॥ श्रीमद्भागवतम् - द्वादशस्कन्धः ॥

॥ ॐ नमो भगवते वासुदेवाय ॥

॥ द्वादशस्कन्धः ॥

॥ प्रथमोऽध्यायः - १ ॥

राजोवाच स्वधामानुगते कृष्णे यदुवंशविभूषणे। कस्य वंशोऽभवत्पृथ्व्यामेतदाचक्ष्व मे मुने ॥१॥ श्रीशुक उवाच योऽन्त्यः पुरञ्जयो नाम भाव्यो बार्हद्रथो नृप। तस्यामात्यस्तु शुनको हत्वा स्वामिनमात्मजम्॥२॥ प्रद्योतसंज्ञं राजानं कर्ता यत्पालकः सुतः। विशाखयूपस्तत्पुत्रो भविता राजकस्ततः ॥३॥ नन्दिवर्धनस्तत्पुत्रः पञ्च प्रद्योतना इमे। अष्टात्रिंशोत्तरशतं भोक्ष्यन्ति पृथिवीं नृपाः ॥४॥ शिशुनागस्ततो भाव्यः काकवर्णस्तु तत्सुतः। क्षेमधर्मा तस्य सुतः क्षेत्रज्ञः क्षेमधर्मजः ॥५॥ विधिसारः सुतस्तस्याजातशत्रुर्भविष्यति। दर्भकस्तत्सुतो भावी दर्भकस्याजयः स्मृतः ॥६॥ नन्दिवर्धन आजेयो महानन्दिः सुतस्ततः। शिशुनागा दशैवैते षष्ट्युत्तरशतत्रयम् ॥७॥ समा भोक्ष्यन्ति पृथिवीं कुरुश्रेष्ठ कलौ नृपाः। महानन्दिसुतो राजन् शूद्रीगर्भोद्भवो बली ॥८॥ महापद्मपतिः कश्चिन्नन्दः क्षत्रविनाशकृत्। ततो नृपा भविष्यन्ति शूद्रप्रायास्त्वधार्मिकाः ॥९॥ स एकच्छत्रां पृथिवीमनुल्लङ्घितशासनः। शासिष्यति महापद्मो द्वितीय इव भार्गवः ॥१०॥ तस्य चाष्टौ भविष्यन्ति सुमाल्यप्रमुखाः सुताः। य इमां भोक्ष्यन्ति महीं राजानः स्म शतं समाः ॥११॥ नवनन्दान् द्विजः कश्चित्प्रपन्नानुद्धरिष्यति। तेषामभावे जगतीं मौर्या भोक्ष्यन्ति वै कलौ ॥१२॥ स एव चन्द्रगुप्तं वै द्विजो राज्येऽभिषेक्ष्यति। तत्सुतो वारिसारस्तु ततश्चाशोकवर्धनः ॥१३॥ सुयशा भविता तस्य सङ्गतः सुयशः सुतः। शालिशूकस्ततस्तस्य सोमशर्मा भविष्यति ॥१४॥ शतधन्वा ततस्तस्य भविता तद्बृहद्रथः। मौर्या ह्येते दश नृपाः सप्तत्रिंशच्छतोत्तरम् ॥१५॥ समा भोक्ष्यन्ति पृथिवीं कलौ कुरुकुलोद्वह हत्वा बृहद्रथं मौर्यं तस्य सेनापतिः कलौ । पुष्यमित्रस्तु शुङ्गाह्वः स्वयं राज्यं करिष्यति अग्निमित्रस्ततस्तस्मात्सुज्येष्ठोऽथ भविष्यति॥१६॥ वसुमित्रो भद्रकश्च पुलिन्दो भविता ततः। ततो घोषः सुतस्तस्माद्वज्रमित्रो भविष्यति ॥१७॥ ततो भागवतस्तस्माद्देवभूतिरिति श्रुतः । शुङ्गा दशैते भोक्ष्यन्ति भूमिं वर्षशताधिकम् ॥१८॥ ततः कण्वानियं भूमिर्यास्यत्यल्पगुणान् नृप। शुङ्गं हत्वा देवभूतिं कण्वोऽमात्यस्तु कामिनम्॥१९॥ स्वयं करिष्यते राज्यं वसुदेवो महामतिः। तस्य पुत्रस्तु भूमित्रस्तस्य नारायणः सुतः। नारायणस्य भविता सुशर्मा नाम विश्रुतः ॥२०॥ काण्वायना इमे भूमिं चत्वारिंशच्च पञ्च च। शतानि त्रीणि भोक्ष्यन्ति वर्षाणां च कलौ युगे ॥२१॥ हत्वा काण्वं सुशर्माणं तद्भृत्यो वृषलो बली। गां भोक्ष्यत्यन्ध्रजातीयः कञ्चित्कालमसत्तमः ॥२२॥ कृष्णनामाथ तद्भ्राता भविता पृथिवीपतिः। श्रीशान्तकर्णस्तत्पुत्रः पौर्णमासस्तु तत्सुतः ॥२३॥ लम्बोदरस्तु तत्पुत्रस्तस्माच्चिबिलको नृपः। मेघस्वातिश्चिबिलकादटमानस्तु तस्य च ॥२४॥ अनिष्टकर्मा हालेयस्तलकस्तस्य चात्मजः। पुरीषभीरुस्तत्पुत्रस्ततो राजा सुनन्दनः ॥२५॥ चकोरो बहवो यत्र शिवस्वातिररिन्दमः। तस्यापि गोमतीपुत्रः पुरीमान् भविता ततः ॥२६॥ मेदशिराः शिवस्कन्दो यज्ञश्रीस्तत्सुतस्ततः। विजयस्तत्सुतो भाव्यश्चन्द्रविज्ञः स लोमधिः ॥२७॥ एते त्रिंशन्नृपतयश्चत्वार्यब्दशतानि च। षट्पञ्चाशच्च पृथिवीं भोक्ष्यन्ति कुरुनन्दन ॥२८॥ सप्ताभीरा आवभृत्या दशगर्दभिनो नृपाः। कङ्काः षोडश भूपाला भविष्यन्त्यतिलोलुपाः ॥२९॥ ततोऽष्टौ यवना भाव्याश्चतुर्दश तुरुष्ककाः। भूयो दश गुरुण्डाश्च मौला एकादशैव तु ॥३०॥ एते भोक्ष्यन्ति पृथिवीं दशवर्षशतानि च। नवाधिकां च नवतिं मौला एकादश क्षितिम् ॥३१॥ भोक्ष्यन्त्यब्दशतान्यङ्ग त्रीणि तैः संस्थिते ततः। किलकिलायां नृपतयो भूतनन्दोऽथ वङ्गिरिः ॥३२॥ शिशुनन्दिश्च तद्भ्राता यशोनन्दिः प्रवीरकः। इत्येते वै वर्षशतं भविष्यन्त्यधिकानि षट् ॥३३॥ तेषां त्रयोदश सुता भवितारश्च बाह्लिकाः। पुष्पमित्रोऽथ राजन्यो दुर्मित्रोऽस्य तथैव च ॥३४॥ एककाला इमे भूपाः सप्तान्ध्राः सप्त कोसलाः। विदूरपतयो भाव्या निषधास्तत एव हि ॥३५॥ मागधानां तु भविता विश्वस्फूर्जिः पुरञ्जयः। करिष्यत्यपरो वर्णान् पुलिन्दयदुमद्रकान् ॥३६॥ प्रजाश्चाब्रह्मभूयिष्ठाः स्थापयिष्यति दुर्मतिः। वीर्यवान् क्षत्रमुत्साद्य पद्मवत्यां स वै पुरि। अनुगङ्गमाप्रयागं गुप्तां भोक्ष्यति मेदिनीम् ॥३७॥ सौराष्ट्रावन्त्याभीराश्च शूरा अर्बुदमालवाः। व्रात्या द्विजा भविष्यन्ति शूद्रप्राया जनाधिपाः॥३८॥ सिन्धोस्तटं चन्द्रभागां कौन्तीं काश्मीरमण्डलम्। भोक्ष्यन्ति शूद्रा व्रात्याद्या म्लेच्छाश्चाब्रह्मवर्चसः॥३९॥ तुल्यकाला इमे राजन् म्लेच्छप्रायाश्च भूभृतः। एतेऽधर्मानृतपराः फल्गुदास्तीव्रमन्यवः ॥४०॥ स्त्रीबालगोद्विजघ्नाश्च परदारधनादृताः। उदितास्तमितप्राया अल्पसत्त्वाल्पकायुषः ॥४१॥ असंस्कृताः क्रियाहीना रजसा तमसाऽऽवृताः। प्रजास्ते भक्षयिष्यन्ति म्लेच्छा राजन्यरूपिणः ॥४२॥ तन्नाथास्ते जनपदास्तच्छीलाचारवादिनः। अन्योन्यतो राजभिश्च क्षयं यास्यन्ति पीडिताः ॥४३॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्धे प्रथमोऽध्यायः॥१॥

॥ द्वितीयोऽध्यायः - २ ॥

श्रीशुक उवाच ततश्चानुदिनं धर्मः सत्यं शौचं क्षमा दया। कालेन बलिना राजन्नङ्क्ष्यत्यायुर्बलं स्मृतिः ॥१॥ वित्तमेव कलौ नॄणां जन्माचारगुणोदयः। धर्मन्यायव्यवस्थायां कारणं बलमेव हि ॥२॥ दाम्पत्येऽभिरुचिर्हेतुर्मायैव व्यावहारिके। स्त्रीत्वे पुंस्त्वे च हि रतिर्विप्रत्वे सूत्रमेव हि ॥३॥ लिङ्गमेवाश्रमख्यातावन्योन्यापत्तिकारणम्। अवृत्त्या न्यायदौर्बल्यं पाण्डित्ये चापलं वचः ॥४॥ अनाढ्यतैवासाधुत्वे साधुत्वे दम्भ एव तु। स्वीकार एव चोद्वाहे स्नानमेव प्रसाधनम् ॥५॥ दूरे वार्ययनं तीर्थं लावण्यं केशधारणम्। उदरंभरता स्वार्थः सत्यत्वे धार्ष्ट्यमेव हि ॥६॥ दाक्ष्यं कुटुम्बभरणं यशोऽर्थे धर्मसेवनम्। एवं प्रजाभिर्दुष्टाभिराकीर्णे क्षितिमण्डले ॥७॥ ब्रह्मविट्क्षत्रशूद्राणां यो बली भविता नृपः। प्रजा हि लुब्धै राजन्यैर्निर्घृणैर्दस्युधर्मभिः ॥८॥ आच्छिन्नदारद्रविणा यास्यन्ति गिरिकाननम्। शाकमूलामिषक्षौद्रफलपुष्पाष्टिभोजनाः ॥९॥ अनावृष्ट्या विनङ्क्ष्यन्ति दुर्भिक्षकरपीडिताः। शीतवातातपप्रावृड् हिमैरन्योन्यतः प्रजाः ॥१०॥ क्षुत्तृड्भ्यां व्याधिभिश्चैव सन्तप्स्यन्ते च चिन्तया। त्रिंशद्विंशति वर्षाणि परमायुः कलौ नृणाम् ॥११॥ क्षीयमाणेषु देहेषु देहिनां कलिदोषतः। वर्णाश्रमवतां धर्मे नष्टे वेदपथे नृणाम् ॥१२॥ पाखण्डप्रचुरे धर्मे दस्युप्रायेषु राजसु। चौर्यानृतवृथाहिंसा नानावृत्तिषु वै नृषु ॥१३॥ शूद्रप्रायेषु वर्णेषु च्छागप्रायासु धेनुषु। गृहप्रायेष्वाश्रमेषु यौनप्रायेषु बन्धुषु ॥१४॥ अणुप्रायास्वोषधीषु शमीप्रायेषु स्थास्नुषु। विद्युत्प्रायेषु मेघेषु शून्यप्रायेषु सद्मसु ॥१५॥ इत्थं कलौ गतप्राये जनेषु खरधर्मिषु। धर्मत्राणाय सत्त्वेन भगवानवतरिष्यति ॥१६॥ चराचरगुरोर्विष्णोरीश्वरस्याखिलात्मनः। धर्मत्राणाय साधूनां जन्मकर्मापनुत्तये ॥१७॥ शम्भलग्राममुख्यस्य ब्राह्मणस्य महात्मनः। भवने विष्णुयशसः कल्किः प्रादुर्भविष्यति ॥१८॥ स गो ना सं गो अश्वमाशुगमारुह्य देवदत्तं जगत्पतिः। असिनासाधुदमनमष्टैश्वर्यगुणान्वितः ॥१९॥ विचरन्नाशुना क्षोण्यां हयेनाप्रतिमद्युतिः। नृपलिङ्गच्छदो दस्यून् कोटिशो निहनिष्यति ॥२०॥ अथ तेषां भविष्यन्ति मनांसि विशदानि वै। वासुदेवाङ्गरागाति पुण्यगन्धानिलस्पृशाम्। पौरजानपदानां वै हतेष्वखिलदस्युषु ॥२१॥ तेषां प्रजाविसर्गश्च स्थविष्ठः सम्भविष्यति। वासुदेवे भगवति सत्त्वमूर्तौ हृदि स्थिते ॥२२॥ यदावतीर्णो भगवान् कल्किर्धर्मपतिर्हरिः। कृतं भविष्यति तदा प्रजा सूतिश्च सात्त्विकी ॥२३॥ यदा चन्द्रश्च सूर्यश्च तथा तिष्यबृहस्पती। एकराशौ समेष्यन्ति भविष्यति तदा कृतम् ॥२४॥ येऽतीता वर्तमाना ये भविष्यन्ति च पार्थिवाः। ते त उद्देशतः प्रोक्ता वंशीयाः सोमसूर्ययोः ॥२५॥ आरभ्य भवतो जन्म यावन्नन्दाभिषेचनम्। एतद्वर्षसहस्रं तु शतं पञ्चदशोत्तरम् ॥२६॥ सप्तर्षीणां तु यौ पूर्वौ दृश्येते उदितौ दिवि। तयोस्तु मध्ये नक्षत्रं दृश्यते यत्समं निशि ॥२७॥ तेनैत ऋषयो युक्तास्तिष्ठन्त्यब्दशतं नृणाम्। ते त्वदीये द्विजाः काले अधुना चाश्रिता मघाः॥२८॥ विष्णोर्भगवतो भानुः कृष्णाख्योऽसौ दिवं गतः। तदाविशत्कलिर्लोकं पापे यद्रमते जनः ॥२९॥ यावत्स पादपद्माभ्यां स्पृशन्नास्ते रमापतिः। तावत्कलिर्वै पृथिवीं पराक्रान्तुं न चाशकत् ॥३०॥ यदा देवर्षयः सप्त मघासु विचरन्ति हि। तदा प्रवृत्तस्तु कलिर्द्वादशाब्दशतात्मकः ॥३१॥ यदा मघाभ्यो यास्यन्ति पूर्वाषाढां महर्षयः। तदा नन्दात्प्रभृत्येष कलिर्वृद्धिं गमिष्यति ॥३२॥ यस्मिन् कृष्णो दिवं यातस्तस्मिन्नेव तदाहनि। प्रतिपन्नं कलियुगमिति प्राहुः पुराविदः ॥३३॥ दिव्याब्दानां सहस्रान्ते चतुर्थे तु पुनः कृतम्। भविष्यति यदा नॄणां मन आत्मप्रकाशकम् ॥३४॥ इत्येष मानवो वंशो यथा सङ्ख्यायते भुवि। तथा विट् शूद्रविप्राणां तास्ता ज्ञेया युगे युगे ॥३५॥ एतेषां नामलिङ्गानां पुरुषाणां महात्मनाम्। कथामात्रावशिष्टानां कीर्तिरेव स्थिता भुवि ॥३६॥ देवापिः शन्तनोर्भ्राता मरुश्चेक्ष्वाकुवंशजः। कलापग्राम आसाते महायोगबलान्वितौ ॥३७॥ ताविहैत्य कलेरन्ते वासुदेवानुशिक्षितौ। वर्णाश्रमयुतं धर्मं पूर्ववत्प्रथयिष्यतः ॥३८॥ कृतं त्रेता द्वापरं च कलिश्चेति चतुर्युगम्। अनेन क्रमयोगेन भुवि प्राणिषु वर्तते ॥३९॥ राजन्नेते मया प्रोक्ता नरदेवास्तथापरे। भूमौ ममत्वं कृत्वान्ते हित्वेमां निधनं गताः ॥४०॥ कृमिविड्भस्मसंज्ञान्ते राजनाम्नोऽपि यस्य च। भूतध्रुक् तत्कृते स्वार्थं किं वेद निरयो यतः ॥४१॥ कथं सेयमखण्डा भूः पूर्वैर्मे पुरुषैर्धृता। मत्पुत्रस्य च पौत्रस्य मत्पूर्वा वंशजस्य वा ॥४२॥ तेजोबन्नमयं कायं गृहीत्वाऽऽत्मतयाबुधाः। महीं ममतया चोभौ हित्वान्तेऽदर्शनं गताः ॥४३॥ ये ये भूपतयो राजन् भुञ्जन्ति भुवमोजसा। कालेन ते कृताः सर्वे कथामात्राः कथासु च ॥४४॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्धे द्वितीयोऽध्यायः॥२॥

॥ तृतीयोऽध्यायः - ३ ॥

श्रीशुक उवाच दृष्ट्वाऽऽत्मनि जये व्यग्रान् नृपान् हसति भूरियम्। अहो मा विजिगीषन्ति मृत्योः क्रीडनका नृपाः॥१॥ काम एष नरेन्द्राणां मोघः स्याद्विदुषामपि। येन फेनोपमे पिण्डे येऽतिविश्रम्भिता नृपाः ॥२॥ पूर्वं निर्जित्य षड्वर्गं जेष्यामो राजमन्त्रिणः। ततः सचिवपौराप्तकरीन्द्रानस्य कण्टकान् ॥३॥ एवं क्रमेण जेष्यामः पृथ्वीं सागरमेखलाम्। इत्याशाबद्धहृदया न पश्यन्त्यन्तिकेऽन्तकम् ॥४॥ समुद्रावरणां जित्वा मां विशन्त्यब्धिमोजसा। कियदात्मजयस्यैतन्मुक्तिरात्मजये फलम् ॥५॥ यां विसृज्यैव मनवस्तत्सुताश्च कुरूद्वह। गता यथागतं युद्धे तां मां जेष्यन्त्यबुद्धयः ॥६॥ मत्कृते पितृपुत्राणां भ्रातृणां चापि विग्रहः। जायते ह्यसतां राज्ये ममताबद्धचेतसाम् ॥७॥ ममैवेयं मही कृत्स्ना न ते मूढेति वादिनः। स्पर्धमाना मिथो घ्नन्ति म्रियन्ते मत्कृते नृपाः ॥८॥ पृथुः पुरूरवा गाधिर्नहुषो भरतोऽर्जुनः। मान्धाता सगरो रामः खट्वाङ्गो धुन्धुहा रघुः ॥९॥ तृणबिन्दुर्ययातिश्च शर्यातिः शन्तनुर्गयः। भगीरथः कुवलयाश्वः ककुत्स्थो नैषधो नृगः ॥१०॥ हिरण्यकशिपुर्वृत्रो रावणो लोकरावणः। नमुचिः शम्बरो भौमो हिरण्याक्षोऽथ तारकः ॥११॥ अन्ये च बहवो दैत्या राजानो ये महेश्वराः। सर्वे सर्वविदः शूराः सर्वे सर्वजितोऽजिताः ॥१२॥ ममतां मय्यवर्तन्त कृत्वोच्चैर्मर्त्यधर्मिणः। कथावशेषाः कालेन ह्यकृतार्थाः कृता विभो ॥१३॥ कथा इमास्ते कथिता महीयसां विताय लोकेषु यशः परेयुषाम्। विज्ञानवैराग्यविवक्षया विभो वचो विभूतीर्न तु पारमार्थ्यम् ॥१४॥ यस्तूत्तमश्लोकगुणानुवादः सङ्गीयतेऽभीक्ष्णममङ्गलघ्नः। तमेव नित्यं शृणुयादभीक्ष्णं कृष्णेऽमलां भक्तिमभीप्समानः ॥१५॥ राजोवाच केनोपायेन भगवन् कलेर्दोषान् कलौ जनाः। विधमिष्यन्त्युपचितांस्तन्मे ब्रूहि यथा मुने ॥१६॥ युगानि युगधर्मांश्च मानं प्रलयकल्पयोः। कालस्येश्वररूपस्य गतिं विष्णोर्महात्मनः ॥१७॥ श्रीशुक उवाच कृते प्रवर्तते धर्मश्चतुष्पात्तज्जनैर्धृतः। सत्यं दया तपो दानमिति पादा विभोर्नृप ॥१८॥ सन्तुष्टाः करुणा मैत्राः शान्ता दान्तास्तितिक्षवः। आत्मारामाः समदृशः प्रायशः श्रमणा जनाः॥१९॥ त्रेतायां धर्मपादानां तुर्यांशो हीयते शनैः। अधर्मपादैरनृतहिंसासन्तोषविग्रहैः ॥२०॥ तदा क्रिया तपो निष्ठा नातिहिंस्रा न लम्पटाः। त्रैवर्गिकास्त्रयीवृद्धा वर्णा ब्रह्मोत्तरा नृप ॥२१॥ तपःसत्यदयादानेष्वर्धं ह्रसति द्वापरे। हिंसातुष्ट्यनृतद्वेषैर्धर्मस्याधर्मलक्षणैः ॥२२॥ यशस्विनो महाशालाः स्वाध्यायाध्ययने रताः। आढ्याः कुटुम्बिनो हृष्टा वर्णाः क्षत्रद्विजोत्तराः॥२३॥ कलौ तु धर्महेतुनां तुर्यांशोऽधर्महेतुभिः। एधमानैः क्षीयमाणो ह्यन्ते सोऽपि विनङ्क्ष्यति ॥२४॥ तस्मिन् लुब्धा दुराचारा निर्दयाः शुष्कवैरिणः। दुर्भगा भूरितर्षाश्च शूद्रदाशोत्तराः प्रजाः ॥२५॥ सत्त्वं रजस्तम इति दृश्यन्ते पुरुषे गुणाः। कालसञ्चोदितास्ते वै परिवर्तन्त आत्मनि ॥२६॥ प्रभवन्ति यदा सत्त्वे मनोबुद्धीन्द्रियाणि च। तदा कृतयुगं विद्याज्ज्ञाने तपसि यद्रुचिः ॥२७॥ यदा धर्मार्थकामेषु भक्तिर्भवति देहिनाम्। तदा त्रेता रजो वृत्तिरिति जानीहि बुद्धिमन् ॥२८॥ यदा लोभस्त्वसन्तोषो मानो दम्भोऽथ मत्सरः। कर्मणां चापि काम्यानां द्वापरं तद्रजस्तमः ॥२९॥ यदा मायानृतं तन्द्रा निद्रा हिंसा विषादनम्। शोको मोहो भयं दैन्यं स कलिस्तामसः स्मृतः॥३०॥ यस्मात्क्षुद्रदृशो मर्त्याः क्षुद्रभाग्या महाशनाः। कामिनो वित्तहीनाश्च स्वैरिण्यश्च स्त्रियोऽसतीः॥३१॥ दस्यूत्कृष्टा जनपदा वेदाः पाखण्डदूषिताः। राजानश्च प्रजाभक्षाः शिश्नोदरपरा द्विजाः ॥३२॥ अव्रता वटवोऽशौचा भिक्षवश्च कुटुम्बिनः। तपस्विनो ग्रामवासा न्यासिनोऽत्यर्थलोलुपाः॥३३॥ ह्रस्वकाया महाहारा भूर्यपत्या गतह्रियः। शश्वत्कटुकभाषिण्यश्चौर्यमायोरुसाहसाः ॥३४॥ पणयिष्यन्ति वै क्षुद्राः किराटाः कूटकारिणः। अनापद्यपि मंस्यन्ते वार्तां साधु जुगुप्सिताम् ॥३५॥ पतिं त्यक्ष्यन्ति निर्द्रव्यं भृत्या अप्यखिलोत्तमम्। भृत्यं विपन्नं पतयः कौलं गाश्चापयस्विनीः ॥३६॥ पितृभ्रातृसुहृज्ज्ञातीन् हित्वा सौरतसौहृदाः। ननान्दृश्यालसंवादा दीनाः स्त्रैणाः कलौ नराः॥३७॥ शूद्राः प्रतिग्रहीष्यन्ति तपोवेषोपजीविनः। धर्मं वक्ष्यन्त्यधर्मज्ञा अधिरुह्योत्तमासनम् ॥३८॥ नित्यमुद्विग्नमनसो दुर्भिक्षकरकर्शिताः। निरन्ने भूतले राजन्ननावृष्टिभयातुराः ॥३९॥ वासोऽन्नपानशयनव्यवायस्नानभूषणैः। हीनाः पिशाचसन्दर्शा भविष्यन्ति कलौ प्रजाः॥४०॥ कलौ काकिणिकेऽप्यर्थे विगृह्य त्यक्तसौहृदाः। त्यक्ष्यन्ति च प्रियान् प्राणान् हनिष्यन्ति स्वकानपि॥४१॥ न रक्षिष्यन्ति मनुजाः स्थविरौ पितरावपि। पुत्रान् सर्वार्थकुशलान् क्षुद्राः शिश्नोदरंभराः ॥४२॥ कलौ न राजन् जगतां परं गुरुं त्रिलोकनाथानतपादपङ्कजम्। प्रायेण मर्त्या भगवन्तमच्युतं यक्ष्यन्ति पाखण्डविभिन्नचेतसः ॥४३॥ यन्नामधेयं म्रियमाण आतुरः पतन् स्खलन् वा विवशो गृणन् पुमान्। विमुक्तकर्मार्गल उत्तमां गतिं प्राप्नोति यक्ष्यन्ति न तं कलौ जनाः ॥४४॥ पुंसां कलिकृतान् दोषान् द्रव्यदेशात्मसम्भवान्। सर्वान् हरति चित्तस्थो भगवान् पुरुषोत्तमः ॥४५॥ श्रुतः सङ्कीर्तितो ध्यातः पूजितश्चादृतोऽपि वा। नृणां धुनोति भगवान् हृत्स्थो जन्मायुताशुभम्॥४६॥ यथा हेम्नि स्थितो वह्निर्दुर्वर्णं हन्ति धातुजम्। एवमात्मगतो विष्णुर्योगिनामशुभाशयम् ॥४७॥ विद्यातपःप्राणनिरोधमैत्री तीर्थाभिषेकव्रतदानजप्यैः। नात्यन्तशुद्धिं लभतेऽन्तरात्मा यथा हृदिस्थे भगवत्यनन्ते ॥४८॥ तस्मात्सर्वात्मना राजन् हृदिस्थं कुरु केशवम्। म्रियमाणो ह्यवहितस्ततो यासि परां गतिम् ॥४९॥ म्रियमाणैरभिध्येयो भगवान् परमेश्वरः। आत्मभावं नयत्यङ्ग सर्वात्मा सर्वसंश्रयः ॥५०॥ कलेर्दोषनिधे राजन्नस्ति ह्येको महान् गुणः। कीर्तनादेव कृष्णस्य मुक्तसङ्गः परं व्रजेत् ॥५१॥ कृते यद्ध्यायतो विष्णुं त्रेतायां यजतो मखैः। द्वापरे परिचर्यायां कलौ तद्धरिकीर्तनात् ॥५२॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्धे तृतीयोऽध्यायः॥३॥

॥ चतुर्थोऽध्यायः - ४ ॥

श्रीशुक उवाच कालस्ते परमाण्वादिर्द्विपरार्धावधिर्नृप। कथितो युगमानं च शृणु कल्पलयावपि ॥१॥ चतुर्युगसहस्रं च ब्रह्मणो दिनमुच्यते। स कल्पो यत्र मनवश्चतुर्दश विशाम्पते ॥२॥ तदन्ते प्रलयस्तावान् ब्राह्मी रात्रिरुदाहृता। त्रयो लोका इमे तत्र कल्पन्ते प्रलयाय हि ॥३॥ एष नैमित्तिकः प्रोक्तः प्रलयो यत्र विश्वसृक्। शेतेऽनन्तासनो विश्वमात्मसात्कृत्य चात्मभूः॥४॥ द्विपरार्धे त्वतिक्रान्ते ब्रह्मणः परमेष्ठिनः। तदा प्रकृतयः सप्त कल्पन्ते प्रलयाय वै ॥५॥ एष प्राकृतिको राजन् प्रलयो यत्र लीयते। आण्डकोशस्तु सङ्घातो विघात उपसादिते ॥६॥ पर्जन्यः शतवर्षाणि भूमौ राजन् न वर्षति। तदा निरन्ने ह्यन्योन्यं भक्षमाणाः क्षुधार्दिताः ॥७॥ क्षयं यास्यन्ति शनकैः कालेनोपद्रुताः प्रजाः। सामुद्रं दैहिकं भौमं रसं सांवर्तको रविः ॥८॥ रश्मिभिः पिबते घोरैः सर्वं नैव विमुञ्चति। ततः सांवर्तको वह्निः सङ्कर्षणमुखोत्थितः ॥९॥ दहत्यनिलवेगोत्थः शून्यान् भूविवरानथ। उपर्यधः समन्ताच्च शिखाभिर्वह्निसूर्ययोः ॥१०॥ दह्यमानं विभात्यण्डं दग्धगोमयपिण्डवत्। ततः प्रचण्डपवनो वर्षाणामधिकं शतम् ॥११॥ परः सांवर्तको वाति धूम्रं खं रजसाऽऽवृतम्। ततो मेघकुलान्यङ्ग चित्रवर्णान्यनेकशः ॥१२॥ शतं वर्षाणि वर्षन्ति नदन्ति रभसस्वनैः। तत एकोदकं विश्वं ब्रह्माण्डविवरान्तरम् ॥१३॥ तदा भूमेर्गन्धगुणं ग्रसन्त्याप उदप्लवे। ग्रस्तगन्धा तु पृथिवी प्रलयत्वाय कल्पते ॥१४॥ अपां रसमथो तेजस्ता लीयन्तेऽथ नीरसाः। ग्रसते तेजसो रूपं वायुस्तद्रहितं तदा ॥१५॥ लीयते चानिले तेजो वायोः खं ग्रसते गुणम्। स वै विशति खं राजंस्ततश्च नभसो गुणम् ॥१६॥ शब्दं ग्रसति भूतादिर्नभस्तमनुलीयते। तैजसश्चेन्द्रियाण्यङ्ग देवान् वैकारिको गुणैः ॥१७॥ महान् ग्रसत्यहङ्कारं गुणाः सत्त्वादयश्च तम्। ग्रसतेऽव्याकृतं राजन् गुणान् कालेन चोदितम्॥१८॥ न तस्य कालावयवैः परिणामादयो गुणाः। अनाद्यनन्तमव्यक्तं नित्यं कारणमव्ययम् ॥१९॥ न यत्र वाचो न मनो न सत्त्वं तमो रजो वा महदादयोऽमी। न प्राणबुद्धीन्द्रियदेवता वा न सन्निवेशः खलु लोककल्पः ॥२०॥ न स्वप्नजाग्रन्न च तत्सुषुप्तं न खं जलं भूरनिलोऽग्निरर्कः। संसुप्तवच्छून्यवदप्रतर्क्यं तन्मूलभूतं पदमामनन्ति ॥२१॥ लयः प्राकृतिको ह्येष पुरुषाव्यक्तयोर्यदा। शक्तयः सम्प्रलीयन्ते विवशाः कालविद्रुताः ॥२२॥ बुद्धीन्द्रियार्थरूपेण ज्ञानं भाति तदाश्रयम्। दृश्यत्वाव्यतिरेकाभ्यामाद्यन्तवदवस्तु यत् ॥२३॥ दीपश्चक्षुश्च रूपं च ज्योतिषो न पृथग्भवेत्। एवं धीः खानि मात्राश्च न स्युरन्यतमादृतात् ॥२४॥ बुद्धेर्जागरणं स्वप्नः सुषुप्तिरिति चोच्यते। मायामात्रमिदं राजन् नानात्वं प्रत्यगात्मनि ॥२५॥ यथा जलधरा व्योम्नि भवन्ति न भवन्ति च। ब्रह्मणीदं तथा विश्वमवयव्युदयाप्ययात् ॥२६॥ सत्यं ह्यवयवः प्रोक्तः सर्वावयविनामिह। विनार्थेन प्रतीयेरन् पटस्येवाङ्ग तन्तवः ॥२७॥ यत्सामान्यविशेषाभ्यामुपलभ्येत सभ्रमः। अन्योन्यापाश्रयात्सर्वमाद्यन्तवदवस्तु यत् ॥२८॥ विकारः ख्यायमानोऽपि प्रत्यगात्मानमन्तरा। न निरूप्योऽस्त्यणुरपि स्याच्चेच्चित्सम आत्मवत्॥२९॥ न हि सत्यस्य नानात्वमविद्वान् यदि मन्यते। नानात्वं छिद्रयोर्यद्वज्ज्योतिषोर्वातयोरिव ॥३०॥ यथा हिरण्यं बहुधा समीयते नृभिः क्रियाभिर्व्यवहारवर्त्मसु। एवं वचोभिर्भगवानधोक्षजो व्याख्यायते लौकिकवैदिकैर्जनैः ॥३१॥ यथा घनोऽर्कप्रभवोऽर्कदर्शितो ह्यर्कांशभूतस्य च चक्षुषस्तमः। एवं त्वहं ब्रह्म गुणस्तदीक्षितो ब्रह्मांशकस्यात्मन आत्मबन्धनः ॥३२॥ घनो यदार्कप्रभवो विदीर्यते चक्षुः स्वरूपं रविमीक्षते तदा। यदा ह्यहङ्कार उपाधिरात्मनो जिज्ञासया नश्यति तर्ह्यनुस्मरेत् ॥३३॥ यदैवमेतेन विवेकहेतिना मायामयाहङ्करणात्मबन्धनम्। छित्त्वाच्युतात्मानुभवोऽवतिष्ठते तमाहुरात्यन्तिकमङ्ग सम्प्लवम् ॥३४॥ नित्यदा सर्वभूतानां ब्रह्मादीनां परन्तप। उत्पत्तिप्रलयावेके सूक्ष्मज्ञाः सम्प्रचक्षते ॥३५॥ कालस्रोतो जवेनाशु ह्रियमाणस्य नित्यदा। परिणामिनामवस्थास्ता जन्मप्रलयहेतवः ॥३६॥ अनाद्यन्तवतानेन कालेनेश्वरमूर्तिना। अवस्था नैव दृश्यन्ते वियति ज्योतिषामिव ॥३७॥ नित्यो नैमित्तिकश्चैव तथा प्राकृतिको लयः। आत्यन्तिकश्च कथितः कालस्य गतिरीदृशी ॥३८॥ एताः कुरुश्रेष्ठ जगद्विधातुः नारायणस्याखिलसत्त्वधाम्नः। लीलाकथास्ते कथिताः समासतः कार्त्स्न्येन नाजोऽप्यभिधातुमीशः ॥३९॥ संसारसिन्धुमतिदुस्तरमुत्तितीर्षोर्नान्यः प्लवो भगवतः पुरुषोत्तमस्य। लीलाकथारसनिषेवणमन्तरेण पुंसो भवेद्विविधदुःखदवार्दितस्य ॥४०॥ पुराणसंहितामेतामृषिर्नारायणोऽव्ययः। नारदाय पुरा प्राह कृष्णद्वैपायनाय सः ॥४१॥ स वै मह्यं महाराज भगवान् बादरायणः। इमां भागवतीं प्रीतः संहितां वेदसम्मिताम् ॥४२॥ एतां वक्ष्यत्यसौ सूतः ऋषिभ्यो नैमिषालये। दीर्घसत्रे कुरुश्रेष्ठ सम्पृष्टः शौनकादिभिः ॥४३॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्धे चतुर्थोऽध्यायः॥४॥

॥ पञ्चमोऽध्यायः - ५ ॥

श्रीशुक उवाच अत्रानुवर्ण्यतेऽभीक्ष्णं विश्वात्मा भगवान् हरिः। यस्य प्रसादजो ब्रह्मा रुद्रः क्रोधसमुद्भवः ॥१॥ त्वं तु राजन् मरिष्येति पशुबुद्धिमिमां जहि। न जातः प्रागभूतोऽद्य देहवत्त्वं न नङ्क्ष्यसि ॥२॥ न भविष्यसि भूत्वा त्वं पुत्रपौत्रादिरूपवान्। बीजाङ्कुरवद्देहादेर्व्यतिरिक्तो यथानलः ॥३॥ स्वप्ने यथा शिरश्छेदं पञ्चत्वाद्यात्मनः स्वयम्। यस्मात्पश्यति देहस्य तत आत्मा ह्यजोऽमरः॥४॥ घटे भिन्ने यथाऽऽकाश आकाशः स्याद्यथा पुरा। एवं देहे मृते जीवो ब्रह्म सम्पद्यते पुनः ॥५॥ मनः सृजति वै देहान् गुणान् कर्माणि चात्मनः। तन्मनः सृजते माया ततो जीवस्य संसृतिः ॥६॥ स्नेहाधिष्ठानवर्त्यग्निसंयोगो यावदीयते। ततो दीपस्य दीपत्वमेवं देहकृतो भवः। रजःसत्त्वतमोवृत्त्या जायतेऽथ विनश्यति ॥७॥ न तत्रात्मा स्वयंज्योतिर्यो व्यक्ताव्यक्तयोः परः। आकाश इव चाधारो ध्रुवोऽनन्तोपमस्ततः ॥८॥ एवमात्मानमात्मस्थमात्मनैवामृश प्रभो। बुद्ध्यानुमानगर्भिण्या वासुदेवानुचिन्तया ॥९॥ चोदितो विप्रवाक्येन न त्वां धक्ष्यति तक्षकः। मृत्यवो नोपधक्ष्यन्ति मृत्यूनां मृत्युमीश्वरम् ॥१०॥ अहं ब्रह्म परं धाम ब्रह्माहं परमं पदम्। एवं समीक्षन्नात्मानमात्मन्याधाय निष्कले ॥११॥ दशन्तं तक्षकं पादे लेलिहानं विषाननैः। न द्रक्ष्यसि शरीरं च विश्वं च पृथगात्मनः ॥१२॥ एतत्ते कथितं तात यदात्मा पृष्टवान् नृप। हरेर्विश्वात्मनश्चेष्टां किं भूयः श्रोतुमिच्छसि ॥१३॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्धे ब्रह्मोपदेशो नाम पञ्चमोऽध्यायः॥५॥ षष्ठोऽध्यायः- ६ सूत उवाच एतन्निशम्य मुनिनाभिहितं परीक्षिद्- व्यासात्मजेन निखिलात्मदृशा समेन । तत्पादमूलमुपसृत्य नतेन मूर्ध्ना बद्धाञ्जलिस्तमिदमाह स विष्णुरातः ॥१॥ राजोवाच सिद्धोऽस्म्यनुगृहीतोऽस्मि भवता करुणात्मना। श्रावितो यच्च मे साक्षादनादिनिधनो हरिः ॥२॥ नात्यद्भुतमहं मन्ये महतामच्युतात्मनाम्। अज्ञेषु तापतप्तेषु भूतेषु यदनुग्रहः ॥३॥ पुराणसंहितामेतामश्रौष्म भवतो वयम्। यस्यां खलूत्तमश्लोको भगवाननुवर्ण्यते ॥४॥ भगवंस्तक्षकादिभ्यो मृत्युभ्यो न बिभेम्यहम्। प्रविष्टो ब्रह्मनिर्वाणमभयं दर्शितं त्वया ॥५॥ अनुजानीहि मां ब्रह्मन् वाचं यच्छाम्यधोक्षजे। मुक्तकामाशयं चेतः प्रवेश्य विसृजाम्यसून् ॥६॥ अज्ञानं च निरस्तं मे ज्ञानविज्ञाननिष्ठया। भवता दर्शितं क्षेमं परं भगवतः पदम् ॥७॥ सूत उवाच इत्युक्तस्तमनुज्ञाप्य भगवान् बादरायणिः। जगाम भिक्षुभिः साकं नरदेवेन पूजितः ॥८॥ सगोनासंगोगो परीक्षिदपि राजर्षिरात्मन्यात्मानमात्मना। समाधाय परं दध्यावस्पन्दासुर्यथा तरुः ॥९॥ प्राक्कूले बर्हिष्यासीनो गङ्गाकूल उदङ्मुखः। ब्रह्मभूतो महायोगी निःसङ्गश्छिन्नसंशयः ॥१०॥ तक्षकः प्रहितो विप्राः क्रुद्धेन द्विजसूनुना। हन्तुकामो नृपं गच्छन् ददर्श पथि कश्यपम् ॥११॥ तं तर्पयित्वा द्रविणैर्निवर्त्य विषहारिणम्। द्विजरूपप्रतिच्छन्नः कामरूपोऽदशन्नृपम् ॥१२॥ ब्रह्मभूतस्य राजर्षेर्देहोऽहिगरलाग्निना। बभूव भस्मसात्सद्यः पश्यतां सर्वदेहिनाम् ॥१३॥ सगोनासंगोगो हाहाकारो महानासीद्भुवि खे दिक्षु सर्वतः। विस्मिता ह्यभवन् सर्वे देवासुरनरादयः ॥१४॥ देवदुन्दुभयो नेदुर्गन्धर्वाप्सरसो जगुः। ववृषुः पुष्पवर्षाणि विबुधाः साधुवादिनः ॥१५॥ जनमेजयः स्वपितरं श्रुत्वा तक्षकभक्षितम्। यथा जुहाव सङ्क्रुद्धो नागान् सत्रे सह द्विजैः ॥१६॥ सर्पसत्रे समिद्धाग्नौ दह्यमानान् महोरगान्। दृष्ट्वेन्द्रं भयसंविग्नस्तक्षकः शरणं ययौ ॥१७॥ अपश्यंस्तक्षकं तत्र राजा पारीक्षितो द्विजान्। उवाच तक्षकः कस्मान्न दह्येतोरगाधमः ॥१८॥ तं गोपायति राजेन्द्र शक्रः शरणमागतम्। तेन संस्तम्भितः सर्पस्तस्मान्नाग्नौ पतत्यसौ ॥१९॥ पारीक्षित इति श्रुत्वा प्राहर्त्विज उदारधीः। सहेन्द्रस्तक्षको विप्रा नाग्नौ किमिति पात्यते ॥२०॥ तच्छ्रुत्वाऽऽजुहुवुर्विप्राः सहेन्द्रं तक्षकं मखे। तक्षकाशु पतस्वेह सहेन्द्रेण मरुत्वता ॥२१॥ इति ब्रह्मोदिताक्षेपैः स्थानादिन्द्रः प्रचालितः। बभूव सम्भ्रान्तमतिः सविमानः सतक्षकः ॥२२॥ तं पतन्तं विमानेन सह तक्षकमम्बरात्। विलोक्याङ्गिरसः प्राह राजानं तं बृहस्पतिः ॥२३॥ नैष त्वया मनुष्येन्द्र वधमर्हति सर्पराट्। अनेन पीतममृतमथ वा अजरामरः ॥२४॥ जीवितं मरणं जन्तोर्गतिः स्वेनैव कर्मणा। राजंस्ततोऽन्यो नास्त्यस्य प्रदाता सुखदुःखयोः॥२५॥ सर्पचौराग्निविद्युद्भ्यः क्षुत्तृट्व्याध्यादिभिर्नृप। पञ्चत्वमृच्छते जन्तुर्भुङ्क्त आरब्धकर्म तत् ॥२६॥ तस्मात्सत्रमिदं राजन् संस्थीयेताभिचारिकम्। सर्पा अनागसो दग्धा जनैर्दिष्टं हि भुज्यते ॥२७॥ सूत उवाच इत्युक्तः स तथेत्याह महर्षेर्मानयन् वचः। सर्पसत्रादुपरतः पूजयामास वाक्पतिम् ॥२८॥ सैषा विष्णोर्महामायाबाध्ययालक्षणा यया। मुह्यन्त्यस्यैवात्मभूता भूतेषु गुणवृत्तिभिः ॥२९॥ न यत्र दम्भीत्यभया विराजिता मायाऽऽत्मवादेऽसकृदात्मवादिभिः। न यद्विवादो विविधस्तदाश्रयो मनश्च सङ्कल्पविकल्पवृत्ति यत् ॥३०॥ न यत्र सृज्यं सृजतोभयोः परं श्रेयश्च जीवस्त्रिभिरन्वितस्त्वहम्। तदेतदुत्सादितबाध्यबाधकं निषिध्य चोर्मीन्विरमेत्स्वयं मुनिः ॥३१॥ परं पदं वैष्णवमामनन्ति तद्यन्नेति नेतीत्यतदुत्सिसृक्षवः। विसृज्य दौरात्म्यमनन्यसौहृदा हृदोपगुह्यावसितं समाहितैः ॥३२॥ त एतदधिगच्छन्ति विष्णोर्यत्परमं पदम्। अहं ममेति दौर्जन्यं न येषां देहगेहजम् ॥३३॥ अतिवादांस्तितिक्षेत नावमन्येत कञ्चन। न चेमं देहमाश्रित्य वैरं कुर्वीत केनचित् ॥३४॥ नमो भगवते तस्मै कृष्णायाकुण्ठमेधसे। यत्पादाम्बुरुहध्यानात्संहितामध्यगामिमाम् ॥३५॥ शौनक उवाच पैलादिभिर्व्यासशिष्यैर्वेदाचार्यैर्महात्मभिः। वेदाश्च कथिता व्यस्ता एतत्सौम्याभिधेहि नः॥३६॥ सूत उवाच समाहितात्मनो ब्रह्मन् ब्रह्मणः परमेष्ठिनः। हृद्याकाशादभून्नादो वृत्तिरोधाद्विभाव्यते ॥३७॥ यदुपासनया ब्रह्मन् योगिनो मलमात्मनः। द्रव्यक्रियाकारकाख्यं धूत्वा यान्त्यपुनर्भवम् ॥३८॥ ततोऽभूत्त्रिवृदोंकारो योऽव्यक्तप्रभवः स्वराट्। यत्तल्लिङ्गं भगवतो ब्रह्मणः परमात्मनः ॥३९॥ शृणोति य इमं स्फोटं सुप्तश्रोत्रे च शून्यदृक्। येन वाग्व्यज्यते यस्य व्यक्तिराकाश आत्मनः॥४०॥ स्वधाम्नो ब्राह्मणः साक्षाद्वाचकः परमात्मनः। स सर्वमन्त्रोपनिषद्वेदबीजं सनातनम् ॥४१॥ तस्य ह्यासंस्त्रयो वर्णा अकाराद्या भृगूद्वह। धार्यन्ते यैस्त्रयो भावा गुणनामार्थवृत्तयः ॥४२॥ ततोऽक्षरसमाम्नायमसृजद्भगवानजः। अन्तस्थोष्मस्वरस्पर्शह्रस्वदीर्घादिलक्षणम् ॥४३॥ तेनासौ चतुरो वेदांश्चतुर्भिर्वदनैर्विभुः। सव्याहृतिकान् सोंकारांश्चातुर्होत्रविवक्षया ॥४४॥ पुत्रानध्यापयत्तांस्तु ब्रह्मर्षीन् ब्रह्मकोविदान्। ते तु धर्मोपदेष्टारः स्वपुत्रेभ्यः समादिशन् ॥४५॥ ते परम्परया प्राप्तास्तत्तच्छिष्यैर्धृतव्रतैः। चतुर्युगेष्वथ व्यस्ता द्वापरादौ महर्षिभिः ॥४६॥ क्षीणायुषः क्षीणसत्त्वान् दुर्मेधान् वीक्ष्य कालतः। वेदान् ब्रह्मर्षयो व्यस्यन् हृदिस्थाच्युतचोदिताः॥४७॥ अस्मिन्नप्यन्तरे ब्रह्मन् भगवान् लोकभावनः। ब्रह्मेशाद्यैर्लोकपालैर्याचितो धर्मगुप्तये ॥४८॥ पराशरात्सत्यवत्यामंशांशकलया विभुः। अवतीर्णो महाभाग वेदं चक्रे चतुर्विधम् ॥४९॥ ऋगथर्वयजुःसाम्नां राशीरुद्धृत्य वर्गशः। चतस्रः संहिताश्चक्रे मन्त्रैर्मणिगणा इव ॥५०॥ तासां स चतुरः शिष्यानुपाहूय महामतिः। एकैकां संहितां ब्रह्मन्नेकैकस्मै ददौ विभुः ॥५१॥ पैलाय संहितामाद्यां बह्वृचाख्यामुवाच ह। वैशम्पायनसंज्ञाय निगदाख्यं यजुर्गणम् ॥५२॥ साम्नां जैमिनये प्राह तथा छन्दोगसंहिताम्। अथर्वाङ्गिरसीं नाम स्वशिष्याय सुमन्तवे ॥५३॥ पैलः स्वसंहितामूचे इन्द्रप्रमितये मुनिः। बाष्कलाय च सोऽप्याह शिष्येभ्यः संहितां स्वकाम्॥५४॥ चतुर्धा व्यस्य बोध्याय याज्ञवल्क्याय भार्गव। पराशरायाग्निमित्र इन्द्रप्रमितिरात्मवान् ॥५५॥ अध्यापयत्संहितां स्वां माण्डूकेयमृषिं कविम्। तस्य शिष्यो देवमित्रः सौभर्यादिभ्य ऊचिवान्॥५६॥ शाकल्यस्तत्सुतः स्वां तु पञ्चधा व्यस्य संहिताम्। वात्स्यमुद्गलशालीयगोखल्यशिशिरेष्वधात् ॥५७॥ जातूकर्ण्यश्च तच्छिष्यः सनिरुक्तां स्वसंहिताम्। बलाकपैलवैतालविरजेभ्यो ददौ मुनिः ॥५८॥ बाष्कलिः प्रतिशाखाभ्यो वालखिल्याख्यसंहिताम्। चक्रे वालायनिर्भज्यः कासारश्चैव तां दधुः ॥५९॥ बह्वृचाः संहिता ह्येता एभिर्ब्रह्मर्षिभिर्धृताः। श्रुत्वैतच्छन्दसां व्यासं सर्वपापैः प्रमुच्यते ॥६०॥ वैशम्पायनशिष्या वै चरकाध्वर्यवोऽभवन्। यच्चेरुर्ब्रह्महत्यांहः क्षपणं स्वगुरोर्व्रतम् ॥६१॥ याज्ञवल्क्यश्च तच्छिष्य आहाहो भगवन् कियत्। चरितेनाल्पसाराणां चरिष्येऽहं सुदुश्चरम् ॥६२॥ इत्युक्तो गुरुरप्याह कुपितो याह्यलं त्वया। विप्रावमन्त्रा शिष्येण मदधीतं त्यजाश्विति ॥६३॥ देवरातसुतः सोऽपि छर्दित्वा यजुषां गणम्। ततो गतोऽथ मुनयो ददृशुस्तान् यजुर्गणान् ॥६४॥ यजूंषि तित्तिरा भूत्वा तल्लोलुपतयाऽऽददुः। तैत्तिरीया इति यजुःशाखा आसन् सुपेशलाः ॥६५॥ याज्ञवल्क्यस्ततो ब्रह्मंश्छन्दांस्यधिगवेषयन्। गुरोरविद्यमानानि सूपतस्थेऽर्कमीश्वरम् ॥६६॥ याज्ञवल्क्य उवाच ओं नमो भगवते आदित्यायाखिलजगता- मात्मस्वरूपेण कालस्वरूपेण चतुर्विध- भूतनिकायानां ब्रह्मादिस्तम्बपर्यन्ताना- मन्तर्हृदयेषु बहिरपि चाकाश इवोपाधिना- व्यवधीयमानो भवानेक एव क्षणलव-निमेषावयवोपचितसंवत्सरगणेनापामादान- विसर्गाभ्यामिमां लोकयात्रामनुवहति ॥६७॥ यदु ह वाव विबुधर्षभ सवितरदस्तप- त्यनुसवनमहरहराम्नायविधिनोप- तिष्ठमानानामखिलदुरितवृजिन- बीजावभर्जन भगवतः समभिधीमहि तपनमण्डलम् ॥६८॥ य इह वाव स्थिरचरनिकराणां निजनिकेतनानां मन इन्द्रियासु- गणाननात्मनः स्वयमात्मान्तर्यामी प्रचोदयति ॥६९॥ य एवेमं लोकमतिकरालवदना- न्धकारसंज्ञाजगरग्रहगिलितं मृतकमिव विचेतनमवलोक्या- नुकम्पया परमकारुणिक ईक्षयैवोत्थाप्याहरहरनुसवनं श्रेयसि स्वधर्माख्यात्मावस्थाने प्रवर्तयति ॥७०॥ अवनिपतिरिवासाधूनां भय- मुदीरयन्नटति परित आशा- पालैस्तत्र तत्र कमलकोशा- ञ्जलिभिरुपहृतार्हणः ॥७१॥ अथ ह भगवंस्तव चरणनलिनयुगलं त्रिभुवनगुरुभिरभिवन्दितमहमयात- यामयजुष्काम उपसरामीति ॥७२॥ सूत उवाच एवं स्तुतः स भगवान् वाजिरूपधरो हरिः। यजूंष्ययातयामानि मुनयेऽदात्प्रसादितः ॥७३॥ यजुर्भिरकरोच्छाखा दशपञ्च शतैर्विभुः। जगृहुर्वाजसन्यस्ताः काण्वमाध्यन्दिनादयः ॥७४॥ जैमिनेः सामगस्यासीत्सुमन्तुस्तनयो मुनिः। सुन्वांस्तु तत्सुतस्ताभ्यामेकैकां प्राह संहिताम्॥७५॥ सुकर्मा चापि तच्छिष्यः सामवेदतरोर्महान्। सहस्रसंहिताभेदं चक्रे साम्नां ततो द्विज ॥७६॥ हिरण्यनाभः कौसल्यः पौष्यञ्जिश्च सुकर्मणः। शिष्यौ जगृहतुश्चान्य आवन्त्यो ब्रह्मवित्तमः ॥७७॥ उदीच्याः सामगाः शिष्या आसन् पञ्चशतानि वै। पौष्यञ्ज्यावन्त्ययोश्चापि तांश्च प्राच्यान् प्रचक्षते॥७८॥ लौगाक्षिर्माङ्गलिः कुल्यः कुशीदः कुक्षिरेव च। पौष्यञ्जिशिष्या जगृहुः संहितास्ते शतं शतम् ॥७९॥ कृतो हिरण्यनाभस्य चतुर्विंशति संहिताः। शिष्य ऊचे स्वशिष्येभ्यः शेषा आवन्त्य आत्मवान्॥८०॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्धे वेदशाखाप्रणयनं नाम षष्ठोऽध्यायः॥६॥

॥ सप्तमोऽध्यायः - ७ ॥

सूत उवाच अथर्ववित्सुमन्तुश्च शिष्यमध्यापयत्स्वकाम्। संहितां सोऽपि पथ्याय वेददर्शाय चोक्तवान् ॥१॥ शौक्लायनिर्ब्रह्मबलिर्मोदोषः पिप्पलायनिः। वेददर्शस्य शिष्यास्ते पथ्यशिष्यानथो शृणु। कुमुदः शुनको ब्रह्मन् जाजलिश्चाप्यथर्ववित् ॥२॥ बभ्रुः शिष्योऽथाङ्गिरसः सैन्धवायन एव च। अधीयेतां संहिते द्वे सावर्णाद्यास्तथापरे ॥३॥ नक्षत्रकल्पः शान्तिश्च कश्यपाङ्गिरसादयः। एते आथर्वणाचार्याः शृणु पौराणिकान् मुने ॥४॥ त्रय्यारुणिः कश्यपश्च सावर्णिरकृतव्रणः। वैशम्पायनहारीतौ षड् वै पौराणिका इमे ॥५॥ अधीयन्त व्यासशिष्यात्संहितां मत्पितुर्मुखात्। एकैकामहमेतेषां शिष्यः सर्वाः समध्यगाम् ॥६॥ कश्यपोऽहं च सावर्णी रामशिष्योऽकृतव्रणः। अधीमहि व्यासशिष्याच्चत्वारो मूलसंहिताः ॥७॥ पुराणलक्षणं ब्रह्मन् ब्रह्मर्षिभिर्निरूपितम्। शृणुष्व बुद्धिमाश्रित्य वेदशास्त्रानुसारतः ॥८॥ सर्गोऽस्याथ विसर्गश्च वृत्तिरक्षान्तराणि च। वंशो वंशानुचरितं संस्था हेतुरपाश्रयः ॥९॥ दशभिर्लक्षणैर्युक्तं पुराणं तद्विदो विदुः। केचित्पञ्चविधं ब्रह्मन् महदल्पव्यवस्थया ॥१०॥ अव्याकृतगुणक्षोभान्महतस्त्रिवृतोऽहमः। भूतमात्रेन्द्रियार्थानां सम्भवः सर्ग उच्यते ॥११॥ पुरुषानुगृहीतानामेतेषां वासनामयः। विसर्गोऽयं समाहारो बीजाद्बीजं चराचरम् ॥१२॥ वृत्तिर्भूतानि भूतानां चराणामचराणि च। कृता स्वेन नृणां तत्र कामाच्चोदनयापि वा ॥१३॥ रक्षाच्युतावतारेहा विश्वस्यानु युगे युगे। तिर्यङ्मर्त्यर्षिदेवेषु हन्यन्ते यैस्त्रयीद्विषः ॥१४॥ मन्वन्तरं मनुर्देवा मनुपुत्राः सुरेश्वराः। ऋषयोंऽशावताराश्च हरेः षड्विधमुच्यते ॥१५॥ राज्ञां ब्रह्मप्रसूतानां वंशस्त्रैकालिकोऽन्वयः। वंशानुचरितं तेषां वृत्तं वंशधराश्च ये ॥१६॥ नैमित्तिकः प्राकृतिको नित्य आत्यन्तिको लयः। संस्थेति कविभिः प्रोक्तश्चतुर्धास्य स्वभावतः ॥१७॥ हेतुर्जीवोऽस्य सर्गादेरविद्याकर्मकारकः। यं चानुशयिनं प्राहुरव्याकृतमुतापरे ॥१८॥ व्यतिरेकान्वयो यस्य जाग्रत्स्वप्नसुषुप्तिषु। मायामयेषु तद्ब्रह्म जीववृत्तिष्वपाश्रयः ॥१९॥ पदार्थेषु यथा द्रव्यं सन्मात्रं रूपनामसु। बीजादिपञ्चतान्तासु ह्यवस्थासु युतायुतम् ॥२०॥ विरमेत यदा चित्तं हित्वा वृत्तित्रयं स्वयम्। योगेन वा तदाऽऽत्मानं वेदेहाया निवर्तते ॥२१॥ एवं लक्षणलक्ष्याणि पुराणानि पुराविदः। मुनयोऽष्टादश प्राहुः क्षुल्लकानि महान्ति च ॥२२॥ ब्राह्मं पाद्मं वैष्णवं च शैवं लैङ्गं सगारुडं। नारदीयं भागवतमाग्नेयं स्कान्दसंज्ञितम् ॥२३॥ भविष्यं ब्रह्मवैवर्तं मार्कण्डेयं सवामनम्। वाराहं मात्स्यं कौर्मं च ब्रह्माण्डाख्यमिति त्रिषट्॥२४॥ ब्रह्मन्निदं समाख्यातं शाखाप्रणयनं मुनेः। शिष्यशिष्यप्रशिष्याणां ब्रह्मतेजोविवर्धनम् ॥२५॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्धे सप्तमोऽध्यायः॥७॥

॥ अष्टमोऽध्यायः - ८ ॥

शौनक उवाच सूत जीव चिरं साधो वद नो वदतां वर। तमस्यपारे भ्रमतां नॄणां त्वं पारदर्शनः ॥१॥ आहुश्चिरायुषमृषिं मृकण्डतनयं जनाः। यः कल्पान्ते उर्वरितो येन ग्रस्तमिदं जगत् ॥२॥ स वा अस्मत्कुलोत्पन्नः कल्पेऽस्मिन् भार्गवर्षभः। नैवाधुनापि भूतानां सम्प्लवः कोऽपि जायते ॥३॥ एक एवार्णवे भ्राम्यन् ददर्श पुरुषं किल। वटपत्रपुटे तोकं शयानं त्वेकमद्भुतम् ॥४॥ एष नः संशयो भूयान् सूत कौतूहलं यतः। तं नश्छिन्धि महायोगिन् पुराणेष्वपि सम्मतः ॥५॥ सूत उवाच प्रश्नस्त्वया महर्षेऽयं कृतो लोकभ्रमापहः। नारायणकथा यत्र गीता कलिमलापहा ॥६॥ प्राप्तद्विजातिसंस्कारो मार्कण्डेयः पितुः क्रमात्। छन्दांस्यधीत्य धर्मेण तपःस्वाध्यायसंयुतः ॥७॥ बृहद्व्रतधरः शान्तो जटिलो वल्कलाम्बरः। बिभ्रत्कमण्डलुं दण्डमुपवीतं समेखलम् ॥८॥ कृष्णाजिनं साक्षसूत्रं कुशांश्च नियमर्द्धये। अग्न्यर्कगुरुविप्रात्मस्वर्चयन् सन्ध्ययोर्हरिम् ॥९॥ सायं प्रातः स गुरवे भैक्ष्यमाहृत्य वाग्यतः। बुभुजे गुर्वनुज्ञातः सकृन्नो चेदुपोषितः ॥१०॥ एवं तपःस्वाध्यायपरो वर्षाणामयुतायुतम्। आराधयन् हृषीकेशं जिग्ये मृत्युं सुदुर्जयम् ॥११॥ ब्रह्मा भृगुर्भवो दक्षो ब्रह्मपुत्राश्च येऽपरे। नृदेवपितृभूतानि तेनासन्नतिविस्मिताः ॥१२॥ इत्थं बृहद्व्रतधरस्तपःस्वाध्यायसंयमैः। दध्यावधोक्षजं योगी ध्वस्तक्लेशान्तरात्मना ॥१३॥ तस्यैवं युञ्जतश्चित्तं महायोगेन योगिनः। व्यतीयाय महान् कालो मन्वन्तरषडात्मकः ॥१४॥ एतत्पुरन्दरो ज्ञात्वा सप्तमेऽस्मिन् किलान्तरे। तपोविशङ्कितो ब्रह्मन्नारेभे तद्विघातनम् ॥१५॥ गन्धर्वाप्सरसः कामं वसन्तमलयानिलौ। मुनये प्रेषयामास रजस्तोकमदौ तथा ॥१६॥ ते वै तदाश्रमं जग्मुर्हिमाद्रेः पार्श्व उत्तरे। पुष्पभद्रानदी यत्र चित्राख्या च शिला विभो ॥१७॥ तदाश्रमपदं पुण्यं पुण्यद्रुमलताञ्चितम्। पुण्यद्विजकुलाकीर्णं पुण्यामलजलाशयम् ॥१८॥ मत्तभ्रमरसङ्गीतं मत्तकोकिलकूजितम्। मत्तबर्हिनटाटोपं मत्तद्विजकुलाकुलम् ॥१९॥ वायुः प्रविष्टआदाय हिमनिर्झरशीकरान्। सुमनोभिः परिष्वक्तो ववावुत्तम्भयन् स्मरम् ॥२०॥ उद्यच्चन्द्रनिशावक्त्रः प्रवालस्तबकालिभिः। गोपद्रुमलताजालैस्तत्रासीत्कुसुमाकरः ॥२१॥ अन्वीयमानो गन्धर्वैर्गीतवादित्रयूथकैः। अदृश्यतात्तचापेषुः स्वःस्त्रीयूथपतिः स्मरः ॥२२॥ हुत्वाग्निं समुपासीनं ददृशुः शक्रकिङ्कराः। मीलिताक्षं दुराधर्षं मूर्तिमन्तमिवानलम् ॥२३॥ ननृतुस्तस्य पुरतः स्त्रियोऽथो गायका जगुः। मृदङ्गवीणापणवैर्वाद्यं चक्रुर्मनोरमम् ॥२४॥ सन्दधेऽस्त्रं स्वधनुषि कामः पञ्चमुखं तदा। मधुर्मनो रजस्तोक इन्द्रभृत्या व्यकम्पयन् ॥२५॥ क्रीडन्त्याः पुञ्जिकस्थल्याः कन्दुकैः स्तनगौरवात्। भृशमुद्विग्नमध्यायाः केशविस्रंसितस्रजः ॥२६॥ इतस्ततो भ्रमद्दृष्टेश्चलन्त्या अनुकन्दुकम्। वायुर्जहार तद्वासः सूक्ष्मं त्रुटितमेखलम् ॥२७॥ विससर्ज तदा बाणं मत्वा तं स्वजितं स्मरः। सर्वं तत्राभवन्मोघमनीशस्य यथोद्यमः ॥२८॥ त इत्थमपकुर्वन्तो मुनेस्तत्तेजसा मुने। दह्यमाना निववृतुः प्रबोध्याहिमिवार्भकाः ॥२९॥ इतीन्द्रानुचरैर्ब्रह्मन् धर्षितोऽपि महामुनिः। यन्नागादहमो भावं न तच्चित्रं महत्सु हि ॥३०॥ दृष्ट्वा निस्तेजसं कामं सगणं भगवान् स्वराट्। श्रुत्वानुभावं ब्रह्मर्षेर्विस्मयं समगात्परम् ॥३१॥ तस्यैवं युञ्जतश्चित्तं तपःस्वाध्यायसंयमैः। अनुग्रहायाविरासीन्नरनारायणो हरिः ॥३२॥सगोनासंगोगो तौ शुक्लकृष्णौ नवकञ्जलोचनौ चतुर्भुजौ रौरववल्कलाम्बरौ। पवित्रपाणी उपवीतकं त्रिवृत् कमण्डलुं दण्डमृजुं च वैणवम् ॥३३॥ पद्माक्षमालामुत जन्तुमार्जनं वेदं च साक्षात्तप एव रूपिणौ। तपत्तडिद्वर्णपिशङ्गरोचिषा प्रांशू दधानौ विबुधर्षभार्चितौ ॥३४॥ ते वै भगवतो रूपे नरनारायणावृषी। दृष्ट्वोत्थायादरेणोच्चैर्ननामाङ्गेन दण्डवत् ॥३५॥ स तत्सन्दर्शनानन्दनिर्वृतात्मेन्द्रियाशयः। हृष्टरोमाश्रुपूर्णाक्षो न सेहे तावुदीक्षितुम् ॥३६॥ उत्थाय प्राञ्जलिः प्रह्व औत्सुक्यादाश्लिषन्निव। नमो नम इतीशानौ बभाषे गद्गदाक्षरः ॥३७॥ तयोरासनमादाय पादयोरवनिज्य च। अर्हणेनानुलेपेन धूपमाल्यैरपूजयत् ॥३८॥ सुखमासनमासीनौ प्रसादाभिमुखौ मुनी। पुनरानम्य पादाभ्यां गरिष्ठाविदमब्रवीत् ॥३९॥ मार्कण्डेय उवाच किं वर्णये तव विभो यदुदीरितोऽसुः संस्पन्दते तमनु वाङ्मन इन्द्रियाणि। स्पन्दन्ति वै तनुभृतामजशर्वयोश्च स्वस्याप्यथापि भजतामसि भावबन्धुः ॥४०॥ मूर्ती इमे भगवतो भगवंस्त्रिलोक्याः क्षेमाय तापविरमाय च मृत्युजित्यै। नानाबिभर्ष्यवितुमन्यतनूर्यथेदं सृष्ट्वा पुनर्ग्रससि सर्वमिवोर्णनाभिः ॥४१॥ तस्यावितुः स्थिरचरेशितुरङ्घ्रिमूलं यत्स्थं न कर्मगुणकालरजः स्पृशन्ति। यद्वै स्तुवन्ति निनमन्ति यजन्त्यभीक्ष्णं ध्यायन्ति वेदहृदया मुनयस्तदाप्त्यै ॥४२॥ नान्यं तवाङ्घ्र्युपनयादपवर्गमूर्तेः क्षेमं जनस्य परितो भिय ईश विद्मः। ब्रह्मा बिभेत्यलमतो द्विपरार्धधिष्ण्यः कालस्य ते किमुत तत्कृतभौतिकानाम् ॥४३॥ तद्वै भजाम्यृतधियस्तव पादमूलं हित्वेदमात्मच्छदि चात्मगुरोः परस्य। देहाद्यपार्थमसदन्त्यमभिज्ञमात्रं विन्देत ते तर्हि सर्वमनीषितार्थम् ॥४४॥ सत्त्वं रजस्तम इतीश तवात्मबन्धो मायामयाः स्थितिलयोदयहेतवोऽस्य। लीलाधृता यदपि सत्त्वमयी प्रशान्त्यै नान्ये नृणां व्यसनमोहभियश्च याभ्याम् ॥४५॥ तस्मात्तवेह भगवन्नथ तावकानां शुक्लां तनुं स्वदयितां कुशला भजन्ति। यत्सात्वताः पुरुषरूपमुशन्ति सत्त्वं लोको यतोभयमुतात्मसुखं न चान्यत् ॥४६॥ तस्मै नमो भगवते पुरुषाय भूम्ने विश्वाय विश्वगुरवे परदैवतायै। नारायणाय ऋषये च नरोत्तमाय हंसाय संयतगिरे निगमेश्वराय ॥४७॥ यं वै न वेद वितथाक्षपथैर्भ्रमद्धीः सन्तं स्वकेष्वसुषु हृद्यपि दृक्पथेषु। तन्माययावृतमतिः स उ एव साक्षा- दाद्यस्तवाखिलगुरोरुपसाद्य वेदम् ॥४८॥ यद्दर्शनं निगम आत्मरहःप्रकाशं मुह्यन्ति यत्र कवयोऽजपरा यतन्तः- तं सर्ववादविषयप्रतिरूपशीलं वन्दे महापुरुषमात्मनिगूढबोधम् ॥४९॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्धे अष्टमोऽध्यायः॥८॥

॥ नवमोऽध्यायः - ९ ॥

सूत उवाच संस्तुतो भगवानित्थं मार्कण्डेयेन धीमता। नारायणो नरसखः प्रीत आह भृगूद्वहम् ॥१॥ श्रीभगवानुवाच भो भो ब्रह्मर्षिवर्योऽसि सिद्ध आत्मसमाधिना। मयि भक्त्यानपायिन्या तपःस्वाध्यायसंयमैः ॥२॥ वयं ते परितुष्टाः स्म त्वद्बृहद्व्रतचर्यया। वरं प्रतीच्छ भद्रं ते वरदेशादभीप्सितम् ॥३॥ ऋषिरुवाच जितं ते देव देवेश प्रपन्नार्तिहराच्युत। वरेणैतावतालं नो यद्भवान् समदृश्यत ॥४॥ गृहीत्वाजादयो यस्य श्रीमत्पादाब्जदर्शनम्। मनसा योगपक्वेन स भवान् मेऽक्षिगोचरः ॥५॥ अथाप्यम्बुजपत्राक्ष पुण्यश्लोकशिखामणे। द्रक्ष्ये मायां यया लोकः सपालो वेद सद्भिदाम्॥६॥ सूत उवाच इतीडितोऽर्चितः काममृषिणा भगवान् मुने। तथेति स स्मयन् प्रागाद्बदर्याश्रममीश्वरः ॥७॥ तमेव चिन्तयन्नर्थमृषिः स्वाश्रम एव सः। वसन्नग्न्यर्कसोमाम्बुभूवायुवियदात्मसु ॥८॥ ध्यायन् सर्वत्र च हरिं भावद्रव्यैरपूजयत्। क्वचित्पूजां विसस्मार प्रेमप्रसरसम्प्लुतः ॥९॥ तस्यैकदा भृगुश्रेष्ठ पुष्पभद्रातटे मुनेः। उपासीनस्य सन्ध्यायां ब्रह्मन् वायुरभून्महान् ॥१०॥ तं चण्डशब्दं समुदीरयन्तं बलाहका अन्वभवन् करालाः। अक्षस्थविष्ठा मुमुचुस्तडिद्भिः स्वनन्त उच्चैरभिवर्षधाराः ॥११॥ ततो व्यदृश्यन्त चतुःसमुद्राः समन्ततः क्ष्मातलमाग्रसन्तः। समीरवेगोर्मिभिरुग्रनक्र- महाभयावर्तगभीरघोषाः ॥१२॥ अन्तर्बहिश्चाद्भिरतिद्युभिः खरैः शतह्रदाभीरुपतापितं जगत्। चतुर्विधं वीक्ष्य सहात्मना मुनिर्जलाप्लुतां क्ष्मां विमनाः समत्रसत् ॥१३॥ तस्यैवमुद्वीक्षत ऊर्मिभीषणः प्रभञ्जनाघूर्णितवार्महार्णवः। आपूर्यमाणो वरषद्भिरम्बुदैः क्ष्मामप्यधाद्द्वीपवर्षाद्रिभिः समम् ॥१४॥ सक्ष्मान्तरिक्षं सदिवं सभागणं त्रैलोक्यमासीत्सह दिग्भिराप्लुतम्। स एक एवोर्वरितो महामुनिर्बभ्राम विक्षिप्य जटा जडान्धवत् ॥१५॥ क्षुत्तृट् परीतो मकरैस्तिमिङ्गिलैरुपद्रुतो वीचिनभस्वता हतः। तमस्यपारे पतितो भ्रमन् दिशो न वेद खं गां च परिश्रमेषितः ॥१६॥ क्वचिद्गतो महावर्ते तरलैस्ताडितः क्वचित्। यादोभिर्भक्ष्यते क्वापि स्वयमन्योन्यघातिभिः ॥१७॥ क्वचिच्छोकं क्वचिन्मोहं क्वचिद्दुःखं सुखं भयम्। क्वचिन्मृत्युमवाप्नोति व्याध्यादिभिरुतार्दितः ॥१८॥ अयुतायुतवर्षाणां सहस्राणि शतानि च। व्यतीयुर्भ्रमतस्तस्मिन् विष्णुमायावृतात्मनः ॥१९॥ स कदाचिद्भ्रमंस्तस्मिन् पृथिव्याः ककुदि द्विजः। न्यग्रोधपोतं ददृशे फलपल्लवशोभितम् ॥२०॥ प्रागुत्तरस्यां शाखायां तस्यापि ददृशे शिशुम्। शयानं पर्णपुटके ग्रसन्तं प्रभया तमः ॥२१॥ सगोनासंगोगो महामरकतश्यामं श्रीमद्वदनपङ्कजम्। कम्बुग्रीवं महोरस्कं सुनासं सुन्दरभ्रुवम् ॥२२॥ श्वासैजदलकाभातं कम्बुश्रीकर्णदाडिमम्। विद्रुमाधरभासेषच्छोणायितसुधास्मितम् ॥२३॥ पद्मगर्भारुणापाङ्गं हृद्यहासावलोकनम्। श्वासैजद्वलिसंविग्ननिम्ननाभिदलोदरम् ॥२४॥ चार्वङ्गुलिभ्यां पाणिभ्यामुन्नीय चरणाम्बुजम्। मुखे निधाय विप्रेन्द्रो धयन्तं वीक्ष्य विस्मितः ॥२५॥ तद्दर्शनाद्वीतपरिश्रमो मुदा प्रोत्फुल्लहृत्पद्मविलोचनाम्बुजः। प्रहृष्टरोमाद्भुतभावशङ्कितः प्रष्टुं पुरस्तं प्रससार बालकम् ॥२६॥ तावच्छिशोर्वै श्वसितेन भार्गवः सोऽन्तःशरीरं मशको यथाऽऽविशत्। तत्राप्यदो न्यस्तमचष्ट कृत्स्नशो यथा पुरामुह्यदतीव विस्मितः ॥२७॥ खं रोदसी भगणानद्रिसागरान् द्वीपान् सवर्षान् ककुभः सुरासुरान्। वनानि देशान् सरितः पुराकरान् खेटान् व्रजानाश्रमवर्णवृत्तयः ॥२८॥ महान्ति भूतान्यथ भौतिकान्यसौ कालं च नानायुगकल्पकल्पनम्। यत्किञ्चिदन्यद्व्यवहारकारणं ददर्श विश्वं सदिवावभासितम् ॥२९॥ हिमालयं पुष्पवहां च तां नदीं निजाश्रमं यत्र ऋषीनपश्यत्। विश्वं विपश्यञ्छ्वसिताच्छिशोर्वै बहिर्निरस्तो न्यपतल्लयाब्धौ ॥३०॥ तस्मिन् पृथिव्याः ककुदि प्ररूढं वटं च तत्पर्णपुटे शयानम्। तोकं च तत्प्रेमसुधास्मितेन निरीक्षितोऽपाङ्गनिरीक्षणेन ॥३१॥ अथ तं बालकं वीक्ष्य नेत्राभ्यां धिष्ठितं हृदि। अभ्ययादतिसङ्क्लिष्टः परिष्वक्तुमधोक्षजम् ॥३२॥ तावत्स भगवान् साक्षाद्योगाधीशो गुहाशयः। अन्तर्दधे ऋषेः सद्यो यथेहानीशनिर्मिता ॥३३॥ तमन्वथ वटो ब्रह्मन् सलिलं लोकसम्प्लवः। तिरोधायि क्षणादस्य स्वाश्रमे पूर्ववत्स्थितः ॥३४॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्धे मायादर्शनं नाम नवमोऽध्यायः॥९॥

॥ दशमोऽध्यायः - १० ॥

सूत उवाच स एवमनुभूयेदं नारायणविनिर्मितम्। वैभवं योगमायायास्तमेव शरणं ययौ ॥१॥ मार्कण्डेय उवाच प्रपन्नोऽस्म्यङ्घ्रिमूलं ते प्रपन्नाभयदं हरे। यन्माययापि विबुधा मुह्यन्ति ज्ञानकाशया ॥२॥ सूत उवाच तमेवं निभृतात्मानं वृषेण दिवि पर्यटन्। रुद्राण्या भगवान् रुद्रो ददर्श स्वगणैर्वृतः ॥३॥ अथोमा तमृषिं वीक्ष्य गिरिशं समभाषत। पश्येमं भगवन् विप्रं निभृतात्मेन्द्रियाशयम् ॥४॥ निभृतोदझषव्रातं वातापाये यथार्णवम्। कुर्वस्य तपसः साक्षात्संसिद्धिं सिद्धिदो भवान्॥५॥ श्रीभगवानुवाच नैवेच्छत्याशिषः क्वापि ब्रह्मर्षिर्मोक्षमप्युत। भक्तिं परां भगवति लब्धवान् पुरुषेऽव्यये ॥६॥ अथापि संवदिष्यामो भवान्येतेन साधुना। अयं हि परमो लाभो नृणां साधुसमागमः ॥७॥ सूत उवाच इत्युक्त्वा तमुपेयाय भगवान् स सतां गतिः। ईशानः सर्वविद्यानामीश्वरः सर्वदेहिनाम् ॥८॥ तयोरागमनं साक्षादीशयोर्जगदात्मनोः। न वेद रुद्धधीवृत्तिरात्मानं विश्वमेव च ॥९॥ भगवांस्तदभिज्ञाय गिरीशो योगमायया। आविशत्तद्गुहाकाशं वायुश्छिद्रमिवेश्वरः ॥१०॥ आत्मन्यपि शिवं प्राप्तं तडित्पिङ्गजटाधरम्। त्र्यक्षं दशभुजं प्रांशुमुद्यन्तमिव भास्करम् ॥११॥ व्याघ्रचर्माम्बरधरं शूलखट्वाङ्गचर्मभिः। अक्षमालाडमरुककपालासिधनुः सह ॥१२॥ बिभ्राणं सहसा भातं विचक्ष्य हृदि विस्मितः। किमिदं कुत एवेति समाधेर्विरतो मुनिः ॥१३॥ नेत्रे उन्मील्य ददृशे सगणं सोमयागतम्। रुद्रं त्रिलोकैकगुरुं ननाम शिरसा मुनिः ॥१४॥ हहनपापहहमहादेव तस्मै सपर्यां व्यदधात्सगणाय सहोमया। स्वागतासनपाद्यार्घ्यगन्धस्रग्धूपदीपकैः ॥१५॥ आह चात्मानुभावेन पूर्णकामस्य ते विभो। करवाम किमीशान येनेदं निर्वृतं जगत् ॥१६॥ नमः शिवाय शान्ताय सत्त्वाय प्रमृडाय च। रजोजुषेऽप्यघोराय नमस्तुभ्यं तमोजुषे ॥१७॥ सूत उवाच एवं स्तुतः स भगवानादिदेवः सतां गतिः। परितुष्टः प्रसन्नात्मा प्रहसंस्तमभाषत ॥१८॥ श्रीभगवानुवाच वरं वृणीष्व नः कामं वरदेशा वयं त्रयः। अमोघं दर्शनं येषां मर्त्यो यद्विन्दतेऽमृतम् ॥१९॥ ब्राह्मणाः साधवः शान्ता निःसङ्गा भूतवत्सलाः। एकान्तभक्ता अस्मासु निर्वैराः समदर्शिनः ॥२०॥ सलोका लोकपालास्तान् वन्दन्त्यर्चन्त्युपासते। अहं च भगवान् ब्रह्मा स्वयं च हरिरीश्वरः ॥२१॥ न ते मय्यच्युतेऽजे च भिदामण्वपि चक्षते। नात्मनश्च जनस्यापि तद्युष्मान् वयमीमहि ॥२२॥ न ह्यम्मयानि तीर्थानि न देवाश्चेतनोज्झिताः। ते पुनन्त्युरुकालेन यूयं दर्शनमात्रतः ॥२३॥ ब्राह्मणेभ्यो नमस्यामो येऽस्मद्रूपं त्रयीमयम्। बिभ्रत्यात्मसमाधानतपःस्वाध्यायसंयमैः ॥२४॥ श्रवणाद्दर्शनाद्वापि महापातकिनोऽपि वः। शुध्येरन्नन्त्यजाश्चापि किमु सम्भाषणादिभिः ॥२५॥ सूत उवाच इति चन्द्रललामस्य धर्मगुह्योपबृंहितम्। वचोऽमृतायनमृषिर्नातृप्यत्कर्णयोः पिबन् ॥२६॥ स चिरं मायया विष्णोर्भ्रामितः कर्शितो भृशम्। शिववागमृतध्वस्तक्लेशपुञ्जस्तमब्रवीत् ॥२७॥ ऋषिरुवाच अहो ईश्वरलीलेयं दुर्विभाव्या शरीरिणाम्। यन्नमन्तीशितव्यानि स्तुवन्ति जगदीश्वराः ॥२८॥ धर्मं ग्राहयितुं प्रायः प्रवक्तारश्च देहिनाम्। आचरन्त्यनुमोदन्ते क्रियमाणं स्तुवन्ति च ॥२९॥ नैतावता भगवतः स्वमायामयवृत्तिभिः। न दुष्येतानुभावस्तैर्मायिनः कुहकं यथा ॥३०॥ सृष्ट्वेदं मनसा विश्वमात्मनानुप्रविश्य यः। गुणैः कुर्वद्भिराभाति कर्तेव स्वप्नदृग्यथा ॥३१॥ तस्मै नमो भगवते त्रिगुणाय गुणात्मने। केवलायाद्वितीयाय गुरवे ब्रह्ममूर्तये ॥३२॥ कं वृणे नु परं भूमन् वरं त्वद्वरदर्शनात्। यद्दर्शनात्पूर्णकामः सत्यकामः पुमान् भवेत्॥३३॥ वरमेकं वृणेऽथापि पूर्णात्कामाभिवर्षणात्। भगवत्यच्युतां भक्तिं तत्परेषु तथा त्वयि ॥३४॥ सूत उवाच इत्यर्चितोऽभिष्टुतश्च मुनिना सूक्तया गिरा। तमाह भगवाञ्छर्वः शर्वया चाभिनन्दितः ॥३५॥ कामो महर्षे सर्वोऽयं भक्तिमांस्त्वमधोक्षजे। आकल्पान्ताद्यशः पुण्यमजरामरता तथा ॥३६॥ ज्ञानं त्रैकालिकं ब्रह्मन् विज्ञानं च विरक्तिमत्। ब्रह्मवर्चस्विनो भूयात्पुराणाचार्यतास्तु ते ॥३७॥ सूत उवाच एवं वरान् स मुनये दत्त्वागात्त्र्यक्ष ईश्वरः। देव्यै तत्कर्म कथयन्ननुभूतं पुरामुना ॥३८॥ सोऽप्यवाप्तमहायोगमहिमा भार्गवोत्तमः। विचरत्यधुनाप्यद्धा हरावेकान्ततां गतः ॥३९॥ अनुवर्णितमेतत्ते मार्कण्डेयस्य धीमतः। अनुभूतं भगवतो मायावैभवमद्भुतम् ॥४०॥ एतत्केचिदविद्वांसो मायासंसृतिरात्मनः। अनाद्यावर्तितं नॄणां कादाचित्कं प्रचक्षते ॥४१॥ य एवमेतद्भृगुवर्यवर्णितं रथाङ्गपाणेरनुभावभावितम्। संश्रावयेत्संशृणुयादु तावुभौ तयोर्न कर्माशयसंसृतिर्भवेत् ॥४२॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्धे दशमोऽध्यायः॥१०॥

॥ एकादशोऽध्यायः - ११ ॥

शौनक उवाच अथेममर्थं पृच्छामो भवन्तं बहुवित्तमम्। समस्ततन्त्रराद्धान्ते भवान् भागवततत्त्ववित् ॥१॥ तान्त्रिकाः परिचर्यायां केवलस्य श्रियः पतेः। अङ्गोपाङ्गायुधाकल्पं कल्पयन्ति यथा च यैः ॥२॥ तन्नो वर्णय भद्रं ते क्रियायोगं बुभुत्सताम्। येन क्रियानैपुणेन मर्त्यो यायादमर्त्यताम् ॥३॥ सूत उवाच नमस्कृत्य गुरून् वक्ष्ये विभूतीर्वैष्णवीरपि। याः प्रोक्ता वेदतन्त्राभ्यामाचार्यैः पद्मजादिभिः॥४॥ मायाद्यैर्नवभिस्तत्त्वैः स विकारमयो विराट्। निर्मितो दृश्यते यत्र सचित्के भुवनत्रयम् ॥५॥ एतद्वै पौरुषं रूपं भूः पादौ द्यौः शिरो नभः। नाभिः सूर्योऽक्षिणी नासे वायुः कर्णौ दिशः प्रभोः॥६॥ प्रजापतिः प्रजननमपानो मृत्युरीशितुः। तद्बाहवो लोकपाला मनश्चन्द्रो भ्रुवौ यमः ॥७॥ लज्जोत्तरोऽधरो लोभो दन्ता ज्योत्स्ना स्मयो भ्रमः। रोमाणि भूरुहा भूम्नो मेघाः पुरुषमूर्धजाः ॥८॥ यावानयं वै पुरुषो यावत्या संस्थया मितः। तावानसावपि महापुरुषो लोकसंस्थया ॥९॥ कौस्तुभव्यपदेशेन स्वात्मज्योतिर्बिभर्त्यजः। तत्प्रभा व्यापिनी साक्षात्श्रीवत्समुरसा विभुः॥१०॥ स्वमायां वनमालाख्यां नानागुणमयीं दधत्। वासश्छन्दोमयं पीतं ब्रह्मसूत्रं त्रिवृत्स्वरम् ॥११॥ बिभर्ति साङ्ख्यं योगं च देवो मकरकुण्डले। मौलिं पदं पारमेष्ठ्यं सर्वलोकाभयङ्करम् ॥१२॥ अव्याकृतमनन्ताख्यमासनं यदधिष्ठितः। धर्मज्ञानादिभिर्युक्तं सत्त्वं पद्ममिहोच्यते ॥१३॥ ओजःसहोबलयुतं मुख्यतत्त्वं गदां दधत्। अपां तत्त्वं दरवरं तेजस्तत्त्वं सुदर्शनम् ॥१४॥ नभोनिभं नभस्तत्त्वमसिं चर्म तमोमयम्। कालरूपं धनुः शार्ङ्गं तथा कर्ममयेषुधिम् ॥१५॥ इन्द्रियाणि शरानाहुराकूतीरस्य स्यन्दनम्। तन्मात्राण्यस्याभिव्यक्तिं मुद्रयार्थक्रियात्मताम्॥१६॥ मण्डलं देवयजनं दीक्षा संस्कार आत्मनः। परिचर्या भगवत आत्मनो दुरितक्षयः ॥१७॥ भगवान् भगशब्दार्थं लीलाकमलमुद्वहन्। धर्मं यशश्च भगवांश्चामरव्यजनेऽभजत् ॥१८॥ आतपत्रं तु वैकुण्ठं द्विजा धामाकुतोभयम्। त्रिवृद्वेदः सुपर्णाख्यो यज्ञं वहति पूरुषम् ॥१९॥ अनपायिनी भगवती श्रीः साक्षादात्मनो हरेः। विष्वक्सेनस्तन्त्रमूर्तिर्विदितः पार्षदाधिपः। नन्दादयोऽष्टौ द्वाःस्थाश्च तेऽणिमाद्या हरेर्गुणाः॥२०॥ वासुदेवः सङ्कर्षणः प्रद्युम्नः पुरुषः स्वयम्। अनिरुद्ध इति ब्रह्मन् मूर्तिव्यूहोऽभिधीयते ॥२१॥ स विश्वस्तैजसः प्राज्ञस्तुरीय इति वृत्तिभिः। अर्थेन्द्रियाशयज्ञानैर्भगवान् परिभाव्यते ॥२२॥ अङ्गोपाङ्गायुधाकल्पैर्भगवांस्तच्चतुष्टयम्। बिभर्ति स्म चतुर्मूर्तिर्भगवान् हरिरीश्वरः ॥२३॥ द्विजऋषभ स एष ब्रह्मयोनिः स्वयंदृक् स्वमहिमपरिपूर्णो मायया च स्वयैतत्। सृजति हरति पातीत्याख्ययानावृताक्षो विवृत इव निरुक्तस्तत्परैरात्मलभ्यः ॥२४॥ श्रीकृष्ण कृष्णसख वृष्ण्यृषभावनिध्रुग्- राजन्यवंशदहनानपवर्गवीर्य। गोविन्द गोपवनिताव्रजभृत्यगीत- तीर्थश्रवः श्रवणमङ्गल पाहि भृत्यान् ॥२५॥ य इदं कल्य उत्थाय महापुरुषलक्षणम्। तच्चित्तः प्रयतो जप्त्वा ब्रह्म वेद गुहाशयम् ॥२६॥ शौनक उवाच शुको यदाह भगवान् विष्णुराताय शृण्वते। सौरो गणो मासि मासि नाना वसति सप्तकः ॥२७॥ तेषां नामानि कर्माणि नियुक्तानामधीश्वरैः। ब्रूहि नः श्रद्दधानानां व्यूहं सूर्यात्मनो हरेः ॥२८॥ सूत उवाच अनाद्यविद्यया विष्णोरात्मनः सर्वदेहिनाम्। निर्मितो लोकतन्त्रोऽयं लोकेषु परिवर्तते ॥२९॥ एक एव हि लोकानां सूर्य आत्माऽऽदिकृद्धरिः। सर्ववेदक्रियामूलमृषिभिर्बहुधोदितः ॥३०॥ कालो देशः क्रिया कर्ता करणं कार्यमागमः। द्रव्यं फलमिति ब्रह्मन्नवधोक्तोऽजया हरिः ॥३१॥ मध्वादिषु द्वादशसु भगवान् कालरूपधृक्। लोकतन्त्राय चरति पृथग्द्वादशभिर्गणैः ॥३२॥ धाता कृतस्थली हेतिर्वासुकी रथकृन्मुने। पुलस्त्यस्तुम्बुरुरिति मधुमासं नयन्त्यमी ॥३३॥ अर्यमा पुलहोऽथौजाः प्रहेतिः पुञ्जिकस्थली। नारदः कच्छनीरश्च नयन्त्येते स्म माधवम् ॥३४॥ मित्रोऽत्रिः पौरुषेयोऽथ तक्षको मेनका हहाः। रथस्वन इति ह्येते शुक्रमासं नयन्त्यमी ॥३५॥ वसिष्ठो वरुणो रम्भा सहजन्यस्तथा हुहूः। शुक्रश्चित्रस्वनश्चैव शुचिमासं नयन्त्यमी ॥३६॥ इन्द्रो विश्वावसुः श्रोता एलापत्रस्तथाङ्गिराः। प्रम्लोचा राक्षसो वर्यो नभोमासं नयन्त्यमी ॥३७॥ विवस्वानुग्रसेनश्च व्याघ्र आसारणो भृगुः। अनुम्लोचा शङ्खपालो नभस्याख्यं नयन्त्यमी ॥३८॥ पूषा धनञ्जयो वातः सुषेणः सुरुचिस्तथा। घृताची गौतमश्चेति तपोमासं नयन्त्यमी ॥३९॥ क्रतुर्वर्चा भरद्वाजः पर्जन्यः सेनजित्तथा। विश्व ऐरावतश्चैव तपस्याख्यं नयन्त्यमी ॥४०॥ अथांशुः कश्यपस्तार्क्ष्य ऋतसेनस्तथोर्वशी। विद्युच्छत्रुर्महाशङ्खः सहोमासं नयन्त्यमी ॥४१॥ भगः स्फूर्जोऽरिष्टनेमिरूर्ण आयुश्च पञ्चमः। कर्कोटकः पूर्वचित्तिः पुष्यमासं नयन्त्यमी ॥४२॥ त्वष्टा ऋचीकतनयः कम्बलश्च तिलोत्तमा। ब्रह्मापेतोऽथ शतजिद्धृतराष्ट्र इषम्भराः ॥४३॥ विष्णुरश्वतरो रम्भा सूर्यवर्चाश्च सत्यजित्। विश्वामित्रो मखापेत ऊर्जमासं नयन्त्यमी ॥४४॥ एता भगवतो विष्णोरादित्यस्य विभूतयः। स्मरतां सन्ध्ययोर्नॄणां हरन्त्यंहो दिने दिने ॥४५॥ द्वादशस्वपि मासेषु देवोऽसौ षड्भिरस्य वै। चरन् समन्तात्तनुते परत्रेह च सन्मतिम् ॥४६॥ सामर्ग्यजुर्भिस्तल्लिङ्गैरृषयः संस्तुवन्त्यमुम्। गन्धर्वास्तं प्रगायन्ति नृत्यन्त्यप्सरसोऽग्रतः ॥४७॥ उन्नह्यन्ति रथं नागा ग्रामण्यो रथयोजकाः। चोदयन्ति रथं पृष्ठे नैरृता बलशालिनः ॥४८॥ वालखिल्याः सहस्राणि षष्टिर्ब्रह्मर्षयोऽमलाः। पुरतोऽभिमुखं यान्ति स्तुवन्ति स्तुतिभिर्विभुम्॥४९॥ एवं ह्यनादिनिधनो भगवान् हरिरीश्वरः। कल्पे कल्पे स्वमात्मानं व्यूह्य लोकानवत्यजः॥५०॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्धे आदित्यव्यूहविवरणं नामैकादशोऽध्यायः॥११॥

॥ द्वादशोऽध्यायः - १२ ॥

सूत उवाच नमो धर्माय महते नमः कृष्णाय वेधसे। ब्राह्मणेभ्यो नमस्कृत्य धर्मान् वक्ष्ये सनातनान् ॥१॥ एतद्वः कथितं विप्रा विष्णोश्चरितमद्भुतम्। भवद्भिर्यदहं पृष्टो नराणां पुरुषोचितम् ॥२॥ अत्र सङ्कीर्तितः साक्षात्सर्वपापहरो हरिः। नारायणो हृषीकेशो भगवान् सात्वतां पतिः ॥३॥ अत्र ब्रह्म परं गुह्यं जगतः प्रभवाप्ययम्। ज्ञानं च तदुपाख्यानं प्रोक्तं विज्ञानसंयुतम् ॥४॥ भक्तियोगः समाख्यातो वैराग्यं च तदाश्रयम्। पारीक्षितमुपाख्यानं नारदाख्यानमेव च ॥५॥ प्रायोपवेशो राजर्षेर्विप्रशापात्परीक्षितः। शुकस्य ब्रह्मर्षभस्य संवादश्च परीक्षितः ॥६॥ योगधारणयोत्क्रान्तिः संवादो नारदाजयोः। अवतारानुगीतं च सर्गः प्राधानिकोऽग्रतः ॥७॥ विदुरोद्धवसंवादः क्षत्तृमैत्रेययोस्ततः। पुराणसंहिताप्रश्नो महापुरुषसंस्थितिः ॥८॥ ततः प्राकृतिकः सर्गः सप्त वैकृतिकाश्च ये। ततो ब्रह्माण्डसम्भूतिर्वैराजः पुरुषो यतः ॥९॥ कालस्य स्थूलसूक्ष्मस्य गतिः पद्मसमुद्भवः। भुव उद्धरणेऽम्भोधेर्हिरण्याक्षवधो यथा ॥१०॥ ऊर्ध्वतिर्यगवाक्सर्गो रुद्रसर्गस्तथैव च। अर्धनारीनरस्याथ यतः स्वायम्भुवो मनुः ॥११॥ शतरूपा च या स्त्रीणामाद्या प्रकृतिरुत्तमा। सन्तानो धर्मपत्नीनां कर्दमस्य प्रजापतेः ॥१२॥ अवतारो भगवतः कपिलस्य महात्मनः। देवहूत्याश्च संवादः कपिलेन च धीमता ॥१३॥ नवब्रह्मसमुत्पत्तिर्दक्षयज्ञविनाशनम्। ध्रुवस्य चरितं पश्चात्पृथोः प्राचीनबर्हिषः ॥१४॥ नारदस्य च संवादस्ततः प्रैयव्रतं द्विजाः। नाभेस्ततोऽनुचरितम् ऋषभस्य भरतस्य च ॥१५॥ द्वीपवर्षसमुद्राणां गिरिनद्युपवर्णनम्। ज्योतिश्चक्रस्य संस्थानं पातालनरकस्थितिः ॥१६॥ दक्षजन्म प्रचेतोभ्यस्तत्पुत्रीणां च सन्ततिः। यतो देवासुरनरास्तिर्यङ् नगखगादयः ॥१७॥ त्वाष्ट्रस्य जन्मनिधनं पुत्रयोश्च दितेर्द्विजाः। दैत्येश्वरस्य चरितं प्रह्लादस्य महात्मनः ॥१८॥ मन्वन्तरानुकथनं गजेन्द्रस्य विमोक्षणम्। मन्वन्तरावताराश्च विष्णोर्हयशिरादयः ॥१९॥ कौर्मं धान्वन्तरं मात्स्यं वामनं च जगत्पतेः। क्षीरोदमथनं तद्वदमृतार्थे दिवौकसाम् ॥२०॥ देवासुरमहायुद्धं राजवंशानुकीर्तनम्। इक्ष्वाकुजन्म तद्वंशः सुद्युम्नस्य महात्मनः ॥२१॥ इलोपाख्यानमत्रोक्तं तारोपाख्यानमेव च। सूर्यवंशानुकथनं शशादाद्या नृगादयः ॥२२॥ सौकन्यं चाथ शर्यातेः ककुत्स्थस्य च धीमतः। खट्वाङ्गस्य च मान्धातुः सौभरेः सगरस्य च ॥२३॥ रामस्य कोसलेन्द्रस्य चरितं किल्बिषापहम्। निमेरङ्गपरित्यागो जनकानां च सम्भवः ॥२४॥ रामस्य भार्गवेन्द्रस्य निःक्षत्रकरणं भुवः। ऐलस्य सोमवंशस्य ययातेर्नहुषस्य च ॥२५॥ दौष्यन्तेर्भरतस्यापि शन्तनोस्तत्सुतस्य च। ययातेर्ज्येष्ठपुत्रस्य यदोर्वंशोऽनुकीर्तितः ॥२६॥ यत्रावतीर्णो भगवान् कृष्णाख्यो जगदीश्वरः। वसुदेवगृहे जन्म ततो वृद्धिश्च गोकुले ॥२७॥ तस्य कर्माण्यपाराणि कीर्तितान्यसुरद्विषः। पूतनासुपयःपानं शकटोच्चाटनं शिशोः ॥२८॥ तृणावर्तस्य निष्पेषस्तथैव बकवत्सयोः। (अघासुरवधो धात्रा वत्सपालावगूहनम् ।) धेनुकस्य सह भ्रातुः प्रलम्बस्य च सङ्क्षयः ॥२९॥ गोपानां च परित्राणं दावाग्नेः परिसर्पतः ॥३०॥ दमनं कालियस्याहेर्महाहेर्नन्दमोक्षणम्। व्रतचर्या तु कन्यानां यत्र तुष्टोऽच्युतो व्रतैः ॥३१॥ प्रसादो यज्ञपत्नीभ्यो विप्राणां चानुतापनम्। गोवर्धनोद्धारणं च शक्रस्य सुरभेरथ ॥३२॥ यज्ञाभिषेकं कृष्णस्य स्त्रीभिः क्रीडा च रात्रिषु। शङ्खचूडस्य दुर्बुद्धेर्वधोऽरिष्टस्य केशिनः ॥३३॥ अक्रूरागमनं पश्चात्प्रस्थानं रामकृष्णयोः। व्रजस्त्रीणां विलापश्च मथुरालोकनं ततः ॥३४॥ गजमुष्टिकचाणूरकंसादीनां च यो वधः। मृतस्यानयनं सूनोः पुनः सान्दीपनेर्गुरोः ॥३५॥ मथुरायां निवसता यदुचक्रस्य यत्प्रियम्। कृतमुद्धवरामाभ्यां युतेन हरिणा द्विजाः ॥३६॥ जरासन्धसमानीतसैन्यस्य बहुशो वधः। घातनं यवनेन्द्रस्य कुशस्थल्या निवेशनम् ॥३७॥ आदानं पारिजातस्य सुधर्मायाः सुरालयात्। रुक्मिण्या हरणं युद्धे प्रमथ्य द्विषतो हरेः ॥३८॥ हरस्य जृम्भणं युद्धे बाणस्य भुजकृन्तनम्। प्राग्ज्योतिषपतिं हत्वा कन्यानां हरणं च यत् ॥३९॥ चैद्यपौण्ड्रकशाल्वानां दन्तवक्त्रस्य दुर्मतेः। शम्बरो द्विविदः पीठो मुरः पञ्चजनादयः ॥४०॥ माहात्म्यं च वधस्तेषां वाराणस्याश्च दाहनम्। भारावतरणं भूमेर्निमित्तीकृत्य पाण्डवान् ॥४१॥ विप्रशापापदेशेन संहारः स्वकुलस्य च। उद्धवस्य च संवादो वासुदेवस्य चाद्भुतः ॥४२॥ यत्रात्मविद्या ह्यखिला प्रोक्ता धर्मविनिर्णयः। ततो मर्त्यपरित्याग आत्मयोगानुभावतः ॥४३॥ युगलक्षणवृत्तिश्च कलौ नॄणामुपप्लवः। चतुर्विधश्च प्रलय उत्पत्तिस्त्रिविधा तथा ॥४४॥ देहत्यागश्च राजर्षेर्विष्णुरातस्य धीमतः। शाखाप्रणयनमृषेर्मार्कण्डेयस्य सत्कथा। महापुरुषविन्यासः सूर्यस्य जगदात्मनः ॥४५॥ इति चोक्तं द्विजश्रेष्ठा यत्पृष्टोऽहमिहास्मि वः। लीलावतारकर्माणि कीर्तितानीह सर्वशः ॥४६॥ पतितः स्खलितश्चार्तः क्षुत्त्वा वा विवशो ब्रुवन्। हरये नम इत्युच्चैर्मुच्यते सर्वपातकात् ॥४७॥ सङ्कीर्त्यमानो भगवाननन्तः श्रुतानुभावो व्यसनं हि पुंसाम्। प्रविश्य चित्तं विधुनोत्यशेषं यथा तमोऽर्कोऽभ्रमिवातिवातः ॥४८॥ मृषा गिरस्ता ह्यसतीरसत्कथा न कथ्यते यद्भगवानधोक्षजः। तदेव सत्यं तदु हैव मङ्गलं तदेव पुण्यं भगवद्गुणोदयम् ॥४९॥ तदेव रम्यं रुचिरं नवं नवं तदेव शश्वन्मनसो महोत्सवम्। तदेव शोकार्णवशोषणं नृणां यदुत्तमश्लोकयशोऽनुगीयते ॥५०॥ न तद्वचश्चित्रपदं हरेर्यशो जगत्पवित्रं प्रगृणीत कर्हिचित्। तद्ध्वाङ्क्षतीर्थं न तु हंससेवितं यत्राच्युतस्तत्र हि साधवोऽमलाः ॥५१॥ स वाग्विसर्गो जनताघसम्प्लवो यस्मिन् प्रतिश्लोकमबद्धवत्यपि। नामान्यनन्तस्य यशोऽङ्कितानि यच्छृण्वन्ति गायन्ति गृणन्ति साधवः ॥५२॥ नैष्कर्म्यमप्यच्युतभाववर्जितं न शोभते ज्ञानमलं निरञ्जनम्। कुतः पुनः शश्वदभद्रमीश्वरे न ह्यर्पितं कर्म यदप्यनुत्तमम् ॥५३॥ यशः श्रियामेव परिश्रमः परो वर्णाश्रमाचारतपःश्रुतादिषु। अविस्मृतिः श्रीधरपादपद्मयो- र्गुणानुवादश्रवणादिभिर्हरेः ॥५४॥ अविस्मृतिः कृष्णपदारविन्दयोः क्षिणोत्यभद्राणि शमं तनोति च। सत्त्वस्य शुद्धिं परमात्मभक्तिं ज्ञानं च विज्ञानविरागयुक्तम् ॥५५॥ यूयं द्विजाग्र्या बत भूरिभागा यच्छश्वदात्मन्यखिलात्मभूतम्। नारायणं देवमदेवमीश- मजस्रभावा भजताऽऽविवेश्य ॥५६॥ अहं च संस्मारित आत्मतत्त्वं श्रुतं पुरा मे परमर्षिवक्त्रात्। प्रायोपवेशे नृपतेः परीक्षितः सदस्यृषीणां महतां च शृण्वताम् ॥५७॥ एतद्वः कथितं विप्राः कथनीयोरुकर्मणः। माहात्म्यं वासुदेवस्य सर्वाशुभविनाशनम् ॥५८॥ य एवं श्रावयेन्नित्यं यामक्षणमनन्यधीः। (श्लोकमेकं तदर्धं वा पादं पादार्धमेव वा।) श्रद्धावान् योऽनुशृणुयात्पुनात्यात्मानमेव सः॥५९॥ द्वादश्यामेकादश्यां वा शृण्वन्नायुष्यवान् भवेत्। पठत्यनश्नन् प्रयतः ततो भवत्यपातकी ॥६०॥ पुष्करे मथुरयां च द्वारवत्यां यतात्मवान्। उपोष्य संहितामेतां पठित्वा मुच्यते भयात् ॥६१॥ देवता मुनयः सिद्धाः पितरो मनवो नृपाः। यच्छन्ति कामान् गृणतः शृण्वतो यस्य कीर्तनात्॥६२॥ ऋचो यजूंषि सामानि द्विजोऽधीत्यानुविन्दते। मधुकुल्या घृतकुल्याः पयःकुल्याश्च तत्फलम्॥६३॥ पुराणसंहितामेतामधीत्य प्रयतो द्विजः। प्रोक्तं भगवता यत्तु तत्पदं परमं व्रजेत् ॥६४॥ विप्रोऽधीत्याप्नुयात्प्रज्ञां राजन्योदधिमेखलाम्। वैश्यो निधिपतित्वं च शूद्रः शुध्येत पातकात्॥६५॥ कलिमलसंहतिकालनोऽखिलेशो हरिरितरत्र न गीयते ह्यभीक्ष्णम्। इह तु पुनर्भगवानशेषमूर्तिः परिपठितोऽनुपदं कथाप्रसङ्गैः ॥६६॥ तमहमजमनन्तमात्मतत्त्वं जगदुदयस्थितिसंयमात्मशक्तिम्। द्युपतिभिरजशक्रशङ्कराद्यैः दुरवसितस्तवमच्युतं नतोऽस्मि ॥६७॥ उपचितनवशक्तिभिः स्व आत्मनि उपरचितस्थिरजङ्गमालयाय। भगवत उपलब्धिमात्रधाम्ने सुरऋषभाय नमः सनातनाय ॥६८॥ स्वसुखनिभृतचेतास्तद्व्युदस्तान्यभावो- ऽप्यजितरुचिरलीलाकृष्टसारस्तदीयम् । व्यतनुत कृपया यस्तत्त्वदीपं पुराणं तमखिलवृजिनघ्नं व्याससूनुं नतोऽस्मि ॥६९॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्धे द्वादशस्कन्धार्थनिरूपणं नाम द्वादशोऽध्यायः॥१२॥

॥ त्रयोदशोऽध्यायः - १३ ॥

सूत उवाच यं ब्रह्मा वरुणेन्द्ररुद्रमरुतः स्तुन्वन्ति दिव्यैः स्तवैः वेदैः साङ्गपदक्रमोपनिषदैर्गायन्ति यं सामगाः। ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनो यस्यान्तं न विदुः सुरासुरगणा देवाय तस्मै नमः॥१॥ पृष्ठे भ्राम्यदमन्दमन्दरगिरिग्रावाग्रकण्डूयनात् निद्रालोः कमठाकृतेर्भगवतः श्वासानिलाः पान्तु वः। यत्संस्कारकलानुवर्तनवशाद्वेलानिभेनाम्भसां यातायातमतन्द्रितं जलनिधेर्नाद्यापि विश्राम्यति॥२॥ पुराणसङ्ख्यासम्भूतिमस्य वाच्यप्रयोजने। दानं दानस्य माहात्म्यं पाठादेश्च निबोधत ॥३॥ ब्राह्मं दशसहस्राणि पाद्मं पञ्चोनषष्टि च। श्रीवैष्णवं त्रयोविंशच्चतुर्विंशति शैवकम् ॥४॥ दशाष्टौ श्रीभागवतं नारदं पञ्चविंशतिः। मार्कण्डं नव वाह्नं च दशपञ्च चतुःशतम् ॥५॥ चतुर्दश भविष्यं स्यात्तथा पञ्चशतानि च। दशाष्टौ ब्रह्मवैवर्तं लैङ्गमेकादशैव तु ॥६॥ चतुर्विंशति वाराहमेकाशीतिसहस्रकम्। स्कान्दं शतं तथा चैकं वामनं दश कीर्तितम् ॥७॥ कौर्मं सप्तदशाख्यातं मात्स्यं तत्तु चतुर्दश। एकोनविंशत्सौपर्णं ब्रह्माण्डं द्वादशैव तु ॥८॥ एवं पुराणसन्दोहश्चतुर्लक्ष उदाहृतः। तत्राष्टादशसाहस्रं श्रीभागवतमिष्यते ॥९॥ इदं भगवता पूर्वं ब्रह्मणे नाभिपङ्कजे। स्थिताय भवभीताय कारुण्यात्सम्प्रकाशितम् ॥१०॥ आदिमध्यावसानेषु वैराग्याख्यानसंयुतम्। हरिलीलाकथाव्राता मृतानन्दितसत्सुरम् ॥११॥ सर्ववेदान्तसारं यद्ब्रह्मात्मैकत्वलक्षणम्। वस्त्वद्वितीयं तन्निष्ठं कैवल्यैकप्रयोजनम् ॥१२॥ प्रौष्ठपद्यां पौर्णमास्यां हेमसिंहसमन्वितम्। ददाति यो भागवतं स याति परमां गतिम् ॥१३॥ राजन्ते तावदन्यानि पुराणानि सतां गणे। यावन्न दृश्यते साक्षात्श्रीमद्भागवतं परम् ॥१४॥ (यावद्भागवतं नैव श्रूयतेऽमृतसागरं) सर्ववेदान्तसारं हि श्रीभागवतमिष्यते। तद्रसामृततृप्तस्य नान्यत्र स्याद्रतिः क्वचित् ॥१५॥ निम्नगानां यथा गङ्गा देवानामच्युतो यथा। वैष्णवानां यथा शम्भुः पुराणानामिदं तथा ॥१६॥ क्षेत्राणां चैव सर्वेषां यथा काशी ह्यनुत्तमा। तथा पुराणव्रातानां श्रीमद्भागवतं द्विजाः ॥१७॥ श्रीमद्भागवतं पुराणममलं यद्वैष्णवानां प्रियं यस्मिन् पारमहंस्यमेकममलं ज्ञानं परं गीयते। तत्र ज्ञानविरागभक्तिसहितं नैष्कर्म्यमाविस्कृतं तच्छृण्वन्विपठन्विचारणपरो भक्त्या विमुच्येन्नरः॥१८॥ कस्मै येन विभासितोऽयमतुलो ज्ञानप्रदीपः पुरा तद्रूपेण च नारदाय मुनये कृष्णाय तद्रूपिणा। योगीन्द्राय तदात्मनाथ भगवद्राताय कारुण्यतः तच्छुद्धं विमलं विशोकममृतं सत्यं परं धीमहि॥१९॥ नमस्तस्मै भगवते वासुदेवाय साक्षिणे। य इदं कृपया कस्मै व्याचचक्षे मुमुक्षवे ॥२०॥ योगीन्द्राय नमस्तस्मै शुकाय ब्रह्मरूपिणे। संसारसर्पदष्टं यो विष्णुरातममूमुचत् ॥२१॥ भवे भवे यथा भक्तिः पादयोस्तव जायते। तथा कुरुष्व देवेश नाथस्त्वं नो यतः प्रभो ॥२२॥ नामसङ्कीर्तनं यस्य सर्वपापप्रणाशनम्। प्रणामो दुःखशमनस्तं नमामि हरिं परम् ॥२३॥ इति श्रीमद्भागवते महापुराणे वैयासक्यामष्टादशसाहस्र्यां पारमहंस्यां संहितायां द्वादशस्कन्धे त्रयोदशोऽध्यायः॥१३॥

॥ इति द्वादशस्कन्धः समाप्तः ॥

॥ संपूर्णोऽयं ग्रन्थः ॥

त्वदीयं वस्तु गोविन्द तुभ्यमेव समर्पये । तेन त्वदङ्घ्रिकमले रतिं मे यच्छ शाश्वतीम्॥

ॐ तत्सत् ॥


GRETIL txt edited as per Gita Press edition along with paaThabheda by PSA Easwaran
% Text title            : shrImadbhAgavatam - 12 - dvAdashaskandhaH
% File name             : bhagpur-12.itx
% itxtitle              : shrImadbhAgavatam - 12 - dvAdashaskandhaH
% engtitle              : shrImadbhAgavatam - dvAdashaskandhaH
% Category              : purana, shrimadbhagavatam, vyAsa, krishna
% Location              : doc_purana
% Sublocation           : purana
% Language              : Sanskrit
% Subject               : hinduism/religion
% Indexextra            : ()
% Latest update         : July 31, 2017, July 16, 2010
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP