॥ श्रीमद्भागवतम् - अष्टमस्कन्धः ॥

॥ ॐ नमो भगवते वासुदेवाय ॥

॥ अष्टमस्कन्धः ॥

॥ प्रथमोऽध्यायः - १ ॥

राजोवाच स्वायम्भुवस्येह गुरो वंशोऽयं विस्तराच्छ्रुतः। यत्र विश्वसृजां सर्गो मनूनन्यान् वदस्व नः ॥१॥ यत्र यत्र हरेर्जन्म कर्माणि च महीयसः। गृणन्ति कवयो ब्रह्मंस्तानि नो वद शृण्वताम् ॥२॥ यद्यस्मिन्नन्तरे ब्रह्मन् भगवान् विश्वभावनः। कृतवान् कुरुते कर्ता ह्यतीतेऽनागतेऽद्य वा ॥३॥ ऋषिरुवाच मनवोऽस्मिन् व्यतीताः षट् कल्पे स्वायम्भुवादयः। आद्यस्ते कथितो यत्र देवादीनां च सम्भवः ॥४॥ आकूत्यां देवहूत्यां च दुहित्रोस्तस्य वै मनोः। धर्मज्ञानोपदेशार्थं भगवान् पुत्रतां गतः ॥५॥ कृतं पुरा भगवतः कपिलस्यानुवर्णितम्। आख्यास्ये भगवान् यज्ञो यच्चकार कुरूद्वह ॥६॥ विरक्तः कामभोगेषु शतरूपापतिः प्रभुः। विसृज्य राज्यं तपसे सभार्यो वनमाविशत् ॥७॥ सुनन्दायां वर्षशतं पदैकेन भुवं स्पृशन्। तप्यमानस्तपो घोरमिदमन्वाह भारत ॥८॥ मनुरुवाच येन चेतयते विश्वं विश्वं चेतयते न यम्। यो जागर्ति शयानेऽस्मिन्नायं तं वेद वेद सः ॥९॥ आत्मावास्यमिदं विश्वं यत्किञ्चिज्जगत्यां जगत्। तेन त्यक्तेन भुञ्जीथा मा गृधः कस्य स्विद्धनम् ॥१०॥ यं न पश्यति? पश्यन्तं चक्षुर्यस्य न रिष्यति। तं भूतनिलयं देवं सुपर्णमुपधावत ॥११॥ न यस्याद्यन्तौ मध्यं च स्वः परो नान्तरं बहिः। विश्वस्यामूनि यद्यस्माद्विश्वं च तदृतं महत् ॥१२॥ स विश्वकायः पुरुहूत ईशः सत्यः स्वयंज्योतिरजः पुराणः। धत्तेऽस्य जन्माद्यजयाऽऽत्मशक्त्या तां विद्ययोदस्य निरीह आस्ते ॥१३॥ अथाग्रे ऋषयः कर्माणीहन्तेऽकर्महेतवे। ईहमानो हि पुरुषः प्रायोऽनीहां प्रपद्यते ॥१४॥ ईहते भगवानीशो न हि तत्र विषज्जते। आत्मलाभेन पूर्णार्थो नावसीदन्ति येऽनु तम् ॥१५॥ तमीहमानं निरहङ्कृतं बुधं निराशिषं पूर्णमनन्यचोदितम्। नॄन् शिक्षयन्तं निजवर्त्मसंस्थितं प्रभुं प्रपद्येऽखिलधर्मभावनम् ॥१६॥ श्रीशुक उवाच इति मन्त्रोपनिषदं व्याहरन्तं समाहितम्। दृष्ट्वासुरा यातुधाना जग्धुमभ्यद्रवन् क्षुधा ॥१७॥ तांस्तथावसितान् वीक्ष्य यज्ञः सर्वगतो हरिः। यामैः परिवृतो देवैर्हत्वाशासत्त्रिविष्टपम् ॥१८॥ स्वारोचिषो द्वितीयस्तु मनुरग्नेः सुतोऽभवत्। द्युमत्सुषेणरोचिष्मत्प्रमुखास्तस्य चात्मजाः ॥१९॥ तत्रेन्द्रो रोचनस्त्वासीद्देवाश्च तुषितादयः। ऊर्जस्तम्भादयः सप्त ऋषयो ब्रह्मवादिनः ॥२०॥ ऋषेस्तु वेदशिरसस्तुषिता नाम पत्न्यभूत्। तस्यां जज्ञे ततो देवो विभुरित्यभिविश्रुतः ॥२१॥ अष्टाशीतिसहस्राणि मुनयो ये धृतव्रताः। अन्वशिक्षन् व्रतं तस्य कौमारब्रह्मचारिणः ॥२२॥ तृतीय उत्तमो नाम प्रियव्रतसुतो मनुः। पवनः सृञ्जयो यज्ञहोत्राद्यास्तत्सुता नृप ॥२३॥ वसिष्ठतनयाः सप्त ऋषयः प्रमदादयः। सत्या वेदश्रुता भद्रा देवा इन्द्रस्तु सत्यजित् ॥२४॥ धर्मस्य सूनृतायां तु भगवान् पुरुषोत्तमः। सत्यसेन इति ख्यातो जातः सत्यव्रतैः सह ॥२५॥ सोऽनृतव्रतदुःशीलानसतो यक्षराक्षसान्। भूतद्रुहो भूतगणांस्त्ववधीत्सत्यजित्सखः ॥२६॥ चतुर्थ उत्तमभ्राता मनुर्नाम्ना च तामसः। पृथुः ख्यातिर्नरः केतुरित्याद्या दश तत्सुताः ॥२७॥ सत्यका हरयो वीरा देवास्त्रिशिख ईश्वरः। ज्योतिर्धामादयः सप्त ऋषयस्तामसेऽन्तरे ॥२८॥ देवा वैधृतयो नाम विधृतेस्तनया नृप। नष्टाः कालेन यैर्वेदा विधृताः स्वेन तेजसा ॥२९॥ तत्रापि जज्ञे भगवान् हरिण्यां हरिमेधसः। हरिरित्याहृतो येन गजेन्द्रो मोचितो ग्रहात् ॥३०॥ राजोवाच बादरायण एतत्ते श्रोतुमिच्छामहे वयम्। हरिर्यथा गजपतिं ग्राहग्रस्तममूमुचत् ॥३१॥ तत्कथा सुमहत्पुण्यं धन्यं स्वस्त्ययनं शुभम्। यत्र यत्रोत्तमश्लोको भगवान् गीयते हरिः ॥३२॥ सूत उवाच परीक्षितैवं स तु बादरायणिः प्रायोपविष्टेन कथासु चोदितः। उवाच विप्राः प्रतिनन्द्य पार्थिवं मुदा मुनीनां सदसि स्म शृण्वताम् ॥३३॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे मन्वन्तरानुचरिते प्रथमोऽध्यायः ॥ १ ॥

॥ द्वितीयोऽध्यायः - २ ॥

श्रीशुक उवाच आसीद्गिरिवरो राजंस्त्रिकूट इति विश्रुतः। क्षीरोदेनावृतः श्रीमान् योजनायुतमुच्छ्रितः ॥१॥ तावता विस्तृतः पर्यक् त्रिभिः शृङ्गैः पयोनिधिम्। दिशः खं रोचयन्नास्ते रौप्यायसहिरण्मयैः ॥२॥ अन्यैश्च ककुभः सर्वा रत्नधातुविचित्रितैः। नानाद्रुमलतागुल्मैर्निर्घोषैर्निर्झराम्भसाम् ॥३॥ स चावनिज्यमानाङ्घ्रिः समन्तात्पयऊर्मिभिः। करोति श्यामलां भूमिं हरिण्मरकताश्मभिः ॥४॥ सिद्धचारणगन्धर्वविद्याधरमहोरगैः। किन्नरैरप्सरोभिश्च क्रीडद्भिर्जुष्टकन्दरः ॥५॥ यत्र सङ्गीतसन्नादैर्नदद्गुहममर्षया। अभिगर्जन्ति हरयः श्लाघिनः परशङ्कया ॥६॥ नानारण्यपशुव्रातसङ्कुलद्रोण्यलङ्कृतः। चित्रद्रुमसुरोद्यानकलकण्ठविहङ्गमः ॥७॥ सरित्सरोभिरच्छोदैः पुलिनैर्मणिवालुकैः। देवस्त्रीमज्जनामोदसौरभाम्ब्वनिलैर्युतः ॥८॥ तस्य द्रोण्यां भगवतो वरुणस्य महात्मनः। उद्यानमृतुमन्नाम आक्रीडं सुरयोषिताम् ॥९॥ सर्वतोऽलङ्कृतं दिव्यैर्नित्यं पुष्पफलद्रुमैः। मन्दारैः पारिजातैश्च पाटलाशोकचम्पकैः ॥१०॥ चूतैः प्रियालैः पनसैराम्रैराम्रातकैरपि। क्रमुकैर्नालिकेरैश्च खर्जूरैर्बीजपूरकैः ॥११॥ मधूकैः शालतालैश्च तमालैरसनार्जुनैः। अरिष्टोदुम्बरप्लक्षैर्वटैः किंशुकचन्दनैः ॥१२॥ पिचुमन्दैः कोविदारैः सरलैः सुरदारुभिः। द्राक्षेक्षुरम्भाजम्बूभिर्बदर्यक्षाभयामलैः ॥१३॥ बिल्वैः कपित्थैर्जम्बीरैर्वृतो भल्लातकादिभिः। तस्मिन् सरः सुविपुलं लसत्काञ्चनपङ्कजम् ॥१४॥ कुमुदोत्पलकह्लारशतपत्रश्रियोर्जितम्। मत्तष?ट्पदनिर्घुष्टं शकुन्तैश्च कलस्वनैः ॥१५॥ हंसकारण्डवाकीर्णं चक्राह्वैः सारसैरपि। जलकुक्कुटकोयष्टिदात्यूहकुलकूजितम् ॥१६॥ मत्स्यकच्छपसञ्चारचलत्पद्मरजःपयः। कदम्बवेतसनलनीपवञ्जुलकैर्वृतम् ॥१७॥ कुन्दैः कुरबकाशोकैः शिरीषैः कुटजेङ्गुदैः। कुब्जकैः स्वर्णयूथीभिर्नागपुन्नागजातिभिः ॥१८॥ मल्लिकाशतपत्रैश्च माधवीजालकादिभिः। शोभितं तीरजैश्चान्यैर्नित्यर्तुभिरलं द्रुमैः ॥१९॥ तत्रैकदा तद्गिरिकाननाश्रयः करेणुभिर्वारणयूथपश्चरन्। सकण्टकान् कीचकवेणुवेत्रव- द्विशालगुल्मं प्ररुजन् वनस्पतीन् ॥२०॥ यद्गन्धमात्राद्धरयो गजेन्द्रा व्याघ्रादयो व्यालमृगाः सखड्गाः। महोरगाश्चापि भयाद्द्रवन्ति सगौरकृष्णाः शरभाश्चमर्यः ॥२१॥ वृका वराहा महिषर्क्षशल्या गोपुच्छसालावृकमर्कटाश्च। अन्यत्र क्षुद्रा हरिणाः शशादय- श्चरन्त्यभीता यदनुग्रहेण ॥२२॥ स घर्मतप्तः करिभिः करेणुभिर्वृतो मदच्युत्करभैरनुद्रुतः। गिरिं गरिम्णा परितः प्रकम्पयन् निषेव्यमाणोऽलिकुलैर्मदाशनैः ॥२३॥ सरोऽनिलं पङ्कजरेणुरूषितं जिघ्रन् विदूरान्मदविह्वलेक्षणः। वृतः स्वयूथेन तृषार्दितेन तत्सरोवराभ्याशमथागमद्द्रुतम् ॥२४॥ विगाह्य तस्मिन्नमृताम्बु निर्मलं हेमारविन्दोत्पलरेणुवासितम्। पपौ निकामं निजपुष्करोद्धृत- मात्मानमद्भिः स्नपयन् गतक्लमः ॥२५॥ स्वपुष्करेणोद्धृतशीकराम्बुभि- र्निपाययन् संस्नपयन् यथा गृही। घृणी करेणुः कलभांश्च दुर्मदो नाचष्ट कृच्छ्रं कृपणोऽजमायया ॥२६॥ तं तत्र कश्चिन्नृप दैवचोदितो ग्राहो बलीयांश्चरणे रुषाग्रहीत्। यदृच्छयैवं व्यसनं गतो गजो यथाबलं सोऽतिबलो विचक्रमे ॥२७॥ तथाऽऽतुरं यूथपतिं करेणवो विकृष्यमाणं तरसा बलीयसा। विचुक्रुशुर्दीनधियोऽपरे गजाः पार्ष्णिग्रहास्तारयितुं न चाशकन् ॥२८॥ नियुध्यतोरेवमिभेन्द्रनक्रयो- र्विकर्षतोरन्तरतो बहिर्मिथः। समाः सहस्रं व्यगमन् महीपते सप्राणयोश्चित्रममंसतामराः ॥२९॥ ततो गजेन्द्रस्य मनोबलौजसां कालेन दीर्घेण महानभूद्व्ययः। विकृष्यमाणस्य जलेऽवसीदतो विपर्ययोऽभूत्सकलं जलौकसः ॥३०॥ इत्थं गजेन्द्रः स यदाऽऽप सङ्कटं प्राणस्य देही विवशो यदृच्छया। अपारयन्नात्मविमोक्षणे चिरं दध्याविमां बुद्धिमथाभ्यपद्यत ॥३१॥ न मामिमे ज्ञातय आतुरं गजाः कुतः करिण्यः प्रभवन्ति मोचितुम्। ग्राहेण पाशेन विधातुरावृतोऽप्यहं च तं यामि परं परायणम् ॥३२॥ यः कश्चनेशो बलिनोऽन्तकोरगा- त्प्रचण्डवेगादभिधावतो भृशम्। भीतं प्रपन्नं परिपाति यद्भयान्मृत्युः प्रधावत्यरणं तमीमहि ॥३३॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे मन्वन्तरानुवर्णने गजेन्द्रोपाख्याने द्वितीयोऽध्यायः ॥ २ ॥

॥ तृतीयोऽध्यायः - ३ ॥

श्रीशुक उवाच एवं व्यवसितो बुद्ध्या समाधाय मनो हृदि। जजाप परमं जाप्यं प्राग्जन्मन्यनुशिक्षितम् ॥१॥ गजेन्द्र उवाच ओं नमो भगवते तस्मै यत एतच्चिदात्मकम्। पुरुषायादिबीजाय परेशायाभिधीमहि ॥२॥ यस्मिन्निदं यतश्चेदं येनेदं य इदं स्वयम्। योऽस्मात्परस्माच्च परस्तं प्रपद्ये स्वयम्भुवम् ॥३॥ यः स्वात्मनीदं निजमाययार्पितं क्वचिद्विभातं क्व च तत्तिरोहितम्। अविद्धदृक्साक्ष्युभयं तदीक्षते स आत्ममूलोऽवतु मां परात्परः ॥४॥ कालेन पञ्चत्वमितेषु कृत्स्नशो लोकेषु पालेषु च सर्वहेतुषु। तमस्तदासीद्गहनं गभीरं यस्तस्य पारेऽभिविराजते विभुः ॥५॥ न यस्य देवा ऋषयः पदं विदुर्जन्तुः पुनः कोऽर्हति गन्तुमीरितुम्। यथा नटस्याकृतिभिर्विचेष्टतो दुरत्ययानुक्रमणः स मावतु ॥६॥ दिदृक्षवो यस्य पदं सुमङ्गलं विमुक्तसङ्गा मुनयः सुसाधवः। चरन्त्यलोकव्रतमव्रणं वने भूतात्मभूताः सुहृदः स मे गतिः ॥७॥ न विद्यते यस्य च जन्म कर्म वा न नामरूपे गुणदोष एव वा। तथापि लोकाप्ययसम्भवाय यः स्वमायया तान्यनुकालमृच्छति ॥८॥ तस्मै नमः परेशाय ब्रह्मणेऽनन्तशक्तये। अरूपायोरुरूपाय नम आश्चर्यकर्मणे ॥९॥ नम आत्मप्रदीपाय साक्षिणे परमात्मने। नमो गिरां विदूराय मनसश्चेतसामपि ॥१०॥ सत्त्वेन प्रतिलभ्याय नैष्कर्म्येण विपश्चिता। नमः कैवल्यनाथाय निर्वाणसुखसंविदे ॥११॥ नमः शान्ताय घोराय मूढाय गुणधर्मिणे। निर्विशेषाय साम्याय नमो ज्ञानघनाय च ॥१२॥ क्षेत्रज्ञाय नमस्तुभ्यं सर्वाध्यक्षाय साक्षिणे। पुरुषायात्ममूलाय मूलप्रकृतये नमः ॥१३॥ सर्वेन्द्रियगुणद्रष्ट्रे सर्वप्रत्ययहेतवे। असताच्छाययोक्ताय सदाभासाय ते नमः ॥१४॥ नमो नमस्तेऽखिलकारणाय निष्कारणायाद्भुतकारणाय। सर्वागमाम्नायमहार्णवाय नमोऽपवर्गाय परायणाय ॥१५॥ गुणारणिच्छन्नचिदूष्मपाय तत्क्षोभविस्फूर्जितमानसाय। नैष्कर्म्यभावेन विवर्जितागम- स्वयंप्रकाशाय नमस्करोमि ॥१६॥ मादृक् प्रपन्नपशुपाशविमोक्षणाय मुक्ताय भूरिकरुणाय नमोऽलयाय। स्वांशेन सर्वतनुभृन्मनसि प्रतीतप्रत्यग्दृशे भगवते बृहते नमस्ते ॥१७॥ आत्मात्मजाप्तगृहवित्तजनेषु सक्तै- र्दुष्प्रापणाय गुणसङ्गविवर्जिताय। मुक्तात्मभिः स्वहृदये परिभाविताय ज्ञानात्मने भगवते नम ईश्वराय ॥१८॥ यं धर्मकामार्थविमुक्तिकामा भजन्त इष्टां गतिमाप्नुवन्ति। किं त्वाशिषो रात्यपि देहमव्ययं करोतु मेऽदभ्रदयो विमोक्षणम् ॥१९॥ एकान्तिनो यस्य न कञ्चनार्थं वाञ्छन्ति ये वै भगवत्प्रपन्नाः। अत्यद्भुतं तच्चरितं सुमङ्गलं गायन्त आनन्दसमुद्रमग्नाः ॥२०॥ तमक्षरं ब्रह्म परं परेश- मव्यक्तमाध्यात्मिकयोगगम्यम् । अतीन्द्रियं सूक्ष्ममिवातिदूर- मनन्तमाद्यं परिपूर्णमीडे ॥२१॥ यस्य ब्रह्मादयो देवा वेदा लोकाश्चराचराः। नामरूपविभेदेन फल्ग्व्या च कलया कृताः ॥२२॥ यथार्चिषोऽग्नेः सवितुर्गभस्तयो निर्यान्ति संयान्त्यसकृत्स्वरोचिषः। तथा यतोऽयं गुणसम्प्रवाहो बुद्धिर्मनः खानि शरीरसर्गाः ॥२३॥ स वै न देवासुरमर्त्यतिर्यङ्- न स्त्री न षण्ढो न पुमान्न जन्तुः। नायं गुणः कर्म न सन्न चास- न्निषेधशेषो जयतादशेषः ॥२४॥ जिजीविषे नाहमिहामुया किमन्तर्बहिश्चावृतयेभयोन्या। इच्छामि कालेन न यस्य विप्लव- स्तस्यात्मलोकावरणस्य मोक्षम् ॥२५॥ सोऽहं विश्वसृजं विश्वमविश्वं विश्ववेदसम्। विश्वात्मानमजं ब्रह्म प्रणतोऽस्मि परं पदम् ॥२६॥ योगरन्धितकर्माणो हृदि योगविभाविते। योगिनो यं प्रपश्यन्ति योगेशं तं नतोऽस्म्यहम् ॥२७॥ नमो नमस्तुभ्यमसह्यवेग- शक्तित्रयायाखिलधीगुणाय। प्रपन्नपालाय दुरन्तशक्तये कदिन्द्रियाणामनवाप्यवर्त्मने ॥२८॥ नायं वेद स्वमात्मानं यच्छक्त्याहंधिया हतम्। तं दुरत्ययमाहात्म्यं भगवन्तमितोऽस्म्यहम् ॥२९॥ श्रीशुक उवाच एवं गजेन्द्रमुपवर्णितनिर्विशेषं ब्रह्मादयो विविधलिङ्गभिदाभिमानाः। नैते यदोपससृपुर्निखिलात्मकत्वा- त्तत्राखिलामरमयो हरिराविरासीत् ॥३०॥ स गो ना सं गो गो तं तद्वदार्तमुपलभ्य जगन्निवासः स्तोत्रं निशम्य दिविजैः सह संस्तुवद्भिः। छन्दोमयेन गरुडेन समुह्यमान- श्चक्रायुधोऽभ्यगमदाशु यतो गजेन्द्रः ॥३१॥ सोऽन्तःसरस्युरुबलेन गृहीत आर्तो दृष्ट्वा गरुत्मति हरिं ख उपात्तचक्रम् । उत्क्षिप्य साम्बुजकरं गिरमाह कृच्छ्रान्नारायणाखिलगुरो भगवन्नमस्ते ॥३२॥ तं वीक्ष्य पीडितमजः सहसावतीर्य सग्राहमाशु सरसः कृपयोज्जहार । ग्राहाद्विपाटितमुखादरिणा गजेन्द्रं संपश्यतां हरिरमूमुचदुच्छ्रियाणाम् ॥३३॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे मन्वन्तरानुवर्णने गजेन्द्रोपाख्याने तृतीयोऽध्यायः ॥ ३ ॥

॥ चतुर्थोऽध्यायः - ४ ॥

श्रीशुक उवाच तदा देवर्षिगन्धर्वा ब्रह्मेशानपुरोगमाः। मुमुचुः कुसुमासारं शंसन्तः कर्म तद्धरेः ॥१॥ नेदुर्दुन्दुभयो दिव्या गन्धर्वा ननृतुर्जगुः। ऋषयश्चारणाः सिद्धास्तुष्टुवुः पुरुषोत्तमम् ॥२॥ योऽसौ ग्राहः स वै सद्यः परमाश्चर्यरूपधृक्। मुक्तो देवलशापेन हूहूर्गन्धर्वसत्तमः ॥३॥ प्रणम्य शिरसाधीशमुत्तमश्लोकमव्ययम्। अगायत यशोधाम कीर्तन्यगुणसत्कथम् ॥४॥ सोऽनुकम्पित ईशेन परिक्रम्य प्रणम्य तम्। लोकस्य पश्यतो लोकं स्वमगान्मुक्तकिल्बिषः ॥५॥ गजेन्द्रो भगवत्स्पर्शाद्विमुक्तोऽज्ञानबन्धनात्। प्राप्तो भगवतो रूपं पीतवासाश्चतुर्भुजः ॥६॥ स वै पूर्वमभूद्राजा पाण्ड्यो द्रविडसत्तमः। इन्द्रद्युम्न इति ख्यातो विष्णुव्रतपरायणः ॥७॥ स एकदाऽऽराधनकाल आत्मवान् गृहीतमौनव्रत ईश्वरं हरिम्। जटाधरस्तापस आप्लुतोऽच्युतं समर्चयामास कुलाचलाश्रमः ॥८॥ यदृच्छया तत्र महायशा मुनिः समागमच्छिष्यगणैः परिश्रितः। तं वीक्ष्य तूष्णीमकृतार्हणादिकं रहस्युपासीनमृषिश्चुकोप ह ॥९॥ तस्मा इमं शापमदादसाधुरयं दुरात्माकृतबुद्धिरद्य। विप्रावमन्ता विशतां तमोऽन्धं यथा गजः स्तब्धमतिः स एव ॥१०॥ श्रीशुक उवाच एवं शप्त्वा गतोऽगस्त्यो भगवान् नृप सानुगः। इन्द्रद्युम्नोऽपि राजर्षिर्दिष्टं तदुपधारयन् ॥११॥ आपन्नः कौञ्जरीं योनिमात्मस्मृतिविनाशिनीम्। हर्यर्चनानुभावेन यद्गजत्वेऽप्यनुस्मृतिः ॥१२॥ एवं विमोक्ष्य गजयूथपमब्जनाभस्तेनापि पार्षदगतिं गमितेन युक्तः। गन्धर्वसिद्धविबुधैरुपगीयमानकर्माद्भुतं स्वभवनं गरुडासनोऽगात् ॥१३॥ एतन्महाराज तवेरितो मया कृष्णानुभावो गजराजमोक्षणम्। स्वर्ग्यं यशस्यं कलिकल्मषापहं दुःस्वप्ननाशं कुरुवर्य शृण्वताम् ॥१४॥ यथानुकीर्तयन्त्येतच्छ्रेयस्कामा द्विजातयः। शुचयः प्रातरुत्थाय दुःस्वप्नाद्युपशान्तये ॥१५॥ इदमाह हरिः प्रीतो गजेन्द्रं कुरुसत्तम। शृण्वतां सर्वभूतानां सर्वभूतमयो विभुः ॥१६॥ श्रीभगवानुवाच ये मां त्वां च सरश्चेदं गिरिकन्दरकाननम्। वेत्रकीचकवेणूनां गुल्मानि सुरपादपान् ॥१७॥ शृङ्गाणीमानि धिष्ण्यानि ब्रह्मणो मे शिवस्य च। क्षीरोदं मे प्रियं धाम श्वेतद्वीपं च भास्वरम् ॥१८॥ श्रीवत्सं कौस्तुभं मालां गदां कौमोदकीं मम। सुदर्शनं पाञ्चजन्यं सुपर्णं पतगेश्वरम् ॥१९॥ शेषं च मत्कलां सूक्ष्मां श्रियं देवीं मदाश्रयाम्। ब्रह्माणं नारदमृषिं भवं प्रह्लादमेव च ॥२०॥ मत्स्यकूर्मवराहाद्यैरवतारैः कृतानि मे। कर्माण्यनन्तपुण्यानि सूर्यं सोमं हुताशनम् ॥२१॥ प्रणवं सत्यमव्यक्तं गोविप्रान् धर्ममव्ययम्। दाक्षायणीर्धर्मपत्नीः सोमकश्यपयोरपि ॥२२॥ गङ्गां सरस्वतीं नन्दां कालिन्दीं सितवारणम्। ध्रुवं ब्रह्मऋषीन् सप्त पुण्यश्लोकांश्च मानवान् ॥२३॥ उत्थायापररात्रान्ते प्रयताः सुसमाहिताः। स्मरन्ति मम रूपाणि मुच्यन्ते ह्येनसोऽखिलात्॥२४॥ ये मां स्तुवन्त्यनेनाङ्ग प्रतिबुध्य निशात्यये। तेषां प्राणात्यये चाहं ददामि विमलां मतिम् ॥२५॥ श्रीशुक उवाच इत्यादिश्य हृषीकेशः प्रध्माय जलजोत्तमम्। हर्षयन् विबुधानीकमारुरोह खगाधिपम् ॥२६॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे गजेन्द्रमोक्षणं नाम चतुर्थोऽध्यायः॥ ४ ॥

॥ पञ्चमोऽध्यायः - ५ ॥

श्रीशुक उवाच राजन्नुदितमेतत्ते हरेः कर्माघनाशनम्। गजेन्द्रमोक्षणं पुण्यं रैवतं त्वन्तरं शृणु ॥१॥ पञ्चमो रैवतो नाम मनुस्तामससोदरः। बलिविन्ध्यादयस्तस्य सुता अर्जुनपूर्वकाः ॥२॥ विभुरिन्द्रः सुरगणा राजन् भूतरयादयः। हिरण्यरोमा वेदशिरा ऊर्ध्वबाह्वादयो द्विजाः ॥३॥ पत्नी विकुण्ठा शुभ्रस्य वैकुण्ठैः सुरसत्तमैः। तयोः स्वकलया जज्ञे वैकुण्ठो भगवान् स्वयम् ॥४॥ वैकुण्ठः कल्पितो येन लोको लोकनमस्कृतः। रमया प्रार्थ्यमानेन देव्या तत्प्रियकाम्यया ॥५॥ तस्यानुभावः कथितो गुणाश्च परमोदयाः। भौमान् रेणून् स विममे यो विष्णोर्वर्णयेद्गुणान् ॥६॥ षष्ठश्च चक्षुषः पुत्रश्चाक्षुषो नाम वै मनुः। पूरुपूरुषसुद्युम्नप्रमुखाश्चाक्षुषात्मजाः ॥७॥ इन्द्रो मन्त्रद्रुमस्तत्र देवा आप्यादयो गणाः। मुनयस्तत्र वै राजन् हविष्मद्वीरकादयः ॥८॥ तत्रापि देवः सम्भूत्यां वैराजस्याभवत्सुतः। अजितो नाम भगवानंशेन जगतः पतिः ॥९॥ पयोधिं येन निर्मथ्य सुराणां साधिता सुधा। भ्रममाणोऽम्भसि धृतः कूर्मरूपेण मन्दरः ॥१०॥ राजोवाच यथा भगवता ब्रह्मन् मथितः क्षीरसागरः। यदर्थं वा यतश्चाद्रिं दधाराम्बुचरात्मना ॥११॥ यथामृतं सुरैः प्राप्तं किं चान्यदभवत्ततः। एतद्भगवतः कर्म वदस्व परमाद्भुतम् ॥१२॥ त्वया सङ्कथ्यमानेन महिम्ना सात्वतां पतेः। नातितृप्यति मे चित्तं सुचिरं तापतापितम् ॥१३॥ सूत उवाच सम्पृष्टो भगवानेवं द्वैपायनसुतो द्विजाः। अभिनन्द्य हरेर्वीर्यमभ्याचष्टुं प्रचक्रमे ॥१४॥ श्रीशुक उवाच यदा युद्धेऽसुरैर्देवा बाध्यमानाः शितायुधैः। गतासवो निपतिता नोत्तिष्ठेरन् स्म भूयशः ॥१५॥ यदा दुर्वाससः शापात्सेन्द्रा लोकास्त्रयो नृप। निःश्रीकाश्चाभवंस्तत्र नेशुरिज्यादयः क्रियाः ॥१६॥ निशाम्यैतत्सुरगणा महेन्द्रवरुणादयः। नाध्यगच्छन् स्वयं मन्त्रैर्मन्त्रयन्तो विनिश्चयम् ॥१७॥ ततो ब्रह्मसभां जग्मुर्मेरोर्मूर्धनि सर्वशः। सर्वं विज्ञापयांचक्रुः प्रणताः परमेष्ठिने ॥१८॥ स विलोक्येन्द्रवाय्वादीन् निःसत्त्वान् विगतप्रभान्। लोकानमङ्गलप्रायानसुरानयथा विभुः ॥१९॥ समाहितेन मनसा संस्मरन् पुरुषं परम्। उवाचोत्फुल्लवदनो देवान् स भगवान् परः ॥२०॥ अहं भवो यूयमथोऽसुरादयो मनुष्यतिर्यग्द्रुमघर्मजातयः। यस्यावतारांशकलाविसर्जिता व्रजाम सर्वे शरणं तमव्ययम् ॥२१॥ न यस्य वध्यो न च रक्षणीयो नोपेक्षणीयादरणीयपक्षः। अथापि सर्गस्थितिसंयमार्थं धत्ते रजःसत्त्वतमांसि काले ॥२२॥ अयं च तस्य स्थितिपालनक्षणः सत्त्वं जुषाणस्य भवाय देहिनाम्। तस्माद्व्रजामः शरणं जगद्गुरुं स्वानां स नो धास्यति शं सुरप्रियः ॥२३॥ श्रीशुक उवाच इत्याभाष्य सुरान् वेधाः सह देवैररिन्दम। अजितस्य पदं साक्षाज्जगाम तमसः परम् ॥२४॥ तत्रादृष्टस्वरूपाय श्रुतपूर्वाय वै विभो । स्तुतिमब्रूत दैवीभिर्गीर्भिस्त्ववहितेन्द्रियः ॥२५॥ ब्रह्मोवाच अविक्रियं सत्यमनन्तमाद्यं गुहाशयं निष्कलमप्रतर्क्यम्। मनोऽग्रयानं वचसानिरुक्तं नमामहे देववरं वरेण्यम् ॥२६॥ विपश्चितं प्राणमनोधियात्मना- मर्थेन्द्रियाभासमनिद्रमव्रणम्। छायातपौ यत्र न गृध्रपक्षौ तमक्षरं खं त्रियुगं व्रजामहे ॥२७॥ अजस्य चक्रं त्वजयेर्यमाणं मनोमयं पञ्चदशारमाशु। त्रिनाभि विद्युच्चलमष्टनेमि यदक्षमाहुस्तमृतं प्रपद्ये ॥२८॥ य एकवर्णं तमसः परं तदलोकमव्यक्तमनन्तपारम्। आसां चकारोपसुपर्णमेन- मुपासते योगरथेन धीराः ॥२९॥ न यस्य कश्चातितितर्ति मायां यया जनो मुह्यति वेद नार्थम्। तं निर्जितात्मात्मगुणं परेशं नमाम भूतेषु समं चरन्तम् ॥३०॥ इमे वयं यत्प्रिययैव तन्वा सत्त्वेन सृष्टा बहिरन्तराविः। गतिं न सूक्ष्मामृषयश्च विद्महे कुतोऽसुराद्या इतरप्रधानाः ॥३१॥ पादौ महीयं स्वकृतैव यस्य चतुर्विधो यत्र हि भूतसर्गः। स वै महापूरुष आत्मतन्त्रः प्रसीदतां ब्रह्म महाविभूतिः ॥३२॥ अम्भस्तु यद्रेत उदारवीर्यं सिध्यन्ति जीवन्त्युत वर्धमानाः। लोकास्त्रयोऽथाखिललोकपालाः प्रसीदतां ब्रह्म महाविभूतिः ॥३३॥ सोमं मनो यस्य समामनन्ति दिवौकसां वै बलमन्ध आयुः। ईशो नगानां प्रजनः प्रजानां प्रसीदतां नः स महाविभूतिः ॥३४॥ अग्निर्मुखं यस्य तु जातवेदा जातः क्रियाकाण्डनिमित्तजन्मा। अन्तःसमुद्रेऽनुपचन् स्वधातून् प्रसीदतां नः स महाविभूतिः ॥३५॥ यच्चक्षुरासीत्तरणिर्देवयानं त्रयीमयो ब्रह्मण एष धिष्ण्यम्। द्वारं च मुक्तेरमृतं च मृत्युः प्रसीदतां नः स महाविभूतिः ॥३६॥ प्राणादभूद्यस्य चराचराणां प्राणः सहो बलमोजश्च वायुः। अन्वास्म सम्राजमिवानुगा वयं प्रसीदतां नः स महाविभूतिः ॥३७॥ श्रोत्राद्दिशो यस्य हृदश्च खानि प्रजज्ञिरे खं पुरुषस्य नाभ्याः। प्राणेन्द्रियात्मासुशरीरकेतं प्रसीदतां नः स महाविभूतिः ॥३८॥ बलान्महेन्द्रस्त्रिदशाः प्रसादा- न्मन्योर्गिरीशो धिषणाद्विरिञ्चः। खेभ्यश्च छन्दांस्यृषयो मेढ्रतः कः प्रसीदतां नः स महाविभूतिः ॥३९॥ श्रीर्वक्षसः पितरश्छाययाऽऽसन् धर्मः स्तनादितरः पृष्ठतोऽभूत्। द्यौर्यस्य शीर्ष्णोऽप्सरसो विहारा- त्प्रसीदतां नः स महाविभूतिः ॥४०॥ विप्रो मुखं ब्रह्म च यस्य गुह्यं राजन्य आसीद्भुजयोर्बलं च। ऊर्वोर्विडोऽजोऽङ्घ्रिरवेदशूद्रौ प्रसीदतां नः स महाविभूतिः ॥४१॥ लोभोऽधरात्प्रीतिरुपर्यभूद्द्युतिर्नस्तः पशव्यः स्पर्शेन कामः। भ्रुवोर्यमः पक्ष्मभवस्तु कालः प्रसीदतां नः स महाविभूतिः ॥४२॥ द्रव्यं वयः कर्म गुणान् विशेषं यद्योगमायाविहितान् वदन्ति। यद्दुर्विभाव्यं प्रबुधापबाधं प्रसीदतां नः स महाविभूतिः ॥४३॥ नमोऽस्तु तस्मा उपशान्तशक्तये स्वाराज्यलाभप्रतिपूरितात्मने। गुणेषु मायारचितेषु वृत्तिभिर्न सज्जमानाय नभस्वदूतये ॥४४॥ स त्वं नो दर्शयात्मानमस्मत्करणगोचरम्। प्रपन्नानां दिदृक्षूणां सस्मितं ते मुखाम्बुजम् ॥४५॥ तैस्तैः स्वेच्छाधृतै रूपैः काले काले स्वयं विभो। कर्म दुर्विषहं यन्नो भगवांस्तत्करोति हि ॥४६॥ क्लेशभूर्यल्पसाराणि कर्माणि विफलानि वा। देहिनां विषयार्तानां न तथैवार्पितं त्वयि ॥४७॥ नावमः कर्मकल्पोऽपि विफलायेश्वरार्पितः। कल्पते पुरुषस्यैष स ह्यात्मा दयितो हितः ॥४८॥ यथा हि स्कन्धशाखानां तरोर्मूलावसेचनम्। एवमाराधनं विष्णोः सर्वेषामात्मनश्च हि ॥४९॥ नमस्तुभ्यमनन्ताय दुर्वितर्क्यात्मकर्मणे। निर्गुणाय गुणेशाय सत्त्वस्थाय च साम्प्रतम् ॥५०॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे अमृतमथने पञ्चमोऽध्यायः ॥५॥

॥ षष्ठोऽध्यायः - ६ ॥

श्रीशुक उवाच एवं स्तुतः सुरगणैर्भगवान् हरिरीश्वरः। तेषामाविरभूद्राजन् सहस्रार्कोदयद्युतिः ॥१॥ - सगोनासंगोगो तेनैव महसा सर्वे देवाः प्रतिहतेक्षणाः। नापश्यन् खं दिशः क्षोणीमात्मानं च कुतो विभुम् ॥२॥ विरिञ्चो भगवान् दृष्ट्वा सह शर्वेण तां तनुम्। स्वच्छां मरकतश्यामां कञ्जगर्भारुणेक्षणाम् ॥३॥ तप्तहेमावदातेन लसत्कौशेयवाससा। प्रसन्नचारुसर्वाङ्गीं सुमुखीं सुन्दरभ्रुवम् ॥४॥ महामणिकिरीटेन केयूराभ्यां च भूषिताम्। कर्णाभरणनिर्भातकपोलश्रीमुखाम्बुजाम् ॥५॥ काञ्चीकलापवलयहारनूपुरशोभिताम्। कौस्तुभाभरणां लक्ष्मीं बिभ्रतीं वनमालिनीम् ॥६॥ सुदर्शनादिभिः स्वास्त्रैर्मूर्तिमद्भिरुपासिताम्। तुष्टाव देवप्रवरः सशर्वः पुरुषं परम्। सर्वामरगणैः साकं सर्वाङ्गैरवनिं गतैः ॥७॥ ब्रह्मोवाच अजातजन्मस्थितिसंयमायागुणाय निर्वाणसुखार्णवाय। अणोरणिम्नेऽपरिगण्यधाम्ने महानुभावाय नमो नमस्ते ॥८॥ रूपं तवैतत्पुरुषर्षभेज्यं श्रेयोऽर्थिभिर्वैदिकतान्त्रिकेण। योगेन धातः सह नस्त्रिलोकान् पश्याम्यमुष्मिन्नु ह विश्वमूर्तौ ॥९॥ त्वय्यग्र आसीत्त्वयि मध्य आसीत्त्वय्यन्त आसीदिदमात्मतन्त्रे। त्वमादिरन्तो जगतोऽस्य मध्यं घटस्य मृत्स्नेव परः परस्मात् ॥१०॥ त्वं माययाऽऽत्माश्रयया स्वयेदं निर्माय विश्वं तदनुप्रविष्टः। पश्यन्ति युक्ता मनसा मनीषिणो गुणव्यवायेऽप्यगुणं विपश्चितः ॥११॥ यथाग्निमेधस्यमृतं च गोषु भुव्यन्नमम्बूद्यमने च वृत्तिम्। योगैर्मनुष्या अधियन्ति हि त्वां गुणेषु बुद्ध्या कवयो वदन्ति ॥१२॥ तं त्वां वयं नाथ समुज्जिहानं सरोजनाभातिचिरेप्सितार्थम्। दृष्ट्वा गता निर्वृतमद्य सर्वे गजा दवार्ता इव गाङ्गमम्भः ॥१३॥ स त्वं विधत्स्वाखिललोकपाला वयं यदर्थास्तव पादमूलम्। समागतास्ते बहिरन्तरात्मन् किं वान्यविज्ञाप्यमशेषसाक्षिणः ॥१४॥ अहं गिरित्रश्च सुरादयो ये दक्षादयोऽग्नेरिव केतवस्ते। किं वा विदामेश पृथग्विभाता विधत्स्व शं नो द्विजदेवमन्त्रम् ॥१५॥ श्रीशुक उवाच एवं विरिञ्चादिभिरीडितस्तद्विज्ञाय तेषां हृदयं यथैव। जगाद जीमूतगभीरया गिरा बद्धाञ्जलीन् संवृतसर्वकारकान् ॥१६॥ एक एवेश्वरस्तस्मिन् सुरकार्ये सुरेश्वरः। विहर्तुकामस्तानाह समुद्रोन्मथनादिभिः ॥१७॥ श्रीभगवानुवाच हन्त ब्रह्मन्नहो शम्भो हे देवा मम भाषितम्। शृणुतावहिताः सर्वे श्रेयो वः स्याद्यथा सुराः ॥१८॥ यात दानवदैतेयैस्तावत्सन्धिर्विधीयताम्। कालेनानुगृहीतैस्तैर्यावद्वो भव आत्मनः ॥१९॥ अरयोऽपि हि सन्धेयाः सति कार्यार्थगौरवे। अहिमूषिकवद्देवा ह्यर्थस्य पदवीं गतैः ॥२०॥ अमृतोत्पादने यत्नः क्रियतामविलम्बितम्। यस्य पीतस्य वै जन्तुर्मृत्युग्रस्तोऽमरो भवेत् ॥२१॥ क्षिप्त्वा क्षीरोदधौ सर्वा वीरुत्तृणलतौषधीः। मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा तु वासुकिम् ॥२२॥ सहायेन मया देवा निर्मन्थध्वमतन्द्रिताः। क्लेशभाजो भविष्यन्ति दैत्या यूयं फलग्रहाः ॥२३॥ यूयं तदनुमोदध्वं यदिच्छन्त्यसुराः सुराः। न संरम्भेण सिध्यन्ति सर्वेऽर्थाः सान्त्वया यथा ॥२४॥ न भेतव्यं कालकूटाद्विषाज्जलधिसम्भवात्। लोभः कार्यो न वो जातु रोषः कामस्तु वस्तुषु ॥२५॥ श्रीशुक उवाच इति देवान् समादिश्य भगवान् पुरुषोत्तमः। तेषामन्तर्दधे राजन् स्वच्छन्दगतिरीश्वरः ॥२६॥ अथ तस्मै भगवते नमस्कृत्य पितामहः। भवश्च जग्मतुः स्वं स्वं धामोपेयुर्बलिं सुराः ॥२७॥ दृष्ट्वारीनप्यसंयत्तान् जातक्षोभान् स्वनायकान्। न्यषेधद्दैत्यराट् श्लोक्यः सन्धिविग्रहकालवित् ॥२८॥ ते वैरोचनिमासीनं गुप्तं चासुरयूथपैः। श्रिया परमया जुष्टं जिताशेषमुपागमन् ॥२९॥ महेन्द्रः श्लक्ष्णया वाचा सान्त्वयित्वा महामतिः। अभ्यभाषत तत्सर्वं शिक्षितं पुरुषोत्तमात् ॥३०॥ तदरोचत दैत्यस्य तत्रान्ये येऽसुराधिपाः। शम्बरोऽरिष्टनेमिश्च ये च त्रिपुरवासिनः ॥३१॥ ततो देवासुराः कृत्वा संविदं कृतसौहृदाः। उद्यमं परमं चक्रुरमृतार्थे परन्तप ॥३२॥ ततस्ते मन्दरगिरिमोजसोत्पाट्य दुर्मदाः। नदन्त उदधिं निन्युः शक्ताः परिघबाहवः ॥३३॥ दूरभारोद्वहश्रान्ताः शक्रवैरोचनादयः। अपारयन्तस्तं वोढुं विवशा विजहुः पथि ॥३४॥ निपतन् स गिरिस्तत्र बहूनमरदानवान्। चूर्णयामास महता भारेण कनकाचलः ॥३५॥ तांस्तथा भग्नमनसो भग्नबाहूरुकन्धरान्। विज्ञाय भगवांस्तत्र बभूव गरुडध्वजः ॥३६॥ गिरिपातविनिष्पिष्टान् विलोक्यामरदानवान्। ईक्षया जीवयामास निर्जरान् निर्व्रणान् यथा ॥३७॥ गिरिं चारोप्य गरुडे हस्तेनैकेन लीलया। आरुह्य प्रययावब्धिं सुरासुरगणैर्वृतः ॥३८॥ अवरोप्य गिरिं स्कन्धात्सुपर्णः पततां वरः। ययौ जलान्त उत्सृज्य हरिणा स विसर्जितः ॥३९॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे अमृतमथने मन्दराचलानयनं नाम षष्ठोऽध्यायः॥ ६॥

॥ सप्तमोऽध्यायः - ७ ॥

श्रीशुक उवाच ते नागराजमामन्त्र्य फलभागेन वासुकिम्। परिवीय गिरौ तस्मिन् नेत्रमब्धिं मुदान्विताः ॥१॥ आरेभिरे सुसंयत्ता अमृतार्थे कुरूद्वह। हरिः पुरस्ताज्जगृहे पूर्वं देवास्ततोऽभवन् ॥२॥ तन्नैच्छन् दैत्यपतयो महापुरुषचेष्टितम्। न गृह्णीमो वयं पुच्छमहेरङ्गममङ्गलम् ॥३॥ स्वाध्यायश्रुतसम्पन्नाः प्रख्याता जन्मकर्मभिः। इति तूष्णीं स्थितान् दैत्यान् विलोक्य पुरुषोत्तमः। स्मयमानो विसृज्याग्रं पुच्छं जग्राह सामरः ॥४॥ कृतस्थानविभागास्त एवं कश्यपनन्दनाः। ममन्थुः परमायत्ता अमृतार्थं पयोनिधिम् ॥५॥ मथ्यमानेऽर्णवे सोऽद्रिरनाधारो ह्यपोऽविशत्। ध्रियमाणोऽपि बलिभिर्गौरवात्पाण्डुनन्दन ॥६॥ ते सुनिर्विण्णमनसः परिम्लानमुखश्रियः। आसन् स्वपौरुषे नष्टे दैवेनातिबलीयसा ॥७॥ विलोक्य विघ्नेशविधिं तदेश्वरो दुरन्तवीर्योऽवितथाभिसन्धिः। कृत्वा वपुः काच्छपमद्भुतं महत्प्रविश्य तोयं गिरिमुज्जहार ॥८॥ सर्वत्र गोविन्दनामसंकीर्तनं गोविन्द गोविन्द । तमुत्थितं वीक्ष्य कुलाचलं पुनः समुद्यता निर्मथितुं सुरासुराः। दधार पृष्ठेन स लक्षयोजन- प्रस्तारिणा द्वीप इवापरो महान् ॥९॥ सुरासुरेन्द्रैर्भुजवीर्यवेपितं परिभ्रमन्तं गिरिमङ्ग पृष्ठतः। बिभ्रत्तदावर्तनमादिकच्छपो मेनेऽङ्गकण्डूयनमप्रमेयः ॥१०॥ तथासुरानाविशदासुरेण रूपेण तेषां बलवीर्यमीरयन्। उद्दीपयन् देवगणांश्च विष्णुर्दैवेन नागेन्द्रमबोधरूपः ॥११॥ उपर्यगेन्द्रं गिरिराडिवान्य आक्रम्य हस्तेन सहस्रबाहुः। तस्थौ दिवि ब्रह्मभवेन्द्रमुख्यै- रभिष्टुवद्भिः सुमनोऽभिवृष्टः ॥१२॥ उपर्यधश्चात्मनि गोत्रनेत्रयोः परेण ते प्राविशता समेधिताः। ममन्थुरब्धिं तरसा मदोत्कटा महाद्रिणा क्षोभितनक्रचक्रम् ॥१३॥ अहीन्द्रसाहस्रकठोरदृङ्मुख- श्वासाग्निधूमाहतवर्चसोऽसुराः। पौलोमकालेयबलील्वलादयो दवाग्निदग्धाः सरला इवाभवन् ॥१४॥ देवांश्च तच्छ्वासशिखाहतप्रभान् धूम्राम्बरस्रग्वरकञ्चुकाननान्। समभ्यवर्षन् भगवद्वशा घना ववुः समुद्रोर्म्युपगूढवायवः ॥१५॥ मथ्यमानात्तथा सिन्धोर्देवासुरवरूथपैः। यदा सुधा न जायेत निर्ममन्थाजितः स्वयम् ॥१६॥ मेघश्यामः कनकपरिधिः कर्णविद्योतविद्युन्मूर्ध्नि भ्राजद्विलुलितकचः स्रग्धरो रक्तनेत्रः । जैत्रैर्दोर्भिर्जगदभयदैर्दन्दशूकं गृहीत्वा मथ्नन् मथ्ना प्रतिगिरिरिवाशोभताथो धृताद्रिः ॥१७॥- सगोनसंगोगो निर्मथ्यमानादुदधेरभूद्विषं महोल्बणं हालहलाह्वमग्रतः। सम्भ्रान्तमीनोन्मकराहिकच्छपा- त्तिमिद्विपग्राहतिमिङ्गिलाकुलात् ॥१८॥ तदुग्रवेगं दिशि दिश्युपर्यधो विसर्पदुत्सर्पदसह्यमप्रति। भीताः प्रजा दुद्रुवुरङ्ग सेश्वरा अरक्ष्यमाणाः शरणं सदाशिवम् ॥१९॥ विलोक्य तं देववरं त्रिलोक्या भवाय देव्याभिमतं मुनीनाम्। आसीनमद्रावपवर्गहेतोस्तपो जुषाणं स्तुतिभिः प्रणेमुः ॥२०॥ प्रजापतय ऊचुः देवदेव महादेव भूतात्मन् भूतभावन। त्राहि नः शरणापन्नांस्त्रैलोक्यदहनाद्विषात् ॥२१॥ त्वमेकः सर्वजगत ईश्वरो बन्धमोक्षयोः। तं त्वामर्चन्ति कुशलाः प्रपन्नार्तिहरं गुरुम् ॥२२॥ गुणमय्या स्वशक्त्यास्य सर्गस्थित्यप्ययान् विभो। धत्से यदा स्वदृग्भूमन् ब्रह्मविष्णुशिवाभिधाम् ॥२३॥ त्वं ब्रह्म परमं गुह्यं सदसद्भावभावनः। नानाशक्तिभिराभातस्त्वमात्मा जगदीश्वरः ॥२४॥ त्वं शब्दयोनिर्जगदादिरात्मा प्राणेन्द्रियद्रव्यगुणस्वभावः। कालः क्रतुः सत्यमृतं च धर्म- स्त्वय्यक्षरं यत्त्रिवृदामनन्ति ॥२५॥ अग्निर्मुखं तेऽखिलदेवतात्मा क्षितिं विदुर्लोकभवाङ्घ्रिपङ्कजम्। कालं गतिं तेऽखिलदेवतात्मनो दिशश्च कर्णौ रसनं जलेशम् ॥२६॥ नाभिर्नभस्ते श्वसनं नभस्वान् सूर्यश्च चक्षूंषि जलं स्म रेतः। परावरात्माश्रयणं तवात्मा सोमो मनो द्यौर्भगवन् शिरस्ते ॥२७॥ कुक्षिः समुद्रा गिरयोऽस्थिसङ्घा रोमाणि सर्वौषधिवीरुधस्ते। छन्दांसि साक्षात्तव सप्तधातव- स्त्रयीमयात्मन् हृदयं सर्वधर्मः ॥२८॥ मुखानि पञ्चोपनिषदस्तवेश यैस्त्रिंशदष्टोत्तरमन्त्रवर्गः। यत्तच्छिवाख्यं परमार्थतत्त्वं देव स्वयंज्योतिरवस्थितिस्ते ॥२९॥ छाया त्वधर्मोर्मिषु यैर्विसर्गो नेत्रत्रयं सत्त्वरजस्तमांसि। साङ्ख्यात्मनः शास्त्रकृतस्तवेक्षा छन्दोमयो देव ऋषिः पुराणः ॥३०॥ न ते गिरित्राखिललोकपाल- विरिञ्चवैकुण्ठसुरेन्द्रगम्यम्। ज्योतिः परं यत्र रजस्तमश्च सत्त्वं न यद्ब्रह्म निरस्तभेदम् ॥३१॥ कामाध्वरत्रिपुरकालगराद्यनेकभूतद्रुहः क्षपयतः स्तुतये न तत्ते। यस्त्वन्तकाल इदमात्मकृतं स्वनेत्र- वह्निस्फुलिङ्गशिखया भसितं न वेद ॥३२॥ ये त्वात्मरामगुरुभिर्हृदि चिन्तिताङ्घ्रिद्वन्द्वं चरन्तमुमया तपसाभितप्तम् । कत्थन्त उग्रपुरुषं निरतं श्मशाने ते नूनमूतिमविदंस्तव हातलज्जाः ॥३३॥ तत्तस्य ते सदसतोः परतः परस्य नाञ्जः स्वरूपगमने प्रभवन्ति भूम्नः। ब्रह्मादयः किमुत संस्तवने वयं तु तत्सर्गसर्गविषया अपि शक्तिमात्रम् ॥३४॥ एतत्परं प्रपश्यामो न परं ते महेश्वर। मृडनाय हि लोकस्य व्यक्तिस्तेऽव्यक्तकर्मणः ॥३५॥ श्रीशुक उवाच तद्वीक्ष्य व्यसनं तासां कृपया भृशपीडितः। सर्वभूतसुहृद्देव इदमाह सतीं प्रियाम् ॥३६॥ शिव उवाच अहो बत भवान्येतत्प्रजानां पश्य वैशसम्। क्षीरोदमथनोद्भूतात्कालकूटादुपस्थितम् ॥३७॥ आसां प्राणपरीप्सूनां विधेयमभयं हि मे। एतावान् हि प्रभोरर्थो यद्दीनपरिपालनम् ॥३८॥ प्राणैः स्वैः प्राणिनः पान्ति साधवः क्षणभङ्गुरैः। बद्धवैरेषु भूतेषु मोहितेष्वात्ममायया ॥३९॥ पुंसः कृपयतो भद्रे सर्वात्मा प्रीयते हरिः। प्रीते हरौ भगवति प्रीयेऽहं सचराचरः। तस्मादिदं गरं भुञ्जे प्रजानां स्वस्तिरस्तु मे ॥४०॥ श्रीशुक उवाच एवमामन्त्र्य भगवान् भवानीं विश्वभावनः। तद्विषं जग्धुमारेभे प्रभावज्ञान्वमोदत ॥४१॥ ततः करतलीकृत्य व्यापि हालाहलं विषम्। अभक्षयन्महादेवः कृपया भूतभावनः ॥४२॥ हर हर नमः पार्वतीपतये हर हर महादेव तस्यापि दर्शयामास स्ववीर्यं जलकल्मषः। यच्चकार गले नीलं तच्च साधोर्विभूषणम् ॥४३॥ तप्यन्ते लोकतापेन साधवः प्रायशो जनाः। परमाराधनं तद्धि पुरुषस्याखिलात्मनः ॥४४॥ निशम्य कर्म तच्छम्भोर्देवदेवस्य मीढुषः। प्रजा दाक्षायणी ब्रह्मा वैकुण्ठश्च शशंसिरे ॥४५॥ प्रस्कन्नं पिबतः पाणेर्यत्किञ्चिज्जगृहुः स्म तत्। वृश्चिकाहिविषौषध्यो दन्दशूकाश्च येऽपरे ॥४६॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां सम्हितायां अष्टमस्कन्धे अमृतमथने सप्तमोऽध्यायः ॥७॥

॥ अष्टमोऽध्यायः ॥

श्रीशुक उवाच पीते गरे वृषाङ्केण प्रीतास्तेऽमरदानवाः। ममन्थुस्तरसा सिन्धुं हविर्धानी ततोऽभवत् ॥१॥ तामग्निहोत्रीमृषयो जगृहुर्ब्रह्मवादिनः। यज्ञस्य देवयानस्य मेध्याय हविषे नृप ॥२॥ तत उच्चैःश्रवा नाम हयोऽभूच्चन्द्रपाण्डुरः। तस्मिन् बलिः स्पृहां चक्रे नेन्द्र ईश्वरशिक्षया ॥३॥ तत ऐरावतो नाम वारणेन्द्रो विनिर्गतः। दन्तैश्चतुर्भिः श्वेताद्रेर्हरन् भगवतो महिम् ॥४॥ (ऐरावणादयस्त्वष्टौ दिग्गजा अभवंस्ततः। अभ्रप्रभृतयोऽष्टौ च करिण्यस्त्वभवन् नृप ॥) कौस्तुभाख्यमभूद्रत्नं पद्मरागो महोदधेः। तस्मिन् हरिः स्पृहां चक्रे वक्षोऽलङ्करणे मणौ ॥५॥ ततोऽभवत्पारिजातः सुरलोकविभूषणम्। पूरयत्यर्थिनो योऽर्थैः शश्वद्भुवि यथा भवान् ॥६॥ ततश्चाप्सरसो जाता निष्ककण्ठ्यः सुवाससः। रमण्यः स्वर्गिणां वल्गुगतिलीलावलोकनैः ॥७॥ ततश्चाविरभूत्साक्षाच्छ्री रमा भगवत्परा। रञ्जयन्ती दिशः कान्त्या विद्युत्सौदामनी यथा ॥८॥ तस्यां चक्रुः स्पृहां सर्वे ससुरासुरमानवाः। रूपौदार्यवयोवर्णमहिमाक्षिप्तचेतसः ॥९॥ तस्या आसनमानिन्ये महेन्द्रो महदद्भुतम्। मूर्तिमत्यः सरिच्छ्रेष्ठा हेमकुम्भैर्जलं शुचि ॥१०॥ आभिषेचनिका भूमिराहरत्सकलौषधीः। गावः पञ्च पवित्राणि वसन्तो मधुमाधवौ ॥११॥ ऋषयः कल्पयांचक्रुरभिषेकं यथाविधि। जगुर्भद्राणि गन्धर्वा नट्यश्च ननृतुर्जगुः ॥१२॥ मेघा मृदङ्गपणवमुरजानकगोमुखान्। व्यनादयन् शङ्खवेणुवीणास्तुमुलनिःस्वनान् ॥१३॥ ततोऽभिषिषिचुर्देवीं श्रियं पद्मकरां सतीम्। दिगिभाः पूर्णकलशैः सूक्तवाक्यैर्द्विजेरितैः ॥१४॥ समुद्रः पीतकौशेयवाससी समुपाहरत्। वरुणः स्रजं वैजयन्तीं मधुना मत्तषट् पदाम् ॥१५॥ भूषणानि विचित्राणि विश्वकर्मा प्रजापतिः। हारं सरस्वती पद्ममजो नागाश्च कुण्डले ॥१६॥ ततः कृतस्वस्त्ययनोत्पलस्रजं नदद्द्विरेफां परिगृह्य पाणिना। चचाल वक्त्रं सुकपोलकुण्डलं सव्रीडहासं दधती सुशोभनम् ॥१७॥ स्तनद्वयं चातिकृशोदरी समं निरन्तरं चन्दनकुङ्कुमोक्षितम्। ततस्ततो नूपुरवल्गुशिञ्जितै- र्विसर्पती हेमलतेव सा बभौ ॥१८॥ विलोकयन्ती निरवद्यमात्मनः पदं ध्रुवं चाव्यभिचारिसद्गुणम्। गन्धर्वयक्षासुरसिद्धचारण- त्रैविष्टपेयादिषु नान्वविन्दत ॥१९॥ नूनं तपो यस्य न मन्युनिर्जयो ज्ञानं क्वचित्तच्च न सङ्गवर्जितम्। कश्चिन्महांस्तस्य न कामनिर्जयः स ईश्वरः किं परतो व्यपाश्रयः ॥२०॥ धर्मः क्वचित्तत्र न भूतसौहृदं त्यागः क्वचित्तत्र न मुक्तिकारणम्। वीर्यं न पुंसोऽस्त्यजवेगनिष्कृतं न हि द्वितीयो गुणसङ्गवर्जितः ॥२१॥ क्वचिच्चिरायुर्न हि शीलमङ्गलं क्वचित्तदप्यस्ति न वेद्यमायुषः। यत्रोभयं कुत्र च सोऽप्यमङ्गलः सुमङ्गलः कश्च न काङ्क्षते हि माम् ॥२२॥ एवं विमृश्याव्यभिचारिसद्गुणैर्वरं निजैकाश्रयतागुणाश्रयम्। वव्रे वरं सर्वगुणैरपेक्षितं रमा मुकुन्दं निरपेक्षमीप्सितम् ॥२३॥ तस्यांसदेश उशतीं नवकञ्जमालां माद्यन्मधुव्रतवरूथगिरोपघुष्टाम्। तस्थौ निधाय निकटे तदुरः स्वधाम सव्रीडहासविकसन्नयनेन याता ॥२४॥ तस्याः श्रियस्त्रिजगतो जनको जनन्या वक्षो निवासमकरोत्परमं विभूतेः । श्रीः स्वाः प्रजाः सकरुणेन निरीक्षणेन यत्र स्थितैधयत साधिपतींस्त्रिलोकान् ॥२५॥ शङ्खतूर्यमृदङ्गानां वादित्राणां पृथुः स्वनः। देवानुगानां सस्त्रीणां नृत्यतां गायतामभूत् ॥२६॥ ब्रह्मरुद्राङ्गिरोमुख्याः सर्वे विश्वसृजो विभुम्। ईडिरेऽवितथैर्मन्त्रैस्तल्लिङ्गैः पुष्पवर्षिणः ॥२७॥ श्रिया विलोकिता देवाः सप्रजापतयः प्रजाः। शीलादिगुणसम्पन्ना लेभिरे निर्वृतिं पराम् ॥२८॥ निःसत्त्वा लोलुपा राजन् निरुद्योगा गतत्रपाः। यदा चोपेक्षिता लक्ष्म्या बभूवुर्दैत्यदानवाः ॥२९॥ अथासीद्वारुणी देवी कन्या कमललोचना। असुरा जगृहुस्तां वै हरेरनुमतेन ते ॥३०॥ अथोदधेर्मथ्यमानात्काश्यपैरमृतार्थिभिः। उदतिष्ठन्महाराज पुरुषः परमाद्भुतः ॥३१॥ स गो ना सं गो गो दीर्घपीवरदोर्दण्डः कम्बुग्रीवोऽरुणेक्षणः। श्यामलस्तरुणः स्रग्वी सर्वाभरणभूषितः ॥३२॥ पीतवासा महोरस्कः सुमृष्टमणिकुण्डलः। स्निग्धकुञ्चितकेशान्तः सुभगः सिंहविक्रमः ॥३३॥ अमृतापूर्णकलशं बिभ्रद्वलयभूषितः। स वै भगवतः साक्षाद्विष्णोरंशांशसम्भवः ॥३४॥ धन्वन्तरिरिति ख्यात आयुर्वेददृगिज्यभाक्। तमालोक्यासुराः सर्वे कलशं चामृताभृतम् ॥३५॥ लिप्सन्तः सर्ववस्तूनि कलशं तरसाहरन्। नीयमानेऽसुरैस्तस्मिन् कलशेऽमृतभाजने ॥३६॥ विषण्णमनसो देवा हरिं शरणमाययुः। इति तद्दैन्यमालोक्य भगवान् भृत्यकामकृत्। मा खिद्यत मिथोऽर्थं वः साधयिष्ये स्वमायया ॥३७॥ मिथः कलिरभूत्तेषां तदर्थे तर्षचेतसाम्। अहं पूर्वमहं पूर्वं न त्वं न त्वमिति प्रभो ॥३८॥ देवाः स्वं भागमर्हन्ति ये तुल्यायासहेतवः। सत्रयाग इवैतस्मिन्नेष धर्मः सनातनः ॥३९॥ इति स्वान् प्रत्यषेधन् वै दैतेया जातमत्सराः। दुर्बलाः प्रबलान् राजन् गृहीतकलशान् मुहुः ॥४०॥ एतस्मिन्नन्तरे विष्णुः सर्वोपायविदीश्वरः। योषिद्रूपमनिर्देश्यं दधार परमाद्भुतम् ॥४१॥- सगोनासंगोगो प्रेक्षणीयोत्पलश्यामं सर्वावयवसुन्दरम्। समानकर्णाभरणं सुकपोलोन्नसाननम् ॥४२॥ नवयौवननिर्वृत्तस्तनभारकृशोदरम्। मुखामोदानुरक्तालि झङ्कारोद्विग्नलोचनम् ॥४३॥ बिभ्रत्स्वकेशभारेण मालामुत्फुल्लमल्लिकाम्। सुग्रीवकण्ठाभरणं सुभुजाङ्गदभूषितम् ॥४४॥ विरजाम्बरसंवीतनितम्बद्वीपशोभया। काञ्च्या प्रविलसद्वल्गुचलच्चरणनूपुरम् ॥४५॥ सव्रीडस्मितविक्षिप्तभ्रूविलासावलोकनैः। दैत्ययूथपचेतःसु काममुद्दीपयन् मुहुः ॥४६॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे भगवन्मायोपलम्भनं नामाष्टमोऽध्यायः ॥८॥

॥ नवमोऽध्यायः - ९ ॥

श्रीशुक उवाच तेऽन्योन्यतोऽसुराः पात्रं हरन्तस्त्यक्तसौहृदाः। क्षिपन्तो दस्युधर्माण आयान्तीं ददृशुः स्त्रियम् ॥१॥ अहो रूपमहो धाम अहो अस्या नवं वयः। इति ते तामभिद्रुत्य पप्रच्छुर्जातहृच्छयाः ॥२॥ का त्वं कञ्जपलाशाक्षि कुतो वा किं चिकीर्षसि। कस्यासि वद वामोरु मथ्नन्तीव मनांसि नः ॥३॥ न वयं त्वामरैर्दैत्यैः सिद्धगन्धर्वचारणैः। नास्पृष्टपूर्वां जानीमो लोकेशैश्च कुतो नृभिः ॥४॥ नूनं त्वं विधिना सुभ्रूः प्रेषितासि शरीरिणाम्। सर्वेन्द्रियमनःप्रीतिं विधातुं सघृणेन किम् ॥५॥ सा त्वं नः स्पर्धमानानामेकवस्तुनि मानिनि। ज्ञातीनां बद्धवैराणां शं विधत्स्व सुमध्यमे ॥६॥ वयं कश्यपदायादा भ्रातरः कृतपौरुषाः। विभजस्व यथान्यायं नैव भेदो यथा भवेत् ॥७॥ इत्युपामन्त्रितो दैत्यैर्मायायोषिद्वपुर्हरिः। प्रहस्य रुचिरापाङ्गैर्निरीक्षन्निदमब्रवीत् ॥८॥ श्रीभगवानुवाच कथं कश्यपदायादाः पुंश्चल्यां मयि सङ्गताः। विश्वासं पण्डितो जातु कामिनीषु न याति हि ॥९॥ सालावृकाणां स्त्रीणां च स्वैरिणीनां सुरद्विषः। सख्यान्याहुरनित्यानि नूत्नं नूत्नं विचिन्वताम् ॥१०॥ श्रीशुक उवाच इति ते क्ष्वेलितैस्तस्या आश्वस्तमनसोऽसुराः। जहसुर्भावगम्भीरं ददुश्चामृतभाजनम् ॥११॥ ततो गृहीत्वामृतभाजनं हरिर्बभाष ईषत्स्मितशोभया गिरा। यद्यभ्युपेतं क्व च साध्वसाधु वा कृतं मया वो विभजे सुधामिमाम् ॥१२॥ इत्यभिव्याहृतं तस्या आकर्ण्यासुरपुङ्गवाः। अप्रमाणविदस्तस्यास्तत्तथेत्यन्वमंसत ॥१३॥ अथोपोष्य कृतस्नाना हुत्वा च हविषानलम्। दत्त्वा गोविप्रभूतेभ्यः कृतस्वस्त्ययना द्विजैः ॥१४॥ यथोपजोषं वासांसि परिधायाहतानि ते। कुशेषु प्राविशन् सर्वे प्रागग्रेष्वभिभूषिताः ॥१५॥ प्राङ्मुखेषूपविष्टेषु सुरेषु दितिजेषु च। धूपामोदितशालायां जुष्टायां माल्यदीपकैः ॥१६॥ तस्यां नरेन्द्र करभोरुरुशद्दुकूल- श्रोणीतटालसगतिर्मदविह्वलाक्षी। सा कूजती कनकनूपुरशिञ्जितेन कुम्भस्तनी कलशपाणिरथाविवेश ॥१७॥ तां श्रीसखीं कनककुण्डलचारुकर्ण- नासाकपोलवदनां परदेवताख्याम्। संवीक्ष्य सम्मुमुहुरुत्स्मितवीक्षणेन देवासुरा विगलितस्तनपट्टिकान्ताम् ॥१८॥ असुराणां सुधादानं सर्पाणामिव दुर्नयम्। मत्वा जातिनृशंसानां न तां व्यभजदच्युतः ॥१९॥ कल्पयित्वा पृथक् पङ्क्तीरुभयेषां जगत्पतिः। तांश्चोपवेशयामास स्वेषु स्वेषु च पङ्क्तिषु ॥२०॥ दैत्यान् गृहीतकलशो वञ्चयन्नुपसञ्चरैः। दूरस्थान् पाययामास जरामृत्युहरां सुधाम् ॥२१॥ ते पालयन्तः समयमसुराः स्वकृतं नृप। तूष्णीमासन् कृतस्नेहाः स्त्रीविवादजुगुप्सया ॥२२॥ तस्यां कृतातिप्रणयाः प्रणयापायकातराः। बहुमानेन चाबद्धा नोचुः किञ्चन विप्रियम् ॥२३॥ देवलिङ्गप्रतिच्छन्नः स्वर्भानुर्देवसंसदि। प्रविष्टः सोममपिबच्चन्द्रार्काभ्यां च सूचितः ॥२४॥ चक्रेण क्षुरधारेण जहार पिबतः शिरः। हरिस्तस्य कबन्धस्तु सुधयाऽऽप्लावितोऽपतत् ॥२५॥ शिरस्त्वमरतां नीतमजो ग्रहमचीकॢपत्। यस्तु पर्वणि चन्द्रार्कावभिधावति वैरधीः ॥२६॥ पीतप्रायेऽमृते देवैर्भगवान् लोकभावनः। पश्यतामसुरेन्द्राणां स्वं रूपं जगृहे हरिः ॥२७॥ एवं सुरासुरगणाः समदेशकाल- हेत्वर्थकर्ममतयोऽपि फले विकल्पाः। तत्रामृतं सुरगणाः फलमञ्जसाऽऽपु- र्यत्पादपङ्कजरजःश्रयणान्न दैत्याः ॥२८॥ यद्युज्यतेऽसुवसुकर्ममनोवचोभि- र्देहात्मजादिषु नृभिस्तदसत्पृथक्त्वात्। तैरेव सद्भवति यत्क्रियतेऽपृथक्त्वात्सर्वस्य तद्भवति मूलनिषेचनं यत् ॥२९॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे अमृतमथने नवमोऽध्यायः ॥९॥

॥ दशमोऽध्यायः - १० ॥

श्रीशुक उवाच इति दानवदैतेया नाविन्दन्नमृतं नृप। युक्ताः कर्मणि यत्ताश्च वासुदेवपराङ्मुखाः ॥१॥ साधयित्वामृतं राजन् पाययित्वा स्वकान् सुरान्। पश्यतां सर्वभूतानां ययौ गरुडवाहनः ॥२॥ सपत्नानां परामृद्धिं दृष्ट्वा ते दितिनन्दनाः। अमृष्यमाणा उत्पेतुर्देवान् प्रत्युद्यतायुधाः ॥३॥ ततः सुरगणाः सर्वे सुधया पीतयैधिताः। प्रतिसंयुयुधुः शस्त्रैर्नारायणपदाश्रयाः ॥४॥ तत्र दैवासुरो नाम रणः परमदारुणः। रोधस्युदन्वतो राजंस्तुमुलो रोमहर्षणः ॥५॥ तत्रान्योन्यं सपत्नास्ते संरब्धमनसो रणे। समासाद्यासिभिर्बाणैर्निजघ्नुर्विविधायुधैः ॥६॥ शङ्खतूर्यमृदङ्गानां भेरीडमरिणां महान्। हस्त्यश्वरथपत्तीनां नदतां निःस्वनोऽभवत् ॥७॥ रथिनो रथिभिस्तत्र पत्तिभिः सह पत्तयः। हया हयैरिभाश्चेभैः समसज्जन्त संयुगे ॥८॥ उष्ट्रैः केचिदिभैः केचिदपरे युयुधुः खरैः। केचिद्गौरमुखैरृक्षैर्द्वीपिभिर्हरिभिर्भटाः ॥९॥ गृध्रैः कङ्कैर्बकैरन्ये श्येनभासैस्तिमिङ्गिलैः। शरभैर्महिषैः खड्गैर्गोवृषैर्गवयारुणैः ॥१०॥ शिवाभिराखुभिः केचित्कृकलासैः शशैर्नरैः। बस्तैरेके कृष्णसारैर्हंसैरन्ये च सूकरैः ॥११॥ अन्ये जलस्थलखगैः सत्त्वैर्विकृतविग्रहैः। सेनयोरुभयो राजन् विविशुस्तेऽग्रतोऽग्रतः ॥१२॥ चित्रध्वजपटै राजन्नातपत्रैः सितामलैः। महाधनैर्वज्रदण्डैर्व्यजनैर्बार्हचामरैः ॥१३॥ वातोद्धूतोत्तरोष्णीषैरर्चिर्भिर्वर्मभूषणैः। स्फुरद्भिर्विशदैः शस्त्रैः सुतरां सूर्यरश्मिभिः ॥१४॥ देवदानववीराणां ध्वजिन्यौ पाण्डुनन्दन। रेजतुर्वीरमालाभिर्यादसामिव सागरौ ॥१५॥ वैरोचनो बलिः सङ्ख्ये सोऽसुराणां चमूपतिः। यानं वैहायसं नाम कामगं मयनिर्मितम् ॥१६॥ सर्वसाङ्ग्रामिकोपेतं सर्वाश्चर्यमयं प्रभो। अप्रतर्क्यमनिर्देश्यं दृश्यमानमदर्शनम् ॥१७॥ आस्थितस्तद्विमानाग्र्यं सर्वानीकाधिपैर्वृतः। वालव्यजनछत्राग्र्यै रेजे चन्द्र इवोदये ॥१८॥ तस्यासन् सर्वतो यानैर्यूथानां पतयोऽसुराः। नमुचिः शम्बरो बाणो विप्रचित्तिरयोमुखः ॥१९॥ द्विमूर्धा कालनाभोऽथ प्रहेतिर्हेतिरिल्वलः। शकुनिर्भूतसन्तापो वज्रदंष्ट्रो विरोचनः ॥२०॥ हयग्रीवः शङ्कुशिराः कपिलो मेघदुन्दुभिः। तारकश्चक्रदृक् शुम्भो निशुम्भो जम्भ उत्कलः ॥२१॥ अरिष्टोऽरिष्टनेमिश्च मयश्च त्रिपुराधिपः। अन्ये पौलोमकालेया निवातकवचादयः ॥२२॥ अलब्धभागाः सोमस्य केवलं क्लेशभागिनः। सर्व एते रणमुखे बहुशो निर्जितामराः ॥२३॥ सिंहनादान् विमुञ्चन्तः शङ्खान् दध्मुर्महारवान्। दृष्ट्वा सपत्नानुत्सिक्तान् बलभित्कुपितो भृशम् ॥२४॥ ऐरावतं दिक्करिणमारूढः शुशुभे स्वराट्। यथा स्रवत्प्रस्रवणमुदयाद्रिमहर्पतिः ॥२५॥ तस्यासन् सर्वतो देवा नानावाहध्वजायुधाः। लोकपालाः सह गणैर्वाय्वग्निवरुणादयः ॥२६॥ तेऽन्योन्यमभिसंसृत्य क्षिपन्तो मर्मभिर्मिथः। आह्वयन्तो विशन्तोऽग्रे युयुधुर्द्वन्द्वयोधिनः ॥२७॥ युयोध बलिरिन्द्रेण तारकेण गुहोऽस्यत। वरुणो हेतिनायुध्यन्मित्रो राजन् प्रहेतिना ॥२८॥ यमस्तु कालनाभेन विश्वकर्मा मयेन वै। शम्बरो युयुधे त्वष्ट्रा सवित्रा तु विरोचनः ॥२९॥ अपराजितेन नमुचिरश्विनौ वृषपर्वणा। सूर्यो बलिसुतैर्देवो बाणज्येष्ठैः शतेन च ॥३०॥ राहुणा च तथा सोमः पुलोम्ना युयुधेऽनिलः। निशुम्भशुम्भयोर्देवी भद्रकाली तरस्विनी ॥३१॥ वृषाकपिस्तु जम्भेन महिषेण विभावसुः। इल्वलः सह वातापिर्ब्रह्मपुत्रैररिन्दम ॥३२॥ कामदेवेन दुर्मर्ष उत्कलो मातृभिः सह। बृहस्पतिश्चोशनसा नरकेण शनैश्चरः ॥३३॥ मरुतो निवातकवचैः कालेयैर्वसवोऽमराः। विश्वेदेवास्तु पौलोमै रुद्राः क्रोधवशैः सह ॥३४॥ त एवमाजावसुराः सुरेन्द्राः द्वन्द्वेन संहत्य च युध्यमानाः। अन्योन्यमासाद्य निजघ्नुरोजसा जिगीषवस्तीक्ष्णशरासितोमरैः ॥३५॥ भुशुण्डिभिश्चक्रगदर्ष्टिपट्टिशैः शक्त्युल्मुकैः प्रासपरश्वधैरपि। निस्त्रिंशभल्लैः परिघैः समुद्गरैः सभिन्दिपालैश्च शिरांसि चिच्छिदुः ॥३६॥ गजास्तुरङ्गाः सरथाः पदातयः सारोहवाहा विविधा विखण्डिताः। निकृत्तबाहूरुशिरोधराङ्घ्रय- श्छिन्नध्वजेष्वासतनुत्रभूषणाः ॥३७॥ तेषां पदाघातरथाङ्गचूर्णिता- दायोधनादुल्बण उत्थितस्तदा। रेणुर्दिशः खं द्युमणिं च छादयन् न्यवर्ततासृक्स्रुतिभिः परिप्लुतात् ॥३८॥ शिरोभिरुद्धूतकिरीटकुण्डलैः संरम्भदृग्भिः परिदष्टदच्छदैः। महाभुजैः साभरणैः सहायुधैः सा प्रास्तृता भूः करभोरुभिर्बभौ ॥३९॥ कबन्धास्तत्र चोत्पेतुः पतितस्वशिरोऽक्षिभिः। उद्यतायुधदोर्दण्डैराधावन्तो भटान् मृधे ॥४०॥ बलिर्महेन्द्रं दशभिस्त्रिभिरैरावतं शरैः। चतुर्भिश्चतुरो वाहानेकेनारोहमार्च्छयत् ॥४१॥ स तानापततः शक्रस्तावद्भिः शीघ्रविक्रमः। चिच्छेद निशितैर्भल्लैरसम्प्राप्तान् हसन्निव ॥४२॥ तस्य कर्मोत्तमं वीक्ष्य दुर्मर्षः शक्तिमाददे। तां ज्वलन्तीं महोल्काभां हस्तस्थामच्छिनद्धरिः ॥४३॥ ततः शूलं ततः प्रासं ततस्तोमरमृष्टयः। यद्यच्छस्त्रं समादद्यात्सर्वं तदच्छिनद्विभुः ॥४४॥ ससर्जाथासुरीं मायामन्तर्धानगतोऽसुरः। ततः प्रादुरभूच्छैलः सुरानीकोपरि प्रभो ॥४५॥ ततो निपेतुस्तरवो दह्यमाना दवाग्निना। शिलाः सटङ्कशिखराश्चूर्णयन्त्यो द्विषद्बलम् ॥४६॥ महोरगाः समुत्पेतुर्दन्दशूकाः सवृश्चिकाः। सिंहव्याघ्रवराहाश्च मर्दयन्तो महागजान् ॥४७॥ यातुधान्यश्च शतशः शूलहस्ता विवाससः। छिन्धि भिन्धीति वादिन्यस्तथा रक्षोगणाः प्रभो ॥४८॥ ततो महाघना व्योम्नि गम्भीरपरुषस्वनाः। अङ्गारान् मुमुचुर्वातैराहताः स्तनयित्नवः ॥४९॥ सृष्टो दैत्येन सुमहान् वह्निः श्वसनसारथिः। सांवर्तक इवात्युग्रो विबुधध्वजिनीमधाक् ॥५०॥ ततः समुद्र उद्वेलः सर्वतः प्रत्यदृश्यत। प्रचण्डवातैरुद्धूततरङ्गावर्तभीषणः ॥५१॥ एवं दैत्यैर्महामायैरलक्ष्यगतिभीषणैः । सृज्यमानासु मायासु विषेदुः सुरसैनिकाः ॥५२॥ न तत्प्रतिविधिं यत्र विदुरिन्द्रादयो नृप। ध्यातः प्रादुरभूत्तत्र भगवान् विश्वभावनः ॥५३॥ सगोनासंगोगो ततः सुपर्णांसकृताङ्घ्रिपल्लवः पिशङ्गवासा नवकञ्जलोचनः। अदृश्यताष्टायुधबाहुरुल्लस- च्छ्रीकौस्तुभानर्घ्यकिरीटकुण्डलः ॥५४॥ तस्मिन् प्रविष्टेऽसुरकूटकर्मजा माया विनेशुर्महिना महीयसः। स्वप्नो यथा हि प्रतिबोध आगते हरिस्मृतिः सर्वविपद्विमोक्षणम् ॥५५॥ दृष्ट्वा मृधे गरुडवाहमिभारिवाह आविध्य शूलमहिनोदथ कालनेमिः। तल्लीलया गरुडमूर्ध्नि पतद्गृहीत्वा तेनाहनन्नृप सवाहमरिं त्र्यधीशः ॥५६॥ माली सुमाल्यतिबलौ युधि पेततुर्यच्चक्रेण कृत्तशिरसावथ माल्यवांस्तम्। आहत्य तिग्मगदयाहनदण्डजेन्द्रं तावच्छिरोऽच्छिनदरेर्नदतोऽरिणाद्यः ॥५७॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे देवासुरसंग्रामे दशमोऽध्यायः ॥१०॥

॥ एकादशोऽध्यायः - ११ ॥

श्रीशुक उवाच अथो सुराः प्रत्युपलब्धचेतसः परस्य पुंसः परयानुकम्पया। जघ्नुर्भृशं शक्रसमीरणादय- स्तांस्तान् रणे यैरभिसंहताः पुरा ॥१॥ वैरोचनाय संरब्धो भगवान् पाकशासनः। उदयच्छद्यदा वज्रं प्रजा हा हेति चुक्रुशुः ॥२॥ वज्रपाणिस्तमाहेदं तिरस्कृत्य पुरःस्थितम्। मनस्विनं सुसम्पन्नं विचरन्तं महामृधे ॥३॥ नटवन्मूढ मायाभिर्मायेशान् नो जिगीषसि। जित्वा बालान् निबद्धाक्षान् नटो हरति तद्धनम् ॥४॥ आरुरुक्षन्ति मायाभिरुत्सिसृप्सन्ति ये दिवम्। तान् दस्यून् विधुनोम्यज्ञान् पूर्वस्माच्च पदादधः ॥५॥ सोऽहं दुर्मायिनस्तेऽद्य वज्रेण शतपर्वणा। शिरो हरिष्ये मन्दात्मन्घटस्व ज्ञातिभिः सह ॥६॥ बलिरुवाच सङ्ग्रामे वर्तमानानां कालचोदितकर्मणाम्। कीर्तिर्जयोऽजयो मृत्युः सर्वेषां स्युरनुक्रमात् ॥७॥ तदिदं कालरशनं जनाः पश्यन्ति सूरयः। न हृष्यन्ति न शोचन्ति तत्र यूयमपण्डिताः ॥८॥ न वयं मन्यमानानामात्मानं तत्र साधनम्। गिरो वः साधुशोच्यानां गृह्णीमो मर्मताडनाः ॥९॥ श्रीशुक उवाच इत्याक्षिप्य विभुं वीरो नाराचैर्वीरमर्दनः। आकर्णपूर्णैरहनदाक्षेपैराहतं पुनः ॥१०॥ एवं निराकृतो देवो वैरिणा तथ्यवादिना। नामृष्यत्तदधिक्षेपं तोत्राहत इव द्विपः ॥११॥ प्राहरत्कुलिशं तस्मा अमोघं परमर्दनः। सयानो न्यपतद्भूमौ छिन्नपक्ष इवाचलः ॥१२॥ सखायं पतितं दृष्ट्वा जम्भो बलिसखः सुहृत्। अभ्ययात्सौहृदं सख्युर्हतस्यापि समाचरन् ॥१३॥ स सिंहवाह आसाद्य गदामुद्यम्य रंहसा। जत्रावताडयच्छक्रं गजं च सुमहाबलः ॥१४॥ गदाप्रहारव्यथितो भृशं विह्वलितो गजः। जानुभ्यां धरणीं स्पृष्ट्वा कश्मलं परमं ययौ ॥१५॥ ततो रथो मातलिना हरिभिर्दशशतैर्वृतः। आनीतो द्विपमुत्सृज्य रथमारुरुहे विभुः ॥१६॥ तस्य तत्पूजयन् कर्म यन्तुर्दानवसत्तमः। शूलेन ज्वलता तं तु स्मयमानोऽहनन्मृधे ॥१७॥ सेहे रुजं सुदुर्मर्षां सत्त्वमालम्ब्य मातलिः। इन्द्रो जम्भस्य सङ्क्रुद्धो वज्रेणापाहरच्छिरः ॥१८॥ जम्भं श्रुत्वा हतं तस्य ज्ञातयो नारदादृषेः। नमुचिश्च बलः पाकस्तत्रापेतुस्त्वरान्विताः ॥१९॥ वचोभिः परुषैरिन्द्रमर्दयन्तोऽस्य मर्मसु। शरैरवाकिरन् मेघा धाराभिरिव पर्वतम् ॥२०॥ हरीन् दशशतान्याजौ हर्यश्वस्य बलः शरैः। तावद्भिरर्दयामास युगपल्लघुहस्तवान् ॥२१॥ शताभ्यां मातलिं पाको रथं सावयवं पृथक्। सकृत्सन्धानमोक्षेण तदद्भुतमभूद्रणे ॥२२॥ नमुचिः पञ्चदशभिः स्वर्णपुङ्खैर्महेषुभिः। आहत्य व्यनदत्सङ्ख्ये सतोय इव तोयदः ॥२३॥ सर्वतः शरकूटेन शक्रं सरथसारथिम्। छादयामासुरसुराः प्रावृट्सूर्यमिवाम्बुदाः ॥२४॥ अलक्षयन्तस्तमतीव विह्वला विचुक्रुशुर्देवगणाः सहानुगाः। अनायकाः शत्रुबलेन निर्जिता वणिक्पथा भिन्ननवो यथार्णवे ॥२५॥ ततस्तुराषाडिषुबद्धपञ्जरा- द्विनिर्गतः साश्वरथध्वजाग्रणीः। बभौ दिशः खं पृथिवीं च रोचयन् स्वतेजसा सूर्य इव क्षपात्यये ॥२६॥ निरीक्ष्य पृतनां देवः परैरभ्यर्दितां रणे। उदयच्छद्रिपुं हन्तुं वज्रं वज्रधरो रुषा ॥२७॥ स तेनैवाष्टधारेण शिरसी बलपाकयोः। ज्ञातीनां पश्यतां राजन् जहार जनयन् भयम् ॥२८॥ नमुचिस्तद्वधं दृष्ट्वा शोकामर्षरुषान्वितः। जिघांसुरिन्द्रं नृपते चकार परमोद्यमम् ॥२९॥ अश्मसारमयं शूलं घण्टावद्धेमभूषणम्। प्रगृह्याभ्यद्रवत्क्रुद्धो हतोऽसीति वितर्जयन्। प्राहिणोद्देवराजाय निनदन् मृगराडिव ॥३०॥ तदापतद्गगनतले महाजवं विचिच्छिदे हरिरिषुभिः सहस्रधा। तमाहनन्नृप कुलिशेन कन्धरे रुषान्वितस्त्रिदशपतिः शिरो हरन् ॥३१॥ न तस्य हि त्वचमपि वज्र ऊर्जितो बिभेद यः सुरपतिनौजसेरितः। तदद्भुतं परमतिवीर्यवृत्रभि- त्तिरस्कृतो नमुचिशिरोधरत्वचा ॥३२॥ तस्मादिन्द्रोऽबिभेच्छत्रोर्वज्रः प्रतिहतो यतः। किमिदं दैवयोगेन भूतं लोकविमोहनम् ॥३३॥ येन मे पूर्वमद्रीणां पक्षच्छेदः प्रजात्यये। कृतो निविशतां भारैः पतत्त्रैः पततां भुवि ॥३४॥ तपःसारमयं त्वाष्ट्रं वृत्रो येन विपाटितः। अन्ये चापि बलोपेताः सर्वास्त्रैरक्षतत्वचः ॥३५॥ सोऽयं प्रतिहतो वज्रो मया मुक्तोऽसुरेऽल्पके। नाहं तदाददे दण्डं ब्रह्मतेजोऽप्यकारणम् ॥३६॥ इति शक्रं विषीदन्तमाह वागशरीरिणी। नायं शुष्कैरथो नार्द्रैर्वधमर्हति दानवः ॥३७॥ मयास्मै यद्वरो दत्तो मृत्युर्नैवार्द्रशुष्कयोः। अतोऽन्यश्चिन्तनीयस्ते उपायो मघवन् रिपोः ॥३८॥ तां दैवीं गिरमाकर्ण्य मघवान् सुसमाहितः। ध्यायन् फेनमथापश्यदुपायमुभयात्मकम् ॥३९॥ न शुष्केण न चार्द्रेण जहार नमुचेः शिरः। तं तुष्टुवुर्मुनिगणा माल्यैश्चावाकिरन् विभुम् ॥४०॥ गन्धर्वमुख्यौ जगतुर्विश्वावसुपरावसू। देवदुन्दुभयो नेदुर्नर्तक्यो ननृतुर्मुदा ॥४१॥ अन्येऽप्येवं प्रतिद्वन्द्वान् वाय्वग्निवरुणादयः। सूदयामासुरस्त्रौघैर्मृगान् केसरिणो यथा ॥४२॥ ब्रह्मणा प्रेषितो देवान् देवर्षिर्नारदो नृप। वारयामास विबुधान् दृष्ट्वा दानवसङ्क्षयम् ॥४३॥ नारद उवाच भवद्भिरमृतं प्राप्तं नारायणभुजाश्रयैः। श्रिया समेधिताः सर्व उपारमत विग्रहात् ॥४४॥ श्रीशुक उवाच संयम्य मन्युसंरम्भं मानयन्तो मुनेर्वचः। उपगीयमानानुचरैर्ययुः सर्वे त्रिविष्टपम् ॥४५॥ येऽवशिष्टा रणे तस्मिन् नारदानुमतेन ते। बलिं विपन्नमादाय अस्तं गिरिमुपागमन् ॥४६॥ तत्राविनष्टावयवान् विद्यमानशिरोधरान्। उशना जीवयामास संजीविन्या स्वविद्यया ॥४७॥ बलिश्चोशनसा स्पृष्टः प्रत्यापन्नेन्द्रियस्मृतिः। पराजितोऽपि नाखिद्यल्लोकतत्त्वविचक्षणः ॥४८॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहिताया- मष्टमस्कन्धे देवासुरसंग्रामे एकादशोऽध्यायः ॥११॥

॥ द्वादशोऽध्यायः - १२ ॥

श्रीबादरायणिरुवाच वृषध्वजो निशम्येदं योषिद्रूपेण दानवान्। मोहयित्वा सुरगणान् हरिः सोममपाययत् ॥१॥ वृषमारुह्य गिरिशः सर्वभूतगणैर्वृतः। सह देव्या ययौ द्रष्टुं यत्रास्ते मधुसूदनः ॥२॥ सभाजितो भगवता सादरं सोमया भवः। सूपविष्ट उवाचेदं प्रतिपूज्य स्मयन् हरिम् ॥३॥ श्रीमहादेव उवाच देवदेव जगद्व्यापिन् जगदीश जगन्मय। सर्वेषामपि भावानां त्वमात्मा हेतुरीश्वरः ॥४॥ आद्यन्तावस्य यन्मध्यमिदमन्यदहं बहिः। यतोऽव्ययस्य नैतानि तत्सत्यं ब्रह्म चिद्भवान् ॥५॥ तवैव चरणाम्भोजं श्रेयस्कामा निराशिषः। विसृज्योभयतः सङ्गं मुनयः समुपासते ॥६॥ त्वं ब्रह्म पूर्णममृतं विगुणं विशोक- मानन्दमात्रमविकारमनन्यदन्यत्। विश्वस्य हेतुरुदयस्थितिसंयमाना- मात्मेश्वरश्च तदपेक्षतयानपेक्षः ॥७॥ एकस्त्वमेव सदसद्द्वयमद्वयं च स्वर्णं कृताकृतमिवेह न वस्तुभेदः। अज्ञानतस्त्वयि जनैर्विहितो विकल्पो यस्माद्गुणव्यतिकरो निरुपाधिकस्य ॥८॥ त्वां ब्रह्म केचिदवयन्त्युत धर्ममेके एके परं सदसतोः पुरुषं परेशम् । अन्येऽवयन्ति नवशक्तियुतं परं त्वां केचिन्महापुरुषमव्ययमात्मतन्त्रम् ॥९॥ नाहं परायुरृषयो न मरीचिमुख्या जानन्ति यद्विरचितं खलु सत्त्वसर्गाः। यन्मायया मुषितचेतस ईश दैत्यमर्त्यादयः किमुत शश्वदभद्रवृत्ताः ॥१०॥ स त्वं समीहितमदः स्थितिजन्मनाशं भूतेहितं च जगतो भवबन्धमोक्षौ। वायुर्यथा विशति खं च चराचराख्यं सर्वं तदात्मकतयावगमोऽवरुन्त्से ॥११॥ अवतारा मया दृष्टा रममाणस्य ते गुणैः। सोऽहं तद्द्रष्टुमिच्छामि यत्ते योषिद्वपुर्धृतम् ॥१२॥ येन सम्मोहिता दैत्याः पायिताश्चामृतं सुराः। तद्दिदृक्षव आयाताः परं कौतूहलं हि नः ॥१३॥ श्रीशुक उवाच एवमभ्यर्थितो विष्णुर्भगवान् शूलपाणिना। प्रहस्य भावगम्भीरं गिरिशं प्रत्यभाषत ॥१४॥ श्रीभगवानुवाच कौतूहलाय दैत्यानां योषिद्वेषो मया कृतः । पश्यता सुरकार्याणि गते पीयूषभाजने ॥१५॥ तत्तेऽहं दर्शयिष्यामि दिदृक्षोः सुरसत्तम। कामिनां बहु मन्तव्यं सङ्कल्पप्रभवोदयम् ॥१६॥ श्रीशुक उवाच इति ब्रुवाणो भगवांस्तत्रैवान्तरधीयत। सर्वतश्चारयंश्चक्षुर्भव आस्ते सहोमया ॥१७॥ ततो ददर्शोपवने वरस्त्रियं विचित्रपुष्पारुणपल्लवद्रुमे। विक्रीडतीं कन्दुकलीलया लसद्दुकूलपर्यस्तनितम्बमेखलाम् ॥१८॥ आवर्तनोद्वर्तनकम्पितस्तन- प्रकृष्टहारोरुभरैः पदे पदे। प्रभज्यमानामिव मध्यतश्चल- त्पदप्रवालं नयतीं ततस्ततः ॥१९॥ दिक्षु भ्रमत्कन्दुकचापलैर्भृशं प्रोद्विग्नतारायतलोललोचनाम्। स्वकर्णविभ्राजितकुण्डलोल्लस- त्कपोलनीलालकमण्डिताननाम् ॥२०॥ श्लथद्दुकूलं कबरीं च विच्युतां सन्नह्यतीं वामकरेण वल्गुना। विनिघ्नतीमन्यकरेण कन्दुकं विमोहयन्तीं जगदात्ममायया ॥२१॥ तां वीक्ष्य देव इति कन्दुकलीलयेष- द्व्रीडास्फुटस्मितविसृष्टकटाक्षमुष्टः। स्त्रीप्रेक्षणप्रतिसमीक्षणविह्वलात्मा नात्मानमन्तिक उमां स्वगणांश्च वेद ॥२२॥ तस्याः कराग्रात्स तु कन्दुको यदा गतो विदूरं तमनुव्रजत्स्त्रियाः। वासः ससूत्रं लघु मारुतोऽहर- द्भवस्य देवस्य किलानुपश्यतः ॥२३॥ एवं तां रुचिरापाङ्गीं दर्शनीयां मनोरमाम्। दृष्ट्वा तस्यां मनश्चक्रे विषज्जन्त्यां भवः किल ॥२४॥ तयापहृतविज्ञानस्तत्कृतस्मरविह्वलः। भवान्या अपि पश्यन्त्या गतह्रीस्तत्पदं ययौ ॥२५॥ सा तमायान्तमालोक्य विवस्त्रा व्रीडिता भृशम्। निलीयमाना वृक्षेषु हसन्ती नान्वतिष्ठत ॥२६॥ तामन्वगच्छद्भगवान् भवः प्रमुषितेन्द्रियः। कामस्य च वशं नीतः करेणुमिव यूथपः ॥२७॥ सोऽनुव्रज्यातिवेगेन गृहीत्वानिच्छतीं स्त्रियम्। केशबन्ध उपानीय बाहुभ्यां परिषस्वजे ॥२८॥ सोपगूढा भगवता करिणा करिणी यथा। इतस्ततः प्रसर्पन्ती विप्रकीर्णशिरोरुहा ॥२९॥ आत्मानं मोचयित्वाङ्ग सुरर्षभभुजान्तरात्। प्राद्रवत्सा पृथुश्रोणी माया देवविनिर्मिता ॥३०॥ तस्यासौ पदवीं रुद्रो विष्णोरद्भुतकर्मणः। प्रत्यपद्यत कामेन वैरिणेव विनिर्जितः ॥३१॥ तस्यानुधावतो रेतश्चस्कन्दामोघरेतसः। शुष्मिणो यूथपस्येव वासितामनुधावतः ॥३२॥ यत्र यत्रापतन्मह्यां रेतस्तस्य महात्मनः। तानि रूप्यस्य हेम्नश्च क्षेत्राण्यासन् महीपते ॥३३॥ सरित्सरःसु शैलेषु वनेषूपवनेषु च। यत्र क्व चासन्नृषयस्तत्र सन्निहितो हरः ॥३४॥ स्कन्ने रेतसि सोऽपश्यदात्मानं देवमायया। जडीकृतं नृपश्रेष्ठ सन्न्यवर्तत कश्मलात् ॥३५॥ अथावगतमाहात्म्य आत्मनो जगदात्मनः। अपरिज्ञेयवीर्यस्य न मेने तदु हाद्भुतम् ॥३६॥ तमविक्लवमव्रीडमालक्ष्य मधुसूदनः। उवाच परमप्रीतो बिभ्रत्स्वां पौरुषीं तनुम् ॥३७॥ श्रीभगवानुवाच दिष्ट्या त्वं विबुधश्रेष्ठ स्वां निष्ठामात्मना स्थितः। यन्मे स्त्रीरूपया स्वैरं मोहितोऽप्यङ्ग मायया ॥३८॥ को नु मेऽतितरेन्मायां विषक्तस्त्वदृते पुमान्। तांस्तान् विसृजतीं भावान् दुस्तरामकृतात्मभिः ॥३९॥ सेयं गुणमयी माया न त्वामभिभविष्यति। मया समेता कालेन कालरूपेण भागशः ॥४०॥ श्रीशुक उवाच एवं भगवता राजन् श्रीवत्साङ्केन सत्कृतः। आमन्त्र्य तं परिक्रम्य सगणः स्वालयं ययौ ॥४१॥ आत्मांशभूतां तां मायां भवानीं भगवान् भवः। शंसतामृषिमुख्यानां प्रीत्याचष्टाथ भारत ॥४२॥ अपि व्यपश्यस्त्वमजस्य मायां परस्य पुंसः परदेवतायाः। अहं कलानामृषभो विमुह्ये ययावशोऽन्ये किमुतास्वतन्त्राः ॥४३॥ यं मामपृच्छस्त्वमुपेत्य योगात्समासहस्रान्त उपारतं वै। स एष साक्षात्पुरुषः पुराणो न यत्र कालो विशते न वेदः ॥४४॥ श्रीशुक उवाच इति तेऽभिहितस्तात विक्रमः शार्ङ्गधन्वनः। सिन्धोर्निर्मथने येन धृतः पृष्ठे महाचलः ॥४५॥ एतन्मुहुः कीर्तयतोऽनुशृण्वतो न रिष्यते जातु समुद्यमः क्वचित्। यदुत्तमश्लोकगुणानुवर्णनं समस्तसंसारपरिश्रमापहम् ॥४६॥ असदविषयमङ्घ्रिं भावगम्यं प्रपन्ना- नमृतममरवर्यानाशयत्सिन्धुमथ्यम्। कपटयुवतिवेषो मोहयन् यः सुरारीन् तमहमुपसृतानां कामपूरं नतोऽस्मि ॥४७॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहिताया- मष्टमस्कन्धे शंकरमोहनं नाम द्वादशोऽध्यायः ॥१२॥

॥ त्रयोदशोऽध्यायः - १३ ॥

श्रीशुक उवाच मनुर्विवस्वतः पुत्रः श्राद्धदेव इति श्रुतः। सप्तमो वर्तमानो यस्तदपत्यानि मे शृणु ॥१॥ इक्ष्वाकुर्नभगश्चैव धृष्टः शर्यातिरेव च। नरिष्यन्तोऽथ नाभागः सप्तमो दिष्ट उच्यते ॥२॥ करूषश्च पृषध्रश्च दशमो वसुमान् स्मृतः। मनोर्वैवस्वतस्यैते दशपुत्राः परन्तप ॥३॥ आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणाः। अश्विनावृभवो राजन्निन्द्रस्तेषां पुरन्दरः ॥४॥ कश्यपोऽत्रिर्वसिष्ठश्च विश्वामित्रोऽथ गौतमः। जमदग्निर्भरद्वाज इति सप्तर्षयः स्मृताः ॥५॥ अत्रापि भगवज्जन्म कश्यपाददितेरभूत्। आदित्यानामवरजो विष्णुर्वामनरूपधृक् ॥६॥ सङ्क्षेपतो मयोक्तानि सप्तमन्वन्तराणि ते। भविष्याण्यथ वक्ष्यामि विष्णोः शक्त्यान्वितानि च ॥७॥ विवस्वतश्च द्वे जाये विश्वकर्मसुते उभे। संज्ञा छाया च राजेन्द्र ये प्रागभिहिते तव ॥८॥ तृतीयां वडवामेके तासां संज्ञासुतास्त्रयः। यमो यमी श्राद्धदेवश्छायायाश्च सुताञ्छृणु ॥९॥ सावर्णिस्तपती कन्या भार्या संवरणस्य या। शनैश्चरस्तृतीयोऽभूदश्विनौ वडवात्मजौ ॥१०॥ अष्टमेऽन्तर आयाते सावर्णिर्भविता मनुः। निर्मोकविरजस्काद्याः सावर्णितनया नृप ॥११॥ तत्र देवाः सुतपसो विरजा अमृतप्रभाः। तेषां विरोचनसुतो बलिरिन्द्रो भविष्यति ॥१२॥ दत्त्वेमां याचमानाय विष्णवे यः पदत्रयम्। राद्धमिन्द्रपदं हित्वा ततः सिद्धिमवाप्स्यति ॥१३॥ योऽसौ भगवता बद्धः प्रीतेन सुतले पुनः। निवेशितोऽधिके स्वर्गादधुनाऽऽस्ते स्वराडिव ॥१४॥ गालवो दीप्तिमान् रामो द्रोणपुत्रः कृपस्तथा। ऋष्यशृङ्गः पितास्माकं भगवान् बादरायणः ॥१५॥ इमे सप्तर्षयस्तत्र भविष्यन्ति स्वयोगतः। इदानीमासते राजन् स्वे स्व आश्रममण्डले ॥१६॥ देवगुह्यात्सरस्वत्यां सार्वभौम इति प्रभुः। स्थानं पुरन्दराद्धृत्वा बलये दास्यतीश्वरः ॥१७॥ नवमो दक्षसावर्णिर्मनुर्वरुणसम्भवः। भूतकेतुर्दीप्तकेतुरित्याद्यास्तत्सुता नृप ॥१८॥ पारा मरीचिगर्भाद्या देवा इन्द्रोऽद्भुतः स्मृतः। द्युतिमत्प्रमुखास्तत्र भविष्यन्त्यृषयस्ततः ॥१९॥ आयुष्मतोऽम्बुधारायामृषभो भगवत्कला। भविता येन संराद्धां त्रिलोकीं भोक्ष्यतेऽद्भुतः ॥२०॥ दशमो ब्रह्मसावर्णिरुपश्लोकसुतो महान्। तत्सुता भूरिषेणाद्या हविष्मत्प्रमुखा द्विजाः ॥२१॥ हविष्मान् सुकृतिः सत्यो जयो मूर्तिस्तदा द्विजाः। सुवासनविरुद्धाद्या देवाः शम्भुः सुरेश्वरः ॥२२॥ विष्वक्सेनो विषूच्यां तु शम्भोः सख्यं करिष्यति। जातः स्वांशेन भगवान् गृहे विश्वसृजो विभुः ॥२३॥ मनुर्वै धर्मसावर्णिरेकादशम आत्मवान्। अनागतास्तत्सुताश्च सत्यधर्मादयो दश ॥२४॥ विहङ्गमाः कामगमा निर्वाणरुचयः सुराः। इन्द्रश्च वैधृतस्तेषामृषयश्चारुणादयः ॥२५॥ आर्यकस्य सुतस्तत्र धर्मसेतुरिति स्मृतः। वैधृतायां हरेरंशस्त्रिलोकीं धारयिष्यति ॥२६॥ भविता रुद्रसावर्णी राजन् द्वादशमो मनुः। देववानुपदेवश्च देवश्रेष्ठादयः सुताः ॥२७॥ ऋतधामा च तत्रेन्द्रो देवाश्च हरितादयः। ऋषयश्च तपोमूर्तिस्तपस्व्याग्नीध्रकादयः ॥२८॥ स्वधामाख्यो हरेरंशः साधयिष्यति तन्मनोः। अन्तरं सत्यसहसः सूनृतायाः सुतो विभुः ॥२९॥ मनुस्त्रयोदशो भाव्यो देवसावर्णिरात्मवान्। चित्रसेनविचित्राद्या देवसावर्णिदेहजाः ॥३०॥ देवाः सुकर्मसुत्रामसंज्ञा इन्द्रो दिवस्पतिः। निर्मोकतत्त्वदर्शाद्या भविष्यन्त्यृषयस्तदा ॥३१॥ देवहोत्रस्य तनय उपहर्ता दिवस्पतेः। योगेश्वरो हरेरंशो बृहत्यां सम्भविष्यति ॥३२॥ मनुर्वा इन्द्रसावर्णिश्चतुर्दशम एष्यति। उरुगम्भीरबुद्ध्याद्या इन्द्रसावर्णिवीर्यजाः ॥३३॥ पवित्राश्चाक्षुषा देवाः शुचिरिन्द्रो भविष्यति। अग्निर्बाहुः शुचिः शुद्धो मागधाद्यास्तपस्विनः ॥३४॥ सत्रायणस्य तनयो बृहद्भानुस्तदा हरिः। वितानायां महाराज क्रियातन्तून् वितायिता ॥३५॥ राजंश्चतुर्दशैतानि त्रिकालानुगतानि ते। प्रोक्तान्येभिर्मितः कल्पो युगसाहस्रपर्ययः ॥३६॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहिताया- मष्टमस्कन्धे मन्वन्तरानुवर्णनं नाम त्रयोदशोऽध्यायः ॥१३॥

॥ चतुर्दशोऽध्यायः - १४ ॥

राजोवाच मन्वन्तरेषु भगवन् यथा मन्वादयस्त्विमे। यस्मिन् कर्मणि ये येन नियुक्तास्तद्वदस्व मे ॥१॥ ऋषिरुवाच मनवो मनुपुत्राश्च मुनयश्च महीपते। इन्द्राः सुरगणाश्चैव सर्वे पुरुषशासनाः ॥२॥ यज्ञादयो याः कथिताः पौरुष्यस्तनवो नृप। मन्वादयो जगद्यात्रां नयन्त्याभिः प्रचोदिताः ॥३॥ चतुर्युगान्ते कालेन ग्रस्तान् श्रुतिगणान् यथा। तपसा ऋषयोऽपश्यन् यतो धर्मः सनातनः ॥४॥ ततो धर्मं चतुष्पादं मनवो हरिणोदिताः। युक्ताः सञ्चारयन्त्यद्धा स्वे स्वे काले महीं नृप ॥५॥ पालयन्ति प्रजापाला यावदन्तं विभागशः। यज्ञभागभुजो देवा ये च तत्रान्विताश्च तैः ॥६॥ इन्द्रो भगवता दत्तां त्रैलोक्यश्रियमूर्जिताम्। भुञ्जानः पाति लोकांस्त्रीन् कामं लोके प्रवर्षति ॥७॥ ज्ञानं चानुयुगं ब्रूते हरिः सिद्धस्वरूपधृक्। ऋषिरूपधरः कर्म योगं योगेशरूपधृक् ॥८॥ सर्गं प्रजेशरूपेण दस्यून् हन्यात्स्वराड्वपुः। कालरूपेण सर्वेषामभावाय पृथग्गुणः ॥९॥ स्तूयमानो जनैरेभिर्मायया नामरूपया। विमोहितात्मभिर्नानादर्शनैर्न च दृश्यते ॥१०॥ एतत्कल्पविकल्पस्य प्रमाणं परिकीर्तितम्। यत्र मन्वन्तराण्याहुश्चतुर्दश पुराविदः ॥११॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहिताया- मष्टमस्कन्धे चतुर्दशोऽध्यायः ॥१४॥ पञ्चदशोऽद्ध्ययाः - १५ राजोवाच बलेः पदत्रयं भूमेः कस्माद्धरिरयाचत। भूत्वेश्वरः कृपणवल्लब्धार्थोऽपि बबन्ध तम् ॥१॥ एतद्वेदितुमिच्छामो महत्कौतूहलं हि नः। यज्ञेश्वरस्य पूर्णस्य बन्धनं चाप्यनागसः ॥२॥ श्रीशुक उवाच पराजितश्रीरसुभिश्च हापितो हीन्द्रेण राजन् भृगुभिः स जीवितः। सर्वात्मना तानभजद्भृगून् बलिः शिष्यो महात्मार्थनिवेदनेन ॥३॥ तं ब्राह्मणा भृगवः प्रीयमाणा अयाजयन् विश्वजिता त्रिणाकम्। जिगीषमाणं विधिनाभिषिच्य महाभिषेकेण महानुभावाः ॥४॥ ततो रथः काञ्चनपट्टनद्धो हयाश्च हर्यश्वतुरङ्गवर्णाः। ध्वजश्च सिंहेन विराजमानो हुताशनादास हविर्भिरिष्टात् ॥५॥ धनुश्च दिव्यं पुरटोपनद्धं तूणावरिक्तौ कवचं च दिव्यम्। पितामहस्तस्य ददौ च माला- मम्लानपुष्पां जलजं च शुक्रः ॥६॥ एवं स विप्रार्जितयोधनार्थस्तैः कल्पितस्वस्त्ययनोऽथ विप्रान्। प्रदक्षिणीकृत्य कृतप्रणामः प्रह्लादमामन्त्र्य नमश्चकार ॥७॥ अथारुह्य रथं दिव्यं भृगुदत्तं महारथः। सुस्रग्धरोऽथ सन्नह्य धन्वी खड्गी धृतेषुधिः ॥८॥ हेमाङ्गदलसद्बाहुः स्फुरन्मकरकुण्डलः। रराज रथमारूढो धिष्ण्यस्थ इव हव्यवाट् ॥९॥ तुल्यैश्वर्यबलश्रीभिः स्वयूथैर्दैत्ययूथपैः। पिबद्भिरिव खं दृग्भिर्दहद्भिः परिधीनिव ॥१०॥ वृतो विकर्षन् महतीमासुरीं ध्वजिनीं विभुः। ययाविन्द्रपुरीं स्वृद्धां कम्पयन्निव रोदसी ॥११॥ रम्यामुपवनोद्यानैः श्रीमद्भिर्नन्दनादिभिः। कूजद्विहङ्गमिथुनैर्गायन्मत्तमधुव्रतैः ॥१२॥ प्रवालफलपुष्पोरुभारशाखामरद्रुमैः। हंससारसचक्राह्वकारण्डवकुलाकुलाः। नलिन्यो यत्र क्रीडन्ति प्रमदाः सुरसेविताः ॥१३॥ आकाशगङ्गया देव्या वृतां परिखभूतया। प्राकारेणाग्निवर्णेन साट्टालेनोन्नतेन च ॥१४॥ रुक्मपट्टकपाटैश्च द्वारैः स्फटिकगोपुरैः। जुष्टां विभक्तप्रपथां विश्वकर्मविनिर्मिताम् ॥१५॥ सभाचत्वररथ्याढ्यां विमानैर्न्यर्बुदैर्वृताम्। शृङ्गाटकैर्मणिमयैर्वज्रविद्रुमवेदिभिः ॥१६॥ यत्र नित्यवयोरूपाः श्यामा विरजवाससः। भ्राजन्ते रूपवन्नार्यो ह्यर्चिर्भिरिव वह्नयः ॥१७॥ सुरस्त्रीकेशविभ्रष्टनवसौगन्धिकस्रजाम्। यत्रामोदमुपादाय मार्ग आवाति मारुतः ॥१८॥ हेमजालाक्षनिर्गच्छद्धूमेनागुरुगन्धिना। पाण्डुरेण प्रतिच्छन्नमार्गे यान्ति सुरप्रियाः ॥१९॥ मुक्तावितानैर्मणिहेमकेतुभि- र्नानापताकावलभीभिरावृताम्। शिखण्डिपारावतभृङ्गनादितां वैमानिकस्त्रीकलगीतमङ्गलाम् ॥२०॥ मृदङ्गशङ्खानकदुन्दुभिस्वनैः सतालवीणामुरजर्ष्टिवेणुभिः। नृत्यैः सवाद्यैरुपदेवगीतकै- र्मनोरमां स्वप्रभया जितप्रभाम् ॥२१॥ यां न व्रजन्त्यधर्मिष्ठाः खला भूतद्रुहः शठाः। मानिनः कामिनो लुब्धा एभिर्हीना व्रजन्ति यत्॥२२॥ तां देवधानीं स वरूथिनीपतिर्बहिः समन्ताद्रुरुधे पृतन्यया। आचार्यदत्तं जलजं महास्वनं दध्मौ प्रयुञ्जन् भयमिन्द्रयोषिताम् ॥२३॥ मघवांस्तमभिप्रेत्य बलेः परममुद्यमम्। सर्वदेवगणोपेतो गुरुमेतदुवाच ह ॥२४॥ भगवन्नुद्यमो भूयान् बलेर्नः पूर्ववैरिणः। अविषह्यमिमं मन्ये केनासीत्तेजसोर्जितः ॥२५॥ नैनं कश्चित्कुतो वापि प्रतिव्योढुमधीश्वरः। पिबन्निव मुखेनेदं लिहन्निव दिशो दश। दहन्निव दिशो दृग्भिः संवर्ताग्निरिवोत्थितः ॥२६॥ ब्रूहि कारणमेतस्य दुर्धर्षत्वस्य मद्रिपोः। ओजः सहो बलं तेजो यत एतत्समुद्यमः ॥२७॥ गुरुरुवाच जानामि मघवन् शत्रोरुन्नतेरस्य कारणम्। शिष्यायोपभृतं तेजो भृगुभिर्ब्रह्मवादिभिः ॥२८॥ (ओजस्विनं बलिं जेतुं न समर्थोऽस्ति कश्चन। विजेष्यति न कोऽप्येनं ब्रह्मतेजःसमेधितम्।) भवद्विधो भवान् वापि वर्जयित्वेश्वरं हरिम् नास्य शक्तः पुरः स्थातुं कृतान्तस्य यथा जनाः ॥२९॥ तस्मान्निलयमुत्सृज्य यूयं सर्वे त्रिविष्टपम्। यात कालं प्रतीक्षन्तो यतः शत्रोर्विपर्ययः ॥३०॥ एष विप्रबलोदर्कः सम्प्रत्यूर्जितविक्रमः। तेषामेवापमानेन सानुबन्धो विनङ्क्ष्यति ॥३१॥ एवं सुमन्त्रितार्थास्ते गुरुणार्थानुदर्शिना। हित्वा त्रिविष्टपं जग्मुर्गीर्वाणाः कामरूपिणः ॥३२॥ देवेष्वथ निलीनेषु बलिर्वैरोचनः पुरीम्। देवधानीमधिष्ठाय वशं निन्ये जगत्त्रयम् ॥३३॥ तं विश्वजयिनं शिष्यं भृगवः शिष्यवत्सलाः। शतेन हयमेधानामनुव्रतमयाजयन् ॥३४॥ ततस्तदनुभावेन भुवनत्रयविश्रुताम्। कीर्तिं दिक्षु वितन्वानः स रेज उडुराडिव ॥३५॥ बुभुजे च श्रियं स्वृद्धां द्विजदेवोपलम्भिताम्। कृतकृत्यमिवात्मानं मन्यमानो महामनाः ॥३६॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहिताया- मष्टमस्कन्धे पञ्चदशोऽध्यायः ॥१५॥

॥ षोडशोऽध्यायः - १६ ॥

श्रीशुक उवाच एवं पुत्रेषु नष्टेषु देवमातादितिस्तदा। हृते त्रिविष्टपे दैत्यैः पर्यतप्यदनाथवत् ॥१॥ एकदा कश्यपस्तस्या आश्रमं भगवानगात्। निरुत्सवं निरानन्दं समाधेर्विरतश्चिरात् ॥२॥ स पत्नीं दीनवदनां कृतासनपरिग्रहः। सभाजितो यथान्यायमिदमाह कुरूद्वह ॥३॥ अप्यभद्रं न विप्राणां भद्रे लोकेऽधुनाऽऽगतम्। न धर्मस्य न लोकस्य मृत्योश्छन्दानुवर्तिनः ॥४॥ अपि वाकुशलं किञ्चिद्गृहेषु गृहमेधिनि। धर्मस्यार्थस्य कामस्य यत्र योगो ह्ययोगिनाम् ॥५॥ अपि वातिथयोऽभ्येत्य कुटुम्बासक्तया त्वया। गृहादपूजिता याताः प्रत्युत्थानेन वा क्वचित् ॥६॥ गृहेषु येष्वतिथयो नार्चिताः सलिलैरपि। यदि निर्यान्ति ते नूनं फेरुराजगृहोपमाः ॥७॥ अप्यग्नयस्तु वेलायां न हुता हविषा सति। त्वयोद्विग्नधिया भद्रे प्रोषिते मयि कर्हिचित् ॥८॥ यत्पूजया कामदुघान् याति लोकान् गृहान्वितः। ब्राह्मणोऽग्निश्च वै विष्णोः सर्वदेवात्मनो मुखम् ॥९॥ अपि सर्वे कुशलिनस्तव पुत्रा मनस्विनि। लक्षयेऽस्वस्थमात्मानं भवत्या लक्षणैरहम् ॥१०॥ अदितिरुवाच भद्रं द्विजगवां ब्रह्मन् धर्मस्यास्य जनस्य च। त्रिवर्गस्य परं क्षेत्रं गृहमेधिन् गृहा इमे ॥११॥ अग्नयोऽतिथयो भृत्या भिक्षवो ये च लिप्सवः। सर्वं भगवतो ब्रह्मन्ननुध्यानान्न रिष्यति ॥१२॥ को नु मे भगवन् कामो न सम्पद्येत मानसः। यस्या भवान् प्रजाध्यक्ष एवं धर्मान् प्रभाषते ॥१३॥ तवैव मारीच मनःशरीरजाः प्रजा इमाः सत्त्वरजस्तमोजुषः। समो भवांस्तास्वसुरादिषु प्रभो तथापि भक्तं भजते महेश्वरः ॥१४॥ तस्मादीश भजन्त्या मे श्रेयश्चिन्तय सुव्रत। हृतश्रियो हृतस्थानान् सपत्नैः पाहि नः प्रभो ॥१५॥ परैर्विवासिता साहं मग्ना व्यसनसागरे। ऐश्वर्यं श्रीर्यशः स्थानं हृतानि प्रबलैर्मम ॥१६॥ यथा तानि पुनः साधो प्रपद्येरन् ममात्मजाः। तथा विधेहि कल्याणं धिया कल्याणकृत्तम ॥१७॥ श्रीशुक उवाच एवमभ्यर्थितोऽदित्या कस्तामाह स्मयन्निव। अहो मायाबलं विष्णोः स्नेहबद्धमिदं जगत् ॥१८॥ क्व देहो भौतिकोऽनात्मा क्व चात्मा प्रकृतेः परः। कस्य के पतिपुत्राद्या मोह एव हि कारणम् ॥१९॥ उपतिष्ठस्व पुरुषं भगवन्तं जनार्दनम्। सर्वभूतगुहावासं वासुदेवं जगद्गुरुम् ॥२०॥ स विधास्यति ते कामान् हरिर्दीनानुकम्पनः। अमोघा भगवद्भक्तिर्नेतरेति मतिर्मम ॥२१॥ अदितिरुवाच केनाहं विधिना ब्रह्मन्नुपस्थास्ये जगत्पतिम्। यथा मे सत्यसङ्कल्पो विदध्यात्स मनोरथम् ॥२२॥ आदिश त्वं द्विजश्रेष्ठ विधिं तदुपधावनम्। आशु तुष्यति मे देवः सीदन्त्याः सह पुत्रकैः ॥२३॥ कश्यप उवाच एतन्मे भगवान् पृष्टः प्रजाकामस्य पद्मजः। यदाह ते प्रवक्ष्यामि व्रतं केशवतोषणम् ॥२४॥ फाल्गुनस्यामले पक्षे द्वादशाहं पयोव्रतः। अर्चयेदरविन्दाक्षं भक्त्या परमयान्वितः ॥२५॥ सिनीवाल्यां मृदाऽऽलिप्य स्नायात्क्रोडविदीर्णया। यदि लभ्येत वै स्रोतस्येतं मन्त्रमुदीरयेत् ॥२६॥ त्वं देव्यादिवराहेण रसायाः स्थानमिच्छता। उद्धृतासि नमस्तुभ्यं पाप्मानं मे प्रणाशय ॥२७॥ निर्वर्तितात्मनियमो देवमर्चेत्समाहितः। अर्चायां स्थण्डिले सूर्ये जले वह्नौ गुरावपि ॥२८॥ नमस्तुभ्यं भगवते पुरुषाय महीयसे। सर्वभूतनिवासाय वासुदेवाय साक्षिणे ॥२९॥ नमोऽव्यक्ताय सूक्ष्माय प्रधानपुरुषाय च। चतुर्विंशद्गुणज्ञाय गुणसङ्ख्यानहेतवे ॥३०॥ नमो द्विशीर्ष्णे त्रिपदे चतुःशृङ्गाय तन्तवे। सप्तहस्ताय यज्ञाय त्रयीविद्यात्मने नमः ॥३१॥ नमः शिवाय रुद्राय नमः शक्तिधराय च। सर्वविद्याधिपतये भूतानां पतये नमः ॥३२॥ नमो हिरण्यगर्भाय प्राणाय जगदात्मने। योगैश्वर्यशरीराय नमस्ते योगहेतवे ॥३३॥ नमस्त आदिदेवाय साक्षिभूताय ते नमः। नारायणाय ऋषये नराय हरये नमः ॥३४॥ नमो मरकतश्यामवपुषेऽधिगतश्रिये। केशवाय नमस्तुभ्यं नमस्ते पीतवाससे ॥३५॥ त्वं सर्ववरदः पुंसां वरेण्य वरदर्षभ। अतस्ते श्रेयसे धीराः पादरेणुमुपासते ॥३६॥ अन्ववर्तन्त यं देवाः श्रीश्च तत्पादपद्मयोः। स्पृहयन्त इवामोदं भगवान् मे प्रसीदताम् ॥३७॥ एतैर्मन्त्रैर्हृषीकेशमावाहनपुरस्कृतम्। अर्चयेच्छ्रद्धया युक्तः पाद्योपस्पर्शनादिभिः ॥३८॥ अर्चित्वा गन्धमाल्याद्यैः पयसा स्नपयेद्विभुम्। वस्त्रोपवीताभरणपाद्योपस्पर्शनैस्ततः। गन्धधूपादिभिश्चार्चेद्द्वादशाक्षरविद्यया ॥३९॥ शृतं पयसि नैवेद्यं शाल्यन्नं विभवे सति। ससर्पिः सगुडं दत्त्वा जुहुयान्मूलविद्यया ॥४०॥ निवेदितं तद्भक्ताय दद्याद्भुञ्जीत वा स्वयम्। दत्त्वाऽऽचमनमर्चित्वा ताम्बूलं च निवेदयेत् ॥४१॥ जपेदष्टोत्तरशतं स्तुवीत स्तुतिभिः प्रभुम्। कृत्वा प्रदक्षिणं भूमौ प्रणमेद्दण्डवन्मुदा ॥४२॥ कृत्वा शिरसि तच्छेषां देवमुद्वासयेत्ततः। द्व्यवरान् भोजयेद्विप्रान् पायसेन यथोचितम् ॥४३॥ भुञ्जीत तैरनुज्ञातः शेषं सेष्टः सभाजितैः। ब्रह्मचार्यथ तद्रात्र्यां श्वोभूते प्रथमेऽहनि ॥४४॥ स्नातः शुचिर्यथोक्तेन विधिना सुसमाहितः। पयसा स्नापयित्वार्चेद्यावद्व्रतसमापनम् ॥४५॥ पयोभक्षो व्रतमिदं चरेद्विष्ण्वर्चनादृतः। पूर्ववज्जुहुयादग्निं ब्राह्मणांश्चापि भोजयेत् ॥४६॥ एवं त्वहरहः कुर्याद्द्वादशाहं पयोव्रतः। हरेराराधनं होममर्हणं द्विजतर्पणम् ॥४७॥ प्रतिपद्दिनमारभ्य यावच्छुक्लत्रयोदशी। ब्रह्मचर्यमधःस्वप्नं स्नानं त्रिषवणं चरेत् ॥४८॥ वर्जयेदसदालापं भोगानुच्चावचांस्तथा। अहिंस्रः सर्वभूतानां वासुदेवपरायणः ॥४९॥ त्रयोदश्यामथो विष्णोः स्नपनं पञ्चकैर्विभोः। कारयेच्छास्त्रदृष्टेन विधिना विधिकोविदैः ॥५०॥ पूजां च महतीं कुर्याद्वित्तशाठ्यविवर्जितः। चरुं निरूप्य पयसि शिपिविष्टाय विष्णवे ॥५१॥ शृतेन तेन पुरुषं यजेत सुसमाहितः। नैवेद्यं चातिगुणवद्दद्यात्पुरुषतुष्टिदम् ॥५२॥ आचार्यं ज्ञानसम्पन्नं वस्त्राभरणधेनुभिः। तोषयेदृत्विजश्चैव तद्विद्ध्याराधनं हरेः ॥५३॥ भोजयेत्तान् गुणवता सदन्नेन शुचिस्मिते। अन्यांश्च ब्राह्मणान् शक्त्या ये च तत्र समागताः ॥५४॥ दक्षिणां गुरवे दद्यादृत्विग्भ्यश्च यथार्हतः। अन्नाद्येनाश्वपाकांश्च प्रीणयेत्समुपागतान् ॥५५॥ भुक्तवत्सु च सर्वेषु दीनान्धकृपणेषु च। विष्णोस्तत्प्रीणनं विद्वान् भुञ्जीत सह बन्धुभिः ॥५६॥ नृत्यवादित्रगीतैश्च स्तुतिभिः स्वस्तिवाचकैः। कारयेत्तत्कथाभिश्च पूजां भगवतोऽन्वहम् ॥५७॥ एतत्पयोव्रतं नाम पुरुषाराधनं परम्। पितामहेनाभिहितं मया ते समुदाहृतम् ॥५८॥ त्वं चानेन महाभागे सम्यक् चीर्णेन केशवम्। आत्मना शुद्धभावेन नियतात्मा भजाव्ययम् ॥५९॥ अयं वै सर्वयज्ञाख्यः सर्वव्रतमिति स्मृतम्। तपःसारमिदं भद्रे दानं चेश्वरतर्पणम् ॥६०॥ त एव नियमाः साक्षात्त एव च यमोत्तमाः। तपो दानं व्रतं यज्ञो येन तुष्यत्यधोक्षजः ॥६१॥ तस्मादेतद्व्रतं भद्रे प्रयता श्रद्धया चर। भगवान् परितुष्टस्ते वरानाशु विधास्यति ॥६२॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां सम्हिताया- मष्टमस्कन्धे अदितिपयोव्रतकथनं नाम षोडशोऽध्यायः ॥१६॥

॥ सप्तदशोऽध्यायः - १७ ॥

श्रीशुक उवाच इत्युक्ता सादिती राजन् स्वभर्त्रा कश्यपेन वै। अन्वतिष्ठद्व्रतमिदं द्वादशाहमतन्द्रिता ॥१॥ चिन्तयन्त्येकया बुद्ध्या महापुरुषमीश्वरम्। प्रगृह्येन्द्रियदुष्टाश्वान् मनसा बुद्धिसारथिः ॥२॥ मनश्चैकाग्रया बुद्ध्या भगवत्यखिलात्मनि। वासुदेवे समाधाय चचार ह पयोव्रतम् ॥३॥ तस्याः प्रादुरभूत्तात भगवानादिपुरुषः। पीतवासाश्चतुर्बाहुः शङ्खचक्रगदाधरः ॥४॥ तं नेत्रगोचरं वीक्ष्य सहसोत्थाय सादरम्। ननाम भुवि कायेन दण्डवत्प्रीतिविह्वला ॥५॥ सोत्थाय बद्धाञ्जलिरीडितुं स्थिता नोत्सेह आनन्दजलाकुलेक्षणा । बभूव तूष्णीं पुलकाकुलाकृति- स्तद्दर्शनात्युत्सवगात्रवेपथुः ॥६॥ प्रीत्या शनैर्गद्गदया गिरा हरिं तुष्टाव सा देव्यदितिः कुरूद्वह । उद्वीक्षती सा पिबतीव चक्षुषा रमापतिं यज्ञपतिं जगत्पतिम् ॥७॥ अदितिरुवाच यज्ञेश यज्ञपुरुषाच्युत तीर्थपाद तीर्थश्रवः श्रवणमङ्गलनामधेय । आपन्नलोकवृजिनोपशमोदयाद्य शं नः कृधीश भगवन्नसि दीननाथः ॥८॥ विश्वाय विश्वभवनस्थितिसंयमाय स्वैरं गृहीतपुरुशक्तिगुणाय भूम्ने । स्वस्थाय शश्वदुपबृंहितपूर्णबोध- व्यापादितात्मतमसे हरये नमस्ते ॥९॥ आयुः परं वपुरभीष्टमतुल्यलक्ष्मी- र्द्योर्भूरसाः सकलयोगगुणास्त्रिवर्गः । ज्ञानं च केवलमनन्त भवन्ति तुष्टात्त्वत्तो नृणां किमु सपत्नजयादिराशीः ॥१०॥ श्रीशुक उवाच अदित्यैवं स्तुतो राजन् भगवान् पुष्करेक्षणः। क्षेत्रज्ञः सर्वभूतानामिति होवाच भारत ॥११॥ श्रीभगवानुवाच देवमातर्भवत्या मे विज्ञातं चिरकाङ्क्षितम्। यत्सपत्नैर्हृतश्रीणां च्यावितानां स्वधामतः ॥१२॥ तान् विनिर्जित्य समरे दुर्मदानसुरर्षभान्। प्रतिलब्धजयश्रीभिः पुत्रैरिच्छस्युपासितुम् ॥१३॥ इन्द्रज्येष्ठैः स्वतनयैर्हतानां युधि विद्विषाम्। स्त्रियो रुदन्तीरासाद्य द्रष्टुमिच्छसि दुःखिताः ॥१४॥ आत्मजान् सुसमृद्धांस्त्वं प्रत्याहृतयशःश्रियः। नाकपृष्ठमधिष्ठाय क्रीडतो द्रष्टुमिच्छसि ॥१५॥ प्रायोऽधुना तेऽसुरयूथनाथा अपारणीया इति देवि मे मतिः। यत्तेऽनुकूलेश्वरविप्रगुप्ता न विक्रमस्तत्र सुखं ददाति ॥१६॥ अथाप्युपायो मम देवि चिन्त्यः सन्तोषितस्य व्रतचर्यया ते। ममार्चनं नार्हति गन्तुमन्यथा श्रद्धानुरूपं फलहेतुकत्वात् ॥१७॥ त्वयार्चितश्चाहमपत्यगुप्तये पयोव्रतेनानुगुणं समीडितः। स्वांशेन पुत्रत्वमुपेत्य ते सुतान् गोप्तास्मि मारीचतपस्यधिष्ठितः ॥१८॥ उपधाव पतिं भद्रे प्रजापतिमकल्मषम्। मां च भावयती पत्यावेवं रूपमवस्थितम् ॥१९॥ नैतत्परस्मा आख्येयं पृष्टयापि कथञ्चन। सर्वं सम्पद्यते देवि देवगुह्यं सुसंवृतम् ॥२०॥ श्रीशुक उवाच एतावदुक्त्वा भगवांस्तत्रैवान्तरधीयत। अदितिर्दुर्लभं लब्ध्वा हरेर्जन्मात्मनि प्रभोः ॥२१॥ उपाधावत्पतिं भक्त्या परया कृतकृत्यवत्। स वै समाधियोगेन कश्यपस्तदबुध्यत ॥२२॥ प्रविष्टमात्मनि हरेरंशं ह्यवितथेक्षणः। सोऽदित्यां वीर्यमाधत्त तपसा चिरसम्भृतम्। समाहितमना राजन् दारुण्यग्निं यथानिलः ॥२३॥ अदितेर्धिष्ठितं गर्भं भगवन्तं सनातनम्। हिरण्यगर्भो विज्ञाय समीडे गुह्यनामभिः ॥२४॥ ब्रह्मोवाच जयोरुगाय भगवन्नुरुक्रम नमोस्तु ते। नमो ब्रह्मण्यदेवाय त्रिगुणाय नमो नमः ॥२५॥ नमस्ते पृश्निगर्भाय वेदगर्भाय वेधसे। त्रिनाभाय त्रिपृष्ठाय शिपिविष्टाय विष्णवे ॥२६॥ त्वमादिरन्तो भुवनस्य मध्य- मनन्तशक्तिं पुरुषं यमाहुः। कालो भवानाक्षिपतीश विश्वं स्रोतो यथान्तः पतितं गभीरम् ॥२७॥ त्वं वै प्रजानां स्थिरजङ्गमानां प्रजापतीनामसि सम्भविष्णुः। दिवौकसां देव दिवश्च्युतानां परायणं नौरिव मज्जतोऽप्सु ॥२८॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां सम्हिताया- मष्टमस्कन्धे वामनप्रादुर्भावे सप्तदशोऽध्यायः ॥१७॥

॥ अष्टादशोऽध्यायः - १८ ॥

श्रीशुक उवाच इत्थं विरिञ्चस्तुतकर्मवीर्यः प्रादुर्बभूवामृतभूरदित्याम्। चतुर्भुजः शङ्खगदाब्जचक्रः पिशङ्गवासा नलिनायतेक्षणः ॥१॥ सर्वत्र गोविन्दनामसंकीर्तनं गोविन्द गोविन्द। श्यामावदातो झषराजकुण्डल- त्विषोल्लसच्छ्रीवदनाम्बुजः पुमान्। श्रीवत्सवक्षा बलयाङ्गदोल्लस- त्किरीटकाञ्चीगुणचारुनूपुरः ॥२॥ मधुव्रतव्रातविघुष्टया स्वया विराजितः श्रीवनमालया हरिः। प्रजापतेर्वेश्मतमः स्वरोचिषा विनाशयन् कण्ठनिविष्टकौस्तुभः ॥३॥ दिशः प्रसेदुः सलिलाशयास्तदा प्रजाः प्रहृष्टा ऋतवो गुणान्विताः। द्यौरन्तरिक्षं क्षितिरग्निजिह्वा गावो द्विजाः सञ्जहृषुर्नगाश्च ॥४॥ श्रोणायां श्रवणद्वादश्यां मुहूर्तेऽभिजिति प्रभुः। सर्वे नक्षत्रताराद्याश्चक्रुस्तज्जन्म दक्षिणम् ॥५॥ द्वादश्यां सवितातिष्ठन्मध्यन्दिनगतो नृप। विजया नाम सा प्रोक्ता यस्यां जन्म विदुर्हरेः ॥६॥ शङ्खदुन्दुभयो नेदुर्मृदङ्गपणवानकाः। चित्रवादित्रतूर्याणां निर्घोषस्तुमुलोऽभवत् ॥७॥ प्रीताश्चाप्सरसोऽनृत्यन् गन्धर्वप्रवरा जगुः। तुष्टुवुर्मुनयो देवा मनवः पितरोऽग्नयः ॥८॥ सिद्धविद्याधरगणाः सकिम्पुरुषकिन्नराः। चारणा यक्षरक्षांसि सुपर्णा भुजगोत्तमाः ॥९॥ गायन्तोऽतिप्रशंसन्तो नृत्यन्तो विबुधानुगाः। अदित्या आश्रमपदं कुसुमैः समवाकिरन् ॥१०॥ दृष्ट्वादितिस्तं निजगर्भसम्भवं परं पुमांसं मुदमाप विस्मिता। गृहीतदेहं निजयोगमायया प्रजापतिश्चाह जयेति विस्मितः ॥११॥ यत्तद्वपुर्भाति विभूषणायुधै- रव्यक्तचिद्व्यक्तमधारयद्धरिः। बभूव तेनैव स वामनो वटुः सम्पश्यतोर्दिव्यगतिर्यथा नटः ॥१२॥ तं वटुं वामनं दृष्ट्वा मोदमाना महर्षयः। कर्माणि कारयामासुः पुरस्कृत्य प्रजापतिम् ॥१३॥ तस्योपनीयमानस्य सावित्रीं सविताब्रवीत्। बृहस्पतिर्ब्रह्मसूत्रं मेखलां कश्यपोऽददात् ॥१४॥ ददौ कृष्णाजिनं भूमिर्दण्डं सोमो वनस्पतिः। कौपीनाच्छादनं माता द्यौश्छत्रं जगतः पतेः ॥१५॥ कमण्डलुं वेदगर्भः कुशान् सप्तर्षयो ददुः। अक्षमालां महाराज सरस्वत्यव्ययात्मनः ॥१६॥ तस्मा इत्युपनीताय यक्षराट् पात्रिकामदात्। भिक्षां भगवती साक्षादुमादादम्बिका सती ॥१७॥ स ब्रह्मवर्चसेनैवं सभां सम्भावितो वटुः। ब्रह्मर्षिगणसञ्जुष्टामत्यरोचत मारिषः ॥१८॥ समिद्धमाहितं वह्निं कृत्वा परिसमूहनम्। परिस्तीर्य समभ्यर्च्य समिद्भिरजुहोद्द्विजः ॥१९॥ श्रुत्वाश्वमेधैर्यजमानमूर्जितं बलिं भृगूणामुपकल्पितैस्ततः। जगाम तत्राखिलसारसम्भृतो भारेण गां सन्नमयन् पदे पदे ॥२०॥ तं नर्मदायास्तट उत्तरे बलेर्य ऋत्विजस्ते भृगुकच्छसंज्ञके। प्रवर्तयन्तो भृगवः क्रतूत्तमं व्यचक्षतारादुदितं यथा रविम् ॥२१॥ त ऋत्विजो यजमानः सदस्या हतत्विषो वामनतेजसा नृप। सूर्यः किलायात्युत वा विभावसुः सनत्कुमारोऽथ दिदृक्षया क्रतोः ॥२२॥ इत्थं सशिष्येषु भृगुष्वनेकधा वितर्क्यमाणो भगवान् स वामनः। छत्रं सदण्डं सजलं कमण्डलुं विवेश बिभ्रद्धयमेधवाटम् ॥२३॥ मौञ्ज्या मेखलया वीतमुपवीताजिनोत्तरम्। जटिलं वामनं विप्रं मायामाणवकं हरिम् ॥२४॥ प्रविष्टं वीक्ष्य भृगवः सशिष्यास्ते सहाग्निभिः। प्रत्यगृह्णन् समुत्थाय सङ्क्षिप्तास्तस्य तेजसा ॥२५॥ यजमानः प्रमुदितो दर्शनीयं मनोरमम्। रूपानुरूपावयवं तस्मा आसनमाहरत् ॥२६॥ स्वागतेनाभिनन्द्याथ पादौ भगवतो बलिः। अवनिज्यार्चयामास मुक्तसङ्गमनोरमम् ॥२७॥ तत्पादशौचं जनकल्मषापहं स धर्मविन्मूर्ध्न्यदधात्सुमङ्गलम्। यद्देवदेवो गिरिशश्चन्द्रमौलिर्दधार मूर्ध्ना परया च भक्त्या ॥२८॥ बलिरुवाच स्वागतं ते नमस्तुभ्यं ब्रह्मन् किं करवाम ते। ब्रह्मर्षीणां तपः साक्षान्मन्ये त्वाऽऽर्य वपुर्धरम् ॥२९॥ अद्य नः पितरस्तृप्ता अद्य नः पावितं कुलम्। अद्य स्विष्टः क्रतुरयं यद्भवानागतो गृहान् ॥३०॥ अद्याग्नयो मे सुहुता यथाविधि द्विजात्मज त्वच्चरणावनेजनैः। हतांहसो वार्भिरियं च भूरहो तथा पुनीता तनुभिः पदैस्तव ॥३१॥ यद्यद्वटो वाञ्छसि तत्प्रतीच्छ मे त्वामर्थिनं विप्रसुतानुतर्कये। गां काञ्चनं गुणवद्धाम मृष्टं तथान्नपेयमुत वा विप्रकन्याम्। ग्रामान् समृद्धांस्तुरगान् गजान् वा रथांस्तथार्हत्तम सम्प्रतीच्छ ॥३२॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां सम्हिताया- मष्टमस्कन्धे वामनप्रादुर्भावे बलिवामनसंवादे अष्टादशोऽध्यायः ॥१८॥

॥ एकोनविंशोऽध्यायः - १९ ॥

श्रीशुक उवाच इति वैरोचनेर्वाक्यं धर्मयुक्तं स सूनृतम्। निशम्य भगवान् प्रीतः प्रतिनन्द्येदमब्रवीत् ॥१॥ श्रीभगवानुवाच वचस्तवैतज्जनदेव सूनृतं कुलोचितं धर्मयुतं यशस्करम्। यस्य प्रमाणं भृगवः साम्पराये पितामहः कुलवृद्धः प्रशान्तः ॥२॥ न ह्येतस्मिन् कुले कश्चिन्निःसत्त्वः कृपणः पुमान्। प्रत्याख्याता प्रतिश्रुत्य यो वादाता द्विजातये ॥३॥ न सन्ति तीर्थे युधि चार्थिनार्थिताः पराङ्मुखा ये त्वमनस्विनो नृपाः। युष्मत्कुले यद्यशसामलेन प्रह्लाद उद्भाति यथोडुपः खे ॥४॥ यतो जातो हिरण्याक्षश्चरन्नेक इमां महीम्। प्रतिवीरं दिग्विजये नाविन्दत गदायुधः ॥५॥ यं विनिर्जित्य कृच्छ्रेण विष्णुः क्ष्मोद्धार आगतम्। नात्मानं जयिनं मेने तद्वीर्यं भूर्यनुस्मरन् ॥६॥ निशम्य तद्वधं भ्राता हिरण्यकशिपुः पुरा। हन्तुं भ्रातृहणं क्रुद्धो जगाम निलयं हरेः ॥७॥ तमायान्तं समालोक्य शूलपाणिं कृतान्तवत्। चिन्तयामास कालज्ञो विष्णुर्मायाविनां वरः ॥८॥ यतो यतोऽहं तत्रासौ मृत्युः प्राणभृतामिव। अतोऽहमस्य हृदयं प्रवेक्ष्यामि पराग्दृशः ॥९॥ एवं स निश्चित्य रिपोः शरीर- माधावतो निर्विविशेऽसुरेन्द्र। श्वासानिलान्तर्हितसूक्ष्मदेह- स्तत्प्राणरन्ध्रेण विविग्नचेताः ॥१०॥ स तन्निकेतं परिमृश्य शून्य- मपश्यमानः कुपितो ननाद। क्ष्मां द्यां दिशः खं विवरान् समुद्रान् विष्णुं विचिन्वन् न ददर्श वीरः ॥११॥ अपश्यन्निति होवाच मयान्विष्टमिदं जगत्। भ्रातृहा मे गतो नूनं यतो नावर्तते पुमान् ॥१२॥ वैरानुबन्ध एतावानामृत्योरिह देहिनाम्। अज्ञानप्रभवो मन्युरहंमानोपबृंहितः ॥१३॥ पिता प्रह्लादपुत्रस्ते तद्विद्वान् द्विजवत्सलः। स्वमायुर्द्विजलिङ्गेभ्यो देवेभ्योऽदात्स याचितः ॥१४॥ भवानाचरितान् धर्मानास्थितो गृहमेधिभिः। ब्राह्मणैः पूर्वजैः शूरैरन्यैश्चोद्दामकीर्तिभिः ॥१५॥ तस्मात्त्वत्तो महीमीषद्वृणेऽहं वरदर्षभात्। पदानि त्रीणि दैत्येन्द्र सम्मितानि पदा मम ॥१६॥ नान्यत्ते कामये राजन् वदान्याज्जगदीश्वरात्। नैनः प्राप्नोति वै विद्वान् यावदर्थप्रतिग्रहः ॥१७॥ बलिरुवाच अहो ब्राह्मणदायाद वाचस्ते वृद्धसम्मताः। त्वं बालो बालिशमतिः स्वार्थं प्रत्यबुधो यथा ॥१८॥ मां वचोभिः समाराध्य लोकानामेकमीश्वरम्। पदत्रयं वृणीते योऽबुद्धिमान् द्वीपदाशुषम् ॥१९॥ न पुमान् मामुपव्रज्य भूयो याचितुमर्हति। तस्माद्वृत्तिकरीं भूमिं वटो कामं प्रतीच्छ मे ॥२०॥ श्रीभगवानुवाच यावन्तो विषयाः प्रेष्ठास्त्रिलोक्यामजितेन्द्रियम्। न शक्नुवन्ति ते सर्वे प्रतिपूरयितुं नृप ॥२१॥ त्रिभिः क्रमैरसन्तुष्टो द्वीपेनापि न पूर्यते। नववर्षसमेतेन सप्तद्वीपवरेच्छया ॥२२॥ सप्तद्वीपाधिपतयो नृपा वैन्यगयादयः। अर्थैः कामैर्गता नान्तं तृष्णाया इति नः श्रुतम् ॥२३॥ यदृच्छयोपपन्नेन सन्तुष्टो वर्तते सुखम्। नासन्तुष्टस्त्रिभिर्लोकैरजितात्मोपसादितैः ॥२४॥ पुंसोऽयं संसृतेर्हेतुरसन्तोषोऽर्थकामयोः। यदृच्छयोपपन्नेन सन्तोषो मुक्तये स्मृतः ॥२५॥ यदृच्छालाभतुष्टस्य तेजो विप्रस्य वर्धते। तत्प्रशाम्यत्यसन्तोषादम्भसेवाशुशुक्षणिः ॥२६॥ तस्मात्त्रीणि पदान्येव वृणे त्वद्वरदर्षभात्। एतावतैव सिद्धोऽहं वित्तं यावत्प्रयोजनम् ॥२७॥ श्रीशुक उवाच इत्युक्तः स हसन्नाह वाञ्छातः प्रतिगृह्यताम्। वामनाय महीं दातुं जग्राह जलभाजनम् ॥२८॥ विष्णवे क्ष्मां प्रदास्यन्तमुशना असुरेश्वरम्। जानंश्चिकीर्षितं विष्णोः शिष्यं प्राह विदां वरः ॥२९॥ शुक्र उवाच एष वैरोचने साक्षाद्भगवान् विष्णुरव्ययः। कश्यपाददितेर्जातो देवानां कार्यसाधकः ॥३०॥ प्रतिश्रुतं त्वयैतस्मै यदनर्थमजानता। न साधु मन्ये दैत्यानां महानुपगतोऽनयः ॥३१॥ एष ते स्थानमैश्वर्यं श्रियं तेजो यशः श्रुतम्। दास्यत्याच्छिद्य शक्राय मायामाणवको हरिः ॥३२॥ त्रिभिः क्रमैरिमाँल्लोकान् विश्वकायः क्रमिष्यति। सर्वस्वं विष्णवे दत्त्वा मूढ वर्तिष्यसे कथम् ॥३३॥ क्रमतो गां पदैकेन द्वितीयेन दिवं विभोः। खं च कायेन महता तार्तीयस्य कुतो गतिः ॥३४॥ निष्ठां ते नरके मन्ये ह्यप्रदातुः प्रतिश्रुतम्। प्रतिश्रुतस्य योऽनीशः प्रतिपादयितुं भवान् ॥३५॥ न तद्दानं प्रशंसन्ति येन वृत्तिर्विपद्यते। दानं यज्ञस्तपः कर्म लोके वृत्तिमतो यतः ॥३६॥ धर्माय यशसेऽर्थाय कामाय स्वजनाय च। पञ्चधा विभजन् वित्तमिहामुत्र च मोदते ॥३७॥ अत्रापि बह्वृचैर्गीतं शृणु मेऽसुरसत्तम। सत्यमोमिति यत्प्रोक्तं यन्नेत्याहानृतं हि तत् ॥३८॥ सत्यं पुष्पफलं विद्यादात्मवृक्षस्य गीयते। वृक्षेऽजीवति तन्न स्यादनृतं मूलमात्मनः ॥३९॥ तद्यथा वृक्ष उन्मूलः शुष्यत्युद्वर्ततेऽचिरात्। एवं नष्टानृतः सद्य आत्मा शुष्येन्न संशयः ॥४०॥ पराग्रिक्तमपूर्णं वा अक्षरं यत्तदोमिति। यत्किञ्चिदोमिति ब्रूयात्तेन रिच्येत वै पुमान्। भिक्षवे सर्वमों कुर्वन् नालं कामेन चात्मने ॥४१॥ अथैतत्पूर्णमभ्यात्मं यच्च नेत्यनृतं वचः। सर्वं नेत्यनृतं ब्रूयात्स दुष्कीर्तिः श्वसन् मृतः ॥४२॥ स्त्रीषु नर्मविवाहे च वृत्त्यर्थे प्राणसङ्कटे। गोब्राह्मणार्थे हिंसायां नानृतं स्याज्जुगुप्सितम् ॥४३॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां सम्हिताया- मष्टमस्कन्धे वामनप्रादुर्भावे एकोनविंशोशोऽध्यायः ॥१९॥

॥ विंशोऽध्यायः - २० ॥

श्रीशुक उवाच बलिरेवं गृहपतिः कुलाचार्येण भाषितः। तूष्णीं भूत्वा क्षणं राजन्नुवाचावहितो गुरुम् ॥१॥ बलिरुवाच सत्यं भगवता प्रोक्तं धर्मोऽयं गृहमेधिनाम्। अर्थं कामं यशो वृत्तिं यो न बाधेत कर्हिचित् ॥२॥ स चाहं वित्तलोभेन प्रत्याचक्षे कथं द्विजम्। प्रतिश्रुत्य ददामीति प्राह्लादिः कितवो यथा ॥३॥ न ह्यसत्यात्परोऽधर्म इति होवाच भूरियम्। सर्वं सोढुमलं मन्ये ऋतेऽलीकपरं नरम् ॥४॥ नाहं बिभेमि निरयान्नाधन्यादसुखार्णवात्। न स्थानच्यवनान्मृत्योर्यथा विप्रप्रलम्भनात् ॥५॥ यद्यद्धास्यति लोकेऽस्मिन् सम्परेतं धनादिकम्। तस्य त्यागे निमित्तं किं विप्रस्तुष्येन्न तेन चेत् ॥६॥ श्रेयः कुर्वन्ति भूतानां साधवो दुस्त्यजासुभिः। दध्यङ् शिबिप्रभृतयः को विकल्पो धरादिषु ॥७॥ यैरियं बुभुजे ब्रह्मन् दैत्येन्द्रैरनिवर्तिभिः। तेषां कालोऽग्रसील्लोकान् न यशोऽधिगतं भुवि ॥८॥ सुलभा युधि विप्रर्षे ह्यनिवृत्तास्तनुत्यजः। न तथा तीर्थ आयाते श्रद्धया ये धनत्यजः ॥९॥ मनस्विनः कारुणिकस्य शोभनं यदर्थिकामोपनयेन दुर्गतिः। कुतः पुनर्ब्रह्मविदां भवादृशां ततो वटोरस्य ददामि वाञ्छितम् ॥१०॥ यजन्ति यज्ञक्रतुभिर्यमादृता भवन्त आम्नायविधानकोविदाः। स एव विष्णुर्वरदोऽस्तु वा परो दास्याम्यमुष्मै क्षितिमीप्सितां मुने ॥११॥ यद्यप्यसावधर्मेण मां बध्नीयादनागसम्। तथाप्येनं न हिंसिष्ये भीतं ब्रह्मतनुं रिपुम् ॥१२॥ एष वा उत्तमश्लोको न जिहासति यद्यशः। हत्वा मैनां हरेद्युद्धे शयीत निहतो मया ॥१३॥ श्रीशुक उवाच एवमश्रद्धितं शिष्यमनादेशकरं गुरुः। शशाप दैवप्रहितः सत्यसन्धं मनस्विनम् ॥१४॥ दृढं पण्डितमान्यज्ञः स्तब्धोऽस्यस्मदुपेक्षया। मच्छासनातिगो यस्त्वमचिराद्भ्रश्यसे श्रियः ॥१५॥ एवं शप्तः स्वगुरुणा सत्यान्न चलितो महान्। वामनाय ददावेनामर्चित्वोदकपूर्वकम् ॥१६॥ विन्ध्यावलिस्तदाऽऽगत्य पत्नी जालकमालिनी। आनिन्ये कलशं हैममवनेजन्यपां भृतम् ॥१७॥ यजमानः स्वयं तस्य श्रीमत्पादयुगं मुदा। अवनिज्यावहन्मूर्ध्नि तदपो विश्वपावनीः ॥१८॥ तदासुरेन्द्रं दिवि देवतागणाः गन्धर्वविद्याधरसिद्धचारणाः। तत्कर्म सर्वेऽपि गृणन्त आर्जवं प्रसूनवर्षैर्ववृषुर्मुदान्विताः ॥१९॥ नेदुर्मुहुर्दुन्दुभयः सहस्रशो गन्धर्वकिम्पूरुषकिन्नरा जगुः। मनस्विनानेन कृतं सुदुष्करं विद्वानदाद्यद्रिपवे जगत्त्रयम् ॥२०॥ तद्वामनं रूपमवर्धताद्भुतं हरेरनन्तस्य गुणत्रयात्मकम्। भूः खं दिशो द्यौर्विवराः पयोधय- स्तिर्यङ् नृदेवा ऋषयो यदासत ॥२१॥ काये बलिस्तस्य महाविभूतेः सहर्त्विगाचार्यसदस्य एतत्। ददर्श विश्वं त्रिगुणं गुणात्मके भूतेन्द्रियार्थाशयजीवयुक्तम् ॥२२॥ रसामचष्टाङ्घ्रितलेऽथ पादयोर्महीं महीध्रान् पुरुषस्य जङ्घयोः। पतत्त्रिणो जानुनि विश्वमूर्ते- रूर्वोर्गणं मारुतमिन्द्रसेनः ॥२३॥ सन्ध्यां विभोर्वाससि गुह्य ऐक्ष- त्प्रजापतीन् जघने आत्ममुख्यान्। नाभ्यां नभः कुक्षिषु सप्तसिन्धू- नुरुक्रमस्योरसि चर्क्षमालाम् ॥२४॥ हृद्यङ्ग धर्मं स्तनयोर्मुरारेः ऋतं च सत्यं च मनस्यथेन्दुम्। श्रियं च वक्षस्यरविन्दहस्तां कण्ठे च सामानि समस्तरेफान् ॥२५॥ इन्द्रप्रधानानमरान् भुजेषु तत्कर्णयोः ककुभो द्यौश्च मूर्ध्नि। केशेषु मेघान् श्वसनं नासिकाया- मक्ष्णोश्च सूर्यं वदने च वह्निम् ॥२६॥ वाण्यां च छन्दांसि रसे जलेशं भ्रुवोर्निषेधं च विधिं च पक्ष्मसु। अहश्च रात्रिं च परस्य पुंसो मन्युं ललाटेऽधर एव लोभम् ॥२७॥ स्पर्शे च कामं नृप रेतसोऽम्भः पृष्ठे त्वधर्मं क्रमणेषु यज्ञम्। छायासु मृत्युं हसिते च मायां तनूरुहेष्वोषधिजातयश्च ॥२८॥ नदीश्च नाडीषु शिला नखेषु बुद्धावजं देवगणान् ऋषींश्च। प्राणेषु गात्रे स्थिरजङ्गमानि सर्वाणि भूतानि ददर्श वीरः ॥२९॥ सर्वात्मनीदं भुवनं निरीक्ष्य सर्वेऽसुराः कश्मलमापुरङ्ग। सुदर्शनं चक्रमसह्यतेजो धनुश्च शार्ङ्गं स्तनयित्नुघोषम् ॥३०॥ पर्जन्यघोषो जलजः पाञ्चजन्यः कौमोदकी विष्णुगदा तरस्विनी। विद्याधरोऽसिः शतचन्द्रयुक्त- स्तूणोत्तमावक्षयसायकौ च ॥३१॥ सुनन्दमुख्या उपतस्थुरीशं पार्षदमुख्याः सहलोकपालाः। स्फुरत्किरीटाङ्गदमीनकुण्डल- श्रीवत्सरत्नोत्तममेखलाम्बरैः ॥३२॥ मधुव्रतस्रग्वनमालया वृतो रराज राजन् भगवानुरुक्रमः। क्षितिं पदैकेन बलेर्विचक्रमे नभः शरीरेण दिशश्च बाहुभिः ॥३३॥ पदं द्वितीयं क्रमतस्त्रिविष्टपं न वै तृतीयाय तदीयमण्वपि। उरुक्रमस्याङ्घ्रिरुपर्युपर्यथो महर्जनाभ्यां तपसः परं गतः ॥३४॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां सम्हिताया- मष्टमस्कन्धे विश्वरूपदर्शनं नाम विंशोऽध्यायः ॥२०॥

॥ एकविंशोऽध्यायः - २१ ॥

श्रीशुक उवाच सत्यं समीक्ष्याब्जभवो नखेन्दुभि- र्हतस्वधामद्युतिरावृतोऽभ्यगात्। मरीचिमिश्रा ऋषयो बृहद्व्रताः सनन्दनाद्या नरदेव योगिनः ॥१॥ वेदोपवेदा नियमान्विता यमास्तर्केतिहासाङ्गपुराणसंहिताः। ये चापरे योगसमीरदीपित- ज्ञानाग्निना रन्धितकर्मकल्मषाः। ववन्दिरे यत्स्मरणानुभावतः स्वायम्भुवं धाम गता अकर्मकम् ॥२॥ अथाङ्घ्रये प्रोन्नमिताय विष्णो- रुपाहरत्पद्मभवोऽर्हणोदकम्। समर्च्य भक्त्याभ्यगृणाच्छुचिश्रवा यन्नाभिपङ्केरुहसम्भवः स्वयम् ॥३॥ धातुः कमण्डलुजलं तदुरुक्रमस्य पादावनेजनपवित्रतया नरेन्द्र। स्वर्धुन्यभून्नभसि सा पतती निमार्ष्टि लोकत्रयं भगवतो विशदेव कीर्तिः ॥४॥ ब्रह्मादयो लोकनाथाः स्वनाथाय समादृताः। सानुगा बलिमाजह्रुः सङ्क्षिप्तात्मविभूतये ॥५॥ तोयैः समर्हणैः स्रग्भिर्दिव्यगन्धानुलेपनैः। धूपैर्दीपैः सुरभिभिर्लाजाक्षतफलाङ्कुरैः ॥६॥ स्तवनैर्जयशब्दैश्च तद्वीर्यमहिमाङ्कितैः। नृत्यवादित्रगीतैश्च शङ्खदुन्दुभिनिःस्वनैः ॥७॥ जाम्बवान् ऋक्षराजस्तु भेरीशब्दैर्मनोजवः। विजयं दिक्षु सर्वासु महोत्सवमघोषयत् ॥८॥ महीं सर्वां हृतां दृष्ट्वा त्रिपदव्याजयाच्ञया। ऊचुः स्वभर्तुरसुरा दीक्षितस्यात्यमर्षिताः ॥९॥ न वा अयं ब्रह्मबन्धुर्विष्णुर्मायाविनां वरः। द्विजरूपप्रतिच्छन्नो देवकार्यं चिकीर्षति ॥१०॥ अनेन याचमानेन शत्रुणा वटुरूपिणा। सर्वस्वं नो हृतं भर्तुर्न्यस्तदण्डस्य बर्हिषि ॥११॥ सत्यव्रतस्य सततं दीक्षितस्य विशेषतः। नानृतं भाषितुं शक्यं ब्रह्मण्यस्य दयावतः ॥१२॥ तस्मादस्य वधो धर्मो भर्तुः शुश्रूषणं च नः। इत्यायुधानि जगृहुर्बलेरनुचरासुराः ॥१३॥ ते सर्वे वामनं हन्तुं शूलपट्टिशपाणयः। अनिच्छतो बले राजन् प्राद्रवन् जातमन्यवः ॥१४॥ तानभिद्रवतो दृष्ट्वा दितिजानीकपान् नृप। प्रहस्यानुचरा विष्णोः प्रत्यषेधन्नुदायुधाः ॥१५॥ नन्दः सुनन्दोऽथ जयो विजयः प्रबलो बलः। कुमुदः कुमुदाक्षश्च विष्वक्सेनः पतत्त्रिराट् ॥१६॥ जयन्तः श्रुतदेवश्च पुष्पदन्तोऽथ सात्वतः। सर्वे नागायुतप्राणाश्चमूं ते जघ्नुरासुरीम् ॥१७॥ हन्यमानान् स्वकान् दृष्ट्वा पुरुषानुचरैर्बलिः। वारयामास संरब्धान् काव्यशापमनुस्मरन् ॥१८॥ हे विप्रचित्ते हे राहो हे नेमे श्रूयतां वचः। मा युध्यत निवर्तध्वं न नः कालोऽयमर्थकृत् ॥१९॥ यः प्रभुः सर्वभूतानां सुखदुःखोपपत्तये। तं नातिवर्तितुं दैत्याः पौरुषैरीश्वरः पुमान् ॥२०॥ यो नो भवाय प्रागासीदभवाय दिवौकसाम्। स एव भगवानद्य वर्तते तद्विपर्ययम् ॥२१॥ बलेन सचिवैर्बुद्ध्या दुर्गैर्मन्त्रौषधादिभिः। सामादिभिरुपायैश्च कालं नात्येति वै जनः ॥२२॥ भवद्भिर्निर्जिता ह्येते बहुशोऽनुचरा हरेः। दैवेनर्द्धैस्त एवाद्य युधि जित्वा नदन्ति नः ॥२३॥ एतान् वयं विजेष्यामो यदि दैवं प्रसीदति। तस्मात्कालं प्रतीक्षध्वं यो नोऽर्थत्वाय कल्पते ॥२४॥ श्रीशुक उवाच पत्युर्निगदितं श्रुत्वा दैत्यदानवयूथपाः। रसां निर्विविशू राजन् विष्णुपार्षदताडिताः ॥२५॥ अथ तार्क्ष्यसुतो ज्ञात्वा विराट् प्रभुचिकीर्षितम्। बबन्ध वारुणैः पाशैर्बलिं सौत्येऽहनि क्रतौ ॥२६॥ हाहाकारो महानासीद्रोदस्योः सर्वतोदिशम्। निगृह्यमाणेऽसुरपतौ विष्णुना प्रभविष्णुना ॥२७॥ तं बद्धं वारुणैः पाशैर्भगवानाह वामनः। नष्टश्रियं स्थिरप्रज्ञमुदारयशसं नृप ॥२८॥ पदानि त्रीणि दत्तानि भूमेर्मह्यं त्वयासुर। द्वाभ्यां क्रान्ता मही सर्वा तृतीयमुपकल्पय ॥२९॥ यावत्तपत्यसौ गोभिर्यावदिन्दुः सहोडुभिः। यावद्वर्षति पर्जन्यस्तावती भूरियं तव ॥३०॥ पदैकेन मयाक्रान्तो भूर्लोकः खं दिशस्तनोः। स्वर्लोकस्तु द्वितीयेन पश्यतस्ते स्वमात्मना ॥३१॥ प्रतिश्रुतमदातुस्ते निरये वास इष्यते। विश त्वं निरयं तस्माद्गुरुणा चानुमोदितः ॥३२॥ वृथा मनोरथस्तस्य दूरे स्वर्गः पतत्यधः। प्रतिश्रुतस्यादानेन योऽर्थिनं विप्रलम्भते ॥३३॥ विप्रलब्धो ददामीति त्वयाहं चाढ्यमानिना। तद्व्यलीकफलं भुङ्क्ष्व निरयं कतिचित्समाः ॥३४॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहिताया- मष्टमस्कन्धे वामनप्रादुर्भावे बलिनिग्रहो नामैकविंशोऽध्यायः॥२१॥

॥ द्वाविंशोऽध्यायः - २२ ॥

श्रीशुक उवाच एवं विप्रकृतो राजन् बलिर्भगवतासुरः। भिद्यमानोऽप्यभिन्नात्मा प्रत्याहाविक्लवं वचः ॥१॥ बलिरुवाच यद्युत्तमश्लोक भवान् ममेरितं वचो व्यलीकं सुरवर्य मन्यते। करोम्यृतं तन्न भवेत्प्रलम्भनं पदं तृतीयं कुरु शीर्ष्णि मे निजम् ॥२॥ बिभेमि नाहं निरयात्पदच्युतो न पाशबन्धाद्व्यसनाद्दुरत्ययात्। नैवार्थकृच्छ्राद्भवतो विनिग्रहा- दसाधुवादाद्भृशमुद्विजे यथा ॥३॥ पुंसां श्लाघ्यतमं मन्ये दण्डमर्हत्तमार्पितम्। यं न माता पिता भ्राता सुहृदश्चादिशन्ति हि ॥४॥ त्वं नूनमसुराणां नः पारोक्ष्यः परमो गुरुः। यो नोऽनेकमदान्धानां विभ्रंशं चक्षुरादिशत् ॥५॥ यस्मिन् वैरानुबन्धेन व्यूढेन विबुधेतराः। बहवो लेभिरे सिद्धिं यामु हैकान्तयोगिनः ॥६॥ तेनाहं निगृहीतोऽस्मि भवता भूरिकर्मणा। बद्धश्च वारुणैः पाशैर्नातिव्रीडे न च व्यथे ॥७॥ पितामहो मे भवदीयसम्मतः प्रह्लाद आविष्कृतसाधुवादः। भवद्विपक्षेण विचित्रवैशसं सम्प्रापितस्त्वत्परमः स्वपित्रा ॥८॥ किमात्मनानेन जहाति योऽन्ततः किं रिक्थहारैः स्वजनाख्यदस्युभिः। किं जायया संसृतिहेतुभूतया मर्त्यस्य गेहैः किमिहायुषो व्ययः ॥९॥ इत्थं स निश्चित्य पितामहो महा- नगाधबोधो भवतः पादपद्मम्। ध्रुवं प्रपेदे ह्यकुतोभयं जनाद्भीतः स्वपक्षक्षपणस्य सत्तम ॥१०॥ अथाहमप्यात्मरिपोस्तवान्तिकं दैवेन नीतः प्रसभं त्याजितश्रीः। इदं कृतान्तान्तिकवर्ति जीवितं ययाध्रुवं स्तब्धमतिर्न बुध्यते ॥११॥ श्रीशुक उवाच तस्येत्थं भाषमाणस्य प्रह्लादो भगवत्प्रियः। आजगाम कुरुश्रेष्ठ राकापतिरिवोत्थितः ॥१२॥ तमिन्द्रसेनः स्वपितामहं श्रिया विराजमानं नलिनायतेक्षणम्। प्रांशुं पिशङ्गाम्बरमञ्जनत्विषं प्रलम्बबाहुं सुभगं समैक्षत ॥१३॥ तस्मै बलिर्वारुणपाशयन्त्रितः समर्हणं नोपजहार पूर्ववत्। ननाम मूर्ध्नाश्रुविलोललोचनः सव्रीडनीचीनमुखो बभूव ह ॥१४॥ स तत्र हासीनमुदीक्ष्य सत्पतिं सुनन्दनन्दाद्यनुगैरुपासितम्। उपेत्य भूमौ शिरसा महामना ननाम मूर्ध्ना पुलकाश्रुविक्लवः ॥१५॥ प्रह्लाद उवाच त्वयैव दत्तं पदमैन्द्रमूर्जितं हृतं तदेवाद्य तथैव शोभनम्। मन्ये महानस्य कृतो ह्यनुग्रहो विभ्रंशितो यच्छ्रिय आत्ममोहनात् ॥१६॥ यया हि विद्वानपि मुह्यते यतस्तत्को विचष्टे गतिमात्मनो यथा। तस्मै नमस्ते जगदीश्वराय वै नारायणायाखिललोकसाक्षिणे ॥१७॥ श्रीशुक उवाच तस्यानुशृण्वतो राजन् प्रह्लादस्य कृताञ्जलेः। हिरण्यगर्भो भगवानुवाच मधुसूदनम् ॥१८॥ बद्धं वीक्ष्य पतिं साध्वी तत्पत्नी भयविह्वला। प्राञ्जलिः प्रणतोपेन्द्रं बभाषेऽवाङ्मुखी नृप ॥१९॥ विन्ध्यावलिरुवाच क्रीडार्थमात्मन इदं त्रिजगत्कृतं ते स्वाम्यं तु तत्र कुधियोऽपर ईश कुर्युः। कर्तुः प्रभोस्तव किमस्यत आवहन्ति त्यक्तह्रियस्त्वदवरोपितकर्तृवादाः ॥२०॥ ब्रह्मोवाच भूतभावन भूतेश देवदेव जगन्मय। मुञ्चैनं हृतसर्वस्वं नायमर्हति निग्रहम् ॥२१॥ कृत्स्ना तेऽनेन दत्ता भूर्लोकाः कर्मार्जिताश्च ये। निवेदितं च सर्वस्वमात्माविक्लवया धिया ॥२२॥ यत्पादयोरशठधीः सलिलं प्रदाय दूर्वाङ्कुरैरपि विधाय सतीं सपर्याम्। अप्युत्तमां गतिमसौ भजते त्रिलोकीं दाश्वानविक्लवमनाः कथमार्तिमृच्छेत् ॥२३॥ श्रीभगवानुवाच ब्रह्मन् यमनुगृह्णामि तद्विशो विधुनोम्यहम्। यन्मदः पुरुषः स्तब्धो लोकं मां चावमन्यते ॥२४॥ यदा कदाचिज्जीवात्मा संसरन् निजकर्मभिः। नानायोनिष्वनीशोऽयं पौरुषीं गतिमाव्रजेत् ॥२५॥ जन्मकर्मवयोरूपविद्यैश्वर्यधनादिभिः। यद्यस्य न भवेत्स्तम्भस्तत्रायं मदनुग्रहः ॥२६॥ मानस्तम्भनिमित्तानां जन्मादीनां समन्ततः। सर्वश्रेयःप्रतीपानां हन्त मुह्येन्न मत्परः ॥२७॥ एष दानवदैत्यानामग्रणीः कीर्तिवर्धनः। अजैषीदजयां मायां सीदन्नपि न मुह्यति ॥२८॥ क्षीणरिक्थश्च्युतः स्थानात्क्षिप्तो बद्धश्च शत्रुभिः। ज्ञातिभिश्च परित्यक्तो यातनामनुयापितः ॥२९॥ गुरुणा भर्त्सितः शप्तो जहौ सत्यं न सुव्रतः। छलैरुक्तो मया धर्मो नायं त्यजति सत्यवाक् ॥३०॥ एष मे प्रापितः स्थानं दुष्प्रापममरैरपि। सावर्णेरन्तरस्यायं भवितेन्द्रो मदाश्रयः ॥३१॥ तावत्सुतलमध्यास्तां विश्वकर्मविनिर्मितम्। यन्नाधयो व्याधयश्च क्लमस्तन्द्रा पराभवः। नोपसर्गा निवसतां सम्भवन्ति ममेक्षया ॥३२॥ इन्द्रसेन महाराज याहि भो भद्रमस्तु ते। सुतलं स्वर्गिभिः प्रार्थ्यं ज्ञातिभिः परिवारितः ॥३३॥ न त्वामभिभविष्यन्ति लोकेशाः किमुतापरे। त्वच्छासनातिगान् दैत्यांश्चक्रं मे सूदयिष्यति ॥३४॥ रक्षिष्ये सर्वतोऽहं त्वां सानुगं सपरिच्छदम्। सदा सन्निहितं वीर तत्र मां द्रक्ष्यते भवान् ॥३५॥ तत्र दानवदैत्यानां सङ्गात्ते भाव आसुरः। दृष्ट्वा मदनुभावं वै सद्यः कुण्ठो विनङ्क्ष्यति ॥३६॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहिताया- मष्टमस्कन्धे वामनप्रादुर्भावे बलिवामनसंवादो नाम द्वाविंशोऽध्यायः॥२२॥

॥ त्रयोविंशोऽध्यायः - २३ ॥

श्रीशुक उवाच इत्युक्तवन्तं पुरुषं पुरातनं महानुभावोऽखिलसाधुसम्मतः। बद्धाञ्जलिर्बाष्पकलाकुलेक्षणो भक्त्युद्गलो गद्गदया गिराब्रवीत् ॥१॥ बलिरुवाच अहो प्रणामाय कृतः समुद्यमः प्रपन्नभक्तार्थविधौ समाहितः। यल्लोकपालैस्त्वदनुग्रहोऽमरै- रलब्धपूर्वोऽपसदेऽसुरेऽर्पितः ॥२॥ श्रीशुक उवाच इत्युक्त्वा हरिमानम्य ब्रह्माणं सभवं ततः। विवेश सुतलं प्रीतो बलिर्मुक्तः सहासुरैः ॥३॥ एवमिन्द्राय भगवान् प्रत्यानीय त्रिविष्टपम्। पूरयित्वादितेः काममशासत्सकलं जगत् ॥४॥ लब्धप्रसादं निर्मुक्तं पौत्रं वंशधरं बलिम्। निशाम्य भक्तिप्रवणः प्रह्लाद इदमब्रवीत् ॥५॥ प्रह्लाद उवाच नेमं विरिञ्चो लभते प्रसादं न श्रीर्न शर्वः किमुतापरे ते। यन्नोऽसुराणामसि दुर्गपालो विश्वाभिवन्द्यैरभिवन्दिताङ्घ्रिः ॥६॥ यत्पादपद्ममकरन्दनिषेवणेन ब्रह्मादयः शरणदाश्नुवते विभूतीः। कस्माद्वयं कुसृतयः खलयोनयस्ते दाक्षिण्यदृष्टिपदवीं भवतः प्रणीताः ॥७॥ चित्रं तवेहितमहोऽमितयोगमाया- लीलाविसृष्टभुवनस्य विशारदस्य । सर्वात्मनः समदृशोऽविषमः स्वभावो भक्तप्रियो यदसि कल्पतरुस्वभावः ॥८॥ श्रीभगवानुवाच वत्स प्रह्लाद भद्रं ते प्रयाहि सुतलालयम्। मोदमानः स्वपौत्रेण ज्ञातीनां सुखमावह ॥९॥ नित्यं द्रष्टासि मां तत्र गदापाणिमवस्थितम्। मद्दर्शनमहाह्लादध्वस्तकर्मनिबन्धनः ॥१०॥ श्रीशुक उवाच आज्ञां भगवतो राजन् प्रह्लादो बलिना सह। बाढमित्यमलप्रज्ञो मूर्ध्न्याधाय कृताञ्जलिः ॥११॥ परिक्रम्यादिपुरुषं सर्वासुरचमूपतिः। प्रणतस्तदनुज्ञातः प्रविवेश महाबिलम् ॥१२॥ अथाहोशनसं राजन् हरिर्नारायणोऽन्तिके। आसीनमृत्विजां मध्ये सदसि ब्रह्मवादिनाम् ॥१३॥ ब्रह्मन् सन्तनु शिष्यस्य कर्मच्छिद्रं वितन्वतः। यत्तत्कर्मसु वैषम्यं ब्रह्मदृष्टं समं भवेत् ॥१४॥ शुक्र उवाच कुतस्तत्कर्मवैषम्यं यस्य कर्मेश्वरो भवान्। यज्ञेशो यज्ञपुरुषः सर्वभावेन पूजितः ॥१५॥ मन्त्रतस्तन्त्रतश्छिद्रं देशकालार्हवस्तुतः। सर्वं करोति निश्छिद्रं नामसङ्कीर्तनं तव ॥१६॥ तथापि वदतो भूमन् करिष्याम्यनुशासनम्। एतच्छ्रेयः परं पुंसां यत्तवाज्ञानुपालनम् ॥१७॥ श्रीशुक उवाच अभिनन्द्य हरेराज्ञामुशना भगवानिति। यज्ञच्छिद्रं समाधत्त बलेर्विप्रर्षिभिः सह ॥१८॥ एवं बलेर्महीं राजन् भिक्षित्वा वामनो हरिः। ददौ भ्रात्रे महेन्द्राय त्रिदिवं यत्परैर्हृतम् ॥१९॥ प्रजापतिपतिर्ब्रह्मा देवर्षिपितृभूमिपैः। दक्षभृग्वङ्गिरोमुख्यैः कुमारेण भवेन च ॥२०॥ कश्यपस्यादितेः प्रीत्यै सर्वभूतभवाय च। लोकानां लोकपालानामकरोद्वामनं पतिम् ॥२१॥ वेदानां सर्वदेवानां धर्मस्य यशसः श्रियः। मङ्गलानां व्रतानां च कल्पं स्वर्गापवर्गयोः ॥२२॥ उपेन्द्रं कल्पयांचक्रे पतिं सर्वविभूतये। तदा सर्वाणि भूतानि भृशं मुमुदिरे नृप ॥२३॥ ततस्त्विन्द्रः पुरस्कृत्य देवयानेन वामनम्। लोकपालैर्दिवं निन्ये ब्रह्मणा चानुमोदितः ॥२४॥ प्राप्य त्रिभुवनं चेन्द्र उपेन्द्रभुजपालितः। श्रिया परमया जुष्टो मुमुदे गतसाध्वसः ॥२५॥ ब्रह्मा शर्वः कुमारश्च भृग्वाद्या मुनयो नृप। पितरः सर्वभूतानि सिद्धा वैमानिकाश्च ये ॥२६॥ सुमहत्कर्म तद्विष्णोर्गायन्तः परमाद्भुतम्। धिष्ण्यानि स्वानि ते जग्मुरदितिं च शशंसिरे ॥२७॥ सर्वमेतन्मयाऽऽख्यातं भवतः कुलनन्दन। उरुक्रमस्य चरितं श्रोतॄणामघमोचनम् ॥२८॥ पारं महिम्न उरुविक्रमतो गृणानो यः पार्थिवानि विममे स रजांसि मर्त्यः । किं जायमान उत जात उपैति मर्त्य इत्याह मन्त्रदृगृषिः पुरुषस्य यस्य ॥२९॥ य इदं देवदेवस्य हरेरद्भुतकर्मणः। अवतारानुचरितं शृण्वन् याति परां गतिम् ॥३०॥ क्रियमाणे कर्मणीदं दैवे पित्र्येऽथ मानुषे। यत्र यत्रानुकीर्त्येत तत्तेषां सुकृतं विदुः ॥३१॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहिताया- मष्टमस्कन्धे वामनावतारचरिते त्रयोविंशोऽध्यायः॥२३॥

॥ चतुर्विंशोऽध्यायः - २४ ॥

राजोवाच भगवन् श्रोतुमिच्छामि हरेरद्भुतकर्मणः। अवतारकथामाद्यां मायामत्स्यविडम्बनम् ॥१॥ यदर्थमदधाद्रूपं मात्स्यं लोकजुगुप्सितम्। तमःप्रकृतिदुर्मर्षं कर्मग्रस्त इवेश्वरः ॥ २॥ एतन्नो भगवन् सर्वं यथावद्वक्तुमर्हसि। उत्तमश्लोकचरितं सर्वलोकसुखावहम् ॥३॥ सूत उवाच इत्युक्तो विष्णुरातेन भगवान् बादरायणिः। उवाच चरितं विष्णोर्मत्स्यरूपेण यत्कृतम् ॥४॥ श्रीशुक उवाच गोविप्रसुरसाधूनां छन्दसामपि चेश्वरः। रक्षामिच्छंस्तनूर्धत्ते धर्मस्यार्थस्य चैव हि ॥५॥ उच्चावचेषु भूतेषु चरन् वायुरिवेश्वरः। नोच्चावचत्वं भजते निर्गुणत्वाद्धियो गुणैः ॥६॥ आसीदतीतकल्पान्ते ब्राह्मो नैमित्तिको लयः। समुद्रोपप्लुतास्तत्र लोका भूरादयो नृप ॥७॥ कालेनागतनिद्रस्य धातुः शिशयिषोर्बली। मुखतो निःसृतान् वेदान् हयग्रीवोऽन्तिकेऽहरत् ॥८॥ ज्ञात्वा तद्दानवेन्द्रस्य हयग्रीवस्य चेष्टितम्। दधार शफरीरूपं भगवान् हरिरीश्वरः ॥९॥ तत्र राजऋषिः कश्चिन्नाम्ना सत्यव्रतो महान्। नारायणपरोऽतप्यत्तपः स सलिलाशनः ॥१०॥ योऽसावस्मिन् महाकल्पे तनयः स विवस्वतः। श्राद्धदेव इति ख्यातो मनुत्वे हरिणार्पितः ॥११॥ एकदा कृतमालायां कुर्वतो जलतर्पणम्। तस्याञ्जल्युदके काचिच्छफर्येकाभ्यपद्यत ॥१२॥ सत्यव्रतोऽञ्जलिगतां सह तोयेन भारत । उत्ससर्ज नदीतोये शफरीं द्रविडेश्वरः ॥१३॥ तमाह सातिकरुणं महाकारुणिकं नृपम्। यादोभ्यो ज्ञातिघातिभ्यो दीनां मां दीनवत्सल। कथं विसृजसे राजन् भीतामस्मिन् सरिज्जले ॥१४॥ तमात्मनोऽनुग्रहार्थं प्रीत्या मत्स्यवपुर्धरम्। अजानन् रक्षणार्थाय शफर्याः स मनो दधे ॥१५॥ तस्या दीनतरं वाक्यमाश्रुत्य स महीपतिः। कलशाप्सु निधायैनां दयालुर्निन्य आश्रमम् ॥१६॥ सा तु तत्रैकरात्रेण वर्धमाना कमण्डलौ। अलब्ध्वाऽऽत्मावकाशं वा इदमाह महीपतिम् ॥१७॥ नाहं कमण्डलावस्मिन् कृच्छ्रं वस्तुमिहोत्सहे। कल्पयौकः सुविपुलं यत्राहं निवसे सुखम् ॥१८॥ स एनां तत आदाय न्यधादौदञ्चनोदके। तत्र क्षिप्ता मुहूर्तेन हस्तत्रयमवर्धत ॥१९॥ न म एतदलं राजन् सुखं वस्तुमुदञ्चनम्। पृथु देहि पदं मह्यं यत्त्वाहं शरणं गता ॥२०॥ तत आदाय सा राज्ञा क्षिप्ता राजन् सरोवरे। तदावृत्यात्मना सोऽयं महामीनोऽन्ववर्धत ॥२१॥ नैतन्मे स्वस्तये राजन्नुदकं सलिलौकसः। निधेहि रक्षायोगेन ह्रदे मामविदासिनि ॥२२॥ इत्युक्तः सोऽनयन्मत्स्यं तत्र तत्राविदासिनि। जलाशयेऽसम्मितं तं समुद्रे प्राक्षिपज्झषम् ॥२३॥ क्षिप्यमाणस्तमाहेदमिह मां मकरादयः। अदन्त्यतिबला वीर मां नेहोत्स्रष्टुमर्हसि ॥२४॥ एवं विमोहितस्तेन वदता वल्गुभारतीम्। तमाह को भवानस्मान् मत्स्यरूपेण मोहयन् ॥२५॥ नैवं वीर्यो जलचरो दृष्टोऽस्माभिः श्रुतोऽपि च। यो भवान् योजनशतमह्नाभिव्यानशे सरः ॥२६॥ नूनं त्वं भगवान् साक्षाद्धरिर्नारायणोऽव्ययः। अनुग्रहाय भूतानां धत्से रूपं जलौकसाम् ॥२७॥ नमस्ते पुरुषश्रेष्ठ स्थित्युत्पत्यप्ययेश्वर। भक्तानां नः प्रपन्नानां मुख्यो ह्यात्मगतिर्विभो ॥२८॥ सर्वे लीलावतारास्ते भूतानां भूतिहेतवः। ज्ञातुमिच्छाम्यदो रूपं यदर्थं भवता धृतम् ॥२९॥ न तेऽरविन्दाक्ष पदोपसर्पणं मृषा भवेत्सर्वसुहृत्प्रियात्मनः। यथेतरेषां पृथगात्मनां सतामदीदृशो यद्वपुरद्भुतं हि नः ॥३०॥ श्रीशुक उवाच इति ब्रुवाणं नृपतिं जगत्पतिः सत्यव्रतं मत्स्यवपुर्युगक्षये। विहर्तुकामः प्रलयार्णवेऽब्रवी- च्चिकीर्षुरेकान्तजनप्रियः प्रियम् ॥३१॥ श्रीभगवानुवाच सप्तमेऽद्यतनादूर्ध्वमहन्येतदरिन्दम। निमङ्क्ष्यत्यप्ययाम्भोधौ त्रैलोक्यं भूर्भुवादिकम् ॥३२॥ त्रिलोक्यां लीयमानायां संवर्ताम्भसि वै तदा। उपस्थास्यति नौः काचिद्विशाला त्वां मयेरिता ॥३३॥ त्वं तावदोषधीः सर्वा बीजान्युच्चावचानि च। सप्तर्षिभिः परिवृतः सर्वसत्त्वोपबृंहितः ॥३४॥ आरुह्य बृहतीं नावं विचरिष्यस्यविक्लवः। एकार्णवे निरालोके ऋषीणामेव वर्चसा ॥३५॥ दोधूयमानां तां नावं समीरेण बलीयसा। उपस्थितस्य मे शृङ्गे निबध्नीहि महाहिना ॥३६॥ अहं त्वामृषिभिः साकं सहनावमुदन्वति। विकर्षन् विचरिष्यामि यावद्ब्राह्मी निशा प्रभो ॥३७॥ मदीयं महिमानं च परं ब्रह्मेति शब्दितम्। वेत्स्यस्यनुगृहीतं मे सम्प्रश्नैर्विवृतं हृदि ॥३८॥ इत्थमादिश्य राजानं हरिरन्तरधीयत। सोऽन्ववैक्षत तं कालं यं हृषीकेश आदिशत् ॥३९॥ आस्तीर्य दर्भान् प्राक्कूलान् राजर्षिः प्रागुदङ्मुखः। निषसाद हरेः पादौ चिन्तयन् मत्स्यरूपिणः ॥४०॥ ततः समुद्र उद्वेलः सर्वतः प्लावयन् महीम्। वर्धमानो महामेघैर्वर्षद्भिः समदृश्यत ॥४१॥ ध्यायन् भगवदादेशं ददृशे नावमागताम्। तामारुरोह विप्रेन्द्रैरादायौषधिवीरुधः ॥४२॥ तमूचुर्मुनयः प्रीता राजन् ध्यायस्व केशवम्। स वै नः सङ्कटादस्मादविता शं विधास्यति ॥४३॥ सोऽनुध्यातस्ततो राज्ञा प्रादुरासीन्महार्णवे। एकशृङ्गधरो मत्स्यो हैमो नियुतयोजनः ॥४४॥ स गो ना सं गो गो निबध्य नावं तच्छृङ्गे यथोक्तो हरिणा पुरा। वरत्रेणाहिना तुष्टस्तुष्टाव मधुसूदनम् ॥४५॥ राजोवाच अनाद्यविद्योपहतात्मसंविद- स्तन्मूलसंसारपरिश्रमातुराः। यदृच्छयेहोपसृता यमाप्नुयु- र्विमुक्तिदो नः परमो गुरुर्भवान् ॥४६॥ जनोऽबुधोऽयं निजकर्मबन्धनः सुखेच्छया कर्म समीहतेऽसुखम्। यत्सेवया तां विधुनोत्यसन्मतिं ग्रन्थिं स भिन्द्याद्धृदयं स नो गुरुः ॥४७॥ यत्सेवयाग्नेरिव रुद्ररोदनं पुमान् विजह्यान्मलमात्मनस्तमः। भजेत वर्णं निजमेष सोऽव्ययो भूयात्स ईशः परमो गुरोर्गुरुः ॥४८॥ न यत्प्रसादायुतभागलेशमन्ये च देवा गुरवो जनाः स्वयम्। कर्तुं समेताः प्रभवन्ति पुंस- स्तमीश्वरं त्वां शरणं प्रपद्ये ॥४९॥ अचक्षुरन्धस्य यथाग्रणीः कृतस्तथा जनस्याविदुषोऽबुधो गुरुः। त्वमर्कदृक्सर्वदृशां समीक्षणो वृतो गुरुर्नः स्वगतिं बुभुत्सताम् ॥५०॥ जनो जनस्यादिशतेऽसतीं मतिं यया प्रपद्येत दुरत्ययं तमः। त्वं त्वव्ययं ज्ञानममोघमञ्जसा प्रपद्यते येन जनो निजं पदम् ॥५१॥ त्वं सर्वलोकस्य सुहृत्प्रियेश्वरो ह्यात्मा गुरुर्ज्ञानमभीष्टसिद्धिः। तथापि लोको न भवन्तमन्धधी- र्जानाति सन्तं हृदि बद्धकामः ॥५२॥ तं त्वामहं देववरं वरेण्यं प्रपद्य ईशं प्रतिबोधनाय। छिन्ध्यर्थदीपैर्भगवन् वचोभि- र्ग्रन्थीन् हृदय्यान् विवृणु स्वमोकः ॥५३॥ श्रीशुक उवाच इत्युक्तवन्तं नृपतिं भगवानादिपूरुषः। मत्स्यरूपी महाम्भोधौ विहरंस्तत्त्वमब्रवीत् ॥५४॥ पुराणसंहितां दिव्यां साङ्ख्ययोगक्रियावतीम्। सत्यव्रतस्य राजर्षेरात्मगुह्यमशेषतः ॥५५॥ अश्रौषीदृषिभिः साकमात्मतत्त्वमसंशयम्। नाव्यासीनो भगवता प्रोक्तं ब्रह्म सनातनम् ॥५६॥ अतीतप्रलयापाय उत्थिताय स वेधसे। हत्वासुरं हयग्रीवं वेदान् प्रत्याहरद्धरिः ॥५७॥ स तु सत्यव्रतो राजा ज्ञानविज्ञानसंयुतः। विष्णोः प्रसादात्कल्पेऽस्मिन्नासीद्वैवस्वतो मनुः ॥५८॥ सत्यव्रतस्य राजर्षेर्मायामत्स्यस्य शार्ङ्गिणः। संवादं महदाख्यानं श्रुत्वा मुच्येत किल्बिषात् ॥५९॥ अवतारो हरेर्योऽयं कीर्तयेदन्वहं नरः। सङ्कल्पास्तस्य सिध्यन्ति स याति परमां गतिम् ॥६०॥ प्रलयपयसि धातुः सुप्तशक्तेर्मुखेभ्यः श्रुतिगणमपनीतं प्रत्युपादत्त हत्वा । दितिजमकथयद्यो ब्रह्म सत्यव्रतानां तमहमखिलहेतुं जिह्ममीनं नतोऽस्मि ॥६१॥ इति श्रीमद्भागवते महापुराणे वैयासक्यामष्टादशसाहस्र्यां पारमहंस्यां संहितायामष्टमस्कन्धे मत्स्यावतारचरितानुवर्णनं नाम चतुर्विंशोऽध्यायः॥२४॥

॥ इत्यष्टमस्कन्धः समाप्तः ॥

ॐ तत्सत् ॥


GRETIL txt edited as per Gita Press edition along with paaThabheda by PSA Easwaran

% Text title            : shrImadbhAgavatam - 08 - aShTamaskandhaH 
% File name             : bhagpur-08.txt
% itxtitle              : shrImadbhAgavatam - 08 - aShTamaskandhaH 
% engtitle              : shrImadbhAgavatam - aShTamaskandhaH 
% Category              : purana, shrimadbhagavatam, vyAsa, krishna
% Location              : doc_purana
% Sublocation           : purana
% Language              : Sanskrit
% Subject               : hinduism/religion
% Latest update         : July 31, 2017, July 16, 2010
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP