॥ श्रीमद्भागवतम् - एकादशस्कन्धः ॥

॥ ॐ नमो भगवते वासुदेवाय ॥

॥ एकादशस्कन्धः ॥

॥ प्रथमोऽध्यायः - १ ॥

श्रीबादरायणिरुवाच कृत्वा दैत्यवधं कृष्णः सरामो यदुभिर्वृतः। भुवोऽवतारयद्भारं जविष्ठं जनयन् कलिम् ॥ १॥ ये कोपिताः सुबहुपाण्डुसुताः सपत्नै- र्दुर्द्यूतहेलनकचग्रहणादिभिस्तान् । कृत्वा निमित्तमितरेतरतः समेतान् हत्वा नृपान् निरहरत्क्षितिभारमीशः ॥२॥ भूभारराजपृतनायदुभिर्निरस्य गुप्तैः स्वबाहुभिरचिन्तयदप्रमेयः। मन्येऽवनेर्ननु गतोऽप्यगतं हि भारं यद्यादवं कुलमहो अविषह्यमास्ते ॥ ३॥ नैवान्यतः परिभवोऽस्य भवेत्कथञ्चि- न्मत्संश्रयस्य विभवोन्नहनस्य नित्यम् । अन्तःकलिं यदुकुलस्य विधाय वेणुस्तम्बस्य वह्निमिव शान्तिमुपैमि धाम ॥४॥ एवं व्यवसितो राजन् सत्यसङ्कल्प ईश्वरः। शापव्याजेन विप्राणां सञ्जह्रे स्वकुलं विभुः ॥५॥ स्वमूर्त्या लोकलावण्यनिर्मुक्त्या लोचनं नृणाम्। गीर्भिस्ताः स्मरतां चित्तं पदैस्तानीक्षतां क्रियाः॥६॥ आच्छिद्य कीर्तिं सुश्लोकां वितत्य ह्यञ्जसा नु कौ। तमोऽनया तरिष्यन्तीत्यगात्स्वं पदमीश्वरः ॥७॥ राजोवाच ब्रह्मण्यानां वदान्यानां नित्यं वृद्धोपसेविनाम्। विप्रशापः कथमभूद्वृष्णीनां कृष्णचेतसाम् ॥८॥ यन्निमित्तः स वै शापो यादृशो द्विजसत्तम। कथमेकात्मनां भेद एतत्सर्वं वदस्व मे ॥९॥ श्रीशुक उवाच बिभ्रद्वपुः सकलसुन्दरसन्निवेशं कर्माचरन् भुवि सुमङ्गलमाप्तकामः । आस्थाय धाम रममाण उदारकीर्तिः संहर्तुमैच्छत कुलं स्थितकृत्यशेषः ॥१०॥ कर्माणि पुण्यनिवहानि सुमङ्गलानि गायज्जगत्कलिमलापहराणि कृत्वा। कालात्मना निवसता यदुदेवगेहे पिण्डारकं समगमन्मुनयो निसृष्टाः ॥११॥ विश्वामित्रोऽसितः कण्वो दुर्वासा भृगुरङ्गिराः। कश्यपो वामदेवोऽत्रिर्वसिष्ठो नारदादयः ॥१२॥ क्रीडन्तस्तानुपव्रज्य कुमारा यदुनन्दनाः। उपसङ्गृह्य पप्रच्छुरविनीता विनीतवत् ॥१३॥ ते वेषयित्वा स्त्रीवेषैः साम्बं जाम्बवतीसुतम्। एषा पृच्छति वो विप्रा अन्तर्वत्न्यसितेक्षणा ॥१४॥ प्रष्टुं विलज्जती साक्षात्प्रब्रूतामोघदर्शनाः। प्रसोष्यन्ती पुत्रकामा किं स्वित्सञ्जनयिष्यति ॥१५॥ एवं प्रलब्धा मुनयस्तानूचुः कुपिता नृप। जनयिष्यति वो मन्दा मुसलं कुलनाशनम् ॥१६॥ तच्छ्रुत्वा तेऽतिसन्त्रस्ता विमुच्य सहसोदरम्। साम्बस्य ददृशुस्तस्मिन् मुसलं खल्वयस्मयम्॥१७॥ किं कृतं मन्दभाग्यैर्नः किं वदिष्यन्ति नो जनाः। इति विह्वलिता गेहानादाय मुसलं ययुः ॥१८॥ तच्चोपनीय सदसि परिम्लानमुखश्रियः। राज्ञ आवेदयांचक्रुः सर्वयादवसन्निधौ ॥१९॥ श्रुत्वामोघं विप्रशापं दृष्ट्वा च मुसलं नृप। विस्मिता भयसन्त्रस्ता बभूवुर्द्वारकौकसः ॥२०॥ तच्चूर्णयित्वा मुसलं यदुराजः स आहुकः। समुद्रसलिले प्रास्यल्लोहं चास्यावशेषितम् ॥२१॥ कश्चिन्मत्स्योऽग्रसील्लोहं चूर्णानि तरलैस्ततः। उह्यमानानि वेलायां लग्नान्यासन् किलैरकाः ॥२२॥ मत्स्यो गृहीतो मत्स्यघ्नैर्जालेनान्यैः सहार्णवे। तस्योदरगतं लोहं स शल्ये लुब्धकोऽकरोत् ॥२३॥ भगवान् ज्ञातसर्वार्थ ईश्वरोऽपि तदन्यथा। कर्तुं नैच्छद्विप्रशापं कालरूप्यन्वमोदत ॥२४॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे प्रथमोऽध्यायः॥१॥

॥ द्वितीयोऽध्यायः - २ ॥

श्रीशुक उवाच गोविन्दभुजगुप्तायां द्वारवत्यां कुरूद्वह। अवात्सीन्नारदोऽभीक्ष्णं कृष्णोपासनलालसः ॥१॥ को नु राजन्निन्द्रियवान् मुकुन्दचरणाम्बुजम्। न भजेत्सर्वतो मृत्युरुपास्यममरोत्तमैः ॥२॥ तमेकदा तु देवर्षिं वसुदेवो गृहागतम्। अर्चितं सुखमासीनमभिवाद्येदमब्रवीत् ॥३॥ वसुदेव उवाच भगवन् भवतो यात्रा स्वस्तये सर्वदेहिनाम्। कृपणानां यथा पित्रोरुत्तमश्लोकवर्त्मनाम् ॥४॥ भूतानां देवचरितं दुःखाय च सुखाय च। सुखायैव हि साधूनां त्वादृशामच्युतात्मनाम् ॥५॥ भजन्ति ये यथा देवान् देवा अपि तथैव तान्। छायेव कर्मसचिवाः साधवो दीनवत्सलाः ॥६॥ ब्रह्मंस्तथापि पृच्छामो धर्मान् भागवतांस्तव। यान् श्रुत्वा श्रद्धया मर्त्यो मुच्यते सर्वतोभयात्॥७॥ अहं किल पुरानन्तं प्रजार्थो भुवि मुक्तिदम्। अपूजयं न मोक्षाय मोहितो देवमायया ॥८॥ यथा विचित्रव्यसनाद्भवद्भिर्विश्वतोभयात्। मुच्येम ह्यञ्जसैवाद्धा तथा नः शाधि सुव्रत ॥९॥ श्रीशुक उवाच राजन्नेवं कृतप्रश्नो वसुदेवेन धीमता। प्रीतस्तमाह देवर्षिर्हरेः संस्मारितो गुणैः ॥१०॥ नारद उवाच सम्यगेतद्व्यवसितं भवता सात्वतर्षभ। यत्पृच्छसे भागवतान् धर्मांस्त्वं विश्वभावनान् ॥११॥ श्रुतोऽनुपठितो ध्यात आदृतो वानुमोदितः। सद्यः पुनाति सद्धर्मो देवविश्वद्रुहोऽपि हि ॥१२॥ त्वया परमकल्याणः पुण्यश्रवणकीर्तनः। स्मारितो भगवानद्य देवो नारायणो मम ॥१३॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम्। आर्षभाणां च संवादं विदेहस्य महात्मनः ॥१४॥ प्रियव्रतो नाम सुतो मनोः स्वायम्भुवस्य यः। तस्याग्नीध्रस्ततो नाभिरृषभस्तत्सुतः स्मृतः ॥१५॥ तमाहुर्वासुदेवांशं मोक्षधर्मविवक्षया। अवतीर्णं सुतशतं तस्यासीद्ब्रह्मपारगम् ॥१६॥ तेषां वै भरतो ज्येष्ठो नारायणपरायणः। विख्यातं वर्षमेतद्यन्नाम्ना भारतमद्भुतम् ॥१७॥ स भुक्तभोगां त्यक्त्वेमां निर्गतस्तपसा हरिम्। उपासीनस्तत्पदवीं लेभे वै जन्मभिस्त्रिभिः ॥१८॥ तेषां नव नवद्वीपपतयोऽस्य समन्ततः। कर्मतन्त्रप्रणेतार एकाशीतिर्द्विजातयः ॥१९॥ नवाभवन् महाभागा मुनयो ह्यर्थशंसिनः। श्रमणा वातरशना आत्मविद्याविशारदाः ॥२०॥ कविर्हरिरन्तरिक्षः प्रबुद्धः पिप्पलायनः। आविर्होत्रोऽथ द्रुमिलश्चमसः करभाजनः ॥२१॥ त एते भगवद्रूपं विश्वं सदसदात्मकम्। आत्मनोऽव्यतिरेकेण पश्यन्तो व्यचरन्महीम् ॥२२॥ अव्याहतेष्टगतयः सुरसिद्धसाध्य- गन्धर्वयक्षनरकिन्नरनागलोकान्। मुक्ताश्चरन्ति मुनिचारणभूतनाथ- विद्याधरद्विजगवां भुवनानि कामम् ॥२३॥ त एकदा निमेः सत्रमुपजग्मुर्यदृच्छया। वितायमानमृषिभिरजनाभे महात्मनः ॥२४॥ तान् दृष्ट्वा सूर्यसङ्काशान् महाभागवतान् नृप। यजमानोऽग्नयो विप्राः सर्व एवोपतस्थिरे ॥२५॥ विदेहस्तानभिप्रेत्य नारायणपरायणान्। प्रीतः सम्पूजयांचक्रे आसनस्थान् यथार्हतः ॥२६॥ तान् रोचमानान् स्वरुचा ब्रह्मपुत्रोपमा?व। पप्रच्छ परमप्रीतः प्रश्रयावनतो नृपः ॥२७॥ विदेह उवाच मन्ये भगवतः साक्षात्पार्षदान् वो मधुद्विषः। विष्णोर्भूतानि लोकानां पावनाय चरन्ति हि ॥२८॥ दुर्लभो मानुषो देहो देहिनां क्षणभङ्गुरः। तत्रापि दुर्लभं मन्ये वैकुण्ठप्रियदर्शनम् ॥२९॥ अत आत्यन्तिकं क्षेमं पृच्छामो भवतोऽनघाः। संसारेऽस्मिन् क्षणार्धोऽपि सत्सङ्गः शेवधिर्नृणाम्॥३०॥ धर्मान् भागवतान् ब्रूत यदि नः श्रुतये क्षमम्। यैः प्रसन्नः प्रपन्नाय दास्यत्यात्मानमप्यजः ॥३१॥ श्रीनारद उवाच एवं ते निमिना पृष्टा वसुदेव महत्तमाः। प्रतिपूज्याब्रुवन् प्रीत्या ससदस्यर्त्विजं नृपम् ॥३२॥ कविरुवाच मन्येऽकुतश्चिद्भयमच्युतस्य पादाम्बुजोपासनमत्र नित्यम्। उद्विग्नबुद्धेरसदात्मभावाद्विश्वात्मना यत्र निवर्तते भीः ॥३३॥ ये वै भगवता प्रोक्ता उपाया ह्यात्मलब्धये। अञ्जः पुंसामविदुषां विद्धि भागवतान् हि तान् ॥३४॥ यानास्थाय नरो राज? प्रमाद्येत कर्हिचित्। धावन् निमील्य वा नेत्रे न स्खले? पतेदिह ॥३५॥ कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वानुसृतस्वभावात्। करोति यद्यत्सकलं परस्मै नारायणायेति समर्पयेत्तत् ॥३६॥ भयं द्वितीयाभिनिवेशतः स्यादीशादपेतस्य विपर्ययोऽस्मृतिः। तन्माययातो बुध आभजेत्तं भक्त्यैकयेशं गुरुदेवतात्मा ॥३७॥ अविद्यमानोऽप्यवभाति हि द्वयो ध्यातुर्धिया स्वप्नमनोरथौ यथा। तत्कर्मसङ्कल्पविकल्पकं मनो बुधो निरुन्ध्यादभयं ततः स्यात् ॥३८॥ शृण्वन् सुभद्राणि रथाङ्गपाणेर्जन्मानि कर्माणि च यानि लोके। गीतानि नामानि तदर्थकानि गायन् विलज्जो विचरेदसङ्गः ॥३९॥ एवंव्रतः स्वप्रियनामकीर्त्या जातानुरागो द्रुतचित्त उच्चैः। हसत्यथो रोदिति रौति गायत्युन्मादवन्नृत्यति लोकबाह्यः ॥४०॥ खं वायुमग्निं सलिलं महीं च ज्योतींषि सत्त्वानि दिशो द्रुमादीन्। सरित्समुद्रांश्च हरेः शरीरं यत्किं च भूतं प्रणमेदनन्यः ॥४१॥ भक्तिः परेशानुभवो विरक्तिरन्यत्र चैष त्रिक एककालः। प्रपद्यमानस्य यथाश्नतः स्युस्तुष्टिः पुष्टिः क्षुदपायोऽनुघासम् ॥४२॥ इत्यच्युताङ्घ्रिं भजतोऽनुवृत्त्या भक्तिर्विरक्तिर्भगवत्प्रबोधः। भवन्ति वै भागवतस्य राजंस्ततः परां शान्तिमुपैति साक्षात् ॥४३॥ राजोवाच अथ भागवतं ब्रूत यद्धर्मो यादृशो नृणाम्। यथाचरति यद्ब्रूते यैर्लिङ्गैर्भगवत्प्रियः ॥४४॥ हरिरुवाच सर्वभूतेषु यः पश्येद्भगवद्भावमात्मनः। भूतानि भगवत्यात्मन्येष भागवतोत्तमः ॥४५॥ ईश्वरे तदधीनेषु बालिशेषु द्विषत्सु च। प्रेममैत्रीकृपोपेक्षा यः करोति स मध्यमः ॥४६॥ अर्चायामेव हरये पूजां यः श्रद्धयेहते। न तद्भक्तेषु चान्येषु स भक्तः प्राकृतः स्मृतः ॥४७॥ गृहीत्वापीन्द्रियैरर्थान् यो न द्वेष्टि न हृष्यति। विष्णोर्मायामिदं पश्यन् स वै भागवतोत्तमः ॥४८॥ देहेन्द्रियप्राणमनोधियां यो जन्माप्ययक्षुद्भयतर्षकृच्छ्रैः। संसारधर्मैरविमुह्यमानः स्मृत्या हरेर्भागवतप्रधानः ॥४९॥ न कामकर्मबीजानां यस्य चेतसि सम्भवः। वासुदेवैकनिलयः स वै भागवतोत्तमः ॥५०॥ न यस्य जन्मकर्मभ्यां न वर्णाश्रमजातिभिः। सज्जतेऽस्मिन्नहंभावो देहे वै स हरेः प्रियः ॥५१॥ न यस्य स्वः पर इति वित्तेष्वात्मनि वा भिदा। सर्वभूतसमः शान्तः स वै भागवतोत्तमः ॥५२॥ त्रिभुवनविभवहेतवेऽप्यकुण्ठस्मृति- रजितात्मसुरादिभिर्विमृग्यात्। न चलति भगवत्पदारविन्दा- ल्लवनिमिषार्धमपि यः स वैष्णवाग्र्यः ॥५३॥ भगवत उरुविक्रमाङ्घ्रिशाखा- नखमणिचन्द्रिकया निरस्ततापे। हृदि कथमुपसीदतां पुनः स प्रभवति चन्द्र इवोदितेऽर्कतापः ॥५४॥ विसृजति हृदयं न यस्य साक्षाद्धरिरवशाभिहितोऽप्यघौघनाशः। प्रणयरशनया धृताङ्घ्रिपद्मः स भवति भागवतप्रधान उक्तः ॥५५॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे द्वितीयोऽध्यायः॥२॥

॥ तृतीयोऽध्यायः - ३ ॥

राजोवाच परस्य विष्णोरीशस्य मायिनामपि मोहिनीम्। मायां वेदितुमिच्छामो भगवन्तो ब्रुवन्तु नः ॥१॥ नानुतृप्ये जुषन् युष्मद्वचो हरिकथामृतम्। संसारतापनिस्तप्तो मर्त्यस्तत्तापभेषजम् ॥२॥ अन्तरिक्ष उवाच एभिर्भूतानि भूतात्मा महाभूतैर्महाभुज। ससर्जोच्चावचान्याद्यः स्वमात्रात्मप्रसिद्धये ॥३॥ एवं सृष्टानि भूतानि प्रविष्टः पञ्चधातुभिः। एकधा दशधाऽऽत्मानं विभजन् जुषते गुणान्॥४॥ गुणैर्गुणान् स भुञ्जान आत्मप्रद्योतितैः प्रभुः। मन्यमान इदं सृष्टमात्मानमिह सज्जते ॥५॥ कर्माणि कर्मभिः कुर्वन् सनिमित्तानि देहभृत्। तत्तत्कर्मफलं गृह्णन् भ्रमतीह सुखेतरम् ॥६॥ इत्थं कर्मगतीर्गच्छन् बह्वभद्रवहाः पुमान्। आभूतसम्प्लवात्सर्गप्रलयावश्नुतेऽवशः ॥७॥ धातूपप्लव आसन्ने व्यक्तं द्रव्यगुणात्मकम्। अनादिनिधनः कालो ह्यव्यक्तायापकर्षति ॥८॥ शतवर्षा ह्यनावृष्टिर्भविष्यत्युल्बणा भुवि। तत्कालोपचितोष्णार्को लोकांस्त्रीन् प्रतपिष्यति॥९॥ पातालतलमारभ्य सङ्कर्षणमुखानलः। दहन्नूर्ध्वशिखो विष्वग्वर्धते वायुनेरितः ॥१०॥ सांवर्तको मेघगणो वर्षति स्म शतं समाः। धाराभिर्हस्तिहस्ताभिर्लीयते सलिले विराट् ॥११॥ ततो विराजमुत्सृज्य वैराजः पुरुषो नृप। अव्यक्तं विशते सूक्ष्मं निरिन्धन इवानलः ॥१२॥ वायुना हृतगन्धा भूः सलिलत्वाय कल्पते। सलिलं तद्धृतरसं ज्योतिष्ट्वायोपकल्पते ॥१३॥ हृतरूपं तु तमसा वायौ ज्योतिः प्रलीयते। हृतस्पर्शोऽवकाशेन वायुर्नभसि लीयते ॥१४॥ कालात्मना हृतगुणं नभ आत्मनि लीयते । इन्द्रियाणि मनो बुद्धिः सह वैकारिकैर्नृप। प्रविशन्ति ह्यहङ्कारं स्वगुणैरहमात्मनि ॥१५॥ एषा माया भगवतः सर्गस्थित्यन्तकारिणी। त्रिवर्णा वर्णितास्माभिः किं भूयः श्रोतुमिच्छसि॥१६॥ राजोवाच यथैतामैश्वरीं मायां दुस्तरामकृतात्मभिः। तरन्त्यञ्जः स्थूलधियो महर्ष इदमुच्यताम् ॥१७॥ प्रबुद्ध उवाच कर्माण्यारभमाणानां दुःखहत्यै सुखाय च। पश्येत्पाकविपर्यासं मिथुनीचारिणां नृणाम् ॥१८॥ नित्यार्तिदेन वित्तेन दुर्लभेनात्ममृत्युना। गृहापत्याप्तपशुभिः का प्रीतिः साधितैश्चलैः ॥१९॥ एवं लोकं परं विद्या?श्वरं कर्मनिर्मितम्। सतुल्यातिशयध्वंसं यथा मण्डलवर्तिनाम् ॥२०॥ तस्माद्गुरुं प्रपद्येत जिज्ञासुः श्रेय उत्तमम्। शाब्दे परे च निष्णातं ब्रह्मण्युपशमाश्रयम् ॥२१॥ तत्र भागवतान् धर्मान् शिक्षेद्गुर्वात्मदैवतः। अमाययानुवृत्त्या यैस्तुष्येदात्माऽऽत्मदो हरिः॥२२॥ सर्वतो मनसोऽसङ्गमादौ सङ्गं च साधुषु। दयां मैत्रीं प्रश्रयं च भूतेष्वद्धा यथोचितम् ॥२३॥ शौचं तपस्तितिक्षां च मौनं स्वाध्यायमार्जवम्। ब्रह्मचर्यमहिंसां च समत्वं द्वन्द्वसंज्ञयोः ॥२४॥ सर्वत्रात्मेश्वरान्वीक्षां कैवल्यमनिकेतताम्। विविक्तचीरवसनं सन्तोषं येन केनचित् ॥२५॥ श्रद्धां भागवते शास्त्रेऽनिन्दामन्यत्र चापि हि। मनो वाक्कर्मदण्डं च सत्यं शमदमावपि ॥२६॥ श्रवणं कीर्तनं ध्यानं हरेरद्भुतकर्मणः। जन्मकर्मगुणानां च तदर्थेऽखिलचेष्टितम् ॥२७॥ इष्टं दत्तं तपो जप्तं वृत्तं यच्चात्मनः प्रियम्। दारान् सुतान् गृहान् प्राणान् यत्परस्मै निवेदनम्॥२८॥ एवं कृष्णात्मनाथेषु मनुष्येषु च सौहृदम्। परिचर्यां चोभयत्र महत्सु नृषु साधुषु ॥२९॥ परस्परानुकथनं पावनं भगवद्यशः। मिथो रतिर्मिथस्तुष्टिर्निवृत्तिर्मिथ आत्मनः ॥३०॥ स्मरन्तः स्मारयन्तश्च मिथोऽघौघहरं हरिम्। भक्त्या सञ्जातया भक्त्या बिभ्रत्युत्पुलकां तनुम् ॥३१॥ क्वचिद्रुदन्त्यच्युतचिन्तया क्वचिद्धसन्ति नन्दन्ति वदन्त्यलौकिकाः। नृत्यन्ति गायन्त्यनुशीलयन्त्यजं भवन्ति तूष्णीं परमेत्य निर्वृताः ॥३२॥ इति भागवतान् धर्मान् शिक्षन् भक्त्या तदुत्थया। नारायणपरो मायामञ्जस्तरति दुस्तराम् ॥३३॥ राजोवाच नारायणाभिधानस्य ब्रह्मणः परमात्मनः। निष्ठामर्हथ नो वक्तुं यूयं हि ब्रह्मवित्तमाः ॥३४॥ पिप्पलायन उवाच स्थित्युद्भवप्रलयहेतुरहेतुरस्य यत्स्वप्नजागरसुषुप्तिषु सद्बहिश्च । देहेन्द्रियासुहृदयानि चरन्ति येन सञ्जीवितानि तदवेहि परं नरेन्द्र ॥३५॥ नैतन्मनो विशति वागुत चक्षुरात्मा प्राणेन्द्रियाणि च यथानलमर्चिषः स्वाः। शब्दोऽपि बोधकनिषेधतयाऽऽत्ममूल- मर्थोक्तमाह यदृते न निषेधसिद्धिः ॥३६॥ सत्त्वं रजस्तम इति त्रिवृदेकमादौ सूत्रं महानहमिति प्रवदन्ति जीवम् । ज्ञानक्रियार्थफलरूपतयोरुशक्ति ब्रह्मैव भाति सदसच्च तयोः परं यत् ॥३७॥ नात्मा जजान न मरिष्यति नैधतेऽसौ न क्षीयते सवनविद्व्यभिचारिणां हि। सर्वत्र शश्वदनपाय्युपलब्धिमात्रं प्राणो यथेन्द्रियबलेन विकल्पितं सत् ॥३८॥ अण्डेषु पेशिषु तरुष्वविनिश्चितेषु प्राणो हि जीवमुपधावति तत्र तत्र। सन्ने यदिन्द्रियगणेऽहमि च प्रसुप्ते कूटस्थ आशयमृते तदनुस्मृतिर्नः ॥३९॥ यर्ह्यब्जनाभचरणैषणयोरुभक्त्या चेतोमलानि विधमेद्गुणकर्मजानि। तस्मिन् विशुद्ध उपलभ्यत आत्मतत्त्वं साक्षाद्यथामलदृशोः सवितृप्रकाशः ॥४०॥ राजोवाच कर्मयोगं वदत नः पुरुषो येन संस्कृतः। विधूयेहाशु कर्माणि नैष्कर्म्यं विन्दते परम् ॥४१॥ एवं प्रश्नमृषीन् पूर्वमपृच्छं पितुरन्तिके। नाब्रुवन् ब्रह्मणः पुत्रास्तत्र कारणमुच्यताम् ॥४२॥ आविर्होत्र उवाच कर्माकर्मविकर्मेति वेदवादो न लौकिकः। वेदस्य चेश्वरात्मत्वात्तत्र मुह्यन्ति सूरयः ॥४३॥ परोक्षवादो वेदोऽयं बालानामनुशासनम्। कर्ममोक्षाय कर्माणि विधत्ते ह्यगदं यथा ॥४४॥ नाचरेद्यस्तु वेदोक्तं स्वयमज्ञोऽजितेन्द्रियः। विकर्मणा ह्यधर्मेण मृत्योर्मृत्युमुपैति सः ॥४५॥ वेदोक्तमेव कुर्वाणो निःसङ्गोऽर्पितमीश्वरे। नैष्कर्म्यं लभते सिद्धिं रोचनार्था फलश्रुतिः ॥४६॥ य आशु हृदयग्रन्थिं निर्जिहीर्षुः परात्मनः। विधिनोपचरेद्देवं तन्त्रोक्तेन च केशवम् ॥४७॥ लब्धानुग्रह आचार्यात्तेन सन्दर्शितागमः। महापुरुषमभ्यर्चेन्मूर्त्याभिमतयाऽऽत्मनः ॥४८॥ शुचिः सम्मुखमासीनः प्राणसंयमनादिभिः। पिण्डं विशोध्य सन्न्यासकृतरक्षोऽर्चयेद्धरिम् ॥४९॥ अर्चादौ हृदये चापि यथा लब्धोपचारकैः। द्रव्यक्षित्यात्मलिङ्गानि निष्पाद्य प्रोक्ष्य चासनम्॥५०॥ पाद्यादीनुपकल्प्याथ सन्निधाप्य समाहितः। हृदादिभिः कृतन्यासो मूलमन्त्रेण चार्चयेत् ॥५१॥ साङ्गोपाङ्गां सपार्षदां तां तां मूर्तिं स्वमन्त्रतः। पाद्यार्घ्याचमनीयाद्यैः स्नानवासोविभूषणैः ॥५२॥ गन्धमाल्याक्षतस्रग्भिर्धूपदीपोपहारकैः। साङ्गं सम्पूज्य विधिवत्स्तवैः स्तुत्वा नमेद्धरिम्॥५३॥ आत्मानं तन्मयं ध्यायन् मूर्तिं सम्पूजयेद्धरेः। शेषामाधाय शिरसि स्वधाम्न्युद्वास्य सत्कृतम् ॥५४॥ एवमग्न्यर्कतोयादावतिथौ हृदये च यः। यजतीश्वरमात्मानमचिरान्मुच्यते हि सः ॥५५॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे तृतीयोऽध्यायः॥३॥

॥ चतुर्थोऽध्यायः - ४ ॥

राजोवाच यानि यानीह कर्माणि यैर्यैः स्वच्छन्दजन्मभिः। चक्रे करोति कर्ता वा हरिस्तानि ब्रुवन्तु नः ॥१॥ द्रुमिल उवाच यो वा अनन्तस्य गुणाननन्ता- ननुक्रमिष्यन् स तु बालबुद्धिः। रजांसि भूमेर्गणयेत्कथञ्चित्कालेन नैवाखिलशक्तिधाम्नः ॥२॥ भूतैर्यदा पञ्चभिरात्मसृष्टैः पुरं विराजं विरचय्य तस्मिन्। स्वांशेन विष्टः पुरुषाभिधानमवाप नारायण आदिदेवः ॥३॥ यत्काय एष भुवनत्रयसन्निवेशो यस्येन्द्रियैस्तनुभृतामुभयेन्द्रियाणि। ज्ञानं स्वतः श्वसनतो बलमोज ईहा सत्त्वादिभिः स्थितिलयोद्भव आदि कर्ता ॥४॥ आदावभूच्छतधृती रजसास्य सर्गे विष्णुः स्थितौ क्रतुपतिर्द्विजधर्मसेतुः। रुद्रोऽप्ययाय तमसा पुरुषः स आद्य इत्युद्भवस्थितिलयाः सततं प्रजासु ॥५॥ धर्मस्य दक्षदुहितर्यजनिष्ट मूर्त्यां नारायणो नरऋषिप्रवरः प्रशान्तः। नैष्कर्म्यलक्षणमुवाच चचार कर्म योऽद्यापि चास्त ऋषिवर्यनिषेविताङ्घ्रिः ॥६॥ इन्द्रो विशङ्क्य मम धाम जिघृक्षतीति कामं न्ययुङ्क्त सगणं स बदर्युपाख्यम्। गत्वाप्सरोगणवसन्तसुमन्दवातैः स्त्रीप्रेक्षणेषुभिरविध्यदतन्महिज्ञः ॥७॥ विज्ञाय शक्रकृतमक्रममादिदेवः प्राह प्रहस्य गतविस्मय एजमानान् । मा भैष्ट भो मदन मारुत देववध्वो गृह्णीत नो बलिमशून्यमिमं कुरुध्वम् ॥८॥ इत्थं ब्रुवत्यभयदे नरदेव देवाः सव्रीडनम्रशिरसः सघृणं तमूचुः। नैतद्विभो त्वयि परेऽविकृते विचित्रं स्वारामधीरनिकरानतपादपद्मे ॥९॥ त्वां सेवतां सुरकृता बहवोऽन्तरायाः स्वौको विलङ्घ्य परमं व्रजतां पदं ते। नान्यस्य बर्हिषि बलीन् ददतः स्वभागान् धत्ते पदं त्वमविता यदि विघ्नमूर्ध्नि ॥१०॥ क्षुत्तृट्त्रिकालगुणमारुतजैह्वशैश्ना- नस्मानपारजलधीनतितीर्य केचित्। क्रोधस्य यान्ति विफलस्य वशं पदे गोर्मज्जन्ति दुश्चरतपश्च वृथोत्सृजन्ति ॥११॥ इति प्रगृणतां तेषां स्त्रियोऽत्यद्भुतदर्शनाः। दर्शयामास शुश्रूषां स्वर्चिताः कुर्वतीर्विभुः ॥१२॥ ते देवानुचरा दृष्ट्वा स्त्रियः श्रीरिव रूपिणीः। गन्धेन मुमुहुस्तासां रूपौदार्यहतश्रियः ॥१३॥ तानाह देवदेवेशः प्रणतान् प्रहसन्निव। आसामेकतमां वृङ्ध्वं सवर्णां स्वर्गभूषणाम् ॥१४॥ ओमित्यादेशमादाय नत्वा तं सुरवन्दिनः। उर्वशीमप्सरःश्रेष्ठां पुरस्कृत्य दिवं ययुः ॥१५॥ इन्द्रायानम्य सदसि शृण्वतां त्रिदिवौकसाम्। ऊचुर्नारायणबलं शक्रस्तत्रास विस्मितः ॥१६॥ हंसस्वरूप्यवददच्युत आत्मयोगं दत्तः कुमार ऋषभो भगवान् पिता नः। विष्णुः शिवाय जगतां कलयावतिर्णस्तेनाहृता मधुभिदा श्रुतयो हयास्ये ॥१७॥ गुप्तोऽप्यये मनुरिलौषधयश्च मात्स्ये क्रौडे हतो दितिज उद्धरताम्भसः क्ष्माम्। कौर्मे धृतोऽद्रिरमृतोन्मथने स्वपृष्ठे ग्राहात्प्रपन्नमिभराजममुञ्चदार्तम् ॥१८॥ संस्तुन्वतोऽब्धिपतितान् श्रमणानृषींश्च शक्रं च वृत्रवधतस्तमसि प्रविष्टम्। देवस्त्रियोऽसुरगृहे पिहिता अनाथा जघ्नेऽसुरेन्द्रमभयाय सतां नृसिंहे ॥१९॥ देवासुरे युधि च दैत्यपतीन् सुरार्थे हत्वान्तरेषु भुवनान्यदधात्कलाभिः। भूत्वाथ वामन इमामहरद्बलेः क्ष्मां याच्ञाच्छलेन समदाददितेः सुतेभ्यः ॥२०॥ निःक्षत्रियामकृत गां च त्रिःसप्तकृत्वो रामस्तु हैहयकुलाप्ययभार्गवाग्निः। सोऽब्धिं बबन्ध दशवक्त्रमहन् सलङ्कं सीतापतिर्जयति लोकमलघ्नकीर्तिः ॥२१॥ भूमेर्भरावतरणाय यदुष्वजन्मा जातः करिष्यति सुरैरपि दुष्कराणि। वादैर्विमोहयति यज्ञकृतोऽतदर्हान् शूद्रान् कलौ क्षितिभुजो न्यहनिष्यदन्ते ॥२२॥ एवंविधानि कर्माणि जन्मानि च जगत्पतेः। भूरीणि भूरियशसो वर्णितानि महाभुज ॥२३॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे चतुर्थोऽध्यायः॥४॥

॥ पञ्चमोऽध्यायः - ५ ॥

राजोवाच भगवन्तं हरिं प्रायो न भजन्त्यात्मवित्तमाः। तेषामशान्तकामानां का निष्ठाविजितात्मनाम् ॥१॥ चमस उवाच मुखबाहूरुपादेभ्यः पुरुषस्याश्रमैः सह। चत्वारो जज्ञिरे वर्णा गुणैर्विप्रादयः पृथक् ॥२॥ य एषां पुरुषं साक्षादात्मप्रभवमीश्वरम्। न भजन्त्यवजानन्ति स्थानाद्भ्रष्टाः पतन्त्यधः ॥३॥ दूरे हरिकथाः केचिद्दूरे चाच्युतकीर्तनाः। स्त्रियः शूद्रादयश्चैव तेऽनुकम्प्या भवादृशाम् ॥४॥ विप्रो राजन्यवैश्यौ च हरेः प्राप्ताः पदान्तिकम्। श्रौतेन जन्मनाथापि मुह्यन्त्याम्नायवादिनः ॥५॥ कर्मण्यकोविदाः स्तब्धा मूर्खाः पण्डितमानिनः। वदन्ति चाटुकान् मूढा यया माध्व्या गिरोत्सुकाः॥६॥ रजसा घोरसङ्कल्पाः कामुका अहिमन्यवः। दाम्भिका मानिनः पापा विहसन्त्यच्युतप्रियान्॥७॥ वदन्ति तेऽन्योन्यमुपासितस्त्रियो गृहेषु मैथुन्यपरेषु चाशिषः। यजन्त्यसृष्टान्नविधानदक्षिणं वृत्त्यै परं घ्नन्ति पशूनतद्विदः ॥८॥ श्रिया विभूत्याभिजनेन विद्यया त्यागेन रूपेण बलेन कर्मणा। जातस्मयेनान्धधियः सहेश्वरान् सतोऽवमन्यन्ति हरिप्रियान् खलाः ॥९॥ सर्वेषु शश्वत्तनुभृत्स्ववस्थितं यथा खमात्मानमभीष्टमीश्वरम्। वेदोपगीतं च न शृण्वतेऽबुधा मनोरथानां प्रवदन्ति वार्तया ॥१०॥ लोके व्यवायामिषमद्यसेवा नित्यास्तु जन्तोर्न हि तत्र चोदना। व्यवस्थितिस्तेषु विवाहयज्ञ- सुराग्रहैरासु निवृत्तिरिष्टा ॥११॥ धनं च धर्मैकफलं यतो वै ज्ञानं सविज्ञानमनुप्रशान्ति। गृहेषु युञ्जन्ति कलेवरस्य मृत्युं न पश्यन्ति दुरन्तवीर्यम् ॥१२॥ यद्घ्राणभक्षो विहितः सुरायास्तथा पशोरालभनं न हिंसा। एवं व्यवायः प्रजया न रत्या इमं विशुद्धं न विदुः स्वधर्मम् ॥१३॥ ये त्वनेवंविदोऽसन्तः स्तब्धाः सदभिमानिनः। पशून् द्रुह्यन्ति विश्रब्धाः प्रेत्य खादन्ति ते च तान् ॥१४॥ द्विषन्तः परकायेषु स्वात्मानं हरिमीश्वरम्। मृतके सानुबन्धेऽस्मिन् बद्धस्नेहाः पतन्त्यधः ॥१५॥ ये कैवल्यमसम्प्राप्ता ये चातीताश्च मूढताम्। त्रैवर्गिका ह्यक्षणिका आत्मानं घातयन्ति ते ॥१६॥ एत आत्महनोऽशान्ता अज्ञाने ज्ञानमानिनः। सीदन्त्यकृतकृत्या वै कालध्वस्तमनोरथाः ॥१७॥ हित्वात्यायासरचिता गृहापत्यसुहृच्छ्रियः। तमो विशन्त्यनिच्छन्तो वासुदेवपराङ्मुखाः ॥१८॥ राजोवाच कस्मिन् काले स भगवान् किं वर्णः कीदृशो नृभिः। नाम्ना वा केन विधिना पूज्यते तदिहोच्यताम् ॥१९॥ करभाजन उवाच कृतं त्रेता द्वापरं च कलिरित्येषु केशवः। नानावर्णाभिधाकारो नानैव विधिनेज्यते ॥२०॥ कृते शुक्लश्चतुर्बाहुर्जटिलो वल्कलाम्बरः। कृष्णाजिनोपवीताक्षान् बिभ्रद्दण्डकमण्डलू ॥२१॥ मनुष्यास्तु तदा शान्ता निर्वैराः सुहृदः समाः। यजन्ति तपसा देवं शमेन च दमेन च ॥२२॥ हंसः सुपर्णो वैकुण्ठो धर्मो योगेश्वरोऽमलः। ईश्वरः पुरुषोऽव्यक्तः परमात्मेति गीयते ॥२३॥ त्रेतायां रक्तवर्णोऽसौ चतुर्बाहुस्त्रिमेखलः। हिरण्यकेशस्त्रय्यात्मा स्रुक्स्रुवाद्युपलक्षणः ॥२४॥ तं तदा मनुजा देवं सर्वदेवमयं हरिम्। यजन्ति विद्यया त्रय्या धर्मिष्ठा ब्रह्मवादिनः ॥२५॥ विष्णुर्यज्ञः पृश्निगर्भः सर्वदेव उरुक्रमः। वृषाकपिर्जयन्तश्च उरुगाय इतीर्यते ॥२६॥ द्वापरे भगवाञ्श्यामः पीतवासा निजायुधः। श्रीवत्सादिभिरङ्कैश्च लक्षणैरुपलक्षितः ॥२७॥ तं तदा पुरुषं मर्त्या महाराजोपलक्षणम्। यजन्ति वेदतन्त्राभ्यां परं जिज्ञासवो नृप ॥२८॥ नमस्ते वासुदेवाय नमः सङ्कर्षणाय च। प्रद्युम्नायानिरुद्धाय तुभ्यं भगवते नमः ॥२९॥ नारायणाय ऋषये पुरुषाय महात्मने। विश्वेश्वराय विश्वाय सर्वभूतात्मने नमः ॥३०॥ इति द्वापर उर्वीश स्तुवन्ति जगदीश्वरम्। नानातन्त्रविधानेन कलावपि यथा शृणु ॥३१॥ कृष्णवर्णं त्विषाकृष्णं साङ्गोपाङ्गास्त्रपार्षदम्। यज्ञैः सङ्कीर्तनप्रायैर्यजन्ति हि सुमेधसः ॥३२॥ ध्येयं सदा परिभवघ्नमभीष्टदोहं तीर्थास्पदं शिवविरिञ्चिनुतं शरण्यम्। भृत्यार्तिहं प्रणतपाल भवाब्धिपोतं वन्दे महापुरुष ते चरणारविन्दम् ॥३३॥ त्यक्त्वा सुदुस्त्यजसुरेप्सितराज्यलक्ष्मीं धर्मिष्ठ आर्यवचसा यदगादरण्यम्। मायामृगं दयितयेप्सितमन्वधावद्वन्दे महापुरुष ते चरणारविन्दम् ॥३४॥ एवं युगानुरूपाभ्यां भगवान् युगवर्तिभिः। मनुजैरिज्यते राजन् श्रेयसामीश्वरो हरिः ॥३५॥ कलिं सभाजयन्त्यार्या गुणज्ञाः सारभागिनः। यत्र सङ्कीर्तनेनैव सर्वस्वार्थोऽभिलभ्यते ॥३६॥ न ह्यतः परमो लाभो देहिनां भ्राम्यतामिह। यतो विन्देत परमां शान्तिं नश्यति संसृतिः ॥३७॥ कृतादिषु प्रजा राजन् कलाविच्छन्ति सम्भवम्। कलौ खलु भविष्यन्ति नारायणपरायणाः ॥३८॥ क्वचित्क्वचिन्महाराज द्रविडेषु च भूरिशः। ताम्रपर्णी नदी यत्र कृतमाला पयस्विनी ॥३९॥ कावेरी च महापुण्या प्रतीची च महानदी। ये पिबन्ति जलं तासां मनुजा मनुजेश्वर। प्रायो भक्ता भगवति वासुदेवेऽमलाशयाः ॥४०॥ देवर्षिभूताप्तनृणां पितॄणां न किङ्करो नायमृणी च राजन्। सर्वात्मना यः शरणं शरण्यं गतो मुकुन्दं परिहृत्य कर्तम् ॥४१॥ स्वपादमूलं भजतः प्रियस्य त्यक्तान्यभावस्य हरिः परेशः। विकर्म यच्चोत्पतितं कथञ्चिद्धुनोति सर्वं हृदि सन्निविष्टः ॥४२॥ नारद उवाच धर्मान् भागवतानित्थं श्रुत्वाथ मिथिलेश्वरः। जायन्तेयान् मुनीन् प्रीतः सोपाध्यायो ह्यपूजयत्॥४३॥ ततोऽन्तर्दधिरे सिद्धाः सर्वलोकस्य पश्यतः। राजा धर्मानुपातिष्ठन्नवाप परमां गतिम् ॥४४॥ त्वमप्येतान् महाभाग धर्मान् भागवतान् श्रुतान्। आस्थितः श्रद्धया युक्तो निःसङ्गो यास्यसे परम्॥४५॥ युवयोः खलु दम्पत्योर्यशसा पूरितं जगत्। पुत्रतामगमद्यद्वां भगवानीश्वरो हरिः ॥४६॥ दर्शनालिङ्गनालापैः शयनासनभोजनैः। आत्मा वां पावितः कृष्णे पुत्रस्नेहं प्रकुर्वतोः ॥४७॥ वैरेण यं नृपतयः शिशुपालपौण्ड्रशाल्वादयो गतिविलासविलोकनाद्यैः। ध्यायन्त आकृतधियः शयनासनादौ तत्साम्यमापुरनुरक्तधियां पुनः किम् ॥४८॥ मापत्यबुद्धिमकृथाः कृष्णे सर्वात्मनीश्वरे। मायामनुष्यभावेन गूढैश्वर्ये परेऽव्यये ॥४९॥ भूभारासुरराजन्यहन्तवे गुप्तये सताम्। अवतीर्णस्य निर्वृत्यै यशो लोके वितन्यते ॥५०॥ श्रीशुक उवाच एतच्छ्रुत्वा महाभागो वसुदेवोऽतिविस्मितः। देवकी च महाभागा जहतुर्मोहमात्मनः ॥५१॥ इतिहासमिमं पुण्यं धारयेद्यः समाहितः। स विधूयेह शमलं ब्रह्मभूयाय कल्पते ॥५२॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे पञ्चमोऽध्यायः॥५॥

॥ षष्ठोऽध्यायः - ६ ॥

श्रीशुक उवाच अथ ब्रह्माऽऽत्मजैर्देवैः प्रजेशैरावृतोऽभ्यगात्। भवश्च भूतभव्येशो ययौ भूतगणैर्वृतः ॥१॥ इन्द्रो मरुद्भिर्भगवानादित्या वसवोऽश्विनौ। ऋभवोऽङ्गिरसो रुद्रा विश्वे साध्याश्च देवताः ॥२॥ गन्धर्वाप्सरसो नागाः सिद्धचारणगुह्यकाः। ऋषयः पितरश्चैव सविद्याधरकिन्नराः ॥३॥ द्वारकामुपसञ्जग्मुः सर्वे कृष्णदिदृक्षवः। वपुषा येन भगवा?रलोकमनोरमः। यशो वितेने लोकेषु सर्वलोकमलापहम् ॥४॥ तस्यां विभ्राजमानायां समृद्धायां महर्द्धिभिः। व्यचक्षतावितृप्ताक्षाः कृष्णमद्भुतदर्शनम् ॥५॥ स्वर्गोद्यानोपगैर्माल्यैश्छादयन्तो युदूत्तमम्। गीर्भिश्चित्रपदार्थाभिस्तुष्टुवुर्जगदीश्वरम् ॥६॥ देवा ऊचुः नताः स्म ते नाथ पदारविन्दं बुद्धीन्द्रियप्राणमनोवचोभिः। यच्चिन्त्यतेऽन्तर्हृदि भावयुक्तैर्मुमुक्षुभिः कर्ममयोरुपाशात् ॥७॥ त्वं मायया त्रिगुणयाऽऽत्मनि दुर्विभाव्यं व्यक्तं सृजस्यवसि लुम्पसि तद्गुणस्थः। नैतैर्भवानजित कर्मभिरज्यते वै यत्स्वे सुखेऽव्यवहितेऽभिरतोऽनवद्यः ॥८॥ शुद्धिर्नृणां न तु तथेड्य दुराशयानां विद्याश्रुताध्ययनदानतपःक्रियाभिः। सत्त्वात्मनामृषभ ते यशसि प्रवृद्ध- सच्छ्रद्धया श्रवणसम्भृतया यथा स्यात् ॥९॥ स्यान्नस्तवाङ्घ्रिरशुभाशयधूमकेतुः क्षेमाय यो मुनिभिरार्द्रहृदोह्यमानः। यः सात्वतैः समविभूतय आत्मवद्भि- व्यूहेऽर्चितः सवनशः स्वरतिक्रमाय ॥१०॥ यश्चिन्त्यते प्रयतपाणिभिरध्वराग्नौ त्रय्या निरुक्तविधिनेश हविर्गृहीत्वा। अध्यात्मयोग उत योगिभिरात्ममायां जिज्ञासुभिः परमभागवतैः परीष्टः ॥११॥ पर्युष्टया तव विभो वनमालयेयं संस्पर्धिनी भगवती प्रतिपत्निवच्छ्रीः। यः सुप्रणीतममुयार्हणमाददन्नो भूयात्सदाङ्घ्रिरशुभाशयधूमकेतुः ॥१२॥ केतुस्त्रिविक्रमयुतस्त्रिपतत्पताको यस्ते भयाभयकरोऽसुरदेवचम्वोः। स्वर्गाय साधुषु खलेष्वितराय भूमन् पादः पुनातु भगवन् भजतामघं नः ॥१३॥ नस्योतगाव इव यस्य वशे भवन्ति ब्रह्मादयस्तनुभृतो मिथुरर्द्यमानाः। कालस्य ते प्रकृतिपूरुषयोः परस्य शं नस्तनोतु चरणः पुरुषोत्तमस्य ॥१४॥ अस्यासि हेतुरुदयस्थितिसंयमाना- मव्यक्तजीवमहतामपि कालमाहुः। सोऽयं त्रिणाभिरखिलापचये प्रवृत्तः कालो गभीररय उत्तमपूरुषस्त्वम् ॥१५॥ त्वत्तः पुमान् समधिगम्य यया स्ववीर्यं धत्ते महान्तमिव गर्भममोघवीर्यः। सोऽयं तयानुगत आत्मन आण्डकोशं हैमं ससर्ज बहिरावरणैरुपेतम् ॥१६॥ तत्तस्थुषश्च जगतश्च भवानधीशो यन्माययोत्थगुणविक्रिययोपनीतान्। अर्थाञ्जुषन्नपि हृषीकपते न लिप्तो येऽन्ये स्वतः परिहृतादपि बिभ्यति स्म ॥१७॥ स्मायावलोकलवदर्शितभावहारि- भ्रूमण्डलप्रहितसौरतमन्त्रशौण्डैः। पत्न्यस्तु षोडशसहस्रमनङ्गबाणै- र्यस्येन्द्रियं विमथितुं करणैर्न विभ्व्यः ॥१८॥ विभ्व्यस्तवामृतकथोदवहास्त्रिलोक्याः पादावनेजसरितः शमलानि हन्तुम्। आनुश्रवं श्रुतिभिरङ्घ्रिजमङ्गसङ्गै- स्तीर्थद्वयं शुचिषदस्त उपस्पृशन्ति ॥१९॥ बादरायणिरुवाच इत्यभिष्टूय विबुधैः सेशः शतधृतिर्हरिम्। अभ्यभाषत गोविन्दं प्रणम्याम्बरमाश्रितः ॥२०॥ ब्रह्मोवाच भूमेर्भारावताराय पुरा विज्ञापितः प्रभो। त्वमस्माभिरशेषात्मंस्तत्तथैवोपपादितम् ॥२१॥ धर्मश्च स्थापितः सत्सु सत्यसन्धेषु वै त्वया। कीर्तिश्च दिक्षु विक्षिप्ता सर्वलोकमलापहा ॥२२॥ अवतीर्य यदोर्वंशे बिभ्रद्रूपमनुत्तमम्। कर्माण्युद्दामवृत्तानि हिताय जगतोऽकृथाः ॥२३॥ यानि ते चरितानीश मनुष्याः साधवः कलौ। शृण्वन्तः कीर्तयन्तश्च तरिष्यन्त्यञ्जसा तमः ॥२४॥ यदुवंशेऽवतीर्णस्य भवतः पुरुषोत्तम। शरच्छतं व्यतीयाय पञ्चविंशाधिकं प्रभो ॥२५॥ नाधुना तेऽखिलाधार देवकार्यावशेषितम्। कुलं च विप्रशापेन नष्टप्रायमभूदिदम् ॥२६॥ ततः स्वधाम परमं विशस्व यदि मन्यसे। सलोकाँल्लोकपालान्नः पाहि वैकुण्ठकिङ्करान् ॥२७॥ श्रीभगवानुवाच अवधारितमेतन्मे यदात्थ विबुधेश्वर। कृतं वः कार्यमखिलं भूमेर्भारोऽवतारितः ॥२८॥ तदिदं यादवकुलं वीर्यशौर्यश्रियोद्धतम्। लोकं जिघृक्षद्रुद्धं मे वेलयेव महार्णवः ॥२९॥ यद्यसंहृत्य दृप्तानां यदूनां विपुलं कुलम्। गन्तास्म्यनेन लोकोऽयमुद्वेलेन विनङ्क्ष्यति ॥३०॥ इदानीं नाश आरब्धः कुलस्य द्विजशापजः। यास्यामि भवनं ब्रह्मन्नेतदन्ते तवानघ ॥३१॥ श्रीशुक उवाच इत्युक्तो लोकनाथेन स्वयम्भूः प्रणिपत्य तम्। सह देवगणैर्देवः स्वधाम समपद्यत ॥३२॥ अथ तस्यां महोत्पातान् द्वारवत्यां समुत्थितान्। विलोक्य भगवानाह यदुवृद्धान् समागतान् ॥३३॥ श्रीभगवानुवाच एते वै सुमहोत्पाता व्युत्तिष्ठन्तीह सर्वतः। शापश्च नः कुलस्यासीद्ब्राह्मणेभ्यो दुरत्ययः ॥३४॥ न वस्तव्यमिहास्माभिर्जिजीविषुभिरार्यकाः। प्रभासं सुमहत्पुण्यं यास्यामोऽद्यैव मा चिरम् ॥३५॥ यत्र स्नात्वा दक्षशापाद्गृहीतो यक्ष्मणोडुराट्। विमुक्तः किल्बिषात्सद्यो भेजे भूयः कलोदयम्॥३६॥ वयं च तस्मिन्नाप्लुत्य तर्पयित्वा पितॄन् सुरान्। भोजयित्वोशिजो विप्रान् नानागुणवतान्धसा ॥३७॥ तेषु दानानि पात्रेषु श्रद्धयोप्त्वा महान्ति वै। वृजिनानि तरिष्यामो दानैर्नौभिरिवार्णवम् ॥३८॥ श्रीशुक उवाच एवं भगवताऽऽदिष्टा यादवाः कुलनन्दन। गन्तुं कृतधियस्तीर्थं स्यन्दनान् समयूयुजन् ॥३९॥ तन्निरीक्ष्योद्धवो राजन् श्रुत्वा भगवतोदितम्। दृष्ट्वारिष्टानि घोराणि नित्यं कृष्णमनुव्रतः ॥४०॥ विविक्त उपसङ्गम्य जगतामीश्वरेश्वरम्। प्रणम्य शिरिसा पादौ प्राञ्जलिस्तमभाषत ॥४१॥ उद्धव उवाच देवदेवेश योगेश पुण्यश्रवणकीर्तन। संहृत्यैतत्कुलं नूनं लोकं सन्त्यक्ष्यते भवान्। विप्रशापं समर्थोऽपि प्रत्यहन्न यदीश्वरः ॥४२॥ नाहं तवाङ्घ्रिकमलं क्षणार्धमपि केशव। त्यक्तुं समुत्सहे नाथ स्वधाम नय मामपि ॥४३॥ तव विक्रीडितं कृष्ण नृणां परममङ्गलम्। कर्णपीयूषमास्वाद्य त्यजन्त्यन्यस्पृहां जनाः ॥४४॥ शय्यासनाटनस्थानस्नानक्रीडाशनादिषु। कथं त्वां प्रियमात्मानं वयं भक्तास्त्यजेमहि ॥४५॥ त्वयोपभुक्तस्रग्गन्धवासोऽलङ्कारचर्चिताः। उच्छिष्टभोजिनो दासास्तव मायां जयेमहि ॥४६॥ वातरशना य ऋषयः श्रमणा ऊर्ध्रमन्थिनः। ब्रह्माख्यं धाम ते यान्ति शान्ताः सन्न्यासिनोऽमलाः॥४७॥ वयं त्विह महायोगिन् भ्रमन्तः कर्मवर्त्मसु। त्वद्वार्तया तरिष्यामस्तावकैर्दुस्तरं तमः ॥४८॥ स्मरन्तः कीर्तयन्तस्ते कृतानि गदितानि च। गत्युत्स्मितेक्षणक्ष्वेलि यन्नृलोकविडम्बनम् ॥४९॥ श्रीशुक उवाच एवं विज्ञापितो राजन् भगवान् देवकीसुतः। एकान्तिनं प्रियं भृत्यमुद्धवं समभाषत ॥५०॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे षष्ठोऽध्यायः॥६॥

॥ सप्तमोऽध्यायः - ७ ॥

श्रीभगवानुवाच यदात्थ मां महाभाग तच्चिकीर्षितमेव मे। ब्रह्मा भवो लोकपालाः स्वर्वासं मेऽभिकाङ्क्षिणः॥१॥ मया निष्पादितं ह्यत्र देवकार्यमशेषतः। यदर्थमवतीर्णोऽहमंशेन ब्रह्मणार्थितः ॥२॥ कुलं वै शापनिर्दग्धं नङ्क्ष्यत्यन्योन्यविग्रहात्। समुद्रः सप्तमेऽह्न्येतां पुरीं च प्लावयिष्यति ॥३॥ यर्ह्येवायं मया त्यक्तो लोकोऽयं नष्टमङ्गलः। भविष्यत्यचिरात्साधो कलिनापि निराकृतः ॥४॥ न वस्तव्यं त्वयैवेह मया त्यक्ते महीतले। जनोऽधर्मरुचिर्भद्र भविष्यति कलौ युगे ॥५॥ त्वं तु सर्वं परित्यज्य स्नेहं स्वजनबन्धुषु। मय्यावेश्य मनः संयक् समदृग्विचरस्व गाम् ॥६॥ यदिदं मनसा वाचा चक्षुर्भ्यां श्रवणादिभिः। नश्वरं गृह्यमाणं च विद्धि मायामनोमयम् ॥७॥ पुंसोऽयुक्तस्य नानार्थो भ्रमः स गुणदोषभाक्। कर्माकर्मविकर्मेति गुणदोषधियो भिदा ॥८॥ तस्माद्युक्तेन्द्रियग्रामो युक्तचित्त इदं जगत्। आत्मनीक्षस्व विततमात्मानं मय्यधीश्वरे ॥९॥ ज्ञानविज्ञानसंयुक्त आत्मभूतः शरीरिणाम्। आत्मानुभवतुष्टात्मा नान्तरायैर्विहन्यसे ॥१०॥ दोषबुद्ध्योभयातीतो निषेधान्न निवर्तते। गुणबुद्ध्या च विहितं न करोति यथार्भकः ॥११॥ सर्वभूतसुहृच्छान्तो ज्ञानविज्ञाननिश्चयः। पश्यन् मदात्मकं विश्वं न विपद्येत वै पुनः ॥१२॥ श्रीशुक उवाच इत्यादिष्टो भगवता महाभागवतो नृप। उद्धवः प्रणिपत्याह तत्त्वजिज्ञासुरच्युतम् ॥१३॥ उद्धव उवाच योगेश योगविन्यास योगात्मन् योगसम्भव। निःश्रेयसाय मे प्रोक्तस्त्यागः सन्न्यासलक्षणः ॥१४॥ त्यागोऽयं दुष्करो भूमन् कामानां विषयात्मभिः। सुतरां त्वयि सर्वात्मन्नभक्तैरिति मे मतिः ॥१५॥ सोऽहं ममाहमिति मूढमतिर्विगाढः त्वन्मायया विरचितात्मनि सानुबन्धे। तत्त्वञ्जसा निगदितं भवता यथाहं संसाधयामि भगवन्ननुशाधि भृत्यम् ॥१६॥ सत्यस्य ते स्वदृश आत्मन आत्मनोऽन्यं वक्तारमीश विबुधेष्वपि नानुचक्षे। सर्वे विमोहितधियस्तव माययेमे ब्रह्मादयस्तनुभृतो बहिरर्थभावाः ॥१७॥ तस्माद्भवन्तमनवद्यमनन्तपारं सर्वज्ञमीश्वरमकुण्ठविकुण्ठधिष्ण्यम्। निर्विण्णधीरहमु ह वृजिनाभितप्तो नारायणं नरसखं शरणं प्रपद्ये ॥१८॥ श्रीभगवानुवाच प्रायेण मनुजा लोके लोकतत्त्वविचक्षणाः। समुद्धरन्ति ह्यात्मानमात्मनैवाशुभाशयात् ॥१९॥ आत्मनो गुरुरात्मैव पुरुषस्य विशेषतः। यत्प्रत्यक्षानुमानाभ्यां श्रेयोऽसावनुविन्दते ॥२०॥ पुरुषत्वे च मां धीराः साङ्ख्ययोगविशारदाः। आविस्तरां प्रपश्यन्ति सर्वशक्त्युपबृंहितम् ॥२१॥ एकद्वित्रिचतुष्पादो बहुपादस्तथापदः। बह्व्यः सन्ति पुरः सृष्टास्तासां मे पौरुषी प्रिया॥२२॥ अत्र मां मार्गयन्त्यद्धा युक्ता हेतुभिरीश्वरम्। गृह्यमाणैर्गुणैर्लिङ्गैरग्राह्यमनुमानतः ॥२३॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम्। अवधूतस्य संवादं यदोरमिततेजसः ॥२४॥ अवधूतं द्विजं कञ्चिच्चरन्तमकुतोभयम्। कविं निरीक्ष्य तरुणं यदुः पप्रच्छ धर्मवित् ॥२५॥ यदुरुवाच कुतो बुद्धिरियं ब्रह्मन्नकर्तुः सुविशारदा। यामासाद्य भवाँल्लोकं विद्वांश्चरति बालवत् ॥२६॥ प्रायो धर्मार्थकामेषु विवित्सायां च मानवाः। हेतुनैव समीहन्ते आयुषो यशसः श्रियः ॥२७॥ त्वं तु कल्पः कविर्दक्षः सुभगोऽमृतभाषणः। न कर्ता नेहसे किञ्चिज्जडोन्मत्तपिशाचवत् ॥२८॥ जनेषु दह्यमानेषु कामलोभदवाग्निना। न तप्यसेऽग्निना मुक्तो गङ्गाम्भःस्थ इव द्विपः ॥२९॥ त्वं हि नः पृच्छतां ब्रह्मन्नात्मन्यानन्दकारणम्। ब्रूहि स्पर्शविहीनस्य भवतः केवलात्मनः ॥३०॥ श्रीभगवानुवाच यदुनैवं महाभागो ब्रह्मण्येन सुमेधसा। पृष्टः सभाजितः प्राह प्रश्रयावनतं द्विजः ॥३१॥ ब्राह्मण उवाच सन्ति मे गुरवो राजन् बहवो बुद्ध्युपाश्रिताः। यतो बुद्धिमुपादाय मुक्तोऽटामीह तान् शृणु ॥३२॥ पृथिवी वायुराकाशमापोऽग्निश्चन्द्रमा रविः। कपोतोऽजगरः सिन्धुः पतङ्गो मधुकृद्गजः ॥३३॥ मधुहा हरिणो मीनः पिङ्गला कुररोऽर्भकः। कुमारी शरकृत्सर्प ऊर्णनाभिः सुपेशकृत् ॥३४॥ एते मे गुरवो राजन् चतुर्विंशतिराश्रिताः। शिक्षा वृत्तिभिरेतेषामन्वशिक्षमिहात्मनः ॥३५॥ यतो यदनुशिक्षामि यथा वा नाहुषात्मज। तत्तथा पुरुषव्याघ्र निबोध कथयामि ते ॥३६॥ भूतैराक्रम्यमाणोऽपि धीरो दैववशानुगैः। तद्विद्वा? चलेन्मार्गादन्वशिक्षं क्षितेर्व्रतम् ॥३७॥ शश्वत्परार्थसर्वेहः परार्थैकान्तसम्भवः। साधुः शिक्षेत भूभृत्तो नगशिष्यः परात्मताम् ॥३८॥ प्राणवृत्त्यैव सन्तुष्येन्मुनिर्नैवेन्द्रियप्रियैः। ज्ञानं यथा न नश्येत नावकीर्येत वाङ्मनः ॥३९॥ विषयेष्वाविशन् योगी नानाधर्मेषु सर्वतः। गुणदोषव्यपेतात्मा न विषज्जेत वायुवत् ॥४०॥ पार्थिवेष्विह देहेषु प्रविष्टस्तद्गुणाश्रयः। गुणैर्न युज्यते योगी गन्धैर्वायुरिवात्मदृक् ॥४१॥ अन्तर्हितश्च स्थिरजङ्गमेषु ब्रह्मात्मभावेन समन्वयेन। व्याप्त्याव्यवच्छेदमसङ्गमात्मनो मुनिर्नभस्त्वं विततस्य भावयेत् ॥४२॥ तेजोऽबन्नमयैर्भावैर्मेघाद्यैर्वायुनेरितैः। न स्पृश्यते नभस्तद्वत्कालसृष्टैर्गुणैः पुमान् ॥४३॥ स्वच्छः प्रकृतितः स्निग्धो माधुर्यस्तीर्थभूर्नृणाम्। मुनिः पुनात्यपां मित्रमीक्षोपस्पर्शकीर्तनैः ॥४४॥ तेजस्वी तपसा दीप्तो दुर्धर्षोदरभाजनः। सर्वभक्षोऽपि युक्तात्मा नादत्ते मलमग्निवत् ॥४५॥ क्वचिच्छन्नः क्वचित्स्पष्ट उपास्यः श्रेय इच्छताम्। भुङ्क्ते सर्वत्र दातॄणां दहन् प्रागुत्तराशुभम् ॥४६॥ स्वमायया सृष्टमिदं सदसल्लक्षणं विभुः। प्रविष्ट ईयते तत्तत्स्वरूपोऽग्निरिवैधसि ॥४७॥ विसर्गाद्याः श्मशानान्ता भावा देहस्य नात्मनः। कलानामिव चन्द्रस्य कालेनाव्यक्तवर्त्मना ॥४८॥ कालेन ह्योघवेगेन भूतानां प्रभवाप्ययौ। नित्यावपि न दृश्येते आत्मनोऽग्नेर्यथार्चिषाम् ॥४९॥ गुणैर्गुणानुपादत्ते यथाकालं विमुञ्चति। न तेषु युज्यते योगी गोभिर्गा इव गोपतिः ॥५०॥ बुध्यते स्वे न भेदेन व्यक्तिस्थ इव तद्गतः। लक्ष्यते स्थूलमतिभिरात्मा चावस्थितोऽर्कवत्॥५१॥ नातिस्नेहः प्रसङ्गो वा कर्तव्यः क्वापि केनचित्। कुर्वन् विन्देत सन्तापं कपोत इव दीनधीः ॥५२॥ कपोतः कश्चनारण्ये कृतनीडो वनस्पतौ। कपोत्या भार्यया सार्धमुवास कतिचित्समाः ॥५३॥ कपोतौ स्नेहगुणितहृदयौ गृहधर्मिणौ। दृष्टिं दृष्ट्याङ्गमङ्गेन बुद्धिं बुद्ध्या बबन्धतुः ॥५४॥ शय्यासनाटनस्थानवार्ताक्रीडाशनादिकम्। मिथुनीभूय विश्रब्धौ चेरतुर्वनराजिषु ॥५५॥ यं यं वाञ्छति सा राजन् तर्पयन्त्यनुकम्पिता। तं तं समनयत्कामं कृच्छ्रेणाप्यजितेन्द्रियः ॥५६॥ कपोती प्रथमं गर्भं गृह्णती काल आगते। अण्डानि सुषुवे नीडे स्वपत्युः सन्निधौ सती ॥५७॥ तेषु काले व्यजायन्त रचितावयवा हरेः। शक्तिभिर्दुर्विभाव्याभिः कोमलाङ्गतनूरुहाः ॥५८॥ प्रजाः पुपुषतुः प्रीतौ दम्पती पुत्रवत्सलौ। शृण्वन्तौ कूजितं तासां निर्वृतौ कलभाषितैः ॥५९॥ तासां पतत्रैः सुस्पर्शैः कूजितैर्मुग्धचेष्टितैः। प्रत्युद्गमैरदीनानां पितरौ मुदमापतुः ॥६०॥ स्नेहानुबद्धहृदयावन्योन्यं विष्णुमायया। विमोहितौ दीनधियौ शिशून् पुपुषतुः प्रजाः ॥६१॥ एकदा जग्मतुस्तासामन्नार्थं तौ कुटुम्बिनौ। परितः कानने तस्मिन्नर्थिनौ चेरतुश्चिरम् ॥६२॥ दृष्ट्वा तान् लुब्धकः कश्चिद्यदृच्छातो वनेचरः। जगृहे जालमातत्य चरतः स्वालयान्तिके ॥६३॥ कपोतश्च कपोती च प्रजापोषे सदोत्सुकौ। गतौ पोषणमादाय स्वनीडमुपजग्मतुः ॥६४॥ कपोती स्वात्मजान् वीक्ष्य बालकान् जालसंवृतान्। तानभ्यधावत्क्रोशन्ती क्रोशतो भृशदुःखिता ॥६५॥ सासकृत्स्नेहगुणिता दीनचित्ताजमायया। स्वयं चाबध्यत शिचा बद्धान् पश्यन्त्यपस्मृतिः॥६६॥ कपोतश्चात्मजान् बद्धानात्मनोऽप्यधिकान् प्रियान्। भार्यां चात्मसमां दीनो विललापातिदुःखितः ॥६७॥ अहो मे पश्यतापायमल्पपुण्यस्य दुर्मतेः। अतृप्तस्याकृतार्थस्य गृहस्त्रैवर्गिको हतः ॥६८॥ अनुरूपानुकूला च यस्य मे पतिदेवता। शून्ये गृहे मां सन्त्यज्य पुत्रैः स्वर्याति साधुभिः॥६९॥ सोऽहं शून्ये गृहे दीनो मृतदारो मृतप्रजः। जिजीविषे किमर्थं वा विधुरो दुःखजीवितः ॥७०॥ तांस्तथैवावृतान् शिग्भिर्मृत्युग्रस्तान् विचेष्टतः। स्वयं च कृपणः शिक्षु पश्यन्नप्यबुधोऽपतत् ॥७१॥ तं लब्ध्वा लुब्धकः क्रूरः कपोतं गृहमेधिनम्। कपोतकान् कपोतीं च सिद्धार्थः प्रययौ गृहम् ॥७२॥ एवं कुटुम्ब्यशान्तात्मा द्वन्द्वारामः पतत्रिवत्। पुष्णन् कुटुम्बं कृपणः सानुबन्धोऽवसीदति ॥७३॥ यः प्राप्य मानुषं लोकं मुक्तिद्वारमपावृतम्। गृहेषु खगवत्सक्तस्तमारूढच्युतं विदुः ॥७४॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे सप्तमोऽध्यायः॥७॥

॥ अष्टमोऽध्यायः - ८ ॥

ब्राह्मण उवाच सुखमैन्द्रियकं राजन् स्वर्गे नरक एव च। देहिनां यद्यथा दुःखं तस्मान्नेच्छेत तद्बुधः ॥१॥ ग्रासं सुमृष्टं विरसं महान्तं स्तोकमेव वा। यदृच्छयैवापतितं ग्रसेदाजगरोऽक्रियः ॥२॥ शयीताहानि भूरीणि निराहारोऽनुपक्रमः। यदि नोपनमेद्ग्रासो महाहिरिव दिष्टभुक् ॥३॥ ओजः सहो बलयुतं बिभ्रद्देहमकर्मकम्। शयानो वीतनिद्रश्च नेहेतेन्द्रियवानपि ॥४॥ मुनिः प्रसन्नगम्भीरो दुर्विगाह्यो दुरत्ययः। अनन्तपारो ह्यक्षोभ्यः स्तिमितोद इवार्णवः ॥५॥ समृद्धकामो हीनो वा नारायणपरो मुनिः। नोत्सर्पेत न शुष्येत सरिद्भिरिव सागरः ॥६॥ दृष्ट्वा स्त्रियं देवमायां तद्भावैरजितेन्द्रियः। प्रलोभितः पतत्यन्धे तमस्यग्नौ पतङ्गवत् ॥७॥ योषिद्धिरण्याभरणाम्बरादिद्रव्येषु मायारचितेषु मूढः। प्रलोभितात्मा ह्युपभोगबुद्ध्या पतङ्गवन्नश्यति नष्टदृष्टिः ॥८॥ स्तोकं स्तोकं ग्रसेद्ग्रासं देहो वर्तेत यावता। गृहानहिंसन्नातिष्ठेद्वृत्तिं माधुकरीं मुनिः ॥९॥ अणुभ्यश्च महद्भ्यश्च शास्त्रेभ्यः कुशलो नरः। सर्वतः सारमादद्यात्पुष्पेभ्य इव षट्पदः ॥१०॥ सायन्तनं श्वस्तनं वा न सङ्गृह्णीत भिक्षितम्। पाणिपात्रोदरामत्रो मक्षिकेव न सङ्ग्रही ॥११॥ सायन्तनं श्वस्तनं वा न सङ्गृह्णीत भिक्षुकः। मक्षिका इव सङ्गृह्णन् सह तेन विनश्यति ॥१२॥ पदापि युवतीं भिक्षुर्न स्पृशेद्दारवीमपि। स्पृशन् करीव बध्येत करिण्या अङ्गसङ्गतः ॥१३॥ नाधिगच्छेत्स्त्रियं प्राज्ञः कर्हिचिन्मृत्युमात्मनः। बलाधिकैः स हन्येत गजैरन्यैर्गजो यथा ॥१४॥ न देयं नोपभोग्यं च लुब्धैर्यद्दुःखसञ्चितम्। भुङ्क्ते तदपि तच्चान्यो मधुहेवार्थविन्मधु ॥१५॥ सुदुःखोपार्जितैर्वित्तैराशासानां गृहाशिषः। मधुहेवाग्रतो भुङ्क्ते यतिर्वै गृहमेधिनाम् ॥१६॥ ग्राम्यगीतं न शृणुयाद्यतिर्वनचरः क्वचित्। शिक्षेत हरिणाद्बद्धान्मृगयोर्गीतमोहितात् ॥१७॥ नृत्यवादित्रगीतानि जुषन् ग्राम्याणि योषिताम्। आसां क्रीडनको वश्य ऋष्यशृङ्गो मृगीसुतः ॥१८॥ जिह्वयातिप्रमाथिन्या जनो रसविमोहितः। मृत्युमृच्छत्यसद्बुद्धिर्मीनस्तु बडिशैर्यथा ॥१९॥ इन्द्रियाणि जयन्त्याशु निराहारा मनीषिणः। वर्जयित्वा तु रसनं तन्निरन्नस्य वर्धते ॥२०॥ तावज्जितेन्द्रियो न स्याद्विजितान्येन्द्रियः पुमान्। न जयेद्रसनं यावज्जितं सर्वं जिते रसे ॥२१॥ पिङ्गला नाम वेश्यासीद्विदेहनगरे पुरा। तस्या मे शिक्षितं किञ्चिन्निबोध नृपनन्दन ॥२२॥ सा स्वैरिण्येकदा कान्तं सङ्केत उपनेष्यती। अभूत्काले बहिर्द्वारि बिभ्रती रूपमुत्तमम् ॥२३॥ मार्ग आगच्छतो वीक्ष्य पुरुषान् पुरुषर्षभ। तान् शुल्कदान् वित्तवतः कान्तान् मेनेऽर्थकामुका॥२४॥ आगतेष्वपयातेषु सा सङ्केतोपजीविनी। अप्यन्यो वित्तवान् कोऽपि मामुपैष्यति भूरिदः॥२५॥ एवं दुराशया ध्वस्तनिद्रा द्वार्यवलम्बती। निर्गच्छन्ती प्रविशती निशीथं समपद्यत ॥२६॥ तस्या वित्ताशया शुष्यद्वक्त्राया दीनचेतसः। निर्वेदः परमो जज्ञे चिन्ताहेतुः सुखावहः ॥२७॥ तस्या निर्विण्णचित्ताया गीतं शृणु यथा मम। निर्वेद आशापाशानां पुरुषस्य यथा ह्यसिः ॥२८॥ न ह्यङ्गाजातनिर्वेदो देहबन्धं जिहासति। यथा विज्ञानरहितो मनुजो ममतां नृप ॥२९॥ पिङ्गलोवाच अहो मे मोहविततिं पश्यताविजितात्मनः। या कान्तादसतः कामं कामये येन बालिशा ॥३०॥ सन्तं समीपे रमणं रतिप्रदं वित्तप्रदं नित्यमिमं विहाय। अकामदं दुःखभयाधिशोकमोहप्रदं तुच्छमहं भजेऽज्ञा ॥३१॥ अहो मयाऽऽत्मा परितापितो वृथा साङ्केत्यवृत्त्यातिविगर्ह्यवार्तया। स्त्रैणान्नराद्यार्थतृषोऽनुशोच्यात् क्रीतेन वित्तं रतिमात्मनेच्छती ॥३२॥ यदस्थिभिर्निर्मितवंशवंश्यस्थूणं त्वचा रोमनखैः पिनद्धम्। क्षरन्नवद्वारमगारमेतद्विण्मूत्रपूर्णं मदुपैति कान्या ॥३३॥ विदेहानां पुरे ह्यस्मिन्नहमेकैव मूढधीः। यान्यमिच्छन्त्यसत्यस्मादात्मदात्काममच्युतात् ॥३४॥ सुहृत्प्रेष्ठतमो नाथ आत्मा चायं शरीरिणाम्। तं विक्रीयात्मनैवाहं रमेऽनेन यथा रमा ॥३५॥ कियत्प्रियं ते व्यभजन् कामा ये कामदा नराः। आद्यन्तवन्तो भार्याया देवा वा कालविद्रुताः ॥३६॥ नूनं मे भगवान् प्रीतो विष्णुः केनापि कर्मणा। निर्वेदोऽयं दुराशाया यन्मे जातः सुखावहः ॥३७॥ मैवं स्युर्मन्दभाग्यायाः क्लेशा निर्वेदहेतवः। येनानुबन्धं निर्हृत्य पुरुषः शममृच्छति ॥३८॥ तेनोपकृतमादाय शिरसा ग्राम्यसङ्गताः। त्यक्त्वा दुराशाः शरणं व्रजामि तमधीश्वरम् ॥३९॥ सन्तुष्टा श्रद्दधत्येतद्यथा लाभेन जीवती। विहराम्यमुनैवाहमात्मना रमणेन वै ॥४०॥ संसारकूपे पतितं विषयैर्मुषितेक्षणम्। ग्रस्तं कालाहिनात्मानं कोऽन्यस्त्रातुमधीश्वरः ॥४१॥ आत्मैव ह्यात्मनो गोप्ता निर्विद्येत यदाखिलात्। अप्रमत्त इदं पश्येद्ग्रस्तं कालाहिना जगत् ॥४२॥ ब्राह्मण उवाच एवं व्यवसितमतिर्दुराशां कान्ततर्षजाम्। छित्त्वोपशममास्थाय शय्यामुपविवेश सा ॥४३॥ आशा हि परमं दुःखं नैराश्यं परमं सुखम्। यथा सञ्छिद्य कान्ताशां सुखं सुष्वाप पिङ्गला॥४४॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे अष्टमोऽध्यायः॥८॥

॥ नवमोऽध्यायः - ९ ॥

ब्राह्मण उवाच परिग्रहो हि दुःखाय यद्यत्प्रियतमं नृणाम्। अनन्तं सुखमाप्नोति तद्विद्वान्यस्त्वकिञ्चनः ॥१॥ सामिषं कुररं जघ्नुर्बलिनो ये निरामिषाः। तदामिषं परित्यज्य स सुखं समविन्दत ॥२॥ न मे मानावमानौ स्तो न चिन्ता गेहपुत्रिणाम्। आत्मक्रीड आत्मरतिर्विचरामीह बालवत् ॥३॥ द्वावेव चिन्तया मुक्तौ परमानन्द आप्लुतौ। यो विमुग्धो जडो बालो यो गुणेभ्यः परं गतः॥४॥ क्वचित्कुमारी त्वात्मानं वृणानान् गृहमागतान्। स्वयं तानर्हयामास क्वापि यातेषु बन्धुषु ॥५॥ तेषामभ्यवहारार्थं शालीन् रहसि पार्थिव। अवघ्नन्त्याः प्रकोष्ठस्थाश्चक्रुः शङ्खाः स्वनं महत्॥६॥ सा तज्जुगुप्सितं मत्वा महती वृडिता ततः। बभञ्जैकैकशः शङ्खान् द्वौ द्वौ पाण्योरशेषयत् ॥७॥ उभयोरप्यभूद्घोषो ह्यवघ्नन्त्याः स्म शङ्खयोः। तत्राप्येकं निरभिददेकस्मान्नाभवद्ध्वनिः ॥८॥ अन्वशिक्षमिमं तस्या उपदेशमरिन्दम। लोकाननुचरन्नेतान् लोकतत्त्वविवित्सया ॥९॥ वासे बहूनां कलहो भवेद्वार्ता द्वयोरपि। एक एव चरेत्तस्मात्कुमार्या इव कङ्कणः ॥१०॥ मन एकत्र संयुञ्ज्याज्जितश्वासो जितासनः। वैराग्याभ्यासयोगेन ध्रियमाणमतन्द्रितः ॥११॥ यस्मिन् मनो लब्धपदं यदेतच्छनैः शनैर्मुञ्चति कर्मरेणून्। सत्त्वेन वृद्धेन रजस्तमश्च विधूय निर्वाणमुपैत्यनिन्धनम् ॥१२॥ तदैवमात्मन्यवरुद्धचित्तो न वेद किञ्चिद्बहिरन्तरं वा। यथेषुकारो नृपतिं व्रजन्तमिषौ गतात्मा न ददर्श पार्श्वे ॥१३॥ एकचार्यनिकेतः स्यादप्रमत्तो गुहाशयः। अलक्ष्यमाण आचारैर्मुनिरेकोऽल्पभाषणः ॥१४॥ गृहारम्भोऽति दुःखाय विफलश्चाध्रुवात्मनः। सर्पः परकृतं वेश्म प्रविश्य सुखमेधते ॥१५॥ एको नारायणो देवः पूर्वसृष्टं स्वमायया। संहृत्य कालकलया कल्पान्त इदमीश्वरः। एक एवाद्वितीयोऽभूदात्माधारोऽखिलाश्रयः ॥१६॥ कालेनात्मानुभावेन साम्यं नीतासु शक्तिषु। सत्त्वादिष्वादिपुरुषः प्रधानपुरुषेश्वरः ॥१७॥ परावराणां परम आस्ते कैवल्यसंज्ञितः। केवलानुभवानन्दसन्दोहो निरुपाधिकः ॥१८॥ केवलात्मानुभावेन स्वमायां त्रिगुणात्मिकाम्। सङ्क्षोभयन् सृजत्यादौ तया सूत्रमरिन्दम ॥१९॥ तामाहुस्त्रिगुणव्यक्तिं सृजन्तीं विश्वतोमुखम्। यस्मिन् प्रोतमिदं विश्वं येन संसरते पुमान् ॥२०॥ यथोर्णनाभिर्हृदयादूर्णां सन्तत्य वक्त्रतः। तया विहृत्य भूयस्तां ग्रसत्येवं महेश्वरः ॥२१॥ यत्र यत्र मनो देही धारयेत्सकलं धिया। स्नेहाद्द्वेषाद्भयाद्वापि याति तत्तत्स्वरूपताम् ॥२२॥ कीटः पेशस्कृतं ध्यायन् कुड्यां तेन प्रवेशितः। याति तत्सात्मतां राजन् पूर्वरूपमसन्त्यजन् ॥२३॥ एवं गुरुभ्य एतेभ्य एषा मे शिक्षिता मतिः। स्वात्मोपशिक्षितां बुद्धिं शृणु मे वदतः प्रभो ॥२४॥ देहो गुरुर्मम विरक्तिविवेकहेतुः बिभ्रत्स्म सत्त्वनिधनं सततार्त्युदर्कम्। तत्त्वान्यनेन विमृशामि यथा तथापि पारक्यमित्यवसितो विचराम्यसङ्गः ॥२५॥ जायात्मजार्थपशुभृत्यगृहाप्तवर्गान् पुष्णाति यत्प्रियचिकीर्षया वितन्वन्। स्वान्ते सकृच्छ्रमवरुद्धधनः स देहः सृष्ट्वास्य बीजमवसीदति वृक्षधर्मः ॥२६॥ जिह्वैकतोऽमुमपकर्षति कर्हि तर्षा शिश्नोऽन्यतस्त्वगुदरं श्रवणं कुतश्चित्। घ्राणोऽन्यतश्चपलदृक् क्व च कर्मशक्तिः बह्व्यः सपत्न्य इव गेहपतिं लुनन्ति ॥२७॥ सृष्ट्वा पुराणि विविधान्यजयाऽऽत्मशक्त्या वृक्षान् सरीसृपपशून् खगदंशमत्स्यान्। तैस्तैरतुष्टहृदयः पुरुषं विधाय ब्रह्मावलोकधिषणं मुदमाप देवः ॥२८॥ लब्ध्वा सुदुर्लभमिदं बहुसम्भवान्ते मानुष्यमर्थदमनित्यमपीह धीरः। तूर्णं यतेत न पतेदनुमृत्यु याव- न्निःश्रेयसाय विषयः खलु सर्वतः स्यात् ॥२९॥ एवं सञ्जातवैराग्यो विज्ञानालोक आत्मनि। विचरामि महीमेतां मुक्तसङ्गोऽनहङ्कृतिः ॥३०॥ न ह्येकस्माद्गुरोर्ज्ञानं सुस्थिरं स्यात्सुपुष्कलम्। ब्रह्मैतदद्वितीयं वै गीयते बहुधर्षिभिः ॥३१॥ श्रीभगवानुवाच इत्युक्त्वा स यदुं विप्रस्तमामन्त्र्य गभीरधीः। वन्दितोऽभ्यर्थितो राज्ञा ययौ प्रीतो यथागतम्॥३२॥ अवधूतवचः श्रुत्वा पूर्वेषां नः स पूर्वजः। सर्वसङ्गविनिर्मुक्तः समचित्तो बभूव ह ॥३३॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे नवमोऽध्यायः॥९॥

॥ दशमोऽध्यायः - १० ॥

श्रीभगवानुवाच मयोदितेष्ववहितः स्वधर्मेषु मदाश्रयः। वर्णाश्रमकुलाचारमकामात्मा समाचरेत् ॥१॥ अन्वीक्षेत विशुद्धात्मा देहिनां विषयात्मनाम्। गुणेषु तत्त्वध्यानेन सर्वारम्भविपर्ययम् ॥२॥ सुप्तस्य विषयालोको ध्यायतो वा मनोरथः। नानात्मकत्वाद्विफलस्तथा भेदात्मधीर्गुणैः ॥३॥ निवृत्तं कर्म सेवेत प्रवृत्तं मत्परस्त्यजेत्। जिज्ञासायां सम्प्रवृत्तो नाद्रियेत्कर्मचोदनाम् ॥४॥ यमानभीक्ष्णं सेवेत नियमान् मत्परः क्वचित्। मदभिज्ञं गुरुं शान्तमुपासीत मदात्मकम् ॥५॥ अमान्यमत्सरो दक्षो निर्ममो दृढसौहृदः। असत्वरोऽर्थजिज्ञासुरनसूयुरमोघवाक् ॥६॥ जायापत्यगृहक्षेत्रस्वजनद्रविणादिषु। उदासीनः समं पश्यन् सर्वेष्वर्थमिवात्मनः ॥७॥ विलक्षणः स्थूलसूक्ष्माद्देहादात्मेक्षिता स्वदृक्। यथाग्निर्दारुणो दाह्याद्दाहकोऽन्यः प्रकाशकः ॥८॥ निरोधोत्पत्त्यणुबृहन्नानात्वं तत्कृतान् गुणान्। अन्तः प्रविष्ट आधत्त एवं देहगुणान् परः ॥९॥ योऽसौ गुणैर्विरचितो देहोऽयं पुरुषस्य हि। संसारस्तन्निबन्धोयं पुंसो विद्याच्छिदात्मनः ॥१०॥ तस्माज्जिज्ञासयाऽऽत्मानमात्मस्थं केवलं परम्। सङ्गम्य निरसेदेतद्वस्तुबुद्धिं यथाक्रमम् ॥११॥ आचार्योऽरणिराद्यः स्यादन्तेवास्युत्तरारणिः। तत्सन्धानं प्रवचनं विद्यासन्धिः सुखावहः ॥१२॥ वैशारदी सातिविशुद्धबुद्धिर्धुनोति मायां गुणसम्प्रसूताम्। गुणांश्च सन्दह्य यदात्ममेतत् स्वयं च शाम्यत्यसमिद्यथाग्निः ॥१३॥ अथैषां कर्मकर्तॄणां भोक्तॄणां सुखदुःखयोः। नानात्वमथ नित्यत्वं लोककालागमात्मनाम् ॥१४॥ मन्यसे सर्वभावानां संस्था ह्यौत्पत्तिकी यथा। तत्तदाकृतिभेदेन जायते भिद्यते च धीः ॥१५॥ एवमप्यङ्ग सर्वेषां देहिनां देहयोगतः। कालावयवतः सन्ति भावा जन्मादयोऽसकृत् ॥१६॥ अत्रापि कर्मणां कर्तुरस्वातन्त्र्यं च लक्ष्यते। भोक्तुश्च दुःखसुखयोः को न्वर्थो विवशं भजेत्॥१७॥ न देहिनां सुखं किञ्चिद्विद्यते विदुषामपि। तथा च दुःखं मूढानां वृथाहङ्करणं परम् ॥१८॥ यदि प्राप्तिं विघातं च जानन्ति सुखदुःखयोः। तेऽप्यद्धा न विदुर्योगं मृत्युर्न प्रभवेद्यथा ॥१९॥ को न्वर्थः सुखयत्येनं कामो वा मृत्युरन्तिके। आघातं नीयमानस्य वध्यस्येव न तुष्टिदः ॥२०॥ श्रुतं च दृष्टवद्दुष्टं स्पर्धासूयात्ययव्ययैः। बह्वन्तरायकामत्वात्कृषिवच्चापि निष्फलम् ॥२१॥ अन्तरायैरविहतो यदि धर्मः स्वनुष्ठितः। तेनापि निर्जितं स्थानं यथा गच्छति तच्छृणु ॥२२॥ इष्ट्वेह देवता यज्ञैः स्वर्लोकं याति याज्ञिकः। भुञ्जीत देववत्तत्र भोगान् दिव्यान् निजार्जितान्॥२३॥ स्वपुण्योपचिते शुभ्रे विमान उपगीयते। गन्धर्वैर्विहरन् मध्ये देवीनां हृद्यवेषधृक् ॥२४॥ स्त्रीभिः कामगयानेन किङ्किणीजालमालिना। क्रीड? वेदात्मपातं सुराक्रीडेषु निर्वृतः ॥२५॥ तावत्प्रमोदते स्वर्गे यावत्पुण्यं समाप्यते। क्षीणपुण्यः पतत्यर्वागनिच्छन् कालचालितः ॥२६॥ यद्यधर्मरतः सङ्गादसतां वाजितेन्द्रियः। कामात्मा कृपणो लुब्धः स्त्रैणो भूतविहिंसकः ॥२७॥ पशूनविधिनालभ्य प्रेतभूतगणान् यजन्। नरकानवशो जन्तुर्गत्वा यात्युल्बणं तमः ॥२८॥ कर्माणि दुःखोदर्काणि कुर्वन् देहेन तैः पुनः। देहमाभजते तत्र किं सुखं मर्त्यधर्मिणः ॥२९॥ लोकानां लोकपालानां मद्भयं कल्पजीविनाम्। ब्रह्मणोऽपि भयं मत्तो द्विपरार्धपरायुषः ॥३०॥ गुणाः सृजन्ति कर्माणि गुणोऽनुसृजते गुणान्। जीवस्तु गुणसंयुक्तो भुङ्क्ते कर्मफलान्यसौ ॥३१॥ यावत्स्याद्गुणवैषम्यं तावन्नानात्वमात्मनः। नानात्वमात्मनो यावत्पारतन्त्र्यं तदैव हि ॥३२॥ यावदस्यास्वतन्त्रत्वं तावदीश्वरतो भयम्। य एतत्समुपासीरंस्ते मुह्यन्ति शुचार्पिताः ॥३३॥ काल आत्मागमो लोकः स्वभावो धर्म एव च। इति मां बहुधा प्राहुर्गुणव्यतिकरे सति ॥३४॥ उद्धव उवाच गुणेषु वर्तमानोऽपि देहजेष्वनपावृतः। गुणैर्न बध्यते देही बध्यते वा कथं विभो ॥३५॥ कथं वर्तेत विहरेत्कैर्वा ज्ञायेत लक्षणैः। किं भुञ्जीतोऽत विसृजेच्छयीतासीत याति वा ॥३६॥ एतदच्युत मे ब्रूहि प्रश्नं प्रश्नविदां वर। नित्यमुक्तो नित्यबद्धः एक एवेति मे भ्रमः ॥३७॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे दशमोऽध्यायः॥१०॥

॥ एकादशोऽध्यायः - ११ ॥

श्रीभगवानुवाच बद्धो मुक्त इति व्याख्या गुणतो मे न वस्तुतः। गुणस्य मायामूलत्वा? मे मोक्षो न बन्धनम् ॥१॥ शोकमोहौ सुखं दुःखं देहापत्तिश्च मायया। स्वप्नो यथात्मनः ख्यातिः संसृतिर्न तु वास्तवी॥२॥ विद्याविद्ये मम तनू विद्ध्युद्धव शरीरिणाम्। मोक्षबन्धकरी आद्ये मायया मे विनिर्मिते ॥३॥ एकस्यैव ममांशस्य जीवस्यैव महामते। बन्धोऽस्याविद्ययानादिर्विद्यया च तथेतरः ॥४॥ अथ बद्धस्य मुक्तस्य वैलक्षण्यं वदामि ते। विरुद्धधर्मिणोस्तात स्थितयोरेकधर्मिणि ॥५॥ सुपर्णावेतौ सदृशौ सखायौ यदृच्छयैतौ कृतनीडौ च वृक्षे। एकस्तयोः खादति पिप्पलान्नमन्यो निरन्नोऽपि बलेन भूयान् ॥६॥ आत्मानमन्यं च स वेद विद्वानपिप्पलादो न तु पिप्पलादः। योऽविद्यया युक् स तु नित्यबद्धो विद्यामयो यः स तु नित्यमुक्तः ॥७॥ देहस्थोऽपि न देहस्थो विद्वान् स्वप्नाद्यथोत्थितः। अदेहस्थोऽपि देहस्थः कुमतिः स्वप्नदृग्यथा ॥८॥ इन्द्रियैरिन्द्रियार्थेषु गुणैरपि गुणेषु च। गृह्यमाणेष्वहं कुर्या? विद्वान् यस्त्वविक्रियः ॥९॥ दैवाधीने शरीरेऽस्मिन् गुणभाव्येन कर्मणा। वर्तमानोऽबुधस्तत्र कर्तास्मीति निबध्यते ॥१०॥ एवं विरक्तः शयन आसनाटनमज्जने। दर्शनस्पर्शनघ्राणभोजनश्रवणादिषु ॥११॥ न तथा बध्यते विद्वान् तत्र तत्रादयन् गुणान्। प्रकृतिस्थोऽप्यसंसक्तो यथा खं सवितानिलः ॥१२॥ वैशारद्येक्षयासङ्गशितया छिन्नसंशयः। प्रतिबुद्ध इव स्वप्नान्नानात्वाद्विनिवर्तते ॥१३॥ यस्य स्युर्वीतसङ्कल्पाः प्राणेन्द्रियमनोधियाम्। वृत्तयः स विनिर्मुक्तो देहस्थोऽपि हि तद्गुणैः ॥१४॥ यस्यात्मा हिंस्यते हिंस्रैर्येन किञ्चिद्यदृच्छया। अर्च्यते वा क्वचित्तत्र न व्यतिक्रियते बुधः ॥१५॥ न स्तुवीत न निन्देत कुर्वतः साध्वसाधु वा। वदतो गुणदोषाभ्यां वर्जितः समदृङ्मुनिः ॥१६॥ न कुर्यान्न वदेत्किञ्चिन्न ध्यायेत्साध्वसाधु वा। आत्मारामोऽनया वृत्त्या विचरेज्जडवन्मुनिः ॥१७॥ शब्दब्रह्मणि निष्णातो न निष्णायात्परे यदि। श्रमस्तस्य श्रमफलो ह्यधेनुमिव रक्षतः ॥१८॥ गां दुग्धदोहामसतीं च भार्यां देहं पराधीनमसत्प्रजां च। वित्तं त्वतीर्थीकृतमङ्ग वाचं हीनां मया रक्षति दुःखदुःखी ॥१९॥ यस्यां न मे पावनमङ्ग कर्म स्थित्युद्भवप्राणनिरोधमस्य। लीलावतारेप्सितजन्म वा स्याद्वन्ध्यां गिरं तां बिभृयान्न धीरः ॥२०॥ एवं जिज्ञासयापोह्य नानात्वभ्रममात्मनि। उपारमेत विरजं मनो मय्यर्प्य सर्वगे ॥२१॥ यद्यनीशो धारयितुं मनो ब्रह्मणि निश्चलम्। मयि सर्वाणि कर्माणि निरपेक्षः समाचर ॥२२॥ श्रद्धालुर्मे कथाः शृण्वन् सुभद्रा लोकपावनीः। गायन्ननुस्मरन् कर्म जन्म चाभिनयन् मुहुः ॥२३॥ मदर्थे धर्मकामार्थानाचरन् मदपाश्रयः। लभते निश्चलां भक्तिं मय्युद्धव सनातने ॥२४॥ सत्सङ्गलब्धया भक्त्या मयि मां य उपासिता। स वै मे दर्शितं सद्भिरञ्जसा विन्दते पदम् ॥२५॥ उद्धव उवाच साधुस्तवोत्तमश्लोक मतः कीदृग्विधः प्रभो। भक्तिस्त्वय्युपयुज्येत कीदृशी सद्भिरादृता ॥२६॥ एतन्मे पुरुषाध्यक्ष लोकाध्यक्ष जगत्प्रभो। प्रणतायानुरक्ताय प्रपन्नाय च कथ्यताम् ॥२७॥ त्वं ब्रह्म परमं व्योम पुरुषः प्रकृतेः परः। अवतीर्णोऽसि भगवन् स्वेच्छोपात्तपृथग्वपुः ॥२८॥ श्रीभगवानुवाच कृपालुरकृतद्रोहस्तितिक्षुः सर्वदेहिनाम्। सत्यसारोऽनवद्यात्मा समः सर्वोपकारकः ॥२९॥ कामैरहतधीर्दान्तो मृदुः शुचिरकिञ्चनः। अनीहो मितभुक्शान्तः स्थिरो मच्छरणो मुनिः॥३०॥ अप्रमत्तो गभीरात्मा धृतिमाञ्जितषड्गुणः। अमानी मानदः कल्पो मैत्रः कारुणिकः कविः॥३१॥ आज्ञायैवं गुणान् दोषान् मयादिष्टानपि स्वकान्। धर्मान् सन्त्यज्य यः सर्वान् मां भजेत स सत्तमः ॥३२॥ ज्ञात्वाज्ञात्वाथ ये वै मां यावान् यश्चास्मि यादृशः। भजन्त्यनन्यभावेन ते मे भक्ततमा मताः ॥३३॥ मल्लिङ्गमद्भक्तजनदर्शनस्पर्शनार्चनम्। परिचर्या स्तुतिः प्रह्वगुणकर्मानुकीर्तनम् ॥३४॥ मत्कथाश्रवणे श्रद्धा मदनुध्यानमुद्धव। सर्वलाभोपहरणं दास्येनात्मनिवेदनम् ॥३५॥ मज्जन्मकर्मकथनं मम पर्वानुमोदनम्। गीतताण्डववादित्रगोष्ठीभिर्मद्गृहोत्सवः ॥३६॥ यात्रा बलिविधानं च सर्ववार्षिकपर्वसु। वैदिकी तान्त्रिकी दीक्षा मदीयव्रतधारणम् ॥३७॥ ममार्चास्थापने श्रद्धा स्वतः संहत्य चोद्यमः। उद्यानोपवनाक्रीडपुरमन्दिरकर्मणि ॥३८॥ सम्मार्जनोपलेपाभ्यां सेकमण्डलवर्तनैः। गृहशुश्रूषणं मह्यं दासवद्यदमायया ॥३९॥ अमानित्वमदम्भित्वं कृतस्यापरिकीर्तनम्। अपि दीपावलोकं मे नोपयुञ्ज्यान्निवेदितम् ॥४०॥ यद्यदिष्टतमं लोके यच्चातिप्रियमात्मनः। तत्तन्निवेदयेन्मह्यं तदानन्त्याय कल्पते ॥४१॥ सूर्योऽग्निर्ब्राह्मणो गावो वैष्णवः खं मरुज्जलम्। भूरात्मा सर्वभूतानि भद्रपूजापदानि मे ॥४२॥ सूर्ये तु विद्यया त्रय्या हविषाग्नौ यजेत माम्। आतिथ्येन तु विप्राग्र्ये गोष्वङ्ग यवसादिना ॥४३॥ वैष्णवे बन्धुसत्कृत्या हृदि खे ध्याननिष्ठया। वायौ मुख्यधिया तोये द्रव्यैस्तोयपुरस्कृतैः ॥४४॥ स्थण्डिले मन्त्रहृदयैर्भोगैरात्मानमात्मनि। क्षेत्रज्ञं सर्वभूतेषु समत्वेन यजेत माम् ॥४५॥ धिष्ण्येष्वेष्विति मद्रूपं शङ्खचक्रगदाम्बुजैः। युक्तं चतुर्भुजं शान्तं ध्यायन्नर्चेत्समाहितः ॥४६॥ इष्टापूर्तेन मामेवं यो यजेत समाहितः। लभते मयि सद्भक्तिं मत्स्मृतिः साधुसेवया ॥४७॥ प्रायेण भक्तियोगेन सत्सङ्गेन विनोद्धव। नोपायो विद्यते सध्र्यङ् प्रायणं हि सतामहम् ॥४८॥ अथैतत्परमं गुह्यं शृण्वतो यदुनन्दन। सुगोप्यमपि वक्ष्यामि त्वं मे भृत्यः सुहृत्सखा॥४९॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे एकादशोऽध्यायः॥११॥

॥ द्वादशोऽध्यायः - १२ ॥

श्रीभगवानुवाच न रोधयति मां योगो न साङ्ख्यं धर्म एव च। न स्वाध्यायस्तपस्त्यागो नेष्टापूर्तं न दक्षिणा ॥१॥ व्रतानि यज्ञश्छन्दांसि तीर्थानि नियमा यमाः। यथावरुन्धे सत्सङ्गः सर्वसङ्गापहो हि माम् ॥२॥ सत्सङ्गेन हि दैतेया यातुधाना मृगाः खगाः। गन्धर्वाप्सरसो नागाः सिद्धाश्चारणगुह्यकाः ॥३॥ विद्याधरा मनुष्येषु वैश्याः शूद्राः स्त्रियोऽन्त्यजाः। रजस्तमःप्रकृतयस्तस्मिंस्तस्मिन् युगेऽनघ ॥४॥ बहवो मत्पदं प्राप्तास्त्वाष्ट्रकायाधवादयः। वृषपर्वा बलिर्बाणो मयश्चाथ विभीषणः ॥५॥ सुग्रीवो हनुमान् ऋक्षो गजो गृध्रो वणिक्पथः। व्याधः कुब्जा व्रजे गोप्यो यज्ञपत्न्यस्तथापरे ॥६॥ ते नाधीतश्रुतिगणा नोपासितमहत्तमाः। अव्रतातप्ततपसः सत्सङ्गान्मामुपागताः ॥७॥ केवलेन हि भावेन गोप्यो गावो नगा मृगाः। येऽन्ये मूढधियो नागाः सिद्धा मामीयुरञ्जसा ॥८॥ यं न योगेन साङ्ख्येन दानव्रततपोऽध्वरैः। व्याख्यास्वाध्यायसन्न्यासैः प्राप्नुयाद्यत्नवानपि ॥९॥ रामेण सार्धं मथुरां प्रणीते श्वाफल्किना मय्यनुरक्तचित्ताः। विगाढभावेन न मे वियोग- तीव्राधयोऽन्यं ददृशुः सुखाय ॥१०॥ तास्ताः क्षपाः प्रेष्ठतमेन नीता मयैव वृन्दावनगोचरेण। क्षणार्धवत्ताः पुनरङ्ग तासां हीना मया कल्पसमा बभूवुः ॥११॥ ता नाविदन् मय्यनुषङ्गबद्धधियः स्वमात्मानमदस्तथेदम्। यथा समाधौ मुनयोऽब्धितोये नद्यः प्रविष्टा इव नामरूपे॥१२॥ मत्कामा रमणं जारमस्वरूपविदोऽबलाः। ब्रह्म मां परमं प्रापुः सङ्गाच्छतसहस्रशः ॥१३॥ तस्मात्त्वमुद्धवोत्सृज्य चोदनां प्रतिचोदनाम्। प्रवृत्तं च निवृत्तं च श्रोतव्यं श्रुतमेव च ॥१४॥ मामेकमेव शरणमात्मानं सर्वदेहिनाम्। याहि सर्वात्मभावेन मया स्या ह्यकुतोभयः ॥१५॥ उद्धव उवाच संशयः शृण्वतो वाचं तव योगेश्वरेश्वर। न निवर्तत आत्मस्थो येन भ्राम्यति मे मनः ॥१६॥ श्रीभगवानुवाच स एष जीवो विवरप्रसूतिः प्राणेन घोषेण गुहां प्रविष्टः। मनोमयं सूक्ष्ममुपेत्य रूपं मात्रा स्वरो वर्ण इति स्थविष्ठः ॥१७॥ यथानलः खेऽनिलबन्धुरूष्मा बलेन दारुण्यधिमथ्यमानः। अणुः प्रजातो हविषा समिध्यते तथैव मे व्यक्तिरियं हि वाणी ॥१८॥ एवं गदिः कर्मगतिर्विसर्गो घ्राणो रसो दृक्स्पर्शः श्रुतिश्च। सङ्कल्पविज्ञानमथाभिमानः सूत्रं रजःसत्त्वतमोविकारः ॥१९॥ अयं हि जीवस्त्रिवृदब्जयोनिरव्यक्त एको वयसा स आद्यः। विश्लिष्टशक्तिर्बहुधेव भाति बीजानि योनिं प्रतिपद्य यद्वत् ॥२०॥ यस्मिन्निदं प्रोतमशेषमोतं पटो यथा तन्तुवितानसंस्थः। य एष संसारतरुः पुराणः कर्मात्मकः पुष्पफले प्रसूते ॥२१॥ द्वे अस्य बीजे शतमूलस्त्रिनालः पञ्चस्कन्धः पञ्चरसप्रसूतिः। दशैकशाखो द्विसुपर्णनीडस्त्रिवल्कलो द्विफलोऽर्कं प्रविष्टः ॥२२॥ अदन्ति चैकं फलमस्य गृध्रा ग्रामेचरा एकमरण्यवासाः। हंसा य एकं बहुरूपमिज्यैर्मायामयं वेद स वेद वेदम् ॥२३॥ एवं गुरूपासनयैकभक्त्या विद्याकुठारेण शितेन धीरः विवृश्च्य जीवाशयमप्रमत्तः सम्पद्य चात्मानमथ त्यजास्त्रम् ॥२४॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे द्वादशोऽध्यायः॥१२॥ त्रयोऽध्यादशोयः - १३ श्रीभगवानुवाच सत्त्वं रजस्तम इति गुणा बुद्धेर्न चात्मनः। सत्त्वेनान्यतमौ हन्यात्सत्त्वं सत्त्वेन चैव हि ॥१॥ सत्त्वाद्धर्मो भवेद्वृद्धात्पुंसो मद्भक्तिलक्षणः। सात्त्विकोपासया सत्त्वं ततो धर्मः प्रवर्तते ॥२॥ धर्मो रजस्तमो हन्यात्सत्त्ववृद्धिरनुत्तमः। आशु नश्यति तन्मूलो ह्यधर्म उभये हते ॥३॥ आगमोऽपः प्रजा देशः कालः कर्म च जन्म च। ध्यानं मन्त्रोऽथ संस्कारो दशैते गुणहेतवः ॥४॥ तत्तत्सात्त्विकमेवैषां यद्यद्वृद्धाः प्रचक्षते। निन्दन्ति तामसं तत्तद्राजसं तदुपेक्षितम् ॥५॥ सात्त्विकान्येव सेवेत पुमान् सत्त्वविवृद्धये। ततो धर्मस्ततो ज्ञानं यावत्स्मृतिरपोहनम् ॥६॥ वेणुसङ्घर्षजो वह्निर्दग्ध्वा शाम्यति तद्वनम्। एवं गुणव्यत्ययजो देहः शाम्यति तत्क्रियः ॥७॥ उद्धव उवाच विदन्ति मर्त्याः प्रायेण विषयान् पदमापदाम्। तथापि भुञ्जते कृष्ण तत्कथं श्वखराजवत् ॥८॥ श्रीभगवानुवाच अहमित्यन्यथा बुद्धिः प्रमत्तस्य यथा हृदि। उत्सर्पति रजो घोरं ततो वैकारिकं मनः ॥९॥ रजोयुक्तस्य मनसः सङ्कल्पः सविकल्पकः। ततः कामो गुणध्यानाद्दुःसहः स्याद्धि दुर्मतेः ॥१०॥ करोति कामवशगः कर्माण्यविजितेन्द्रियः। दुःखोदर्काणि सम्पश्यन् रजोवेगविमोहितः ॥११॥ रजस्तमोभ्यां यदपि विद्वान् विक्षिप्तधीः पुनः। अतन्द्रितो मनो युञ्जन् दोषदृष्टिर्न सज्जते ॥१२॥ अप्रमत्तोऽनुयुञ्जीत मनो मय्यर्पयञ्छनैः। अनिर्विण्णो यथा कालं जितश्वासो जितासनः॥१३॥ एतावान् योग आदिष्टो मच्छिष्यैः सनकादिभिः। सर्वतो मन आकृष्य मय्यद्धावेश्यते यथा ॥१४॥ उद्धव उवाच यदा त्वं सनकादिभ्यो येन रूपेण केशव। योगमादिष्टवानेतद्रूपमिच्छामि वेदितुम् ॥१५॥ श्रीभगवानुवाच पुत्रा हिरण्यगर्भस्य मानसाः सनकादयः। पप्रच्छुः पितरं सूक्ष्मां योगस्यैकान्तिकीं गतिम्॥१६॥ सनकादय ऊचुः गुणेष्वाविशते चेतो गुणाश्चेतसि च प्रभो। कथमन्योन्यसन्त्यागो मुमुक्षोरतितितीर्षोः ॥१७॥ श्रीभगवानुवाच एवं पृष्टो महादेवः स्वयम्भूर्भूतभावनः। ध्यायमानः प्रश्नबीजं नाभ्यपद्यत कर्मधीः ॥१८॥ स मामचिन्तयद्देवः प्रश्नपारतितीर्षया। तस्याहं हंसरूपेण सकाशमगमं तदा ॥१९॥ सगोनागोगो दृष्ट्वा मां त उपव्रज्य कृत्वा पादाभिवन्दनम्। ब्रह्माणमग्रतः कृत्वा पप्रच्छुः को भवानिति ॥२०॥ इत्यहं मुनिभिः पृष्टस्तत्त्वजिज्ञासुभिस्तदा। यदवोचमहं तेभ्यस्तदुद्धव निबोध मे ॥२१॥ वस्तुनो यद्यनानात्वमात्मनः प्रश्न ईदृशः। कथं घटेत वो विप्रा वक्तुर्वा मे क आश्रयः ॥२२॥ पञ्चात्मकेषु भूतेषु समानेषु च वस्तुतः। को भवानिति वः प्रश्नो वाचारम्भो ह्यनर्थकः ॥२३॥ मनसा वचसा दृष्ट्या गृह्यतेऽन्यैरपीन्द्रियैः। अहमेव न मत्तोऽन्यदिति बुध्यध्वमञ्जसा ॥२४॥ गुणेष्वाविशते चेतो गुणाश्चेतसि च प्रजाः। जीवस्य देह उभयं गुणाश्चेतो मदात्मनः ॥२५॥ गुणेषु चाविशच्चित्तमभीक्ष्णं गुणसेवया। गुणाश्च चित्तप्रभवा मद्रूप उभयं त्यजेत् ॥२६॥ जाग्रत्स्वप्नः सुषुप्तं च गुणतो बुद्धिवृत्तयः। तासां विलक्षणो जीवः साक्षित्वेन विनिश्चितः ॥२७॥ यर्हि संसृतिबन्धोऽयमात्मनो गुणवृत्तिदः। मयि तुर्ये स्थितो जह्यात्त्यागस्तद्गुणचेतसाम्॥२८॥ अहङ्कारकृतं बन्धमात्मनोऽर्थविपर्ययम्। विद्वान् निर्विद्य संसारचिन्तां तुर्ये स्थितस्त्यजेत्॥२९॥ यावन्नानार्थधीः पुंसो न निवर्तेत युक्तिभिः। जागर्त्यपि स्वपन्नज्ञः स्वप्ने जागरणं यथा ॥३०॥ असत्त्वादात्मनोऽन्येषां भावानां तत्कृता भिदा। गतयो हेतवश्चास्य मृषा स्वप्नदृशो यथा ॥३१॥ यो जागरे बहिरनुक्षणधर्मिणोऽर्थान् भुङ्क्ते समस्तकरणैर्हृदि तत्सदृक्षान् । स्वप्ने सुषुप्त उपसंहरते स एकः स्मृत्यन्वयात्त्रिगुणवृत्तिदृगिन्द्रियेशः ॥३२॥ एवं विमृश्य गुणतो मनसस्त्र्यवस्था मन्मायया मयि कृता इति निश्चितार्थाः। सञ्छिद्य हार्दमनुमानसदुक्तितीक्ष्ण- ज्ञानासिना भजत माखिलसंशयाधिम् ॥३३॥ ईक्षेत विभ्रममिदं मनसो विलासं दृष्टं विनष्टमतिलोलमलातचक्रम्। विज्ञानमेकमुरुधेव विभाति माया स्वप्नस्त्रिधा गुणविसर्गकृतो विकल्पः ॥३४॥ दृष्टिं ततः प्रतिनिवर्त्य निवृत्ततृष्ण- स्तूष्णीं भवेन्निजसुखानुभवो निरीहः। सन्दृश्यते क्व च यदीदमवस्तुबुद्ध्या त्यक्तं भ्रमाय न भवेत्स्मृतिरानिपातात् ॥३५॥ देहं च नश्वरमवस्थितमुत्थितं वा सिद्धो न पश्यति यतोऽध्यगमत्स्वरूपम्। दैवादपेतमुत दैववशादुपेतं वासो यथा परिकृतं मदिरामदान्धः ॥३६॥ देहोऽपि दैववशगः खलु कर्म यावत् स्वारम्भकं प्रतिसमीक्षत एव सासुः। तं स प्रपञ्चमधिरूढसमाधियोगः स्वाप्नं पुनर्न भजते प्रतिबुद्धवस्तुः ॥३७॥ मयैतदुक्तं वो विप्रा गुह्यं यत्साङ्ख्ययोगयोः। जानीत माऽऽगतं यज्ञं युष्मद्धर्मविवक्षया ॥३८॥ अहं योगस्य साङ्ख्यस्य सत्यस्यर्तस्य तेजसः। परायणं द्विजश्रेष्ठाः श्रियःकीर्तेर्दमस्य च ॥३९॥ मां भजन्ति गुणाः सर्वे निर्गुणं निरपेक्षकम्। सुहृदं प्रियमात्मानं साम्यासङ्गादयोगुणाः ॥४०॥ इति मे छिन्नसन्देहा मुनयः सनकादयः। सभाजयित्वा परया भक्त्यागृणत संस्तवैः ॥४१॥ तैरहं पूजितः सम्यक् संस्तुतः परमर्षिभिः। प्रत्येयाय स्वकं धाम पश्यतः परमेष्ठिनः ॥४२॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे त्रयोदशोऽध्यायः॥१३॥

॥ चतुर्दशोऽध्यायः - १४ ॥

उद्धव उवाच वदन्ति कृष्ण श्रेयांसि बहूनि ब्रह्मवादिनः। तेषां विकल्पप्राधान्यमुताहो एकमुख्यता ॥१॥ भवतोदाहृतः स्वामिन् भक्तियोगोऽनपेक्षितः। निरस्य सर्वतः सङ्गं येन त्वय्याविशेन्मनः ॥२॥ श्रीभगवानुवाच कालेन नष्टा प्रलये वाणीयं वेदसंज्ञिता। मयादौ ब्रह्मणे प्रोक्ता धर्मो यस्यां मदात्मकः ॥३॥ तेन प्रोक्ता च पुत्राय मनवे पूर्वजाय सा। ततो भृग्वादयोऽगृह्णन् सप्त ब्रह्ममहर्षयः ॥४॥ तेभ्यः पितृभ्यस्तत्पुत्रा देवदानवगुह्यकाः। मनुष्याः सिद्धगन्धर्वाः सविद्याधरचारणाः ॥५॥ किन्देवाः किन्नरा नागा रक्षः किम्पुरुषादयः। बह्व्यस्तेषां प्रकृतयो रजःसत्त्वतमोभुवः ॥६॥ याभिर्भूतानि भिद्यन्ते भूतानां पतयस्तथा। यथाप्रकृति सर्वेषां चित्रा वाचः स्रवन्ति हि ॥७॥ एवं प्रकृतिवैचित्र्याद्भिद्यन्ते मतयो नृणाम्। पारम्पर्येण केषाञ्चित्पाखण्डमतयोऽपरे ॥८॥ मन्मायामोहितधियः पुरुषाः पुरुषर्षभ। श्रेयो वदन्त्यनेकान्तं यथाकर्म यथारुचि ॥९॥ धर्ममेके यशश्चान्ये कामं सत्यं दमं शमम्। अन्ये वदन्ति स्वार्थं वा ऐश्वर्यं त्यागभोजनम्। केचिद्यज्ञतपो दानं व्रतानि नियमान् यमान् ॥१०॥ आद्यन्तवन्त एवैषां लोकाः कर्मविनिर्मिताः। दुःखोदर्कास्तमोनिष्ठाः क्षुद्रानन्दाः शुचार्पिताः॥११॥ मय्यर्पितात्मनः सभ्य निरपेक्षस्य सर्वतः। मयात्मना सुखं यत्तत्कुतः स्याद्विषयात्मनाम्॥१२॥ अकिञ्चनस्य दान्तस्य शान्तस्य समचेतसः। मया सन्तुष्टमनसः सर्वाः सुखमया दिशः ॥१३॥ न पारमेष्ठ्यं न महेन्द्रधिष्ण्यं न सार्वभौमं न रसाधिपत्यम्। न योगसिद्धीरपुनर्भवं वा मय्यर्पितात्मेच्छति मद्विनान्यत् ॥१४॥ न तथा मे प्रियतम आत्मयोनिर्न शङ्करः। न च सङ्कर्षणो न श्रीर्नैवात्मा च यथा भवान् ॥१५॥ निरपेक्षं मुनिं शान्तं निर्वैरं समदर्शनम्। अनुव्रजाम्यहं नित्यं पूयेयेत्यङ्घ्रिरेणुभिः ॥१६॥ निष्किञ्चना मय्यनुरक्तचेतसः शान्ता महान्तोऽखिलजीववत्सलाः। कामैरनालब्धधियो जुषन्ति यत्तन्नैरपेक्ष्यं न विदुः सुखं मम ॥१७॥ बाध्यमानोऽपि मद्भक्तो विषयैरजितेन्द्रियः। प्रायः प्रगल्भया भक्त्या विषयैर्नाभिभूयते ॥१८॥ यथाग्निः सुसमृद्धार्चिः करोत्येधांसि भस्मसात्। तथा मद्विषया भक्तिरुद्धवैनांसि कृत्स्नशः ॥१९॥ न साधयति मां योगो न साङ्ख्यं धर्म उद्धव। न स्वाध्यायस्तपस्त्यागो यथा भक्तिर्ममोर्जिता॥२०॥ भक्त्याहमेकया ग्राह्यः श्रद्धयात्मा प्रियः सताम्। भक्तिः पुनाति मन्निष्ठा श्वपाकानपि सम्भवात् ॥२१॥ धर्मः सत्यदयोपेतो विद्या वा तपसान्विता। मद्भक्त्यापेतमात्मानं न सम्यक् प्रपुनाति हि ॥२२॥ कथं विना रोमहर्षं द्रवता चेतसा विना। विनानन्दाश्रुकलया शुध्येद्भक्त्या विनाऽऽशयः॥२३॥ वाग्गद्गदा द्रवते यस्य चित्तं रुदत्यभीक्ष्णं हसति क्वचिच्च। विलज्ज उद्गायति नृत्यते च मद्भक्तियुक्तो भुवनं पुनाति ॥२४॥ यथाग्निना हेम मलं जहाति ध्मातं पुनः स्वं भजते च रूपम्। आत्मा च कर्मानुशयं विधूय मद्भक्तियोगेन भजत्यथो माम् ॥२५॥ यथा यथाऽऽत्मा परिमृज्यतेऽसौ मत्पुण्यगाथाश्रवणाभिधानैः। तथा तथा पश्यति वस्तु सूक्ष्मं चक्षुर्यथैवाञ्जनसम्प्रयुक्तम् ॥२६॥ विषयान् ध्यायतश्चित्तं विषयेषु विषज्जते। मामनुस्मरतश्चित्तं मय्येव प्रविलीयते ॥२७॥ तस्मादसदभिध्यानं यथा स्वप्नमनोरथम्। हित्वा मयि समाधत्स्व मनो मद्भावभावितम् ॥२८॥ स्त्रीणां स्त्रीसङ्गिनां सङ्गं त्यक्त्वा दूरत आत्मवान्। क्षेमे विविक्त आसीनश्चिन्तयेन्मामतन्द्रितः ॥२९॥ न तथास्य भवेत्क्लेशो बन्धश्चान्यप्रसङ्गतः। योषित्सङ्गाद्यथा पुंसो यथा तत्सङ्गिसङ्गतः ॥३०॥ उद्धव उवाच यथा त्वामरविन्दाक्ष यादृशं वा यदात्मकम्। ध्यायेन्मुमुक्षुरेतन्मे ध्यानं त्वं वक्तुमर्हसि ॥३१॥ श्रीभगवानुवाच सम आसन आसीनः समकायो यथासुखम्। हस्तावुत्सङ्ग आधाय स्वनासाग्रकृतेक्षणः ॥३२॥ प्राणस्य शोधयेन्मार्गं पूरकुम्भकरेचकैः। विपर्ययेणापि शनैरभ्यसेन्निर्जितेन्द्रियः ॥३३॥ हृद्यविच्छिनमोंकारं घण्टानादं बिसोर्णवत्। प्राणेनोदीर्य तत्राथ पुनः संवेशयेत्स्वरम् ॥३४॥ एवं प्रणवसंयुक्तं प्राणमेव समभ्यसेत्। दशकृत्वस्त्रिषवणं मासादर्वाग्जितानिलः ॥३५॥ हृत्पुण्डरीकमन्तःस्थमूर्ध्वनालमधोमुखम्। ध्यात्वोर्ध्वमुखमुन्निद्रमष्टपत्रं सकर्णिकम् ॥३६॥ कर्णिकायां न्यसेत्सूर्यसोमाग्नीनुत्तरोत्तरम्। वह्निमध्ये स्मरेद्रूपं ममैतद्ध्यानमङ्गलम् ॥३७॥ समं प्रशान्तं सुमुखं दीर्घचारुचतुर्भुजम्। सुचारुसुन्दरग्रीवं सुकपोलं शुचिस्मितम् ॥३८॥ समानकर्णविन्यस्तस्फुरन्मकरकुण्डलम्। हेमाम्बरं घनश्यामं श्रीवत्सश्रीनिकेतनम् ॥३९॥ शङ्खचक्रगदापद्मवनमालाविभूषितम्। नूपुरैर्विलसत्पादं कौस्तुभप्रभया युतम् ॥४०॥ द्युमत्किरीटकटककटिसूत्राङ्गदायुतम्। सर्वाङ्गसुन्दरं हृद्यं प्रसादसुमुखेक्षणम् ॥४१॥ सुकुमारमभिध्यायेत्सर्वाङ्गेषु मनो दधत्। इन्द्रियाणीन्द्रियार्थेभ्यो मनसाकृष्य तन्मनः। बुद्ध्या सारथिना धीरः प्रणयेन्मयि सर्वतः ॥४२॥ तत्सर्वव्यापकं चित्तमाकृष्यैकत्र धारयेत्। नान्यानि चिन्तयेद्भूयः सुस्मितं भावयेन्मुखम्॥४३॥ तत्र लब्धपदं चित्तमाकृष्य व्योम्नि धारयेत्। तच्च त्यक्त्वा मदारोहो न किञ्चिदपि चिन्तयेत् ॥४४॥ एवं समाहितमतिर्मामेवात्मानमात्मनि। विचष्टे मयि सर्वात्मन् ज्योतिर्ज्योतिषि संयुतम्॥४५॥ ध्यानेनेत्थं सुतीव्रेण युञ्जतो योगिनो मनः। संयास्यत्याशु निर्वाणं द्रव्यज्ञानक्रियाभ्रमः ॥४६॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे चतुर्दशोऽध्यायः॥१४॥

॥ पञ्चदशोऽध्यायः - १५ ॥

श्रीभगवानुवाच जितेन्द्रियस्य युक्तस्य जितश्वासस्य योगिनः। मयि धारयतश्चेत उपतिष्ठन्ति सिद्धयः ॥१॥ उद्धव उवाच कया धारणया का स्वित्कथं वा सिद्धिरच्युत। कति वा सिद्धयो ब्रूहि योगिनां सिद्धिदो भवान्॥२॥ श्रीभगवानुवाच सिद्धयोऽष्टादश प्रोक्ता धारणायोगपारगैः। तासामष्टौ मत्प्रधाना दशैव गुणहेतवः ॥३॥ अणिमा महिमा मूर्तेर्लघिमा प्राप्तिरिन्द्रियैः। प्राकाम्यं श्रुतदृष्टेषु शक्तिप्रेरणमीशिता ॥४॥ गुणेष्वसङ्गो वशिता यत्कामस्तदवस्यति। एता मे सिद्धयः सौम्य अष्टावौत्पत्तिका मताः ॥५॥ अनूर्मिमत्त्वं देहेऽस्मिन् दूरश्रवणदर्शनम्। मनोजवः कामरूपं परकायप्रवेशनम् ॥६॥ स्वच्छन्दमृत्युर्देवानां सहक्रीडानुदर्शनम्। यथासङ्कल्पसंसिद्धिराज्ञाप्रतिहतागतिः ॥७॥ त्रिकालज्ञत्वमद्वन्द्वं परचित्ताद्यभिज्ञता। अग्न्यर्काम्बुविषादीनां प्रतिष्टम्भोऽपराजयः ॥८॥ एताश्चोद्देशतः प्रोक्ता योगधारणसिद्धयः। यया धारणया या स्याद्यथा वा स्यान्निबोध मे ॥९॥ भूतसूक्ष्मात्मनि मयि तन्मात्रं धारयेन्मनः। अणिमानमवाप्नोति तन्मात्रोपासको मम ॥१०॥ महत्यात्मन्मयि परे यथासंस्थं मनो दधत्। महिमानमवाप्नोति भूतानां च पृथक् पृथक् ॥११॥ परमाणुमये चित्तं भूतानां मयि रञ्जयन्। कालसूक्ष्मार्थतां योगी लघिमानमवाप्नुयात् ॥१२॥ धारयन् मय्यहं तत्त्वे मनो वैकारिकेऽखिलम्। सर्वेन्द्रियाणामात्मत्वं प्राप्तिं प्राप्नोति मन्मनाः ॥१३॥ महत्यात्मनि यः सूत्रे धारयेन्मयि मानसम्। प्राकाम्यं पारमेष्ठ्यं मे विन्दतेऽव्यक्तजन्मनः ॥१४॥ विष्णौ त्र्यधीश्वरे चित्तं धारयेत्कालविग्रहे। स ईशित्वमवाप्नोति क्षेत्रज्ञक्षेत्रचोदनाम् ॥१५॥ नारायणे तुरीयाख्ये भगवच्छब्दशब्दिते। मनो मय्यादधद्योगी मद्धर्मा वशितामियात् ॥१६॥ निर्गुणे ब्रह्मणि मयि धारयन् विशदं मनः। परमानन्दमाप्नोति यत्र कामोऽवसीयते ॥१७॥ श्वेतद्वीपपतौ चित्तं शुद्धे धर्ममये मयि। धारयञ्छ्वेततां याति षडूर्मिरहितो नरः ॥१८॥ मय्याकाशात्मनि प्राणे मनसा घोषमुद्वहन्। तत्रोपलब्धा भूतानां हंसो वाचः शृणोत्यसौ ॥१९॥ चक्षुस्त्वष्टरि संयोज्य त्वष्टारमपि चक्षुषि। मां तत्र मनसा ध्यायन् विश्वं पश्यति सूक्ष्मदृक्॥२०॥ मनो मयि सुसंयोज्य देहं तदनुवायुना। मद्धारणानुभावेन तत्रात्मा यत्र वै मनः ॥२१॥ यदा मन उपादाय यद्यद्रूपं बुभूषति। तत्तद्भवेन्मनोरूपं मद्योगबलमाश्रयः ॥२२॥ परकायं विशन् सिद्ध आत्मानं तत्र भावयेत्। पिण्डं हित्वा विशेत्प्राणो वायुभूतः षडङ्घ्रिवत्॥२३॥ पार्ष्ण्याऽऽपीड्य गुदं प्राणं हृदुरःकण्ठमूर्धसु। आरोप्य ब्रह्मरन्ध्रेण ब्रह्म नीत्वोत्सृजेत्तनुम् ॥२४॥ विहरिष्यन् सुराक्रीडे मत्स्थं सत्त्वं विभावयेत्। विमानेनोपतिष्ठन्ति सत्त्ववृत्तीः सुरस्त्रियः ॥२५॥ यथा सङ्कल्पयेद्बुद्ध्या यदा वा मत्परः पुमान्। मयि सत्ये मनो युञ्जंस्तथा तत्समुपाश्नुते ॥२६॥ यो वै मद्भावमापन्न ईशितुर्वशितुः पुमान्। कुतश्चिन्न विहन्येत तस्य चाज्ञा यथा मम ॥२७॥ मद्भक्त्या शुद्धसत्त्वस्य योगिनो धारणाविदः। तस्य त्रैकालिकी बुद्धिर्जन्ममृत्यूपबृंहिता ॥२८॥ अग्न्यादिभिर्न हन्येत मुनेर्योगमयं वपुः। मद्योगश्रान्तचित्तस्य यादसामुदकं यथा ॥२९॥ मद्विभूतीरभिध्यायन् श्रीवत्सास्त्रविभूषिताः। ध्वजातपत्रव्यजनैः स भवेदपराजितः ॥३०॥ उपासकस्य मामेवं योगधारणया मुनेः। सिद्धयः पूर्वकथिता उपतिष्ठन्त्यशेषतः ॥३१॥ जितेन्द्रियस्य दान्तस्य जितश्वासात्मनो मुनेः। मद्धारणां धारयतः का सा सिद्धिः सुदुर्लभा ॥३२॥ अन्तरायान् वदन्त्येता युञ्जतो योगमुत्तमम्। मया सम्पद्यमानस्य कालक्षपणहेतवः ॥३३॥ जन्मौषधितपोमन्त्रैर्यावतीरिह सिद्धयः। योगेनाप्नोति ताः सर्वा नान्यैर्योगगतिं व्रजेत् ॥३४॥ सर्वासामपि सिद्धीनां हेतुः पतिरहं प्रभुः। अहं योगस्य साङ्ख्यस्य धर्मस्य ब्रह्मवादिनाम् ॥३५॥ अहमात्मान्तरो बाह्योऽनावृतः सर्वदेहिनाम्। यथा भूतानि भूतेषु बहिरन्तः स्वयं तथा ॥३६॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे पञ्चदशोऽध्यायः॥१५॥

॥ षोडशोऽध्यायः - १५ ॥

उद्धव उवाच त्वं ब्रह्म परमं साक्षादनाद्यन्तमपावृतम्। सर्वेषामपि भावानां त्राणस्थित्यप्ययोद्भवः ॥१॥ उच्चावचेषु भूतेषु दुर्ज्ञेयमकृतात्मभिः। उपासते त्वां भगवन् याथातथ्येन ब्राह्मणाः ॥२॥ येषु येषु च भावेषु भक्त्या त्वां परमर्षयः। उपासीनाः प्रपद्यन्ते संसिद्धिं तद्वदस्व मे ॥३॥ गूढश्चरसि भूतात्मा भूतानां भूतभावन। न त्वां पश्यन्ति भूतानि पश्यन्तं मोहितानि ते॥४॥ याः काश्च भूमौ दिवि वै रसायां विभूतयो दिक्षु महाविभूते। ता मह्यमाख्याह्यनुभावितास्ते नमामि ते तीर्थपदाङ्घ्रिपद्मम् ॥५॥ श्रीभगवानुवाच एवमेतदहं पृष्टः प्रश्नं प्रश्नविदां वर। युयुत्सुना विनशने सपत्नैरर्जुनेन वै ॥६॥ ज्ञात्वा ज्ञातिवधं गर्ह्यमधर्मं राज्यहेतुकम्। ततो निवृत्तो हन्ताहं हतोऽयमिति लौकिकः ॥७॥ स तदा पुरुषव्याघ्रो युक्त्या मे प्रतिबोधितः। अभ्यभाषत मामेवं यथा त्वं रणमूर्धनि ॥८॥ अहमात्मोद्धवामीषां भूतानां सुहृदीश्वरः। अहं सर्वाणि भूतानि तेषां स्थित्युद्भवाप्ययः ॥९॥ अहं गतिर्गतिमतां कालः कलयतामहम्। गुनाणां चाप्यहं साम्यं गुणिन्यौत्पत्तिको गुणः॥१०॥ गुणिनामप्यहं सूत्रं महतां च महानहम्। सूक्ष्माणामप्यहं जीवो दुर्जयानामहं मनः ॥११॥ हिरण्यगर्भो वेदानां मन्त्राणां प्रणवस्त्रिवृत्। अक्षराणामकारोऽस्मि पदानि छन्दसामहम् ॥१२॥ इन्द्रोऽहं सर्वदेवानां वसूनामस्मि हव्यवाट्। आदित्यानामहं विष्णू रुद्राणां नीललोहितः ॥१३॥ ब्रह्मर्षीणां भृगुरहं राजर्षीणामहं मनुः। देवर्षीणां नारदोऽहं हविर्धान्यस्मि धेनुषु ॥१४॥ सिद्धेश्वराणां कपिलः सुपर्णोऽहं पतत्रिणाम्। प्रजापतीनां दक्षोऽहं पितॄणामहमर्यमा ॥१५॥ मां विद्ध्युद्धव दैत्यानां प्रह्लादमसुरेश्वरम्। सोमं नक्षत्रौषधीनां धनेशं यक्षरक्षसाम् ॥१६॥ ऐरावतं गजेन्द्राणां यादसां वरुणं प्रभुम्। तपतां द्युमतां सूर्यं मनुष्याणां च भूपतिम् ॥१७॥ उच्चैःश्रवास्तुरङ्गाणां धातूनामस्मि काञ्चनम्। यमः संयमतां चाहं सर्पाणामस्मि वासुकिः ॥१८॥ नागेन्द्राणामनन्तोऽहं मृगेन्द्रः शृङ्गिदंष्ट्रिणाम्। आश्रमाणामहं तुर्यो वर्णानां प्रथमोऽनघ ॥१९॥ तीर्थानां स्रोतसां गङ्गा समुद्रः सरसामहम्। आयुधानां धनुरहं त्रिपुरघ्नो धनुष्मताम् ॥२०॥ धिष्ण्यानामस्म्यहं मेरुर्गहनानां हिमालयः। वनस्पतीनामश्वत्थ ओषधीनामहं यवः ॥२१॥ पुरोधसां वसिष्ठोऽहं ब्रह्मिष्ठानां बृहस्पतिः। स्कन्दोऽहं सर्वसेनान्यामग्रण्यां भगवानजः ॥२२॥ यज्ञानां ब्रह्मयज्ञोऽहं व्रतानामविहिंसनम्। वाय्वग्न्यर्काम्बुवागात्मा शुचीनामप्यहं शुचिः ॥२३॥ योगानामात्मसंरोधो मन्त्रोऽस्मि विजिगीषताम्। आन्वीक्षिकी कौशलानां विकल्पः ख्यातिवादिनाम्॥२४॥ स्त्रीणां तु शतरूपाहं पुंसां स्वायम्भुवो मनुः। नारायणो मुनीनां च कुमारो ब्रह्मचारिणाम् ॥२५॥ धर्माणामस्मि सन्न्यासः क्षेमाणामबहिर्मतिः। गुह्यानां सूनृतं मौनं मिथुनानामजस्त्वहम् ॥२६॥ संवत्सरोऽस्म्यनिमिषां ऋतूनां मधुमाधवौ। मासानां मार्गशीर्षोऽहं नक्षत्राणां तथाभिजित् ॥२७॥ अहं युगानां च कृतं धीराणां देवलोऽसितः। द्वैपायनोऽस्मि व्यासानां कवीनां काव्य आत्मवान् ॥२८॥ वासुदेवो भगवतां त्वं तु भागवतेष्वहम्। किम्पुरुषानां हनुमान् विद्याध्राणां सुदर्शनः ॥२९॥ रत्नानां पद्मरागोऽस्मि पद्मकोशः सुपेशसाम्। कुशोऽस्मि दर्भजातीनां गव्यमाज्यं हविःष्वहम्॥३०॥ व्यवसायिनामहं लक्ष्मीः कितवानां छलग्रहः। तितिक्षास्मि तितिक्षूणां सत्त्वं सत्त्ववतामहम् ॥३१॥ ओजः सहो बलवतां कर्माहं विद्धि सात्वताम्। सात्वतां नवमूर्तीनामादिमूर्तिरहं परा ॥३२॥ विश्वावसुः पूर्वचित्तिर्गन्धर्वाप्सरसामहम्। भूधराणामहं स्थैर्यं गन्धमात्रमहं भुवः ॥३३॥ अपां रसश्च परमस्तेजिष्ठानां विभावसुः। प्रभा सूर्येन्दुताराणां शब्दोऽहं नभसः परः ॥३४॥ ब्रह्मण्यानां बलिरहं वीराणामहमर्जुनः। भूतानां स्थितिरुत्पत्तिरहं वै प्रतिसङ्क्रमः ॥३५॥ गत्युक्त्युत्सर्गोपादानमानन्दस्पर्शलक्षणम्। आस्वादश्रुत्यवघ्राणमहं सर्वेन्द्रियेन्द्रियम् ॥३६॥ पृथिवी वायुराकाश आपो ज्योतिरहं महान्। विकारः पुरुषोऽव्यक्तं रजः सत्त्वं तमः परम्। अहमेतत्प्रसङ्ख्यानं ज्ञानं तत्त्वविनिश्चयः ॥३७॥ मयेश्वरेण जीवेन गुणेन गुणिना विना। सर्वात्मनापि सर्वेण न भावो विद्यते क्वचित् ॥३८॥ सङ्ख्यानं परमाणूनां कालेन क्रियते मया। न तथा मे विभूतीनां सृजतोऽण्डानि कोटिशः॥३९॥ तेजः श्रीः कीर्तिरैश्वर्यं ह्रीस्त्यागः सौभगं भगः। वीर्यं तितिक्षा विज्ञानं यत्र यत्र स मेंऽशकः ॥४०॥ एतास्ते कीर्तिताः सर्वाः सङ्क्षेपेण विभूतयः। मनोविकारा एवैते यथा वाचाभिधीयते ॥४१॥ वाचं यच्छ मनो यच्छ प्राणान् यच्छेद्रियाणि च। आत्मानमात्मना यच्छ न भूयः कल्पसेऽध्वने॥४२॥ यो वै वाङ्मनसी संयगसंयच्छन् धिया यतिः। तस्य व्रतं तपो दानं स्रवत्यामघटाम्बुवत् ॥४३॥ तस्माद्वचो मनः प्राणान् नियच्छेन्मत्परायणः। मद्भक्तियुक्तया बुद्ध्या ततः परिसमाप्यते ॥४४॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे षोडशोऽध्यायः॥१६॥

॥ सप्तदशोऽध्यायः - १७ ॥

उद्धव उवाच यस्त्वयाभिहितः पूर्वं धर्मस्त्वद्भक्तिलक्षणः। वर्णाश्रमाचारवतां सर्वेषां द्विपदामपि ॥१॥ यथानुष्ठीयमानेन त्वयि भक्तिर्नृणां भवेत्। स्वधर्मेणारविन्दाक्ष तत्समाख्यातुमर्हसि ॥२॥ पुरा किल महाबाहो धर्मं परमकं प्रभो। यत्तेन हंसरूपेण ब्रह्मणेऽभ्यात्थ माधव ॥३॥ स इदानीं सुमहता कालेनामित्रकर्शन। न प्रायो भविता मर्त्यलोके प्रागनुशासितः ॥४॥ वक्ता कर्ताविता नान्यो धर्मस्याच्युत ते भुवि। सभायामपि वैरिञ्च्यां यत्र मूर्तिधराः कलाः ॥५॥ कर्त्रावित्रा प्रवक्त्रा च भवता मधुसूदन। त्यक्ते महीतले देव विनष्टं कः प्रवक्ष्यति ॥६॥ तत्त्वं नः सर्वधर्मज्ञ धर्मस्त्वद्भक्तिलक्षणः। यथा यस्य विधीयेत तथा वर्णय मे प्रभो ॥७॥ श्रीशुक उवाच इत्थं स्वभृत्यमुख्येन पृष्टः स भगवान् हरिः। प्रीतः क्षेमाय मर्त्यानां धर्मानाह सनातनान् ॥८॥ श्रीभगवानुवाच धर्म्य एष तव प्रश्नो नैःश्रेयसकरो नृणाम्। वर्णाश्रमाचारवतां तमुद्धव निबोध मे ॥९॥ आदौ कृतयुगे वर्णो नृणां हंस इति स्मृतः। कृतकृत्याः प्रजा जात्या तस्मात्कृतयुगं विदुः॥१०॥ वेदः प्रणव एवाग्रे धर्मोऽहं वृषरूपधृक्। उपासते तपोनिष्ठा हंसं मां मुक्तकिल्बिषाः ॥११॥ त्रेतामुखे महाभाग प्राणान् मे हृदयात्त्रयी। विद्या प्रादुरभूत्तस्या अहमासं त्रिवृन्मखः ॥१२॥ विप्रक्षत्रियविट् शूद्रा मुखबाहूरुपादजाः। वैराजात्पुरुषाज्जाता य आत्माचारलक्षणाः ॥१३॥ गृहाश्रमो जघनतो ब्रह्मचर्यं हृदो मम। वक्षःस्थलाद्वने वासः न्यासःशीर्षणि संस्थितः॥१४॥ वर्णानामाश्रमाणां च जन्मभूम्यनुसारिणीः। आसन् प्रकृतयो नॄणां नीचैर्नीचोत्तमोत्तमाः ॥१५॥ शमो दमस्तपः शौचं सन्तोषः क्षान्तिरार्जवम्। मद्भक्तिश्च दया सत्यं ब्रह्मप्रकृतयस्त्विमाः ॥१६॥ तेजो बलं धृतिः शौर्यं तितिक्षौदार्यमुद्यमः। स्थैर्यं ब्रह्मण्यमैश्वर्यं क्षत्रप्रकृतयस्त्विमाः ॥१७॥ आस्तिक्यं दाननिष्ठा च अदम्भो ब्रह्मसेवनम्। अतुष्टिरर्थोपचयैर्वैश्यप्रकृतयस्त्विमाः ॥१८॥ शुश्रूषणं द्विजगवां देवानां चाप्यमायया। तत्र लब्धेन सन्तोषः शूद्रप्रकृतयस्त्विमाः ॥१९॥ अशौचमनृतं स्तेयं नास्तिक्यं शुष्कविग्रहः। कामः क्रोधश्च तर्षश्च स्वभावोऽन्तेवसायिनाम्॥२०॥ अहिंसा सत्यमस्तेयमकामक्रोधलोभता। भूतप्रियहितेहा च धर्मोऽयं सार्ववर्णिकः ॥२१॥ द्वितीयं प्राप्यानुपूर्व्याज्जन्मोपनयनं द्विजः। वसन् गुरुकुले दान्तो ब्रह्माधीयीत चाहुतः ॥२२॥ मेखलाजिनदण्डाक्षब्रह्मसूत्रकमण्डलून्। जटिलोऽधौतदद्वासोऽरक्तपीठः कुशान् दधत् ॥२३॥ स्नानभोजनहोमेषु जपोच्चारे च वाग्यतः। नच्छिन्द्यान्नखरोमाणि कक्षोपस्थगतान्यपि ॥२४॥ रेतो नावकिरेज्जातु ब्रह्मव्रतधरः स्वयम्। अवकीर्णेऽवगाह्याप्सु यतासुस्त्रिपदीं जपेत् ॥२५॥ अग्न्यर्काचार्यगोविप्रगुरुवृद्धसुराञ्शुचिः। समाहित उपासीत सन्ध्ये च यतवाग्जपन् ॥२६॥ आचार्यं मां विजानीयान्नावन्मन्येत कर्हिचित्। न मर्त्यबुद्ध्यासूयेत सर्वदेवमयो गुरुः ॥२७॥ सायं प्रातरुपानीय भैक्ष्यं तस्मै निवेदयेत्। यच्चान्यदप्यनुज्ञातमुपयुञ्जीत संयतः ॥२८॥ शुश्रूषमाण आचार्यं सदोपासीत नीचवत्। यानशय्यासनस्थानैर्नातिदूरे कृताञ्जलिः ॥२९॥ एवंवृत्तो गुरुकुले वसेद्भोगविवर्जितः। विद्या समाप्यते यावद्बिभ्रद्व्रतमखण्डितम् ॥३०॥ यद्यसौ छन्दसां लोकमारोक्ष्यन् ब्रह्मविष्टपम्। गुरवे विन्यसेद्देहं स्वाध्यायार्थं बृहद्व्रतः ॥३१॥ अग्नौ गुरावात्मनि च सर्वभूतेषु मां परम्। अपृथग्धीरुपासीत ब्रह्मवर्चस्व्यकल्मषः ॥३२॥ स्त्रीणां निरीक्षणस्पर्शसंलापक्ष्वेलनादिकम्। प्राणिनो मिथुनीभूतानगृहस्थोऽग्रतस्त्यजेत् ॥३३॥ शौचमाचमनं स्नानं सन्ध्योपासनमार्जवम्। तीर्थसेवा जपोऽस्पृश्याभक्ष्यासम्भाष्यवर्जनम् ॥३४॥ सर्वाश्रमप्रयुक्तोऽयं नियमः कुलनन्दन। मद्भावः सर्वभूतेषु मनोवाक्कायसंयमः ॥३५॥ एवं बृहद्व्रतधरो ब्राह्मणोऽग्निरिव ज्वलन्। मद्भक्तस्तीव्रतपसा दग्धकर्माशयोऽमलः ॥३६॥ अथानन्तरमावेक्ष्यन् यथा जिज्ञासितागमः। गुरवे दक्षिणां दत्त्वा स्नायाद्गुर्वनुमोदितः ॥३७॥ गृहं वनं वोपविशेत्प्रव्रजेद्वा द्विजोत्तमः। आश्रमादाश्रमं गच्छेन्नान्यथा मत्परश्चरेत् ॥३८॥ गृहार्थी सदृशीं भार्यामुद्वहेदजुगुप्सिताम्। यवीयसीं तु वयसा तां सवर्णामनुक्रमात् ॥३९॥ इज्याध्ययनदानानि सर्वेषां च द्विजन्मनाम्। प्रतिग्रहोऽध्यापनं च ब्राह्मणस्यैव याजनम् ॥४०॥ प्रतिग्रहं मन्यमानस्तपस्तेजोयशोनुदम्। अन्याभ्यामेव जीवेत शिलैर्वा दोषदृक् तयोः ॥४१॥ ब्राह्मणस्य हि देहोऽयं क्षुद्रकामाय नेष्यते। कृच्छ्राय तपसे चेह प्रेत्यानन्तसुखाय च ॥४२॥ शिलोञ्छवृत्त्या परितुष्टचित्तो धर्मं महान्तं विरजं जुषाणः। मय्यर्पितात्मा गृह एव तिष्ठन् नातिप्रसक्तः समुपैति शान्तिम् ॥४३॥ समुद्धरन्ति ये विप्रं सीदन्तं मत्परायणम्। तानुद्धरिष्ये न चिरादापद्भ्यो नौरिवार्णवात् ॥४४॥ सर्वाः समुद्धरेद्राजा पितेव व्यसनात्प्रजाः। आत्मानमात्मना धीरो यथा गजपतिर्गजान् ॥४५॥ एवंविधो नरपतिर्विमानेनार्कवर्चसा। विधूयेहाशुभं कृत्स्नमिन्द्रेण सह मोदते ॥४६॥ सीदन् विप्रो वणिग्वृत्त्या पण्यैरेवापदं तरेत्। खड्गेन वाऽऽपदाक्रान्तो न श्ववृत्त्या कथञ्चन ॥४७॥ वैश्यवृत्त्या तु राजन्यो जीवेन्मृगययापदि। चरेद्वा विप्ररूपेण न श्ववृत्त्या कथञ्चन ॥४८॥ शूद्रवृत्तिं भजेद्वैश्यः शूद्रः कारुकटक्रियाम्। कृच्छ्रान्मुक्तो न गर्ह्येण वृत्तिं लिप्सेत कर्मणा ॥४९॥ वेदाध्यायस्वधास्वाहा बल्यन्नाद्यैर्यथोदयम्। देवर्षिपितृभूतानि मद्रूपाण्यन्वहं यजेत् ॥५०॥ यदृच्छयोपपन्नेन शुक्लेनोपार्जितेन वा। धनेनापीडयन् भृत्यान् न्यायेनैवाहरेत्क्रतून् ॥५१॥ कुटुम्बेषु न सज्जेत न प्रमाद्येत्कुटुम्ब्यपि। विपश्चिन्नश्वरं पश्येददृष्टमपि दृष्टवत् ॥५२॥ पुत्रदाराप्तबन्धूनां सङ्गमः पान्थसङ्गमः। अनुदेहं वियन्त्येते स्वप्नो निद्रानुगो यथा ॥५३॥ इत्थं परिमृशन् मुक्तो गृहेष्वतिथिवद्वसन्। न गृहैरनुबध्येत निर्ममो निरहङ्कृतः ॥५४॥ कर्मभिर्गृहमेधीयैरिष्ट्वा मामेव भक्तिमान्। तिष्ठेद्वनं वोपविशेत्प्रजावान् वा परिव्रजेत् ॥५५॥ यस्त्वासक्तमतिर्गेहे पुत्रवित्तैषणातुरः। स्त्रैणः कृपणधीर्मूढो ममाहमिति बध्यते ॥५६॥ अहो मे पितरौ वृद्धौ भार्या बालात्मजात्मजाः। अनाथा मामृते दीनाः कथं जीवन्ति दुःखिताः॥५७॥ एवं गृहाशयाक्षिप्तहृदयो मूढधीरयम्। अतृप्तस्ताननुध्यायन् मृतोऽन्धं विशते तमः ॥५८॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे सप्तदशोऽध्यायः॥१७॥

॥ अष्टादशोऽध्यायः - १८ ॥

श्रीभगवानुवाच वनं विविक्षुः पुत्रेषु भार्यां न्यस्य सहैव वा। वन एव वसेच्छान्तस्तृतीयं भागमायुषः ॥१॥ कन्दमूलफलैर्वन्यैर्मेध्यैर्वृत्तिं प्रकल्पयेत्। वसीत वल्कलं वासस्तृणपर्णाजिनानि च ॥२॥ केशरोमनखश्मश्रुमलानि बिभृयाद्दतः। न धावेदप्सु मज्जेत त्रिकालं स्थण्डिलेशयः ॥३॥ ग्रीष्मे तप्येत पञ्चाग्नीन् वर्षास्वासारषाड्जले। आकण्ठमग्नः शिशिर एवं वृत्तस्तपश्चरेत् ॥४॥ अग्निपक्वं समश्नीयात्कालपक्वमथापि वा। उलूखलाश्मकुट्टो वा दन्तोलूखल एव वा ॥५॥ स्वयं सञ्चिनुयात्सर्वमात्मनो वृत्तिकारणम्। देशकालबलाभिज्ञो नाददीतान्यदाहृतम् ॥६॥ वन्यैश्चरुपुरोडाशैर्निर्वपेत्कालचोदितान्। न तु श्रौतेन पशुना मां यजेत वनाश्रमी ॥७॥ अग्निहोत्रं च दर्शश्च पूर्णमासश्च पूर्ववत्। चातुर्मास्यानि च मुनेराम्नातानि च नैगमैः ॥८॥ एवं चीर्णेन तपसा मुनिर्धमनिसन्ततः। मां तपोमयमाराध्य ऋषिलोकादुपैति माम् ॥९॥ यस्त्वेतत्कृच्छ्रतश्चीर्णं तपो निःश्रेयसं महत्। कामायाल्पीयसे युञ्ज्याद्बालिशः कोऽपरस्ततः॥१०॥ यदासौ नियमेऽकल्पो जरया जातवेपथुः। आत्मन्यग्नीन् समारोप्य मच्चित्तोऽग्निं समाविशेत् ॥११॥ यदा कर्मविपाकेषु लोकेषु निरयात्मसु। विरागो जायते सम्यङ् न्यस्ताग्निः प्रव्रजेत्ततः॥१२॥ इष्ट्वा यथोपदेशं मां दत्त्वा सर्वस्वमृत्विजे। अग्नीन् स्वप्राण आवेश्य निरपेक्षः परिव्रजेत् ॥१३॥ विप्रस्य वै सन्न्यसतो देवा दारादिरूपिणः। विघ्नान् कुर्वन्त्ययं ह्यस्मानाक्रम्य समियात्परम्॥१४॥ बिभृयाच्चेन्मुनिर्वासः कौपीनाच्छादनं परम्। त्यक्तं न दण्डपात्राभ्यामन्यत्किञ्चिदनापदि ॥१५॥ दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं पिबेज्जलम्। सत्यपूतां वदेद्वाचं मनःपूतं समाचरेत् ॥१६॥ मौनानीहानिलायामा दण्डा वाग्देहचेतसाम्। न ह्येते यस्य सन्त्यङ्ग वेणुभिर्न भवेद्यतिः ॥१७॥ भिक्षां चतुर्षु वर्णेषु विगर्ह्यान् वर्जयंश्चरेत्। सप्तागारानसङ्कॢप्तांस्तुष्येल्लब्धेन तावता ॥१८॥ बहिर्जलाशयं गत्वा तत्रोपस्पृश्य वाग्यतः। विभज्य पावितं शेषं भुञ्जीताशेषमाहृतम् ॥१९॥ एकश्चरेन्महीमेतां निःसङ्गः संयतेन्द्रियः। आत्मक्रीड आत्मरत आत्मवान् समदर्शनः ॥२०॥ विविक्तक्षेमशरणो मद्भावविमलाशयः। आत्मानं चिन्तयेदेकमभेदेन मया मुनिः ॥२१॥ अन्वीक्षेतात्मनो बन्धं मोक्षं च ज्ञाननिष्ठया। बन्ध इन्द्रियविक्षेपो मोक्ष एषां च संयमः ॥२२॥ तस्मान्नियम्य षड् वर्गं मद्भावेन चरेन्मुनिः। विरक्तः क्षुद्रकामेभ्यो लब्ध्वात्मनि सुखं महत् ॥२३॥ पुरग्रामव्रजान् सार्थान् भिक्षार्थं प्रविशंश्चरेत्। पुण्यदेशसरिच्छैलवनाश्रमवतीं महीम् ॥२४॥ वानप्रस्थाश्रमपदेष्वभीक्ष्णं भैक्ष्यमाचरेत्। संसिध्यत्याश्वसम्मोहः शुद्धसत्त्वः शिलान्धसा॥२५॥ नैतद्वस्तुतया पश्येद्दृश्यमानं विनश्यति। असक्तचित्तो विरमेदिहामुत्र चिकीर्षितात् ॥२६॥ यदेतदात्मनि जगन्मनोवाक्प्राणसंहतम्। सर्वं मायेति तर्केण स्वस्थस्त्यक्त्वा न तत्स्मरेत्॥२७॥ ज्ञाननिष्ठो विरक्तो वा मद्भक्तो वानपेक्षकः। सलिङ्गानाश्रमांस्त्यक्त्वा चरेदविधिगोचरः ॥२८॥ बुधो बालकवत्क्रीडेत्कुशलो जडवच्चरेत्। वदेदुन्मत्तवद्विद्वान् गोचर्यां नैगमश्चरेत् ॥२९॥ वेदवादरतो न स्यान्न पाखण्डी न हैतुकः। शुष्कवादविवादे न कञ्चित्पक्षं समाश्रयेत् ॥३०॥ नोद्विजेत जनाद्धीरो जनं चोद्वेजयेन्न तु। अतिवादांस्तितिक्षेत नावमन्येत कञ्चन। देहमुद्दिश्य पशुवद्वैरं कुर्यान्न केनचित् ॥३१॥ एक एव परो ह्यात्मा भूतेष्वात्मन्यवस्थितः। यथेन्दुरुदपात्रेषु भूतान्येकात्मकानि च ॥३२॥ अलब्ध्वा न विषीदेत काले कालेऽशनं क्वचित्। लब्ध्वा न हृष्येद्धृतिमानुभयं दैवतन्त्रितम् ॥३३॥ आहारार्थं समीहेत युक्तं तत्प्राणधारणम्। तत्त्वं विमृश्यते तेन तद्विज्ञाय विमुच्यते ॥३४॥ यदृच्छयोपपन्नान्नमद्याच्छ्रेष्ठमुतापरम्। तथा वासस्तथा शय्यां प्राप्तं प्राप्तं भजेन्मुनिः ॥३५॥ शौचमाचमनं स्नानं न तु चोदनया चरेत्। अन्यांश्च नियमाञ्ज्ञानी यथाहं लीलयेश्वरः ॥३६॥ न हि तस्य विकल्पाख्या या च मद्वीक्षया हता। आदेहान्तात्क्वचित्ख्यातिस्ततः सम्पद्यते मया॥३७॥ दुःखोदर्केषु कामेषु जातनिर्वेद आत्मवान्। अजिज्ञासितमद्धर्मो गुरुं मुनिमुपव्रजेत् ॥३८॥ तावत्परिचरेद्भक्तः श्रद्धावाननसूयकः। यावद्ब्रह्म विजानीयान्मामेव गुरुमादृतः ॥३९॥ यस्त्वसंयतषड् वर्गः प्रचण्डेन्द्रियसारथिः। ज्ञानवैराग्यरहितस्त्रिदण्डमुपजीवति ॥४०॥ सुरानात्मानमात्मस्थं निह्नुते मां च धर्महा। अविपक्वकषायोऽस्मादमुष्माच्च विहीयते ॥४१॥ भिक्षोर्धर्मः शमोऽहिंसा तप ईक्षा वनौकसः। गृहिणो भूतरक्षेज्या द्विजस्याचार्यसेवनम् ॥४२॥ ब्रह्मचर्यं तपः शौचं सन्तोषो भूतसौहृदम्। गृहस्थस्याप्यृतौ गन्तुः सर्वेषां मदुपासनम् ॥४३॥ इति मां यः स्वधर्मेण भजेन्नित्यमनन्यभाक्। सर्वभूतेषु मद्भावो मद्भक्तिं विन्दते दृढाम् ॥४४॥ भक्त्योद्धवानपायिन्या सर्वलोकमहेश्वरम्। सर्वोत्पत्त्यप्ययं ब्रह्म कारणं मोपयाति सः ॥४५॥ इति स्वधर्मनिर्णिक्तसत्त्वो निर्ज्ञातमद्गतिः। ज्ञानविज्ञानसम्पन्नो न चिरात्समुपैति माम् ॥४६॥ वर्णाश्रमवतां धर्म एष आचारलक्षणः। स एव मद्भक्तियुतो निःश्रेयसकरः परः ॥४७॥ एतत्तेऽभिहितं साधो भवान् पृच्छति यच्च माम्। यथा स्वधर्मसंयुक्तो भक्तो मां समियात्परम् ॥४८॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे अष्टादशोऽध्यायः॥१८॥

॥ एकोनविंशोऽध्यायः - १९ ॥

श्रीभगवानुवाच यो विद्याश्रुतसम्पन्नः आत्मवान् नानुमानिकः। मायामात्रमिदं ज्ञात्वा ज्ञानं च मयि सन्न्यसेत् ॥१॥ ज्ञानिनस्त्वहमेवेष्टः स्वार्थो हेतुश्च सम्मतः। स्वर्गश्चैवापवर्गश्च नान्योऽर्थो मदृते प्रियः ॥२॥ ज्ञानविज्ञानसंसिद्धाः पदं श्रेष्ठं विदुर्मम। ज्ञानी प्रियतमोऽतो मे ज्ञानेनासौ बिभर्ति माम्॥३॥ तपस्तीर्थं जपो दानं पवित्राणीतराणि च। नालं कुर्वन्ति तां सिद्धिं या ज्ञानकलया कृता ॥४॥ तस्माज्ज्ञानेन सहितं ज्ञात्वा स्वात्मानमुद्धव। ज्ञानविज्ञानसम्पन्नो भज मां भक्तिभावतः ॥५॥ ज्ञानविज्ञानयज्ञेन मामिष्ट्वाऽऽत्मानमात्मनि। सर्वयज्ञपतिं मां वै संसिद्धिं मुनयोऽगमन् ॥६॥ त्वय्युद्धवाश्रयति यस्त्रिविधो विकारो मायान्तरापतति नाद्यपवर्गयोर्यत्। जन्मादयोऽस्य यदमी तव तस्य किं स्यु- राद्यन्तयोर्यदसतोऽस्ति तदेव मध्ये ॥७॥ उद्धव उवाच ज्ञानं विशुद्धं विपुलं यथैतद्वैराग्यविज्ञानयुतं पुराणम्। आख्याहि विश्वेश्वर विश्वमूर्ते त्वद्भक्तियोगं च महद्विमृग्यम् ॥८॥ तापत्रयेणाभिहतस्य घोरे सन्तप्यमानस्य भवाध्वनीश। पश्यामि नान्यच्छरणं तवाङ्घ्रिद्वन्द्वातपत्रादमृताभिवर्षात् ॥९॥ दष्टं जनं सम्पतितं बिलेऽस्मिन् कालाहिना क्षुद्रसुखोरुतर्षम्। समुद्धरैनं कृपयापवर्ग्यै- र्वचोभिरासिञ्च महानुभाव ॥१०॥ श्रीभगवानुवाच इत्थमेतत्पुरा राजा भीष्मं धर्मभृतां वरम्। अजातशत्रुः पप्रच्छ सर्वेषां नोऽनुशृण्वताम् ॥११॥ निवृत्ते भारते युद्धे सुहृन्निधनविह्वलः। श्रुत्वा धर्मान् बहून् पश्चान्मोक्षधर्मानपृच्छत ॥१२॥ तानहं तेऽभिधास्यामि देवव्रतमुखाच्छ्रुतान्। ज्ञानवैराग्यविज्ञानश्रद्धाभक्त्युपबृंहितान् ॥१३॥ नवैकादशपञ्चत्रीन् भावान् भूतेषु येन वै। ईक्षेताथैकमप्येषु तज्ज्ञानं मम निश्चितम् ॥१४॥ एतदेव हि विज्ञानं न तथैकेन येन यत्। स्थित्युत्पत्त्यप्ययान् पश्येद्भावानां त्रिगुणात्मनाम्॥१५॥ आदावन्ते च मध्ये च सृज्यात्सृज्यं यदन्वियात्। पुनस्तत्प्रतिसङ्क्रामे यच्छिष्येत तदेव सत् ॥१६॥ श्रुतिः प्रत्यक्षमैतिह्यमनुमानं चतुष्टयम्। प्रमाणेष्वनवस्थानाद्विकल्पात्स विरज्यते ॥१७॥ कर्मणां परिणामित्वादाविरिञ्चादमङ्गलम्। विपश्चिन्नश्वरं पश्येददृष्टमपि दृष्टवत् ॥१८॥ भक्तियोगः पुरैवोक्तः प्रीयमाणाय तेऽनघ। पुनश्च कथयिष्यामि मद्भक्तेः कारणं परं ॥१९॥ श्रद्धामृतकथायां मे शश्वन्मदनुकीर्तनम्। परिनिष्ठा च पूजायां स्तुतिभिः स्तवनं मम ॥२०॥ आदरः परिचर्यायां सर्वाङ्गैरभिवन्दनम्। मद्भक्तपूजाभ्यधिका सर्वभूतेषु मन्मतिः ॥२१॥ मदर्थेष्वङ्ग चेष्टा च वचसा मद्गुणेरणम्। मय्यर्पणं च मनसः सर्वकामविवर्जनम् ॥२२॥ मदर्थेऽर्थपरित्यागो भोगस्य च सुखस्य च। इष्टं दत्तं हुतं जप्तं मदर्थं यद्व्रतं तपः ॥२३॥ एवं धर्मैर्मनुष्याणामुद्धवात्मनिवेदिनाम्। मयि सञ्जायते भक्तिः कोऽन्योऽर्थोऽस्यावशिष्यते ॥२४॥ यदात्मन्यर्पितं चित्तं शान्तं सत्त्वोपबृंहितम्। धर्मं ज्ञानं सवैराग्यमैश्वर्यं चाभिपद्यते ॥२५॥ यदर्पितं तद्विकल्पे इन्द्रियैः परिधावति। रजस्वलं चासन्निष्ठं चित्तं विद्धि विपर्ययम् ॥२६॥ धर्मो मद्भक्तिकृत्प्रोक्तो ज्ञानं चैकात्म्यदर्शनम्। गुणेष्वसङ्गो वैराग्यमैश्वर्यं चाणिमादयः ॥२७॥ उद्धव उवाच यमः कति विधः प्रोक्तो नियमो वारिकर्शन । कः शमः को दमः कृष्ण का तितिक्षा धृतिः प्रभो ॥२८॥ किं दानं किं तपः शौर्यं किं सत्यमृतमुच्यते । कस्त्यागः किं धनं चेष्टं को यज्ञः का च दक्षिणा ॥२९॥ पुंसः किंस्विद्बलं श्रीमन् भगो लाभश्च केशव। का विद्या ह्रीः परा का श्रीः किं सुखं दुःखमेव च ॥३०॥ कः पण्डितः कश्च मूर्खः कः पन्था उत्पथ? कः । कः स्वर्गो नरकः कः स्वित्को बन्धुरुत किं गृहम् ॥३१॥ क आढ्यः को दरिद्रो वा कृपणः कः क ईश्वरः । एतान् प्रश्नान् मम ब्रूहि विपरीतां? सत्पते ॥३२॥ श्रीभगवानुवाच अहिंसा सत्यमस्तेयमसङ्गो ह्रीरसञ्चयः। आस्तिक्यं ब्रह्मचर्यं च मौनं स्थैर्यं क्षमाभयम् ॥३३॥ शौचं जपस्तपो होमः श्रद्धातिथ्यं मदर्चनम्। तीर्थाटनं परार्थेहा तुष्टिराचार्यसेवनम् ॥३४॥ एते यमाः सनियमा उभयोर्द्वादश स्मृताः। पुंसामुपासितास्तात यथाकामं दुहन्ति हि ॥३५॥ शमो मन्निष्ठता बुद्धेर्दम इन्द्रियसंयमः। तितिक्षा दुःखसम्मर्षो जिह्वोपस्थजयो धृतिः ॥३६॥ दण्डन्यासः परं दानं कामत्यागस्तपः स्मृतम्। स्वभावविजयः शौर्यं सत्यं च समदर्शनम् ॥३७॥ ऋतं च सूनृता वाणी कविभिः परिकीर्तिता। कर्मस्वसङ्गमः शौचं त्यागः सन्न्यास उच्यते ॥३८॥ धर्म इष्टं धनं नॄणां यज्ञोऽहं भगवत्तमः। दक्षिणा ज्ञानसन्देशः प्राणायामः परं बलम् ॥३९॥ भगो म ऐश्वरो भावो लाभो मद्भक्तिरुत्तमः। विद्याऽऽत्मनि भिदाबाधो जुगुप्सा ह्रीरकर्मसु ॥४०॥ श्रीर्गुणा नैरपेक्ष्याद्याः सुखं दुःखसुखात्ययः। दुःखं कामसुखापेक्षा पण्डितो बन्धमोक्षवित् ॥४१॥ मूर्खो देहाद्यहं बुद्धिः पन्था मन्निगमः स्मृतः। उत्पथश्चित्तविक्षेपः स्वर्गः सत्त्वगुणोदयः ॥४२॥ नरक?म उन्नाहो बन्धुर्गुरुरहं सखे। गृहं शरीरं मानुष्यं गुणाढ्यो ह्याढ्य उच्यते ॥४३॥ दरिद्रो यस्त्वसन्तुष्टः कृपणो योऽजितेन्द्रियः। गुणेष्वसक्तधीरीशो गुणसङ्गो विपर्ययः ॥४४॥ एत उद्धव ते प्रश्नाः सर्वे साधु निरूपिताः। किं वर्णितेन बहुना लक्षणं गुणदोषयोः। गुणदोषदृशिर्दोषो गुणस्तूभयवर्जितः ॥४५॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे एकोनविंशोऽध्यायः॥१९॥

॥ विंशोऽध्यायः - २० ॥

उद्धव उवाच विधि? प्रतिषेध? निगमो हीश्वरस्य ते। अवेक्षतेऽरविन्दाक्ष गुणं दोषं च कर्मणाम् ॥१॥ वर्णाश्रमविकल्पं च प्रतिलोमानुलोमजम्। द्रव्यदेशवयःकालान् स्वर्गं नरकमेव च ॥२॥ गुणदोषभिदा दृष्टिमन्तरेण वच?व। निःश्रेयसं कथं नॄणां निषेधविधिलक्षणम् ॥३॥ पितृदेवमनुष्याणां वेद?क्षु?वेश्वर। श्रेयस्त्वनुपलब्धेऽर्थे साध्यसाधनयोरपि ॥४॥ गुणदोषभिदादृष्टिर्निगमात्ते न हि स्वतः। निगमेनापवाद? भिदाया इति ह भ्रमः ॥५॥ श्रीभगवानुवाच योगास्त्रयो मया प्रोक्ता नॄणां श्रेयोविधित्सया। ज्ञानं कर्म च भक्ति? नोपायोऽन्योऽस्ति कुत्रचित्॥६॥ निर्विण्णानां ज्ञानयोगो न्यासिनामिह कर्मसु। तेष्वनिर्विण्णचित्तानां कर्मयोगस्तु कामिनाम् ॥७॥ यदृच्छया मत्कथादौ जातश्रद्धस्तु यः पुमान्। न निर्विण्णो नातिसक्तो भक्तियोगोऽस्य सिद्धिदः॥८॥ तावत्कर्माणि कुर्वीत न निर्विद्येत यावता। मत्कथाश्रवणादौ वा श्रद्धा यावन्न जायते ॥९॥ स्वधर्मस्थो यजन् यज्ञैरनाशीः काम उद्धव। न याति स्वर्गनरकौ यद्यन्य? समाचरेत् ॥१०॥ अस्मिंल्लोके वर्तमानः स्वधर्मस्थोऽनघः शुचिः। ज्ञानं विशुद्धमाप्नोति मद्भक्तिं वा यदृच्छया ॥११॥ स्वर्गिणोऽप्येतमिच्छन्ति लोकं निरयिण?था। साधकं ज्ञानभक्तिभ्यामुभयं तदसाधकम् ॥१२॥ न नरः स्वर्गतिं काङ्क्षेन्नारकीं वा विचक्षणः। नेमं लोकं च काङ्क्षेत देहावेशात्प्रमाद्यति ॥१३॥ एतद्विद्वान् पुरा मृत्योरभवाय घटेत सः। अप्रमत्त इदं ज्ञात्वा मर्त्यमप्यर्थसिद्धिदम् ॥१४॥ छिद्यमानं यमैरेतैः कृतनीडं वनस्पतिम्। खगः स्वकेतमुत्सृज्य क्षेमं याति ह्यलम्पटः ॥१५॥ अहोरात्रैश्छिद्यमानं बुद्ध्वायुर्भयवेपथुः। मुक्तसङ्गः परं बुद्ध्वा निरीह उपशाम्यति ॥१६॥ नृदेहमाद्यं सुलभं सुदुर्लभं प्लवं सुकल्पं गुरुकर्णधारम्। मयानुकूलेन नभस्वतेरितं पुमान् भवाब्धिं न तरेत्स आत्महा ॥१७॥ यदारम्भेषु निर्विण्णो विरक्तः संयतेन्द्रियः। अभ्यासेनात्मनो योगी धारयेदचलं मनः ॥१८॥ धार्यमाणं मनो यर्हि भ्राम्यदाश्वनवस्थितम्। अतन्द्रितोऽनुरोधेन मार्गेणात्मवशं नयेत् ॥१९॥ मनोगतिं न विसृजेज्जितप्राणो जितेन्द्रियः। सत्त्वसम्पन्नया बुद्ध्या मन आत्मवशं नयेत् ॥२०॥ एष वै परमो योगो मनसः सङ्ग्रहः स्मृतः। हृदयज्ञत्वमन्विच्छन् दम्यस्येवार्वतो मुहुः ॥२१॥ साङ्ख्येन सर्वभावानां प्रतिलोमानुलोमतः। भवाप्ययावनुध्यायेन्मनो यावत्प्रसीदति ॥२२॥ निर्विण्णस्य विरक्तस्य पुरुषस्योक्तवेदिनः। मनस्त्यजति दौरात्म्यं चिन्तितस्यानुचिन्तया ॥२३॥ यमादिभिर्योगपथैरान्वीक्षिक्या च विद्यया। ममार्चोपासनाभिर्वा नान्यैर्योग्यं स्मरेन्मनः ॥२४॥ यदि कुर्यात्प्रमादेन योगी कर्म विगर्हितम्। योगेनैव दहेदंहो नान्यत्तत्र कदाचन ॥२५॥ स्वे स्वेऽधिकारे या निष्ठा स गुणः परिकीर्तितः। कर्मणां जात्यशुद्धानामनेन नियमः कृतः। गुणदोषविधानेन सङ्गानां त्याजनेच्छया ॥२६॥ जातश्रद्धो मत्कथासु निर्विण्णः सर्वकर्मसु। वेददुःखात्मकान् कामान् परित्यागेऽप्यनीश्वरः॥२७॥ ततो भजेत मां प्रीतः श्रद्धालुर्दृढनिश्चयः। जुषमाण? तान् कामान् दुःखोदर्कां? गर्हयन्॥२८॥ प्रोक्तेन भक्तियोगेन भजतो मासकृन्मुनेः। कामा हृदय्या नश्यन्ति सर्वे मयि हृदि स्थिते ॥२९॥ भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः। क्षीयन्ते चास्य कर्माणि मयि दृष्टेऽखिलात्मनि॥३०॥ तस्मान्मद्भक्तियुक्तस्य योगिनो वै मदात्मनः। न ज्ञानं न च वैराग्यं प्रायः श्रेयो भवेदिह ॥३१॥ यत्कर्मभिर्यत्तपसा ज्ञानवैराग्यत? यत्। योगेन दानधर्मेण श्रेयोभिरितरैरपि ॥३२॥ सर्वं मद्भक्तियोगेन मद्भक्तो लभतेऽञ्जसा। स्वर्गापवर्गं मद्धाम कथञ्चिद्यदि वाञ्छति ॥३३॥ न किञ्चित्साधवो धीरा भक्ता ह्येकान्तिनो मम। वाञ्छन्त्यपि मया दत्तं कैवल्यमपुनर्भवम् ॥३४॥ नैरपेक्ष्यं परं प्राहुर्निःश्रेयसमनल्पकम्। तस्मान्निराशिषो भक्तिर्निरपेक्षस्य मे भवेत् ॥३५॥ न मय्येकान्तभक्तानां गुणदोषोद्भवा गुणाः। साधूनां समचित्तानां बुद्धेः परमुपेयुषाम् ॥३६॥ एवमेतान् मयाऽऽदिष्टाननुतिष्ठन्ति मे पथः। क्षेमं विन्दन्ति मत्स्थानं यद्ब्रह्म परमं विदुः ॥३७॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे विंशोऽध्यायः॥२०॥

॥ एकविंशोऽध्यायः - २१ ॥

श्रीभगवानुवाच य एतान् मत्पथो हित्वा भक्तिज्ञानक्रियात्मकान्। क्षुद्रान् कामां?लैः प्राणैर्जुषन्तः संसरन्ति ते ॥१॥ स्वे स्वेऽधिकारे या निष्ठा स गुणः परिकीर्तितः। विपर्ययस्तु दोषः स्यादुभयोरेष निश्चयः ॥२॥ शुद्ध्यशुद्धी विधीयेते समानेष्वपि वस्तुषु। द्रव्यस्य विचिकित्सार्थं गुणदोषौ शुभाशुभौ ॥३॥ धर्मार्थं व्यवहारार्थं यात्रार्थमिति चानघ। दर्शितोऽयं मयाऽऽचारो धर्ममुद्वहतां धुरम् ॥४॥ भूम्यम्ब्वग्न्यनिलाकाशा भूतानां पञ्चधातवः। आब्रह्मस्थावरादीनां शारीरा आत्मसंयुताः ॥५॥ वेदेन नाम रूपाणि विषमाणि समेष्वपि। धातुषूद्धव कल्प्यन्त एतेषां स्वार्थसिद्धये ॥६॥ देशकालादिभावानां वस्तूनां मम सत्तम। गुणदोषौ विधीयेते नियमार्थं हि कर्मणाम् ॥७॥ अकृष्णसारो देशानामब्रह्मण्योऽशुचिर्भवेत्। कृष्णसारोऽप्यसौवीरकीकटासंस्कृतेरिणम् ॥८॥ कर्मण्यो गुणवान् कालो द्रव्यतः स्वत एव वा। यतो निवर्तते कर्म स दोषोऽकर्मकः स्मृतः ॥९॥ द्रव्यस्य शुद्ध्यशुद्धी च द्रव्येण वचनेन च। संस्कारेणाथ कालेन महत्वाल्पतयाथ वा ॥१०॥ शक्त्याशक्त्याथ वा बुद्ध्या समृद्ध्या च यदात्मने। अघं कुर्वन्ति हि यथा देशावस्थानुसारतः ॥११॥ धान्यदार्वस्थितन्तूनां रसतैजसचर्मणाम्। कालवाय्वग्निमृत्तोयैः पार्थिवानां युतायुतैः ॥१२॥ अमेध्यलिप्तं यद्येन गन्धलेपं व्यपोहति। भजते प्रकृतिं तस्य तच्छौचं तावदिष्यते ॥१३॥ स्नानदानतपोऽवस्था वीर्यसंस्कारकर्मभिः। मत्स्मृत्या चात्मनः शौचं शुद्धः कर्माचरेद्द्विजः॥१४॥ मन्त्रस्य च परिज्ञानं कर्मशुद्धिर्मदर्पणम्। धर्मः सम्पद्यते षड्भिरधर्मस्तु विपर्ययः ॥१५॥ क्वचिद्गुणोऽपि दोषः स्याद्दोषोऽपि विधिना गुणः। गुणदोषार्थनियम?द्भिदामेव बाधते ॥१६॥ समानकर्माचरणं पतितानां न पातकम्। औत्पत्तिको गुणः सङ्गो न शयानः पतत्यधः ॥१७॥ यतो यतो निवर्तेत विमुच्येत तत?तः। एष धर्मो नृणां क्षेमः शोकमोहभयापहः ॥१८॥ विषयेषु गुणाध्यासात्पुंसः सङ्ग?तो भवेत्। सङ्गात्तत्र भवेत्कामः कामादेव कलिर्नृणाम् ॥१९॥ कलेर्दुर्विषहः क्रोध?म?मनुवर्तते। तमसा ग्रस्यते पुंसश्चेतना व्यापिनी द्रुतम् ॥२०॥ तया विरहितः साधो जन्तुः शून्याय कल्पते। ततोऽस्य स्वार्थविभ्रंशो मूर्च्छितस्य मृतस्य च॥२१॥ विषयाभिनिवेशेन नात्मानं वेद नापरम्। वृक्षजीविकया जीवन् व्यर्थं भस्त्रेव यः श्वसन् ॥२२॥ फलश्रुतिरियं नॄणां न श्रेयो रोचनं परम्। श्रेयो विवक्षया प्रोक्तं यथा भैषज्यरोचनम् ॥२३॥ उत्पत्त्यैव हि कामेषु प्राणेषु स्वजनेषु च। आसक्तमनसो मर्त्या आत्मनोऽनर्थहेतुषु ॥२४॥ न तानविदुषः स्वार्थं भ्राम्यतो वृजिनाध्वनि। कथं युञ्ज्यात्पुनस्तेषु तां?मो विशतो बुधः ॥२५॥ एवं व्यवसितं केचिदविज्ञाय कुबुद्धयः। फलश्रुतिं कुसुमितां न वेदज्ञा वदन्ति हि ॥२६॥ कामिनः कृपणा लुब्धाः पुष्पेषु फलबुद्धयः। अग्निमुग्धा धूमतान्ताः स्वं लोकं न विदन्ति ते॥२७॥ न ते मामङ्ग जानन्ति हृदिस्थं य इदं यतः। उक्थशस्त्रा ह्यसुतृपो यथा नीहारचक्षुषः ॥२८॥ ते मे मतमविज्ञाय परोक्षं विषयात्मकाः। हिंसायां यदि रागः स्याद्यज्ञ एव न चोदना ॥२९॥ हिंसाविहारा ह्यालब्धैः पशुभिः स्वसुखेच्छया। यजन्ते देवता यज्ञैः पितृभूतपतीन् खलाः ॥३०॥ स्वप्नोपमममुं लोकमसन्तं श्रवणप्रियम्। आशिषो हृदि सङ्कल्प्य त्यजन्त्यर्थान् यथा वणिक् ॥३१॥ रजःसत्त्वतमोनिष्ठा रजःसत्त्वतमोजुषः। उपासत इन्द्रमुख्यान् देवादी? यथैव माम् ॥३२॥ इष्ट्वेह देवता यज्ञैर्गत्वा रंस्यामहे दिवि। तस्यान्त इह भूयास्म महाशाला महाकुलाः ॥३३॥ एवं पुष्पितया वाचा व्याक्षिप्तमनसां नृणाम्। मानिनां चातिस्तब्धानां मद्वार्तापि न रोचते ॥३४॥ वेदा ब्रह्मात्मविषयास्त्रिकाण्डविषया इमे। परोक्षवादा ऋषयः परोक्षं मम च प्रियम् ॥३५॥ शब्दब्रह्म सुदुर्बोधं प्राणेन्द्रियमनोमयम्। अनन्तपारं गम्भीरं दुर्विगाह्यं समुद्रवत् ॥३६॥ मयोपबृंहितं भूम्ना ब्रह्मणानन्तशक्तिना। भूतेषु घोषरूपेण बिसेषूर्णेव लक्ष्यते ॥३७॥ यथोर्णनाभिर्हृदयादूर्णामुद्वमते मुखात्। आकाशाद्घोषवान् प्राणो मनसा स्पर्शरूपिणा ॥३८॥ छन्दोमयोऽमृतमयः सहस्रपदवीं प्रभुः। ओंकाराद्व्यञ्जितस्पर्शस्वरोष्मान्तस्थभूषिताम् ॥३९॥ विचित्रभाषाविततां छन्दोभि?तुरुत्तरैः। अनन्तपारां बृहतीं सृजत्याक्षिपते स्वयम् ॥४०॥ गायत्र्युष्णिगनुष्टुप् च बृहती पङ्क्तिरेव च। त्रिष्टुब्जगत्यतिच्छन्दो ह्यत्यष्ट्यतिजगद्विराट् ॥४१॥ किं विधत्ते किमाचष्टे किमनूद्य विकल्पयेत्। इत्यस्या हृदयं लोके नान्यो मद्वेद कश्चन ॥४२॥ मां विधत्तेऽभिधत्ते मां विकल्प्यापोह्यते त्वहम्। एतावान् सर्ववेदार्थः शब्द आस्थाय मां भिदाम्। मायामात्रमनूद्यान्ते प्रतिषिध्य प्रसीदति ॥४३॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे एकविंशोऽध्यायः॥२१

॥ द्वाविंशोऽध्यायः - २२ ॥

उद्धव उवाच कति तत्त्वानि विश्वेश सङ्ख्यातान्यृषिभिः प्रभो। नवैकादश पञ्च त्रीण्यात्थ त्वमिह शुश्रुम ॥१॥ केचित्षड्विंशतिं प्राहुरपरे पञ्चविंशतिं। सप्तैके नव षट्केचिच्चत्वार्येकादशापरे। केचित्सप्तदश प्राहुः षोडशैके त्रयोदश ॥२॥ एतावत्त्वं हि सङ्ख्यानामृषयो यद्विवक्षया। गायन्ति पृथगायुष्मन्निदं नो वक्तुमर्हसि ॥३॥ श्रीभगवानुवाच युक्तं च सन्ति सर्वत्र भाषन्ते ब्राह्मणा यथा। मायां मदीयामुद्गृह्य वदतां किं नु दुर्घटम् ॥४॥ नैतदेवं यथात्थ त्वं यदहं वच्मि तत्तथा। एवं विवदतां हेतुं शक्तयो मे दुरत्ययाः ॥५॥ यासां व्यतिकरादासीद्विकल्पो वदतां पदम्। प्राप्ते शमदमेऽप्येति वाद?मनुशाम्यति ॥६॥ परस्परानुप्रवेशात्तत्त्वानां पुरुषर्षभ। पौर्वापर्यप्रसङ्ख्यानं यथा वक्तुर्विवक्षितम् ॥७॥ एकस्मिन्नपि दृश्यन्ते प्रविष्टानीतराणि च। पूर्वस्मिन् वा परस्मिन् वा तत्त्वे तत्त्वानि सर्वशः॥८॥ पौर्वापर्यमतोऽमीषां प्रसङ्ख्यानमभीप्सताम्। यथा विविक्तं यद्वक्त्रं गृह्णीमो युक्तिसम्भवात् ॥९॥ अनाद्यविद्यायुक्तस्य पुरुषस्यात्मवेदनम्। स्वतो न सम्भवादन्य?त्त्वज्ञो ज्ञानदो भवेत् ॥१०॥ पुरुषेश्वरयोरत्र न वैलक्षण्यमण्वपि। तदन्यकल्पनापार्था ज्ञानं च प्रकृतेर्गुणः ॥११॥ प्रकृतिर्गुणसाम्यं वै प्रकृतेर्नात्मनो गुणाः। सत्त्वं रज?म इति स्थित्युत्पत्त्यन्तहेतवः ॥१२॥ सत्त्वं ज्ञानं रजः कर्म तमोऽज्ञानमिहोच्यते। गुणव्यतिकरः कालः स्वभावः सूत्रमेव च ॥१३॥ पुरुषः प्रकृतिर्व्यक्तमहङ्कारो नभोऽनिलः। ज्योतिरापः क्षितिरिति तत्त्वान्युक्तानि मे नव ॥१४॥ श्रोत्रं त्वग्दर्शनं घ्राणो जिह्वेति ज्ञानशक्तयः। वाक्पाण्युपस्थपाय्वङ्घ्रिः कर्माण्यङ्गोभयं मनः ॥१५॥ शब्दः स्पर्शो रसो गन्धो रूपं चेत्यर्थजातयः। गत्युक्त्युत्सर्गशिल्पानि कर्मायतनसिद्धयः ॥१६॥ सर्गादौ प्रकृतिर्ह्यस्य कार्यकारणरूपिणी। सत्त्वादिभिर्गुणैर्धत्ते पुरुषोऽव्यक्त ईक्षते ॥१७॥ व्यक्तादयो विकुर्वाणा धातवः पुरुषेक्षया। लब्धवीर्याः सृजन्त्यण्डं संहताः प्रकृतेर्बलात् ॥१८॥ सप्तैव धातव इति तत्रार्थाः पञ्च खादयः। ज्ञानमात्मोभयाधार?तो देहेन्द्रियासवः ॥१९॥ षडित्यत्रापि भूतानि पञ्च षष्ठः परः पुमान्। तैर्युक्त आत्मसम्भूतैः सृष्ट्वेदं समुपाविशत् ॥२०॥ चत्वार्येवेति तत्रापि तेज आपोऽन्नमात्मनः। जातानि तैरिदं जातं जन्मावयविनः खलु ॥२१॥ सङ्ख्याने सप्तदशके भूतमात्रेन्द्रियाणि च। पञ्च पञ्चैकमनसा आत्मा सप्तदशः स्मृतः ॥२२॥ तद्वत्षोडशसङ्ख्याने आत्मैव मन उच्यते। भूतेन्द्रियाणि पञ्चैव मन आत्मा त्रयोदश ॥२३॥ एकादशत्व आत्मासौ महाभूतेन्द्रियाणि च। अष्टौ प्रकृतयश्चैव पुरुष? नवेत्यथ ॥२४॥ इति नानाप्रसङ्ख्यानं तत्त्वानामृषिभिः कृतम्। सर्वं न्याय्यं युक्तिमत्त्वाद्विदुषां किमशोभनम् ॥२५॥ उद्धव उवाच प्रकृतिः पुरुषश्चोभौ यद्यप्यात्मविलक्षणौ। अन्योन्यापाश्रयात्कृष्ण दृश्यते न भिदा तयोः। प्रकृतौ लक्ष्यते ह्यात्मा प्रकृति? तथाऽऽत्मनि ॥२६॥ एवं मे पुण्डरीकाक्ष महान्तं संशयं हृदि। छेत्तुमर्हसि सर्वज्ञ वचोभिर्नयनैपुणैः ॥२७॥ त्वत्तो ज्ञानं हि जीवानां प्रमोषस्तेऽत्र शक्तितः। त्वमेव ह्यात्ममायाया गतिं वेत्थ न चापरः ॥२८॥ श्रीभगवानुवाच प्रकृतिः पुरुषश्चेति विकल्पः पुरुषर्षभ। एष वैकारिकः सर्गो गुणव्यतिकरात्मकः ॥२९॥ ममाङ्ग मायागुणमय्यनेकधा विकल्पबुद्धी? गुणैर्विधत्ते। वैकारिकस्त्रिविधोऽध्यात्ममेक- मथाधिदैवमधिभूतमन्यत् ॥३०॥ दृग् रूपमार्कं वपुरत्र रन्ध्रे परस्परं सिध्यति यः स्वतः खे। आत्मा यदेषामपरो य आद्यः स्वयानुभूत्याखिलसिद्धसिद्धिः। एवं त्वगादि श्रवणादि चक्षुर्जिह्वादि नासादि च चित्तयुक्तम् ॥३१॥ योऽसौ गुणक्षोभकृतो विकारः प्रधानमूलान्महतः प्रसूतः। अहं त्रिवृन्मोहविकल्पहेतु- र्वैकारिकस्तामस ऐन्द्रिय? ॥३२॥ आत्मा परिज्ञानमयो विवादो ह्यस्तीति नास्तीति भिदार्थनिष्ठः। व्यर्थोऽपि नैवोपरमेत पुंसां मत्तः परावृत्तधियां स्वलोकात् ॥३३॥ उद्धव उवाच त्वत्तः परावृत्तधियः स्वकृतैः कर्मभिः प्रभो। उच्चावचान् यथा देहान् गृह्णन्ति विसृजन्ति च॥३४॥ तन्ममाख्याहि गोविन्द दुर्विभाव्यमनात्मभिः। न ह्येतत्प्रायशो लोके विद्वांसः सन्ति वञ्चिताः॥३५॥ श्रीभगवानुवाच मनः कर्ममयं नॄणामिन्द्रियैः पञ्चभिर्युतम्। लोकाल्लोकं प्रयात्यन्य आत्मा तदनुवर्तते ॥३६॥ ध्यायन् मनोऽनु विषयान् दृष्टान् वानुश्रुतानथ। उद्यत्सीदत्कर्मतन्त्रं स्मृति?दनु शाम्यति ॥३७॥ विषयाभिनिवेशेन नात्मानं यत्स्मरेत्पुनः। जन्तोर्वै कस्यचिद्धेतोर्मृत्युरत्यन्तविस्मृतिः ॥३८॥ जन्म त्वात्मतया पुंसः सर्वभावेन भूरिद। विषयस्वीकृतिं प्राहुर्यथा स्वप्नमनोरथः ॥३९॥ स्वप्नं मनोरथं चेत्थं प्राक्तनं न स्मरत्यसौ। तत्र पूर्वमिवात्मानमपूर्वं चानुपश्यति ॥४०॥ इन्द्रियायनसृष्ट्येदं त्रैविध्यं भाति वस्तुनि। बहिरन्तर्भिदा हेतुर्जनोऽस?नकृद्यथा ॥४१॥ नित्यदा ह्यङ्ग भूतानि भवन्ति न भवन्ति च। कालेनालक्ष्यवेगेन सूक्ष्मत्वात्त? दृश्यते ॥४२॥ यथार्चिषां स्रोतसां च फलानां वा वनस्पतेः। तथैव सर्वभूतानां वयोऽवस्थादयः कृताः ॥४३॥ सोऽयं दीपोऽर्चिषां यद्वत्स्रोतसां तदिदं जलम्। सोऽयं पुमानिति नृणां मृषा गीर्धीर्मृषायुषाम् ॥४४॥ मा स्वस्य कर्मबीजेन जायते सोऽप्ययं पुमान्। म्रियते वामरो भ्रान्त्या यथाग्निर्दारुसंयुतः ॥४५॥ निषेकगर्भजन्मानि बाल्यकौमारयौवनम्। वयोमध्यं जरामृत्युरित्यवस्था?नोर्नव ॥४६॥ एता मनोरथमयीर्ह्यन्यस्योच्चावचा?नूः। गुणसङ्गादुपादत्ते क्वचित्कश्चि?हाति च ॥४७॥ आत्मनः पितृपुत्राभ्यामनुमेयौ भवाप्ययौ। न भवाप्ययवस्तूनामभिज्ञो द्वयलक्षणः ॥४८॥ तरोर्बीजविपाकाभ्यां यो विद्वाञ्जन्मसंयमौ। तरोर्विलक्षणो द्रष्टा एवं द्रष्टा तनोः पृथक् ॥४९॥ प्रकृतेरेवमात्मानमविविच्याबुधः पुमान्। तत्त्वेन स्पर्शसम्मूढः संसारं प्रतिपद्यते ॥५०॥ सत्त्वसङ्गादृषीन् देवान् रजसासुरमानुषान्। तमसा भूततिर्यक्त्वं भ्रामितो याति कर्मभिः ॥५१॥ नृत्यतो गायतः पश्यन् यथैवानुकरोति तान्। एवं बुद्धिगुणान् पश्यन्ननीहोऽप्यनुकार्यते ॥५२॥ यथाम्भसा प्रचलता तरवोऽपि चला इव। चक्षुषा भ्राम्यमाणेन दृश्यते भ्रमतीव भूः ॥५३॥ यथा मनोरथधियो विषयानुभवो मृषा। स्वप्नदृष्टा? दाशार्ह तथा संसार आत्मनः ॥५४॥ अर्थे ह्यविद्यमानेऽपि संसृतिर्न निवर्तते। ध्यायतो विषयानस्य स्वप्नेऽनर्थागमो यथा ॥५५॥ तस्मादुद्धव मा भुङ्क्ष्व विषयानसदिन्द्रियैः। आत्माग्रहणनिर्भातं पश्य वैकल्पिकं भ्रमम् ॥५६॥ क्षिप्तोऽवमानितोऽसद्भिः प्रलब्धोऽसूयितोऽथ वा। ताडितः सन्निरुद्धो वा वृत्त्या वा परिहापितः ॥५७॥ निष्ठितो मूत्रितो वाज्ञैर्बहुधैवं प्रकम्पितः। श्रेयस्कामः कृच्छ्रगत आत्मनाऽऽत्मानमुद्धरेत् ॥५८॥ उद्धव उवाच यथैवमनुबुध्येयं वद नो वदतां वर। सुदुःसहमिमं मन्य आत्मन्यसदतिक्रमम् ॥५९॥ विदुषामपि विश्वात्मन् प्रकृतिर्हि बलीयसी। ऋते त्वद्धर्मनिरतान् शान्तांस्ते चरणालयान् ॥६०॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे द्वाविंशोऽध्यायः॥२२॥

॥ त्रयोविंशोऽध्यायः - २३ ॥

बादरायणिरुवाच स एवमाशंसित उद्धवेन भागवतमुख्येन दाशार्हमुख्यः। सभाजयन् भृत्यवचो मुकुन्द- ?माबभाषे श्रवणीयवीर्यः ॥१॥ श्रीभगवानुवाच बार्हस्पत्य स वै नात्र साधुर्वै दुर्जनेरितैः। दुरुक्तैर्भिन्नमात्मानं यः समाधातुमीश्वरः ॥२॥ न तथा तप्यते विद्धः पुमान् बाणैस्तु मर्मगैः। यथा तुदन्ति मर्मस्था ह्यसतां परुषेषवः ॥३॥ कथयन्ति महत्पुण्यमितिहासमिहोद्धव। तमहं वर्णयिष्यामि निबोध सुसमाहितः ॥४॥ केनचिद्भिक्षुणा गीतं परिभूतेन दुर्जनैः। स्मरता धृतियुक्तेन विपाकं निजकर्मणाम् ॥५॥ अवन्तिषु द्विजः कश्चिदासीदाढ्यतमः श्रिया। वार्तावृत्तिः कदर्यस्तु कामी लुब्धोऽतिकोपनः ॥६॥ ज्ञातयोऽतिथय?स्य वाङ् मात्रेणापि नार्चिताः। शून्यावसथ आत्मापि काले कामैरनर्चितः ॥७॥ दुःशीलस्य कदर्यस्य द्रुह्यन्ते पुत्रबान्धवाः। दारा दुहितरो भृत्या विषण्णा नाचरन् प्रियम् ॥८॥ तस्यैवं यक्षवित्तस्य च्युतस्योभयलोकतः। धर्मकामविहीनस्य चुक्रुधुः पञ्चभागिनः ॥९॥ तदवध्यानविस्रस्तपुण्यस्कन्धस्य भूरिद। अर्थोऽप्यगच्छन्निधनं बह्वायासपरिश्रमः ॥१०॥ ज्ञातयो जगृहुः किञ्चित्किञ्चिद्दस्यव उद्धव। दैवतः कालतः किञ्चिद्ब्रह्मबन्धोर्नृपार्थिवात् ॥११॥ स एवं द्रविणे नष्टे धर्मकामविवर्जितः। उपेक्षित? स्वजनैश्चिन्तामाप दुरत्ययाम् ॥१२॥ तस्यैवं ध्यायतो दीर्घं नष्टराय?पस्विनः। खिद्यतो बाष्पकण्ठस्य निर्वेदः सुमहानभूत् ॥१३॥ स चाहेदमहो कष्टं वृथात्मा मेऽनुतापितः। न धर्माय न कामाय यस्यार्थायास ईदृशः ॥१४॥ प्रायेणार्थाः कदर्याणां न सुखाय कदाचन। इह चात्मोपतापाय मृतस्य नरकाय च ॥१५॥ यशो यशस्विनां शुद्धं श्लाघ्या ये गुणिनां गुणाः। लोभः स्वल्पोऽपि तान् हन्ति श्वित्रो रूपमिवेप्सितम्॥१६॥ अर्थस्य साधने सिद्धे उत्कर्षे रक्षणे व्यये। नाशोपभोग आयासस्त्रासश्चिन्ता भ्रमो नृणाम्॥१७॥ स्तेयं हिंसानृतं दम्भः कामः क्रोधः स्मयो मदः। भेदो वैरमविश्वासः संस्पर्धा व्यसनानि च ॥१८॥ एते पञ्चदशानर्था ह्यर्थमूला मता नृणाम्। तस्मादनर्थमर्थाख्यं श्रेयोऽर्थी दूरतस्त्यजेत् ॥१९॥ भिद्यन्ते भ्रातरो दाराः पितरः सुहृद?था। एकास्निग्धाः काकिणिना सद्यः सर्वेऽरयः कृताः॥२०॥ अर्थेनाल्पीयसा ह्येते संरब्धा दीप्तमन्यवः। त्यजन्त्याशु स्पृधो घ्नन्ति सहसोत्सृज्य सौहृदम्॥२१॥ लब्ध्वा जन्मामरप्रार्थ्यं मानुष्यं तद्द्विजाग्र्यताम्। तदनादृत्य ये स्वार्थं घ्नन्ति यान्त्यशुभां गतिम्॥२२॥ स्वर्गापवर्गयोर्द्वारं प्राप्य लोकमिमं पुमान्। द्रविणे कोऽनुषज्जेत मर्त्योऽनर्थस्य धामनि ॥२३॥ देवर्षिपितृभूतानि ज्ञातीन् बन्धूं? भागिनः। असंविभज्य चात्मानं यक्षवित्तः पतत्यधः ॥२४॥ व्यर्थयार्थेहया वित्तं प्रमत्तस्य वयोबलम्। कुशला येन सिध्यन्ति जरठः किं नु साधये ॥२५॥ कस्मात्सङ्क्लिश्यते विद्वान् व्यर्थयार्थेहयासकृत्। कस्यचिन्मायया नूनं लोकोऽयं सुविमोहितः ॥२६॥ किं धनैर्धनदैर्वा किं कामैर्वा कामदैरुत। मृत्युना ग्रस्यमानस्य कर्मभिर्वोत जन्मदैः ॥२७॥ नूनं मे भगवांस्तुष्टः सर्वदेवमयो हरिः। येन नीतो दशामेतां निर्वेदश्चात्मनः प्लवः ॥२८॥ सोऽहं कालावशेषेण शोषयिष्येऽङ्गमात्मनः। अप्रमत्तोऽखिलस्वार्थे यदि स्यात्सिद्ध आत्मनि॥२९॥ तत्र मामनुमोदेरन् देवास्त्रिभुवनेश्वराः। मुहूर्तेन ब्रह्मलोकं खट्वाङ्गः समसाधयत् ॥३०॥ श्रीभगवानुवाच इत्यभिप्रेत्य मनसा ह्यावन्त्यो द्विजसत्तमः। उन्मुच्य हृदयग्रन्थीन् शान्तो भिक्षुरभून्मुनिः ॥३१॥ स चचार महीमेतां संयतात्मेन्द्रियानिलः। भिक्षार्थं नगरग्रामानसङ्गोऽलक्षितोऽविशत् ॥३२॥ तं वै प्रवयसं भिक्षुमवधूतमस?नाः। दृष्ट्वा पर्यभवन् भद्र बह्वीभिः परिभूतिभिः ॥३३॥ केचित्त्रिवेणुं जगृहुरेके पात्रं कमण्डलुम्। पीठं चैकेऽक्षसूत्रं च कन्थां चीराणि केचन ॥३४॥ प्रदाय च पुनस्तानि दर्शितान्याददुर्मुनेः। अन्नं च भैक्ष्यसम्पन्नं भुञ्जानस्य सरित्तटे ॥३५॥ मूत्रयन्ति च पापिष्ठाः ष्ठीवन्त्यस्य च मूर्धनि। यतवाचं वाचयन्ति ताडयन्ति न वक्ति चेत् ॥३६॥ तर्जयन्त्यपरे वाग्भिः स्तेनोऽयमिति वादिनः। बध्नन्ति रज्ज्वा तं केचिद्बध्यतां बध्यतामिति ॥३७॥ क्षिपन्त्येकेऽवजानन्त एष धर्मध्वजः शठः। क्षीणवित्त इमां वृत्तिमग्रहीत्स्वजनोज्झितः ॥३८॥ अहो एष महासारो धृतिमान् गिरिराडिव। मौनेन साधयत्यर्थं बकवद्दृढनिश्चयः ॥३९॥ इत्येके विहसन्त्येनमेके दुर्वातयन्ति च। तं बबन्धुर्निरुरुधुर्यथा क्रीडनकं द्विजम् ॥४०॥ एवं स भौतिकं दुःखं दैविकं दैहिकं च यत्। भोक्तव्यमात्मनो दिष्टं प्राप्तं प्राप्तमबुध्यत ॥४१॥ परिभूत इमां गाथामगायत नराधमैः। पातयद्भिः स्वधर्मस्थो धृतिमास्थाय सात्त्विकीम् ॥४२॥ द्विज उवाच नायं जनो मे सुखदुःख हेतुर्न देवतात्मा ग्रहकर्मकालाः। मनः परं कारणमामनन्ति संसारचक्रं परिवर्तयेद्यत् ॥४३॥ मनो गुणान् वै सृजते बलीय?त? कर्माणि विलक्षणानि। शुक्लानि कृष्णान्यथ लोहितानि तेभ्यः सवर्णाः सृतयो भवन्ति ॥४४॥ अनीह आत्मा मनसा समीहता हिरण्मयो मत्सख उद्विचष्टे। मनः स्वलिङ्गं परिगृह्य कामान् जुषन् निबद्धो गुणसङ्गतोऽसौ ॥४५॥ दानं स्वधर्मो नियमो यम? श्रुतं च कर्माणि च सद्व्रतानि। सर्वे मनोनिग्रहलक्षणान्ताः परो हि योगो मनसः समाधिः ॥४६॥ समाहितं यस्य मनः प्रशान्तं दानादिभिः किं वद तस्य कृत्यम्। असंयतं यस्य मनो विनश्य- द्दानादिभिश्चेदपरं किमेभिः ॥४७॥ मनो वशेऽन्ये ह्यभवन् स्म देवा मन? नान्यस्य वशं समेति। भीष्मो हि देवः सहसः सहीयान् युञ्ज्याद्वशे तं स हि देवदेवः ॥४८॥ तं दुर्जयं शत्रुमसह्यवेगमरुन्तुदं त? विजित्य केचित्। कुर्वन्त्यसद्विग्रहमत्र मर्त्यै- र्मित्राण्युदासीनरिपून् विमूढाः ॥४९॥ देहं मनोमात्रमिमं गृहीत्वा ममाहमित्यन्धधियो मनुष्याः। एषोऽहमन्योऽयमिति भ्रमेण दुरन्तपारे तमसि भ्रमन्ति ॥५०॥ जनस्तु हेतुः सुखदुःखयोश्चे- त्किमात्मनश्चात्र हि भौमयो?त्। जिह्वां क्वचित्सन्दशति स्वदद्भि- ?द्वेदनायां कतमाय कुप्येत् ॥५१॥ दुःखस्य हेतुर्यदि देवतास्तु किमात्मन?त्र विकारयो?त्। यदङ्गमङ्गेन निहन्यते क्वचित्क्रुध्येत कस्मै पुरुषः स्वदेहे ॥५२॥ आत्मा यदि स्यात्सुखदुःखहेतुः किमन्यत?त्र निजस्वभावः। न ह्यात्मनोऽन्यद्यदि तन्मृषा स्यात् क्रुध्येत कस्मा? सुखं न दुःखम् ॥५३॥ ग्रहा निमित्तं सुखदुःखयोश्चे- त्किमात्मनोऽजस्य जनस्य ते वै। ग्रहैर्ग्रहस्यैव वदन्ति पीडां क्रुध्येत कस्मै पुरुष?तोऽन्यः ॥५५॥ कर्मास्तु हेतुः सुखदुःखयोश्चे- त्किमात्मन?द्धि जडाजडत्वे। देहस्त्वचित्पुरुषोऽयं सुपर्णः क्रुध्येत कस्मै न हि कर्ममूलम् ॥५६॥ कालस्तु हेतुः सुखदुःखयोश्चे- त्किमात्मन?त्र तदात्मकोऽसौ। नाग्नेर्हि तापो न हिमस्य तत्स्यात् क्रुध्येत कस्मै न परस्य द्वन्द्वम् ॥५६॥ न केनचित्क्वापि कथञ्चनास्य द्वन्द्वोपरागः परतः परस्य। यथाहमः संसृतिरूपिणः स्यादेवं प्रबुद्धो न बिभेति भूतैः ॥५७॥ एतां स आस्थाय परात्मनिष्ठा- मध्यासितां पूर्वतमैर्महर्षिभिः। अहं तरिष्यामि दुरन्तपारं तमो मुकुन्दाङ्घ्रिनिषेवयैव ॥५८॥ श्रीभगवानुवाच निर्विद्य नष्टद्रविणो गतक्लमः प्रव्रज्य गां पर्यटमान इत्थम्। निराकृतोऽसद्भिरपि स्वधर्मा- दकम्पितोऽमूं मुनिराह गाथाम् ॥५९॥ सुखदुःखप्रदो नान्यः पुरुषस्यात्मविभ्रमः। मित्रोदासीनरिपवः संसार?मसः कृतः ॥६०॥ तस्मात्सर्वात्मना तात निगृहाण मनो धिया। मय्यावेशितया युक्त एतावान् योगसङ्ग्रहः ॥६१॥ य एतां भिक्षुणा गीतां ब्रह्मनिष्ठां समाहितः। धारयञ्छ्रावयञ्छृण्वन् द्वन्द्वैर्नैवाभिभूयते ॥६२॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे त्रयोविंशोऽध्यायः॥२३॥

॥ चतुर्विंशोऽध्यायः - २४ ॥

श्रीभगवानुवाच अथ ते सम्प्रवक्ष्यामि साङ्ख्यं पूर्वैर्विनिश्चितम्। यद्विज्ञाय पुमान् सद्यो जह्याद्वैकल्पिकं भ्रमम् ॥१॥ आसीज्ज्ञानमथो ह्यर्थ एकमेवाविकल्पितम्। यदा विवेकनिपुणा आदौ कृतयुगेऽयुगे ॥२॥ तन्मायाफलरूपेण केवलं निर्विकल्पितम्। वाङ् मनोगोचरं सत्यं द्विधा समभवद्बृहत् ॥३॥ तयोरेकतरो ह्यर्थः प्रकृतिः सोभयात्मिका। ज्ञानं त्वन्यतमो भावः पुरुषः सोऽभिधीयते ॥४॥ तमो रजः सत्त्वमिति प्रकृतेरभवन् गुणाः। मया प्रक्षोभ्यमाणायाः पुरुषानुमतेन च ॥५॥ तेभ्यः समभवत्सूत्रं महान् सूत्रेण संयुतः। ततो विकुर्वतो जातोऽहङ्कारो यो विमोहनः ॥६॥ वैकारिकस्तैजस? तामसश्चेत्यहं त्रिवृत्। तन्मात्रेन्द्रियमनसां कारणं चिदचिन्मयः ॥७॥ अर्थ?न्मात्रिका?ज्ञे तामसादिन्द्रियाणि च। तैजसाद्देवता आसन्नेकादश च वैकृतात् ॥८॥ मया सञ्चोदिता भावाः सर्वे संहत्यकारिणः। अण्डमुत्पादयामासुर्ममायतनमुत्तमम् ॥९॥ तस्मिन्नहं समभवमण्डे सलिलसंस्थितौ। मम नाभ्यामभूत्पद्मं विश्वाख्यं तत्र चात्मभूः॥१०॥ सोऽसृजत्तपसा युक्तो रजसा मदनुग्रहात्। लोकान् सपालान् विश्वात्मा भूर्भुवःस्वरिति त्रिधा॥११॥ देवानामोक आसीत्स्वर्भूतानां च भुवः पदम्। मर्त्यादीनां च भूर्लोकः सिद्धानां त्रितयात्परम्॥१२॥ अधोऽसुराणां नागानां भूमेरोकोऽसृजत्प्रभुः। त्रिलोक्यां गतयः सर्वाः कर्मणां त्रिगुणात्मनाम्॥१३॥ योगस्य तपसश्चैव न्यासस्य गतयोऽमलाः। महर्जन?पः सत्यं भक्तियोगस्य मद्गतिः ॥१४॥ मया कालात्मना धात्रा कर्मयुक्तमिदं जगत्। गुणप्रवाह एतस्मिन्नुन्मज्जति निमज्जति ॥१५॥ अणुर्बृहत्कृशः स्थूलो यो यो भावः प्रसिध्यति। सर्वोऽप्युभयसंयुक्तः प्रकृत्या पुरुषेण च ॥१६॥ यस्तु यस्यादिरन्त? स वै मध्यं च तस्य सन्। विकारो व्यवहारार्थो यथा तैजसपार्थिवाः ॥१७॥ यदुपादाय पूर्वस्तु भावो विकुरुतेऽपरम्। आदिरन्तो यदा यस्य तत्सत्यमभिधीयते ॥१८॥ प्रकृतिर्यस्योपादानमाधारः पुरुषः परः। सतोऽभिव्यञ्जकः कालो ब्रह्म तत्त्रितयं त्वहम्॥१९॥ सर्गः प्रवर्तते तावत्पौर्वापर्येण नित्यशः। महान् गुणविसर्गार्थः स्थित्यन्तो यावदीक्षणम्॥२०॥ विराण्मयासाद्यमानो लोककल्पविकल्पकः। पञ्चत्वाय विशेषाय कल्पते भुवनैः सह ॥२१॥ अन्ने प्रलीयते मर्त्यमन्नं धानासु लीयते। धाना भूमौ प्रलीयन्ते भूमिर्गन्धे प्रलीयते ॥२२॥ अप्सु प्रलीयते गन्ध आप? स्वगुणे रसे। लीयते ज्योतिषि रसो ज्योती रूपे प्रलीयते ॥२३॥ रूपं वायौ स च स्पर्शे लीयते सोऽपि चाम्बरे। अम्बरं शब्दतन्मात्र इन्द्रियाणि स्वयोनिषु ॥२४॥ योनिर्वैकारिके सौम्य लीयते मनसीश्वरे। शब्दो भूतादिमप्येति भूतादिर्महति प्रभुः ॥२५॥ स लीयते महान् स्वेषु गुणेसु गुणवत्तमः। तेऽव्यक्ते सम्प्रलीयन्ते तत्काले लीयतेऽव्यये ॥२६॥ कालो मायामये जीवे जीव आत्मनि मय्यजे। आत्मा केवल आत्मस्थो विकल्पापायलक्षणः॥२७॥ एवमन्वीक्षमाणस्य कथं वैकल्पिको भ्रमः। मनसो हृदि तिष्ठेत व्योम्नीवार्कोदये तमः ॥२८॥ एष साङ्ख्यविधिः प्रोक्तः संशयग्रन्थिभेदनः। प्रतिलोमानुलोमाभ्यां परावरदृशा मया ॥२९॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे चतुर्विंशोऽध्यायः॥२४॥

॥ पञ्चविंशोऽध्यायः - २५ ॥

श्रीभगवानुवाच गुणानामसमिश्राणां पुमान् येन यथा भवेत्। तन्मे पुरुषवर्येदमुपधारय शंसतः ॥१॥ शमो दमस्तितिक्षेक्षा तपः सत्यं दया स्मृतिः। तुष्टिस्त्यागोऽस्पृहा श्रद्धा ह्रीर्दयादिः स्वनिर्वृतिः॥२॥ काम ईहा मदस्तृष्णा स्तम्भ आशीर्भिदा सुखम्। मदोत्साहो यशः प्रीतिर्हास्यं वीर्यं बलोद्यमः ॥३॥ क्रोधो लोभोऽनृतं हिंसा याच्ञा दम्भः क्लमः कलिः। शोकमोहौ विषादार्ती निद्राशा भीरनुद्यमः ॥४॥ सत्त्वस्य रजसश्चैता?मसश्चानुपूर्वशः। वृत्तयो वर्णितप्रायाः सन्निपातमथो शृणु ॥५॥ सन्निपातस्त्वहमिति ममेत्युद्धव या मतिः। व्यवहारः सन्निपातो मनो मात्रेन्द्रियासुभिः ॥६॥ धर्मे चार्थे च कामे च यदासौ परिनिष्ठितः। गुणानां सन्निकर्षोऽयं श्रद्धारतिधनावहः ॥७॥ प्रवृत्तिलक्षणे निष्ठा पुमान् यर्हि गृहाश्रमे। स्वधर्मे चानुतिष्ठेत गुणानां समितिर्हि सा ॥८॥ पुरुषं सत्त्वसंयुक्तमनुमीयाच्छमादिभिः। कामादिभी रजोयुक्तं क्रोधाद्यै?मसा युतम् ॥९॥ यदा भजति मां भक्त्या निरपेक्षः स्वकर्मभिः। तं सत्त्वप्रकृतिं विद्यात्पुरुषं स्त्रियमेव वा ॥१०॥ यदा आशिष आशास्य मां भजेत स्वकर्मभिः। तं रजःप्रकृतिं विद्याथिंसामाशास्य तामसम्॥११॥ सत्त्वं रज?म इति गुणा जीवस्य नैव मे। चित्तजा यैस्तु भूतानां सज्जमानो निबध्यते ॥१२॥ यदेतरौ जयेत्सत्त्वं भास्वरं विशदं शिवम्। तदा सुखेन युज्येत धर्मज्ञानादिभिः पुमान् ॥१३॥ यदा जयेत्तमः सत्त्वं रजः सङ्गं भिदा चलम्। तदा दुःखेन युज्येत कर्मणा यशसा श्रिया ॥१४॥ यदा जयेद्रजः सत्त्वं तमो मूढं लयं जडम्। युज्येत शोकमोहाभ्यां निद्रया हिंसयाऽऽशया ॥१५॥ यदा चित्तं प्रसीदेत इन्द्रियाणां च निर्वृतिः। देहेऽभयं मनोऽसङ्गं तत्सत्त्वं विद्धि मत्पदम् ॥१६॥ विकुर्वन् क्रियया चाधीरनिवृत्ति? चेतसाम्। गात्रास्वास्थ्यं मनोभ्रान्तं रज एतैर्निशामय ॥१७॥ सीदच्चित्तं विलीयेत चेतसो ग्रहणेऽक्षमम्। मनो नष्टं तमो ग्लानि?म?दुपधारय ॥१८॥ एधमाने गुणे सत्त्वे देवानां बलमेधते। असुराणां च रजसि तमस्युद्धव रक्षसाम् ॥१९॥ सत्त्वाज्जागरणं विद्याद्रजसा स्वप्नमादिशेत्। प्रस्वापं तमसा जन्तोस्तुरीयं त्रिषु सन्ततम् ॥२०॥ उपर्युपरि गच्छन्ति सत्त्वेन ब्राह्मणा जनाः। तमसाधोऽध आमुख्याद्रजसान्तरचारिणः ॥२१॥ सत्त्वे प्रलीनाः स्वर्यान्ति नरलोकं रजोलयाः। तमोलयास्तु निरयं यान्ति मामेव निर्गुणाः ॥२२॥ मदर्पणं निष्फलं वा सात्त्विकं निजकर्म तत्। राजसं फलसङ्कल्पं हिंसाप्रायादि तामसम् ॥२३॥ कैवल्यं सात्त्विकं ज्ञानं रजो वैकल्पिकं च यत्। प्राकृतं तामसं ज्ञानं मन्निष्ठं निर्गुणं स्मृतम् ॥२४॥ वनं तु सात्त्विको वासो ग्रामो राजस उच्यते। तामसं द्यूतसदनं मन्निकेतं तु निर्गुणम् ॥२५॥ सात्त्विकः कारकोऽसङ्गी रागान्धो राजसः स्मृतः। तामसः स्मृतिविभ्रष्टो निर्गुणो मदपाश्रयः ॥२६॥ सात्त्विक्याध्यात्मिकी श्रद्धा कर्मश्रद्धा तु राजसी। तामस्यधर्मे या श्रद्धा मत्सेवायां तु निर्गुणा ॥२७॥ पथ्यं पूतमनायस्तमाहार्यं सात्त्विकं स्मृतम्। राजसं चेन्द्रियप्रेष्ठं तामसं चार्तिदाशुचि ॥२८॥ सात्त्विकं सुखमात्मोत्थं विषयोत्थं तु राजसम्। तामसं मोहदैन्योत्थं निर्गुणं मदपाश्रयम् ॥२९॥ द्रव्यं देशः फलं कालो ज्ञानं कर्म च कारकः। श्रद्धावस्थाकृतिर्निष्ठा त्रैगुण्यः सर्व एव हि ॥३०॥ सर्वे गुणमया भावाः पुरुषाव्यक्तधिष्ठिताः। दृष्टं श्रुतमनुध्यातं बुद्ध्या वा पुरुषर्षभ ॥३१॥ एताः संसृतयः पुंसो गुणकर्मनिबन्धनाः। येनेमे निर्जिताः सौम्य गुणा जीवेन चित्तजाः। भक्तियोगेन मन्निष्ठो मद्भावाय प्रपद्यते ॥३२॥ तस्माद्देहमिमं लब्ध्वा ज्ञानविज्ञानसम्भवम्। गुणसङ्गं विनिर्धूय मां भजन्तु विचक्षणाः ॥३३॥ निःसङ्गो मां भजेद्विद्वानप्रमत्तो जितेन्द्रियः। रज?मश्चाभिजयेत्सत्त्वसंसेवया मुनिः ॥३४॥ सत्त्वं चाभिजयेद्युक्तो नैरपेक्ष्येण शान्तधीः। सम्पद्यते गुणैर्मुक्तो जीवो जीवं विहाय माम् ॥३५॥ जीवो जीवविनिर्मुक्तो गुणैश्चाशयसम्भवैः। मयैव ब्रह्मणा पूर्णो न बहिर्नान्तर?रेत् ॥३६॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे पञ्चविंशोऽध्यायः॥२५॥

॥ षड्विंशोऽध्यायः - २६ ॥

श्रीभगवानुवाच मल्लक्षणमिमं कायं लब्ध्वा मद्धर्म आस्थितः। आनन्दं परमात्मानमात्मस्थं समुपैति माम् ॥१॥ गुणमय्या जीवयोन्या विमुक्तो ज्ञाननिष्ठया। गुणेषु मायामात्रेषु दृश्यमानेष्ववस्तुतः। वर्तमानोऽपि न पुमान् युज्यतेऽवस्तुभिर्गुणैः ॥२॥ सङ्गं न कुर्यादसतां शिश्नोदरतृपां क्वचित्। तस्यानुग?मस्यन्धे पतत्यन्धानुगान्धवत् ॥३॥ ऐलः सम्राडिमां गाथामगायत बृहच्छ्रवाः। उर्वशीविरहान्मुह्यन् निर्विण्णः शोकसंयमे ॥४॥ त्यक्त्वाऽऽत्मानं व्रजन्तीं तां नग्न उन्मत्तवन्नृपः। विलपन्नन्वगाज्जाये घोरे तिष्ठेति विक्लवः ॥५॥ कामानतृप्तोऽनुजुषन् क्षुल्लकान् वर्षयामिनीः। न वेद यान्तीर्नायान्तीरुर्वश्याकृष्टचेतनः ॥६॥ ऐल उवाच अहो मे मोहविस्तारः कामकश्मलचेतसः। देव्या गृहीतकण्ठस्य नायुः खण्डा इमे स्मृताः॥७॥ नाहं वेदाभिनिर्मुक्तः सूर्यो वाभ्युदितोऽमुया। मुषितो वर्षपूगानां बताहानि गतान्युत ॥८॥ अहो मे आत्मसम्मोहो येनात्मा योषितां कृतः। क्रीडामृग?क्रवर्ती नरदेवशिखामणिः ॥९॥ सपरिच्छदमात्मानं हित्वा तृणमिवेश्वरम्। यान्तीं स्त्रियं चान्वगमं नग्न उन्मत्तवद्रुदन् ॥१०॥ कुत?स्यानुभावः स्यात्तेज ईशत्वमेव वा। योऽन्वगच्छं स्त्रियं यान्तीं खरवत्पादताडितः॥११॥ किं विद्यया किं तपसा किं त्यागेन श्रुतेन वा। किं विविक्तेन मौनेन स्त्रीभिर्यस्य मनो हृतम् ॥१२॥ स्वार्थस्याकोविदं धिङ् मां मूर्खं पण्डितमानिनम्। योऽहमीश्वरतां प्राप्य स्त्रीभिर्गोखरवज्जितः ॥१३॥ सेवतो वर्षपूगान् मे उर्वश्या अधरासवम्। न तृप्यत्यात्मभूः कामो वह्निराहुतिभिर्यथा ॥१४॥ पुंश्चल्यापहृतं चित्तं को न्वन्यो मोचितुं प्रभुः। आत्मारामेश्वरमृते भगवन्तमधोक्षजम् ॥१५॥ बोधितस्यापि देव्या मे सूक्तवाक्येन दुर्मतेः। मनो गतो महामोहो नापयात्यजितात्मनः ॥१६॥ किमेतया नोपकृतं रज्ज्वा वा सर्पचेतसः। रज्जुस्वरूपाविदुषो योऽहं यदजितेन्द्रियः ॥१७॥ क्वायं मलीमसः कायो दौर्गन्ध्याद्यात्मकोऽशुचिः। क्व गुणाः सौमनस्याद्या ह्यध्यासोऽविद्यया कृतः॥१८॥ पित्रोः किं स्वं नु भार्यायाः स्वामिनोऽग्नेः श्वगृध्रयोः। किमात्मनः किं सुहृदामिति यो नावसीयते ॥१९॥ तस्मिन् कलेवरेऽमेध्ये तुच्छनिष्ठे विषज्जते। अहो सुभद्रं सुनसं सुस्मितं च मुखं स्त्रियाः ॥२०॥ त्वङ् मांसरुधिरस्नायुमेदोमज्जास्थिसंहतौ। विण्मूत्रपूये रमतां कृमीणां कियदन्तरम् ॥२१॥ अथापि नोपसज्जेत स्त्रीषु स्त्रैणेषु चार्थवित्। विषयेन्द्रियसंयोगान्मनः क्षुभ्यति नान्यथा ॥२२॥ अदृष्टादश्रुताद्भावा? भाव उपजायते। असम्प्रयुञ्जतः प्राणान् शाम्यति स्तिमितं मनः॥२३॥ तस्मात्सङ्गो न कर्तव्यः स्त्रीषु स्त्रैणेषु चेन्द्रियैः। विदुषां चाप्यविस्रब्धः षड् वर्गः किमु मादृशाम्॥२४॥ श्रीभगवानुवाच एवं प्रगायन् नृपदेवदेवः स उर्वशीलोकमथो विहाय। आत्मानमात्मन्यवगम्य मां वै उपारमज्ज्ञानविधूतमोहः ॥२५॥ ततो दुःसङ्गमुत्सृज्य सत्सु सज्जेत बुद्धिमान्। सन्त एतस्य छिन्दन्ति मनोव्यासङ्गमुक्तिभिः ॥२६॥ सन्तोऽनपेक्षा मच्चित्ताः प्रशान्ताः समदर्शिनः। निर्ममा निरहङ्कारा निर्द्वन्द्वा निष्परिग्रहाः ॥२७॥ तेषु नित्यं महाभाग महाभागेषु मत्कथाः। सम्भवन्ति हि ता नॄणां जुषतां प्रपुनन्त्यघम् ॥२८॥ ता ये शृण्वन्ति गायन्ति ह्यनुमोदन्ति चादृताः। मत्पराः श्रद्दधाना? भक्तिं विन्दन्ति ते मयि ॥२९॥ भक्तिं लब्धवतः साधोः किमन्यदवशिष्यते। मय्यनन्तगुणे ब्रह्मण्यानन्दानुभवात्मनि ॥३०॥ यथोपश्रयमाणस्य भगवन्तं विभावसुम्। शीतं भयं तमोऽप्येति साधून् संसेवत?था ॥३१॥ निमज्ज्योन्मज्जतां घोरे भवाब्धौ परमायणम्। सन्तो ब्रह्मविदः शान्ता नौर्दृढेवाप्सु मज्जताम् ॥३२॥ अन्नं हि प्राणिनां प्राण आर्तानां शरणं त्वहम्। धर्मो वित्तं नृणां प्रेत्य सन्तोऽर्वाग्बिभ्यतोऽरणम्॥३३॥ सन्तो दिशन्ति चक्षूंषि बहिरर्कः समुत्थितः। देवता बान्धवाः सन्तः सन्त आत्माहमेव च ॥३४॥ वैतसेन?तोऽप्येवमुर्वश्या लोकनिस्पृहः। मुक्तसङ्गो महीमेतामात्माराम?चार ह ॥३५॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे षड्विंशोऽध्यायः॥२६॥

॥ सप्तविंशोऽध्यायः - २७ ॥

उद्धव उवाच क्रियायोगं समाचक्ष्व भवदाराधनं प्रभो। यस्मात्त्वां ये यथार्चन्ति सात्वताः सात्वतर्षभ ॥१॥ एतद्वदन्ति मुनयो मुहुर्निःश्रेयसं नृणाम्। नारदो भगवान् व्यास आचार्योऽङ्गिरसः सुतः॥२॥ निःसृतं ते मुखाम्भोजाद्यदाह भगवानजः। पुत्रेभ्यो भृगुमुख्येभ्यो देव्यै च भगवान् भवः ॥३॥ एतद्वै सर्ववर्णानामाश्रमाणां च सम्मतम्। श्रेयसामुत्तमं मन्ये स्त्रीशूद्राणां च मानद ॥४॥ एतत्कमलपत्राक्ष कर्मबन्धविमोचनम्। भक्ताय चानुरक्ताय ब्रूहि विश्वेश्वरेश्वर ॥५॥ श्रीभगवानुवाच न ह्यन्तोऽनन्तपारस्य कर्मकाण्डस्य चोद्धव। सङ्क्षिप्तं वर्णयिष्यामि यथावदनुपूर्वशः ॥६॥ वैदिकस्तान्त्रिको मिश्र इति मे त्रिविधो मखः। त्रयाणामीप्सितेनैव विधिना मां समर्चयेत् ॥७॥ यदा स्वनिगमेनोक्तं द्विजत्वं प्राप्य पूरुषः। यथा यजेत मां भक्त्या श्रद्धया तन्निबोध मे ॥८॥ अर्चायां स्थण्डिलेऽग्नौ वा सूर्ये वाप्सु हृदि द्विजे। द्रव्येण भक्तियुक्तोऽर्चेत्स्वगुरुं माममायया ॥९॥ पूर्वं स्नानं प्रकुर्वीत धौतदन्तोऽङ्गशुद्धये। उभयैरपि च स्नानं मन्त्रैर्मृद्ग्रहणादिना ॥१०॥ सन्ध्योपास्त्यादि कर्माणि वेदेनाचोदितानि मे। पूजां तैः कल्पयेत्सम्यक् सङ्कल्पः कर्मपावनीम्॥११॥ शैली दारुमयी लौही लेप्या लेख्या च सैकती। मनोमयी मणिमयी प्रतिमाष्टविधा स्मृता ॥१२॥ चलाचलेति द्विविधा प्रतिष्ठा जीवमन्दिरम्। उद्वासावाहने न स्तः स्थिरायामुद्धवार्चने ॥१३॥ अस्थिरायां विकल्पः स्यात्स्थण्डिले तु भवेद्द्वयम्। स्नपनं त्वविलेप्यायामन्यत्र परिमार्जनम् ॥१४॥ द्रव्यैः प्रसिद्धैर्मद्यागः प्रतिमादिष्वमायिनः। भक्तस्य च यथा लब्धैर्हृदि भावेन चैव हि ॥१५॥ स्नानालङ्करणं प्रेष्ठमर्चायामेव तूद्धव। स्थण्डिले तत्त्वविन्यासो वह्नावाज्यप्लुतं हविः ॥१६॥ सूर्ये चाभ्यर्हणं प्रेष्ठं सलिले सलिलादिभिः। श्रद्धयोपाहृतं प्रेष्ठं भक्तेन मम वार्यपि ॥१७॥ भूर्यप्यभक्तोपाहृतं न मे तोषाय कल्पते। गन्धो धूपः सुमनसो दीपोऽन्नाद्यं च किं पुनः ॥१८॥ शुचिः सम्भृतसम्भारः प्राग्दर्भैः कल्पितासनः। आसीनः प्रागुदग्वार्चेदर्चायामथ सम्मुखः ॥१९॥ कृतन्यासः कृतन्यासां मदर्चां पाणिना मृजेत्। कलशं प्रोक्षणीयं च यथावदुपसाधयेत् ॥२०॥ तदद्भिर्देवयजनं द्रव्याण्यात्मानमेव च। प्रोक्ष्य पात्राणि त्रीण्यद्भिस्तैस्तैर्द्रव्यै? साधयेत्॥२१॥ पाद्यार्घ्याचमनीयार्थं त्रीणि पात्राणि दैशिकः। हृदा शीर्ष्णाथ शिखया गायत्र्या चाभिमन्त्रयेत्॥२२॥ पिण्डे वाय्वग्निसंशुद्धे हृत्पद्मस्थां परां मम। अण्वीं जीवकलां ध्यायेन्नादान्ते सिद्धभाविताम्॥२३॥ तयाऽऽत्मभूतया पिण्डे व्याप्ते सम्पूज्य तन्मयः। आवाह्यार्चादिषु स्थाप्य न्यस्ताङ्गं मां प्रपूजयेत्॥२४॥ पाद्योपस्पर्शार्हणादीनुपचारान् प्रकल्पयेत्। धर्मादिभि? नवभिः कल्पयित्वाऽऽसनं मम ॥२५॥ पद्ममष्टदलं तत्र कर्णिकाकेसरोज्ज्वलम्। उभाभ्यां वेदतन्त्राभ्यां मह्यं तूभयसिद्धये ॥२६॥ सुदर्शनं पाञ्चजन्यं गदासीषुधनुर्हलान्। मुसलं कौस्तुभं मालां श्रीवत्सं चानुपूजयेत् ॥२७॥ नन्दं सुनन्दं गरुडं प्रचण्डं चण्डमेव च। महाबलं बलं चैव कुमुदं कमुदेक्षणम् ॥२८॥ दुर्गां विनायकं व्यासं विष्वक्सेनं गुरून् सुरान्। स्वे स्वे स्थाने त्वभिमुखान् पूजयेत्प्रोक्षणादिभिः॥२९॥ चन्दनोशीरकर्पूरकुङ्कुमागुरुवासितैः। सलिलैः स्नापयेन्मन्त्रैर्नित्यदा विभवे सति ॥३०॥ स्वर्णघर्मानुवाकेन महापुरुषविद्यया। पौरुषेणापि सूक्तेन सामभी राजनादिभिः ॥३१॥ वस्त्रोपवीताभरणपत्रस्रग्गन्धलेपनैः। अलङ्कुर्वीत सप्रेम मद्भक्तो मां यथोचितम् ॥३२॥ पाद्यमाचमनीयं च गन्धं सुमनसोऽक्षतान्। धूपदीपोपहार्याणि दद्यान्मे श्रद्धयार्चकः ॥३३॥ गुडपायससर्पींषि शष्कुल्यापूपमोदकान्। संयावदधिसूपां? नैवेद्यं सति कल्पयेत् ॥३४॥ अभ्यङ्गोन्मर्दनादर्शदन्तधावाभिषेचनम्। अन्नाद्यगीतनृत्यादि पर्वणि स्युरुतान्वहम् ॥३५॥ विधिना विहिते कुण्डे मेखलागर्तवेदिभिः। अग्निमाधाय परितः समूहेत्पाणिनोदितम् ॥३६॥ परिस्तीर्याथ पर्युक्षेदन्वाधाय यथाविधि। प्रोक्षण्यासाद्य द्रव्याणि प्रोक्ष्याग्नौ भावयेत माम्॥३७॥ तप्तजाम्बूनदप्रख्यं शङ्खचक्रगदाम्बुजैः। लसच्चतुर्भुजं शान्तं पद्मकिञ्जल्कवाससम् ॥३८॥ स्फुरत्किरीटकटककटिसूत्रवराङ्गदम्। श्रीवत्सवक्षसं भ्राजत्कौस्तुभं वनमालिनम् ॥३९॥ ध्यायन्नभ्यर्च्य दारूणि हविषाभिघृतानि च। प्रास्याज्यभागावाघारौ दत्त्वा चाज्यप्लुतं हविः ॥४०॥ जुहुयान्मूलमन्त्रेण षोडशर्चावदानतः। धर्मादिभ्यो यथा न्यायं मन्त्रैः स्विष्टिकृतं बुधः ॥४१॥ अभ्यर्च्याथ नमस्कृत्य पार्षदेभ्यो बलिं हरेत्। मूलमन्त्रं जपेद्ब्रह्म स्मरन् नारायणात्मकम् ॥४२॥ दत्त्वाचमनमुच्छेषं विष्वक्सेनाय कल्पयेत्। मुखवासं सुरभिमत्ताम्बूलाद्यमथार्हयेत् ॥४३॥ उपगायन् गृणन् नृत्यन् कर्माण्यभिनयन् मम। मत्कथाः श्रावयन् शृण्वन् मुहूर्तं क्षणिको भवेत्॥४४॥ स्तवैरुच्चावचैः स्तोत्रैः पौराणैः प्राकृतैरपि। स्तुत्वा प्रसीद भगवन्निति वन्देत दण्डवत् ॥४५॥ शिरो मत्पादयोः कृत्वा बाहुभ्यां च परस्परम्। प्रपन्नं पाहि मामीश भीतं मृत्युग्रहार्णवात् ॥४६॥ इति शेषां मया दत्तां शिरस्याधाय सादरम्। उद्वासयेच्चेदुद्वास्यं ज्योतिर्ज्योतिषि तत्पुनः ॥४७॥ अर्चादिषु यदा यत्र श्रद्धा मां तत्र चार्चयेत्। सर्वभूतेष्वात्मनि च सर्वात्माहमवस्थितः ॥४८॥ एवं क्रियायोगपथैः पुमान् वैदिकतान्त्रिकैः। अर्चन्नुभयतः सिद्धिं मत्तो विन्दत्यभीप्सिताम् ॥४९॥ मदर्चां सम्प्रतिष्ठाप्य मन्दिरं कारयेद्दृढम्। पुष्पोद्यानानि रम्याणि पूजायात्रोत्सवाश्रितान् ॥५०॥ पूजादीनां प्रवाहार्थं महापर्वस्वथान्वहम्। क्षेत्रापणपुरग्रामान् दत्त्वा मत्सार्ष्टितामियात् ॥५१॥ प्रतिष्ठया सार्वभौमं सद्मना भुवनत्रयम्। पूजादिना ब्रह्मलोकं त्रिभिर्मत्साम्यतामियात् ॥५२॥ मामेव नैरपेक्ष्येण भक्तियोगेन विन्दति। भक्तियोगं स लभत एवं यः पूजयेत माम् ॥५३॥ यः स्वदत्तां परैर्दत्तां हरेत सुरविप्रयोः। वृत्तिं स जायते विड् भुग् वर्षाणामयुतायुतम् ॥५४॥ कर्तु? सारथेर्हेतोरनुमोदितुरेव च। कर्मणां भागिनः प्रेत्य भूयो भूयसि तत्फलम्॥५५॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे सप्तविंशोऽध्यायः॥२७॥

॥ अष्टाविंशोऽध्यायः - २८ ॥

श्रीभगवानुवाच परस्वभावकर्माणि न प्रशंसे? गर्हयेत्। विश्वमेकात्मकं पश्यन् प्रकृत्या पुरुषेण च ॥१॥ परस्वभावकर्माणि यः प्रशंसति निन्दति। स आशु भ्रश्यते स्वार्थादसत्यभिनिवेशतः ॥२॥ तैजसे निद्रयापन्ने पिण्डस्थो नष्टचेतनः। मायां प्राप्नोति मृत्युं वा तद्वन्नानार्थदृक् पुमान् ॥३॥ किं भद्रं किमभद्रं वा द्वैतस्यावस्तुनः कियत्। वाचोदितं तदनृतं मनसा ध्यातमेव च ॥४॥ छाया प्रत्याह्वयाभासा ह्यसन्तोऽप्यर्थकारिणः। एवं देहादयो भावा यच्छन्त्यामृत्युतो भयम् ॥५॥ आत्मैव तदिदं विश्वं सृज्यते सृजति प्रभुः। त्रायते त्राति विश्वात्मा ह्रियते हरतीश्वरः ॥६॥ तस्मा? ह्यात्मनोऽन्यस्मादन्यो भावो निरूपितः। निरूपितेयं त्रिविधा निर्मूला भातिरात्मनि। इदं गुणमयं विद्धि त्रिविधं मायया कृतम् ॥७॥ एतद्विद्वान् मदुदितं ज्ञानविज्ञाननैपुणम्। न निन्दति न च स्तौति लोके चरति सूर्यवत् ॥८॥ प्रत्यक्षेणानुमानेन निगमेनात्मसंविदा। आद्यन्तवदसज्ज्ञात्वा निःसङ्गो विचरेदिह ॥९॥ उद्धव उवाच नैवात्मनो न देहस्य संसृतिर्द्रष्टृदृश्ययोः। अनात्मस्वदृशोरीश कस्य स्यादुपलभ्यते ॥१०॥ आत्माव्ययोऽगुणः शुद्धः स्वयंज्योतिरनावृतः। अग्निवद्दारुवदचिद्देहः कस्येह संसृतिः ॥११॥ श्रीभगवानुवाच यावद्देहेन्द्रियप्राणैरात्मनः सन्निकर्षणम्। संसारः फलवांस्तावदपार्थोऽप्यविवेकिनः ॥१२॥ अर्थे ह्यविद्यमानेऽपि संसृतिर्न निवर्तते। ध्यायतो विषयानस्य स्वप्नेऽनर्थागमो यथा ॥१३॥ यथा ह्यप्रतिबुद्धस्य प्रस्वापो बह्वनर्थभृत्। स एव प्रतिबुद्धस्य न वै मोहाय कल्पते ॥१४॥ शोकहर्षभयक्रोधलोभमोहस्पृहादयः। अहङ्कारस्य दृश्यन्ते जन्ममृत्यु? नात्मनः ॥१५॥ देहेन्द्रियप्राणमनोऽभिमानो जीवोऽन्तरात्मा गुणकर्ममूर्तिः। सूत्रं महानित्युरुधेव गीतः संसार आधावति कालतन्त्रः ॥१६॥ अमूलमेतद्बहुरूपरूपितं मनोवचःप्राणशरीरकर्म। ज्ञानासिनोपासनया शितेन- च्छित्त्वा मुनिर्गां विचरत्यतृष्णः ॥१७॥ ज्ञानं विवेको निगम?प? प्रत्यक्षमैतिह्यमथानुमानम्। आद्यन्तयोरस्य यदेव केवलं काल? हेतु? तदेव मध्ये ॥१८॥ यथा हिरण्यं स्वकृतं पुरस्तात्पश्चा? सर्वस्य हिरण्मयस्य। तदेव मध्ये व्यवहार्यमाणं नानापदेशैरहमस्य तद्वत् ॥१९॥ विज्ञानमेतत्त्रियवस्थमङ्ग गुणत्रयं कारणकार्यकर्तृ। समन्वयेन व्यतिरेकत? येनैव तुर्येण तदेव सत्यम् ॥२०॥ न यत्पुरस्तादुत य? पश्चान्मध्ये च त? व्यपदेशमात्रम्। भूतं प्रसिद्धं च परेण यद्यत्तदेव तत्स्यादिति मे मनीषा ॥२१॥ अविद्यमानोऽप्यवभासते यो वैकारिको राजससर्ग एषः। ब्रह्म स्वयंज्योतिरतो विभाति ब्रह्मेन्द्रियार्थात्मविकारचित्रम् ॥२२॥ एवं स्फुटं ब्रह्मविवेकहेतुभिः परापवादेन विशारदेन । छित्त्वात्मसन्देहमुपारमेत स्वानन्दतुष्टोऽखिलकामुकेभ्यः ॥२३॥ नात्मा वपुः पार्थिवमिन्द्रियाणि देवा ह्यसुर्वायुर्जलं हुताशः। मनोऽन्नमात्रं धिषणा च सत्त्वमहङ्कृतिः खं क्षितिरर्थसाम्यम् ॥२४॥ समाहितैः कः करणैर्गुणात्मभिर्गुणो भवेन्मत्सुविविक्तधाम्नः। विक्षिप्यमाणैरुत किं नु दूषणं घनैरुपेतैर्विगतै रवेः किम् ॥२५॥ यथा नभो वाय्वनलाम्बुभूगुणै- र्गतागतैर्वर्तुगुणैर्न सज्जते। तथाक्षरं सत्त्वरज?मोमलैरहंमतेः संसृतिहेतुभिः परम् ॥२६॥ तथापि सङ्गः परिवर्जनीयो गुणेषु मायारचितेषु तावत्। मद्भक्तियोगेन दृढेन यावद्रजो निरस्येत मनः कषायः ॥२७॥ यथाऽमयोऽसाधुचिकित्सितो नृणां पुनः पुनः सन्तुदति प्ररोहन्। एवं मनोपक्वकषायकर्म कुयोगिनं विध्यति सर्वसङ्गम् ॥२८॥ कुयोगिनो ये विहितान्तरायै- र्मनुष्यभूतैस्त्रिदशोपसृष्टैः। ते प्राक्तनाभ्यासबलेन भूयो युञ्जन्ति योगं न तु कर्मतन्त्रम् ॥२९॥ करोति कर्म क्रियते च जन्तुः केनाप्यसौ चोदित आनिपतात्। न तत्र विद्वान् प्रकृतौ स्थितोऽपि निवृत्ततृष्णः स्वसुखानुभूत्या ॥३०॥ तिष्ठन्तमासीनमुत व्रजन्तं शयानमुक्षन्तमदन्तमन्नम्। स्वभावमन्यत्किमपीहमान- मात्मानमात्मस्थमतिर्न वेद ॥३१॥ यदि स्म पश्यत्यसदिन्द्रियार्थं नानानुमानेन विरुद्धमन्यत्। न मन्यते वस्तुतया मनीषी स्वाप्नं यथोत्थाय तिरोदधानम् ॥३२॥ पूर्वं गृहीतं गुणकर्मचित्र- मज्ञानमात्मन्यविविक्तमङ्ग। निवर्तते तत्पुनरीक्षयैव न गृह्यते नापि विसृज्य आत्मा ॥३३॥ यथा हि भानोरुदयो नृचक्षुषां तमो निहन्या? तु सद्विधत्ते। एवं समीक्षा निपुणा सती मे हन्यात्तमिस्रं पुरुषस्य बुद्धेः ॥३४॥ एष स्वयंज्योतिरजोऽप्रमेयो महानुभूतिः सकलानुभूतिः। एकोऽद्वितीयो वचसां विरामे येनेषिता वागसव?रन्ति ॥३५॥ एतावानात्मसम्मोहो यद्विकल्पस्तु केवले। आत्मन्नृते स्वमात्मानमवलम्बो न यस्य हि ॥३६॥ यन्नामाकृतिभिर्ग्राह्यं पञ्चवर्णमबाधितम्। व्यर्थेनाप्यर्थवादोऽयं द्वयं पण्डितमानिनाम् ॥३७॥ योगिनोऽपक्वयोगस्य युञ्जतः काय उत्थितैः। उपसर्गैर्विहन्येत तत्रायं विहितो विधिः ॥३८॥ योगधारणया कांश्चिदासनैर्धारणान्वितैः। तपोमन्त्रौषधैः कांश्चिदुपसर्गान् विनिर्दहेत् ॥३९॥ कांश्चिन्ममानुध्यानेन नामसङ्कीर्तनादिभिः। योगेश्वरानुवृत्त्या वा हन्यादशुभदान् शनैः ॥४०॥ केचिद्देहमिमं धीराः सुकल्पं वयसि स्थिरम्। विधाय विविधोपायैरथ युञ्जन्ति सिद्धये ॥४१॥ न हि तत्कुशलादृत्यं तदायासो ह्यपार्थकः। अन्तवत्त्वाच्छरीरस्य फलस्येव वनस्पतेः ॥४२॥ योगं निषेवतो नित्यं कायश्चेत्कल्पतामियात्। तच्छ्रद्दध्या? मतिमान् योगमुत्सृज्य मत्परः ॥४३॥ योगचर्यामिमां योगी विचरन् मदपाश्रयः। नान्तरायैर्विहन्येत निःस्पृहः स्वसुखानुभूः ॥४४॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे अष्टाविंशोऽध्यायः॥२८॥

॥ एकोनत्रिंशोऽध्यायः - २९ ॥

उद्धव उवाच सुदुश्चरामिमां मन्ये योगचर्यामनात्मनः। यथाञ्जसा पुमान् सिद्ध्येत्तन्मे ब्रूह्यञ्जसाच्युत ॥१॥ प्रायशः पुण्डरीकाक्ष युञ्जन्तो योगिनो मनः। विषीदन्त्यसमाधानान्मनोनिग्रहकर्शिताः ॥२॥ अथात आनन्ददुघं पदाम्बुजं हंसाः श्रयेरन्नरविन्दलोचन। सुखं नु विश्वेश्वर योगकर्मभि- स्त्वन्माययामी विहता न मानिनः ॥३॥ किं चित्रमच्युत तवैतदशेषबन्धो दासेष्वनन्यशरणेषु यदात्मसात्त्वम्। योऽरोचयत्सह मृगैः स्वयमीश्वराणां श्रीमत्किरीटतटपीडितपादपीठः ॥४॥ तं त्वाखिलात्मदयितेश्वरमाश्रितानां सर्वार्थदं स्वकृतविद्विसृजेत को नु । को वा भजेत्किमपि विस्मृतयेऽनुभूत्यै किं वा भवे? तव पादरजोजुषां नः ॥५॥ नैवोपयन्त्यपचितिं कवय?वेश ब्रह्मायुषापि कृतमृद्धमुदः स्मरन्तः । योऽन्तर्बहि?नुभृतामशुभं विधुन्व- न्नाचार्यचैत्त्यवपुषा स्वगतिं व्यनक्ति ॥६॥ श्रीशुक उवाच इत्युद्धवेनात्यनुरक्तचेतसा पृष्टो जगत्क्रीडनकः स्वशक्तिभिः। गृहीतमूर्तित्रय ईश्वरेश्वरो जगाद सप्रेममनोहरस्मितः ॥७॥ श्रीभगवानुवाच हन्त ते कथयिष्यामि मम धर्मान् सुमङ्गलान्। यान् श्रद्धयाऽऽचरन् मर्त्यो मृत्युं जयति दुर्जयम् ॥८॥ कुर्यात्सर्वाणि कर्माणि मदर्थं शनकैः स्मरन्। मय्यर्पितमनश्चित्तो मद्धर्मात्ममनोरतिः ॥९॥ देशान् पुण्यानाश्रयेत मद्भक्तैः साधुभिः श्रितान्। देवासुरमनुष्येषु मद्भक्ताचरितानि च ॥१०॥ पृथक् सत्रेण वा मह्यं पर्वयात्रामहोत्सवान्। कारयेद्गीतनृत्याद्यैर्महाराजविभूतिभिः ॥११॥ मामेव सर्वभूतेषु बहिरन्तरपावृतम्। ईक्षेतात्मनि चात्मानं यथा खममलाशयः ॥१२॥ इति सर्वाणि भूतानि मद्भावेन महाद्युते। सभाजयन् मन्यमानो ज्ञानं केवलमाश्रितः ॥१३॥ ब्राह्मणे पुल्कसे स्तेने ब्रह्मण्येऽर्के स्फुलिङ्गके। अक्रूरे क्रूरके चैव समदृक् पण्डितो मतः ॥१४॥ नरेष्वभीक्ष्णं मद्भावं पुंसो भावयतोऽचिरात्। स्पर्धासूयातिरस्काराः साहङ्कारा वियन्ति हि ॥१५॥ विसृज्य स्मयमानान् स्वान् दृशं व्रीडां च दैहिकीम्। प्रणमेद्दण्डवद्भूमावाश्वचाण्डालगोखरम् ॥१६॥ यावत्सर्वेषु भूतेषु मद्भावो नोपजायते। तावदेवमुपासीत वाङ् मनःकायवृत्तिभिः ॥१७॥ सर्वं ब्रह्मात्मकं तस्य विद्ययात्ममनीषया। परिपश्यन्नुपरमेत्सर्वतो मुक्तसंशयः ॥१८॥ अयं हि सर्वकल्पानां सध्रीचीनो मतो मम। मद्भावः सर्वभूतेषु मनोवाक्कायवृत्तिभिः ॥१९॥ न ह्यङ्गोपक्रमे ध्वंसो मद्धर्मस्योद्धवाण्वपि। मया व्यवसितः सम्यङ् निर्गुणत्वादनाशिषः ॥२०॥ यो यो मयि परे धर्मः कल्प्यते निष्फलाय चेत्। तदायासो निरर्थः स्याद्भयादेरिव सत्तम ॥२१॥ एषा बुद्धिमतां बुद्धिर्मनीषा च मनीषिणाम्। यत्सत्यमनृतेनेह मर्त्येनाप्नोति मामृतम् ॥२२॥ एष तेऽभिहितः कृत्स्नो ब्रह्मवादस्य सङ्ग्रहः। समासव्यासविधिना देवानामपि दुर्गमः ॥२३॥ अभीक्ष्णशस्ते गदितं ज्ञानं विस्पष्टयुक्तिमत्। एतद्विज्ञाय मुच्येत पुरुषो नष्टसंशयः ॥२४॥ सुविविक्तं तव प्रश्नं मयैतदपि धारयेत्। सनातनं ब्रह्मगुह्यं परं ब्रह्माधिगच्छति ॥२५॥ य एतन्मम भक्तेषु सम्प्रदद्यात्सुपुष्कलम्। तस्याहं ब्रह्मदायस्य ददाम्यात्मानमात्मना ॥२६॥ य एतत्समधीयीत पवित्रं परमं शुचि। स पूयेताहरहर्मां ज्ञानदीपेन दर्शयन् ॥२७॥ य एतच्छ्रद्धया नित्यमव्यग्रः शृणुया?रः। मयि भक्तिं परां कुर्वन् कर्मभिर्न स बध्यते ॥२८॥ अप्युद्धव त्वया ब्रह्म सखे समवधारितम्। अपि ते विगतो मोहः शोकश्चासौ मनोभवः ॥२९॥ नैतत्त्वया दाम्भिकाय नास्तिकाय शठाय च। अशुश्रूषोरभक्ताय दुर्विनीताय दीयताम् ॥३०॥ एतैर्दोषैर्विहीनाय ब्रह्मण्याय प्रियाय च। साधवे शुचये ब्रूयाद्भक्तिः स्याच्छूद्रयोषिताम् ॥३१॥ नैतद्विज्ञाय जिज्ञासोर्ज्ञातव्यमवशिष्यते। पीत्वा पीयूषममृतं पातव्यं नावशिष्यते ॥३२॥ ज्ञाने कर्मणि योगे च वार्तायां दण्डधारणे। यावानर्थो नृणां तात तावांस्तेऽहं चतुर्विधः ॥३३॥ मर्त्यो यदा त्यक्तसमस्तकर्मा निवेदितात्मा विचिकीर्षितो मे। तदामृतत्वं प्रतिपद्यमानो मयात्मभूयाय च कल्पते वै ॥३४॥ श्रीशुक उवाच स एवमादर्शितयोगमार्ग- ?दोत्तमश्लोकवचो निशम्य। बद्धाञ्जलिः प्रीत्युपरुद्धकण्ठो न किञ्चिदूचेऽश्रुपरिप्लुताक्षः ॥३५॥ विष्टभ्य चित्तं प्रणयावघूर्णं धैर्येण राजन् बहुमन्यमानः। कृताञ्जलिः प्राह यदुप्रवीरं शीर्ष्णा स्पृशं??रणारविन्दम् ॥३६॥ उद्धव उवाच विद्रावितो मोहमहान्धकारो य आश्रितो मे तव सन्निधानात्। विभावसोः किं नु समीपगस्य शीतं तमो भीः प्रभवन्त्यजाद्य ॥३७॥ प्रत्यर्पितो मे भवतानुकम्पिना भृत्याय विज्ञानमयः प्रदीपः। हित्वा कृतज्ञ?व पादमूलं कोऽन्यं समीयाच्छरणं त्वदीयम् ॥३८॥ वृक्ण? मे सुदृढः स्नेहपाशो दाशार्हवृष्ण्यन्धकसात्वतेषु। प्रसारितः सृष्टिविवृद्धये त्वया स्वमायया ह्यात्मसुबोधहेतिना ॥३९॥ नमोऽस्तु ते महायोगिन् प्रपन्नमनुशाधि माम्। यथा त्व?रणाम्भोजे रतिः स्यादनपायिनी ॥४०॥ श्रीभगवानुवाच गच्छोद्धव मयादिष्टो बदर्याख्यं ममाश्रमम्। तत्र मत्पादतीर्थोदे स्नानोपस्पर्शनैः शुचिः ॥४१॥ ईक्षयालकनन्दाया विधूताशेषकल्मषः। वसानो वल्कलान्यङ्ग वन्यभुक् सुखनिःस्पृहः ॥४२॥ तितिक्षुर्द्वन्द्वमात्राणां सुशीलः संयतेन्द्रियः। शान्तः समाहितधिया ज्ञानविज्ञानसंयुतः ॥४३॥ मत्तोऽनुशिक्षितं यत्ते विविक्तमनुभावयन्। मय्यावेशितवाक् चित्तो मद्धर्मनिरतो भव। अतिव्रज्य गतीस्तिस्रो मामेष्यसि ततः परम् ॥४४॥ श्रीशुक उवाच स एवमुक्तो हरिमेधसोद्धवः प्रदक्षिणं तं परिसृत्य पादयोः। शिरो निधायाश्रुकलाभिरार्द्रधी- र्न्यषिञ्चदद्वन्द्वपरोऽप्यपक्रमे ॥४५॥ सुदुस्त्यजस्नेहवियोगकातरो न शक्नुवंस्तं परिहातुमातुरः। कृच्छ्रं ययौ मूर्धनि भर्तृपादुके बिभ्र?मस्कृत्य ययौ पुनः पुनः ॥४६॥ तत?मन्तर्हृदि सन्निवेश्य गतो महाभागवतो विशालाम्। यथोपदिष्टां जगदेकबन्धुना तपः समास्थाय हरेरगाद्गतिम् ॥४७॥ स गो ना सं गो गो य एतदानन्दसमुद्रसम्भृतं ज्ञानामृतं भागवताय भाषितम्। कृष्णेन योगेश्वरसेविताङ्घ्रिणा सच्छ्रद्धयासेव्य जगद्विमुच्यते ॥४८॥ भवभयमपहन्तुं ज्ञानविज्ञानसारं निगमकृदुपजह्रे भृङ्गवद्वेदसारम्। अमृतमुदधितश्चापाययद्भृत्यवर्गान् पुरुषमृषभमाद्यं कृष्णसंज्ञं नतोऽस्मि ॥४९॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे एकोनत्रिंशोऽध्यायः॥२९॥

॥ त्रिंशोऽध्यायः - ३० ॥

राजोवाच ततो महाभागवते उद्धवे निर्गते वनम्। द्वारवत्यां किमकरोद्भगवान् भूतभावनः ॥१॥ ब्रह्मशापोपसंसृष्टे स्वकुले यादवर्षभः। प्रेयसीं सर्वनेत्राणां तनुं स कथमत्यजत् ॥२॥ प्रत्याक्रष्टुं नयनमबला यत्र लग्नं न शेकुः कर्णाविष्टं न सरति ततो यत्सतामात्मलग्नम्। यच्छ्रीर्वाचां जनयति रतिं किं नु मानं कवीनां दृष्ट्वा जिष्णोर्युधि रथगतं य? तत्साम्यमीयुः ॥३॥ ऋषिरुवाच दिवि भुव्यन्तरिक्षे च महोत्पातान् समुत्थितान्। दृष्ट्वाऽऽसीनान् सुधर्मायां कृष्णः प्राह यदूनिदम् ॥४॥ एते घोरा महोत्पाता द्वार्वत्यां यमकेतवः। मुहूर्तमपि न स्थेयमत्र नो यदुपुङ्गवाः ॥५॥ स्त्रियो बाला? वृद्धा? शङ्खोद्धारं व्रजन्त्वितः। वयं प्रभासं यास्यामो यत्र प्रत्यक्सरस्वती ॥६॥ तत्राभिषिच्य शुचय उपोष्य सुसमाहिताः। देवताः पूजयिष्यामः स्नपनालेपनार्हणैः ॥७॥ ब्राह्मणांस्तु महाभागान् कृतस्वस्त्ययना वयम्। गोभूहिरण्यवासोभिर्गजाश्वरथवेश्मभिः ॥८॥ विधिरेष ह्यरिष्टघ्नो मङ्गलायनमुत्तमम्। देवद्विजगवां पूजा भूतेषु परमो भवः ॥९॥ इति सर्वे समाकर्ण्य यदुवृद्धा मधुद्विषः। तथेति नौभिरुत्तीर्य प्रभासं प्रययू रथैः ॥१०॥ तस्मिन् भगवतादिष्टं यदुदेवेन यादवाः। चक्रुः परमया भक्त्या सर्वश्रेयोपबृंहितम् ॥११॥ तत?स्मिन् महापानं पपुर्मैरेयकं मधु। दिष्टविभ्रंशितधियो यद्द्रवैर्भ्रश्यते मतिः ॥१२॥ महापानाभिमत्तानां वीराणां दृप्तचेतसाम्। कृष्णमायाविमूढानां सङ्घर्षः सुमहानभूत् ॥१३॥ युयुधुः क्रोधसंरब्धा वेलायामाततायिनः। धनुर्भिरसिभिर्भल्लैर्गदाभिस्तोमरर्ष्टिभिः ॥१४॥ पतत्पताकै रथकुञ्जरादिभिः खरोष्ट्रगोभिर्महिषैर्नरैरपि। मिथः समेत्याश्वतरैः सुदुर्मदा न्यहन् शरैर्दद्भिरिव द्विपा वने ॥१५॥ प्रद्युम्नसाम्बौ युधि रूढमत्सरा- वक्रूरभोजावनिरुद्धसात्यकी। सुभद्रसङ्ग्रामजितौ सुदारुणौ गदौ सुमित्रासुरथौ समीयतुः ॥१६॥ अन्ये च ये वै निशठोल्मुकादयः सहस्रजिच्छतजिद्भानुमुख्याः। अन्योन्यमासाद्य मदान्धकारिता जघ्नुर्मुकुन्देन विमोहिता भृशम् ॥ १७॥ दाशार्हवृष्ण्यन्धकभोजसात्वता मध्वर्बुदा माथुरशूरसेनाः। विसर्जनाः कुकुराः कुन्तय? मिथस्ततस्तेऽथ विसृज्य सौहृदम् ॥१८॥ पुत्रा अयुध्यन् पितृभिर्भ्रातृभि? स्वस्रीयदौहित्रपितृव्यमातुलैः। मित्राणि मित्रैः सुहृदः सुहृद्भि- र्ज्ञातींस्त्वहन् ज्ञातय एव मूढाः ॥१९॥ शरेषु हीयमानेषु भज्यमानेषु धन्वसु। शस्त्रेषु क्षीयमानेषु मुष्टिभिर्जह्रुरेरकाः ॥२०॥ ता वज्रकल्पा ह्यभवन् परिघा मुष्टिना भृताः। जघ्नुर्द्विषस्तैः कृष्णेन वार्यमाणास्तु तं च ते ॥२१॥ प्रत्यनीकं मन्यमाना बलभद्रं च मोहिताः। हन्तुं कृतधियो राजन्नापन्ना आततायिनः ॥२२॥ अथ तावपि सङ्क्रुद्धावुद्यम्य कुरुनन्दन। एरकामुष्टिपरिघौ चरन्तौ जघ्नतुर्युधि ॥२३॥ ब्रह्मशापोपसृष्टानां कृष्णमायावृतात्मनाम्। स्पर्धा क्रोधः क्षयं निन्ये वैणवोऽग्निर्यथा वनम्॥२४॥ एवं नष्टेषु सर्वेषु कुलेषु स्वेषु केशवः। अवतारितो भुवो भार इति मेनेऽवशेषितः ॥२५॥ रामः समुद्रवेलायां योगमास्थाय पौरुषम्। तत्याज लोकं मानुष्यं संयोज्यात्मानमात्मनि ॥२६॥ सगोनागोगो रामनिर्याणमालोक्य भगवान् देवकीसुतः। निषसाद धरोपस्थे तूष्णीमासाद्य पिप्पलम् ॥२७॥ बिभ्र?तुर्भुजं रूपं भ्राजिष्णु प्रभया स्वया। दिशो वितिमिराः कुर्वन् विधूम इव पावकः ॥२८॥ श्रीवत्साङ्कं घनश्यामं तप्तहाटकवर्चसम्। कौशेयाम्बरयुग्मेन परिवीतं सुमङ्गलम् ॥२९॥ सुन्दरस्मितवक्त्राब्जं नीलकुन्तलमण्डितम्। पुण्डरीकाभिरामाक्षं स्फुरन्मकरकुण्डलम् ॥३०॥ कटिसूत्रब्रह्मसूत्रकिरीटकटकाङ्गदैः। हारनूपुरमुद्राभिः कौस्तुभेन विराजितम् ॥३१॥ वनमालापरीताङ्गं मूर्तिमद्भिर्निजायुधैः। कृत्वोरौ दक्षिणे पादमासीनं पङ्कजारुणम् ॥३२॥ मुसलावशेषायःखण्डकृतेषुर्लुब्धको जरा। मृगास्याकारं त?रणं विव्याध मृगशङ्कया ॥३३॥ चतुर्भुजं तं पुरुषं दृष्ट्वा स कृतकिल्बिषः। भीतः पपात शिरसा पादयोरसुरद्विषः ॥३४॥ अजानता कृतमिदं पापेन मधुसूदन। क्षन्तुमर्हसि पापस्य उत्तमश्लोक मेऽनघ ॥३५॥ यस्यानुस्मरणं नॄणामज्ञानध्वान्तनाशनम्। वदन्ति तस्य ते विष्णो मयासाधु कृतं प्रभो ॥३६॥ तन्माऽऽशु जहि वैकुण्ठ पाप्मानं मृगलुब्धकम्। यथा पुनरहं त्वेवं न कुर्यां सदतिक्रमम् ॥३७॥ यस्यात्मयोगरचितं न विदुर्विरिञ्चो रुद्रादयोऽस्य तनयाः पतयो गिरां ये। त्वन्मायया पिहितदृष्टय एतदञ्जः किं तस्य ते वयमसद्गतयो गृणीमः ॥३८॥ श्रीभगवानुवाच मा भैर्जरे त्वमुत्तिष्ठ काम एष कृतो हि मे। याहि त्वं मदनुज्ञातः स्वर्गं सुकृतिनां पदम् ॥३९॥ इत्यादिष्टो भगवता कृष्णेनेच्छाशरीरिणा। त्रिः परिक्रम्य तं नत्वा विमानेन दिवं ययौ ॥४०॥ दारुकः कृष्णपदवीमन्विच्छन्नधिगम्य ताम्। वायुं तुलसिकामोदमाघ्रायाभिमुखं ययौ ॥४१॥ तं तत्र तिग्मद्युभिरायुधैर्वृतं ह्यश्वत्थमूले कृतकेतनं पतिम्। स्नेहप्लुतात्मा निपपात पादयो रथादवप्लुत्य सबाष्पलोचनः ॥४२॥ अपश्यतस्त्व?रणाम्बुजं प्रभो दृष्टिः प्रणष्टा तमसि प्रविष्टा। दिशो न जाने न लभे च शान्तिं यथा निशायामुडुपे प्रणष्टे ॥४३॥ इति ब्रुवति सूते वै रथो गरुडलाञ्छनः। खमुत्पपात राजेन्द्र साश्वध्वज उदीक्षतः ॥४४॥ तमन्वगच्छन् दिव्यानि विष्णुप्रहरणानि च। तेनातिविस्मितात्मानं सूतमाह जनार्दनः ॥४५॥ गच्छ द्वारवतीं सूत ज्ञातीनां निधनं मिथः। सङ्कर्षणस्य निर्याणं बन्धुभ्यो ब्रूहि मद्दशाम् ॥४६॥ द्वारकायां च न स्थेयं भवद्भि? स्वबन्धुभिः। मया त्यक्तां यदुपुरीं समुद्रः प्लावयिष्यति ॥४७॥ स्वं स्वं परिग्रहं सर्वे आदाय पितरौ च नः। अर्जुनेनाविताः सर्व इन्द्रप्रस्थं गमिष्यथ ॥४८॥ त्वं तु मद्धर्ममास्थाय ज्ञाननिष्ठ उपेक्षकः। मन्मायारचनामेतां विज्ञायोपशमं व्रज ॥४९॥ इत्युक्तस्तं परिक्रम्य नमस्कृत्य पुनः पुनः। तत्पादौ शीर्ष्ण्युपाधाय दुर्मनाः प्रययौ पुरीम् ॥५०॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे त्रिंशोऽध्यायः॥३०॥

॥ एकत्रिंशोऽध्यायः - ३१ ॥

श्रीशुक उवाच अथ तत्रागमद्ब्रह्मा भवान्या च समं भवः। महेन्द्रप्रमुखा देवा मुनयः सप्रजेश्वराः ॥१॥ पितरः सिद्धगन्धर्वा विद्याधरमहोरगाः। चारणा यक्षरक्षांसि किन्नराप्सरसो द्विजाः ॥२॥ द्रष्टुकामा भगवतो निर्याणं परमोत्सुकाः। गायन्त? गृणन्त? शौरेः कर्माणि जन्म च ॥३॥ ववृषुः पुष्पवर्षाणि विमानावलिभिर्नभः। कुर्वन्तः सङ्कुलं राजन् भक्त्या परमया युताः ॥४॥ भगवान् पितामहं वीक्ष्य विभूतीरात्मनो विभुः। संयोज्यात्मनि चात्मानं पद्मनेत्रे न्यमीलयत् ॥५॥ लोकाभिरामां स्वतनुं धारणाध्यानमङ्गलम्। योगधारणयाऽऽग्नेय्यादग्ध्वा धामाविशत्स्वकम् ॥६॥ सगोनागोगो दिवि दुन्दुभयो नेदुः पेतुः सुमनस? खात्। सत्यं धर्मो धृतिर्भूमेः कीर्तिः श्रीश्चानु तं ययुः ॥७॥ देवादयो ब्रह्ममुख्या न विशन्तं स्वधामनि। अविज्ञातगतिं कृष्णं ददृशुश्चातिविस्मिताः ॥८॥ सौदामन्या यथाऽऽकाशे यान्त्या हित्वाभ्रमण्डलम्। गतिर्न लक्ष्यते मर्त्यै?था कृष्णस्य दैवतैः ॥९॥ ब्रह्मरुद्रादयस्ते तु दृष्ट्वा योगगतिं हरेः। विस्मितास्तां प्रशंसन्तः स्वं स्वं लोकं ययु?दा॥१०॥ राजन् परस्य तनुभृ?ननाप्ययेहा माया विडम्बनमवेहि यथा नटस्य। सृष्ट्वात्मनेदमनुविश्य विहृत्य चान्ते संहृत्य चात्ममहिमोपरतः स आस्ते ॥११॥ मर्त्येन यो गुरुसुतं यमलोकनीतं त्वां चानयच्छरणदः परमास्त्रदग्धम्। जिग्येऽन्तकान्तकमपीशमसावनीशः किं स्वावने स्वरनयन् मृगयुं सदेहम् ॥१२॥ तथाप्यशेषस्थितिसम्भवाप्यये- ष्वनन्यहेतुर्यदशेषशक्तिधृक् । नैच्छत्प्रणेतुं वपुरत्र शेषितं मर्त्येन किं स्वस्थगतिं प्रदर्शयन् ॥१३॥ य एतां प्रातरुत्थाय कृष्णस्य पदवीं पराम्। प्रयतः कीर्तयेद्भक्त्या तामेवाप्नोत्यनुत्तमाम् ॥१४॥ दारुको द्वारकामेत्य वसुदेवोग्रसेनयोः। पतित्वा चरणावस्रैर्न्यषिञ्चत्कृष्णविच्युतः ॥१५॥ कथयामास निधनं वृष्णीनां कृत्स्नशो नृप। तच्छ्रुत्वोद्विग्नहृदया जनाः शोकविर्मूर्च्छिताः ॥१६॥ तत्र स्म त्वरिता जग्मुः कृष्णविश्लेषविह्वलाः। व्यसवः शेरते यत्र ज्ञातयो घ्नन्त आननम् ॥१७॥ देवकी रोहिणी चैव वसुदेव?था सुतौ। कृष्णरामावपश्यन्तः शोकार्ता विजहुः स्मृतिम्॥१८॥ प्राणां? विजहु?त्र भगवद्विरहातुराः। उपगुह्य पतींस्तात चितामारुरुहुः स्त्रियः ॥१९॥ रामपत्न्य? तद्देहमुपगुह्याग्निमाविशन्। वसुदेवपत्न्य?द्गात्रं प्रद्युम्नादीन् हरेः स्नुषाः। कृष्णपत्न्योऽविशन्नग्निं रुक्मिण्याद्या?दात्मिकाः॥२०॥ अर्जुनः प्रेयसः सख्युः कृष्णस्य विरहातुरः। आत्मानं सान्त्वयामास कृष्णगीतैः सदुक्तिभिः॥२१॥ बन्धूनां नष्टगोत्राणामर्जुनः साम्परायिकम्। हतानां कारयामास यथावदनुपूर्वशः ॥२२॥ द्वारकां हरिणा त्यक्तां समुद्रोऽप्लावयत्क्षणात्। वर्जयित्वा महाराज श्रीमद्भगवदालयम् ॥२३॥ नित्यं सन्निहित?त्र भगवान् मधुसूदनः। स्मृत्याशेषाशुभहरं सर्वमङ्गलमङ्गलम् ॥२४॥ स्त्रीबालवृद्धानादाय हतशेषान् धनञ्जयः। इन्द्रप्रस्थं समावेश्य वज्रं तत्राभ्यषेचयत् ॥२५॥ श्रुत्वा सुहृद्वधं राजन्नर्जुनात्ते पितामहाः। त्वां तु वंशधरं कृत्वा जग्मुः सर्वे महापथम् ॥२६॥ य एतद्देवदेवस्य विष्णोः कर्माणि जन्म च। कीर्तयेच्छ्रद्धया मर्त्यः सर्वपापैः प्रमुच्यते ॥२७॥ इत्थं हरेर्भगवतो रुचिरावतार- वीर्याणि बालचरितानि च शन्तमानि। अन्यत्र चेह च श्रुतानि गृणन् मनुष्यो भक्तिं परां परमहंसगतौ लभेत ॥२८॥ इति श्रीमद्भागवते महापुराणे वैयासक्यामष्टादशसाहस्र्यां पारमहंस्यां संहितायां एकादशस्कन्धे एकत्रिंशोऽध्यायः॥३१॥

॥ समाप्तोऽयमेकादशस्कन्धः ॥

ॐ तत्सत् ॥


GRETIL txt edited as per Gita Press edition along with paaThabheda by PSA Easwaran
% Text title            : shrImadbhAgavatam - 11 - ekAdashaskandhaH
% File name             : bhagpur-11.itx
% itxtitle              : shrImadbhAgavatam - 11 - ekAdashaskandhaH
% engtitle              : shrImadbhAgavatam - ekAdashaskandhaH
% Category              : purana, shrimadbhagavatam, vyAsa, krishna
% Location              : doc_purana
% Sublocation           : purana
% Language              : Sanskrit
% Subject               : hinduism/religion
% Indexextra            : ()
% Latest update         : July 31, 2017, July 16, 2010
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP