॥ श्रीमद्भागवतम् - सप्तमस्कन्धः ॥

॥ ॐ नमो भगवते वासुदेवाय ॥

॥ सप्तमस्कन्धः ॥

॥ प्रथमोऽध्यायः - १ ॥

राजोवाच समः प्रियः सुहृद्ब्रह्मन् भूतानां भगवान् स्वयम्। इन्द्रस्यार्थे कथं दैत्यानवधीद्विषमो यथा ॥१॥ न ह्यस्यार्थः सुरगणैः साक्षान्निःश्रेयसात्मनः। नैवासुरेभ्यो विद्वेषो नोद्वेगश्चागुणस्य हि ॥२॥ इति नः सुमहाभाग नारायणगुणान् प्रति। संशयः सुमहान् जातस्तद्भवांश्छेत्तुमर्हति ॥३॥ श्रीशुक उवाच साधु पृष्टं महाराज हरेश्चरितमद्भुतम्। यद्भागवतमाहात्म्यं भगवद्भक्तिवर्धनम् ॥४॥ गीयते परमं पुण्यमृषिभिर्नारदादिभिः। नत्वा कृष्णाय मुनये कथयिष्ये हरेः कथाम् ॥५॥ निर्गुणोऽपि ह्यजोऽव्यक्तो भगवान् प्रकृतेः परः। स्वमायागुणमाविश्य बाध्यबाधकतां गतः ॥६॥ सत्त्वं रजस्तम इति प्रकृतेर्नात्मनो गुणाः। न तेषां युगपद्राजन् ह्रास उल्लास एव वा ॥७॥ जयकाले तु सत्त्वस्य देवर्षीन् रजसोऽसुरान्। तमसो यक्षरक्षांसि तत्कालानुगुणोऽभजत् ॥८॥ ज्योतिरादिरिवाभाति सङ्घातान्न विविच्यते। विदन्त्यात्मानमात्मस्थं मथित्वा कवयोऽन्ततः ॥९॥ यदा सिसृक्षुः पुर आत्मनः परो रजः सृजत्येष पृथक् स्वमायया। सत्त्वं विचित्रासु रिरंसुरीश्वरः शयिष्यमाणस्तम ईरयत्यसौ ॥१०॥ कालं चरन्तं सृजतीश आश्रयं प्रधानपुम्भ्यां नरदेव सत्यकृत्। य एष राजन्नपि काल ईशिता सत्त्वं सुरानीकमिवैधयत्यतः। तत्प्रत्यनीकानसुरान् सुरप्रियो रजस्तमस्कान् प्रमिणोत्युरुश्रवाः ॥११॥ अत्रैवोदाहृतः पूर्वमितिहासः सुरर्षिणा। प्रीत्या महाक्रतौ राजन् पृच्छतेऽजातशत्रवे ॥१२॥ दृष्ट्वा महाद्भुतं राजा राजसूये महाक्रतौ। वासुदेवे भगवति सायुज्यं चेदिभूभुजः ॥१३॥ तत्रासीनं सुरऋषिं राजा पाण्डुसुतः क्रतौ। पप्रच्छ विस्मितमना मुनीनां शृण्वतामिदम् ॥१४॥ युधिष्ठिर उवाच अहो अत्यद्भुतं ह्येतद्दुर्लभैकान्तिनामपि। वासुदेवे परे तत्त्वे प्राप्तिश्चैद्यस्य विद्विषः ॥१५॥ एतद्वेदितुमिच्छामः सर्व एव वयं मुने। भगवन्निन्दया वेनो द्विजैस्तमसि पातितः ॥१६॥ दमघोषसुतः पाप आरभ्य कलभाषणात्। सम्प्रत्यमर्षी गोविन्दे दन्तवक्त्रश्च दुर्मतिः ॥१७॥ शपतोरसकृद्विष्णुं यद्ब्रह्म परमव्ययम्। श्वित्रो न जातो जिह्वायां नान्धं विविशतुस्तमः॥१८॥ कथं तस्मिन् भगवति दुरवग्राहधामनि। पश्यतां सर्वलोकानां लयमीयतुरञ्जसा ॥१९॥ एतद्भ्राम्यति मे बुद्धिर्दीपार्चिरिव वायुना। ब्रूह्येतदद्भुततमं भगवांस्तत्र कारणम् ॥२०॥ श्रीशुक उवाच राज्ञस्तद्वच आकर्ण्य नारदो भगवानृषिः। तुष्टः प्राह तमाभाष्य शृण्वत्यास्तत्सदः ॥२१॥ नारद उवाच निन्दनस्तवसत्कारन्यक्कारार्थं कलेवरम्। प्रधानपरयो राजन्नविवेकेन कल्पितम् ॥२२॥ हिंसा तदभिमानेन दण्डपारुष्ययोर्यथा। वैषम्यमिह भूतानां ममाहमिति पार्थिव ॥२३॥ यन्निबद्धोऽभिमानोऽयं तद्वधात्प्राणिनां वधः। तथा न यस्य कैवल्यादभिमानोऽखिलात्मनः। परस्य दमकर्तुर्हि हिंसा केनास्य कल्प्यते ॥२४॥ तस्माद्वैरानुबन्धेन निर्वैरेण भयेन वा। स्नेहात्कामेन वा युञ्ज्यात्कथञ्चिन्नेक्षते पृथक् ॥२५॥ यथा वैरानुबन्धेन मर्त्यस्तन्मयतामियात्। न तथा भक्तियोगेन इति मे निश्चिता मतिः ॥२६॥ कीटः पेशस्कृता रुद्धः कुड्यायां तमनुस्मरन्। संरम्भभययोगेन विन्दते तत्सरूपताम् ॥२७॥ एवं कृष्णे भगवति मायामनुज ईश्वरे। वैरेण पूतपाप्मानस्तमापुरनुचिन्तया ॥२८॥ कामाद्द्वेषाद्भयात्स्नेहाद्यथा भक्त्येश्वरे मनः। आवेश्य तदघं हित्वा बहवस्तद्गतिं गताः ॥२९॥ गोप्यः कामाद्भयात्कंसो द्वेषाच्चैद्यादयो नृपाः। सम्बन्धाद्वृष्णयः स्नेहाद्यूयं भक्त्या वयं विभो ॥३०॥ कतमोऽपि न वेनः स्यात्पञ्चानां पुरुषं प्रति। तस्मात्केनाप्युपायेन मनः कृष्णे निवेशयेत् ॥३१॥ मातृष्वसेयो वश्चैद्यो दन्तवक्त्रश्च पाण्डव। पार्षदप्रवरौ विष्णोर्विप्रशापात्पदाच्च्युतौ ॥३२॥ युधिष्ठिर उवाच कीदृशः कस्य वा शापो हरिदासाभिमर्शनः। अश्रद्धेय इवाभाति हरेरेकान्तिनां भवः ॥३३॥ देहेन्द्रियासुहीनानां वैकुण्ठपुरवासिनाम्। देहसम्बन्धसम्बद्धमेतदाख्यातुमर्हसि ॥३४॥ नारद उवाच एकदा ब्रह्मणः पुत्रा विष्णोर्लोकं यदृच्छया। सनन्दनादयो जग्मुश्चरन्तो भुवनत्रयम् ॥३५॥ पञ्चषड्ढायनार्भाभाः पूर्वेषामपि पूर्वजाः। दिग्वाससः शिशून् मत्वा द्वाःस्थौ तान् प्रत्यषेधताम् ॥३६॥ अशपन् कुपिता एवं युवां वासं न चार्हथः। रजस्तमोभ्यां रहिते पादमूले मधुद्विषः। पापिष्ठामासुरीं योनिं बालिशौ यातमाश्वतः ॥३७॥ एवं शप्तौ स्वभवनात्पतन्तौ तैः कृपालुभिः। प्रोक्तौ पुनर्जन्मभिर्वां त्रिभिर्लोकाय कल्पताम् ॥३८॥ जज्ञाते तौ दितेः पुत्रौ दैत्यदानववन्दितौ। हिरण्यकशिपुर्ज्येष्ठो हिरण्याक्षोऽनुजस्ततः ॥३९॥ हतो हिरण्यकशिपुर्हरिणा सिंहरूपिणा। हिरण्याक्षो धरोद्धारे बिभ्रता सौकरं वपुः ॥४०॥ हिरण्यकशिपुः पुत्रं प्रह्लादं केशवप्रियम्। जिघांसुरकरोन्नाना यातना मृत्युहेतवे ॥४१॥ सर्वभूतात्मभूतं तं प्रशान्तं समदर्शनम्। भगवत्तेजसा स्पृष्टं नाशक्नोद्धन्तुमुद्यमैः ॥४२॥ ततस्तौ राक्षसौ जातौ केशिन्यां विश्रवःसुतौ। रावणः कुम्भकर्णश्च सर्वलोकोपतापनौ ॥४३॥ तत्रापि राघवो भूत्वा न्यहनच्छापमुक्तये। रामवीर्यं श्रोष्यसि त्वं मार्कण्डेयमुखात्प्रभो ॥४४॥ तावेव क्षत्रियौ जातौ मातृष्वस्रात्मजौ तव। अधुना शापनिर्मुक्तौ कृष्णचक्रहतांहसौ ॥४५॥ वैरानुबन्धतीव्रेण ध्यानेनाच्युतसात्मताम्। नीतौ पुनर्हरेः पार्श्वं जग्मतुर्विष्णुपार्षदौ ॥४६॥ युधिष्ठिर उवाच विद्वेषो दयिते पुत्रे कथमासीन्महात्मनि। ब्रूहि मे भगवन् येन प्रह्लादस्याच्युतात्मता ॥४७॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्धे प्रह्लादचरितोपक्रमे प्रथमोऽध्यायः (१)

॥ द्वितीयोऽध्यायः - २ ॥

नारद उवाच भ्रातर्येवं विनिहते हरिणा क्रोडमूर्तिना। हिरण्यकशिपू राजन् पर्यतप्यद्रुषा शुचा ॥१॥ आह चेदं रुषा घूर्णः सन्दष्टदशनच्छदः। कोपोज्ज्वलद्भ्यां चक्षुर्भ्यां निरीक्षन् धूम्रमम्बरम् ॥२॥ करालदंष्ट्रोग्रदृष्ट्या दुष्प्रेक्ष्यभ्रुकुटीमुखः। शूलमुद्यम्य सदसि दानवानिदमब्रवीत् ॥३॥ भो भो दानवदैतेया द्विमूर्धंस्त्र्यक्ष शम्बर। शतबाहो हयग्रीव नमुचे पाक इल्वल ॥४॥ विप्रचित्ते मम वचः पुलोमन् शकुनादयः। शृणुतानन्तरं सर्वे क्रियतामाशु मा चिरम् ॥५॥ सपत्नैर्घातितः क्षुद्रैर्भ्राता मे दयितः सुहृत्। पार्ष्णिग्राहेण हरिणा समेनाप्युपधावनैः ॥६॥ तस्य त्यक्तस्वभावस्य घृणेर्मायावनौकसः। भजन्तं भजमानस्य बालस्येवास्थिरात्मनः ॥७॥ मच्छूलभिन्नग्रीवस्य भूरिणा रुधिरेण वै। रुधिरप्रियं तर्पयिष्ये भ्रातरं मे गतव्यथः ॥८॥ तस्मिन् कूटेऽहिते नष्टे कृत्तमूले वनस्पतौ। विटपा इव शुष्यन्ति विष्णुप्राणा दिवौकसः ॥९॥ तावद्यात भुवं यूयं विप्रक्षत्रसमेधिताम्। सूदयध्वं तपोयज्ञस्वाध्यायव्रतदानिनः ॥१०॥ विष्णुर्द्विजक्रियामूलो यज्ञो धर्ममयः पुमान्। देवर्षिपितृभूतानां धर्मस्य च परायणम् ॥११॥ यत्र यत्र द्विजा गावो वेदा वर्णाश्रमाः क्रियाः। तं तं जनपदं यात सन्दीपयत वृश्चत ॥१२॥ इति ते भर्तृनिर्देशमादाय शिरसाऽऽदृताः। तथा प्रजानां कदनं विदधुः कदनप्रियाः ॥१३॥ पुरग्रामव्रजोद्यानक्षेत्रारामाश्रमाकरान्। खेटखर्वटघोषांश्च ददहुः पत्तनानि च ॥१४॥ केचित्खनित्रैर्बिभिदुः सेतुप्राकारगोपुरान्। आजीव्यांश्चिच्छिदुर्वृक्षान् केचित्परशुपाणयः। प्रादहन् शरणान्येके प्रजानां ज्वलितोल्मुकैः ॥१५॥ एवं विप्रकृते लोके दैत्येन्द्रानुचरैर्मुहुः। दिवं देवाः परित्यज्य भुवि चेरुरलक्षिताः ॥१६॥ हिरण्यकशिपुर्भ्रातुः सम्परेतस्य दुःखितः। कृत्वा कटोदकादीनि भ्रातृपुत्रानसान्त्वयत् ॥१७॥ शकुनिं शम्बरं धृष्टं भूतसन्तापनं वृकम्। कालनाभं महानाभं हरिश्मश्रुमथोत्कचम् ॥१८॥ तन्मातरं रुषाभानुं दितिं च जननीं गिरा। श्लक्ष्णया देशकालज्ञ इदमाह जनेश्वर ॥१९॥ हिरण्यकशिपुरुवाच अम्बाम्ब हे वधूः पुत्रा वीरं मार्हथ शोचितुम्। रिपोरभिमुखे श्लाघ्यः शूराणां वध ईप्सितः ॥२०॥ भूतानामिह संवासः प्रपायामिव सुव्रते। दैवेनैकत्र नीतानामुन्नीतानां स्वकर्मभिः ॥२१॥ नित्य आत्माव्ययः शुद्धः सर्वगः सर्ववित्परः। धत्तेऽसावात्मनो लिङ्गं मायया विसृजन् गुणान् ॥२२॥ यथाम्भसा प्रचलता तरवोऽपि चला इव। चक्षुषा भ्राम्यमाणेन दृश्यते चलतीव भूः ॥२३॥ एवं गुणैर्भ्राम्यमाणे मनस्यविकलः पुमान्। याति तत्साम्यतां भद्रे ह्यलिङ्गो लिङ्गवानिव ॥२४॥ एष आत्मविपर्यासो ह्यलिङ्गे लिङ्गभावना। एष प्रियाप्रियैर्योगो वियोगः कर्मसंसृतिः ॥२५॥ सम्भवश्च विनाशश्च शोकश्च विविधः स्मृतः। अविवेकश्च चिन्ता च विवेकास्मृतिरेव च ॥२६॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम्। यमस्य प्रेतबन्धूनां संवादं तं निबोधत ॥२७॥ उशीनरेष्वभूद्राजा सुयज्ञ इति विश्रुतः। सपत्नैर्निहतो युद्धे ज्ञातयस्तमुपासत ॥२८॥ विशीर्णरत्नकवचं विभ्रष्टाभरणस्रजम्। शरनिर्भिन्नहृदयं शयानमसृगाविलम् ॥२९॥ प्रकीर्णकेशं ध्वस्ताक्षं रभसा दष्टदच्छदम्। रजःकुण्ठमुखाम्भोजं छिन्नायुधभुजं मृधे ॥३०॥ उशीनरेन्द्रं विधिना तथा कृतं पतिं महिष्यः प्रसमीक्ष्य दुःखिताः। हताः स्म नाथेति करैरुरो भृशं घ्नन्त्यो मुहुस्तत्पदयोरुपापतन् ॥३१॥ रुदत्य उच्चैर्दयिताङ्घ्रिपङ्कजं सिञ्चन्त्य अस्रैः कुचकुङ्कुमारुणैः। विस्रस्तकेशाभरणाः शुचं नृणां सृजन्त्य आक्रन्दनया विलेपिरे ॥३२॥ अहो विधात्राकरुणेन नः प्रभो भवान् प्रणीतो दृगगोचरां दशाम्। उशीनराणामसि वृत्तिदः पुरा कृतोऽधुना येन शुचां विवर्धनः ॥३३॥ त्वया कृतज्ञेन वयं महीपते कथं विना स्याम सुहृत्तमेन ते। तत्रानुयानं तव वीर पादयोः शुश्रूषतीनां दिश यत्र यास्यसि ॥३४॥ एवं विलपतीनां वै परिगृह्य मृतं पतिम्। अनिच्छतीनां निर्हारमर्कोऽस्तं सन्न्यवर्तत ॥३५॥ तत्र ह प्रेतबन्धूनामाश्रुत्य परिदेवितम्। आह तान् बालको भूत्वा यमः स्वयमुपागतः ॥३६॥ यम उवाच अहो अमीषां वयसाधिकानां विपश्यतां लोकविधिं विमोहः। यत्रागतस्तत्र गतं मनुष्यं स्वयं सधर्मा अपि शोचन्त्यपार्थम् ॥३७॥ अहो वयं धन्यतमा यदत्र त्यक्ताः पितृभ्यां न विचिन्तयामः। अभक्ष्यमाणा अबला वृकादिभिः स रक्षिता रक्षति यो हि गर्भे ॥३८॥ य इच्छयेशः सृजतीदमव्ययो य एव रक्षत्यवलुम्पते च यः। तस्याबलाः क्रीडनमाहुरीशितु- श्चराचरं निग्रहसङ्ग्रहे प्रभुः ॥३९॥ पथि च्युतं तिष्ठति दिष्टरक्षितं गृहे स्थितं तद्विहतं विनश्यति। जीवत्यनाथोऽपि तदीक्षितो वने गृहेऽभिगुप्तोऽस्य हतो न जीवति ॥४०॥ भूतानि तैस्तैर्निजयोनिकर्मभि- र्भवन्ति काले न भवन्ति सर्वशः। न तत्र हात्मा प्रकृतावपि स्थितस्तस्या गुणैरन्यतमो निबध्यते ॥४१॥ इदं शरीरं पुरुषस्य मोहजं यथा पृथग्भौतिकमीयते गृहम्। यथौदकैः पार्थिवतैजसैर्जनः कालेन जातो विकृतो विनश्यति ॥४२॥ यथानलो दारुषु भिन्न ईयते यथानिलो देहगतः पृथक् स्थितः। यथा नभः सर्वगतं न सज्जते तथा पुमान् सर्वगुणाश्रयः परः ॥४३॥ सुयज्ञो नन्वयं शेते मूढा यमनुशोचथ। यः श्रोता योऽनुवक्तेह स न दृश्येत कर्हिचित्॥४४॥ न श्रोता नानुवक्तायं मुख्योऽप्यत्र महानसुः। यस्त्विहेन्द्रियवानात्मा स चान्यः प्राणदेहयोः॥४५॥ भूतेन्द्रियमनोलिङ्गान् देहानुच्चावचान् विभुः। भजत्युत्सृजति ह्यन्यस्तच्चापि स्वेन तेजसा ॥४६॥ यावल्लिङ्गान्वितो ह्यात्मा तावत्कर्म निबन्धनम्। ततो विपर्ययः क्लेशो मायायोगोऽनुवर्तते ॥४७॥ वितथाभिनिवेशोऽयं यद्गुणेष्वर्थदृग्वचः। यथा मनोरथः स्वप्नः सर्वमैन्द्रियकं मृषा ॥४८॥ अथ नित्यमनित्यं वा नेह शोचन्ति तद्विदः। नान्यथा शक्यते कर्तुं स्वभावः शोचतामिति ॥४९॥ लुब्धको विपिने कश्चित्पक्षिणां निर्मितोऽन्तकः। वितत्य जालं विदधे तत्र तत्र प्रलोभयन् ॥५०॥ कुलिङ्गमिथुनं तत्र विचरत्समदृश्यत। तयोः कुलिङ्गी सहसा लुब्धकेन प्रलोभिता ॥५१॥ सासज्जत सिचस्तन्त्र्यां महिषी कालयन्त्रिता। कुलिङ्गस्तां तथाऽऽपन्नां निरीक्ष्य भृशदुःखितः। स्नेहादकल्पः कृपणः कृपणां पर्यदेवयत् ॥५२॥ अहो अकरुणो देवः स्त्रियाकरुणया विभुः। कृपणं मानुशोचन्त्या दीनया किं करिष्यति ॥५३॥ कामं नयतु मां देवः किमर्धेनात्मनो हि मे। दीनेन जीवता दुःखमनेन विधुरायुषा ॥५४॥ कथं त्वजातपक्षांस्तान् मातृहीनान् बिभर्म्यहम्। मन्दभाग्याः प्रतीक्षन्ते नीडे मे मातरं प्रजाः ॥५५॥ एवं कुलिङ्गं विलपन्तमारा- त्प्रियावियोगातुरमश्रुकण्ठम्। स एव तं शाकुनिकः शरेण विव्याध कालप्रहितो विलीनः ॥५६॥ एवं यूयमपश्यन्त्य आत्मापायमबुद्धयः। नैनं प्राप्स्यथ शोचन्त्यः पतिं वर्षशतैरपि ॥५७॥ हिरण्यकशिपुरुवाच बाल एवं प्रवदति सर्वे विस्मितचेतसः। ज्ञातयो मेनिरे सर्वमनित्यमयथोत्थितम् ॥५८॥ यम एतदुपाख्याय तत्रैवान्तरधीयत। ज्ञातयोऽपि सुयज्ञस्य चक्रुर्यत्साम्परायिकम् ॥५९॥ ततः शोचत मा यूयं परं चात्मानमेव च। क आत्मा कः परो वात्र स्वीयः पारक्य एव वा। स्वपराभिनिवेशेन विनाज्ञानेन देहिनाम् ॥६०॥ श्रीनारद उवाच इति दैत्यपतेर्वाक्यं दितिराकर्ण्य सस्नुषा। पुत्रशोकं क्षणात्त्यक्त्वा तत्त्वे चित्तमधारयत् ॥६१॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्धे दितिशोकापनयनं नाम द्वितीयोऽध्यायः॥ २ ॥

॥ तृतीयोऽध्यायः - ३ ॥

नारद उवाच हिरण्यकशिपू राजन्नजेयमजरामरम्। आत्मानमप्रतिद्वन्द्वमेकराजं व्यधित्सत ॥१॥ स तेपे मन्दरद्रोण्यां तपः परमदारुणम्। ऊर्ध्वबाहुर्नभोदृष्टिः पादाङ्गुष्ठाश्रितावनिः ॥२॥ जटादीधितिभी रेजे संवर्तार्क इवांशुभिः। तस्मिंस्तपस्तप्यमाने देवाः स्थानानि भेजिरे ॥३॥ तस्य मूर्ध्नः समुद्भूतः सधूमोऽग्निस्तपोमयः। तीर्यगूर्ध्वमधो लोकानतपद्विष्वगीरितः ॥४॥ चुक्षुभुर्नद्युदन्वन्तः सद्वीपाद्रिश्चचाल भूः। निपेतुः सग्रहास्तारा जज्वलुश्च दिशो दश ॥५॥ तेन तप्ता दिवं त्यक्त्वा ब्रह्मलोकं ययुः सुराः। धात्रे विज्ञापयामासुर्देवदेव जगत्पते ॥६॥ दैत्येन्द्रतपसा तप्ता दिवि स्थातुं न शक्नुमः। तस्य चोपशमं भूमन् विधेहि यदि मन्यसे। लोका न यावन्न?ङ्क्ष्यन्ति बलिहारास्तवाभिभूः ॥७॥ तस्यायं किल सङ्कल्पश्चरतो दुश्चरं तपः। श्रूयतां किं न विदितस्तवाथापि निवेदितः ॥८॥ सृष्ट्वा चराचरमिदं तपोयोगसमाधिना। अध्यास्ते सर्वधिष्ण्येभ्यः परमेष्ठी निजासनम् ॥९॥ तदहं वर्धमानेन तपोयोगसमाधिना। कालात्मनोश्च नित्यत्वात्साधयिष्ये तथात्मनः॥१०॥ अन्यथेदं विधास्येऽहमयथापूर्वमोजसा। किमन्यैः कालनिर्धूतैः कल्पान्ते वैष्णवादिभिः ॥११॥ इति शुश्रुम निर्बन्धं तपः परममास्थितः। विधत्स्वानन्तरं युक्तं स्वयं त्रिभुवनेश्वर ॥१२॥ तवासनं द्विजगवां पारमेष्ठ्यं जगत्पते। भवाय श्रेयसे भूत्यै क्षेमाय विजयाय च ॥१३॥ इति विज्ञापितो देवैर्भगवानात्मभूर्नृप। परीतो भृगुदक्षाद्यैर्ययौ दैत्येश्वराश्रमम् ॥१४॥ न ददर्श प्रतिच्छन्नं वल्मीकतृणकीचकैः। पिपीलिकाभिराचीर्णमेदस्त्वङ्मांसशोणितम् ॥१५॥ तपन्तं तपसा लोकान् यथाभ्रापिहितं रविम्। विलक्ष्य विस्मितः प्राह प्रहसन् हंसवाहनः ॥१६॥ ब्रह्मोवाच उत्तिष्ठोत्तिष्ठ भद्रं ते तपःसिद्धोसि काश्यप। वरदोऽहमनुप्राप्तो व्रियतामीप्सितो वरः ॥१७॥ अद्राक्षमहमेतत्ते हृत्सारं महदद्भुतम्। दंशभक्षितदेहस्य प्राणा ह्यस्थिषु शेरते ॥१८॥ नैतत्पूर्वर्षयश्चक्रुर्न करिष्यन्ति चापरे। निरम्बुर्धारयेत्प्राणान् को वै दिव्यसमाः शतम्॥१९॥ व्यवसायेन तेऽनेन दुष्करेण मनस्विनाम्। तपोनिष्ठेन भवता जितोऽहं दितिनन्दन ॥२०॥ ततस्त आशिषः सर्वा ददाम्यसुरपुङ्गव। मर्त्यस्य ते अमर्त्यस्य दर्शनं नाफलं मम ॥२१॥ नारद उवाच इत्युक्त्वाऽऽदिभवो देवो भक्षिताङ्गं पिपीलिकैः। कमण्डलुजलेनौक्षद्दिव्येनामोघराधसा ॥२२॥ स तत्कीचकवल्मीकात्सहओजोबलान्वितः। सर्वावयवसम्पन्नो वज्रसंहननो युवा। उत्थितस्तप्तहेमाभो विभावसुरिवैधसः ॥२३॥ स निरीक्ष्याम्बरे देवं हंसवाहमव?स्थितम्। ननाम शिरसा भूमौ तद्दर्शनमहोत्सवः ॥२४॥ उत्थाय प्राञ्जलिः प्रह्व ईक्षमाणो दृशा विभुम्। हर्षाश्रुपुलकोद्भेदो गिरा गद्गदयागृणात् ॥२५॥ हिरण्यकशिपुरुवाच कल्पान्ते कालसृष्टेन योऽन्धेन तमसाऽऽवृतम्। अभिव्यनग्जगदिदं स्वयञ्ज्योतिः स्वरोचिषा ॥२६॥ आत्मना त्रिवृता चेदं सृजत्यवति लुम्पति। रजःसत्त्वतमोधाम्ने पराय महते नमः ॥२७॥ नम आद्याय बीजाय ज्ञानविज्ञानमूर्तये। प्राणेन्द्रियमनोबुद्धिविकारैर्व्यक्तिमीयुषे ॥२८॥ त्वमीशिषे जगतस्तस्थुषश्च प्राणेन मुख्येन पतिः प्रजानाम्। चित्तस्य चित्तेर्मन ऐन्द्रियाणां पतिर्महान् भूतगुणाशयेशः ॥२९॥ त्वं सप्ततन्तून् वितनोषि तन्वा त्रय्या चातुर्होत्रकविद्यया च। त्वमेक आत्माऽऽत्मवतामनादि- रनन्तपारः कविरन्तरात्मा ॥३०॥ त्वमेव कालोऽनिमिषो जनाना- मायुर्लवाद्यावयवैः क्षिणोषि। कूटस्थ आत्मा परमेष्ठ्यजो महांस्त्वं जीवलोकस्य च जीव आत्मा ॥३१॥ त्वत्तः परं नापरमप्यनेजदेजच्च किञ्चिद्व्यतिरिक्तमस्ति। विद्याः कलास्ते तनवश्च सर्वा हिरण्यगर्भोऽसि बृहत्त्रिपृष्ठः ॥३२॥ व्यक्तं विभो स्थूलमिदं शरीरं येनेन्द्रियप्राणमनोगुणांस्त्वम्। भुङ्क्षे स्थितो धामनि पारमेष्ठ्ये अव्यक्त आत्मा पुरुषः पुराणः ॥३३॥ अनन्ताव्यक्तरूपेण येनेदमखिलं ततम्। चिदचिच्छक्तियुक्ताय तस्मै भगवते नमः ॥३४॥ यदि दास्यस्यभिमतान् वरान् मे वरदोत्तम। भूतेभ्यस्त्वद्विसृष्टेभ्यो मृत्युर्मा भून्मम प्रभो ॥३५॥ नान्तर्बहिर्दिवा नक्तमन्यस्मादपि चायुधैः। न भूमौ नाम्बरे मृत्युर्न नरैर्न मृगैरपि ॥३६॥ व्यसुभिर्वासुमद्भिर्वा सुरासुरमहोरगैः। अप्रतिद्वन्द्वतां युद्धे ऐकपत्यं च देहिनाम् ॥३७॥ सर्वेषां लोकपालानां महिमानं यथाऽऽत्मनः। तपोयोगप्रभावाणां यन्न रिष्यति कर्हिचित् ॥३८॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्धे हिरण्यकशिपुवरयाचनं नाम तृतीयोऽध्यायः॥ ३ ॥

॥ चतुर्थोऽध्यायः - ४ ॥

नारद उवाच एवं वृतः शतधृतिर्हिरण्यकशिपोरथ। प्रादात्तत्तपसा प्रीतो वरांस्तस्य सुदुर्लभान् ॥१॥ ब्रह्मोवाच तातेमे दुर्लभाः पुंसां यान् वृणीषे वरान् मम। तथापि वितराम्यङ्ग वरान् यदपि दुर्लभान् ॥२॥ ततो जगाम भगवानमोघानुग्रहो विभुः। पूजितोऽसुरवर्येण स्तूयमानः प्रजेश्वरैः ॥३॥ एवं लब्धवरो दैत्यो बिभ्रद्धेममयं वपुः। भगवत्यकरोद्द्वेषं भ्रातुर्वधमनुस्मरन् ॥४॥ स विजित्य दिशः सर्वा लोकांश्च त्रीन् महासुरः। देवासुरमनुष्येन्द्रान् गन्धर्वगरुडोरगान् ॥५॥ सिद्धचारणविद्याध्रानृषीन् पितृपतीन् मनून्। यक्षरक्षःपिशाचेशान् प्रेतभूतपतीनथ ॥६॥ सर्वसत्त्वपतीन् जित्वा वशमानीय विश्वजित्। जहार लोकपालानां स्थानानि सह तेजसा ॥७॥ देवोद्यानश्रिया जुष्टमध्यास्ते स्म त्रिविष्टपम्। महेन्द्रभवनं साक्षान्निर्मितं विश्वकर्मणा। त्रैलोक्यलक्ष्म्यायतनमध्युवासाखिलर्द्धिमत् ॥८॥ यत्र विद्रुमसोपाना महामारकता भुवः। यत्र स्फाटिककुड्यानि वैदूर्यस्तम्भपङ्क्तयः ॥९॥ यत्र चित्रवितानानि पद्मरागासनानि च। पयःफेननिभाः शय्या मुक्तादामपरिच्छदाः ॥१०॥ कूजद्भिर्नूपुरैर्देव्यः शब्दयन्त्य इतस्ततः। रत्नस्थलीषु पश्यन्ति सुदतीः सुन्दरं मुखम् ॥११॥ तस्मिन् महेन्द्रभवने महाबलो महामना निर्जितलोक एकराट्। रेमेऽभिवन्द्याङ्घ्रियुगः सुरादिभिः प्रतापितैरूर्जितचण्डशासनः ॥१२॥ तमङ्ग मत्तं मधुनोरुगन्धिना विवृत्तताम्राक्षमशेषधिष्ण्यपाः। उपासतोपायनपाणिभिर्विना त्रिभिस्तपोयोगबलौजसां पदम् ॥१३॥ जगुर्महेन्द्रासनमोजसा स्थितं विश्वावसुस्तुम्बुरुरस्मदादयः। गन्धर्वसिद्धा ऋषयोऽस्तुवन् मुहुर्विद्याधराश्चाप्सरसश्च पाण्डव ॥१४॥ स एव वर्णाश्रमिभिः क्रतुभिर्भूरिदक्षिणैः। इज्यमानो हविर्भागानग्रहीत्स्वेन तेजसा ॥१५॥ अकृष्टपच्या तस्यासीत्सप्तद्वीपवती मही। तथा कामदुघा द्यौस्तु नानाश्चर्यपदं नभः ॥१६॥ रत्नाकराश्च रत्नौघांस्तत्पत्न्यश्चोहुरूर्मिभिः। क्षारसीधुघृतक्षौद्रदधिक्षीरामृतोदकाः ॥१७॥ शैला द्रोणीभिराक्रीडं सर्वर्तुषु गुणान् द्रुमाः। दधार लोकपालानामेक एव पृथग्गुणान् ॥१८॥ स इत्थं निर्जितककुबेकराड् विषयान् प्रियान्। यथोपजोषं भुञ्जानो नातृप्यदजितेन्द्रियः ॥१९॥ एवमैश्वर्यमत्तस्य दृप्तस्योच्छास्त्रवर्तिनः। कालो महान् व्यतीयाय ब्रह्मशापमुपेयुषः ॥२०॥ तस्योग्रदण्डसंविग्नाः सर्वे लोकाः सपालकाः। अन्यत्रालब्धशरणाः शरणं ययुरच्युतम् ॥२१॥ तस्यै नमोऽस्तु काष्ठायै यत्रात्मा हरिरीश्वरः। यद्गत्वा न निवर्तन्ते शान्ताः सन्न्यासिनोऽमलाः ॥२२॥ इति ते संयतात्मानः समाहितधियोऽमलाः। उपतस्थुर्हृषीकेशं विनिद्रा वायुभोजनाः ॥२३॥ तेषामाविरभूद्वाणी अरूपा मेघनिःस्वना। सन्नादयन्ती ककुभः साधूनामभयङ्करी ॥२४॥ मा भैष्ट विबुधश्रेष्ठाः सर्वेषां भद्रमस्तु वः। मद्दर्शनं हि भूतानां सर्वश्रेयोपपत्तये ॥२५॥ ज्ञातमेतस्य दौरात्म्यं दैतेयापसदस्य च। तस्य शान्तिं करिष्यामि कालं तावत्प्रतीक्षत ॥२६॥ यदा देवेषु वेदेषु गोषु विप्रेषु साधुषु। धर्मे मयि च विद्वेषः स वा आशु विनश्यति ॥२७॥ निर्वैराय प्रशान्ताय स्वसुताय महात्मने। प्रह्लादाय यदा द्रुह्येद्धनिष्येऽपि वरोर्जितम् ॥२८॥ नारद उवाच इत्युक्ता लोकगुरुणा तं प्रणम्य दिवौकसः। न्यवर्तन्त गतोद्वेगा मेनिरे चासुरं हतम् ॥२९॥ तस्य दैत्यपतेः पुत्राश्चत्वारः परमाद्भुताः। प्रह्लादोऽभून्महांस्तेषां गुणैर्महदुपासकः ॥३०॥ ब्रह्मण्यः शीलसम्पन्नः सत्यसन्धो जितेन्द्रियः। आत्मवत्सर्वभूतानामेकः प्रियसुहृत्तमः ॥३१॥ दासवत्सन्नतार्याङ्घ्रिः पितृवद्दीनवत्सलः। भ्रातृवत्सदृशे स्निग्धो गुरुष्वीश्वरभावनः। विद्यार्थरूपजन्माढ्यो मानस्तम्भविवर्जितः ॥३२॥ नोद्विग्नचित्तो व्यसनेषु निःस्पृहः श्रुतेषु दृष्टेषु गुणेष्ववस्तुदृक्। दान्तेन्द्रियप्राणशरीरधीः सदा प्रशान्तकामो रहितासुरोऽसुरः ॥३३॥ यस्मिन् महद्गुणा राजन् गृह्यन्ते कविभिर्मुहुः। न तेऽधुनापिधीयन्ते यथा भगवतीश्वरे ॥३४॥ यं साधुगाथासदसि रिपवोऽपि सुरा नृप। प्रतिमानं प्रकुर्वन्ति किमुतान्ये भवादृशाः ॥३५॥ गुणैरलमसङ्ख्येयैर्माहात्म्यं तस्य सूच्यते। वासुदेवे भगवति यस्य नैसर्गिकी रतिः ॥३६॥ न्यस्तक्रीडनको बालो जडवत्तन्मनस्तया। कृष्णग्रहगृहीतात्मा न वेद जगदीदृशम् ॥३७॥ आसीनः पर्यटन्नश्नन् शयानः प्रपिबन् ब्रुवन्। नानुसन्धत्त एतानि गोविन्दपरिरम्भितः ॥३८॥ क्वचिद्रुदति वैकुण्ठचिन्ताशबलचेतनः। क्वचिद्धसति तच्चिन्ताह्लाद उद्गायति क्वचित् ॥३९॥ नदति क्वचिदुत्कण्ठो विलज्जो नृत्यति क्वचित्। क्वचित्तद्भावनायुक्तस्तन्मयोऽनुचकार ह ॥४०॥ क्वचिदुत्पुलकस्तूष्णीमास्ते संस्पर्शनिर्वृतः। अस्पन्दप्रणयानन्दसलिलामीलितेक्षणः ॥४१॥ स उत्तमश्लोकपदारविन्दयो- र्निषेवयाकिञ्चनसङ्गलब्धया। तन्वन् परां निर्वृतिमात्मनो मुहु- र्दुःसङ्गदीनान्यमनःशमं व्यधात् ॥४२॥ तस्मिन् महाभागवते महाभागे महात्मनि। हिरण्यकशिपू राजन्नकरोदघमात्मजे ॥४३॥ युधिष्ठिर उवाच देवर्ष एतदिच्छामो वेदितुं तव सुव्रत। यदात्मजाय शुद्धाय पितादात्साधवे ह्यघम् ॥४४॥ पुत्रान् विप्रतिकूलान् स्वान् पितरः पुत्रवत्सलाः। उपालभन्ते शिक्षार्थं नैवाघमपरो यथा ॥४५॥ किमुतानुवशान् साधूंस्तादृशान् गुरुदेवतान्। एतत्कौतूहलं ब्रह्मन्नस्माकं विधम प्रभो। पितुः पुत्राय यद्द्वेषो मरणाय प्रयोजितः ॥४६॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्धे प्रह्लादचरिते चतुर्थोऽध्यायः॥ ४ ॥

॥ पञ्चमोऽध्यायः - ५ ॥

नारद उवाच पौरोहित्याय भगवान् वृतः काव्यः किलासुरैः। षण्डामर्कौ सुतौ तस्य दैत्यराजगृहान्तिके ॥१॥ तौ राज्ञा प्रापितं बालं प्रह्लादं नयकोविदम्। पाठयामासतुः पाठ्यानन्यांश्चासुरबालकान् ॥२॥ यत्तत्र गुरुणा प्रोक्तं शुश्रुवेऽनुपपाठ च। न साधु मनसा मेने स्वपरासद्ग्रहाश्रयम् ॥३॥ एकदासुरराट् पुत्रमङ्कमारोप्य पाण्डव। पप्रच्छ कथ्यतां वत्स मन्यते साधु यद्भवान् ॥४॥ प्रह्लाद उवाच तत्साधु मन्येऽसुरवर्य देहिनां सदा समुद्विग्नधियामसद्ग्रहात्। हित्वात्मपातं गृहमन्धकूपं वनं गतो यद्धरिमाश्रयेत ॥५॥ नारद उवाच श्रुत्वा पुत्रगिरो दैत्यः परपक्षसमाहिताः। जहास बुद्धिर्बालानां भिद्यते परबुद्धिभिः ॥६॥ सम्यग्विधार्यतां बालो गुरुगेहे द्विजातिभिः। विष्णुपक्षैः प्रतिच्छन्नैर्न भिद्येतास्य धीर्यथा ॥७॥ गृहमानीतमाहूय प्रह्लादं दैत्ययाजकाः। प्रशस्य श्लक्ष्णया वाचा समपृच्छन्त सामभिः ॥८॥ वत्स प्रह्लाद भद्रं ते सत्यं कथय मा मृषा। बालानति कुतस्तुभ्यमेष बुद्धिविपर्ययः ॥९॥ बुद्धिभेदः परकृत उताहो ते स्वतोऽभवत्। भण्यतां श्रोतुकामानां गुरूणां कुलनन्दन ॥१०॥ प्रह्लाद उवाच स्व: परश्चेत्यसद्ग्राहः पुंसां यन्मायया कृतः। विमोहितधियां दृष्टस्तस्मै भगवते नमः ॥११॥ स यदानुव्रतः पुंसां पशुबुद्धिर्विभिद्यते। अन्य एष तथान्योऽहमिति भेदगतासती ॥१२॥ स एष आत्मा स्वपरेत्यबुद्धिभि- र्दुरत्ययानुक्रमणो निरूप्यते। मुह्यन्ति यद्वर्त्मनि वेदवादिनो ब्रह्मादयो ह्येष भिनत्ति मे मतिम् ॥१३॥ यथा भ्राम्यत्ययो ब्रह्मन् स्वयमाकर्षसन्निधौ। तथा मे भिद्यते चेतश्चक्रपाणेर्यदृच्छया ॥१४॥ नारद उवाच एतावद्ब्राह्मणायोक्त्वा विरराम महामतिः। तं निर्भर्त्स्याथ कुपितः सुदीनो राजसेवकः ॥१५॥ आनीयतामरे वेत्रमस्माकमयशस्करः। कुलाङ्गारस्य दुर्बुद्धेश्चतुर्थोऽस्योदितो दमः ॥१६॥ दैतेयचन्दनवने जातोऽयं कण्टकद्रुमः। यन्मूलोन्मूलपरशोर्विष्णोर्नालायितोऽर्भकः ॥१७॥ इति तं विविधोपायैर्भीषयंस्तर्जनादिभिः। प्रह्लादं ग्राहयामास त्रिवर्गस्योपपादनम् ॥१८॥ तत एनं गुरुर्ज्ञात्वा ज्ञातज्ञेयचतुष्टयम्। दैत्येन्द्रं दर्शयामास मातृमृष्टमलङ्कृतम् ॥१९॥ पादयोः पतितं बालं प्रतिनन्द्याशिषासुरः। परिष्वज्य चिरं दोर्भ्यां परमामाप निर्वृतिम् ॥२०॥ आरोप्याङ्कमवघ्राय मूर्धन्यश्रुकलाम्बुभिः। आसिञ्चन् विकसद्वक्त्रमिदमाह युधिष्ठिर ॥२१॥ हिरण्यकशिपुरुवाच प्रह्लादानूच्यतां तात स्वधीतं किञ्चिदुत्तमम्। कालेनैतावतायुष्मन् यदशिक्षद्गुरोर्भवान् ॥२२॥ प्रह्लाद उवाच श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम्। अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् ॥२३॥ इति पुंसार्पिता विष्णौ भक्तिश्चेन्नवलक्षणा। क्रियेत भगवत्यद्धा तन्मन्येऽधीतमुत्तमम् ॥२४॥ निशम्यैतत्सुतवचो हिरण्यकशिपुस्तदा। गुरुपुत्रमुवाचेदं रुषा प्रस्फुरिताधरः ॥२५॥ ब्रह्मबन्धो किमेतत्ते विपक्षं श्रयतासता। असारं ग्राहितो बालो मामनादृत्य दुर्मते ॥२६॥ सन्ति ह्यसाधवो लोके दुर्मैत्राश्छद्मवेषिणः। तेषामुदेत्यघं काले रोगः पातकिनामिव ॥२७॥ गुरुपुत्र उवाच न मत्प्रणीतं न परप्रणीतं सुतो वदत्येष तवेन्द्रशत्रो। नैसर्गिकीयं मतिरस्य राजन् नियच्छ मन्युं कददाः स्म मा नः ॥२८॥ नारद उवाच गुरुणैवं प्रतिप्रोक्तो भूय आहासुरः सुतम्। न चेद्गुरुमुखीयं ते कुतोऽभद्रासती मतिः ॥२९॥ प्रह्लाद उवाच मतिर्न कृष्णे परतः स्वतो वा मिथोऽभिपद्येत गृहव्रतानाम्। अदान्तगोभिर्विशतां तमिस्रं पुनः पुनश्चर्वितचर्वणानाम् ॥३०॥ न ते विदुः स्वार्थगतिं हि विष्णुं दुराशया ये बहिरर्थमानिनः। अन्धा यथान्धैरुपनीयमाना वाचीशतन्त्यामुरुदाम्नि बद्धाः ॥३१॥ नैषां मतिस्तावदुरुक्रमाङ्घ्रिं स्पृशत्यनर्थापगमो यदर्थः। महीयसां पादरजोऽभिषेकं निष्किञ्चनानां न वृणीत यावत् ॥३२॥ इत्युक्त्वोपरतं पुत्रं हिरण्यकशिपू रुषा। अन्धीकृतात्मा स्वोत्सङ्गान्निरस्यत महीतले ॥३३॥ आहामर्षरुषाविष्टः कषायीभूतलोचनः। वध्यतामाश्वयं वध्यो निःसारयत नैरृताः ॥३४॥ अयं मे भ्रातृहा सोऽयं हित्वा स्वान् सुहृदोऽधमः। पितृव्यहन्तुर्यः पादौ विष्णोर्दासवदर्चति ॥३५॥ विष्णोर्वा साध्वसौ किं नु करिष्यत्यसमञ्जसः। सौहृदं दुस्त्यजं पित्रोरहाद्यः पञ्चहायनः ॥३६॥ परोऽप्यपत्यं हितकृद्यथौषधं स्वदेहजोऽप्यामयवत्सुतोऽहितः। छिन्द्यात्तदङ्गं यदुतात्मनोऽहितं शेषं सुखं जीवति यद्विवर्जनात् ॥३७ ॥ सर्वैरुपायैर्हन्तव्यः सम्भोजशयनासनैः। सुहृल्लिङ्गधरः शत्रुर्मुनेर्दुष्टमिवेन्द्रियम् ॥३८॥ नैरृतास्ते समादिष्टा भर्त्रा वै शूलपाणयः। तिग्मदंष्ट्रकरालास्यास्ताम्रश्मश्रुशिरोरुहाः ॥३९॥ नदन्तो भैरवान्नादान् छिन्धि भिन्धीति वादिनः। आसीनं चाहनन् शूलैः प्रह्लादं सर्वमर्मसु ॥४०॥ परे ब्रह्मण्यनिर्देश्ये भगवत्यखिलात्मनि। युक्तात्मन्यफला आसन्नपुण्यस्येव सत्क्रियाः ॥४१॥ प्रयासेऽपहते तस्मिन् दैत्येन्द्रः परिशङ्कितः। चकार तद्वधोपायान् निर्बन्धेन युधिष्ठिर ॥४२॥ दिग्गजैर्दन्दशूकैश्च अभिचारावपातनैः। मायाभिः सन्निरोधैश्च गरदानैरभोजनैः ॥४३॥ हिमवाय्वग्निसलिलैः पर्वताक्रमणैरपि। न शशाक यदा हन्तुमपापमसुरः सुतम्। चिन्तां दीर्घतमां प्राप्तस्तत्कर्तुं नाभ्यपद्यत ॥४४॥ एष मे बह्वसाधूक्तो वधोपायाश्च निर्मिताः। तैस्तैर्द्रोहैरसद्धर्मैर्मुक्तः स्वेनैव तेजसा ॥४५॥ वर्तमानोऽविदूरे वै बालोऽप्यजडधीरयम्। न विस्मरति मेऽनार्यं शुनःशेप इव प्रभुः ॥४६॥ अप्रमेयानुभावोऽयमकुतश्चिद्भयोऽमरः। नूनमेतद्विरोधेन मृत्युर्मे भविता न वा ॥४७॥ इति तच्चिन्तया किञ्चिन्म्लानश्रियमधोमुखम्। शण्डामर्कावौशनसौ विविक्त इति होचतुः ॥४८॥ जितं त्वयैकेन जगत्त्रयं भ्रुवो- र्विजृम्भणत्रस्तसमस्तधिष्ण्यपम्। न तस्य चिन्त्यं तव नाथ च?क्ष्महे न वै शिशूनां गुणदोषयोः पदम् ॥४९॥ इमं तु पाशैर्वरुणस्य बद्ध्वा निधेहि भीतो न पलायते यथा। बुद्धिश्च पुंसो वयसार्यसेवया यावद्गुरुर्भार्गव आगमिष्यति ॥५०॥ तथेति गुरुपुत्रोक्तमनुज्ञायेदमब्रवीत्। धर्मा ह्यस्योपदेष्टव्या राज्ञां यो गृहमेधिनाम् ॥५१॥ धर्ममर्थं च कामं च नितरां चानुपूर्वशः। प्रह्लादायोचतू राजन् प्रश्रितावनताय च ॥५२॥ यथा त्रिवर्गं गुरुभिरात्मने उपशिक्षितम्। न साधु मेने तच्छिक्षां द्वन्द्वारामोपवर्णिताम् ॥५३॥ यदाचार्यः परावृत्तो गृहमेधीयकर्मसु। वयस्यैर्बालकैस्तत्र सोपहूतः कृतक्षणैः ॥५४॥ अथ तान् श्लक्ष्णया वाचा प्रत्याहूय महाबुधः। उवाच विद्वांस्तन्निष्ठां कृपया प्रहसन्निव ॥५५॥ ते तु तद्गौरवात्सर्वे त्यक्तक्रीडापरिच्छदाः। बाला न दूषितधियो द्वन्द्वारामेरितेहितैः ॥५६॥ पर्युपासत राजेन्द्र तन्न्यस्तहृदयेक्षणाः। तानाह करुणो मैत्रो महाभागवतोऽसुरः ॥५७॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्धे प्रह्लादचरिते पञ्चमोऽध्यायः॥ ५ ॥

॥ षष्ठोऽध्यायः - ६ ॥

प्रह्लाद उवाच कौमार आचरेत्प्राज्ञो धर्मान् भागवतानिह। दुर्लभं मानुषं जन्म तदप्यध्रुवमर्थदम् ॥१॥ यथा हि पुरुषस्येह विष्णोः पादोपसर्पणम्। यदेष सर्वभूतानां प्रिय आत्मेश्वरः सुहृत् ॥२॥ सुखमैन्द्रियकं दैत्या देहयोगेन देहिनाम्। सर्वत्र लभ्यते दैवाद्यथा दुःखमयत्नतः ॥३॥ तत्प्रयासो न कर्तव्यो यत आयुर्व्ययः परम्। न तथा विन्दते क्षेमं मुकुन्दचरणाम्बुजम् ॥४॥ ततो यतेत कुशलः क्षेमाय भयमाश्रितः। शरीरं पौरुषं यावन्न विपद्येत पुष्कलम् ॥५॥ पुंसो वर्षशतं ह्यायुस्तदर्धं चाजितात्मनः। निष्फलं यदसौ रात्र्यां शेतेऽन्धं प्रापितस्तमः ॥६॥ मुग्धस्य बाल्ये कौमारे क्रीडतो याति विंशतिः। जरया ग्रस्तदेहस्य यात्यकल्पस्य विंशतिः ॥७॥ दुरापूरेण कामेन मोहेन च बलीयसा। शेषं गृहेषु सक्तस्य प्रमत्तस्यापयाति हि ॥८॥ को गृहेषु पुमान् सक्तमात्मानमजितेन्द्रियः। स्नेहपाशैर्दृढैर्बद्धमुत्सहेत विमोचितुम् ॥९॥ को न्वर्थतृष्णां विसृजेत्प्राणेभ्योऽपि य ईप्सितः। यं क्रीणात्यसुभिः प्रेष्ठैस्तस्करः सेवको वणिक् ॥१०॥ कथं प्रियाया अनुकम्पितायाः सङ्गं रहस्यं रुचिरांश्च मन्त्रान्। सुहृत्सु तत्स्नेहसितः शिशूनां कलाक्षराणामनुरक्तचित्तः ॥११॥ पुत्रान् स्मरंस्ता दुहितॄर्हृदय्या भ्रातॄन् स्वसॄर्वा पितरौ च दीनौ। गृहान् मनोज्ञोरुपरिच्छदांश्च वृत्तीश्च कुल्याः पशुभृत्यवर्गान् ॥१२॥ त्यजेत कोशस्कृदिवेहमानः कर्माणि लोभादवितृप्तकामः। औपस्थ्यजैह्व्यं बहु मन्यमानः कथं विरज्येत दुरन्तमोहः ॥१३॥ कुटुम्बपोषाय वियन्निजायुर्न बुध्यतेऽर्थं विहतं प्रमत्तः। सर्वत्र तापत्रयदुःखितात्मा निर्विद्यते न स्वकुटुम्बरामः ॥१४॥ वित्तेषु नित्याभिनिविष्टचेता विद्वांश्च दोषं परवित्तहर्तुः। प्रेत्येह चाथाप्यजितेन्द्रियस्त- दशान्तकामो हरते कुटुम्बी ॥१५॥ विद्वानपीत्थं दनुजाः कुटुम्बं पुष्णन् स्वलोकाय न कल्पते वै। यः स्वीयपारक्यविभिन्नभावस्तमः प्रपद्येत यथा विमूढः ॥१६॥ यतो न कश्चित्क्व च कुत्रचिद्वा दीनः स्वमात्मानमलं समर्थः। विमोचितुं कामदृशां विहार- क्रीडामृगो यन्निगडो विसर्गः ॥१७॥ ततो विदूरात्परिहृत्य दैत्या दैत्येषु सङ्गं विषयात्मकेषु। उपेत नारायणमादिदेवं स मुक्तसङ्गैरिषितोऽपवर्गः ॥१८॥ न ह्यच्युतं प्रीणयतो बह्वायासोऽसुरात्मजाः। आत्मत्वात्सर्वभूतानां सिद्धत्वादिह सर्वतः ॥१९॥ परावरेषु भूतेषु ब्रह्मान्तस्थावरादिषु। भौतिकेषु विकारेषु भूतेष्वथ महत्सु च ॥२०॥ गुणेषु गुणसाम्ये च गुणव्यतिकरे तथा। एक एव परो ह्यात्मा भगवानीश्वरोऽव्ययः ॥२१॥ प्रत्यगात्मस्वरूपेण दृश्यरूपेण च स्वयम्। व्याप्यव्यापकनिर्देश्यो ह्यनिर्देश्योऽविकल्पितः॥२२॥ केवलानुभवानन्दस्वरूपः परमेश्वरः। माययान्तर्हितैश्वर्य ईयते गुणसर्गया ॥२३॥ तस्मात्सर्वेषु भूतेषु दयां कुरुत सौहृदम्। आसुरं भावमुन्मुच्य यया तुष्यत्यधोक्षजः ॥२४॥ तुष्टे च तत्र किमलभ्यमनन्त आद्ये किं तैर्गुणव्यतिकरादिह ये स्वसिद्धाः । धर्मादयः किमगुणेन च काङ्क्षितेन सारंजुषां चरणयोरुपगायतां नः ॥२५॥ धर्मार्थकाम इति योऽभिहितस्त्रिवर्ग ईक्षा त्रयी नयदमौ विविधा च वार्ता । मन्ये तदेतदखिलं निगमस्य सत्यं स्वात्मार्पणं स्वसुहृदः परमस्य पुंसः ॥२६॥ ज्ञानं तदेतदमलं दुरवापमाह नारायणो नरसखः किल नारदाय । एकान्तिनां भगवतस्तदकिञ्चनानां पादारविन्दरजसाऽऽप्लुतदेहिनां स्यात् ॥२७॥ श्रुतमेतन्मया पूर्वं ज्ञानं विज्ञानसंयुतम्। धर्मं भागवतं शुद्धं नारदाद्देवदर्शनात् ॥२८॥ दैत्यपुत्रा ऊचुः प्रह्लाद त्वं वयं चापि नर्तेन्यं विद्महे गुरुम्। एताभ्यां गुरुपुत्राभ्यां बालानामपि हीश्वरौ ॥२९॥ बालस्यान्तःपुरस्थस्य महत्सङ्गो दुरन्वयः। छिन्धि नः संशयं सौम्य स्याच्चेद्विश्रम्भकारणम् ॥३०॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्धे प्रह्लादचरिते षष्ठोऽध्यायः॥ ६ ॥

॥ सप्तमोऽध्यायः - ७ ॥

नारद उवाच एवं दैत्यसुतैः पृष्टो महाभागवतोऽसुरः। उवाच स्मयमानस्तान् स्मरन् मदनुभाषितम् ॥१॥ प्रह्लाद उवाच पितरि प्रस्थितेऽस्माकं तपसे मन्दराचलम्। युद्धोद्यमं परं चक्रुर्विबुधा दानवान् प्रति ॥२॥ पिपीलिकैरहिरिव दिष्ट्या लोकोपतापनः। पापेन पापोऽभक्षीति वादिनो वासवादयः ॥३॥ तेषामतिबलोद्योगं निशम्यासुरयूथपाः। वध्यमानाः सुरैर्भीता दुद्रुवुः सर्वतो दिशम् ॥४॥ कलत्रपुत्रमित्राप्तान् गृहान् पशुपरिच्छदान्। नावेक्ष्यमाणास्त्वरिताः सर्वे प्राणपरीप्सवः ॥५॥ व्यलुम्पन् राजशिबिरममरा जयकाङ्क्षिणः। इन्द्रस्तु राजमहिषीं मातरं मम चाग्रहीत् ॥६॥ नीयमानां भयोद्विग्नां रुदतीं कुररीमिव। यदृच्छयाऽऽगतस्तत्र देवर्षिर्ददृशे पथि ॥७॥ प्राह मैनां सुरपते नेतुमर्हस्यनागसम्। मुञ्च मुञ्च महाभाग सतीं परपरिग्रहम् ॥८॥ इन्द्र उवाच आस्तेऽस्या जठरे वीर्यमविषह्यं सुरद्विषः। आस्यतां यावत्प्रसवं मोक्ष्येऽर्थपदवीं गतः ॥९॥ नारद उवाच अयं निष्किल्बिषः साक्षान्महाभागवतो महान्। त्वया न प्राप्स्यते संस्थामनन्तानुचरो बली ॥१०॥ इत्युक्तस्तां विहायेन्द्रो देवर्षेर्मानयन् वचः। अनन्तप्रियभक्त्यैनां परिक्रम्य दिवं ययौ ॥११॥ ततो नो मातरमृषिः समानीय निजाश्रमम्। आश्वास्येहोष्यतां वत्से यावत्ते भर्तुरागमः ॥१२॥ तथेत्यवात्सीद्देवर्षेरन्ति साप्यकुतोभया। यावद्दैत्यपतिर्घोरात्तपसो न न्यवर्तत ॥१३॥ ऋषिं पर्यचरत्तत्र भक्त्या परमया सती। अन्तर्वर्त्नी स्वगर्भस्य क्षेमायेच्छाप्रसूतये ॥१४॥ ऋषिः कारुणिकस्तस्याः प्रादादुभयमीश्वरः। धर्मस्य तत्त्वं ज्ञानं च मामप्युद्दिश्य निर्मलम् ॥१५॥ तत्तु कालस्य दीर्घत्वात्स्त्रीत्वान्मातुस्तिरोदधे। ऋषिणानुगृहीतं मां नाधुनाप्यजहात्स्मृतिः ॥१६॥ भवतामपि भूयान्मे यदि श्रद्दधते वचः। वैशारदी धीः श्रद्धातः स्त्रीबालानां च मे यथा ॥१७॥ जन्माद्याः षडिमे भावा दृष्टा देहस्य नात्मनः। फलानामिव वृक्षस्य कालेनेश्वरमूर्तिना ॥१८॥ आत्मा नित्योऽव्ययः शुद्ध एकः क्षेत्रज्ञ आश्रयः। अविक्रियः स्वदृग् हेतुर्व्यापकोऽसङ्ग्यनावृतः ॥१९॥ एतैर्द्वादशभिर्विद्वानात्मनो लक्षणैः परैः। अहं ममेत्यसद्भावं देहादौ मोहजं त्यजेत् ॥२०॥ स्वर्णं यथा ग्रावसु हेमकारः क्षेत्रेषु योगैस्तदभिज्ञ आप्नुयात्। क्षेत्रेषु देहेषु तथात्मयोगै- रध्यात्मविद्ब्रह्मगतिं लभेत ॥२१॥ अष्टौ प्रकृतयः प्रोक्तास्त्रय एव हि तद्गुणाः। विकाराः षोडशाचार्यैः पुमानेकः समन्वयात्॥२२॥ देहस्तु सर्वसङ्घातो जगत्तस्थुरिति द्विधा। अत्रैव मृग्यः पुरुषो नेति नेतीत्यतत्त्यजन् ॥२३॥ अन्वयव्यतिरेकेण विवेकेनोशतात्मना। सर्गस्थानसमाम्नायैर्विमृशद्भिरसत्वरैः ॥२४॥ बुद्धेर्जागरणं स्वप्नः सुषुप्तिरिति वृत्तयः। ता येनैवानुभूयन्ते सोऽध्यक्षः पुरुषः परः ॥२५॥ एभिस्त्रिवर्णैः पर्यस्तैर्बुद्धिभेदैः क्रियोद्भवैः। स्वरूपमात्मनो बुध्येद्गन्धैर्वायुमिवान्वयात् ॥२६॥ एतद्द्वारो हि संसारो गुणकर्मनिबन्धनः। अज्ञानमूलोऽपार्थोऽपि पुंसः स्वप्न इवेष्यते ॥२७॥ तस्माद्भवद्भिः कर्तव्यं कर्मणां त्रिगुणात्मनाम्। बीजनिर्हरणं योगः प्रवाहोपरमो धियः ॥२८॥ तत्रोपायसहस्राणामयं भगवतोदितः। यदीश्वरे भगवति यथा यैरञ्जसा रतिः ॥२९॥ गुरुशुश्रूषया भक्त्या सर्वलब्धार्पणेन च। सङ्गेन साधुभक्तानामीश्वराराधनेन च ॥३०॥ श्रद्धया तत्कथायां च कीर्तनैर्गुणकर्मणाम्। तत्पादाम्बुरुहध्यानात्तल्लिङ्गेक्षार्हणादिभिः ॥३१॥ हरिः सर्वेषु भूतेषु भगवानास्त ईश्वरः। इति भूतानि मनसा कामैस्तैः साधु मानयेत्॥३२॥ एवं निर्जितषड्वर्गैः क्रियते भक्तिरीश्वरे। वासुदेवे भगवति यया संलभते रतिम् ॥३३॥ निशम्य कर्माणि गुणानतुल्यान् वीर्याणि लीलातनुभिः कृतानि। यदातिहर्षोत्पुलकाश्रुगद्गदं प्रोत्कण्ठ उद्गायति रौति नृत्यति ॥३४॥ यदा ग्रहग्रस्त इव क्वचिद्धस- त्याक्रन्दते ध्यायति वन्दते जनम्। मुहुः श्वसन् वक्ति हरे जगत्पते नारायणेत्यात्ममतिर्गतत्रपः ॥३५॥ तदा पुमान् मुक्तसमस्तबन्धन- स्तद्भावभावानुकृताशयाकृतिः। निर्दग्धबीजानुशयो महीयसा भक्तिप्रयोगेण समेत्यधोक्षजम् ॥३६॥ अधोक्षजालम्भमिहाशुभात्मनः शरीरिणः संसृतिचक्रशातनम्। तद्ब्रह्मनिर्वाणसुखं विदुर्बुधास्ततो भजध्वं हृदये हृदीश्वरम् ॥३७॥ कोऽतिप्रयासोऽसुरबालका हरेरुपासने स्वे हृदि छिद्रवत्सतः। स्वस्यात्मनः सख्युरशेषदेहिनां सामान्यतः किं विषयोपपादनैः ॥३८॥ रायः कलत्रं पशवः सुतादयो गृहा मही कुञ्जरकोशभूतयः। सर्वेऽर्थकामाः क्षणभङ्गुरायुषः कुर्वन्ति मर्त्यस्य कियत्प्रियं चलाः ॥३९॥ एवं हि लोकाः क्रतुभिः कृता अमी क्षयिष्णवः सातिशया न निर्मलाः। तस्माददृष्टश्रुतदूषणं परं भक्त्यैकयेशं भजतात्मलब्धये ॥४०॥ यदध्यर्थ्येह कर्माणि विद्वन्मान्यसकृन्नरः। करोत्यतो विपर्यासममोघं विन्दते फलम् ॥४१॥ सुखाय दुःखमोक्षाय सङ्कल्प इह कर्मिणः। सदाऽऽप्नोतीहया दुःखमनीहायाः सुखावृतः ॥४२॥ कामान् कामयते काम्यैर्यदर्थमिह पूरुषः। स वै देहस्तु पारक्यो भङ्गुरो यात्युपैति च ॥४३॥ किमु व्यवहितापत्यदारागारधनादयः। राज्य< कोशगजामात्यभृत्याप्ता ममतास्पदाः ॥४४॥ किमेतैरात्मनस्तुच्छैः सह देहेन नश्वरैः। अनर्थैरर्थसङ्काशैर्नित्यानन्दमहोदधेः ॥४५॥ निरूप्यतामिह स्वार्थः कियान् देहभृतोऽसुराः। निषेकादिष्ववस्थासु क्लिश्यमानस्य कर्मभिः ॥४६॥ कर्माण्यारभते देही देहेनात्मानुवर्तिना। कर्मभिस्तनुते देहमुभयं त्वविवेकतः ॥४७॥ तस्मादर्थाश्च कामाश्च धर्माश्च यदपाश्रयाः। भजतानीहयाऽऽत्मानमनीहं हरिमीश्वरम् ॥४८॥ सर्वेषामपि भूतानां हरिरात्मेश्वरः प्रियः। भूतैर्महद्भिः स्वकृतैः कृतानां जीवसंज्ञितः ॥४९॥ देवोऽसुरो मनुष्यो वा यक्षो गन्धर्व एव च। भजन् मुकुन्दचरणं स्वस्तिमान् स्याद्यथा वयम् ॥५०॥ नालं द्विजत्वं देवत्वमृषित्वं वासुरात्मजाः। प्रीणनाय मुकुन्दस्य न वृत्तं न बहुज्ञता ॥५१॥ न दानं न तपो नेज्या न शौचं न व्रतानि च। प्रीयतेऽमलया भक्त्या हरिरन्यद्विडम्बनम् ॥५२॥ ततो हरौ भगवति भक्तिं कुरुत दानवाः। आत्मौपम्येन सर्वत्र सर्वभूतात्मनीश्वरे ॥५३॥ दैतेया यक्षरक्षांसि स्त्रियः शूद्रा व्रजौकसः। खगा मृगाः पापजीवाः सन्ति ह्यच्युततां गताः ॥५४॥ एतावानेव लोकेऽस्मिन् पुंसः स्वार्थः परः स्मृतः। एकान्तभक्तिर्गोविन्दे यत्सर्वत्र तदीक्षणम् ॥५५॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्धे प्रह्लादावुचरिते दैत्यपुत्रानुशासनं नाम सप्तमोऽध्यायः॥ ७ ॥

॥ अष्टमोऽध्यायः - ८ ॥

नारद उवाच अथ दैत्यसुताः सर्वे श्रुत्वा तदनुवर्णितम्। जगृहुर्निरवद्यत्वान्नैव गुर्वनुशिक्षितम् ॥१॥ अथाचार्यसुतस्तेषां बुद्धिमेकान्तसंस्थिताम्। आलक्ष्य भीतस्त्वरितो राज्ञ आवेदयद्यथा ॥२॥ श्रुत्वा तदप्रियं दैत्यो दुःसहं तनयानयम्। कोपावेशचलद्गात्रः पुत्रं हन्तुं मनो दधे ॥३॥ क्षिप्त्वा परुषया वाचा प्रह्लादमतदर्हणम्। आहेक्षमाणः पापेन तिरश्चीनेन चक्षुषा ॥४॥ प्रश्रयावनतं दान्तं बद्धाञ्जलिमवस्थितम्। सर्पः पदाहत इव श्वसन् प्रकृतिदारुणः ॥५॥ हे दुर्विनीत मन्दात्मन् कुलभेदकराधम। स्तब्धं मच्छासनोद्धूतं नेष्ये त्वाद्य यमक्षयम् ॥६॥ क्रुद्धस्य यस्य कम्पन्ते त्रयो लोकाः सहेश्वराः। तस्य मेऽभीतवन्मूढ शासनं किं बलोऽत्यगाः ॥७॥ प्रह्लाद उवाच न केवलं मे भवतश्च राजन् स वै बलं बलिनां चापरेषाम्। परेऽवरेऽमी स्थिरजङ्गमा ये ब्रह्मादयो येन वशं प्रणीताः ॥८॥ स ईश्वरः काल उरुक्रमोऽसा- वोजःसहःसत्त्वबलेन्द्रियात्मा। स एव विश्वं परमः स्वशक्तिभिः सृजत्यवत्यत्ति गुणत्रयेशः ॥९॥ जह्यासुरं भावमिमं त्वमात्मनः समं मनो धत्स्व न सन्ति विद्विषः। ऋतेऽजितादात्मन उत्पथस्थिता- त्तद्धि ह्यनन्तस्य महत्समर्हणम् ॥१०॥ दस्यून् पुरा षण् न विजित्य लुम्पतो मन्यन्त एके स्वजिता दिशो दश। जितात्मनो ज्ञस्य समस्य देहिनां साधोः स्वमोहप्रभवाः कुतः परे ॥११॥ हिरण्यकशिपुरुवाच व्यक्तं त्वं मर्तुकामोऽसि योऽतिमात्रं विकत्थसे। मुमूर्षूणां हि मन्दात्मन् ननु स्युर्विप्लवा गिरः ॥१२॥ यस्त्वया मन्दभाग्योक्तो मदन्यो जगदीश्वरः। क्वासौ यदि स सर्वत्र कस्मात्स्तम्भे न दृश्यते ॥१३॥ सोऽहं विकत्थमानस्य शिरः कायाद्धरामि ते। गोपायेत हरिस्त्वाद्य यस्ते शरणमीप्सितम् ॥१४॥ एवं दुरुक्तैर्मुहुरर्दयन् रुषा सुतं महाभागवतं महासुरः। खड्गं प्रगृह्योत्पतितो वरासना- त्स्तम्भं तताडातिबलः स्वमुष्टिना ॥१५॥ तदैव तस्मिन्निनदोऽतिभीषणो बभूव येनाण्डकटाहमस्फुटत्। यं वै स्वधिष्ण्योपगतं त्वजादयः श्रुत्वा स्वधामात्ययमङ्ग मेनिरे ॥१६॥ स विक्रमन् पुत्रवधेप्सुरोजसा निशम्य निर्ह्रादमपूर्वमद्भुतम्। अन्तःसभायां न ददर्श तत्पदं वितत्रसुर्येन सुरारियूथपाः ॥१७॥ सत्यं विधातुं निजभृत्यभाषितं व्याप्तिं च भूतेष्वखिलेषु चात्मनः। अदृश्यतात्यद्भुतरूपमुद्वहन् स्तम्भे सभायां न मृगं न मानुषम् ॥१८॥ सगोन स सत्त्वमेनं परितोऽपि पश्यन् स्तम्भस्य मध्यादनु निर्जिहानम्। नायं मृगो नापि नरो विचित्रमहो किमेतन्नृमृगेन्द्ररूपम् ॥१९॥ मीमांसमानस्य समुत्थितोऽग्रतो नृसिंहरूपस्तदलं भयानकम्। प्रतप्तचामीकरचण्डलोचनं स्फुरत्सटाकेसरजृम्भिताननम् ॥२०॥ करालदंष्ट्रं करवालचञ्चल- क्षुरान्तजिह्वं भ्रुकुटीमुखोल्बणम्। स्तब्धोर्ध्वकर्णं गिरिकन्दराद्भुत- व्यात्तास्यनासं हनुभेदभीषणम् ॥२१॥ दिविस्पृशत्कायमदीर्घपीवर- ग्रीवोरुवक्षःस्थलमल्पमध्यमम्। चन्द्रांशुगौरैश्छुरितं तनूरुहै- र्विष्वग्भुजानीकशतं नखायुधम् ॥२२॥ दुरासदं सर्वनिजेतरायुध- प्रवेकविद्रावितदैत्यदानवम्। प्रायेण मेऽयं हरिणोरुमायिना वधः स्मृतोऽनेन समुद्यतेन किम् ॥२३॥ एवं ब्रुवंस्त्वभ्यपतद्गदायुधो नदन् नृसिंहं प्रति दैत्यकुञ्जरः। अलक्षितोऽग्नौ पतितः पतङ्गमो यथा नृसिंहौजसि सोऽसुरस्तदा ॥२४॥ न तद्विचित्रं खलु सत्त्वधामनि स्वतेजसा यो नु पुरापिबत्तमः। ततोऽभिपद्याभ्यहनन्महासुरो रुषा नृसिंहं गदयोरुवेगया ॥२५॥ तं विक्रमन्तं सगदं गदाधरो महोरगं तार्क्ष्यसुतो यथाग्रहीत्। स तस्य हस्तोत्कलितस्तदासुरो विक्रीडतो यद्वदहिर्गरुत्मतः ॥२६॥ असाध्वमन्यन्त हृतौकसोऽमरा घनच्छदा भारत सर्वधिष्ण्यपाः। तं मन्यमानो निजवीर्यशङ्कितं यद्धस्तमुक्तो नृहरिं महासुरः। पुनस्तमासज्जत खड्गचर्मणी प्रगृह्य वेगेन जितश्रमो मृधे ॥२७॥ तं श्येनवेगं शतचन्द्रवर्त्मभि- श्चरन्तमच्छिद्रमुपर्यधो हरिः। कृत्वाट्टहासं खरमुत्स्वनोल्बणं निमीलिताक्षं जगृहे महाजवः ॥२८॥ विष्वक्स्फुरन्तं ग्रहणातुरं हरिर्व्यालो यथाऽऽखुं कुलिशाक्षतत्वचम्। द्वार्यूर आपात्य ददार लीलया नखैर्यथाहिं गरुडो महाविषम् ॥२९॥ संरम्भदुष्प्रेक्ष्यकराललोचनो व्यात्ताननान्तं विलिहन् स्वजिह्वया। असृग्लवाक्तारुणकेसराननो यथान्त्रमाली द्विपहत्यया हरिः ॥३०॥ नखाङ्कुरोत्पाटितहृत्सरोरुहं विसृज्य तस्यानुचरानुदायुधान्। अहन् समन्तान्नखशस्त्रपार्ष्णिभि- र्दोर्दण्डयूथोऽनुपथान् सहस्रशः ॥३१॥ सटावधूता जलदाः परापतन् ग्रहाश्च तद्दृष्टिविमुष्टरोचिषः। अम्भोधयः श्वासहता विचुक्षुभु- र्निर्ह्रादभीता दिगिभा विचुक्रुशुः ॥३२॥ द्यौस्तत्सटोत्क्षिप्तविमानसङ्कुला प्रोत्सर्पत क्ष्मा च पदाभिपीडिता। शैलाः समुत्पेतुरमुष्य रंहसा तत्तेजसा खं ककुभो न रेजिरे ॥३३॥ ततः सभायामुपविष्टमुत्तमे नृपासने सम्भृततेजसं विभुम्। अलक्षितद्वैरथमत्यमर्षणं प्रचण्डवक्त्रं न बभाज कश्चन ॥३४॥ निशाम्य लोकत्रयमस्तकज्वरं तमादिदैत्यं हरिणा हतं मृधे। प्रहर्षवेगोत्कलितानना मुहुः प्रसूनवर्षैर्ववृषुः सुरस्त्रियः ॥३५॥ तदा विमानावलिभिर्नभस्तलं दिदृक्षतां सङ्कुलमास नाकिनाम्। सुरानका दुन्दुभयोऽथ जघ्निरे गन्धर्वमुख्या ननृतुर्जगुः स्त्रियः ॥३६॥ तत्रोपव्रज्य विबुधा ब्रह्मेन्द्रगिरिशादयः। ऋषयः पितरः सिद्धा विद्याधरमहोरगाः ॥३७॥ मनवः प्रजानां पतयो गन्धर्वाप्सरचारणाः। यक्षाः किम्पुरुषास्तात वेतालाः सिद्धकिन्नराः ॥३८॥ ते विष्णुपार्षदाः सर्वे सुनन्दकुमुदादयः। मूर्ध्नि बद्धाञ्जलिपुटा आसीनं तीव्रतेजसम्। ईडिरे नरशार्दुलं नातिदूरचराः पृथक् ॥३९॥ ब्रह्मोवाच नतोऽस्म्यनन्ताय दुरन्तशक्तये विचित्रवीर्याय पवित्रकर्मणे। विश्वस्य सर्गस्थितिसंयमान् गुणैः स्वलीलया सन्दधतेऽव्ययात्मने ॥४०॥ श्रीरुद्र उवाच कोपकालो युगान्तस्ते हतोऽयमसुरोऽल्पकः। तत्सुतं पाह्युपसृतं भक्तं ते भक्तवत्सल ॥४१॥ इन्द्र उवाच प्रत्यानीताः परम भवता त्रायता नः स्वभागा दैत्याक्रान्तं हृदयकमलं त्वद्गृहं प्रत्यबोधि । कालग्रस्तं कियदिदमहो नाथ शुश्रूषतां ते मुक्तिस्तेषां न हि बहुमता नारसिंहापरैः किम् ॥४२॥ ऋषय ऊचुः त्वं नस्तपः परममात्थ यदात्मतेजो येनेदमादिपुरुषात्मगतं ससर्ज । तद्विप्रलुप्तममुनाद्य शरण्यपाल रक्षागृहीतवपुषा पुनरन्वमंस्थाः ॥४३॥ पितर ऊचुः श्राद्धानि नोऽधिबुभुजे प्रसभं तनूजैर्दत्तानि तीर्थसमयेऽप्यपिबत्तिलाम्बु । तस्योदरान्नखविदीर्णवपाद्य आर्च्छत्तस्मै नमो नृहरयेऽखिलधर्मगोप्त्रे ॥४४॥ सिद्धा ऊचुः यो नो गतिं योगसिद्धामसाधु- रहार्षीद्योगतपोबलेन। नानादर्पं तं नखैर्निर्ददार तस्मै तुभ्यं प्रणताः स्मो नृसिंह ॥४५॥ विद्याधरा ऊचुः विद्यां पृथग्धारणयानुराद्धां न्यषेधदज्ञो बलवीर्यदृप्तः। स येन सङ्ख्ये पशुवद्धतस्तं मायानृसिंहं प्रणताः स्म नित्यम् ॥४६॥ नागा ऊचुः येन पापेन रत्नानि स्त्रीरत्नानि हृतानि नः। तद्वक्षःपाटनेनासां दत्तानन्द नमोस्तु ते ॥४७॥ मनव ऊचुः मनवो वयं तव निदेशकारिणो दितिजेन देव परिभूतसेतवः। भवता खलः स उपसंहृतः प्रभो करवाम ते किमनुशाधि किङ्करान् ॥४८॥ प्रजापतय ऊचुः प्रजेशा वयं ते परेशाभिसृष्टा न येन प्रजा वै सृजामो निषिद्धाः। स एष त्वया भिन्नवक्षा नु शेते जगन्मङ्गलं सत्त्वमूर्तेऽवतारः ॥४९॥ गन्धर्वा ऊचुः वयं विभो ते नटनाट्यगायका येनात्मसाद्वीर्यबलौजसा कृताः। स एष नीतो भवता दशामिमां किमुत्पथस्थः कुशलाय कल्पते ॥५०॥ चारणा ऊचुः हरे तवाङ्घ्रिपङ्कजं भवापवर्गमाश्रिताः। यदेष साधुहृच्छयस्त्वयासुरः समापितः ॥५१॥ यक्षा ऊचुः वयमनुचरमुख्याः कर्मभिस्ते मनोज्ञैस्त इह दितिसुतेन प्रापिता वाहकत्वम् , स तु जनपरितापं तत्कृतं जानता ते नरहर उपनीतः पञ्चतां पञ्चविंश ॥५२। किम्पुरुषा ऊचुः वयं किम्पुरुषास्त्वं तु महापुरुष ईश्वरः। अयं कुपुरुषो नष्टो धिक्कृतः साधुभिर्यदा ॥५३॥ वैतालिका ऊचुः सभासु सत्रेषु तवामलं यशो गीत्वा सपर्यां महतीं लभामहे। यस्तां व्यनैषीद्भृशमेष दुर्जनो दिष्ट्या हतस्ते भगवन् यथाऽऽमयः ॥५४॥ किन्नरा ऊचुः वयमीश किन्नरगणास्तवानुगा दितिजेन विष्टिममुनानुकारिताः। भवता हरे स वृजिनोऽवसादितो नरसिंह नाथ विभवाय नो भव ॥५५॥ विष्णुपार्षदा ऊचुः अद्यैतद्धरिनररूपमद्भुतं ते दृष्टं नः शरणद सर्वलोकशर्म। सोऽयं ते विधिकर ईश विप्रशप्तस्तस्येदं निधनमनुग्रहाय विद्मः ॥५६॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्धे प्रह्लादानुचरिते दैत्यराजवधे न्Qअसिंहस्तवो नामाष्टमोऽध्यायः॥ ८ ॥

॥ नवमोऽध्यायः - ९ ॥

नारद उवाच एवं सुरादयः सर्वे ब्रह्मरुद्रपुरःसराः। नोपैतुमशकन् मन्युसंरम्भं सुदुरासदम् ॥१॥ साक्षाच्छ्रीः प्रेषिता देवैर्दृष्ट्वा तन्महदद्भुतम्। अदृष्टाश्रुतपूर्वत्वात्सा नोपेयाय शङ्किता ॥२॥ प्रह्लादं प्रेषयामास ब्रह्मावस्थितमन्तिके। तात प्रशमयोपेहि स्वपित्रे कुपितं प्रभुम् ॥३॥ तथेति शनकै राजन् महाभागवतोऽर्भकः। उपेत्य भुवि कायेन ननाम विधृताञ्जलिः ॥४॥ स्वपादमूले पतितं तमर्भकं विलोक्य देवः कृपया परिप्लुतः। उत्थाप्य तच्छीर्ष्ण्यदधात्कराम्बुजं कालाहिवित्रस्तधियां कृताभयम् ॥५? स तत्करस्पर्शधुताखिलाशुभः सपद्यभिव्यक्तपरात्मदर्शनः। तत्पादपद्मं हृदि निर्वृतो दधौ हृष्यत्तनुः क्लिन्नहृदश्रुलोचनः ॥६॥ अस्तौषीद्धरिमेकाग्रमनसा सुसमाहितः । प्रेमगद्गदया वाचा तन्न्यस्तहृदयेक्षणः ॥ ७ ॥ प्रह्लाद उवाच ब्रह्मादयः सुरगणा मुनयोऽथ सिद्धाः सत्त्वैकतानमतयो वचसां प्रवाहैः । नाराधितुं पुरुगुणैरधुनापि पिप्रुः किं तोष्टुमर्हति स मे हरिरुग्रजातेः ॥ ८ ॥ मन्ये धनाभिजनरूपतपःश्रुतौजः तेजःप्रभावबलपौरुषबुद्धियोगाः। नाराधनाय हि भवन्ति परस्य पुंसो भक्त्या तुतोष भगवान् गजयूथपाय ॥ ९ ॥ विप्राद्द्विषड्गुणयुतादरविन्दनाभ- पादारविन्दविमुखाच्छ्वपचं वरिष्ठम् । मन्ये तदर्पितमनोवचनेहितार्थप्राणं पुनाति स कुलं न तु भूरिमानः ॥१०॥ नैवात्मनः प्रभुरयं निजलाभपूर्णो मानं जनादविदुषः करुणो वृणीते । यद्यज्जनो भगवते विदधीत मानं तच्चात्मने प्रतिमुखस्य यथा मुखश्रीः ॥११॥ तस्मादहं विगतविक्लव ईश्वरस्य सर्वात्मना महि गृणामि यथा मनीषम्। नीचोऽजया गुणविसर्गमनुप्रविष्टः पूयेत येन हि पुमाननुवर्णितेन ॥१२॥ सर्वे ह्यमी विधिकरास्तव सत्त्वधाम्नो ब्रह्मादयो वयमिवेश न चोद्विजन्तः। क्षेमाय भूतय उतात्मसुखाय चास्य विक्रीडितं भगवतो रुचिरावतारैः ॥१३॥ तद्यच्छ मन्युमसुरश्च हतस्त्वयाद्य मोदेत साधुरपि वृश्चिकसर्पहत्या । लोकाश्च निर्वृतिमिताः प्रतियन्ति सर्वे रूपं नृसिंह विभयाय जनाः स्मरन्ति ॥१४॥ नाहं बिभेम्यजित तेऽतिभयानकास्य- जिह्वार्कनेत्रभ्रुकुटीरभसोग्रदंष्ट्रात्। आन्त्रस्रजःक्षतजकेसरशङ्कुकर्णा- न्निर्ह्रादभीतदिगिभादरिभिन्नखाग्रात् ॥१५॥ त्रस्तोऽस्म्यहं कृपणवत्सल दुःसहोग्र- संसारचक्रकदनाद्ग्रसतां प्रणीतः । बद्धः स्वकर्मभिरुशत्तम तेऽङ्घ्रिमूलं प्रीतोपवर्गशरणं ह्वयसे कदा नु ॥१६॥ यस्मात्प्रियाप्रियवियोगसयोगजन्म- शोकाग्निना सकलयोनिषु दह्यमानः। दुःखौषधं तदपि दुःखमतद्धियाहं भूमन् भ्रमामि वद मे तव दास्ययोगम् ॥१७॥ सोऽहं प्रियस्य सुहृदः परदेवताया लीलाकथास्तव नृसिंह विरिञ्चगीताः। अञ्जस्तितर्म्यनुगृणन् गुणविप्रमुक्तो दुर्गाणि ते पदयुगालयहंससङ्गः ॥१८॥ बालस्य नेह शरणं पितरौ नृसिंह नार्तस्य चागदमुदन्वति मज्जतो नौः। तप्तस्य तत्प्रतिविधिर्य इहाञ्जसेष्टस्तावद्विभो तनुभृतां त्वदुपेक्षितानाम् ॥१९॥ यस्मिन् यतो यर्हि येन च यस्य यस्माद्यस्मै यथा यदुत यस्त्वपरः परो वा। भावः करोति विकरोति पृथक्स्वभावः सञ्चोदितस्तदखिलं भवतः स्वरूपम् ॥२०॥ माया मनः सृजति कर्ममयं बलीयः कालेन चोदितगुणानुमतेन पुंसः। छन्दोमयं यदजयार्पितषोडशारं संसारचक्रमज कोऽतितरेत्त्वदन्यः ॥२१॥ स त्वं हि नित्यविजितात्मगुणः स्वधाम्ना कालो वशीकृतविसृज्यविसर्गशक्तिः। चक्रे विसृष्टमजयेश्वर षोडशारे निष्पीड्यमानमुपकर्ष विभो प्रपन्नम् ॥२२॥ दृष्टा मया दिवि विभोऽखिलधिष्ण्यपानामायुः श्रियो विभव इच्छति यान् जनोऽयम्। येऽस्मत्पितुः कुपितहासविजृम्भितभ्रू- विस्फूर्जितेन लुलिताः स तु ते निरस्तः ॥२३॥ तस्मादमूस्तनुभृतामहमाशिषो ज्ञ आयुः श्रियं विभवमैन्द्रियमाविरिञ्च्यात्। नेच्छामि ते विलुलितानुरुविक्रमेण कालात्मनोपनय मां निजभृत्यपार्श्वम् ॥२४॥ कुत्राशिषः श्रुतिसुखा मृगतृष्णिरूपाः क्वेदं कलेवरमशेषरुजां विरोहः। निर्विद्यते न तु जनो यदपीति विद्वान् कामानलं मधुलवैः शमयन् दुरापैः ॥२५॥ क्वाहं रजःप्रभव ईश तमोऽधिकेऽस्मिन् जातः सुरेतरकुले क्व तवानुकम्पा। न ब्रह्मणो न तु भवस्य न वै रमाया यन्मेऽर्पितः शिरसि पद्मकरः प्रसादः ॥२६॥ नैषा परावरमतिर्भवतो ननु स्या- ज्जन्तोर्यथाऽऽत्मसुहृदो जगतस्तथापि। संसेवया सुरतरोरिव ते प्रसादः सेवानुरूपमुदयो न परावरत्वम् ॥२७॥ एवं जनं निपतितं प्रभवाहिकूपे कामाभिकाममनु यः प्रपतन् प्रसङ्गात्। कृत्वाऽऽत्मसात्सुरर्षिणा भगवन् गृहीतः सोऽहं कथं नु विसृजे तव भृत्यसेवाम् ॥ २८॥ मत्प्राणरक्षणमनन्त पितुर्वधश्च मन्ये स्वभृत्यऋषिवाक्यमृतं विधातुम्। खड्गं प्रगृह्य यदवोचदसद्विधित्सु- स्त्वामीश्वरो मदपरोऽवतु कं हरामि ॥२९॥ एकस्त्वमेव जगदेतममुष्य यत्त्वमाद्यन्तयोः पृथगवस्यसि मध्यतश्च। सृष्ट्वा गुणव्यतिकरं निजमाययेदं नानेव तैरवसितस्तदनुप्रविष्टः ॥३०॥ त्वं वा इदं सदसदीश भवांस्ततोऽन्यो माया यदात्मपरबुद्धिरियं ह्यपार्था। यद्यस्य जन्म निधनं स्थितिरीक्षणं च तद्वै तदेव वसुकालवदष्टितर्वोः ॥३१॥ न्यस्येदमात्मनि जगद्विलयाम्बुमध्ये शेषेऽऽत्मना निजसुखानुभवो निरीहः । योगेन मीलितदृगात्मनिपीतनिद्रस्तुर्ये स्थितो न तु तमो न गुणांश्च युङ्क्षे ॥३२॥ तस्यैव ते वपुरिदं निजकालशक्त्या सञ्चोदितप्रकृतिधर्मण आत्मगूढम्। अम्भस्यनन्तशयनाद्विरमत्समाधे- र्नाभेरभूत्स्वकणिकावटवन्महाब्जम् ॥३३॥ तत्सम्भवः कविरतोऽन्यदपश्यमानस्त्वां बीजमात्मनि ततं स्वबहिर्विचिन्त्य। नाविन्ददब्दशतमप्सु निमज्जमानो जातेऽङ्कुरे कथमु होपलभेत बीजम् ॥३४॥ स त्वात्मयोनिरतिविस्मित आश्रितोऽब्जं कालेन तीव्रतपसा परिशुद्धभावः। त्वामात्मनीश भुवि गन्धमिवातिसूक्ष्मं भूतेन्द्रियाशयमये विततं ददर्श ॥३५॥ एवं सहस्रवदनाङ्घ्रिशिरःकरोरु- नासास्यकर्णनयनाभरणायुधाढ्यम् मायामयं सदुपलक्षितसन्निवेशं दृष्ट्वा महापुरुषमाप मुदं विरिञ्चः ॥३६॥ तस्मै भवान् हयशिरस्तनुवं हि बिभ्रद्- वेदद्रुहावतिबलौ मधुकैटभाख्यौ । हत्वाऽऽनयच्छ्रुतिगणांस्तु रजस्तमश्च सत्त्वं तव प्रियतमां तनुमामनन्ति ॥३७॥ इत्थं नृतिर्यगृषिदेवझषावतारैर्लोकान् विभावयसि हंसि जगत्प्रतीपान्। धर्मं महापुरुष पासि युगानुवृत्तं छन्नः कलौ यदभवस्त्रियुगोऽथ स त्वम् ॥३८॥ नैतन्मनस्तव कथासु विकुण्ठनाथ सम्प्रीयते दुरितदुष्टमसाधु तीव्रम्। कामातुरं हर्षशोकभयैषणार्तं तस्मिन् कथं तव गतिं विमृशामि दीनः ॥३९॥ जिह्वैकतोऽच्युत विकर्षति मावितृप्ता शिश्नोऽन्यतस्त्वगुदरं श्रवणं कुतश्चित्। घ्राणोऽन्यतश्चपलदृक् क्व च कर्मशक्तिर्बह्व्यः सपत्न्य इव गेहपतिं लुनन्ति ॥४०॥ एवं स्वकर्मपतितं भववैतरण्या- मन्योन्यजन्ममरणाशनभीतभीतम्। पश्यन् जनं स्वपरविग्रहवैरमैत्रं हन्तेति पारचर पीपृहि मूढमद्य ॥४१॥ को न्वत्र तेऽखिलगुरो भगवन् प्रयास उत्तारणेऽस्य भवसम्भवलोपहेतोः। मूढेषु वै महदनुग्रह आर्तबन्धो किं तेन ते प्रियजनाननुसेवतां नः ॥४२॥ नैवोद्विजे पर दुरत्ययवैतरण्या- स्त्वद्वीर्यगायनमहामृतमग्नचित्तः। शोचे ततो विमुखचेतस इन्द्रियार्थ- मायासुखाय भरमुद्वहतो विमूढान् ॥४३॥ प्रायेण देव मुनयः स्वविमुक्तिकामाः मौनं चरन्ति विजने न परार्थनिष्ठाः। नैतान्विहाय कृपणान्विमुमुक्ष एको नान्यं त्वदस्य शरणं भ्रमतोऽनुपश्ये ॥४४॥ यन्मैथुनादिगृहमेधिसुखं हि तुच्छं कण्डूयनेन करयोरिव दुःखदुःखम्। तृप्यन्ति नेह कृपणा बहुदुःखभाजः कण्डूतिवन्मनसिजं विषहेत धीरः ॥४५॥ मौनव्रतश्रुततपोऽध्ययनस्वधर्म- व्याख्यारहोजपसमाधय आपवर्ग्याः। प्रायः परं पुरुष ते त्वजितेन्द्रियाणां वार्ता भवन्त्युत न वात्र तु दाम्भिकानाम् ॥४६॥ रूपे इमे सदसती तव वेदसृष्टे बीजाङ्कुराविव न चान्यदरूपकस्य । युक्ताः समक्षमुभयत्र विचिन्वते त्वां योगेन वह्निमिव दारुषु नान्यतः स्यात् ॥४७॥ त्वं वायुरग्निरवनिर्वियदम्बुमात्राः प्राणेन्द्रियाणि हृदयं चिदनुग्रहश्च। सर्वं त्वमेव सगुणो विगुणश्च भूमन् नान्यत्त्वदस्त्यपि मनोवचसा निरुक्तम् ॥४८॥ नैते गुणा न गुणिनो महदादयो ये सर्वे मनः प्रभृतयः सहदेवमर्त्याः। आद्यन्तवन्त उरुगाय विदन्ति हि त्वामेवं विमृश्य सुधियो विरमन्ति शब्दात् ॥४९॥ तत्तेर्हत्तम नमः स्तुतिकर्मपूजाः कर्म स्मृतिश्चरणयोः श्रवणं कथायाम्। संसेवया त्वयि विनेति षडङ्गया किं भक्तिं जनः परमहंसगतौ लभेत ॥५०॥ नारद उवाच एतावद्वर्णितगुणो भक्त्या भक्तेन निर्गुणः। प्रह्लादं प्रणतं प्रीतो यतमन्युरभाषत ॥५१॥ श्रीभगवानुवाच प्रह्लाद भद्र भद्रं ते प्रीतोऽहं तेऽसुरोत्तम। वरं वृणीष्वाभिमतं कामपूरोऽस्म्यहं नृणाम् ॥५२॥ मामप्रीणत आयुष्मन् दर्शनं दुर्लभं हि मे। दृष्ट्वा मां न पुनर्जन्तुरात्मानं तप्तुमर्हति ॥५३॥ प्रीणन्ति ह्यथ मां धीराः सर्वभावेन साधवः। श्रेयस्कामा महाभाग सर्वासामाशिषां पतिम् ॥५४॥ एवं प्रलोभ्यमानोऽपि वरैर्लोकप्रलोभनैः। एकान्तित्वाद्भगवति नैच्छत्तानसुरोत्तमः ॥५५॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्धे प्रह्लादचरिते भगवत्स्तवो नाम नवमोऽध्यायः॥ ९ ॥

॥ दशमोऽध्यायः - १० ॥

नारद उवाच भक्तियोगस्य तत्सर्वमन्तरायतयार्भकः। मन्यमानो हृषीकेशं स्मयमान उवाच ह ॥१॥ प्रह्लाद उवाच मा मां प्रलोभयोत्पत्त्याऽऽसक्तंकामेषु तैर्वरैः। तत्सङ्गभीतो निर्विण्णो मुमुक्षुस्त्वामुपाश्रितः ॥२॥ भृत्यलक्षणजिज्ञासुर्भक्तं कामेष्वचोदयत्। भवान् संसारबीजेषु हृदयग्रन्थिषु प्रभो ॥३॥ नान्यथा तेऽखिलगुरो घटेत करुणात्मनः। यस्त आशिष आशास्ते न स भृत्यः स वै वणिक् ॥४॥ आशासानो न वै भृत्यः स्वामिन्याशिष आत्मनः। न स्वामी भृत्यतः स्वाम्यमिच्छन् यो राति चाशिषः ॥५॥ अहं त्वकामस्त्वद्भक्तस्त्वं च स्वाम्यनपाश्रयः। नान्यथेहावयोरर्थो राजसेवकयोरिव ॥६॥ यदि रासीश मे कामान् वरांस्त्वं वरदर्षभ। कामानां हृद्यसंरोहं भवतस्तु वृणे वरम् ॥७॥ इन्द्रियाणि मनः प्राण आत्मा धर्मो धृतिर्मतिः। ह्रीः श्रीस्तेजः स्मृतिः सत्यं यस्य नश्यन्ति जन्मना ॥८॥ विमुञ्चति यदा कामान् मानवो मनसि स्थितान्। तर्ह्येव पुण्डरीकाक्ष भगवत्त्वाय कल्पते ॥९॥ ओं नमो भगवते तुभ्यं पुरुषाय महात्मने। हरयेऽद्भुतसिंहाय ब्रह्मणे परमात्मने ॥१०॥ नृसिंह उवाच नैकान्तिनो मे मयि जात्विहाशिष आशासतेऽमुत्र च ये भवद्विधाः। अथापि मन्वन्तरमेतदत्र दैत्येश्वराणामनुभुङ्क्ष्व भोगान् ॥११॥ कथा मदीया जुषमाणः प्रियास्त्वमावेश्य मामात्मनि सन्तमेकम्। सर्वेषु भूतेष्वधियज्ञमीशं यजस्व योगेन च कर्म हिन्वन् ॥१२॥ भोगेन पुण्यं कुशलेन पापं कलेवरं कालजवेन हित्वा। कीर्तिं विशुद्धां सुरलोकगीतां विताय मामेष्यसि मुक्तबन्धः ॥१३॥ य एतत्कीर्तयेन्मह्यं त्वया गीतमिदं नरः। त्वां च मां च स्मरन् काले कर्मबन्धात्प्रमुच्यते ॥१४॥ प्रह्लाद उवाच वरं वरय एतत्ते वरदेशान्महेश्वर। यदनिन्दत्पिता मे त्वामविद्वांस्तेज ऐश्वरम् ॥१५॥ विद्धामर्षाशयः साक्षात्सर्वलोकगुरुं प्रभुम्। भ्रातृहेति मृषादृष्टिस्त्वद्भक्ते मयि चाघवान् ॥१६॥ तस्मात्पिता मे पूयेत दुरन्ताद्दुस्तरादघात्। पूतस्तेऽपाङ्गसंदृष्टस्तदा कृपणवत्सल ॥१७॥ श्रीभगवानुवाच त्रिःसप्तभिः पिता पूतः पितृभिः सह तेऽनघ। यत्साधोऽस्य गृहे जातो भवान् वै कुलपावनः ॥१८॥ यत्र यत्र च मद्भक्ताः प्रशान्ताः समदर्शिनः। साधवः समुदाचारास्ते पूयन्त्यपि कीकटाः ॥१९॥ सर्वात्मना न हिंसन्ति भूतग्रामेषु किञ्चन। उच्चावचेषु दैत्येन्द्र मद्भावेन गतस्पृहाः ॥२०॥ भवन्ति पुरुषा लोके मद्भक्तास्त्वामनुव्रताः। भवान् मे खलु भक्तानां सर्वेषां प्रतिरूपधृक् ॥२१॥ कुरु त्वं प्रेतकृत्यानि पितुः पूतस्य सर्वशः। मदङ्गस्पर्शनेनाङ्ग लोकान् यास्यति सुप्रजाः ॥२२॥ पित्र्यं च स्थानमातिष्ठ यथोक्तं ब्रह्मवादिभिः। मय्यावेश्य मनस्तात कुरु कर्माणि मत्परः ॥२३॥ नारद उवाच प्रह्लादोऽपि तथा चक्रे पितुर्यत्साम्परायिकम्। यथाऽऽह भगवान् राजन्नभिषिक्तो द्विजोत्तमैः ॥२४॥ प्रसादसुमुखं दृष्ट्वा ब्रह्मा नरहरिं हरिम्। स्तुत्वा वाग्भिः पवित्राभिः प्राह देवादिभिर्वृतः ॥२५॥ ब्रह्मोवाच देवदेवाखिलाध्यक्ष भूतभावन पूर्वज। दिष्ट्या ते निहतः पापो लोकसन्तापनोऽसुरः ॥२६॥ योऽसौ लब्धवरो मत्तो न वध्यो मम सृष्टिभिः। तपोयोगबलोन्नद्धः समस्तनिगमानहन् ॥२७॥ दिष्ट्यास्य तनयः साधुर्महाभागवतोऽर्भकः। त्वया विमोचितो मृत्योर्दिष्ट्या त्वां समितोऽधुना ॥२८॥ एतद्वपुस्ते भगवन् ध्यायतः प्रयतात्मनः। सर्वतो गोप्तृ सन्त्रासान्मृत्योरपि जिघांसतः ॥२९॥ नृसिंह उवाच मैवं वरोऽसुराणां ते प्रदेयः पद्मसम्भव। वरः क्रूरनिसर्गाणामहीनाममृतं यथा ॥३०॥ नारद उवाच इत्युक्त्वा भगवान् राजंस्तत्रैवान्तर्दधे हरिः। अदृश्यः सर्वभूतानां पूजितः परमेष्ठिना ॥३१॥ ततः सम्पूज्य शिरसा ववन्दे परमेष्ठिनम्। भवं प्रजापतीन् देवान् प्रह्लादो भगवत्कलाः ॥३२॥ ततः काव्यादिभिः सार्धं मुनिभिः कमलासनः। दैत्यानां दानवानां च प्रह्लादमकरोत्पतिम् ॥३३॥ प्रतिनन्द्य ततो देवाः प्रयुज्य परमाशिषः। स्वधामानि ययू राजन् ब्रह्माद्याः प्रतिपूजिताः ॥३४॥ एवं तौ पार्षदौ विष्णोः पुत्रत्वं प्रापितौ दितेः। हृदि स्थितेन हरिणा वैरभावेन तौ हतौ ॥३५॥ पुनश्च विप्रशापेन राक्षसौ तौ बभूवतुः। कुम्भकर्णदशग्रीवौ हतौ तौ रामविक्रमैः ॥३६॥ शयानौ युधि निर्भिन्नहृदयौ रामसायकैः। तच्चित्तौ जहतुर्देहं यथा प्राक्तनजन्मनि ॥३७॥ ताविहाथ पुनर्जातौ शिशुपालकरूषजौ। हरौ वैरानुबन्धेन पश्यतस्ते समीयतुः ॥३८॥ एनः पूर्वकृतं यत्तद्राजानः कृष्णवैरिणः। जहुस्त्वन्ते तदात्मानः कीटः पेशस्कृतो यथा ॥३९॥ यथा यथा भगवतो भक्त्या परमयाभिदा। नृपाश्चैद्यादयः सात्म्यं हरेस्तच्चिन्तया ययुः ॥४०॥ आख्यातं सर्वमेतत्ते यन्मां त्वं परिपृष्टवान्। दमघोषसुतादीनां हरेः सात्म्यमपि द्विषाम् ॥४१॥ एषा ब्रह्मण्यदेवस्य कृष्णस्य च महात्मनः। अवतारकथा पुण्या वधो यत्रादिदैत्ययोः ॥४२॥ प्रह्लादस्यानुचरितं महाभागवतस्य च। भक्तिर्ज्ञानं विरक्तिश्च याथात्म्यं चास्य वै हरेः ॥४३॥ सर्गस्थित्यप्ययेशस्य गुणकर्मानुवर्णनम्। परावरेषां स्थानानां कालेन व्यत्ययो महान् ॥४४॥ धर्मो भागवतानां च भगवान् येन गम्यते। आख्यानेऽस्मिन् समाम्नातमाध्यात्मिकमशेषतः ॥४५॥ य एतत्पुण्यमाख्यानं विष्णोर्वीर्योपबृंहितम्। कीर्तयेच्छ्रद्धया श्रुत्वा कर्मपाशैर्विमुच्यते ॥४६॥ एतद्य आदिपुरुषस्य मृगेन्द्रलीलां दैत्येन्द्रयूथपवधं प्रयतः पठेत । दैत्यात्मजस्य च सतां प्रवरस्य पुण्यं श्रुत्वानुभावमकुतोभयमेति लोकम् ॥४७॥ यूयं नृलोके बत भूरिभागा लोकं पुनाना मुनयोऽभियन्ति। येषां गृहानावसतीति साक्षाद्गूढं परं ब्रह्म मनुष्यलिङ्गम् ॥४८॥ स वा अयं ब्रह्म महद्विमृग्य- कैवल्यनिर्वाणसुखानुभूतिः। प्रियः सुहृद्वः खलु मातुलेय आत्मार्हणीयो विधिकृद्गुरुश्च ॥४९॥ न यस्य साक्षाद्भवपद्मजादिभी रूपं धिया वस्तुतयोपवर्णितम्। मौनेन भक्त्योपशमेन पूजितः प्रसीदतामेष स सात्वतां पतिः ॥५०॥ स एष भगवान् राजन् व्यतनोद्विहतं यशः। पुरा रुद्रस्य देवस्य मयेनानन्तमायिना ॥५१॥ राजोवाच कस्मिन् कर्मणि देवस्य मयोऽहन् जगदीशितुः। यथा चोपचिता कीर्तिः कृष्णेनानेन कथ्यताम् ॥५२॥ नारद उवाच निर्जिता असुरा देवैर्युध्यनेनोपबृंहितैः। मायिनां परमाचार्यं मयं शरणमाययुः ॥५३॥ स निर्माय पुरस्तिस्रो हैमीरौप्यायसीर्विभुः। दुर्लक्ष्यापायसंयोगा दुर्वितर्क्यपरिच्छदाः ॥५४॥ ताभिस्तेऽसुरसेनान्यो लोकांस्त्रीन् सेश्वरान्नृप। स्मरन्तो नाशयांचक्रुः पूर्ववैरमलक्षिताः ॥५५॥ ततस्ते सेश्वरा लोका उपासाद्येश्वरं विभो। त्राहि नस्तावकान् देव विनष्टांस्त्रिपुरालयैः ॥५६॥ अथानुगृह्य भगवान्मा भैष्टेति सुरान् विभुः। शरं धनुषि सन्धाय पुरेष्वस्त्रं व्यमुञ्चत ॥५७॥ ततोऽग्निवर्णा इषव उत्पेतुः सूर्यमण्डलात्। यथा मयूखसन्दोहा नादृश्यन्त पुरो यतः ॥५८॥ तैः स्पृष्टा व्यसवः सर्वे निपेतुः स्म पुरौकसः। तानानीय महायोगी मयः कूपरसेऽक्षिपत् ॥५९॥ सिद्धामृतरसस्पृष्टा वज्रसारा महौजसः। उत्तस्थुर्मेघदलना वैद्युता इव वह्नयः ॥६०॥ विलोक्य भग्नसङ्कल्पं विमनस्कं वृषध्वजम्। तदायं भगवान् विष्णुस्तत्रोपायमकल्पयत् ॥६१॥ वत्स आसीत्तदा ब्रह्मा स्वयं विष्णुरयं हि गौः। प्रविश्य त्रिपुरं काले रसकूपामृतं पपौ ॥६२॥ तेऽसुरा ह्यपि पश्यन्तो न न्यषेधन् विमोहिताः। तद्विज्ञाय महायोगी रसपालानिदं जगौ ॥६३॥ स्वयं विशोकः शोकार्तान् स्मरन् दैवगतिं च ताम्। देवोऽसुरो नरोऽन्यो वा नेश्वरोऽस्तीह कश्चन ॥६४॥ आत्मनोऽन्यस्य वा दिष्टं दैवेनापोहितुं द्वयोः। अथासौ शक्तिभिः स्वाभिः शम्भोः प्राधनिकं व्यधात्॥६५॥ धर्मज्ञानविरक्त्यृद्धितपोविद्याक्रियादिभिः। रथं सूतं ध्वजं वाहान् धनुर्वर्मशरादि यत् ॥६६॥ सन्नद्धो रथमास्थाय शरं धनुरुपाददे। शरं धनुषि सन्धाय मुहूर्तेऽभिजितीश्वरः ॥६७॥ ददाह तेन दुर्भेद्या हरोऽथ त्रिपुरो नृप। दिवि दुन्दुभयो नेदुर्विमानशतसङ्कुलाः ॥६८॥ देवर्षिपितृसिद्धेशा जयेति कुसुमोत्करैः। अवाकिरन् जगुर्हृष्टा ननृतुश्चाप्सरोगणाः ॥६९॥ एवं दग्ध्वा पुरस्तिस्रो भगवान् पुरहा नृप। ब्रह्मादिभिः स्तूयमानः स्वधाम प्रत्यपद्यत ॥७०॥ एवं विधान्यस्य हरेः स्वमायया विडम्बमानस्य नृलोकमात्मनः। वीर्याणि गीतान्यृषिभिर्जगद्गुरोर्लोकान् पुनानान्यपरं वदामि किम् ॥७१॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्धे युधिष्ठिरनारदसंवादे त्रिपुरविजयो नाम दशमोऽध्यायः॥ १० ॥

॥ एकादशोऽध्यायः - ११ ॥

श्रीशुक उवाच श्रुत्वेहितं साधुसभासभाजितं महत्तमाग्रण्य उरुक्रमात्मनः। युधिष्ठिरो दैत्यपतेर्मुदा युतः पप्रच्छ भूयस्तनयं स्वयम्भुवः ॥१॥ युधिष्ठिर उवाच भगवन् श्रोतुमिच्छामि नृणां धर्मं सनातनम्। वर्णाश्रमाचारयुतं यत्पुमान् विन्दते परम् ॥२॥ भवान् प्रजापतेः साक्षादात्मजः परमेष्ठिनः। सुतानां सम्मतो ब्रह्मंस्तपोयोगसमाधिभिः ॥३॥ नारायणपरा विप्रा धर्म गुह्यं परं विदुः। करुणाः साधवः शान्तास्त्वद्विधा न तथापरे ॥४॥ नारद उवाच नत्वा भगवतेऽजाय लोकानां धर्महेतवे । वक्ष्ये सनातनं धर्मं नारायणमुखाच्छ्रुतम् ॥५॥ योऽवतीर्यात्मनोंऽशेन दाक्षायण्यां तु धर्मतः। लोकानां स्वस्तयेऽध्यास्ते तपो बदरिकाश्रमे ॥६॥ धर्ममूलं हि भगवान् सर्ववेदमयो हरिः। स्मृतं च तद्विदां राजन् येन चात्मा प्रसीदति ॥७॥ सत्यं दया तपः शौचं तितिक्षेक्षा शमो दमः। अहिंसा ब्रह्मचर्यं च त्यागः स्वाध्याय आर्जवम् ॥८॥ सन्तोषः समदृक्सेवा ग्राम्येहोपरमः शनैः। नृणां विपर्ययेहेक्षा मौनमात्मविमर्शनम् ॥९॥ अन्नाद्यादेः संविभागो भूतेभ्यश्च यथार्हतः। तेष्वात्मदेवताबुद्धिः सुतरां नृषु पाण्डव ॥१०॥ श्रवणं कीर्तनं चास्य स्मरणं महतां गतेः। सेवेज्यावनतिर्दास्यं सख्यमात्मसमर्पणम् ॥११॥ नृणामयं परो धर्मः सर्वेषां समुदाहृतः। त्रिंशल्लक्षणवान् राजन् सर्वात्मा येन तुष्यति ॥१२॥ संस्कारा यदविच्छिन्नाः स द्विजोऽजो जगाद यम्। इज्याध्ययनदानानि विहितानि द्विजन्मनाम्। जन्मकर्मावदातानां क्रियाश्चाश्रमचोदिताः ॥१३॥ विप्रस्याध्ययनादीनि षडन्यस्याप्रतिग्रहः। राज्ञो वृत्तिः प्रजागोप्तुरविप्राद्वा करादिभिः ॥१४॥ वैश्यस्तु वार्तावृत्तिश्च नित्यं ब्रह्मकुलानुगः। शूद्रस्य द्विजशुश्रूषा वृत्तिश्च स्वामिनो भवेत् ॥१५॥ वार्ता विचित्रा शालीनयायावरशिलोञ्छनम्। विप्रवृत्तिश्चतुर्धेयं श्रेयसी चोत्तरोत्तरा ॥१६॥ जघन्यो नोत्तमां वृत्तिमनापदि भजेन्नरः। ऋते राजन्यमापत्सु सर्वेषामपि सर्वशः ॥१७॥ ऋतामृताभ्यां जीवेत मृतेन प्रमृतेन वा। सत्यानृताभ्यां जीवेत न श्ववृत्त्या कथञ्चन ॥१८॥ ऋतमुञ्छशिलं प्रोक्तममृतं यदयाचितम्। मृतं तु नित्ययाच्ञा स्यात्प्रमृतं कर्षणं स्मृतम् ॥१९॥ सत्यानृतं च वाणिज्यं श्ववृत्तिर्नीचसेवनम्। वर्जयेत्तां सदा विप्रो राजन्यश्च जुगुप्सिताम्। सर्ववेदमयो विप्रः सर्वदेवमयो नृपः ॥२०॥ शमो दमस्तपः शौचं सन्तोषः क्षान्तिरार्जवम्। ज्ञानं दयाच्युतात्मत्वं सत्यं च ब्रह्मलक्षणम् ॥२१॥ शौर्यं वीर्यं धृतिस्तेजस्त्याग आत्मजयः क्षमा। ब्रह्मण्यता प्रसादश्च रक्षा च क्षत्रलक्षणम् ॥२२॥ देवगुर्वच्युते भक्तिस्त्रिवर्गपरिपोषणम्। आस्तिक्यमुद्यमो नित्यं नैपुण्यं वैश्यलक्षणम् ॥२३॥ शूद्रस्य सन्नतिः शौचं सेवा स्वामिन्यमायया। अमन्त्रयज्ञो ह्यस्तेयं सत्यं गोविप्ररक्षणम् ॥२४॥ स्त्रीणां च पतिदेवानां तच्छुश्रूषानुकूलता। तद्बन्धुष्वनुवृत्तिश्च नित्यं तद्व्रतधारणम् ॥२५॥ सम्मार्जनोपलेपाभ्यां गृहमण्डलवर्तनैः। स्वयं च मण्डिता नित्यं परिमृष्टपरिच्छदा ॥२६॥ कामैरुच्चावचैः साध्वी प्रश्रयेण दमेन च। वाक्यैः सत्यैः प्रियैः प्रेम्णा काले काले भजेत्पतिम् ॥२७॥ सन्तुष्टालोलुपा दक्षा धर्मज्ञा प्रियसत्यवाक्। अप्रमत्ता शुचिः स्निग्धा पतिं त्वपतितं भजेत्॥२८॥ या पतिं हरिभावेन भजेच्छ्रीरिव तत्परा। हर्यात्मना हरेर्लोके पत्या श्रीरिव मोदते ॥२९॥ वृत्तिः सङ्करजातीनां तत्तत्कुलकृता भवेत्। अचौराणामपापानामन्त्यजान्तेवसायिनाम् ॥३०॥ प्रायः स्वभावविहितो नृणां धर्मो युगे युगे। वेददृग्भिः स्मृतो राजन् प्रेत्य चेह च शर्मकृत्॥३१॥ वृत्त्या स्वभावकृतया वर्तमानः स्वकर्मकृत्। हित्वा स्वभावजं कर्म शनैर्निर्गुणतामियात् ॥३२॥ उप्यमानं मुहुः क्षेत्रं स्वयं निर्वीर्यतामियात्। न कल्पते पुनः सूत्यै उप्तं बीजं च नश्यति ॥३३॥ एवं कामाशयं चित्तं कामानामतिसेवया। विरज्येत यथा राजन्नाग्निवत्कामबिन्दुभिः ॥३४॥ यस्य यल्लक्षणं प्रोक्तं पुंसो वर्णाभिव्यञ्जकम्। यदन्यत्रापि दृश्येत तत्तेनैव विनिर्दिशेत् ॥३५॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्धे युधिष्ठिरनारदसंवादे सदाचारनिर्णयो नामैकादशोऽध्यायः॥ ११ ॥

॥ द्वादशोऽध्यायः - १२ ॥

नारद उवाच ब्रह्मचारी गुरुकुले वसन् दान्तो गुरोर्हितम्। आचरन् दासवन्नीचो गुरौ सुदृढसौहृदः ॥ १॥ सायं प्रातरुपासीत गुर्वग्न्यर्कसुरोत्तमान्। उभे सन्ध्ये च यतवाग्जपन् ब्रह्म समाहितः ॥२॥ छन्दांस्यधीयीत गुरोराहूतश्चेत्सुयन्त्रितः। उपक्रमेऽवसाने च चरणौ शिरसा नमेत् ॥३॥ मेखलाजिनवासांसि जटादण्डकमण्डलून्। बिभृयादुपवीतं च दर्भपाणिर्यथोदितम् ॥४॥ सायं प्रातश्चरेद्भैक्षं गुरवे तन्निवेदयेत्। भुञ्जीत यद्यनुज्ञातो नो चेदुपवसेत्क्वचित् ॥५॥ सुशीलो मितभुग्दक्षः श्रद्दधानो जितेन्द्रियः। यावदर्थं व्यवहरेत्स्त्रीषु स्त्रीनिर्जितेषु च ॥६॥ वर्जयेत्प्रमदागाथामगृहस्थो बृहद्व्रतः। इन्द्रियाणि प्रमाथीनि हरन्त्यपि यतेर्मनः ॥७॥ केशप्रसाधनोन्मर्दस्नपनाभ्यञ्जनादिकम्। गुरुस्त्रीभिर्युवतिभिः कारयेन्नात्मनो युवा ॥८॥ नन्वग्निः प्रमदा नाम घृतकुम्भसमः पुमान्। सुतामपि रहो जह्यादन्यदा यावदर्थकृत् ॥९॥ कल्पयित्वाऽऽत्मना यावदाभासमिदमीश्वरः। द्वैतं तावन्न विरमेत्ततो ह्यस्य विपर्ययः ॥१०॥ एतत्सर्वं गृहस्थस्य समाम्नातं यतेरपि। गुरुवृत्तिर्विकल्पेन गृहस्थस्यर्तुगामिनः ॥११॥ अञ्जनाभ्यञ्जनोन्मर्दस्त्र्यवलेखामिषं मधु। स्रग्गन्धलेपालङ्कारांस्त्यजेयुर्ये धृतव्रताः ॥१२॥ उषित्वैवं गुरुकुले द्विजोऽधीत्यावबुध्य च। त्रयीं साङ्गोपनिषदं यावदर्थं यथाबलम् ॥१३॥ दत्त्वा वरमनुज्ञातो गुरोः कामं यदीश्वरः। गृहं वनं वा प्रविशेत्प्रव्रजेत्तत्र वा वसेत् ॥१४॥ अग्नौ गुरावात्मनि च सर्वभूतेष्वधोक्षजम्। भूतैः स्वधामभिः पश्येदप्रविष्टं प्रविष्टवत् ॥१५॥ एवं विधो ब्रह्मचारी वानप्रस्थो यतिर्गृही। चरन् विदितविज्ञानः परं ब्रह्माधिगच्छति ॥१६॥ वानप्रस्थस्य वक्ष्यामि नियमान् मुनिसम्मतान्। यानातिष्ठन् मुनिर्गच्छेदृषिलोकमिहाञ्जसा ॥१७॥ न कृष्टपच्यमश्नीयादकृष्टं चाप्यकालतः। अग्निपक्वमथामं वा अर्कपक्वमुताहरेत् ॥१८॥ वन्यैश्चरुपुरोडाशान् निर्वपेत्कालचोदितान्। लब्धे नवे नवेऽन्नाद्ये पुराणं तु परित्यजेत् ॥१९॥ अग्न्यर्थमेव शरणमुटजं वाद्रिकन्दराम्। श्रयेत हिमवाय्वग्निवर्षार्कातपषाट् स्वयम् ॥२०॥ केशरोमनखश्मश्रुमलानि जटिलो दधत्। कमण्डल्वजिने दण्डवल्कलाग्निपरिच्छदान् ॥२१॥ चरेद्वने द्वादशाब्दानष्टौ वा चतुरो मुनिः। द्वावेकं वा यथा बुद्धिर्न विपद्येत कृच्छ्रतः ॥२२॥ यदाकल्पः स्वक्रियायां व्याधिभिर्जरयाथवा। आन्वीक्षिक्यां वा विद्यायां कुर्यादनशनादिकम् ॥२३॥ आत्मन्यग्नीन् समारोप्य सन्न्यस्याहंममात्मताम्। कारणेषु न्यसेत्सम्यक् सङ्घातं तु यथार्हतः ॥२४॥ खे खानि वायौ निश्वासांस्तेजस्यूष्माणमात्मवान्। अप्स्वसृक्श्लेष्मपूयानि क्षितौ शेषं यथोद्भवम् ॥ २५॥ वाचमग्नौ सवक्तव्यामिन्द्रे शिल्पं करावपि। पदानि गत्या वयसि रत्योपस्थं प्रजापतौ ॥२६॥ मृत्यौ पायुं विसर्गं च यथास्थानं विनिर्दिशेत्। दिक्षु श्रोत्रं सनादेन स्पर्शमध्यात्मनि त्वचम् ॥२७॥ रूपाणि चक्षुषा राजन् ज्योतिष्यभिनिवेशयेत्। अप्सु प्रचेतसा जिह्वां घ्रेयैर्घ्राणं क्षितौ न्यसेत्॥२८॥ मनो मनोरथैश्चन्द्रे बुद्धिं बोध्यैः कवौ परे। कर्माण्यध्यात्मना रुद्रे यदहंममताक्रिया। सत्त्वेन चित्तं क्षेत्रज्ञे गुणैर्वैकारिकं परे ॥२९॥ अप्सु क्षितिमपो ज्योतिष्यदो वायौ नभस्यमुम्। कूटस्थे तच्च महति तदव्यक्तेऽक्षरे च तत् ॥३०॥ इत्यक्षरतयाऽऽत्मानं चिन्मात्रमवशेषितम्। ज्ञात्वाद्वयोऽथ विरमेद्दग्धयोनिरिवानलः ॥३१॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्धे युधिष्ठिरसंवादे सदाचारनिर्णयो नाम द्वादशोऽध्यायः ॥ १२ ॥

॥ त्रयोदशोऽध्यायः - १३ ॥

नारद उवाच कल्पस्त्वेवं परिव्रज्य देहमात्रावशेषितः। ग्रामैकरात्रविधिना निरपेक्षश्चरेन्महीम् ॥१॥ बिभृयाद्यद्यसौ वासः कौपीनाच्छादनं परम्। त्यक्तं न दण्डलिङ्गादेरन्यत्किञ्चिदनापदि ॥२॥ एक एव चरेद्भिक्षुरात्मारामोऽनपाश्रयः। सर्वभूतसुहृच्छान्तो नारायणपरायणः ॥ ३॥ पश्येदात्मन्यदो विश्वं परे सदसतोऽव्यये। आत्मानं च परं ब्रह्म सर्वत्र सदसन्मये ॥४॥ सुप्तिप्रबोधयोः सन्धावात्मनो गतिमात्मदृक्। पश्यन् बन्धं च मोक्षं च मायामात्रं न वस्तुतः ॥५॥ नाभिनन्देद्ध्रुवं मृत्युमध्रुवं वास्य जीवितम्। कालं परं प्रतीक्षेत भूतानां प्रभवाप्ययम् ॥६॥ नासच्छास्त्रेषु सज्जेत नोपजीवेत जीविकाम्। वादवादांस्त्यजेत्तर्कान् पक्षं कं च न संश्रयेत्॥७॥ न शिष्याननुबध्नीत ग्रन्थान् नैवाभ्यसेद्बहून्। न व्याख्यामुपयुञ्जीत नारम्भानारभेत्क्वचित्॥८॥ न यतेराश्रमः प्रायो धर्महेतुर्महात्मनः। शान्तस्य समचित्तस्य बिभृयादुत वा त्यजेत्॥९॥ अव्यक्तलिङ्गो व्यक्तार्थो मनीष्युन्मत्तबालवत्। कविर्मूकवदात्मानं स दृष्ट्या दर्शयेन्नृणाम् ॥१०॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम्। प्रह्लादस्य च संवादं मुनेराजगरस्य च ॥११॥ तं शयानं धरोपस्थे कावेर्यां सह्यसानुनि। रजस्वलैस्तनूदेशैर्निगूढामलतेजसम् ॥१२॥ ददर्श लोकान् विचरन् लोकतत्त्वविवित्सया। वृतोऽमात्यैः कतिपयैः प्रह्लादो भगवत्प्रियः ॥१३॥ कर्मणाऽऽकृतिभिर्वाचा लिङ्गैर्वर्णाश्रमादिभिः। न विदन्ति जना यं वै सोऽसाविति न वेति च ॥१४॥ तं नत्वाभ्यर्च्य विधिवत्पादयोः शिरसा स्पृशन्। विवित्सुरिदमप्राक्षीन्महाभागवतोऽसुरः ॥१५॥ बिभर्षि कायं पीवानं सोद्यमो भोगवान् यथा। वित्तं चैवोद्यमवतां भोगो वित्तवतामिह। भोगिनां खलु देहोऽयं पीवा भवति नान्यथा ॥१६॥ न ते शयानस्य निरुद्यमस्य ब्रह्मन् नु हार्थो यत एव भोगः। अभोगिनोऽयं तव विप्र देहः पीवा यतस्तद्वद नः क्षमं चेत् ॥१७॥ कविः कल्पो निपुणदृक् चित्रप्रियकथः समः। लोकस्य कुर्वतः कर्म शेषे तद्वीक्षितापि वा ॥१८॥ नारद उवाच स इत्थं दैत्यपतिना परिपृष्टो महामुनिः। स्मयमानस्तमभ्याह तद्वागमृतयन्त्रितः ॥१९॥ ब्राह्मण उवाच वेदेदमसुरश्रेष्ठ भवान् नन्वार्यसम्मतः। ईहोपरमयोर्नॄणां पदान्यध्यात्मचक्षुषा ॥२०॥ यस्य नारायणो देवो भगवान् हृद्गतः सदा। भक्त्या केवलयाज्ञानं धुनोति ध्वान्तमर्कवत्॥२१॥ अथापि ब्रूमहे प्रश्नांस्तव राजन् यथाश्रुतम्। सम्भावनीयो हि भवानात्मनः शुद्धिमिच्छताम् ॥२२॥ तृष्णया भववाहिन्या योग्यैः कामैरपूरया। कर्माणि कार्यमाणोऽहं नानायोनिषु योजितः ॥२३॥ यदृच्छया लोकमिमं प्रापितः कर्मभिर्भ्रमन्। स्वर्गापवर्गयोर्द्वारं तिरश्चां पुनरस्य च ॥२४॥ अत्रापि दम्पतीनां च सुखायान्यापनुत्तये। कर्माणि कुर्वतां दृष्ट्वा निवृत्तोऽस्मि विपर्ययम् ॥२५॥ सुखमस्यात्मनो रूपं सर्वेहोपरतिस्तनुः। मनःसंस्पर्शजान् दृष्ट्वा भोगान् स्वप्स्यामि संविशन् ॥२६॥ इत्येतदात्मनः स्वार्थं सन्तं विस्मृत्य वै पुमान्। विचित्रामसति द्वैते घोरामाप्नोति संसृतिम् ॥२७॥ जलं तदुद्भवैश्छन्नं हित्वाज्ञो जलकाम्यया। मृगतृष्णामुपाधावेद्यथान्यत्रार्थदृक् स्वतः ॥२८॥ देहादिभिर्दैवतन्त्रैरात्मनः सुखमीहतः। दुःखात्ययं चानीशस्य क्रिया मोघाः कृताः कृताः ॥२९॥ आध्यात्मिकादिभिर्दुःखैरविमुक्तस्य कर्हिचित्। मर्त्यस्य कृच्छ्रोपनतैरर्थैः कामैः क्रियेत किम् ॥३०॥ पश्यामि धनिनां क्लेशं लुब्धानामजितात्मनाम्। भयादलब्धनिद्राणां सर्वतोऽभिविशङ्किनाम् ॥३१॥ राजतश्चौरतः शत्रोः स्वजनात्पशुपक्षितः। अर्थिभ्यः कालतः स्वस्मान्नित्यं प्राणार्थवद्भयम् ॥३२॥ शोकमोहभयक्रोधरागक्लैब्यश्रमादयः। यन्मूलाः स्युर्नृणां जह्यात्स्पृहां प्राणार्थयोर्बुधः ॥३३॥ मधुकारमहासर्पौ लोकेऽस्मिन् नो गुरूत्तमौ। वैराग्यं परितोषं च प्राप्ता यच्छिक्षया वयम् ॥३४॥ विरागः सर्वकामेभ्यः शिक्षितो मे मधुव्रतात्। कृच्छ्राप्तं मधुवद्वित्तं हत्वाप्यन्यो हरेत्पतिम् ॥३५॥ अनीहः परितुष्टात्मा यदृच्छोपनतादहम्। नो चेच्छये बह्वहानि महाहिरिव सत्त्ववान् ॥३६॥ क्वचिदल्पं क्वचिद्भूरि भुञ्जेऽन्नं स्वाद्वस्वादु वा। क्वचिद्भूरि गुणोपेतं गुणहीनमुत क्वचित् ॥३७॥ श्रद्धयोपहृतं क्वापि कदाचिन्मानवर्जितम्। भुञ्जे भुक्त्वाथ कस्मिंश्चिद्दिवा नक्तं यदृच्छया ॥३८॥ क्षौमं दुकूलमजिनं चीरं वल्कलमेव वा। वसेऽन्यदपि सम्प्राप्तं दिष्टभुक् तुष्टधीरहम् ॥३९॥ क्वचिच्छये धरोपस्थे तृणपर्णाश्मभस्मसु। क्वचित्प्रासादपर्यङ्के कशिपौ वा परेच्छया ॥४०॥ क्वचित्स्नातोऽनुलिप्ताङ्गः सुवासाः स्रग्व्यलङ्कृतः। रथेभाश्वैश्चरे क्वापि दिग्वासा ग्रहवद्विभो ॥४१॥ नाहं निन्दे न च स्तौमि स्वभावविषमं जनम्। एतेषां श्रेय आशासे उतैकात्म्यं महात्मनि ॥४२॥ विकल्पं जुहुयाच्चित्तौ तां मनस्यर्थविभ्रमे। मनो वैकारिके हुत्वा तन्मायायां जुहोत्यनु ॥४३॥ आत्मानुभूतौ तां मायां जुहुयात्सत्यदृङ्मुनिः। ततो निरीहो विरमेत्स्वानुभूत्याऽऽत्मनि स्थितः ॥४४॥ स्वात्मवृत्तं मयेत्थं ते सुगुप्तमपि वर्णितम्। व्यपेतं लोकशास्त्राभ्यां भवान् हि भगवत्परः ॥४५॥ नारद उवाच धर्मं पारमहंस्यं वै मुनेः श्रुत्वासुरेश्वरः। पूजयित्वा ततः प्रीत आमन्त्र्य प्रययौ गृहम् ॥४६॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्धे युधिष्ठिरनारदसंवादे यतिधर्मं नाम त्रयोदशाध्यायः ॥ १३ ॥

॥ चतुर्दशोऽध्यायः - १४ ॥

युधिष्ठिर उवाच गृहस्थ एतां पदवीं विधिना येन चाञ्जसा। याति देवऋषे ब्रूहि मादृशो गृहमूढधीः ॥१॥ नारद उवाच गृहेष्ववस्थितो राजन् क्रियाः कुर्वन् गृहोचिताः। वासुदेवार्पणं साक्षादुपासीत महामुनीन् ॥२॥ शृण्वन् भगवतोऽभीक्ष्णमवतारकथामृतम्। श्रद्दधानो यथाकालमुपशान्तजनावृतः ॥३॥ सत्सङ्गाच्छनकैः सङ्गमात्मजायात्मजादिषु। विमुच्येन्मुच्यमानेषु स्वयं स्वप्नवदुत्थितः ॥४॥ यावदर्थमुपासीनो देहे गेहे च पण्डितः। विरक्तो रक्तवत्तत्र नृलोके नरतां न्यसेत् ॥५॥ ज्ञातयः पितरौ पुत्रा भ्रातरः सुहृदोऽपरे। यद्वदन्ति यदिच्छन्ति चानुमोदेत निर्ममः ॥६॥ दिव्यं भौमं चान्तरीक्षं वित्तमच्युतनिर्मितम्। तत्सर्वमुपयुञ्जान एतत्कुर्यात्स्वतो बुधः ॥७॥ यावद्भ्रियेत जठरं तावत्स्वत्वं हि देहिनाम्। अधिकं योऽभिमन्येत स स्तेनो दण्डमर्हति ॥८॥ मृगोष्ट्रखरमर्काखुसरीसृप्खगमक्षिकाः। आत्मनः पुत्रवत्पश्येत्तैरेषामन्तरं कियत् ॥९॥ त्रिवर्गं नातिकृच्छ्रेण भजेत गृहमेध्यपि। यथादेशं यथाकालं यावद्दैवोपपादितम् ॥१०॥ आश्वाघान्तेऽवसायिभ्यः कामान् संविभजेद्यथा। अप्येकामात्मनो दारां नृणां स्वत्वग्रहो यतः ॥११॥ जह्याद्यदर्थे स्वप्राणान् हन्याद्वा पितरं गुरुम्। तस्यां स्वत्वं स्त्रियां जह्याद्यस्तेन ह्यजितो जितः ॥१२॥ कृमिविड्भस्मनिष्ठान्तं क्वेदं तुच्छं कलेवरम्। क्व तदीयरतिर्भार्या क्वायमात्मा नभश्छदिः ॥१३॥ सिद्धैर्यज्ञावशिष्टार्थैः कल्पयेद्वृत्तिमात्मनः। शेषे स्वत्वं त्यजन् प्राज्ञः पदवीं महतामियात्॥१४॥ देवान् ऋषीन् नृभूतानि पितॄनात्मानमन्वहम्। स्ववृत्त्यागतवित्तेन यजेत पुरुषं पृथक् ॥१५॥ यर्ह्यात्मनोऽधिकाराद्याः सर्वाः स्युर्यज्ञसम्पदः। वैतानिकेन विधिना अग्निहोत्रादिना यजेत् ॥१६॥ न ह्यग्निमुखतोयं वै भगवान् सर्वयज्ञभुक्। इज्येत हविषा राजन् यथा विप्रमुखे हुतैः ॥१७॥ तस्माद्ब्राह्मणदेवेषु मर्त्यादिषु यथार्हतः। तैस्तैः कामैर्यजस्वैनं क्षेत्रज्ञं ब्राह्मणाननु ॥१८॥ कुर्यादापरपक्षीयं मासि प्रौष्ठपदे द्विजः। श्राद्धं पित्रोर्यथावित्तं तद्बन्धूनां च वित्तवान् ॥१९॥ अयने विषुवे कुर्याद्व्यतीपाते दिनक्षये। चन्द्रादित्योपरागे च द्वादशीश्रवणेषु च ॥२०॥ तृतीयायां शुक्लपक्षे नवम्यामथ कार्तिके। चतसृष्वप्यष्टकासु हेमन्ते शिशिरे तथा ॥२१॥ माघे च सितसप्तम्यां मघाराकासमागमे। राकया चानुमत्या वा मासर्क्षाणि युतान्यपि ॥२२॥ द्वादश्यामनुराधा स्याच्छ्रवणस्तिस्र उत्तराः। तिसृष्वेकादशी वाऽऽसु जन्मर्क्षश्रोणयोगयुक् ॥२३॥ त एते श्रेयसः काला नृणां श्रेयोविवर्धनाः। कुर्यात्सर्वात्मनैतेषु श्रेयोऽमोघं तदायुषः ॥२४॥ एषु स्नानं जपो होमो व्रतं देवद्विजार्चनम्। पितृदेवनृभूतेभ्यो यद्दत्तं तद्ध्यनश्वरम् ॥२५॥ संस्कारकालो जायाया अपत्यस्यात्मनस्तथा। प्रेतसंस्था मृताहश्च कर्मण्यभ्युदये नृप ॥२६॥ अथ देशान् प्रवक्ष्यामि धर्मादिश्रेय आवहन् । स वै पुण्यतमो देशः सत्पात्रं यत्र लभ्यते ॥२७॥ बिम्बं भगवतो यत्र सर्वमेतच्चराचरम्। यत्र ह ब्राह्मणकुलं तपोविद्यादयान्वितम् ॥२८॥ यत्र यत्र हरेरर्चा स देशः श्रेयसां पदम्। यत्र गङ्गादयो नद्यः पुराणेषु च विश्रुताः ॥२९॥ सरांसि पुष्करादीनि क्षेत्राण्यर्हाश्रितान्युत। कुरुक्षेत्रं गयशिरः प्रयागः पुलहाश्रमः ॥३०॥ नैमिषं फाल्गुनं सेतुः प्रभासोऽथ कुशस्थली। वाराणसी मधुपुरी पम्पा बिन्दुसरस्तथा ॥३१॥ नारायणाश्रमो नन्दा सीतारामाश्रमादयः। सर्वे कुलाचला राजन् महेन्द्रमलयादयः ॥३२॥ एते पुण्यतमा देशा हरेरर्चाश्रिताश्च ये। एतान् देशान् निषेवेत श्रेयस्कामो ह्यभीक्ष्णशः। धर्मो ह्यत्रेहितः पुंसां सहस्राधिफलोदयः ॥३३॥ पात्रं त्वत्र निरुक्तं वै कविभिः पात्रवित्तमैः। हरिरेवैक उर्वीश यन्मयं वै चराचरम् ॥३४॥ देवर्ष्यर्हत्सु वै सत्सु तत्र ब्रह्मात्मजादिषु। राजन् यदग्रपूजायां मतः पात्रतयाच्युतः ॥३५॥ जीवराशिभिराकीर्ण आण्डकोशाङ्घ्रिपो महान्। तन्मूलत्वादच्युतेज्या सर्वजीवात्मतर्पणम् ॥३६॥ पुराण्यनेन सृष्टानि नृतिर्यगृषिदेवताः। शेते जीवेन रूपेण पुरेषु पुरुषो ह्यसौ ॥३७॥ तेष्वेषु भगवान् राजंस्तारतम्येन वर्तते। तस्मात्पात्रं हि पुरुषो यावानात्मा यथेयते ॥३८॥ दृष्ट्वा तेषां मिथो नृणामवज्ञानात्मतां नृप। त्रेतादिषु हरेरर्चा क्रियायै कविभिः कृता ॥३९॥ ततोऽर्चायां हरिं केचित्संश्रद्धाय सपर्यया। उपासत उपास्तापि नार्थदा पुरुषद्विषाम् ॥४०॥ पुरुषेष्वपि राजेन्द्र सुपात्रं ब्राह्मणं विदुः। तपसा विद्यया तुष्ट्या धत्ते वेदं हरेस्तनुम् ॥४१॥ नन्वस्य ब्राह्मणा राजन् कृष्णस्य जगदात्मनः। पुनन्तः पादरजसा त्रिलोकीं दैवतं महत् ॥४२॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्धे सदाचारनिर्णयो चतुर्दशोऽध्यायः॥ १४ ॥

॥ पञ्चदशोऽध्यायः - १५ ॥

नारद उवाच कर्मनिष्ठा द्विजाः केचित्तपोनिष्ठा नृपापरे। स्वाध्यायेऽन्ये प्रवचने ये केचिज्ज्ञानयोगयोः ॥१॥ ज्ञाननिष्ठाय देयानि कव्यान्यानन्त्यमिच्छता। दैवे च तदभावे स्यादितरेभ्यो यथार्हतः ॥२॥ द्वौ दैवे पितृकार्ये त्रीनेकैकमुभयत्र वा। भोजयेत्सुसमृद्धोऽपि श्राद्धे कुर्यान्न विस्तरम् ॥३॥ देशकालोचितश्रद्धा द्रव्यपात्रार्हणानि च। सम्यग्भवन्ति नैतानि विस्तरात्स्वजनार्पणात्॥४॥ देशे काले च सम्प्राप्ते मुन्यन्नं हरिदैवतम्। श्रद्धया विधिवत्पात्रे न्यस्तं कामधुगक्षयम् ॥५॥ देवर्षिपितृभूतेभ्य आत्मने स्वजनाय च। अन्नं संविभजन् पश्येत्सर्वं तत्पुरुषात्मकम् ॥६॥ न दद्यादामिषं श्राद्धे न चाद्याद्धर्मतत्त्ववित्। मुन्यन्नैः स्यात्परा प्रीतिर्यथा न पशुहिंसया ॥७॥ नैतादृशः परो धर्मो नृणां सद्धर्ममिच्छताम्। न्यासो दण्डस्य भूतेषु मनोवाक्कायजस्य यः ॥८॥ एके कर्ममयान् यज्ञान् ज्ञानिनो यज्ञवित्तमाः। आत्मसंयमनेऽनीहा जुह्वति ज्ञानदीपिते ॥९॥ द्रव्ययज्ञैर्यक्ष्यमाणं दृष्ट्वा भूतानि बिभ्यति। एष माकरुणो हन्यादतज्ज्ञो ह्यसुतृप् ध्रुवम् ॥१०॥ तस्माद्दैवोपपन्नेन मुन्यन्नेनापि धर्मवित्। सन्तुष्टोऽहरहः कुर्यान्नित्यनैमित्तिकीः क्रियाः ॥११॥ विधर्मः परधर्मश्च आभास उपमा छलः। अधर्मशाखाः पञ्चेमा धर्मज्ञोऽधर्मवत्त्यजेत्॥१२॥ धर्मबाधो विधर्मः स्यात्परधर्मोऽन्यचोदितः। उपधर्मस्तु पाखण्डो दम्भो वा शब्दभिच्छलः ॥१३॥ यस्त्विच्छया कृतः पुम्भिराभासो ह्याश्रमात्पृथक्। स्वभावविहितो धर्मः कस्य नेष्टः प्रशान्तये ॥१४॥ धर्मार्थमपि नेहेत यात्रार्थं वाधनो धनम्। अनीहानीहमानस्य महाहेरिव वृत्तिदा ॥१५॥ सन्तुष्टस्य निरीहस्य स्वात्मारामस्य यत्सुखम्। कुतस्तत्कामलोभेन धावतोऽर्थेहया दिशः ॥१६॥ सदा सन्तुष्टमनसः सर्वाः सुखमया दिशः। शर्कराकण्टकादिभ्यो यथोपानत्पदः शिवम् ॥१७॥ सन्तुष्टः केन वा राजन्न वर्तेतापि वारिणा। औपस्थ्यजैह्व्यकार्पण्याद्गृहपालायते जनः ॥१८॥ असन्तुष्टस्य विप्रस्य तेजो विद्या तपो यशः। स्रवन्तीन्द्रियलौल्येन ज्ञानं चैवावकीर्यते ॥१९॥ कामस्यान्तं च क्षुत्तृड्भ्यां क्रोधस्यैतत्फलोदयात्। जनो याति न लोभस्य जित्वा भुक्त्वा दिशो भुवः॥२०॥ पण्डिता बहवो राजन् बहुज्ञाः संशयच्छिदः। सदसस्पतयोऽप्येके असन्तोषात्पतन्त्यधः ॥२१॥ असङ्कल्पाज्जयेत्कामं क्रोधं कामविवर्जनात्। अर्थानर्थेक्षया लोभं भयं तत्त्वावमर्शनात् ॥२२॥ आन्वीक्षिक्या शोकमोहौ दम्भं महदुपासया। योगान्तरायान् मौनेन हिंसां कायाद्यनीहया ॥२३॥ कृपया भूतजं दुःखं दैवं जह्यात्समाधिना। आत्मजं योगवीर्येण निद्रां सत्त्वनिषेवया ॥२४॥ रजस्तमश्च सत्त्वेन सत्त्वं चोपशमेन च। एतत्सर्वं गुरौ भक्त्या पुरुषो ह्यञ्जसा जयेत् ॥२५॥ यस्य साक्षाद्भगवति ज्ञानदीपप्रदे गुरौ। मर्त्यासद्धीः श्रुतं तस्य सर्वं कुञ्जरशौचवत् ॥२६॥ एष वै भगवान् साक्षात्प्रधानपुरुषेश्वरः। योगेश्वरैर्विमृग्याङ्घ्रिर्लोको यं मन्यते नरम् ॥२७॥ षड्वर्गसंयमैकान्ताः सर्वा नियमचोदनाः। तदन्ता यदि नो योगानावहेयुः श्रमावहाः ॥२८॥ यथा वार्तादयो ह्यर्था योगस्यार्थं न बिभ्रति। अनर्थाय भवेयुस्ते पूर्तमिष्टं तथासतः ॥२९॥ यश्चित्तविजये यत्तः स्यान्निःसङ्गोऽपरिग्रहः। एको विविक्तशरणो भिक्षुर्भिक्षामिताशनः ॥३०॥ देशे शुचौ समे राजन् संस्थाप्यासनमात्मनः। स्थिरं समं सुखं तस्मिन्नासीतर्ज्वङ्ग ओमिति ॥३१॥ प्राणापानौ सन्निरुध्यात्पूरकुम्भकरेचकैः। यावन्मनस्त्यजेत्कामान् स्वनासाग्रनिरीक्षणः ॥३२॥ यतो यतो निःसरति मनः कामहतं भ्रमत्। ततस्तत उपाहृत्य हृदि रुन्ध्याच्छनैर्बुधः ॥३३॥ एवमभ्यस्यतश्चित्तं कालेनाल्पीयसा यतेः। अनिशं तस्य निर्वाणं यात्यनिन्धनवह्निवत् ॥३४॥ कामादिभिरनाविद्धं प्रशान्ताखिलवृत्ति यत्। चित्तं ब्रह्मसुखस्पृष्टं नैवोत्तिष्ठेत कर्हिचित् ॥३५॥ यः प्रव्रज्य गृहात्पूर्वं त्रिवर्गावपनात्पुनः। यदि सेवेत तान् भिक्षुः स वै वान्ताश्यपत्रपः ॥३६॥ यैः स्वदेहः स्मृतो नात्मा मर्त्यो विट्कृमिभस्मसात्। त एनमात्मसात्कृत्वा श्लाघयन्ति ह्यसत्तमाः ॥३७॥ गृहस्थस्य क्रियात्यागो व्रतत्यागो वटोरपि। तपस्विनो ग्रामसेवा भिक्षोरिन्द्रियलोलता ॥३८॥ आश्रमापसदा ह्येते खल्वाश्रमविडम्बकाः । देवमायाविमूढांस्तानुपेक्षेतानुकम्पया ॥ ३९॥ आत्मानं चेद्विजानीयात्परं ज्ञानधुताशयः। किमिच्छन् कस्य वा हेतोर्देहं पुष्णाति लम्पटः ॥४०॥ आहुः शरीरं रथमिन्द्रियाणि हयानभीषून् मन इन्द्रियेशम्। वर्त्मानि मात्रा धिषणां च सूतं सत्त्वं बृहद्बन्धुरमीशसृष्टम् ॥४१॥ अक्षं दशप्राणमधर्मधर्मौ चक्रेऽभिमानं रथिनं च जीवम्। धनुर्हि तस्य प्रणवं पठन्ति शरं तु जीवं परमेव लक्ष्यम् ॥४२॥ रागो द्वेषश्च लोभश्च शोकमोहौ भयं मदः। मानोऽवमानोऽसूया च माया हिंसा च मत्सरः ॥४३॥ रजः प्रमादः क्षुन्निद्रा शत्रवस्त्वेवमादयः। रजस्तमःप्रकृतयः सत्त्वप्रकृतयः क्वचित् ॥४४॥ यावन्नृ&कायरथमात्मवशोपकल्पं धत्ते गरिष्ठचरणार्चनया निशातम्, ज्ञानासिमच्युतबलो दधदस्तशत्रुः स्वाराज्यतुष्ट उपशान्त इदं विजह्यात् ।४५॥ नोचेत्प्रमत्तमसदिन्द्रियवाजिसूता नीत्वोत्पथं विषयदस्युषु निक्षिपन्ति, ते दस्यवः सहयसूतममुं तमोऽन्धे संसारकूप उरुमृत्युभये क्षिपन्ति ॥४६॥ प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम्। आवर्तते प्रवृत्तेन निवृत्तेनाश्नुतेऽमृतम् ॥४७॥ हिंस्रं द्रव्यमयं काम्यमग्निहोत्राद्यशान्तिदम्। दर्शश्च पूर्णमासश्च चातुर्मास्यं पशुः सुतः ॥४८॥ एतदिष्टं प्रवृत्ताख्यं हुतं प्रहुतमेव च। पूर्तं सुरालयारामकूपाजीव्यादिलक्षणम् ॥४९॥ द्रव्यसूक्ष्मविपाकश्च धूमो रात्रिरपक्षयः। अयनं दक्षिणं सोमो दर्श ओषधिवीरुधः ॥५०॥ अन्नं रेत इति क्ष्मेश पितृयानं पुनर्भवः। एकैकश्येनानुपूर्वं भूत्वा भूत्वेह जायते ।५१॥ निषेकादिश्मशानान्तैः संस्कारैः संस्कृतो द्विजः। इन्द्रियेषु क्रियायज्ञान् ज्ञानदीपेषु जुह्वति ॥५२॥ इन्द्रियाणि मनस्यूर्मौ वाचि वैकारिकं मनः। वाचं वर्णसमाम्नाये तमोंकारे स्वरे न्यसेत्। ओंकारं बिन्दौ नादे तं तं तु प्राणे महत्यमुम् ॥५३॥ अग्निः सूर्यो दिवा प्राह्णः शुक्लो राकोत्तरं स्वराट्। विश्वश्च तैजसः प्राज्ञस्तुर्य आत्मा समन्वयात्॥५४॥ देवयानमिदं प्राहुर्भूत्वा भूत्वानुपूर्वशः। आत्मयाज्युपशान्तात्मा ह्यात्मस्थो न निवर्तते ॥५५॥ य एते पितृदेवानामयने वेदनिर्मिते। शास्त्रेण चक्षुषा वेद जनस्थोऽपि न मुह्यति ॥५६॥ आदावन्ते जनानां सद्बहिरन्तः परावरम्। ज्ञानं ज्ञेयं वचो वाच्यं तमो ज्योतिस्त्वयं स्वयम् ॥५७॥ आबाधितोऽपि ह्याभासो यथा वस्तुतया स्मृतः। दुर्घटत्वादैन्द्रियकं तद्वदर्थविकल्पितम् ॥५८॥ क्षित्यादीनामिहार्थानां छाया न कतमापि हि। न सङ्घातो विकारोऽपि न पृथङ् नान्वितो मृषा ॥५९॥ धातवोऽवयवित्वाच्च तन्मात्रावयवैर्विना। न स्युर्ह्यसत्यवयविन्यसन्नवयवोऽन्ततः ॥६०॥ स्यात्सादृश्यभ्रमस्तावद्विकल्पे सति वस्तुनः। जाग्रत्स्वापौ यथा स्वप्ने तथा विधिनिषेधता ॥६१॥ भावाद्वैतं क्रियाद्वैतं द्रव्याद्वैतं तथाऽऽत्मनः। वर्तयन् स्वानुभूत्येह त्रीन् स्वप्नान् धुनुते मुनिः ॥६२॥ कार्यकारणवस्त्वैक्यमर्शनं पटतन्तुवत्। अवस्तुत्वाद्विकल्पस्य भावाद्वैतं तदुच्यते ॥६३॥ यद्ब्रह्मणि परे साक्षात्सर्वकर्मसमर्पणम्। मनोवाक्तनुभिः पार्थ क्रियाद्वैतं तदुच्यते ॥६४॥ आत्मजायासुतादीनामन्येषां सर्वदेहिनाम्। यत्स्वार्थकामयोरैक्यं द्रव्याद्वैतं तदुच्यते ॥६५॥ यद्यस्य वानिषिद्धं स्याद्येन यत्र यतो नृप। स तेनेहेत कार्याणि नरो नान्यैरनापदि ॥६६॥ एतैरन्यैश्च वेदोक्तैर्वर्तमानः स्वकर्मभिः। गृहेऽप्यस्य गतिं यायाद्राजंस्तद्भक्तिभाङ् नरः ॥६७॥ यथा हि यूयं नृपदेव दुस्त्यजा- दापद्गणादुत्तरतात्मनः प्रभोः। यत्पादपङ्केरुहसेवया भवा- नहारषीन्निर्जितदिग्गजः क्रतून् ॥६८॥ अहं पुराभवं कश्चिद्गन्धर्व उपबर्हणः। नाम्नातीते महाकल्पे गन्धर्वाणां सुसम्मतः ॥६९॥ रूपपेशलमाधुर्यसौगन्ध्यप्रियदर्शनः। स्त्रीणां प्रियतमो नित्यं मत्तः स्वपुरुलम्पटः ।७०॥ एकदा देवसत्रे तु गन्धर्वाप्सरसां गणाः। उपहूता विश्वसृग्भिर्हरिगाथोपगायने ॥७१॥ अहं च गायंस्तद्विद्वान् स्त्रीभिः परिवृतो गतः। ज्ञात्वा विश्वसृजस्तन्मे हेलनं शेपुरोजसा। याहि त्वं शूद्रतामाशु नष्टश्रीः कृतहेलनः ॥७२॥ तावद्दास्यामहं जज्ञे तत्रापि ब्रह्मवादिनाम्। शुश्रूषयानुषङ्गेण प्राप्तोऽहं ब्रह्मपुत्रताम् ॥७३॥ धर्मस्ते गृहमेधीयो वर्णितः पापनाशनः। गृहस्थो येन पदवीमञ्जसा न्यासिनामियात् ॥७४॥ यूयं नृलोके बत भूरिभागा लोकं पुनाना मुनयोऽभियन्ति। येषां गृहानावसतीति साक्षाद्गूढं परं ब्रह्म मनुष्यलिङ्गम् ॥७५॥ स वा अयं ब्रह्म महद्विमृग्यं कैवल्यनिर्वाणसुखानुभूतिः। प्रियः सुहृद्वः खलु मातुलेय आत्मार्हणीयो विधिकृद्गुरुश्च ॥७६॥ न यस्य साक्षाद्भवपद्मजादिभी रूपं धिया वस्तुतयोपवर्णितम्। मौनेन भक्त्योपशमेन पूजितः प्रसीदतामेष स सात्वतां पतिः ॥७७॥ श्रीशुक उवाच इति देवर्षिणा प्रोक्तं निशम्य भरतर्षभः। पूजयामास सुप्रीतः कृष्णं च प्रेमविह्वलः ॥७८॥ कृष्णपार्थावुपामन्त्र्य पूजितः प्रययौ मुनिः। श्रुत्वा कृष्णं परं ब्रह्म पार्थः परमविस्मितः ॥७९॥ इति दाक्षायिणीनां ते पृथग्वंशा प्रकीर्तिताः। देवासुरमनुष्याद्या लोका यत्र चराचराः ॥८०॥ इति श्रीमद्भागवते महापुराणे वैयासक्यामष्टादशसाहस्र्यां पारमहंस्यां संहितायां सप्तमस्कन्धे युधिष्ठिरनारदसंवादे सदाचारनिर्णयो नाम पञ्चदशोऽध्यायः॥१५॥

॥ इति सप्तमस्कन्धः समाप्तः ॥

ॐ तत्सत् ॥


GRETIL txt edited as per Gita Press edition along with paaThabheda by PSA Easwaran

% Text title            : shrImadbhAgavatam - 07 - saptamaskandhaH 
% File name             : bhagpur-07.txt
% itxtitle              : shrImadbhAgavatam - 07 - saptamaskandhaH 
% engtitle              : shrImadbhAgavatam - saptamaskandhaH 
% Category              : purana, shrimadbhagavatam, vyAsa, krishna
% Location              : doc_purana
% Sublocation           : purana
% Language              : Sanskrit
% Subject               : hinduism/religion
% Latest update         : July 31, 2017, July 16, 2010
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP