापि दम्पत्योरुभयोरपि। पत्न्यां कुर्यादनर्हायां पतिरेतत्समाहितः ॥१८॥ विष्णोर्व्रतमिदं बिभ्रन्न विहन्यात्कथञ्चन। विप्रान् स्त्रियो वीरवतीः स्रग्गन्धबलिमण्डनैः। अर्चेदहरहर्भक्त्या देवं नियममास्थिता ॥१९॥ उद्वास्य देवं स्वे धाम्नि तन्निवेदितमग्रतः। अद्यादात्मविशुद्ध्यर्थं सर्वकामर्धये तथा ॥२०॥ एतेन पूजाविधिना मासान् द्वादश हायनम्। नीत्वाथोपरमेत्साध्वी कार्तिके चरमेऽहनि ॥२१॥ श्वोभूतेऽप उपस्पृश्य कृष्णमभ्यर्च्य पूर्ववत्। पयःशृतेन जुहुयाच्चरुणा सह सर्पिषा। पाकयज्ञविधानेन द्वादशैवाहुतीः पतिः ॥२२॥ आशिषः शिरसादाय द्विजैः प्रीतैः समीरिताः। प्रणम्य शिरसा भक्त्या भुञ्जीत तदनुज्ञया ॥२३॥ आचार्यमग्रतः कृत्वा वाग्यतः सह बन्धुभिः। दद्यात्पत्न्यै चरोः शेषं सुप्रजस्त्वं सुसौभगम् ॥२४॥ एतच्चरित्वा विधिवद्व्रतं विभो- रभीप्सितार्थं लभते पुमानिह। स्त्री त्वेतदास्थाय लभेत सौभगं श्रियं प्रजां जीवपतिं यशो गृहम् ॥२५॥ कन्या च विन्देत समग्रलक्षणं वरं त्ववीरा हतकिल्बिषा गतिम्। मृतप्रजा जीवसुता धनेश्वरी सुदुर्भगा सुभगा रूपमग्र्यम् ॥२६॥ विन्देद्विरूपा विरुजा विमुच्यते य आमयावीन्द्रियकल्पदेहम्। एतत्पठन्नभ्युदये च कर्म- ण्यनन्ततृप्तिः पितृदेवतानाम् ॥२७॥ तुष्टाः प्रयच्छन्ति समस्तकामान् होमावसाने हुतभुक् श्रीर्हरिश्च। राजन् महन्मरुतां जन्म पुण्यं दितेर्व्रतं चाभिहितं महत्ते ॥२८॥ इति श्रीमद्भागवते महापुराणे वैयासक्यामष्टादशसाहस्र्यां पारमहंस्यां संहितायां षष्ठस्कन्धे पुंसवनव्रतकथनं नामैकोनविंशोऽध्यायः ॥१९॥

॥ इति षष्ठस्कन्धः समाप्तः ॥

ॐ तत्सत् ॥


GRETIL txt edited as per Gita Press edition along with paaThabheda by PSA Easwaran

% Text title            : shrImadbhAgavatam - 06 - ShaShThaskandhaH 
% File name             : bhagpur-06.txt
% itxtitle              : shrImadbhAgavatam - 06 - ShaShThaskandhaH 
% engtitle              : shrImadbhAgavatam - ShaShThaskandhaH 
% Category              : purana, shrimadbhagavatam, vyAsa, krishna
% Location              : doc_purana
% Sublocation           : purana
% Language              : Sanskrit
% Subject               : hinduism/religion
% Latest update         : July 31, 2017, July 16, 2010
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP