॥ ब्रह्मपुराण ॥

Devanarari text of entire Brahmapurana for researchers. By permission of Professor Dr. Peter Schreiner, Universitaet Zuerich, converted to itx by Ulrich Stiehl (Ulrich.Stiehl at t.online.de) from the original file BRPTASC.ZIP, downloadable from site http://www.indologie.unizh.ch/text/texttml To allow searching for verses in the devanagari pdf file, a seven digit number was prefixed to each line in format cccvvvl chapter-verse-line. The end of verse quarters 1 and 3 is marked by ᳚-᳚ in case of compounds in replacement of the encoding ᳚+ .᳚ in the original file BRPTASC.ZIP. ००१००११ यस्मात्सर्वमिदं प्रपञ्चरचितं मायाजगज्जायते । ००१००१२ यस्मिंस्तिष्ठति याति चान्तसमये कल्पानुकल्पे पुनः । ००१००१३ यं ध्यात्वा मुनयः प्रपञ्चरहितं विन्दन्ति मोक्षं ध्रुवम् । ००१००१४ तं वन्दे पुरुषोत्तमाख्यममलं नित्यं विभुं निश्चलम् ॥ १.१। ००१००२१ यं ध्यायन्ति बुधाः समाधिसमये शुद्धं वियत्सन्निभम् । ००१००२२ नित्यानन्दमयं प्रसन्नममलं सर्वेश्वरं निर्गुणम् । ००१००२३ व्यक्ताव्यक्तपरं प्रपञ्चरहितं ध्यानैकगम्यं विभुम् । ००१००२४ तं संसारविनाशहेतुमजरं वन्दे हरिं मुक्तिदम् ॥ १.२। ००१००३१ सुपुण्ये नैमिषारण्ये पवित्रे सुमनोहरे । ००१००३२ नानामुनिजनाकीर्णे नानापुष्पोपशोभिते ॥ १.३। ००१००४१ सरलैः कर्णिकारैश्च पनसैर्धवखादिरैः । ००१००४२ आम्रजम्बूकपित्थैश्च न्यग्रोधैर्देवदारुभिः ॥ १.४। ००१००५१ अश्वत्थैः पारिजातैश्च चन्दनागुरुपाटलैः । ००१००५२ बकुलैः सप्तपर्णैश्च पुन्नागैर्नागकेसरैः ॥ १.५। ००१००६१ शालैस्तालैस्तमालैश्च नारिकेलैस्तथार्जुनैः । ००१००६२ अन्यैश्च बहुभिर्वृक्षैश्चम्पकाद्यैश्च शोभिते ॥ १.६। ००१००७१ नानापक्षिगणाकीर्णे नानामृगगणैर्युते । ००१००७२ नानाजलाशयैः पुण्यैर्दीर्घिकाद्यैरलङ्कृते ॥ १.७। ००१००८१ ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्चान्यैश्च जातिभिः । ००१००८२ वानप्रस्थैर्गृहस्थैश्च यतिभिर्ब्रह्मचारिभिः ॥ १.८। ००१००९१ सम्पन्नैर्गोकुलैश्चैव सर्वत्र समलङ्कृते । ००१००९२ यवगोधूमचणकैर्माषमुद्गतिलेक्षुभिः ॥ १.९। ००१०१०१ चीनकाद्यैस्तथा मेध्यैः सस्यैश्चान्यैश्च शोभिते । ००१०१०२ तत्र दीप्ते हुतवहे हूयमाने महामखे ॥ १.१०। ००१०१११ यजतां नैमिषेयाणां सत्त्रे द्वादशवार्षिके । ००१०११२ आजग्मुस्तत्र मुनयस्तथान्ये ऽपि द्विजातयः ॥ १.११। ००१०१२१ तानागतान्द्विजांस्ते तु पूजां चक्रुर्यथोचिताम् । ००१०१२२ तेषु तत्रोपविष्टेषु ऋत्विग्भिः सहितेषु च ॥ १.१२। ००१०१३१ तत्राजगाम सूतस्तु मतिमांल्लोमहर्षणः । ००१०१३२ तं दृष्ट्वा ते मुनिवराः पूजां चक्रुर्मुदान्विताः ॥ १.१३। ००१०१४१ सो ऽपि तान्प्रतिपूज्यैव संविवेश वरासने । ००१०१४२ कथां चक्रुस्तदान्योन्यं सूतेन सहिता द्विजाः ॥ १.१४। ००१०१५१ कथान्ते व्यासशिष्यं ते पप्रच्छुः संशयं मुदा । ००१०१५२ ऋत्विग्भिः सहिताः सर्वे सदस्यैः सह दीक्षिताः ॥ १.१५। ००१०१६० मुनय ऊचुः ००१०१६१ पुराणागमशास्त्राणि सेतिहासानि सत्तम । ००१०१६२ जानासि देवदैत्यानां चरितं जन्म कर्म च ॥ १.१६। ००१०१७१ न ते ऽस्त्यविदितं किञ्चिद्वेदे शास्त्रे च भारते । ००१०१७२ पुराणे मोक्षशास्त्रे च सर्वज्ञो ऽसि महामते ॥ १.१७। ००१०१८१ यथापूर्वमिदं सर्वमुत्पन्नं सचराचरम् । ००१०१८२ ससुरासुरगन्धर्वं सयक्षोरगराक्षसम् ॥ १.१८। ००१०१९१ श्रोतुमिच्छामहे सूत ब्रूहि सर्वं यथा जगत् । ००१०१९२ बभूव भूयश्च यथा महाभाग भविष्यति ॥ १.१९। ००१०२०१ यतश्चैव जगत्सूत यतश्चैव चराचरम् । ००१०२०२ लीनमासीत्तथा यत्र लयमेष्यति यत्र च ॥ १.२०। ००१०२१० लोमहर्षण उवाच ००१०२११ अविकाराय शुद्धाय नित्याय परमात्मने । ००१०२१२ सदैकरूपरूपाय विष्णवे सर्वजिष्णवे ॥ १.२१। ००१०२२१ नमो हिरण्यगर्भाय हरये शङ्कराय च । ००१०२२२ वासुदेवाय ताराय सर्गस्थित्यन्तकर्मणे ॥ १.२२। ००१०२३१ एकानेकस्वरूपाय स्थूलसूक्ष्मात्मने नमः । ००१०२३२ अव्यक्तव्यक्तभूताय विष्णवे मुक्तिहेतवे ॥ १.२३। ००१०२४१ सर्गस्थितिविनाशाय जगतो यो ऽजरामरः । ००१०२४२ मूलभूतो नमस्तस्मै विष्णवे परमात्मने ॥ १.२४। ००१०२५१ आधारभूतं विश्वस्याप्यणीयांसमणीयसाम् । ००१०२५२ प्रणम्य सर्वभूतस्थमच्युतं पुरुषोत्तमम् ॥ १.२५। ००१०२६१ ज्ञानस्वरूपमत्यन्तं निर्मलं परमार्थतः । ००१०२६२ तमेवार्थस्वरूपेण भ्रान्तिदर्शनतः स्थितम् ॥ १.२६। ००१०२७१ विष्णुं ग्रसिष्णुं विश्वस्य स्थितौ सर्गे तथा प्रभुम् । ००१०२७२ सर्वज्ञं जगतामीशमजमक्षयमव्ययम् ॥ १.२७। ००१०२८१ आद्यं सुसूक्ष्मं विश्वेशं ब्रह्मादीन्प्रणिपत्य च । ००१०२८२ इतिहासपुराणज्ञं वेदवेदाङ्गपारगम् ॥ १.२८। ००१०२९१ सर्वशास्त्रार्थतत्त्वज्ञं पराशरसुतं प्रभुम् । ००१०२९२ गुरुं प्रणम्य वक्ष्यामि पुराणं वेदसम्मितम् ॥ १.२९। ००१०३०१ कथयामि यथा पूर्वं दक्षाद्यैर्मुनिसत्तमैः । ००१०३०२ पृष्टः प्रोवाच भगवानब्जयोनिः पितामहः ॥ १.३०। ००१०३११ शृणुध्वं सम्प्रवक्ष्यामि कथां पापप्रणाशिनीम् । ००१०३१२ कथ्यमानां मया चित्रां बह्वर्थां श्रुतिविस्तराम् ॥ १.३१। ००१०३२१ यस्त्विमां धारयेन्नित्यं शृणुयाद्वाप्यभीक्ष्णशः । ००१०३२२ स्ववंशधारणं कृत्वा स्वर्गलोके महीयते ॥ १.३२। ००१०३३१ अव्यक्तं कारणं यत्तन्नित्यं सदसदात्मकम् । ००१०३३२ प्रधानं पुरुषस्तस्मान्निर्ममे विश्वमीश्वरः ॥ १.३३। ००१०३४१ तं बुध्यध्वं मुनिश्रेष्ठा ब्रह्माणममितौजसम् । ००१०३४२ स्रष्टारं सर्वभूतानां नारायणपरायणम् ॥ १.३४। ००१०३५१ अहङ्कारस्तु महतस्तस्माद्भूतानि जज्ञिरे । ००१०३५२ भूतभेदाश्च भूतेभ्य इति सर्गः सनातनः ॥ १.३५। ००१०३६१ विस्तरावयवं चैव यथाप्रज्ञं यथाश्रुति । ००१०३६२ कीर्त्यमानं शृणुध्वं वः सर्वेषां कीर्तिवर्धनम् ॥ १.३६। ००१०३७१ कीर्तितं स्थिरकीर्तीनां सर्वेषां पुण्यवर्धनम् । ००१०३७२ ततः स्वयम्भूर्भगवान्सिसृक्षुर्विविधाः प्रजाः ॥ १.३७। ००१०३८१ अप एव ससर्जादौ तासु वीर्यमथासृजत् । ००१०३८२ आपो नारा इति प्रोक्ता आपो वै नरसूनवः ॥ १.३८। ००१०३९१ अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः । ००१०३९२ हिरण्यवर्णमभवत्तदण्डमुदकेशयम् ॥ १.३९। ००१०४०१ तत्र जज्ञे स्वयं ब्रह्मा स्वयम्भूरिति नः श्रुतम् । ००१०४०२ हिरण्यवर्णो भगवानुषित्वा परिवत्सरम् ॥ १.४०। ००१०४११ तदण्डमकरोद्द्वैधं दिवं भुवमथापि च । ००१०४१२ तयोः शकलयोर्मध्य आकाशमकरोत्प्रभुः ॥ १.४१। ००१०४२१ अप्सु पारिप्लवां पृथ्वीं दिशश्च दशधा दधे । ००१०४२२ तत्र कालं मनो वाचं कामं क्रोधमथो रतिम् ॥ १.४२। ००१०४३१ ससर्ज सृष्टिं तद्रूपां स्रष्टुमिच्छन्प्रजापतीन् । ००१०४३२ मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् ॥ १.४३। ००१०४४१ वसिष्ठं च महातेजाः सो ऽसृजत्सप्त मानसान् । ००१०४४२ सप्त ब्रह्माण इत्येते पुराणे निश्चयं गताः ॥ १.४४। ००१०४५१ नारायणात्मकानां तु सप्तानां ब्रह्मजन्मनाम् । ००१०४५२ ततो ऽसृजत्पुरा ब्रह्मा रुद्रं रोषात्मसम्भवम् ॥ १.४५। ००१०४६१ सनत्कुमारं च विभुं पूर्वेषामपि पूर्वजम् । ००१०४६२ सप्तस्वेता अजायन्त प्रजा रुद्राश्च भो द्विजाः ॥ १.४६। ००१०४७१ स्कन्दः सनत्कुमारश्च तेजः सङ्क्षिप्य तिष्ठतः । ००१०४७२ तेषां सप्त महावंशा दिव्या देवगणान्विताः ॥ १.४७। ००१०४८१ क्रियावन्तः प्रजावन्तो महर्षिभिरलङ्कृताः । ००१०४८२ विद्युतो ऽशनिमेघांश्च रोहितेन्द्रधनूंषि च ॥ १.४८। ००१०४९१ वयांसि च ससर्जादौ पर्जन्यं च ससर्ज ह । ००१०४९२ ऋचो यजूंषि सामानि निर्ममे यज्ञसिद्धये ॥ १.४९। ००१०५०१ साध्यानजनयद्देवानित्येवमनुसञ्जगुः । ००१०५०२ उच्चावचानि भूतानि गात्रेभ्यस्तस्य जज्ञिरे ॥ १.५०। ००१०५११ आपवस्य प्रजासर्गं सृजतो हि प्रजापतेः । ००१०५१२ सृज्यमानाः प्रजा नैव विवर्धन्ते यदा तदा ॥ १.५१। ००१०५२१ द्विधा कृत्वात्मनो देहमर्धेन पुरुषो ऽभवत् । ००१०५२२ अर्धेन नारी तस्यां तु सो ऽसृजद्द्विविधाः प्रजाः ॥ १.५२। ००१०५३१ दिवं च पृथिवीं चैव महिम्ना व्याप्य तिष्ठति । ००१०५३२ विराजमसृजद्विष्णुः सो ऽसृजत्पुरुषं विराट् ॥ १.५३। ००१०५४१ पुरुषं तं मनुं विद्यात्तस्य मन्वन्तरं स्मृतम् । ००१०५४२ द्वितीयं मानसस्यैतन्मनोरन्तरमुच्यते ॥ १.५४। ००१०५५१ स वैराजः प्रजासर्गं ससर्ज पुरुषः प्रभुः । ००१०५५२ नारायणविसर्गस्य प्रजास्तस्याप्ययोनिजाः ॥ १.५५। ००१०५६१ आयुष्मान्कीर्तिमान्पुण्य-प्रजावांश्च भवेन्नरः । ००१०५६२ आदिसर्गं विदित्वेमं यथेष्टां चाप्नुयाद्गतिम् ॥ १.५६। ००२००१० लोमहर्षण उवाच ००२००११ स सृष्ट्वा तु प्रजास्त्वेवमापवो वै प्रजापतिः । ००२००१२ लेभे वै पुरुषः पत्नीं शतरूपामयोनिजाम् ॥ २.१। ००२००२१ आपवस्य महिम्ना तु दिवमावृत्य तिष्ठतः । ००२००२२ धर्मेणैव मुनिश्रेष्ठाः शतरूपा व्यजायत ॥ २.२। ००२००३१ सा तु वर्षायुतं तप्त्वा तपः परमदुश्चरम् । ००२००३२ भर्तारं दीप्ततपसं पुरुषं प्रत्यपद्यत ॥ २.३। ००२००४१ स वै स्वायम्भुवो विप्राः पुरुषो मनुरुच्यते । ००२००४२ तस्यैकसप्ततियुगं मन्वन्तरमिहोच्यते ॥ २.४। ००२००५१ वैराजात्पुरुषाद्वीरं शतरूपा व्यजायत । ००२००५२ प्रियव्रतोत्तानपादौ वीरात्काम्या व्यजायत ॥ २.५। ००२००६१ काम्या नाम सुता श्रेष्ठा कर्दमस्य प्रजापतेः । ००२००६२ काम्यापुत्रास्तु चत्वारः सम्राट्कुक्षिर्विराट्प्रभुः ॥ २.६। ००२००७१ उत्तानपादं जग्राह पुत्रमत्रिः प्रजापतिः । ००२००७२ उत्तानपादाच्चतुरः सूनृता सुषुवे सुतान् ॥ २.७। ००२००८१ धर्मस्य कन्या सुश्रोणी सूनृता नाम विश्रुता । ००२००८२ उत्पन्ना वाजिमेधेन ध्रुवस्य जननी शुभा ॥ २.८। ००२००९१ ध्रुवं च कीर्तिमन्तं च आयुष्मन्तं वसुं तथा । ००२००९२ उत्तानपादो ऽजनयत्सूनृतायां प्रजापतिः ॥ २.९। ००२०१०१ ध्रुवो वर्षसहस्राणि त्रीणि दिव्यानि भो द्विजाः । ००२०१०२ तपस्तेपे महाभागः प्रार्थयन्सुमहद्यशः ॥ २.१०। ००२०१११ तस्मै ब्रह्मा ददौ प्रीतः स्थानमात्मसमं प्रभुः । ००२०११२ अचलं चैव पुरतः सप्तर्षीणां प्रजापतिः ॥ २.११। ००२०१२१ तस्याभिमानमृद्धिं च महिमानं निरीक्ष्य च । ००२०१२२ देवासुराणामाचार्यः श्लोकं प्रागुशना जगौ ॥ २.१२। ००२०१३१ अहो ऽस्य तपसो वीर्यमहो श्रुतमहो ऽद्भुतम् । ००२०१३२ यमद्य पुरतः कृत्वा ध्रुवं सप्तर्षयः स्थिताः ॥ २.१३। ००२०१४१ तस्माच्छ्लिष्टिं च भव्यं च ध्रुवाच्छम्भुर्व्यजायत । ००२०१४२ श्लिष्टेराधत्त सुच्छाया पञ्च पुत्रानकल्मषान् ॥ २.१४। ००२०१५१ रिपुं रिपुञ्जयं वीरं वृकलं वृकतेजसम् । ००२०१५२ रिपोराधत्त बृहती चक्षुषं सर्वतेजसम् ॥ २.१५। ००२०१६१ अजीजनत्पुष्करिण्यां वैरिण्यां चाक्षुषं मनुम् । ००२०१६२ प्रजापतेरात्मजायां वीरण्यस्य महात्मनः ॥ २.१६। ००२०१७१ मनोरजायन्त दश नड्वलायां महौजसः । ००२०१७२ कन्यायां मुनिशार्दूला वैराजस्य प्रजापतेः ॥ २.१७। ००२०१८१ कुत्सः पुरुः शतद्युम्नस्तपस्वी सत्यवाक्कविः । ००२०१८२ अग्निष्टुदतिरात्रश्च सुद्युम्नश्चेति ते नव ॥ २.१८। ००२०१९१ अभिमन्युश्च दशमो नड्वलायां महौजसः । ००२०१९२ पुरोरजनयत्पुत्रान्षडाग्नेयी महाप्रभान् ॥ २.१९। ००२०२०१ अङ्गं सुमनसं स्वातिं क्रतुमङ्गिरसं मयम् । ००२०२०२ अङ्गात्सुनीथापत्यं वै वेणमेकं व्यजायत ॥ २.२०। ००२०२११ अपचारेण वेणस्य प्रकोपः सुमहानभूत् । ००२०२१२ प्रजार्थमृषयो यस्य ममन्थुर्दक्षिणं करम् ॥ २.२१। ००२०२२१ वेणस्य मथिते पाणौ सम्बभूव महान्नृपः । ००२०२२२ तं दृष्ट्वा मुनयः प्राहुरेष वै मुदिताः प्रजाः ॥ २.२२। ००२०२३१ करिष्यति महातेजा यशश्च प्राप्स्यते महत् । ००२०२३२ स धन्वी कवची जातो ज्वलज्ज्वलनसन्निभः ॥ २.२३। ००२०२४१ पृथुर्वैण्यस्तथा चेमां ररक्ष क्षत्रपूर्वजः । ००२०२४२ राजसूयाभिषिक्तानामाद्यः स वसुधापतिः ॥ २.२४। ००२०२५१ तस्माच्चैव समुत्पन्नौ निपुणौ सूतमागधौ । ००२०२५२ तेनेयं गौर्मुनिश्रेष्ठा दुग्धा सस्यानि भूभृता ॥ २.२५। ००२०२६१ प्रजानां वृत्तिकामेन देवैः सर्षिगणैः सह । ००२०२६२ पितृभिर्दानवैश्चैव गन्धर्वैरप्सरोगणैः ॥ २.२६। ००२०२७१ सर्पैः पुण्यजनैश्चैव वीरुद्भिः पर्वतैस्तथा । ००२०२७२ तेषु तेषु च पात्रेषु दुह्यमाना वसुन्धरा ॥ २.२७। ००२०२८१ प्रादाद्यथेप्सितं क्षीरं तेन प्राणानधारयन् । ००२०२८२ पृथोस्तु पुत्रौ धर्मज्ञौ यज्ञान्ते ऽन्तर्धिपातिनौ ॥ २.२८। ००२०२९१ शिखण्डिनी हविर्धानमन्तर्धानाद्व्यजायत । ००२०२९२ हविर्धानात्षडाग्नेयी धिषणाजनयत्सुतान् ॥ २.२९। ००२०३०१ प्राचीनबर्हिषं शुक्रं गयं कृष्णं व्रजाजिनौ । ००२०३०२ प्राचीनबर्हिर्भगवान्महानासीत्प्रजापतिः ॥ २.३०। ००२०३११ हविर्धानान्मुनिश्रेष्ठा येन संवर्धिताः प्रजाः । ००२०३१२ प्राचीनबर्हिर्भगवान्पृथिवीतलचारिणीः ॥ २.३१। ००२०३२१ समुद्रतनयायां तु कृतदारो ऽभवत्प्रभुः । ००२०३२२ महतस्तपसः पारे सवर्णायां प्रजापतिः ॥ २.३२। ००२०३३१ सवर्णाधत्त सामुद्री दश प्राचीनबर्हिषः । ००२०३३२ सर्वान्प्रचेतसो नाम धनुर्वेदस्य पारगान् ॥ २.३३। ००२०३४१ अपृथग्धर्मचरणास्ते ऽतप्यन्त महत्तपः । ००२०३४२ दश वर्षसहस्राणि समुद्रसलिलेशयाः ॥ २.३४। ००२०३५१ तपश्चरत्सु पृथिवीं प्रचेतःसु महीरुहाः । ००२०३५२ अरक्षमाणामावव्रुर्बभूवाथ प्रजाक्षयः ॥ २.३५। ००२०३६१ नाशकन्मारुतो वातुं वृतं खमभवद्द्रुमैः । ००२०३६२ दश वर्षसहस्राणि न शेकुश्चेष्टितुं प्रजाः ॥ २.३६। ००२०३७१ तदुपश्रुत्य तपसा युक्ताः सर्वे प्रचेतसः । ००२०३७२ मुखेभ्यो वायुमग्निं च ससृजुर्जातमन्यवः ॥ २.३७। ००२०३८१ उन्मूलानथ वृक्षांस्तु कृत्वा वायुरशोषयत् । ००२०३८२ तानग्निरदहद्घोर एवमासीद्द्रुमक्षयः ॥ २.३८। ००२०३९१ द्रुमक्षयमथो बुद्ध्वा किञ्चिच्छिष्टेषु शाखिषु । ००२०३९२ उपगम्याब्रवीदेतांस्तदा सोमः प्रजापतीन् ॥ २.३९। ००२०४०१ कोपं यच्छत राजानः सर्वे प्राचीनबर्हिषः । ००२०४०२ वृक्षशून्या कृता पृथ्वी शाम्येतामग्निमारुतौ ॥ २.४०। ००२०४११ रत्नभूता च कन्येयं वृक्षाणां वरवर्णिनी । ००२०४१२ भविष्यं जानता तात धृता गर्भेण वै मया ॥ २.४१। ००२०४२१ मारिषा नाम नाम्नैषा वृक्षाणामिति निर्मिता । ००२०४२२ भार्या वो ऽस्तु महाभागाः सोमवंशविवर्धिनी ॥ २.४२। ००२०४३१ युष्माकं तेजसो ऽर्धेन मम चार्धेन तेजसः । ००२०४३२ अस्यामुत्पत्स्यते विद्वान्दक्षो नाम प्रजापतिः ॥ २.४३। ००२०४४१ स इमां दग्धभूयिष्ठां युष्मत्तेजोमयेन वै । ००२०४४२ अग्निनाग्निसमो भूयः प्रजाः संवर्धयिष्यति ॥ २.४४। ००२०४५१ ततः सोमस्य वचनाज्जगृहुस्ते प्रचेतसः । ००२०४५२ संहृत्य कोपं वृक्षेभ्यः पत्नीं धर्मेण मारिषाम् ॥ २.४५। ००२०४६१ दशभ्यस्तु प्रचेतोभ्यो मारिषायां प्रजापतिः । ००२०४६२ दक्षो जज्ञे महातेजाः सोमस्यांशेन भो द्विजाः ॥ २.४६। ००२०४७१ अचरांश्च चरांश्चैव द्विपदो ऽथ चतुष्पदः । ००२०४७२ स सृष्ट्वा मनसा दक्षः पश्चादसृजत स्त्रियः ॥ २.४७। ००२०४८१ ददौ दश स धर्माय कश्यपाय त्रयोदश । ००२०४८२ शिष्टाः सोमाय राज्ञे च नक्षत्राख्या ददौ प्रभुः ॥ २.४८। ००२०४९१ तासु देवाः खगा गावो नागा दितिजदानवाः । ००२०४९२ गन्धर्वाप्सरसश्चैव जज्ञिरे ऽन्याश्च जातयः ॥ २.४९। ००२०५०१ ततः प्रभृति विप्रेन्द्राः प्रजा मैथुनसम्भवाः । ००२०५०२ सङ्कल्पाद्दर्शनात्स्पर्शात्पूर्वेषां प्रोच्यते प्रजा ॥ २.५०। ००२०५१० मुनय ऊचुः ००२०५११ देवानां दानवानां च गन्धर्वोरगरक्षसाम् । ००२०५१२ सम्भवस्तु श्रुतो ऽस्माभिर्दक्षस्य च महात्मनः ॥ २.५१। ००२०५२१ अङ्गुष्ठाद्ब्रह्मणो जज्ञे दक्षः किल शुभव्रतः । ००२०५२२ वामाङ्गुष्ठात्तथा चैवं तस्य पत्नी व्यजायत ॥ २.५२। ००२०५३१ कथं प्राचेतसत्वं स पुनर्लेभे महातपाः । ००२०५३२ एतं नः संशयं सूत व्याख्यातुं त्वमिहार्हसि । ००२०५३३ दौहित्रश्चैव सोमस्य कथं श्वशुरतां गतः ॥ २.५३। ००२०५४० लोमहर्षण उवाच ००२०५४१ उत्पत्तिश्च निरोधश्च नित्यं भूतेषु भो द्विजाः । ००२०५४२ ऋषयो ऽत्र न मुह्यन्ति विद्यावन्तश्च ये जनाः ॥ २.५४। ००२०५५१ युगे युगे भवन्त्येते पुनर्दक्षादयो नृपाः । ००२०५५२ पुनश्चैव निरुध्यन्ते विद्वांस्तत्र न मुह्यति ॥ २.५५। ००२०५६१ ज्यैष्ठ्यं कानिष्ठमप्येषां पूर्वं नासीद्द्विजोत्तमाः । ००२०५६२ तप एव गरीयो ऽभूत्प्रभावश्चैव कारणम् ॥ २.५६। ००२०५७१ इमां विसृष्टिं दक्षस्य यो विद्यात्सचराचराम् । ००२०५७२ प्रजावानायुरुत्तीर्णः स्वर्गलोके महीयते ॥ २.५७। ००३००१० मुनय ऊचुः ००३००११ देवानां दानवानां च गन्धर्वोरगरक्षसाम् । ००३००१२ उत्पत्तिं विस्तरेणैव लोमहर्षण कीर्तय ॥ ३.१। ००३००२० लोमहर्षण उवाच ००३००२१ प्रजाः सृजेति व्यादिष्टः पूर्वं दक्षः स्वयम्भुवा । ००३००२२ यथा ससर्ज भूतानि तथा शृणुत भो द्विजाः ॥ ३.२। ००३००३१ मानसान्येव भूतानि पूर्वमेवासृजत्प्रभुः । ००३००३२ ऋषीन्देवान्सगन्धर्वानसुरान्यक्षराक्षसान् ॥ ३.३। ००३००४१ यदास्य मानसी विप्रा न व्यवर्धत वै प्रजा । ००३००४२ तदा सञ्चिन्त्य धर्मात्मा प्रजाहेतोः प्रजापतिः ॥ ३.४। ००३००५१ स मैथुनेन धर्मेण सिसृक्षुर्विविधाः प्रजाः । ००३००५२ असिक्नीमावहत्पत्नीं वीरणस्य प्रजापतेः ॥ ३.५। ००३००६१ सुतां सुतपसा युक्तां महतीं लोकधारिणीम् । ००३००६२ अथ पुत्रसहस्राणि वैरण्यां पञ्च वीर्यवान् ॥ ३.६। ००३००७१ असिक्न्यां जनयामास दक्ष एव प्रजापतिः । ००३००७२ तांस्तु दृष्ट्वा महाभागान्संविवर्धयिषून्प्रजाः ॥ ३.७। ००३००८१ देवर्षिः प्रियसंवादो नारदः प्राब्रवीदिदम् । ००३००८२ नाशाय वचनं तेषां शापायैवात्मनस्तथा ॥ ३.८। ००३००९१ यं कश्यपः सुतवरं परमेष्ठी व्यजीजनत् । ००३००९२ दक्षस्य वै दुहितरि दक्षशापभयान्मुनिः ॥ ३.९। ००३०१०१ पूर्वं स हि समुत्पन्नो नारदः परमेष्ठिनः । ००३०१०२ असिक्न्यामथ वैरण्यां भूयो देवर्षिसत्तमः ॥ ३.१०। ००३०१११ तं भूयो जनयामास पितेव मुनिपुङ्गवम् । ००३०११२ तेन दक्षस्य वै पुत्रा हर्यश्वा इति विश्रुताः ॥ ३.११। ००३०१२१ निर्मथ्य नाशिताः सर्वे विधिना च न संशयः । ००३०१२२ तस्योद्यतस्तदा दक्षो नाशायामितविक्रमः ॥ ३.१२। ००३०१३१ ब्रह्मर्षीन्पुरतः कृत्वा याचितः परमेष्ठिना । ००३०१३२ ततो ऽभिसन्धिश्चक्रे वै दक्षस्य परमेष्ठिना ॥ ३.१३। ००३०१४१ कन्यायां नारदो मह्यं तव पुत्रो भवेदिति । ००३०१४२ ततो दक्षः सुतां प्रादात्प्रियां वै परमेष्ठिने । ००३०१४३ स तस्यां नारदो जज्ञे भूयः शापभयादृषिः ॥ ३.१४। ००३०१५० मुनय ऊचुः ००३०१५१ कथं प्रणाशिताः पुत्रा नारदेन महर्षिणा । ००३०१५२ प्रजापतेः सूतवर्य श्रोतुमिच्छाम तत्त्वतः ॥ ३.१५। ००३०१६० लोमहर्षण उवाच ००३०१६१ दक्षस्य पुत्रा हर्यश्वा विवर्धयिषवः प्रजाः । ००३०१६२ समागता महावीर्या नारदस्तानुवाच ह ॥ ३.१६। ००३०१७० नारद उवाच ००३०१७१ बालिशा बत यूयं वै नास्या जानीत वै भुवः । ००३०१७२ प्रमाणं स्रष्टुकामा वै प्रजाः प्राचेतसात्मजाः ॥ ३.१७। ००३०१८१ अन्तरूर्ध्वमधश्चैव कथं सृजथ वै प्रजाः । ००३०१८२ ते तु तद्वचनं श्रुत्वा प्रयाताः सर्वतो दिशः ॥ ३.१८। ००३०१९१ अद्यापि न निवर्तन्ते समुद्रेभ्य इवापगाः । ००३०१९२ हर्यश्वेष्वथ नष्टेषु दक्षः प्राचेतसः पुनः ॥ ३.१९। ००३०२०१ वैरण्यामथ पुत्राणां सहस्रमसृजत्प्रभुः । ००३०२०२ विवर्धयिषवस्ते तु शबलाश्वास्तथा प्रजाः ॥ ३.२०। ००३०२११ पूर्वोक्तं वचनं ते तु नारदेन प्रचोदिताः । ००३०२१२ अन्योन्यमूचुस्ते सर्वे सम्यगाह महानृषिः ॥ ३.२१। ००३०२२१ भ्रातॄणां पदवीं ज्ञातुं गन्तव्यं नात्र संशयः । ००३०२२२ ज्ञात्वा प्रमाणं पृथ्व्याश्च सुखं स्रक्ष्यामहे प्रजाः ॥ ३.२२। ००३०२३१ ते ऽपि तेनैव मार्गेण प्रयाताः सर्वतो दिशम् । ००३०२३२ अद्यापि न निवर्तन्ते समुद्रेभ्य इवापगाः ॥ ३.२३। ००३०२४१ तदा प्रभृति वै भ्राता भ्रातुरन्वेषणे द्विजाः । ००३०२४२ प्रयातो नश्यति क्षिप्रं तन्न कार्यं विपश्चिता ॥ ३.२४। ००३०२५१ तांश्चैव नष्टान्विज्ञाय पुत्रान्दक्षः प्रजापतिः । ००३०२५२ षष्टिं ततो ऽसृजत्कन्या वैरण्यामिति नः श्रुतम् ॥ ३.२५। ००३०२६१ तास्तदा प्रतिजग्राह भार्यार्थं कश्यपः प्रभुः । ००३०२६२ सोमो धर्मश्च भो विप्रास्तथैवान्ये महर्षयः ॥ ३.२६। ००३०२७१ ददौ स दश धर्माय कश्यपाय त्रयोदश । ००३०२७२ सप्तविंशति सोमाय चतस्रो ऽरिष्टनेमिने ॥ ३.२७। ००३०२८१ द्वे चैव बहुपुत्राय द्वे चैवाङ्गिरसे तथा । ००३०२८२ द्वे कृशाश्वाय विदुषे तासां नामानि मे शृणु ॥ ३.२८। ००३०२९१ अरुन्धती वसुर्यामी लम्बा भानुर्मरुत्वती । ००३०२९२ सङ्कल्पा च मुहूर्ता च साध्या विश्वा च भो द्विजाः ॥ ३.२९। ००३०३०१ धर्मपत्न्यो दश त्वेतास्तास्वपत्यानि बोधत । ००३०३०२ विश्वेदेवास्तु विश्वायाः साध्या साध्यान्व्यजायत ॥ ३.३०। ००३०३११ मरुत्वत्यां मरुत्वन्तो वसोस्तु वसवः सुताः । ००३०३१२ भानोस्तु भानवः पुत्रा मुहूर्तास्तु मुहूर्तजाः ॥ ३.३१। ००३०३२१ लम्बायाश्चैव घोषो ऽथ नागवीथी च यामिजा । ००३०३२२ पृथिवी विषयं सर्वमरुन्धत्यां व्यजायत ॥ ३.३२। ००३०३३१ सङ्कल्पायास्तु विश्वात्मा जज्ञे सङ्कल्प एव हि । ००३०३३२ नागवीथ्यां च यामिन्यां वृषलश्च व्यजायत ॥ ३.३३। ००३०३४१ परा याः सोमपत्नीश्च दक्षः प्राचेतसो ददौ । ००३०३४२ सर्वा नक्षत्रनाम्न्यस्ता ज्योतिषे परिकीर्तिताः ॥ ३.३४। ००३०३५१ ये त्वन्ये ख्यातिमन्तो वै देवा ज्योतिष्पुरोगमाः । ००३०३५२ वसवो ऽष्टौ समाख्यातास्तेषां वक्ष्यामि विस्तरम् ॥ ३.३५। ००३०३६१ आपो ध्रुवश्च सोमश्च धवश्चैवानिलो ऽनलः । ००३०३६२ प्रत्यूषश्च प्रभासश्च वसवो नामभिः स्मृताः ॥ ३.३६। ००३०३७१ आपस्य पुत्रो वैतण्ड्यः श्रमः श्रान्तो मुनिस्तथा । ००३०३७२ ध्रुवस्य पुत्रो भगवान्कालो लोकप्रकालनः ॥ ३.३७। ००३०३८१ सोमस्य भगवान्वर्चा वर्चस्वी येन जायते । ००३०३८२ धवस्य पुत्रो द्रविणो हुतहव्यवहस्तथा । ००३०३८३ मनोहरायाः शिशिरः प्राणो ऽथ रमणस्तथा ॥ ३.३८। ००३०३९१ अनिलस्य शिवा भार्या तस्याः पुत्रो मनोजवः । ००३०३९२ अविज्ञातगतिश्चैव द्वौ पुत्रावनिलस्य च ॥ ३.३९। ००३०४०१ अग्निपुत्रः कुमारस्तु शरस्तम्बे श्रिया वृतः । ००३०४०२ तस्य शाखो विशाखश्च नैगमेयश्च पृष्ठजः ॥ ३.४०। ००३०४११ अपत्यं कृत्तिकानां तु कार्त्तिकेय इति स्मृतः । ००३०४१२ प्रत्यूषस्य विदुः पुत्रमृषिं नाम्नाथ देवलम् ॥ ३.४१। ००३०४२१ द्वौ पुत्रौ देवलस्यापि क्षमावन्तौ मनीषिणौ । ००३०४२२ बृहस्पतेस्तु भगिनी वरस्त्री ब्रह्मवादिनी ॥ ३.४२। ००३०४३१ योगसिद्धा जगत्कृत्स्नमसक्ता विचचार ह । ००३०४३२ प्रभासस्य तु सा भार्या वसूनामष्टमस्य तु ॥ ३.४३। ००३०४४१ विश्वकर्मा महाभागो यस्यां जज्ञे प्रजापतिः । ००३०४४२ कर्ता शिल्पसहस्राणां त्रिदशानां च वार्धकिः ॥ ३.४४। ००३०४५१ भूषणानां च सर्वेषां कर्ता शिल्पवतां वरः । ००३०४५२ यः सर्वेषां विमानानि दैवतानां चकार ह ॥ ३.४५। ००३०४६१ मानुषाश्चोपजीवन्ति यस्य शिल्पं महात्मनः । ००३०४६२ सुरभी कश्यपाद्रुद्रानेकादश विनिर्ममे ॥ ३.४६। ००३०४७१ महादेवप्रसादेन तपसा भाविता सती । ००३०४७२ अजैकपादहिर्बुध्न्यस्त्वष्टा रुद्रश्च वीर्यवान् ॥ ३.४७। ००३०४८१ हरश्च बहुरूपश्च त्र्यम्बकश्चापराजितः । ००३०४८२ वृषाकपिश्च शम्भुश्च कपर्दी रैवतस्तथा ॥ ३.४८। ००३०४९१ मृगव्याधश्च शर्वश्च कपाली च द्विजोत्तमाः । ००३०४९२ एकादशैते विख्याता रुद्रास्त्रिभुवनेश्वराः ॥ ३.४९। ००३०५०१ शतं त्वेवं समाख्यातं रुद्राणाममितौजसाम् । ००३०५०२ पुराणे मुनिशार्दूला यैर्व्याप्तं सचराचरम् ॥ ३.५०। ००३०५११ दाराञ्शृणुध्वं विप्रेन्द्राः कश्यपस्य प्रजापतेः । ००३०५१२ अदितिर्दितिर्दनुश्चैव अरिष्टा सुरसा खसा ॥ ३.५१। ००३०५२१ सुरभिर्विनता चैव ताम्रा क्रोधवशा इरा । ००३०५२२ कद्रुर्मुनिश्च भो विप्रास्तास्वपत्यानि बोधत ॥ ३.५२। ००३०५३१ पूर्वमन्वन्तरे श्रेष्ठा द्वादशासन्सुरोत्तमाः । ००३०५३२ तुषिता नाम ते ऽन्योन्यमूचुर्वैवस्वते ऽन्तरे ॥ ३.५३। ००३०५४१ उपस्थिते ऽतियशसश्चाक्षुषस्यान्तरे मनोः । ००३०५४२ हितार्थं सर्वलोकानां समागम्य परस्परम् ॥ ३.५४। ००३०५५१ आगच्छत द्रुतं देवा अदितिं सम्प्रविश्य वै । ००३०५५२ मन्वन्तरे प्रसूयामस्तन्नः श्रेयो भविष्यति ॥ ३.५५। ००३०५६० लोमहर्षण उवाच ००३०५६१ एवमुक्त्वा तु ते सर्वे चाक्षुषस्यान्तरे मनोः । ००३०५६२ मारीचात्कश्यपाज्जातास्त्वदित्या दक्षकन्यया ॥ ३.५६। ००३०५७१ तत्र विष्णुश्च शक्रश्च जज्ञाते पुनरेव हि । ००३०५७२ अर्यमा चैव धाता च त्वष्टा पूषा तथैव च ॥ ३.५७। ००३०५८१ विवस्वान्सविता चैव मित्रो वरुण एव च । ००३०५८२ अंशो भगश्चातितेजा आदित्या द्वादश स्मृताः ॥ ३.५८। ००३०५९१ सप्तविंशति याः प्रोक्ताः सोमपत्न्यो महाव्रताः । ००३०५९२ तासामपत्यान्यभवन्दीप्तान्यमिततेजसः ॥ ३.५९। ००३०६०१ अरिष्टनेमिपत्नीनामपत्यानीह षोडश । ००३०६०२ बहुपुत्रस्य विदुषश्चतस्रो विद्युतः स्मृताः ॥ ३.६०। ००३०६११ चाक्षुषस्यान्तरे पूर्वे ऋचो ब्रह्मर्षिसत्कृताः । ००३०६१२ कृशाश्वस्य च देवर्षेर्देवप्रहरणाः स्मृताः ॥ ३.६१। ००३०६२१ एते युगसहस्रान्ते जायन्ते पुनरेव हि । ००३०६२२ सर्वे देवगणाश्चात्र त्रयस्त्रिंशत्तु कामजाः ॥ ३.६२। ००३०६३१ तेषामपि च भो विप्रा निरोधोत्पत्तिरुच्यते । ००३०६३२ यथा सूर्यस्य गगन उदयास्तमयाविह ॥ ३.६३। ००३०६४१ एवं देवनिकायास्ते सम्भवन्ति युगे युगे । ००३०६४२ दित्याः पुत्रद्वयं जज्ञे कश्यपादिति नः श्रुतम् ॥ ३.६४। ००३०६५१ हिरण्यकशिपुश्चैव हिरण्याक्षश्च वीर्यवान् । ००३०६५२ सिंहिका चाभवत्कन्या विप्रचित्तेः परिग्रहः ॥ ३.६५। ००३०६६१ सैंहिकेया इति ख्याता यस्याः पुत्रा महाबलाः । ००३०६६२ हिरण्यकशिपोः पुत्राश्चत्वारः प्रथितौजसः ॥ ३.६६। ००३०६७१ ह्रादश्च अनुह्रादश्च प्रह्रादश्चैव वीर्यवान् । ००३०६७२ संह्रादश्च चतुर्थो ऽभूद्ध्रादपुत्रो ह्रदस्तथा ॥ ३.६७। ००३०६८१ ह्रदस्य पुत्रौ द्वौ वीरौ शिवः कालस्तथैव च । ००३०६८२ विरोचनश्च प्राह्रादिर्बलिर्जज्ञे विरोचनात् ॥ ३.६८। ००३०६९१ बलेः पुत्रशतमासीद्बाणज्येष्ठं तपोधनाः । ००३०६९२ धृतराष्ट्रश्च सूर्यश्च चन्द्रमाश्चन्द्रतापनः ॥ ३.६९। ००३०७०१ कुम्भनाभो गर्दभाक्षः कुक्षिरित्येवमादयः । ००३०७०२ बाणस्तेषामतिबलो ज्येष्ठः पशुपतेः प्रियः ॥ ३.७०। ००३०७११ पुरा कल्पे तु बाणेन प्रसाद्योमापतिं प्रभुम् । ००३०७१२ पार्श्वतो विहरिष्यामि इत्येवं याचितो वरः ॥ ३.७१। ००३०७२१ हिरण्याक्षसुताश्चैव विद्वांसश्च महाबलाः । ००३०७२२ भर्भरः शकुनिश्चैव भूतसन्तापनस्तथा ॥ ३.७२। ००३०७३१ महानाभश्च विक्रान्तः कालनाभस्तथैव च । ००३०७३२ अभवन्दनुपुत्राश्च शतं तीव्रपराक्रमाः ॥ ३.७३। ००३०७४१ तपस्विनो महावीर्याः प्राधान्येन ब्रवीमि तान् । ००३०७४२ द्विमूर्धा शङ्कुकर्णश्च तथा हयशिरा विभुः ॥ ३.७४। ००३०७५१ अयोमुखः शम्बरश्च कपिलो वामनस्तथा । ००३०७५२ मारीचिर्मघवांश्चैव इल्वलः स्वसृमस्तथा ॥ ३.७५। ००३०७६१ विक्षोभणश्च केतुश्च केतुवीर्यशतह्रदौ । ००३०७६२ इन्द्रजित्सर्वजिच्चैव वज्रनाभस्तथैव च ॥ ३.७६। ००३०७७१ एकचक्रो महाबाहुस्तारकश्च महाबलः । ००३०७७२ वैश्वानरः पुलोमा च विद्रावणमहाशिराः ॥ ३.७७। ००३०७८१ स्वर्भानुर्वृषपर्वा च विप्रचित्तिश्च वीर्यवान् । ००३०७८२ सर्व एते दनोः पुत्राः कश्यपादभिजज्ञिरे ॥ ३.७८। ००३०७९१ विप्रचित्तिप्रधानास्ते दानवाः सुमहाबलाः । ००३०७९२ एतेषां पुत्रपौत्रं तु न तच्छक्यं द्विजोत्तमाः ॥ ३.७९। ००३०८०१ प्रसङ्ख्यातुं बहुत्वाच्च पुत्रपौत्रमनन्तकम् । ००३०८०२ स्वर्भानोस्तु प्रभा कन्या पुलोम्नस्तु शची सुता ॥ ३.८०। ००३०८११ उपदीप्तिर्हयशिराः शर्मिष्ठा वार्षपर्वणी । ००३०८१२ पुलोमा कालिका चैव वैश्वानरसुते उभे ॥ ३.८१। ००३०८२१ बह्वपत्ये महापत्ये मरीचेस्तु परिग्रहः । ००३०८२२ तयोः पुत्रसहस्राणि षष्टिर्दानवनन्दनाः ॥ ३.८२। ००३०८३१ चतुर्दशशतानन्यान्हिरण्यपुरवासिनः । ००३०८३२ मरीचिर्जनयामास महता तपसान्वितः ॥ ३.८३। ००३०८४१ पौलोमाः कालकेयाश्च दानवास्ते महाबलाः । ००३०८४२ अवध्या देवतानां हि हिरण्यपुरवासिनः ॥ ३.८४। ००३०८५१ पितामहप्रसादेन ये हताः सव्यसाचिना । ००३०८५२ ततो ऽपरे महावीर्या दानवास्त्वतिदारुणाः ॥ ३.८५। ००३०८६१ सिंहिकायामथोत्पन्ना विप्रचित्तेः सुतास्तथा । ००३०८६२ दैत्यदानवसंयोगाज्जातास्तीव्रपराक्रमाः ॥ ३.८६। ००३०८७१ सैंहिकेया इति ख्यातास्त्रयोदश महाबलाः । ००३०८७२ वंश्यः शल्यश्च बलिनौ नलश्चैव तथा बलः ॥ ३.८७। ००३०८८१ वातापिर्नमुचिश्चैव इल्वलः स्वसृमस्तथा । ००३०८८२ अञ्जिको नरकश्चैव कालनाभस्तथैव च ॥ ३.८८। ००३०८९१ सरमानस्तथा चैव स्वरकल्पश्च वीर्यवान् । ००३०८९२ एते वै दानवाः श्रेष्ठा दनोर्वंशविवर्धनाः ॥ ३.८९। ००३०९०१ तेषां पुत्राश्च पौत्राश्च शतशो ऽथ सहस्रशः । ००३०९०२ संह्रादस्य तु दैत्यस्य निवातकवचाः कुले ॥ ३.९०। ००३०९११ समुत्पन्नाः सुमहता तपसा भावितात्मनः । ००३०९१२ तिस्रः कोट्यः सुतास्तेषां मणिवत्यां निवासिनः ॥ ३.९१। ००३०९२१ अवध्यास्ते ऽपि देवानामर्जुनेन निपातिताः । ००३०९२२ षट्सुताः सुमहाभागास्ताम्रायाः परिकीर्तिताः ॥ ३.९२। ००३०९३१ क्रौञ्ची श्येनी च भासी च सुग्रीवी शुचिगृध्रिका । ००३०९३२ क्रौञ्ची तु जनयामास उलूकप्रत्युलूककान् ॥ ३.९३। ००३०९४१ श्येनी श्येनांस्तथा भासी भासान्गृध्रांश्च गृध्र्यपि । ००३०९४२ शुचिरौदकान्पक्षिगणान्सुग्रीवी तु द्विजोत्तमाः ॥ ३.९४। ००३०९५१ अश्वानुष्ट्रान्गर्दभांश्च ताम्रावंशः प्रकीर्तितः । ००३०९५२ विनतायास्तु द्वौ पुत्रौ विख्यातौ गरुडारुणौ ॥ ३.९५। ००३०९६१ गरुडः पततां श्रेष्ठो दारुणः स्वेन कर्मणा । ००३०९६२ सुरसायाः सहस्रं तु सर्पाणाममितौजसाम् ॥ ३.९६। ००३०९७१ अनेकशिरसां विप्राः खचराणां महात्मनाम् । ००३०९७२ काद्रवेयास्तु बलिनः सहस्रममितौजसः ॥ ३.९७। ००३०९८१ सुपर्णवशगा नागा जज्ञिरे नैकमस्तकाः । ००३०९८२ येषां प्रधानाः सततं शेषवासुकितक्षकाः ॥ ३.९८। ००३०९९१ ऐरावतो महापद्मः कम्बलाश्वतरावुभौ । ००३०९९२ एलापत्त्रश्च शङ्खश्च कर्कोटकधनञ्जयौ ॥ ३.९९। ००३१००१ महानीलमहाकर्णौ धृतराष्ट्रबलाहकौ । ००३१००२ कुहरः पुष्पदंष्ट्रश्च दुर्मुखः सुमुखस्तथा ॥ ३.१००। ००३१०११ शङ्खश्च शङ्खपालश्च कपिलो वामनस्तथा । ००३१०१२ नहुषः शङ्खरोमा च मणिरित्येवमादयः ॥ ३.१०१। ००३१०२१ तेषां पुत्राश्च पौत्राश्च शतशो ऽथ सहस्रशः । ००३१०२२ चतुर्दशसहस्राणि क्रूराणामनिलाशिनाम् ॥ ३.१०२। ००३१०३१ गणं क्रोधवंशं विप्रास्तस्य सर्वे च दंष्ट्रिणः । ००३१०३२ स्थलजाः पक्षिणो ऽब्जाश्च धरायाः प्रसवाः स्मृताः ॥ ३.१०३। ००३१०४१ गास्तु वै जनयामास सुरभिर्महिषीस्तथा । ००३१०४२ इरा वृक्षलता वल्लीस्तृणजातीश्च सर्वशः ॥ ३.१०४। ००३१०५१ खसा तु यक्षरक्षांसि मुनिरप्सरसस्तथा । ००३१०५२ अरिष्टा तु महासिद्धा गन्धर्वानमितौजसः ॥ ३.१०५। ००३१०६१ एते कश्यपदायादाः कीर्तिताः स्थाणुजङ्गमाः । ००३१०६२ येषां पुत्राश्च पौत्राश्च शतशो ऽथ सहस्रशः ॥ ३.१०६। ००३१०७१ एष मन्वन्तरे विप्राः सर्गः स्वारोचिषे स्मृतः । ००३१०७२ वैवस्वते ऽतिमहति वारुणे वितते क्रतौ ॥ ३.१०७। ००३१०८१ जुह्वानस्य ब्रह्मणो वै प्रजासर्ग इहोच्यते । ००३१०८२ पूर्वं यत्र समुत्पन्नान्ब्रह्मर्षीन्सप्त मानसान् ॥ ३.१०८। ००३१०९१ पुत्रत्वे कल्पयामास स्वयमेव पितामहः । ००३१०९२ ततो विरोधे देवानां दानवानां च भो द्विजाः ॥ ३.१०९। ००३११०१ दितिर्विनष्टपुत्रा वै तोषयामास कश्यपम् । ००३११०२ कश्यपस्तु प्रसन्नात्मा सम्यगाराधितस्तया ॥ ३.११०। ००३११११ वरेण च्छन्दयामास सा च वव्रे वरं तदा । ००३१११२ पुत्रमिन्द्रवधार्थाय समर्थममितौजसम् ॥ ३.१११। ००३११२१ स च तस्मै वरं प्रादात्प्रार्थितः सुमहातपाः । ००३११२२ दत्त्वा च वरमत्युग्रो मारीचः समभाषत ॥ ३.११२। ००३११३१ इन्द्रं पुत्रो निहन्ता ते गर्भं वै शरदां शतम् । ००३११३२ यदि धारयसे शौच-तत्परा व्रतमास्थिता ॥ ३.११३। ००३११४१ तथेत्यभिहितो भर्ता तया देव्या महातपाः । ००३११४२ धारयामास गर्भं तु शुचिः सा मुनिसत्तमाः ॥ ३.११४। ००३११५१ ततो ऽभ्युपागमद्दित्यां गर्भमाधाय कश्यपः । ००३११५२ रोधयन्वै गणं श्रेष्ठं देवानाममितौजसम् ॥ ३.११५। ००३११६१ तेजः संहृत्य दुर्धर्षमवध्यममरैरपि । ००३११६२ जगाम पर्वतायैव तपसे संशितव्रता ॥ ३.११६। ००३११७१ तस्याश्चैवान्तरप्रेप्सुरभवत्पाकशासनः । ००३११७२ जाते वर्षशते चास्या ददर्शान्तरमच्युतः ॥ ३.११७। ००३११८१ अकृत्वा पादयोः शौचं दितिः शयनमाविशत् । ००३११८२ निद्रां चाहारयामास तस्यां कुक्षिं प्रविश्य सः ॥ ३.११८। ००३११९१ वज्रपाणिस्ततो गर्भं सप्तधा तं न्यकृन्तयत् । ००३११९२ स पाट्यमानो गर्भो ऽथ वज्रेण प्ररुरोद ह ॥ ३.११९। ००३१२०१ मा रोदीरिति तं शक्रः पुनः पुनरथाब्रवीत् । ००३१२०२ सो ऽभवत्सप्तधा गर्भस्तमिन्द्रो रुषितः पुनः ॥ ३.१२०। ००३१२११ एकैकं सप्तधा चक्रे वज्रेणैवारिकर्षणः । ००३१२१२ मरुतो नाम ते देवा बभूवुर्द्विजसत्तमाः ॥ ३.१२१। ००३१२२१ यथोक्तं वै मघवता तथैव मरुतो ऽभवन् । ००३१२२२ देवाश्चैकोनपञ्चाशत्सहाया वज्रपाणिनः ॥ ३.१२२। ००३१२३१ तेषामेवं प्रवृत्तानां भूतानां द्विजसत्तमाः । ००३१२३२ रोचयन्वै गणश्रेष्ठान्देवानाममितौजसाम् ॥ ३.१२३। ००३१२४१ निकायेषु निकायेषु हरिः प्रादात्प्रजापतीन् । ००३१२४२ क्रमशस्तानि राज्यानि पृथुपूर्वाणि भो द्विजाः ॥ ३.१२४। ००३१२५१ स हरिः पुरुषो वीरः कृष्णो जिष्णुः प्रजापतिः । ००३१२५२ पर्जन्यस्तपनो ऽनन्तस्तस्य सर्वमिदं जगत् ॥ ३.१२५। ००३१२६१ भूतसर्गमिमं सम्यग्जानतो द्विजसत्तमाः । ००३१२६२ नावृत्तिभयमस्तीह परलोकभयं कुतः ॥ ३.१२६। ००४००१० लोमहर्षण उवाच ००४००११ अभिषिच्याधिराजेन्द्रं पृथुं वैण्यं पितामहः । ००४००१२ ततः क्रमेण राज्यानि व्यादेष्टुमुपचक्रमे ॥ ४.१। ००४००२१ द्विजानां वीरुधां चैव नक्षत्रग्रहयोस्तथा । ००४००२२ यज्ञानां तपसां चैव सोमं राज्ये ऽभ्यषेचयत् ॥ ४.२। ००४००३१ अपां तु वरुणं राज्ये राज्ञां वैश्रवणं पतिम् । ००४००३२ आदित्यानां तथा विष्णुं वसूनामथ पावकम् ॥ ४.३। ००४००४१ प्रजापतीनां दक्षं तु मरुतामथ वासवम् । ००४००४२ दैत्यानां दानवानां वै प्रह्रादममितौजसम् ॥ ४.४। ००४००५१ वैवस्वतं पितॄणां च यमं राज्ये ऽभ्यषेचयत् । ००४००५२ यक्षाणां राक्षसानां च पार्थिवानां तथैव च ॥ ४.५। ००४००६१ सर्वभूतपिशाचानां गिरीशं शूलपाणिनम् । ००४००६२ शैलानां हिमवन्तं च नदीनामथ सागरम् ॥ ४.६। ००४००७१ गन्धर्वाणामधिपतिं चक्रे चित्ररथं प्रभुम् । ००४००७२ नागानां वासुकिं चक्रे सर्पाणामथ तक्षकम् ॥ ४.७। ००४००८१ वारणानां तु राजानमैरावतमथादिशत् । ००४००८२ उच्चैःश्रवसमश्वानां गरुडं चैव पक्षिणाम् ॥ ४.८। ००४००९१ मृगाणामथ शार्दूलं गोवृषं तु गवां पतिम् । ००४००९२ वनस्पतीनां राजानं प्लक्षमेवाभ्यषेचयत् ॥ ४.९। ००४०१०१ एवं विभज्य राज्यानि क्रमेणैव पितामहः । ००४०१०२ दिशां पालानथ ततः स्थापयामास स प्रभुः ॥ ४.१०। ००४०१११ पूर्वस्यां दिशि पुत्रं तु वैराजस्य प्रजापतेः । ००४०११२ दिशः पालं सुधन्वानं राजानं सो ऽभ्यषेचयत् ॥ ४.११। ००४०१२१ दक्षिणस्यां दिशि तथा कर्दमस्य प्रजापतेः । ००४०१२२ पुत्रं शङ्खपदं नाम राजानं सो ऽभ्यषेचयत् ॥ ४.१२। ००४०१३१ पश्चिमस्यां दिशि तथा रजसः पुत्रमच्युतम् । ००४०१३२ केतुमन्तं महात्मानं राजानं सो ऽभ्यषेचयत् ॥ ४.१३। ००४०१४१ तथा हिरण्यरोमाणं पर्जन्यस्य प्रजापतेः । ००४०१४२ उदीच्यां दिशि दुर्धर्षं राजानं सो ऽभ्यषेचयत् ॥ ४.१४। ००४०१५१ तैरियं पृथिवी सर्वा सप्तद्वीपा सपत्तना । ००४०१५२ यथाप्रदेशमद्यापि धर्मेण प्रतिपाल्यते ॥ ४.१५। ००४०१६१ राजसूयाभिषिक्तस्तु पृथुरेतैर्नराधिपैः । ००४०१६२ वेददृष्टेन विधिना राजा राज्ये नराधिपः ॥ ४.१६। ००४०१७१ ततो मन्वन्तरे ऽतीते चाक्षुषे ऽमिततेजसि । ००४०१७२ वैवस्वताय मनवे पृथिव्यां राज्यमादिशत् ॥ ४.१७। ००४०१८१ तस्य विस्तरमाख्यास्ये मनोर्वैवस्वतस्य ह । ००४०१८२ भवतां चानुकूल्याय यदि श्रोतुमिहेच्छथ । ००४०१८३ महदेतदधिष्ठानं पुराणे तदधिष्ठितम् ॥ ४.१८। ००४०१९० मुनय ऊचुः ००४०१९१ विस्तरेण पृथोर्जन्म लोमहर्षण कीर्तय । ००४०१९२ यथा महात्मना तेन दुग्धा वेयं वसुन्धरा ॥ ४.१९। ००४०२०१ यथा वापि नृभिर्दुग्धा यथा देवैर्महर्षिभिः । ००४०२०२ यथा दैत्यैश्च नागैश्च यथा यक्षैर्यथा द्रुमैः ॥ ४.२०। ००४०२११ यथा शैलैः पिशाचैश्च गन्धर्वैश्च द्विजोत्तमैः । ००४०२१२ राक्षसैश्च महासत्त्वैर्यथा दुग्धा वसुन्धरा ॥ ४.२१। ००४०२२१ तेषां पात्रविशेषांश्च वक्तुमर्हसि सुव्रत । ००४०२२२ वत्सक्षीरविशेषांश्च दोग्धारं चानुपूर्वशः ॥ ४.२२। ००४०२३१ यस्माच्च कारणात्पाणिर्वेणस्य मथितः पुरा । ००४०२३२ क्रुद्धैर्महर्षिभिस्तात कारणं तच्च कीर्तय ॥ ४.२३। ००४०२४० लोमहर्षण उवाच ००४०२४१ शृणुध्वं कीर्तयिष्यामि पृथोर्वैण्यस्य विस्तरम् । ००४०२४२ एकाग्राः प्रयताश्चैव पुण्यार्थं वै द्विजर्षभाः ॥ ४.२४। ००४०२५१ नाशुचेः क्षुद्रमनसो नाशिष्यस्याव्रतस्य च । ००४०२५२ कीर्तयेयमिदं विप्राः कृतघ्नायाहिताय च ॥ ४.२५। ००४०२६१ स्वर्ग्यं यशस्यमायुष्यं धन्यं वेदैश्च सम्मितम् । ००४०२६२ रहस्यमृषिभिः प्रोक्तं शृणुध्वं वै यथातथम् ॥ ४.२६। ००४०२७१ यश्चेमं कीर्तयेन्नित्यं पृथोर्वैण्यस्य विस्तरम् । ००४०२७२ ब्राह्मणेभ्यो नमस्कृत्य न स शोचेत्कृताकृतम् ॥ ४.२७। ००४०२८१ आसीद्धर्मस्य सङ्गोप्ता पूर्वमत्रिसमः प्रभुः । ००४०२८२ अत्रिवंशे समुत्पन्नस्त्वङ्गो नाम प्रजापतिः ॥ ४.२८। ००४०२९१ तस्य पुत्रो ऽभवद्वेणो नात्यर्थं धर्मकोविदः । ००४०२९२ जातो मृत्युसुतायां वै सुनीथायां प्रजापतिः ॥ ४.२९। ००४०३०१ स मातामहदोषेण तेन कालात्मजात्मजः । ००४०३०२ स्वधर्मं पृष्ठतः कृत्वा कामलोभेष्ववर्तत ॥ ४.३०। ००४०३११ मर्यादां भेदयामास धर्मोपेतां स पार्थिवः । ००४०३१२ वेदधर्मानतिक्रम्य सो ऽधर्मनिरतो ऽभवत् ॥ ४.३१। ००४०३२१ निःस्वाध्यायवषट्काराः प्रजास्तस्मिन्प्रजापतौ । ००४०३२२ प्रवृत्तं न पपुः सोमं हुतं यज्ञेषु देवताः ॥ ४.३२। ००४०३३१ न यष्टव्यं न होतव्यमिति तस्य प्रजापतेः । ००४०३३२ आसीत्प्रतिज्ञा क्रूरेयं विनाशे प्रत्युपस्थिते ॥ ४.३३। ००४०३४१ अहमिज्यश्च यष्टा च यज्ञश्चेति भृगूद्वह । ००४०३४२ मयि यज्ञो विधातव्यो मयि होतव्यमित्यपि ॥ ४.३४। ००४०३५१ तमतिक्रान्तमर्यादमाददानमसाम्प्रतम् । ००४०३५२ ऊचुर्महर्षयः सर्वे मरीचिप्रमुखास्तदा ॥ ४.३५। ००४०३६१ वयं दीक्षां प्रवेक्ष्यामः संवत्सरगणान्बहून् । ००४०३६२ अधर्मं कुरु मा वेण एष धर्मः सनातनः ॥ ४.३६। ००४०३७१ निधने ऽत्रेः प्रसूतस्त्वं प्रजापतिरसंशयम् । ००४०३७२ प्रजाश्च पालयिष्ये ऽहमितीह समयः कृतः ॥ ४.३७। ००४०३८१ तांस्तथा ब्रुवतः सर्वान्महर्षीनब्रवीत्तदा । ००४०३८२ वेणः प्रहस्य दुर्बुद्धिरिममर्थमनर्थवित् ॥ ४.३८। ००४०३९० वेण उवाच ००४०३९१ स्रष्टा धर्मस्य कश्चान्यः श्रोतव्यं कस्य वा मया । ००४०३९२ श्रुतवीर्यतपःसत्यैर्मया वा कः समो भुवि ॥ ४.३९। ००४०४०१ प्रभवं सर्वभूतानां धर्माणां च विशेषतः । ००४०४०२ सम्मूढा न विदुर्नूनं भवन्तो मां विचेतसः ॥ ४.४०। ००४०४११ इच्छन्दहेयं पृथिवीं प्लावयेयं जलैस्तथा । ००४०४१२ द्यां वै भुवं च रुन्धेयं नात्र कार्या विचारणा ॥ ४.४१। ००४०४२१ यदा न शक्यते मोहादवलेपाच्च पार्थिवः । ००४०४२२ अपनेतुं तदा वेणस्ततः क्रुद्धा महर्षयः ॥ ४.४२। ००४०४३१ तं निगृह्य महात्मानो विस्फुरन्तं महाबलम् । ००४०४३२ ततो ऽस्य सव्यमूरुं ते ममन्थुर्जातमन्यवः ॥ ४.४३। ००४०४४१ तस्मिन्निमथ्यमाने वै राज्ञ ऊरौ तु जज्ञिवान् । ००४०४४२ ह्रस्वो ऽतिमात्रः पुरुषः कृष्णश्चेति बभूव ह ॥ ४.४४। ००४०४५१ स भीतः प्राञ्जलिर्भूत्वा तस्थिवान्द्विजसत्तमाः । ००४०४५२ तमत्रिर्विह्वलं दृष्ट्वा निषीदेत्यब्रवीत्तदा ॥ ४.४५। ००४०४६१ निषादवंशकर्तासौ बभूव वदतां वराः । ००४०४६२ धीवरानसृजच्चापि वेणकल्मषसम्भवान् ॥ ४.४६। ००४०४७१ ये चान्ये विन्ध्यनिलयास्तथा पर्वतसंश्रयाः । ००४०४७२ अधर्मरुचयो विप्रास्ते तु वै वेणकल्मषाः ॥ ४.४७। ००४०४८१ ततः पुनर्महात्मानः पाणिं वेणस्य दक्षिणम् । ००४०४८२ अरणीमिव संरब्धा ममन्थुर्जातमन्यवः ॥ ४.४८। ००४०४९१ पृथुस्तस्मात्समुत्पन्नः कराज्ज्वलनसन्निभः । ००४०४९२ दीप्यमानः स्ववपुषा साक्षादग्निरिव ज्वलन् ॥ ४.४९। ००४०५०१ अथ सो ऽजगवं नाम धनुर्गृह्य महारवम् । ००४०५०२ शरांश्च दिव्यान्रक्षार्थं कवचं च महाप्रभम् ॥ ४.५०। ००४०५११ तस्मिञ्जाते ऽथ भूतानि सम्प्रहृष्टानि सर्वशः । ००४०५१२ समापेतुर्महाभागा वेणस्तु त्रिदिवं ययौ ॥ ४.५१। ००४०५२१ समुत्पन्नेन भो विप्राः सत्पुत्रेण महात्मना । ००४०५२२ त्रातः स पुरुषव्याघ्रः पुन्नाम्नो नरकात्तदा ॥ ४.५२। ००४०५३१ तं समुद्राश्च नद्यश्च रत्नान्यादाय सर्वशः । ००४०५३२ तोयानि चाभिषेकार्थं सर्व एवोपतस्थिरे ॥ ४.५३। ००४०५४१ पितामहश्च भगवान्देवैराङ्गिरसैः सह । ००४०५४२ स्थावराणि च भूतानि जङ्गमानि च सर्वशः ॥ ४.५४। ००४०५५१ समागम्य तदा वैण्यमभ्यषिञ्चन्नराधिपम् । ००४०५५२ महता राजराजेन प्रजास्तेनानुरञ्जिताः ॥ ४.५५। ००४०५६१ सो ऽभिषिक्तो महातेजा विधिवद्धर्मकोविदैः । ००४०५६२ आधिराज्ये तदा राज्ञां पृथुर्वैण्यः प्रतापवान् ॥ ४.५६। ००४०५७१ पित्रापरञ्जितास्तस्य प्रजास्तेनानुरञ्जिताः । ००४०५७२ अनुरागात्ततस्तस्य नाम राजाभ्यजायत ॥ ४.५७। ००४०५८१ आपस्तस्तम्भिरे तस्य समुद्रमभियास्यतः । ००४०५८२ पर्वताश्च ददुर्मार्गं ध्वजभङ्गश्च नाभवत् ॥ ४.५८। ००४०५९१ अकृष्टपच्या पृथिवी सिध्यन्त्यन्नानि चिन्तनात् । ००४०५९२ सर्वकामदुघा गावः पुटके पुटके मधु ॥ ४.५९। ००४०६०१ एतस्मिन्नेव काले तु यज्ञे पैतामहे शुभे । ००४०६०२ सूतः सूत्यां समुत्पन्नः सौत्ये ऽहनि महामतिः ॥ ४.६०। ००४०६११ तस्मिन्नेव महायज्ञे जज्ञे प्राज्ञो ऽथ मागधः । ००४०६१२ पृथोः स्तवार्थं तौ तत्र समाहूतौ महर्षिभिः ॥ ४.६१। ००४०६२१ तावूचुरृषयः सर्वे स्तूयतामेष पार्थिवः । ००४०६२२ कर्मैतदनुरूपं वां पात्रं चायं नराधिपः ॥ ४.६२। ००४०६३१ तावूचतुस्तदा सर्वांस्तानृषीन्सूतमागधौ । ००४०६३२ आवां देवानृषींश्चैव प्रीणयावः स्वकर्मभिः ॥ ४.६३। ००४०६४१ न चास्य विद्मो वै कर्म नाम वा लक्षणं यशः । ००४०६४२ स्तोत्रं येनास्य कुर्याव राज्ञस्तेजस्विनो द्विजाः ॥ ४.६४। ००४०६५१ ऋषिभिस्तौ नियुक्तौ तु भविष्यैः स्तूयतामिति । ००४०६५२ यानि कर्माणि कृतवान्पृथुः पश्चान्महाबलः ॥ ४.६५। ००४०६६१ ततः प्रभृति वै लोके स्तवेषु मुनिसत्तमाः । ००४०६६२ आशीर्वादाः प्रयुज्यन्ते सूतमागधबन्दिभिः ॥ ४.६६। ००४०६७१ तयोः स्तवान्ते सुप्रीतः पृथुः प्रादात्प्रजेश्वरः । ००४०६७२ अनूपदेशं सूताय मगधं मागधाय च ॥ ४.६७। ००४०६८१ तं दृष्ट्वा परमप्रीताः प्रजाः प्रोचुर्मनीषिणः । ००४०६८२ वृत्तीनामेष वो दाता भविष्यति नराधिपः ॥ ४.६८। ००४०६९१ ततो वैण्यं महात्मानं प्रजाः समभिदुद्रुवुः । ००४०६९२ त्वं नो वृत्तिं विधत्स्वेति महर्षिवचनात्तदा ॥ ४.६९। ००४०७०१ सो ऽभिद्रुतः प्रजाभिस्तु प्रजाहितचिकीर्षया । ००४०७०२ धनुर्गृह्य पृषत्कांश्च पृथिवीमाद्रवद्बली ॥ ४.७०। ००४०७११ ततो वैण्यभयत्रस्ता गौर्भूत्वा प्राद्रवन्मही । ००४०७१२ तां पृथुर्धनुरादाय द्रवन्तीमन्वधावत ॥ ४.७१। ००४०७२१ सा लोकान्ब्रह्मलोकादीन्गत्वा वैण्यभयात्तदा । ००४०७२२ प्रददर्शाग्रतो वैण्यं प्रगृहीतशरासनम् ॥ ४.७२। ००४०७३१ ज्वलद्भिर्निशितैर्बाणैर्दीप्ततेजसमन्ततः । ००४०७३२ महायोगं महात्मानं दुर्धर्षममरैरपि ॥ ४.७३। ००४०७४१ अलभन्ती तु सा त्राणं वैण्यमेवान्वपद्यत । ००४०७४२ कृताञ्जलिपुटा भूत्वा पूज्या लोकैस्त्रिभिस्तदा ॥ ४.७४। ००४०७५१ उवाच वैण्यं नाधर्मं स्त्रीवधे परिपश्यसि । ००४०७५२ कथं धारयिता चासि प्रजा राजन्विना मया ॥ ४.७५। ००४०७६१ मयि लोकाः स्थिता राजन्मयेदं धार्यते जगत् । ००४०७६२ मद्विनाशे विनश्येयुः प्रजाः पार्थिव विद्धि तत् ॥ ४.७६। ००४०७७१ न मामर्हसि हन्तुं वै श्रेयश्चेत्त्वं चिकीर्षसि । ००४०७७२ प्रजानां पृथिवीपाल शृणु चेदं वचो मम ॥ ४.७७। ००४०७८१ उपायतः समारब्धाः सर्वे सिध्यन्त्युपक्रमाः । ००४०७८२ उपायं पश्य येन त्वं धारयेथाः प्रजामिमाम् ॥ ४.७८। ००४०७९१ हत्वापि मां न शक्तस्त्वं प्रजानां पोषणे नृप । ००४०७९२ अनुकूला भविष्यामि यच्छ कोपं महामते ॥ ४.७९। ००४०८०१ अवध्यां च स्त्रियं प्राहुस्तिर्यग्योनिगतेष्वपि । ००४०८०२ यद्येवं पृथिवीपाल न धर्मं त्यक्तुमर्हसि ॥ ४.८०। ००४०८११ एवं बहुविधं वाक्यं श्रुत्वा राजा महामनाः । ००४०८१२ कोपं निगृह्य धर्मात्मा वसुधामिदमब्रवीत् ॥ ४.८१। ००४०८२० पृथुरुवाच ००४०८२१ एकस्यार्थे तु यो हन्यादात्मनो वा परस्य वा । ००४०८२२ बहून्वा प्राणिनो ऽनन्तं भवेत्तस्येह पातकम् ॥ ४.८२। ००४०८३१ सुखमेधन्ति बहवो यस्मिंस्तु निहते ऽशुभे । ००४०८३२ तस्मिन्हते नास्ति भद्रे पातकं चोपपातकम् ॥ ४.८३। ००४०८४१ सो ऽहं प्रजानिमित्तं त्वां हनिष्यामि वसुन्धरे । ००४०८४२ यदि मे वचनान्नाद्य करिष्यसि जगद्धितम् ॥ ४.८४। ००४०८५१ त्वां निहत्याद्य बाणेन मच्छासनपराङ्मुखीम् । ००४०८५२ आत्मानं प्रथयित्वाहं प्रजा धारयिता स्वयम् ॥ ४.८५। ००४०८६१ सा त्वं शासनमास्थाय मम धर्मभृतां वरे । ००४०८६२ सञ्जीवय प्रजाः सर्वाः समर्था ह्यसि धारणे ॥ ४.८६। ००४०८७१ दुहितृत्वं च मे गच्छ तत एनमहं शरम् । ००४०८७२ नियच्छेयं त्वद्वधार्थमुद्यन्तं घोरदर्शनम् ॥ ४.८७। ००४०८८० वसुधोवाच ००४०८८१ सर्वमेतदहं वीर विधास्यामि न संशयः । ००४०८८२ वत्सं तु मम सम्पश्य क्षरेयं येन वत्सला ॥ ४.८८। ००४०८९१ समां च कुरु सर्वत्र मां त्वं धर्मभृतां वर । ००४०८९२ यथा विस्यन्दमानं मे क्षीरं सर्वत्र भावयेत् ॥ ४.८९। ००४०९०० लोमहर्षण उवाच ००४०९०१ तत उत्सारयामास शैलाञ्शतसहस्रशः । ००४०९०२ धनुष्कोट्या तदा वैण्यस्तेन शैला विवर्धिताः ॥ ४.९०। ००४०९११ नहि पूर्वविसर्गे वै विषमे पृथिवीतले । ००४०९१२ संविभागः पुराणां वा ग्रामाणां वाभवत्तदा ॥ ४.९१। ००४०९२१ न सस्यानि न गोरक्ष्यं न कृषिर्न वणिक्पथः । ००४०९२२ नैव सत्यानृतं चासीन्न लोभो न च मत्सरः ॥ ४.९२। ००४०९३१ वैवस्वते ऽन्तरे तस्मिन्साम्प्रतं समुपस्थिते । ००४०९३२ वैण्यात्प्रभृति वै विप्राः सर्वस्यैतस्य सम्भवः ॥ ४.९३। ००४०९४१ यत्र यत्र समं त्वस्या भूमेरासीत्तदा द्विजाः । ००४०९४२ तत्र तत्र प्रजाः सर्वा निवासं समरोचयन् ॥ ४.९४। ००४०९५१ आहारः फलमूलानि प्रजानामभवत्तदा । ००४०९५२ कृच्छ्रेण महता युक्त इत्येवमनुशुश्रुम ॥ ४.९५। ००४०९६१ स कल्पयित्वा वत्सं तु मनुं स्वायम्भुवं प्रभुम् । ००४०९६२ स्वपाणौ पुरुषव्याघ्रो दुदोह पृथिवीं ततः ॥ ४.९६। ००४०९७१ सस्यजातानि सर्वाणि पृथुर्वैण्यः प्रतापवान् । ००४०९७२ तेनान्नेन प्रजाः सर्वा वर्तन्ते ऽद्यापि सर्वशः ॥ ४.९७। ००४०९८१ ऋषयश्च तदा देवाः पितरो ऽथ सरीसृपाः । ००४०९८२ दैत्या यक्षाः पुण्यजना गन्धर्वाः पर्वता नगाः ॥ ४.९८। ००४०९९१ एते पुरा द्विजश्रेष्ठा दुदुहुर्धरणीं किल । ००४०९९२ क्षीरं वत्सश्च पात्रं च तेषां दोग्धा पृथक्पृथक् ॥ ४.९९। ००४१००१ ऋषीणामभवत्सोमो वत्सो दोग्धा बृहस्पतिः । ००४१००२ क्षीरं तेषां तपो ब्रह्म पात्रं छन्दांसि भो द्विजाः ॥ ४.१००। ००४१०११ देवानां काञ्चनं पात्रं वत्सस्तेषां शतक्रतुः । ००४१०१२ क्षीरमोजस्करं चैव दोग्धा च भगवान्रविः ॥ ४.१०१। ००४१०२१ पितॄणां राजतं पात्रं यमो वत्सः प्रतापवान् । ००४१०२२ अन्तकश्चाभवद्दोग्धा क्षीरं तेषां सुधा स्मृता ॥ ४.१०२। ००४१०३१ नागानां तक्षको वत्सः पात्रं चालाबुसञ्ज्ञकम् । ००४१०३२ दोग्धा त्वैरावतो नागस्तेषां क्षीरं विषं स्मृतम् ॥ ४.१०३। ००४१०४१ असुराणां मधुर्दोग्धा क्षीरं मायामयं स्मृतम् । ००४१०४२ विरोचनस्तु वत्सो ऽभूदायसं पात्रमेव च ॥ ४.१०४। ००४१०५१ यक्षाणामामपात्रं तु वत्सो वैश्रवणः प्रभुः । ००४१०५२ दोग्धा रजतनाभस्तु क्षीरान्तर्धानमेव च ॥ ४.१०५। ००४१०६१ सुमाली राक्षसेन्द्राणां वत्सः क्षीरं च शोणितम्। ००४१०६२ दोग्धा रजतनाभस्तु कपालं पात्रमेव च ॥ ४.१०६। ००४१०७१ गन्धर्वाणां चित्ररथो वत्सः पात्रं च पङ्कजम् । ००४१०७२ दोग्धा च सुरुचिः क्षीरं तेषां गन्धः शुचिः स्मृतः ॥ ४.१०७। ००४१०८१ शैलं पात्रं पर्वतानां क्षीरं रत्नौषधीस्तथा । ००४१०८२ वत्सस्तु हिमवानासीद्दोग्धा मेरुर्महागिरिः ॥ ४.१०८। ००४१०९१ प्लक्षो वत्सस्तु वृक्षाणां दोग्धा शालस्तु पुष्पितः । ००४१०९२ पालाशपात्रं क्षीरं च च्छिन्नदग्धप्ररोहणम् ॥ ४.१०९। ००४११०१ सेयं धात्री विधात्री च पावनी च वसुन्धरा । ००४११०२ चराचरस्य सर्वस्य प्रतिष्ठा योनिरेव च ॥ ४.११०। ००४११११ सर्वकामदुघा दोग्ध्री सर्वसस्यप्ररोहणी । ००४१११२ आसीदियं समुद्रान्ता मेदिनी परिविश्रुता ॥ ४.१११। ००४११२१ मधुकैटभयोः कृत्स्ना मेदसा समभिप्लुता । ००४११२२ तेनेयं मेदिनी देवी उच्यते ब्रह्मवादिभिः ॥ ४.११२। ००४११३१ ततो ऽभ्युपगमाद्राज्ञः पृथोर्वैण्यस्य भो द्विजाः । ००४११३२ दुहितृत्वमनुप्राप्ता देवी पृथ्वीति चोच्यते ॥ ४.११३। ००४११४१ पृथुना प्रविभक्ता च शोधिता च वसुन्धरा । ००४११४२ सस्याकरवती स्फीता पुरपत्तनशालिनी ॥ ४.११४। ००४११५१ एवम्प्रभावो वैण्यः स राजासीद्राजसत्तमः । ००४११५२ नमस्यश्चैव पूज्यश्च भूतग्रामैर्न संशयः ॥ ४.११५। ००४११६१ ब्राह्मणैश्च महाभागैर्वेदवेदाङ्गपारगैः । ००४११६२ पृथुरेव नमस्कार्यो ब्रह्मयोनिः सनातनः ॥ ४.११६। ००४११७१ पार्थिवैश्च महाभागैः पार्थिवत्वमिहेच्छुभिः । ००४११७२ आदिराजो नमस्कार्यः पृथुर्वैण्यः प्रतापवान् ॥ ४.११७। ००४११८१ योधैरपि च विक्रान्तैः प्राप्तुकामैर्जयं युधि । ००४११८२ आदिराजो नमस्कार्यो योधानां प्रथमो नृपः ॥ ४.११८। ००४११९१ यो हि योद्धा रणं याति कीर्तयित्वा पृथुं नृपम् । ००४११९२ स घोररूपात्सङ्ग्रामात्क्षेमी भवति कीर्तिमान् ॥ ४.११९। ००४१२०१ वैश्यैरपि च वित्ताढ्यैर्वैश्यवृत्तिविधायिभिः । ००४१२०२ पृथुरेव नमस्कार्यो वृत्तिदाता महायशाः ॥ ४.१२०। ००४१२११ तथैव शूद्रैः शुचिभिस्त्रिवर्णपरिचारिभिः । ००४१२१२ पृथुरेव नमस्कार्यः श्रेयः परमिहेप्सुभिः ॥ ४.१२१। ००४१२२१ एते वत्सविशेषाश्च दोग्धारः क्षीरमेव च । ००४१२२२ पात्राणि च मयोक्तानि किं भूयो वर्णयामि वः ॥ ४.१२२। ००५००१० ऋषय ऊचुः ००५००११ मन्वन्तराणि सर्वाणि विस्तरेण महामते । ००५००१२ तेषां पूर्वविसृष्टिं च लोमहर्षण कीर्तय ॥ ५.१। ००५००२१ यावन्तो मनवश्चैव यावन्तं कालमेव च । ००५००२२ मन्वन्तराणि भोः सूत श्रोतुमिच्छाम तत्त्वतः ॥ ५.२। ००५००३० लोमहर्षण उवाच ००५००३१ न शक्यो विस्तरो विप्रा वक्तुं वर्षशतैरपि । ००५००३२ मन्वन्तराणां सर्वेषां सङ्क्षेपाच्छृणुत द्विजाः ॥ ५.३। ००५००४१ स्वायम्भुवो मनुः पूर्वं मनुः स्वारोचिषस्तथा । ००५००४२ उत्तमस्तामसश्चैव रैवतश्चाक्षुषस्तथा ॥ ५.४। ००५००५१ वैवस्वतश्च भो विप्राः साम्प्रतं मनुरुच्यते । ००५००५२ सावर्णिश्च मनुस्तद्वद्रैभ्यो रौच्यस्तथैव च ॥ ५.५। ००५००६१ तथैव मेरुसावर्ण्यश्चत्वारो मनवः स्मृताः । ००५००६२ अतीता वर्तमानाश्च तथैवानागता द्विजाः ॥ ५.६। ००५००७१ कीर्तिता मनवस्तुभ्यं मयैवैते यथा श्रुताः । ००५००७२ ऋषींस्त्वेषां प्रवक्ष्यामि पुत्रान्देवगणांस्तथा ॥ ५.७। ००५००८१ मरीचिरत्रिर्भगवानङ्गिराः पुलहः क्रतुः । ००५००८२ पुलस्त्यश्च वसिष्ठश्च सप्तैते ब्रह्मणः सुताः ॥ ५.८। ००५००९१ उत्तरस्यां दिशि तथा द्विजाः सप्तर्षयस्तथा । ००५००९२ आग्नीध्रश्चाग्निबाहुश्च मेध्यो मेधातिथिर्वसुः ॥ ५.९। ००५०१०१ ज्योतिष्मान्द्युतिमान्हव्यः सवलः पुत्रसञ्ज्ञकः । ००५०१०२ मनोः स्वायम्भुवस्यैते दश पुत्रा महौजसः ॥ ५.१०। ००५०१११ एतद्वै प्रथमं विप्रा मन्वन्तरमुदाहृतम् । ००५०११२ और्वो वसिष्ठपुत्रश्च स्तम्बः कश्यप एव च ॥ ५.११। ००५०१२१ प्राणो बृहस्पतिश्चैव दत्तो ऽत्रिच्च्यवनस्तथा । ००५०१२२ एते महर्षयो विप्रा वायुप्रोक्ता महाव्रताः ॥ ५.१२। ००५०१३१ देवाश्च तुषिता नाम स्मृताः स्वारोचिषे ऽन्तरे । ००५०१३२ हविघ्नः सुकृतिर्ज्योतिरापो मूर्तिरपि स्मृतः ॥ ५.१३। ००५०१४१ प्रतीतश्च नभस्यश्च नभ ऊर्जस्तथैव च । ००५०१४२ स्वारोचिषस्य पुत्रास्ते मनोर्विप्रा महात्मनः ॥ ५.१४। ००५०१५१ कीर्तिताः पृथिवीपाला महावीर्यपराक्रमाः । ००५०१५२ द्वितीयमेतत्कथितं विप्रा मन्वन्तरं मया ॥ ५.१५। ००५०१६१ इदं तृतीयं वक्ष्यामि तद्बुध्यध्वं द्विजोत्तमाः । ००५०१६२ वसिष्ठपुत्राः सप्तासन्वासिष्ठा इति विश्रुताः ॥ ५.१६। ००५०१७१ हिरण्यगर्भस्य सुता ऊर्जा जाताः सुतेजसः । ००५०१७२ ऋषयो ऽत्र मया प्रोक्ताः कीर्त्यमानान्निबोधत ॥ ५.१७। ००५०१८१ औत्तमेयान्मुनिश्रेष्ठा दश पुत्रान्मनोरिमान् । ००५०१८२ इष ऊर्जस्तनूर्जस्तु मधुर्माधव एव च ॥ ५.१८। ००५०१९१ शुचिः शुक्रः सहश्चैव नभस्यो नभ एव च । ००५०१९२ भानवस्तत्र देवाश्च मन्वन्तरमुदाहृतम् ॥ ५.१९। ००५०२०१ मन्वन्तरं चतुर्थं वः कथयिष्यामि साम्प्रतम् । ००५०२०२ काव्यः पृथुस्तथैवाग्निर्जह्नुर्धाता द्विजोत्तमाः ॥ ५.२०। ००५०२११ कपीवानकपीवांश्च तत्र सप्तर्षयो द्विजाः । ००५०२१२ पुराणे कीर्तिता विप्राः पुत्राः पौत्राश्च भो द्विजाः ॥ ५.२१। ००५०२२१ तथा देवगणाश्चैव तामसस्यान्तरे मनोः । ००५०२२२ द्युतिस्तपस्यः सुतपास्तपोभूतः सनातनः ॥ ५.२२। ००५०२३१ तपोरतिरकल्माषस्तन्वी धन्वी परन्तपः । ००५०२३२ तामसस्य मनोरेते दश पुत्राः प्रकीर्तिताः ॥ ५.२३। ००५०२४१ वायुप्रोक्ता मुनिश्रेष्ठाश्चतुर्थं चैतदन्तरम् । ००५०२४२ देवबाहुर्यदुध्रश्च मुनिर्वेदशिरास्तथा ॥ ५.२४। ००५०२५१ हिरण्यरोमा पर्जन्य ऊर्ध्वबाहुश्च सोमजः । ००५०२५२ सत्यनेत्रस्तथात्रेय एते सप्तर्षयो ऽपरे ॥ ५.२५। ००५०२६१ देवाश्चाभूतरजसस्तथा प्रकृतयः स्मृताः । ००५०२६२ वारिप्लवश्च रैभ्यश्च मनोरन्तरमुच्यते ॥ ५.२६। ००५०२७१ अथ पुत्रानिमांस्तस्य बुध्यध्वं गदतो मम । ००५०२७२ धृतिमानव्ययो युक्तस्तत्त्वदर्शी निरुत्सुकः ॥ ५.२७। ००५०२८१ आरण्यश्च प्रकाशश्च निर्मोहः सत्यवाक्कृती । ००५०२८२ रैवतस्य मनोः पुत्राः पञ्चमं चैतदन्तरम् ॥ ५.२८। ००५०२९१ षष्ठं तु सम्प्रवक्ष्यामि तद्बुध्यध्वं द्विजोत्तमाः । ००५०२९२ भृगुर्नभो विवस्वांश्च सुधामा विरजास्तथा ॥ ५.२९। ००५०३०१ अतिनामा सहिष्णुश्च सप्तैते च महर्षयः । ००५०३०२ चाक्षुषस्यान्तरे विप्रा मनोर्देवास्त्विमे स्मृताः ॥ ५.३०। ००५०३११ आबालप्रथितास्ते वै पृथक्त्वेन दिवौकसः । ००५०३१२ लेखाश्च नामतो विप्राः पञ्च देवगणाः स्मृताः ॥ ५.३१। ००५०३२१ ऋषेरङ्गिरसः पुत्रा महात्मानो महौजसः । ००५०३२२ नाड्वलेया मुनिश्रेष्ठा दश पुत्रास्तु विश्रुताः ॥ ५.३२। ००५०३३१ रुरुप्रभृतयो विप्राश्चाक्षुषस्यान्तरे मनोः । ००५०३३२ षष्ठं मन्वन्तरं प्रोक्तं सप्तमं तु निबोधत ॥ ५.३३। ००५०३४१ अत्रिर्वसिष्ठो भगवान्कश्यपश्च महानृषिः । ००५०३४२ गौतमो ऽथ भरद्वाजो विश्वामित्रस्तथैव च ॥ ५.३४। ००५०३५१ तथैव पुत्रो भगवानृचीकस्य महात्मनः । ००५०३५२ सप्तमो जमदग्निश्च ऋषयः साम्प्रतं दिवि ॥ ५.३५। ००५०३६१ साध्या रुद्राश्च विश्वे च वसवो मरुतस्तथा । ००५०३६२ आदित्याश्चाश्विनौ चापि देवौ वैवस्वतौ स्मृतौ ॥ ५.३६। ००५०३७१ मनोर्वैवस्वतस्यैते वर्तन्ते साम्प्रते ऽन्तरे । ००५०३७२ इक्ष्वाकुप्रमुखाश्चैव दश पुत्रा महात्मनः ॥ ५.३७। ००५०३८१ एतेषां कीर्तितानां तु महर्षीणां महौजसाम् । ००५०३८२ तेषां पुत्राश्च पौत्राश्च दिक्षु सर्वासु भो द्विजाः ॥ ५.३८। ००५०३९१ मन्वन्तरेषु सर्वेषु प्रागासन्सप्त सप्तकाः । ००५०३९२ लोके धर्मव्यवस्थार्थं लोकसंरक्षणाय च ॥ ५.३९। ००५०४०१ मन्वन्तरे व्यतिक्रान्ते चत्वारः सप्तका गणाः । ००५०४०२ कृत्वा कर्म दिवं यान्ति ब्रह्मलोकमनामयम् ॥ ५.४०। ००५०४११ ततो ऽन्ये तपसा युक्ताः स्थानं तत्पूरयन्त्युत । ००५०४१२ अतीता वर्तमानाश्च क्रमेणैतेन भो द्विजाः ॥ ५.४१। ००५०४२१ अनागताश्च सप्तैते स्मृता दिवि महर्षयः । ००५०४२२ मनोरन्तरमासाद्य सावर्णस्येह भो द्विजाः ॥ ५.४२। ००५०४३१ रामो व्यासस्तथात्रेयो दीप्तिमन्तो बहुश्रुताः । ००५०४३२ भारद्वाजस्तथा द्रौणिरश्वत्थामा महाद्युतिः ॥ ५.४३। ००५०४४१ गौतमश्चाजरश्चैव शरद्वान्नाम गौतमः । ००५०४४२ कौशिको गालवश्चैव और्वः काश्यप एव च ॥ ५.४४। ००५०४५१ एते सप्त महात्मानो भविष्या मुनिसत्तमाः । ००५०४५२ वैरी चैवाध्वरीवांश्च शमनो धृतिमान्वसुः ॥ ५.४५। ००५०४६१ अरिष्टश्चाप्यधृष्टश्च वाजी सुमतिरेव च । ००५०४६२ सावर्णस्य मनोः पुत्रा भविष्या मुनिसत्तमाः ॥ ५.४६। ००५०४७१ एतेषां कल्यमुत्थाय कीर्तनात्सुखमेधते । ००५०४७२ यशश्चाप्नोति सुमहदायुष्मांश्च भवेन्नरः ॥ ५.४७। ००५०४८१ एतान्युक्तानि भो विप्राः सप्त सप्त च तत्त्वतः । ००५०४८२ मन्वन्तराणि सङ्क्षेपाच्छृणुतानागतान्यपि ॥ ५.४८। ००५०४९१ सावर्णा मनवो विप्राः पञ्च तांश्च निबोधत । ००५०४९२ एको वैवस्वतस्तेषां चत्वारस्तु प्रजापतेः ॥ ५.४९। ००५०५०१ परमेष्ठिसुता विप्रा मेरुसावर्ण्यतां गताः । ००५०५०२ दक्षस्यैते हि दौहित्राः प्रियायास्तनया नृपाः ॥ ५.५०। ००५०५११ महता तपसा युक्ता मेरुपृष्ठे महौजसः । ००५०५१२ रुचेः प्रजापतेः पुत्रो रौच्यो नाम मनुः स्मृतः ॥ ५.५१। ००५०५२१ भूत्यां चोत्पादितो देव्यां भौत्यो नाम रुचेः सुतः । ००५०५२२ अनागताश्च सप्तैते कल्पे ऽस्मिन्मनवः स्मृताः ॥ ५.५२। ००५०५३१ तैरियं पृथिवी सर्वा सप्तद्वीपा सपत्तना । ००५०५३२ पूर्णं युगसहस्रं तु परिपाल्या द्विजोत्तमाः ॥ ५.५३। ००५०५४१ प्रजापतिश्च तपसा संहारं तेषु नित्यशः । ००५०५४२ युगानि सप्ततिस्तानि साग्राणि कथितानि च ॥ ५.५४। ००५०५५१ कृतत्रेतादियुक्तानि मनोरन्तरमुच्यते । ००५०५५२ चतुर्दशैते मनवः कथिताः कीर्तिवर्धनाः ॥ ५.५५। ००५०५६१ वेदेषु सपुराणेषु सर्वेषु प्रभविष्णवः । ००५०५६२ प्रजानां पतयो विप्रा धन्यमेषां प्रकीर्तनम् ॥ ५.५६। ००५०५७१ मन्वन्तरेषु संहाराः संहारान्तेषु सम्भवाः । ००५०५७२ न शक्यते ऽन्तस्तेषां वै वक्तुं वर्षशतैरपि ॥ ५.५७। ००५०५८१ विसर्गस्य प्रजानां वै संहारस्य च भो द्विजाः । ००५०५८२ मन्वन्तरेषु संहाराः श्रूयन्ते द्विजसत्तमाः ॥ ५.५८। ००५०५९१ सशेषास्तत्र तिष्ठन्ति देवाः सप्तर्षिभिः सह । ००५०५९२ तपसा ब्रह्मचर्येण श्रुतेन च समन्विताः ॥ ५.५९। ००५०६०१ पूर्णे युगसहस्रे तु कल्पो निःशेष उच्यते । ००५०६०२ तत्र भूतानि सर्वाणि दग्धान्यादित्यरश्मिभिः ॥ ५.६०। ००५०६११ ब्रह्माणमग्रतः कृत्वा सहादित्यगणैर्द्विजाः । ००५०६१२ प्रविशन्ति सुरश्रेष्ठं हरिनारायणं प्रभुम् ॥ ५.६१। ००५०६२१ स्रष्टारं सर्वभूतानां कल्पान्तेषु पुनः पुनः । ००५०६२२ अव्यक्तः शाश्वतो देवस्तस्य सर्वमिदं जगत् ॥ ५.६२। ००५०६३१ अत्र वः कीर्तयिष्यामि मनोर्वैवस्वतस्य वै । ००५०६३२ विसर्गं मुनिशार्दूलाः साम्प्रतस्य महाद्युतेः ॥ ५.६३। ००५०६४१ अत्र वंशप्रसङ्गेन कथ्यमानं पुरातनम् । ००५०६४२ यत्रोत्पन्नो महात्मा स हरिर्वृष्णिकुले प्रभुः ॥ ५.६४। ००६००१० लोमहर्षण उवाच ००६००११ विवस्वान्कश्यपाज्जज्ञे दाक्षायण्यां द्विजोत्तमाः । ००६००१२ तस्य भार्याभवत्सञ्ज्ञा त्वाष्ट्री देवी विवस्वतः ॥ ६.१। ००६००२१ सुरेश्वरीति विख्याता त्रिषु लोकेषु भाविनी । ००६००२२ सा वै भार्या भगवतो मार्तण्डस्य महात्मनः ॥ ६.२। ००६००३१ भर्तृरूपेण नातुष्यद्रूपयौवनशालिनी । ००६००३२ सञ्ज्ञा नाम सुतपसा सुदीप्तेन समन्विता ॥ ६.३। ००६००४१ आदित्यस्य हि तद्रूपं मण्डलस्य सुतेजसा । ००६००४२ गात्रेषु परिदग्धं वै नातिकान्तमिवाभवत् ॥ ६.४। ००६००५१ न खल्वयं मृतो ऽण्डस्य इति स्नेहादभाषत । ००६००५२ अजानन्काश्यपस्तस्मान्मार्तण्ड इति चोच्यते ॥ ६.५। ००६००६१ तेजस्त्वभ्यधिकं तस्य नित्यमेव विवस्वतः । ००६००६२ येनातितापयामास त्रींल्लोकान्कश्यपात्मजः ॥ ६.६। ००६००७१ त्रीण्यपत्यानि भो विप्राः सञ्ज्ञायां तपतां वरः । ००६००७२ आदित्यो जनयामास कन्यां द्वौ च प्रजापती ॥ ६.७। ००६००८१ मनुर्वैवस्वतः पूर्वं श्राद्धदेवः प्रजापतिः । ००६००८२ यमश्च यमुना चैव यमजौ सम्बभूवतुः ॥ ६.८। ००६००९१ श्यामवर्णं तु तद्रूपं सञ्ज्ञा दृष्ट्वा विवस्वतः । ००६००९२ असहन्ती तु स्वां छायां सवर्णां निर्ममे ततः ॥ ६.९। ००६०१०१ मायामयी तु सा सञ्ज्ञा तस्यां छायासमुत्थिताम् । ००६०१०२ प्राञ्जलिः प्रणता भूत्वा छाया सञ्ज्ञां द्विजोत्तमाः ॥ ६.१०। ००६०१११ उवाच किं मया कार्यं कथयस्व शुचिस्मिते । ००६०११२ स्थितास्मि तव निर्देशे शाधि मां वरवर्णिनि ॥ ६.११। ००६०१२० सञ्ज्ञोवाच ००६०१२१ अहं यास्यामि भद्रं ते स्वमेव भवनं पितुः । ००६०१२२ त्वयैव भवने मह्यं वस्तव्यं निर्विशङ्कया ॥ ६.१२। ००६०१३१ इमौ च बालकौ मह्यं कन्या चेयं सुमध्यमा । ००६०१३२ सम्भाव्यास्ते न चाख्येयमिदं भगवते क्वचित् ॥ ६.१३। ००६०१४० सवर्णोवाच ००६०१४१ आ कचग्रहणाद्देवि आ शापान्नैव कर्हिचित् । ००६०१४२ आख्यास्यामि नमस्तुभ्यं गच्छ देवि यथासुखम् ॥ ६.१४। ००६०१५० लोमहर्षण उवाच ००६०१५१ समादिश्य सवर्णां तु तथेत्युक्ता तया च सा । ००६०१५२ त्वष्टुः समीपमगमद्व्रीडितेव तपस्विनी ॥ ६.१५। ००६०१६१ पितुः समीपगा सा तु पित्रा निर्भर्त्सिता शुभा । ००६०१६२ भर्तुः समीपं गच्छेति नियुक्ता च पुनः पुनः ॥ ६.१६। ००६०१७१ आगच्छद्वडवा भूत्वाच्छाद्य रूपमनिन्दिता । ००६०१७२ कुरूनथोत्तरान्गत्वा तृणान्यथ चचार ह ॥ ६.१७। ००६०१८१ द्वितीयायां तु सञ्ज्ञायां सञ्ज्ञेयमिति चिन्तयन् । ००६०१८२ आदित्यो जनयामास पुत्रमात्मसमं तदा ॥ ६.१८। ००६०१९१ पूर्वजस्य मनोर्विप्राः सदृशो ऽयमिति प्रभुः । ००६०१९२ मनुरेवाभवन्नाम्ना सावर्ण इति चोच्यते ॥ ६.१९। ००६०२०१ द्वितीयो यः सुतस्तस्याः स विज्ञेयः शनैश्चरः । ००६०२०२ सञ्ज्ञा तु पार्थिवी विप्राः स्वस्य पुत्रस्य वै तदा ॥ ६.२०। ००६०२११ चकाराभ्यधिकं स्नेहं न तथा पूर्वजेषु वै । ००६०२१२ मनुस्तस्याः क्षमत्तत्तु यमस्तस्या न चक्षमे ॥ ६.२१। ००६०२२१ स वै रोषाच्च बाल्याच्च भाविनो ऽर्थस्य वानघ । ००६०२२२ पदा सन्तर्जयामास सञ्ज्ञां वैवस्वतो यमः ॥ ६.२२। ००६०२३१ तं शशाप ततः क्रोधात्सावर्णजननी तदा । ००६०२३२ चरणः पततामेष तवेति भृशदुःखिता ॥ ६.२३। ००६०२४१ यमस्तु तत्पितुः सर्वं प्राञ्जलिः प्रत्यवेदयत् । ००६०२४२ भृशं शापभयोद्विग्नः सञ्ज्ञावाक्यैर्विशङ्कितः ॥ ६.२४। ००६०२५१ शापो ऽयं विनिवर्तेत प्रोवाच पितरं द्विजाः । ००६०२५२ मात्रा स्नेहेन सर्वेषु वर्तितव्यं सुतेषु वै ॥ ६.२५। ००६०२६१ सेयमस्मानपास्येह विवस्वन्सम्बुभूषति । ००६०२६२ तस्यां मयोद्यतः पादो न तु देहे निपातितः ॥ ६.२६। ००६०२७१ बाल्याद्वा यदि वा लौल्यान्मोहात्तत्क्षन्तुमर्हसि । ००६०२७२ शप्तो ऽहमस्मि लोकेश जनन्या तपतां वर । ००६०२७३ तव प्रसादाच्चरणो न पतेन्मम गोपते ॥ ६.२७। ००६०२८० विवस्वानुवाच ००६०२८१ असंशयं पुत्र महद्भविष्यत्यत्र कारणम् । ००६०२८२ येन त्वामाविशत्क्रोधो धर्मज्ञं सत्यवादिनम् ॥ ६.२८। ००६०२९१ न शक्यमेतन्मिथ्या तु कर्तुं मातृवचस्तव । ००६०२९२ कृमयो मांसमादाय यास्यन्त्यवनिमेव च ॥ ६.२९। ००६०३०१ कृतमेवं वचस्तथ्यं मातुस्तव भविष्यति । ००६०३०२ शापस्य परिहारेण त्वं च त्रातो भविष्यसि ॥ ६.३०। ००६०३११ आदित्यश्चाब्रवीत्सञ्ज्ञां किमर्थं तनयेषु वै । ००६०३१२ तुल्येष्वभ्यधिकः स्नेह एकस्मिन्क्रियते त्वया ॥ ६.३१। ००६०३२१ सा तत्परिहरन्ती तु नाचचक्षे विवस्वते । ००६०३२२ स चात्मानं समाधाय योगात्तथ्यमपश्यत ॥ ६.३२। ००६०३३१ तां शप्तुकामो भगवान्नाशपन्मुनिसत्तमाः । ००६०३३२ मूर्धजेषु निजग्राह स तु तां मुनिसत्तमाः ॥ ६.३३। ००६०३४१ ततः सर्वं यथावृत्तमाचचक्षे विवस्वते । ००६०३४२ विवस्वानथ तच्छ्रुत्वा क्रुद्धस्त्वष्टारमभ्यगात् ॥ ६.३४। ००६०३५१ दृष्ट्वा तु तं यथान्यायमर्चयित्वा विभावसुम् । ००६०३५२ निर्दग्धुकामं रोषेण सान्त्वयामास वै तदा ॥ ६.३५। ००६०३६० त्वष्टोवाच ००६०३६१ तवातितेजसाविष्टमिदं रूपं न शोभते । ००६०३६२ असहन्ती च सञ्ज्ञा सा वने चरति शाड्वले ॥ ६.३६। ००६०३७१ द्रष्टा हि तां भवानद्य स्वां भार्यां शुभचारिणीम् । ००६०३७२ श्लाघ्यां योगबलोपेतां योगमास्थाय गोपते ॥ ६.३७। ००६०३८१ अनुकूलं तु ते देव यदि स्यान्मम सम्मतम् । ००६०३८२ रूपं निर्वर्तयाम्यद्य तव कान्तमरिन्दम ॥ ६.३८। ००६०३९१ ततो ऽभ्युपगमात्त्वष्टा मार्तण्डस्य विवस्वतः । ००६०३९२ भ्रमिमारोप्य तत्तेजः शातयामास भो द्विजाः ॥ ६.३९। ००६०४०१ ततो निर्भासितं रूपं तेजसा संहतेन वै । ००६०४०२ कान्तात्कान्ततरं द्रष्टुमधिकं शुशुभे तदा ॥ ६.४०। ००६०४११ ददर्श योगमास्थाय स्वां भार्यां वडवां ततः । ००६०४१२ अधृष्यां सर्वभूतानां तेजसा नियमेन च ॥ ६.४१। ००६०४२१ वडवावपुषा विप्राश्चरन्तीमकुतोभयाम् । ००६०४२२ सो ऽश्वरूपेण भगवांस्तां मुखे समभावयत् ॥ ६.४२। ००६०४३१ मैथुनाय विचेष्टन्तीं परपुंसो ऽवशङ्कया । ००६०४३२ सा तन्निरवमच्छुक्रं नासिकाभ्यां विवस्वतः ॥ ६.४३। ००६०४४१ देवौ तस्यामजायेतामश्विनौ भिषजां वरौ । ००६०४४२ नासत्यश्चैव दस्रश्च स्मृतौ द्वावश्विनाविति ॥ ६.४४। ००६०४५१ मार्तण्डस्यात्मजावेतावष्टमस्य प्रजापतेः । ००६०४५२ तां तु रूपेण कान्तेन दर्शयामास भास्करः ॥ ६.४५। ००६०४६१ सा तु दृष्ट्वैव भर्तारं तुतोष मुनिसत्तमाः । ००६०४६२ यमस्तु कर्मणा तेन भृशं पीडितमानसः ॥ ६.४६। ००६०४७१ धर्मेण रञ्जयामास धर्मराज इमाः प्रजाः । ००६०४७२ स लेभे कर्मणा तेन शुभेन परमद्युतिः ॥ ६.४७। ००६०४८१ पितॄणामाधिपत्यं च लोकपालत्वमेव च । ००६०४८२ मनुः प्रजापतिस्त्वासीत्सावर्णिः स तपोधनाः ॥ ६.४८। ००६०४९१ भाव्यः समागते तस्मिन्मनुः सावर्णिके ऽन्तरे । ००६०४९२ मेरुपृष्ठे तपो नित्यमद्यापि स चरत्युत ॥ ६.४९। ००६०५०१ भ्राता शनैश्चरस्तस्य ग्रहत्वं स तु लब्धवान् । ००६०५०२ त्वष्टा तु तेजसा तेन विष्णोश्चक्रमकल्पयत् ॥ ६.५०। ००६०५११ तदप्रतिहतं युद्धे दानवान्तचिकीर्षया । ००६०५१२ यवीयसी तु साप्यासीद्यमी कन्या यशस्विनी ॥ ६.५१। ००६०५२१ अभवच्च सरिच्छ्रेष्ठा यमुना लोकपावनी । ००६०५२२ मनुरित्युच्यते लोके सावर्ण इति चोच्यते ॥ ६.५२। ००६०५३१ द्वितीयो यः सुतस्तस्य मनोर्भ्राता शनैश्चरः । ००६०५३२ ग्रहत्वं स च लेभे वै सर्वलोकाभिपूजितः ॥ ६.५३। ००६०५४१ य इदं जन्म देवानां शृणुयान्नरसत्तमः । ००६०५४२ आपदं प्राप्य मुच्येत प्राप्नुयाच्च महद्यशः ॥ ६.५४। ००७००१० लोमहर्षण उवाच ००७००११ मनोर्वैवस्वतस्यासन्पुत्रा वै नव तत्समाः । ००७००१२ इक्ष्वाकुश्चैव नाभागो धृष्टः शर्यातिरेव च ॥ ७.१। ००७००२१ नरिष्यन्तश्च षष्ठो वै प्रांशू रिष्टश्च सप्तमः । ००७००२२ करूषश्च पृषध्रश्च नवैते मुनिसत्तमाः ॥ ७.२। ००७००३१ अकरोत्पुत्रकामस्तु मनुरिष्टिं प्रजापतिः । ००७००३२ मित्रावरुणयोर्विप्राः पूर्वमेव महामतिः ॥ ७.३। ००७००४१ अनुत्पन्नेषु बहुषु पुत्रेष्वेतेषु भो द्विजाः । ००७००४२ तस्यां च वर्तमानायामिष्ट्यां च द्विजसत्तमाः ॥ ७.४। ००७००५१ मित्रावरुणयोरंशे मनुराहुतिमावहत् । ००७००५२ तत्र दिव्याम्बरधरा दिव्याभरणभूषिता ॥ ७.५। ००७००६१ दिव्यसंहनना चैव इला जज्ञ इति श्रुतिः । ००७००६२ तामिलेत्येव होवाच मनुर्दण्डधरस्तदा ॥ ७.६। ००७००७१ अनुगच्छस्व मां भद्रे तमिला प्रत्युवाच ह । ००७००७२ धर्मयुक्तमिदं वाक्यं पुत्रकामं प्रजापतिम् ॥ ७.७। ००७००८० इलोवाच ००७००८१ मित्रावरुणयोरंशे जातास्मि वदतां वर । ००७००८२ तयोः सकाशं यास्यामि न मां धर्महतां कुरु ॥ ७.८। ००७००९१ सैवमुक्त्वा मनुं देवं मित्रावरुणयोरिला । ००७००९२ गत्वान्तिकं वरारोहा प्राञ्जलिर्वाक्यमब्रवीत् ॥ ७.९। ००७०१०० इलोवाच ००७०१०१ अंशे ऽस्मि युवयोर्जाता देवौ किं करवाणि वाम् । ००७०१०२ मनुना चाहमुक्ता वाऐ अनुगच्छस्व मामिति ॥ ७.१०। ००७०१११ तौ तथावादिनीं साध्वीमिलां धर्मपरायणाम् । ००७०११२ मित्रश्च वरुणश्चोभावूचतुस्तां द्विजोत्तमाः ॥ ७.११। ००७०१२० मित्रावरुणावूचतुः ००७०१२१ अनेन तव धर्मेण प्रश्रयेण दमेन च । ००७०१२२ सत्येन चैव सुश्रोणि प्रीतौ स्वो वरवर्णिनि ॥ ७.१२। ००७०१३१ आवयोस्त्वं महाभागे ख्यातिं कन्येति यास्यसि ॥ ७.१३। ००७०१४१ मनोर्वंशकरः पुत्रस्त्वमेव च भविष्यसि । ००७०१४२ सुद्युम्न इति विख्यातस्त्रिषु लोकेषु शोभने ॥ ७.१४। ००७०१५१ जगत्प्रियो धर्मशीलो मनोर्वंशविवर्धनः । ००७०१५२ निवृत्ता सा तु तच्छ्रुत्वा गच्छन्ती पितुरन्तिकात् ॥ ७.१५। ००७०१६१ बुधेनान्तरमासाद्य मैथुनायोपमन्त्रिता । ००७०१६२ सोमपुत्राद्बुधाद्विप्रास्तस्यां जज्ञे पुरूरवाः ॥ ७.१६। ००७०१७१ जनयित्वा ततः सा तमिला सुद्युम्नतां गता । ००७०१७२ सुद्युम्नस्य तु दायादास्त्रयः परमधार्मिकाः ॥ ७.१७। ००७०१८१ उत्कलश्च गयश्चैव विनताश्वश्च भो द्विजाः । ००७०१८२ उत्कलस्योत्कला विप्रा विनताश्वस्य पश्चिमाः ॥ ७.१८। ००७०१९१ दिक्पूर्वा मुनिशार्दूला गयस्य तु गया स्मृता । ००७०१९२ प्रविष्टे तु मनौ विप्रा दिवाकरमरिन्दमम् ॥ ७.१९। ००७०२०१ दशधा तत्पुनः क्षत्रमकरोत्पृथिवीमिमाम् । ००७०२०२ इक्ष्वाकुर्ज्येष्ठदायादो मध्यदेशमवाप्तवान् ॥ ७.२०। ००७०२११ कन्याभावात्तु सुद्युम्नो नैतद्राज्यमवाप्तवान् । ००७०२१२ वसिष्ठवचनात्त्वासीत्प्रतिष्ठाने महात्मनः ॥ ७.२१। ००७०२२१ प्रतिष्ठा धर्मराजस्य सुद्युम्नस्य द्विजोत्तमाः । ००७०२२२ तत्पुरूरवसे प्रादाद्राज्यं प्राप्य महायशाः ॥ ७.२२। ००७०२३१ मानवेयो मुनिश्रेष्ठाः स्त्रीपुंसोर्लक्षणैर्युतः । ००७०२३२ धृतवांस्तामिलेत्येवं सुद्युम्नेति च विश्रुतः ॥ ७.२३। ००७०२४१ नारिष्यन्ताः शकाः पुत्रा नाभागस्य तु भो द्विजाः । ००७०२४२ अम्बरीषो ऽभवत्पुत्रः पार्थिवर्षभसत्तमः ॥ ७.२४। ००७०२५१ धृष्टस्य धार्ष्टकं क्षत्रं रणदृप्तं बभूव ह । ००७०२५२ करूषस्य च कारूषाः क्षत्रिया युद्धदुर्मदाः ॥ ७.२५। ००७०२६१ नाभागधृष्टपुत्राश्च क्षत्रिया वैश्यतां गताः । ००७०२६२ प्रांशोरेको ऽभवत्पुत्रः प्रजापतिरिति स्मृतः ॥ ७.२६। ००७०२७१ नरिष्यन्तस्य दायादो राजा दण्डधरो यमः । ००७०२७२ शर्यातेर्मिथुनं त्वासीदानर्तो नाम विश्रुतः ॥ ७.२७। ००७०२८१ पुत्रः कन्या सुकन्या च या पत्नी च्यवनस्य ह । ००७०२८२ आनर्तस्य तु दायादो रैवो नाम महाद्युतिः ॥ ७.२८। ००७०२९१ आनर्तविषयश्चैव पुरी चास्य कुशस्थली । ००७०२९२ रैवस्य रैवतः पुत्रः ककुद्मी नाम धार्मिकः ॥ ७.२९। ००७०३०१ ज्येष्ठः पुत्रः स तस्यासीद्राज्यं प्राप्य कुशस्थलीम् । ००७०३०२ स कन्यासहितः श्रुत्वा गान्धर्वं ब्रह्मणो ऽन्तिके ॥ ७.३०। ००७०३११ मुहूर्तभूतं देवस्य तस्थौ बहुयुगं द्विजाः । ००७०३१२ आजगाम स चैवाथ स्वां पुरीं यादवैर्वृताम् ॥ ७.३१। ००७०३२१ कृतां द्वारवतीं नाम बहुद्वारां मनोरमाम् । ००७०३२२ भोजवृष्ण्यन्धकैर्गुप्तां वसुदेवपुरोगमैः ॥ ७.३२। ००७०३३१ तत्रैव रैवतो ज्ञात्वा यथातत्त्वं द्विजोत्तमाः । ००७०३३२ कन्यां तां बलदेवाय सुभद्रां नाम रेवतीम् ॥ ७.३३। ००७०३४१ दत्त्वा जगाम शिखरं मेरोस्तपसि संस्थितः । ००७०३४२ रेमे रामो ऽपि धर्मात्मा रेवत्या सहितः सुखी ॥ ७.३४। ००७०३५० मुनय ऊचुः ००७०३५१ कथं बहुयुगे काले समतीते महामते । ००७०३५२ न जरा रेवतीं प्राप्ता रैवतं च ककुद्मिनम् ॥ ७.३५। ००७०३६१ मेरुं गतस्य वा तस्य शर्यातेः सन्ततिः कथम् । ००७०३६२ स्थिता पृथिव्यामद्यापि श्रोतुमिच्छाम तत्त्वतः ॥ ७.३६। ००७०३७० लोमहर्षण उवाच ००७०३७१ न जरा क्षुत्पिपासा वा न मृत्युर्मुनिसत्तमाः । ००७०३७२ ऋतुचक्रं प्रभवति ब्रह्मलोके सदानघाः । ००७०३७३ ककुद्मिनः स्वर्लोकं तु रैवतस्य गतस्य ह ॥ ७.३७। ००७०३८१ हृता पुण्यजनैर्विप्रा राक्षसैः सा कुशस्थली । ००७०३८२ तस्य भ्रातृशतं त्वासीद्धार्मिकस्य महात्मनः ॥ ७.३८। ००७०३९१ तद्वध्यमानं रक्षोभिर्दिशः प्राक्रामदच्युताः । ००७०३९२ विद्रुतस्य च विप्रेन्द्रास्तस्य भ्रातृशतस्य वै ॥ ७.३९। ००७०४०१ अन्ववायस्तु सुमहांस्तत्र तत्र द्विजोत्तमाः । ००७०४०२ तेषां ह्येते मुनिश्रेष्ठाः शर्याता इति विश्रुताः ॥ ७.४०। ००७०४११ क्षत्रिया गुणसम्पन्ना दिक्षु सर्वासु विश्रुताः । ००७०४१२ शर्वशः सर्वगहनं प्रविष्टास्ते महौजसः ॥ ७.४१। ००७०४२१ नाभागरिष्टपुत्रौ द्वौ वैश्यौ ब्राह्मणतां गतौ । ००७०४२२ करूषस्य तु कारूषाः क्षत्रिया युद्धदुर्मदाः ॥ ७.४२। ००७०४३१ पृषध्रो हिंसयित्वा तु गुरोर्गां द्विजसत्तमाः । ००७०४३२ शापाच्छूद्रत्वमापन्नो नवैते परिकीर्तिताः ॥ ७.४३। ००७०४४१ वैवस्वतस्य तनया मुनेर्वै मुनिसत्तमाः । ००७०४४२ क्षुवतस्तु मनोर्विप्रा इक्ष्वाकुरभवत्सुतः ॥ ७.४४। ००७०४५१ तस्य पुत्रशतं त्वासीदिक्ष्वाकोर्भूरिदक्षिणम् । ००७०४५२ तेषां विकुक्षिर्ज्येष्ठस्तु विकुक्षित्वादयोधताम् ॥ ७.४५। ००७०४६१ प्राप्तः परमधर्मज्ञ सो ऽयोध्याधिपतिः प्रभुः । ००७०४६२ शकुनिप्रमुखास्तस्य पुत्राः पञ्चशतं स्मृताः ॥ ७.४६। ००७०४७१ उत्तरापथदेशस्य रक्षितारो महाबलाः । ००७०४७२ चत्वारिंशद्दशाष्टौ च दक्षिणस्यां तथा दिशि ॥ ७.४७। ००७०४८१ वशातिप्रमुखाश्चान्ये रक्षितारो द्विजोत्तमाः । ००७०४८२ इक्ष्वाकुस्तु विकुक्षिं वाऐ अष्टकायामथादिशत् ॥ ७.४८। ००७०४९१ मांसमानय श्राद्धार्थं मृगान्हत्वा महाबल । ००७०४९२ श्राद्धकर्मणि चोद्दिष्टो अकृते श्राद्धकर्मणि ॥ ७.४९। ००७०५०१ भक्षयित्वा शशं विप्राः शशादो मृगयां गतः । ००७०५०२ इक्ष्वाकुणा परित्यक्तो वसिष्ठवचनात्प्रभुः ॥ ७.५०। ००७०५११ इक्ष्वाकौ संस्थिते विप्राः शशादस्तु नृपो ऽभवत् । ००७०५१२ शशादस्य तु दायादः ककुत्स्थो नाम वीर्यवान् ॥ ७.५१। ००७०५२१ अनेनास्तु ककुत्स्थस्य पृथुश्चानेनसः स्मृतः । ००७०५२२ विष्टराश्वः पृथोः पुत्रस्तस्मादार्द्रस्त्वजायत ॥ ७.५२। ००७०५३१ आर्द्रस्तु युवनाश्वस्तु श्रावस्तस्तत्सुतो द्विजाः । ००७०५३२ जज्ञे श्रावस्तको राजा श्रावस्ती येन निर्मिता ॥ ७.५३। ००७०५४१ श्रावस्तस्य तु दायादो बृहदश्वो महीपतिः । ००७०५४२ कुवलाश्वः सुतस्तस्य राजा परमधार्मिकः ॥ ७.५४। ००७०५५१ यः स धुन्धुवधाद्राजा धुन्धुमारत्वमागतः ॥ ७.५५। ००७०५६० मुनय ऊचुः ००७०५६१ धुन्धोर्वधं महाप्राज्ञ श्रोतुमिच्छाम तत्त्वतः । ००७०५६२ यद्वधात्कुवलाश्वो ऽसौ धुन्धुमारत्वमागतः ॥ ७.५६। ००७०५७० लोमहर्षण उवाच ००७०५७१ कुवलाश्वस्य पुत्राणां शतमुत्तमधन्विनाम् । ००७०५७२ सर्वे विद्यासु निष्णाता बलवन्तो दुरासदाः ॥ ७.५७। ००७०५८१ बभूवुर्धार्मिकाः सर्वे यज्वानो भूरिदक्षिणाः । ००७०५८२ कुवलाश्वं पिता राज्ये बृहदश्वो न्ययोजयत् ॥ ७.५८। ००७०५९१ पुत्रसङ्क्रामितश्रीस्तु वनं राजा विवेश ह । ००७०५९२ तमुत्तङ्को ऽथ विप्रर्षिः प्रयान्तं प्रत्यवारयत् ॥ ७.५९। ००७०६०० उत्तङ्क उवाच ००७०६०१ भवता रक्षणं कार्यं तच्च कर्तुं त्वमर्हसि । ००७०६०२ निरुद्विग्नस्तपश्चर्तुं नहि शक्नोमि पार्थिव ॥ ७.६०। ००७०६११ ममाश्रमसमीपे वै समेषु मरुधन्वसु । ००७०६१२ समुद्रो वालुकापूर्ण उद्दालक इति स्मृतः ॥ ७.६१। ००७०६२१ देवतानामवध्यश्च महाकायो महाबलः । ००७०६२२ अन्तर्भूमिगतस्तत्र वालुकान्तर्हितो महान् ॥ ७.६२। ००७०६३१ राक्षसस्य मधोः पुत्रो धुन्धुर्नाम महासुरः । ००७०६३२ शेते लोकविनाशाय तप आस्थाय दारुणम् ॥ ७.६३। ००७०६४१ संवत्सरस्य पर्यन्ते स निश्वासं विमुञ्चति । ००७०६४२ यदा तदा मही तत्र चलति स्म नराधिप ॥ ७.६४। ००७०६५१ तस्य निःश्वासवातेन रज उद्धूयते महत् । ००७०६५२ आदित्यपथमावृत्य सप्ताहं भूमिकम्पनम् ॥ ७.६५। ००७०६६१ सविस्फुलिङ्गं साङ्गारं सधूममतिदारुणम् । ००७०६६२ तेन तात न शक्नोमि तस्मिन्स्थातुं स्व आश्रमे ॥ ७.६६। ००७०६७१ तं मारय महाकायं लोकानां हितकाम्यया । ००७०६७२ लोकाः स्वस्था भवन्त्यद्य तस्मिन्विनिहते त्वया ॥ ७.६७। ००७०६८१ त्वं हि तस्य वधायैकः समर्थः पृथिवीपते । ००७०६८२ विष्णुना च वरो दत्तो मह्यं पूर्वयुगे नृप ॥ ७.६८। ००७०६९१ यस्तं महासुरं रौद्रं हनिष्यति महाबलम् । ००७०६९२ तस्य त्वं वरदानेन तेजश्चाख्यापयिष्यसि ॥ ७.६९। ००७०७०१ नहि धुन्धुर्महातेजास्तेजसाल्पेन शक्यते । ००७०७०२ निर्दग्धुं पृथिवीपाल चिरं युगशतैरपि ॥ ७.७०। ००७०७११ वीर्यं च सुमहत्तस्य देवैरपि दुरासदम् । ००७०७१२ स एवमुक्तो राजर्षिरुत्तङ्केन महात्मना । ००७०७१३ कुवलाश्वं सुतं प्रादात्तस्मै धुन्धुनिबर्हणे ॥ ७.७१। ००७०७२० बृहदश्व उवाच ००७०७२१ भगवन्न्यस्तशस्त्रो ऽहमयं तु तनयो मम । ००७०७२२ भविष्यति द्विजश्रेष्ठ धुन्धुमारो न संशयः ॥ ७.७२। ००७०७३१ स तं व्यादिश्य तनयं राजर्षिर्धुन्धुमारणे । ००७०७३२ जगाम पर्वतायैव नृपतिः संशितव्रतः ॥ ७.७३। ००७०७४० लोमहर्षण उवाच ००७०७४१ कुवलाश्वस्तु पुत्राणां शतेन सह भो द्विजाः । ००७०७४२ प्रायादुत्तङ्कसहितो धुन्धोस्तस्य निबर्हणे ॥ ७.७४। ००७०७५१ तमाविशत्तदा विष्णुस्तेजसा भगवान्प्रभुः । ००७०७५२ उत्तङ्कस्य नियोगाद्वै लोकानां हितकाम्यया ॥ ७.७५। ००७०७६१ तस्मिन्प्रयाते दुर्धर्षे दिवि शब्दो महानभूत् । ००७०७६२ एष श्रीमानवध्यो ऽद्य धुन्धुमारो भविष्यति ॥ ७.७६। ००७०७७१ दिव्यैर्गन्धैश्च माल्यैश्च तं देवाः समवाकिरन् । ००७०७७२ देवदुन्दुभयश्चैव प्रणेदुर्द्विजसत्तमाः ॥ ७.७७। ००७०७८१ स गत्वा जयतां श्रेष्ठस्तनयैः सह वीर्यवान् । ००७०७८२ समुद्रं खानयामास वालुकान्तरमव्ययम् ॥ ७.७८। ००७०७९१ तस्य पुत्रैः खनद्भिश्च वालुकान्तर्हितस्तदा । ००७०७९२ धुन्धुरासादितो विप्रा दिशमावृत्य पश्चिमाम् ॥ ७.७९। ००७०८०१ मुखजेनाग्निना क्रोधाल्लोकानुद्वर्तयन्निव । ००७०८०२ वारि सुस्राव वेगेन महोदधिरिवोदये ॥ ७.८०। ००७०८११ सौमस्य मुनिशार्दूला वरोर्मिकलिलो महान् । ००७०८१२ तस्य पुत्रशतं दग्धं त्रिभिरूनं तु रक्षसा ॥ ७.८१। ००७०८२१ ततः स राजा द्युतिमान्राक्षसं तं महाबलम् । ००७०८२२ आससाद महातेजा धुन्धुं धुन्धुविनाशनः ॥ ७.८२। ००७०८३१ तस्य वारिमयं वेगमापीय स नराधिपः । ००७०८३२ योगी योगेन वह्निं च शमयामास वारिणा ॥ ७.८३। ००७०८४१ निहत्य तं महाकायं बलेनोदकराक्षसम् । ००७०८४२ उत्तङ्कं दर्शयामास कृतकर्मा नराधिपः ॥ ७.८४। ००७०८५१ उत्तङ्कस्तु वरं प्रादात्तस्मै राज्ञे महात्मने । ००७०८५२ ददौ तस्याक्षयं वित्तं शत्रुभिश्चापराजितम् ॥ ७.८५। ००७०८६१ धर्मे रतिं च सततं स्वर्गे वासं तथाक्षयम् । ००७०८६२ पुत्राणां चाक्षयांल्लोकान्स्वर्गे ये रक्षसा हताः ॥ ७.८६। ००७०८७१ तस्य पुत्रास्त्रयः शिष्टा दृढाश्वो ज्येष्ठ उच्यते । ००७०८७२ चन्द्राश्वकपिलाश्वौ तु कनीयांसौ कुमारकौ ॥ ७.८७। ००७०८८१ धौन्धुमारेर्दृढाश्वस्य हर्यश्वश्चात्मजः स्मृतः । ००७०८८२ हर्यश्वस्य निकुम्भो ऽभूत्क्षत्रधर्मरतः सदा ॥ ७.८८। ००७०८९१ संहताश्वो निकुम्भस्य सुतो रणविशारदः । ००७०८९२ अकृशाश्वकृशाश्वौ तु संहताश्वसुतौ द्विजाः ॥ ७.८९। ००७०९०१ तस्य हैमवती कन्या सतां मता दृषद्वती । ००७०९०२ विख्याता त्रिषु लोकेषु पुत्रश्चास्याः प्रसेनजित् ॥ ७.९०। ००७०९११ लेभे प्रसेनजिद्भार्यां गौरीं नाम पतिव्रताम् । ००७०९१२ अभिशस्ता तु सा भर्त्रा नदी वै बाहुदाभवत् ॥ ७.९१। ००७०९२१ तस्य पुत्रो महानासीद्युवनाश्वो नराधिपः । ००७०९२२ मान्धाता युवनाश्वस्य त्रिलोकविजयी सुतः ॥ ७.९२। ००७०९३१ तस्य चैत्ररथी भार्या शशबिन्दोः सुताभवत् । ००७०९३२ साध्वी बिन्दुमती नाम रूपेणासदृशी भुवि ॥ ७.९३। ००७०९४१ पतिव्रता च ज्येष्ठा च भ्रातॄणामयुतस्य वै । ००७०९४२ तस्यामुत्पादयामास मान्धाता द्वौ सुतौ द्विजाः ॥ ७.९४। ००७०९५१ पुरुकुत्सं च धर्मज्ञं मुचुकुन्दं च पार्थिवम् । ००७०९५२ पुरुकुत्ससुतस्त्वासीत्त्रसदस्युर्महीपतिः ॥ ७.९५। ००७०९६१ नर्मदायामथोत्पन्नः सम्भूतस्तस्य चात्मजः । ००७०९६२ सम्भूतस्य तु दायादस् । ००७०९६३ त्रिधन्वा रिपुमर्दनः ॥ ७.९६। ००७०९७१ राज्ञस्त्रिधन्वनस्त्वासीद्विद्वांस्त्रय्यारुणः प्रभुः । ००७०९७२ तस्य सत्यव्रतो नाम कुमारो ऽभून्महाबलः ॥ ७.९७। ००७०९८१ परिग्रहणमन्त्राणां विघ्नं चक्रे सुदुर्मतिः । ००७०९८२ येन भार्या कृतोद्वाहा हृता चैव परस्य ह ॥ ७.९८। ००७०९९१ बाल्यात्कामाच्च मोहाच्च साहसाच्चापलेन च । ००७०९९२ जहार कन्यां कामार्तः कस्यचित्पुरवासिनः ॥ ७.९९। ००७१००१ अधर्मशङ्कुना तेन तं स त्रय्यारुणो ऽत्यजत् । ००७१००२ अपध्वंसेति बहुशो वदन्क्रोधसमन्वितः ॥ ७.१००। ००७१०११ सो ऽब्रवीत्पितरं त्यक्तः क्व गच्छामीति वै मुहुः । ००७१०१२ पिता च तमथोवाच श्वपाकैः सह वर्तय ॥ ७.१०१। ००७१०२१ नाहं पुत्रेण पुत्रार्थी त्वयाद्य कुलपांसन । ००७१०२२ इत्युक्तः स निराक्रामन्नगराद्वचनात्पितुः ॥ ७.१०२। ००७१०३१ न च तं वारयामास वसिष्ठो भगवानृषिः । ००७१०३२ स तु सत्यव्रतो विप्राः श्वपाकावसथान्तिके ॥ ७.१०३। ००७१०४१ पित्रा त्यक्तो ऽवसद्वीरः पिताप्यस्य वनं ययौ । ००७१०४२ ततस्तस्मिंस्तु विषये नावर्षत्पाकशासनः ॥ ७.१०४। ००७१०५१ समा द्वादश भो विप्रास्तेनाधर्मेण वै तदा । ००७१०५२ दारांस्तु तस्य विषये विश्वामित्रो महातपाः ॥ ७.१०५। ००७१०६१ सन्न्यस्य सागरान्ते तु चकार विपुलं तपः । ००७१०६२ तस्य पत्नी गले बद्ध्वा मध्यमं पुत्रमौरसम् ॥ ७.१०६। ००७१०७१ शेषस्य भरणार्थाय व्यक्रीणाद्गोशतेन वै । ००७१०७२ तं च बद्धं गले दृष्ट्वा विक्रयार्थं नृपात्मजः ॥ ७.१०७। ००७१०८१ महर्षिपुत्रं धर्मात्मा मोक्षयामास भो द्विजाः । ००७१०८२ सत्यव्रतो महाबाहुर्भरणं तस्य चाकरोत् ॥ ७.१०८। ००७१०९१ विश्वामित्रस्य तुष्ट्यर्थमनुकम्पार्थमेव च । ००७१०९२ सो ऽभवद्गालवो नाम गले बन्धान्महातपाः । ००७१०९३ महर्षिः कौशिको धीमांस्तेन वीरेण मोक्षितः ॥ ७.१०९। ००८००१० लोमहर्षण उवाच ००८००११ सत्यव्रतस्तु भक्त्या च कृपया च प्रतिज्ञया । ००८००१२ विश्वामित्रकलत्रं तु बभार विनये स्थितः ॥ ८.१। ००८००२१ हत्वा मृगान्वराहांश्च महिषांश्च वनेचरान् । ००८००२२ विश्वामित्राश्रमाभ्याशे मांसं वृक्षे बबन्ध च ॥ ८.२। ००८००३१ उपांशुव्रतमास्थाय दीक्षां द्वादशवार्षिकीम् । ००८००३२ पितुर्नियोगादवसत्तस्मिन्वनगते नृपे ॥ ८.३। ००८००४१ अयोध्यां चैव राज्यं च तथैवान्तःपुरं मुनिः । ००८००४२ याज्योपाध्यायसंयोगाद्वसिष्ठः पर्यरक्षत ॥ ८.४। ००८००५१ सत्यव्रतस्तु बाल्याच्च भाविनो ऽर्थस्य वै बलात् । ००८००५२ वसिष्ठे ऽभ्यधिकं मन्युं धारयामास नित्यशः ॥ ८.५। ००८००६१ पित्रा हि तं तदा राष्ट्रात्त्यज्यमानं प्रियं सुतम् । ००८००६२ निवारयामास मुनिर्बहुना कारणेन न ॥ ८.६। ००८००७१ पाणिग्रहणमन्त्राणां निष्ठा स्यात्सप्तमे पदे । ००८००७२ न च सत्यव्रतस्तस्माद्धतवान्सप्तमे पदे ॥ ८.७। ००८००८१ जानन्धर्मं वसिष्ठस्तु न मां त्रातीति भो द्विजाः । ००८००८२ सत्यव्रतस्तदा रोषं वसिष्ठे मनसाकरोत् ॥ ८.८। ००८००९१ गुणबुद्ध्या तु भगवान्वसिष्ठः कृतवांस्तथा । ००८००९२ न च सत्यव्रतस्तस्य तमुपांशुमबुध्यत ॥ ८.९। ००८०१०१ तस्मिन्नपरितोषश्च पितुरासीन्महात्मनः । ००८०१०२ तेन द्वादश वर्षाणि नावर्षत्पाकशासनः ॥ ८.१०। ००८०१११ तेन त्विदानीं विहितां दीक्षां तां दुर्वहां भुवि । ००८०११२ कुलस्य निष्कृतिर्विप्राः कृता सा वै भवेदिति ॥ ८.११। ००८०१२१ न तं वसिष्ठो भगवान्पित्रा त्यक्तं न्यवारयत् । ००८०१२२ अभिषेक्ष्याम्यहं पुत्रमस्येत्येवम्मतिर्मुनिः ॥ ८.१२। ००८०१३१ स तु द्वादश वर्षाणि तां दीक्षामवहद्बली । ००८०१३२ अविद्यमाने मांसे तु वसिष्ठस्य महात्मनः ॥ ८.१३। ००८०१४१ सर्वकामदुघां दोग्ध्रीं स ददर्श नृपात्मजः । ००८०१४२ तां वै क्रोधाच्च मोहाच्च श्रमाच्चैव क्षुधान्वितः ॥ ८.१४। ००८०१५१ देशधर्मगतो राजा जघान मुनिसत्तमाः । ००८०१५२ तन्मांसं स स्वयं चैव विश्वामित्रस्य चात्मजान् ॥ ८.१५। ००८०१६१ भोजयामास तच्छ्रुत्वा वसिष्ठो ऽप्यस्य चुक्रुधे ॥ ८.१६। ००८०१७० वसिष्ठ उवाच ००८०१७१ पातयेयमहं क्रूर तव शङ्कुमसंशयम् । ००८०१७२ यदि ते द्वाविमौ शङ्कू न स्यातां वै कृतौ पुनः ॥ ८.१७। ००८०१८१ पितुश्चापरितोषेण गुरुदोग्ध्रीवधेन च । ००८०१८२ अप्रोक्षितोपयोगाच्च त्रिविधस्ते व्यतिक्रमः ॥ ८.१८। ००८०१९१ एवं त्रीण्यस्य शङ्कूनि तानि दृष्ट्वा महातपाः । ००८०१९२ त्रिशङ्कुरिति होवाच त्रिशङ्कुस्तेन स स्मृतः ॥ ८.१९। ००८०२०१ विश्वामित्रस्य दाराणामनेन भरणं कृतम् । ००८०२०२ तेन तस्मै वरं प्रादान्मुनिः प्रीतस्त्रिशङ्कवे ॥ ८.२०। ००८०२११ छन्द्यमानो वरेणाथ वरं वव्रे नृपात्मजः । ००८०२१२ सशरीरो व्रजे स्वर्गमित्येवं याचितो वरः ॥ ८.२१। ००८०२२१ अनावृष्टिभये तस्मिन्गते द्वादशवार्षिके । ००८०२२२ पित्र्ये राज्ये ऽभिषिच्याथ याजयामास पार्थिवम् ॥ ८.२२। ००८०२३१ मिषतां देवतानां च वसिष्ठस्य च कौशिकः । ००८०२३२ दिवमारोपयामास सशरीरं महातपाः ॥ ८.२३। ००८०२४१ तस्य सत्यरथा नाम पत्नी कैकेयवंशजा । ००८०२४२ कुमारं जनयामास हरिश्चन्द्रमकल्मषम् ॥ ८.२४। ००८०२५१ स वै राजा हरिश्चन्द्रस्त्रैशङ्कव इति स्मृतः । ००८०२५२ आहर्ता राजसूयस्य सम्राडिति ह विश्रुतः ॥ ८.२५। ००८०२६१ हरिश्चन्द्रस्य पुत्रो ऽभूद्रोहितो नाम पार्थिवः । ००८०२६२ हरितो रोहितस्याथ चञ्चुर्हारित उच्यते ॥ ८.२६। ००८०२७१ विजयश्च मुनिश्रेष्ठाश्चञ्चुपुत्रो बभूव ह । ००८०२७२ जेता स सर्वपृथिवीं विजयस्तेन स स्मृतः ॥ ८.२७। ००८०२८१ रुरुकस्तनयस्तस्य राजा धर्मार्थकोविदः । ००८०२८२ रुरुकस्य वृकः पुत्रो वृकाद्बाहुस्तु जज्ञिवान् ॥ ८.२८। ००८०२९१ हैहयास्तालजङ्घाश्च निरस्यन्ति स्म तं नृपम् । ००८०२९२ तत्पत्नी गर्भमादाय और्वस्याश्रममाविशत् ॥ ८.२९। ००८०३०१ नासत्यो धार्मिकश्चैव स ह धर्मयुगे ऽभवत् । ००८०३०२ सगरस्तु सुतो बाहोर्यज्ञे सह गरेण वै ॥ ८.३०। ००८०३११ और्वस्याश्रममासाद्य भार्गवेणाभिरक्षितः । ००८०३१२ आग्नेयमस्त्रं लब्ध्वा च भार्गवात्सगरो नृपः ॥ ८.३१। ००८०३२१ जिगाय पृथिवीं हत्वा तालजङ्घान्सहैहयान् । ००८०३२२ शकानां पह्नवानां च धर्मं निरसदच्युतः । ००८०३२३ क्षत्रियाणां मुनिश्रेष्ठाः पारदानां च धर्मवित् ॥ ८.३२। ००८०३३० मुनय ऊचुः ००८०३३१ कथं स सगरो जातो गरेणैव सहाच्युतः । ००८०३३२ किमर्थं च शकादीनां क्षत्रियाणां महौजसाम् ॥ ८.३३। ००८०३४१ धर्मान्कुलोचितान्राजा क्रुद्धो निरसदच्युतः । ००८०३४२ एतन्नः सर्वमाचक्ष्व विस्तरेण महामते ॥ ८.३४। ००८०३५० लोमहर्षण उवाच ००८०३५१ बाहोर्व्यसनिनः पूर्वं हृतं राज्यमभूत्किल । ००८०३५२ हैहयैस्तालजङ्घैश्च शकैः सार्धं द्विजोत्तमाः ॥ ८.३५। ००८०३६१ यवनाः पारदाश्चैव काम्बोजाः पह्नवास्तथा । ००८०३६२ एते ह्यपि गणाः पञ्च हैहयार्थे पराक्रमन् ॥ ८.३६। ००८०३७१ हृतराज्यस्तदा राजा स वै बाहुर्वनं ययौ । ००८०३७२ पत्न्या चानुगतो दुःखी तत्र प्राणानवासृजत् ॥ ८.३७। ००८०३८१ पत्नी तु यादवी तस्य सगर्भा पृष्ठतो ऽन्वगात् । ००८०३८२ सपत्न्या च गरस्तस्यै दत्तः पूर्वं किलानघाः ॥ ८.३८। ००८०३९१ सा तु भर्तुश्चितां कृत्वा वने तामभ्यरोहत । ००८०३९२ और्वस्तां भार्गवो विप्राः कारुण्यात्समवारयत् ॥ ८.३९। ००८०४०१ तस्याश्रमे च गर्भः स गरेणैव सहाच्युतः । ००८०४०२ व्यजायत महाबाहुः सगरो नाम पार्थिवः ॥ ८.४०। ००८०४११ और्वस्तु जातकर्मादींस्तस्य कृत्वा महात्मनः । ००८०४१२ अध्याप्य वेदशास्त्राणि ततो ऽस्त्रं प्रत्यपादयत् ॥ ८.४१। ००८०४२१ आग्नेयं तु महाभागा अमरैरपि दुःसहम् । ००८०४२२ स तेनास्त्रबलेनाजौ बलेन च समन्वितः ॥ ८.४२। ००८०४३१ हैहयान्विजघानाशु क्रुद्धो रुद्रः पशूनिव । ००८०४३२ आजहार च लोकेषु कीर्तिं कीर्तिमतां वरः ॥ ८.४३। ००८०४४१ ततः शकांश्च यवनान्काम्बोजान्पारदांस्तथा । ००८०४४२ पह्नवांश्चैव निःशेषान्कर्तुं व्यवसितो नृपः ॥ ८.४४। ००८०४५१ ते वध्यमाना वीरेण सगरेण महात्मना । ००८०४५२ वसिष्ठं शरणं गत्वा प्रणिपेतुर्मनीषिणम् ॥ ८.४५। ००८०४६१ वसिष्ठस्त्वथ तान्दृष्ट्वा समयेन महाद्युतिः । ००८०४६२ सगरं वारयामास तेषां दत्त्वाभयं तदा ॥ ८.४६। ००८०४७१ सगरः स्वां प्रतिज्ञां तु गुरोर्वाक्यं निशम्य च । ००८०४७२ धर्मं जघान तेषां वै वेषानन्यांश्चकार ह ॥ ८.४७। ००८०४८१ अर्धं शकानां शिरसो मुण्डयित्वा व्यसर्जयत् । ००८०४८२ यवनानां शिरः सर्वं काम्बोजानां तथैव च ॥ ८.४८। ००८०४९१ पारदा मुक्तकेशाश्च पह्नवाञ्श्मश्रुधारिणः । ००८०४९२ निःस्वाध्यायवषट्काराः कृतास्तेन महात्मना ॥ ८.४९। ००८०५०१ शका यवनकाम्बोजाः पारदाश्च द्विजोत्तमाः । ००८०५०२ कोणिसर्पा माहिषका दर्वाश्चोलाः सकेरलाः ॥ ८.५०। ००८०५११ सर्वे ते क्षत्रिया विप्रा धर्मस्तेषां निराकृतः । ००८०५१२ वसिष्ठवचनाद्राज्ञा सगरेण महात्मना ॥ ८.५१। ००८०५२१ स धर्मविजयी राजा विजित्येमां वसुन्धराम् । ००८०५२२ अश्वं प्रचारयामास वाजिमेधाय दीक्षितः ॥ ८.५२। ००८०५३१ तस्य चारयतः सो ऽश्वः समुद्रे पूर्वदक्षिणे । ००८०५३२ वेलासमीपे ऽपहृतो भूमिं चैव प्रवेशितः ॥ ८.५३। ००८०५४१ स तं देशं तदा पुत्रैः खानयामास पार्थिवः । ००८०५४२ आसेदुस्ते तदा तत्र खन्यमाने महार्णवे ॥ ८.५४। ००८०५५१ तमादिपुरुषं देवं हरिं कृष्णं प्रजापतिम् । ००८०५५२ विष्णुं कपिलरूपेण स्वपन्तं पुरुषं तदा ॥ ८.५५। ००८०५६१ तस्य चक्षुःसमुत्थेन तेजसा प्रतिबुध्यतः । ००८०५६२ दग्धाः सर्वे मुनिश्रेष्ठाश्चत्वारस्त्ववशेषिताः ॥ ८.५६। ००८०५७१ बर्हिकेतुः सुकेतुश्च तथा धर्मरथो नृपः । ००८०५७२ शूरः पञ्चनदश्चैव तस्य वंशकरा नृपाः ॥ ८.५७। ००८०५८१ प्रादाच्च तस्मै भगवान्हरिर्नारायणो वरम् । ००८०५८२ अक्षयं वंशमिक्ष्वाकोः कीर्तिं चाप्यनिवर्तिनीम् ॥ ८.५८। ००८०५९१ पुत्रं समुद्रं च विभुः स्वर्गे वासं तथाक्षयम् । ००८०५९२ समुद्रश्चार्घमादाय ववन्दे तं महीपतिम् ॥ ८.५९। ००८०६०१ सागरत्वं च लेभे स कर्मणा तेन तस्य ह । ००८०६०२ तं चाश्वमेधिकं सो ऽश्वं समुद्रादुपलब्धवान् ॥ ८.६०। ००८०६११ आजहाराश्वमेधानां शतं स सुमहातपाः । ००८०६१२ पुत्राणां च सहस्राणि षष्टिस्तस्येति नः श्रुतम् ॥ ८.६१। ००८०६२० मुनय ऊचुः ००८०६२१ सगरस्यात्मजा वीराः कथं जाता महाबलाः । ००८०६२२ विक्रान्ताः षष्टिसाहस्रा विधिना केन सत्तम ॥ ८.६२। ००८०६३० लोमहर्षण उवाच ००८०६३१ द्वे भार्ये सगरस्यास्तां तपसा दग्धकिल्बिषे । ००८०६३२ ज्येष्ठा विदर्भदुहिता केशिनी नाम नामतः ॥ ८.६३। ००८०६४१ कनीयसी तु महती पत्नी परमधर्मिणी । ००८०६४२ अरिष्टनेमिदुहिता रूपेणाप्रतिमा भुवि ॥ ८.६४। ००८०६५१ और्वस्ताभ्यां वरं प्रादात्तद्बुध्यध्वं द्विजोत्तमाः । ००८०६५२ षष्टिं पुत्रसहस्राणि गृह्णात्वेका नितम्बिनी ॥ ८.६५। ००८०६६१ एकं वंशधरं त्वेका यथेष्टं वरयत्विति । ००८०६६२ तत्रैका जगृहे पुत्रान्षष्टिसाहस्रसम्मितान् ॥ ८.६६। ००८०६७१ एकं वंशधरं त्वेका तथेत्याह ततो मुनिः । ००८०६७२ राजा पञ्चजनो नाम बभूव स महाद्युतिः ॥ ८.६७। ००८०६८१ इतरा सुषुवे तुम्बीं बीजपूर्णामिति श्रुतिः । ००८०६८२ तत्र षष्टिसहस्राणि गर्भास्ते तिलसम्मिताः ॥ ८.६८। ००८०६९१ सम्बभूवुर्यथाकालं ववृधुश्च यथासुखम् । ००८०६९२ घृतपूर्णेषु कुम्भेषु तान्गर्भान्निदधे ततः ॥ ८.६९। ००८०७०१ धात्रीश्चैकैकशः प्रादात्तावतीः पोषणे नृपः । ००८०७०२ ततो दशसु मासेषु समुत्तस्थुर्यथाक्रमम् ॥ ८.७०। ००८०७११ कुमारास्ते यथाकालं सगरप्रीतिवर्धनाः । ००८०७१२ षष्टिपुत्रसहस्राणि तस्यैवमभवन्द्विजाः ॥ ८.७१। ००८०७२१ गर्भादलाबूमध्याद्वै जातानि पृथिवीपतेः । ००८०७२२ तेषां नारायणं तेजः प्रविष्टानां महात्मनाम् ॥ ८.७२। ००८०७३१ एकः पञ्चजनो नाम पुत्रो राजा बभूव ह । ००८०७३२ शूरः पञ्चजनस्यासीदंशुमान्नाम वीर्यवान् ॥ ८.७३। ००८०७४१ दिलीपस्तस्य तनयः खट्वाङ्ग इति विश्रुतः । ००८०७४२ येन स्वर्गादिहागत्य मुहूर्तं प्राप्य जीवितम् ॥ ८.७४। ००८०७५१ त्रयो ऽभिसन्धिता लोका बुद्ध्या सत्येन चानघाः । ००८०७५२ दिलीपस्य तु दायादो महाराजो भगीरथः ॥ ८.७५। ००८०७६१ यः स गङ्गां सरिच्छ्रेष्ठामवातारयत प्रभुः । ००८०७६२ समुद्रमानयच्चैनां दुहितृत्वे ऽप्यकल्पयत् ॥ ८.७६। ००८०७७१ तस्माद्भागीरथी गङ्गा कथ्यते वंशचिन्तकैः । ००८०७७२ भगीरथसुतो राजा श्रुत इत्यभिविश्रुतः ॥ ८.७७। ००८०७८१ नाभागस्तु श्रुतस्यासीत्पुत्रः परमधार्मिकः । ००८०७८२ अम्बरीषस्तु नाभागिः सिन्धुद्वीपपिताभवत् ॥ ८.७८। ००८०७९१ अयुताजित्तु दायादः सिन्धुद्वीपस्य वीर्यवान् । ००८०७९२ अयुताजित्सुतस्त्वासीदृतुपर्णो महायशाः ॥ ८.७९। ००८०८०१ दिव्याक्षहृदयज्ञो वै राजा नलसखो बली । ००८०८०२ ऋतुपर्णसुतस्त्वासीदार्तपर्णिर्महायशाः ॥ ८.८०। ००८०८११ सुदासस्तस्य तनयो राजा इन्द्रसखो ऽभवत् । ००८०८१२ सुदासस्य सुतः प्रोक्तः सौदासो नाम पार्थिवः ॥ ८.८१। ००८०८२१ ख्यातः कल्माषपादो वै राजा मित्रसहो ऽभवत् । ००८०८२२ कल्माषपादस्य सुतः सर्वकर्मेति विश्रुतः ॥ ८.८२। ००८०८३१ अनरण्यस्तु पुत्रो ऽभूद्विश्रुतः सर्वकर्मणः । ००८०८३२ अनरण्यसुतो निघ्नो निघ्नतो द्वौ बभूवतुः ॥ ८.८३। ००८०८४१ अनमित्रो रघुश्चैव पार्थिवर्षभसत्तमौ । ००८०८४२ अनमित्रसुतो राजा विद्वान्दुलिदुहो ऽभवत् ॥ ८.८४। ००८०८५१ दिलीपस्तनयस्तस्य रामस्य प्रपितामहः । ००८०८५२ दीर्घबाहुर्दिलीपस्य रघुर्नाम्ना सुतो ऽभवत् ॥ ८.८५। ००८०८६१ अयोध्यायां महाराजो यः पुरासीन्महाबलः । ००८०८६२ अजस्तु राघवो जज्ञे तथा दशरथो ऽप्यजात् ॥ ८.८६। ००८०८७१ रामो दशरथाज्जज्ञे धर्मात्मा सुमहायशाः । ००८०८७२ रामस्य तनयो जज्ञे कुश इत्यभिसञ्ज्ञितः ॥ ८.८७। ००८०८८१ अतिथिस्तु कुशाज्जज्ञे धर्मात्मा सुमहायशाः । ००८०८८२ अतिथेस्त्वभवत्पुत्रो निषधो नाम वीर्यवान् ॥ ८.८८। ००८०८९१ निषधस्य नलः पुत्रो नभः पुत्रो नलस्य च । ००८०८९२ नभस्य पुण्डरीकस्तु क्षेमधन्वा ततः स्मृतः ॥ ८.८९। ००८०९०१ क्षेमधन्वसुतस्त्वासीद्देवानीकः प्रतापवान् । ००८०९०२ आसीदहीनगुर्नाम देवानीकात्मजः प्रभुः ॥ ८.९०। ००८०९११ अहीनगोस्तु दायादः सुधन्वा नाम पार्थिवः । ००८०९१२ सुधन्वनः सुतश्चापि ततो जज्ञे शलो नृपः ॥ ८.९१। ००८०९२१ उक्यो नाम स धर्मात्मा शलपुत्रो बभूव ह । ००८०९२२ वज्रनाभः सुतस्तस्य नलस्तस्य महात्मनः ॥ ८.९२। ००८०९३१ नलौ द्वावेव विख्यातौ पुराणे मुनिसत्तमाः । ००८०९३२ वीरसेनात्मजश्चैव यश्चेक्ष्वाकुकुलोद्वहः ॥ ८.९३। ००८०९४१ इक्ष्वाकुवंशप्रभवाः प्राधान्येन प्रकीर्तिताः । ००८०९४२ एते विवस्वतो वंशे राजानो भूरितेजसः ॥ ८.९४। ००८०९५१ पठन्सम्यगिमां सृष्टिमादित्यस्य विवस्वतः । ००८०९५२ श्राद्धदेवस्य देवस्य प्रजानां पुष्टिदस्य च । ००८०९५३ प्रजावानेति सायुज्यमादित्यस्य विवस्वतः ॥ ८.९५। ००९००१० लोमहर्षण उवाच ००९००११ पिता सोमस्य भो विप्रा जज्ञे ऽत्रिर्भगवानृषिः । ००९००१२ ब्रह्मणो मानसात्पूर्वं प्रजासर्गं विधित्सतः ॥ ९.१। ००९००२१ अनुत्तरं नाम तपो येन तप्तं हि तत्पुरा । ००९००२२ त्रीणि वर्षसहस्राणि दिव्यानीति हि नः श्रुतम् ॥ ९.२। ००९००३१ ऊर्ध्वमाचक्रमे तस्य रेतः सोमत्वमीयिवत् । ००९००३२ नेत्राभ्यां वारि सुस्राव दशधा द्योतयन्दिशः ॥ ९.३। ००९००४१ तं गर्भं विधिनादिष्टा दश देव्यो दधुस्ततः । ००९००४२ समेत्य धारयामासुर्न च ताः समशक्नुवन् ॥ ९.४। ००९००५१ यदा न धारणे शक्तास्तस्य गर्भस्य ता दिशः । ००९००५२ ततस्ताभिः स त्यक्तस्तु निपपात वसुन्धराम् ॥ ९.५। ००९००६१ पतितं सोममालोक्य ब्रह्मा लोकपितामहः । ००९००६२ रथमारोपयामास लोकानां हितकाम्यया ॥ ९.६। ००९००७१ तस्मिन्निपतिते देवाः पुत्रे ऽत्रेः परमात्मनि । ००९००७२ तुष्टुवुर्ब्रह्मणः पुत्रास्तथान्ये मुनिसत्तमाः ॥ ९.७। ००९००८१ तस्य संस्तूयमानस्य तेजः सोमस्य भास्वतः । ००९००८२ आप्यायनाय लोकानां भावयामास सर्वतः ॥ ९.८। ००९००९१ स तेन रथमुख्येन सागरान्तां वसुन्धराम् । ००९००९२ त्रिःसप्तकृत्वो ऽतियशाश्चकाराभिप्रदक्षिणाम् ॥ ९.९। ००९०१०१ तस्य यच्चरितं तेजः पृथिवीमन्वपद्यत । ००९०१०२ ओषध्यस्ताः समुद्भूता याभिः सन्धार्यते जगत् ॥ ९.१०। ००९०१११ स लब्धतेजा भगवान्संस्तवैश्च स्वकर्मभिः । ००९०११२ तपस्तेपे महाभागः पद्मानां दर्शनाय सः ॥ ९.११। ००९०१२१ ततस्तस्मै ददौ राज्यं ब्रह्मा ब्रह्मविदां वरः । ००९०१२२ बीजौषधीनां विप्राणामपां च मुनिसत्तमाः ॥ ९.१२। ००९०१३१ स तत्प्राप्य महाराज्यं सोमः सौम्यवतां वरः । ००९०१३२ समाजह्रे राजसूयं सहस्रशतदक्षिणम् ॥ ९.१३। ००९०१४१ दक्षिणामददात्सोमस्त्रींल्लोकानिति नः श्रुतम् । ००९०१४२ तेभ्यो ब्रह्मर्षिमुख्येभ्यः सदस्येभ्यश्च भो द्विजाः ॥ ९.१४। ००९०१५१ हिरण्यगर्भो ब्रह्मात्रिर्भृगुश्च ऋत्विजो ऽभवत् । ००९०१५२ सदस्यो ऽभूद्धरिस्तत्र मुनिभिर्बहुभिर्वृतः ॥ ९.१५। ००९०१६१ तं सिनीश्च कुहूश्चैव द्युतिः पुष्टिः प्रभा वसुः । ००९०१६२ कीर्तिर्धृतिश्च लक्ष्मीश्च नव देव्यः सिषेविरे ॥ ९.१६। ००९०१७१ प्राप्यावभृथमप्यग्र्यं सर्वदेवर्षिपूजितः । ००९०१७२ विरराजाधिराजेन्द्रो दशधा भासयन्दिशः ॥ ९.१७। ००९०१८१ तस्य तत्प्राप्य दुष्प्राप्यमैश्वर्यमृषिसत्कृतम् । ००९०१८२ विबभ्राम मतिस्ताता-विनयादनयाहृता ॥ ९.१८। ००९०१९१ बृहस्पतेः स वै भार्यामैश्वर्यमदमोहितः । ००९०१९२ जहार तरसा सोमो विमत्याङ्गिरसः सुतम् ॥ ९.१९। ००९०२०१ स याच्यमानो देवैश्च तथा देवर्षिभिर्मुहुः । ००९०२०२ नैव व्यसर्जयत्तारां तस्माऐ अङ्गिरसे तदा ॥ ९.२०। ००९०२११ उशना तस्य जग्राह पार्ष्णिमङ्गिरसस्तदा । ००९०२१२ रुद्रश्च पार्ष्णिं जग्राह गृहीत्वाजगवं धनुः ॥ ९.२१। ००९०२२१ तेन ब्रह्मशिरो नाम परमास्त्रं महात्मना । ००९०२२२ उद्दिश्य देवानुत्सृष्टं येनैषां नाशितं यशः ॥ ९.२२। ००९०२३१ तत्र तद्युद्धमभवत्प्रख्यातं तारकामयम् । ००९०२३२ देवानां दानवानां च लोकक्षयकरं महत् ॥ ९.२३। ००९०२४१ तत्र शिष्टास्तु ये देवास्तुषिताश्चैव ये द्विजाः । ००९०२४२ ब्रह्माणं शरणं जग्मुरादिदेवं सनातनम् ॥ ९.२४। ००९०२५१ तदा निवार्योशनसं तं वै रुद्रं च शङ्करम् । ००९०२५२ ददावङ्गिरसे तारां स्वयमेव पितामहः ॥ ९.२५। ००९०२६१ तामन्तःप्रसवां दृष्ट्वा क्रुद्धः प्राह बृहस्पतिः । ००९०२६२ मदीयायां न ते योनौ गर्भो धार्यः कथञ्चन ॥ ९.२६। ००९०२७१ इषीकास्तम्बमासाद्य गर्भं सा चोत्ससर्ज ह । ००९०२७२ जातमात्रः स भगवान्देवानामाक्षिपद्वपुः ॥ ९.२७। ००९०२८१ ततः संशयमापन्नास्तारामूचुः सुरोत्तमाः । ००९०२८२ सत्यं ब्रूहि सुतः कस्य सोमस्याथ बृहस्पतेः ॥ ९.२८। ००९०२९१ पृच्छ्यमाना यदा देवैर्नाह सा विबुधान्किल । ००९०२९२ तदा तां शप्तुमारब्धः कुमारो दस्युहन्तमः ॥ ९.२९। ००९०३०१ तं निवार्य ततो ब्रह्मा तारां पप्रच्छ संशयम् । ००९०३०२ यदत्र तथ्यं तद्ब्रूहि तारे कस्य सुतस्त्वयम् ॥ ९.३०। ००९०३११ उवाच प्राञ्जलिः सा तं सोमस्येति पितामहम् । ००९०३१२ तदा तं मूर्ध्नि चाघ्राय सोमो राजा सुतं प्रति ॥ ९.३१। ००९०३२१ बुध इत्यकरोन्नाम तस्य बालस्य धीमतः । ००९०३२२ प्रतिकूलं च गगने समभ्युत्तिष्ठते बुधः ॥ ९.३२। ००९०३३१ उत्पादयामास तदा पुत्रं वैराजपुत्रिकम् । ००९०३३२ तस्यापत्यं महातेजा बभूवैलः पुरूरवाः ॥ ९.३३। ००९०३४१ उर्वश्यां जज्ञिरे यस्य पुत्राः सप्त महात्मनः । ००९०३४२ एतत्सोमस्य वो जन्म कीर्तितं कीर्तिवर्धनम् ॥ ९.३४। ००९०३५१ वंशमस्य मुनिश्रेष्ठाः कीर्त्यमानं निबोधत । ००९०३५२ धन्यमायुष्यमारोग्यं पुण्यं सङ्कल्पसाधनम् ॥ ९.३५। ००९०३६१ सोमस्य जन्म श्रुत्वैव पापेभ्यो विप्रमुच्यते ॥ ९.३६। ०१०००१० लोमहर्षण उवाच ०१०००११ बुधस्य तु मुनिश्रेष्ठा विद्वान्पुत्रः पुरूरवाः । ०१०००१२ तेजस्वी दानशीलश्च यज्वा विपुलदक्षिणः ॥ १०.१। ०१०००२१ ब्रह्मवादी पराक्रान्तः शत्रुभिर्युधि दुर्दमः । ०१०००२२ आहर्ता चाग्निहोत्रस्य यज्ञानां च महीपतिः ॥ १०.२। ०१०००३१ सत्यवादी पुण्यमतिः सम्यक्संवृतमैथुनः । ०१०००३२ अतीव त्रिषु लोकेषु यशसाप्रतिमः सदा ॥ १०.३। ०१०००४१ तं ब्रह्मवादिनं शान्तं धर्मज्ञं सत्यवादिनम् । ०१०००४२ उर्वशी वरयामास हित्वा मानं यशस्विनी ॥ १०.४। ०१०००५१ तया सहावसद्राजा दश वर्षाणि पञ्च च । ०१०००५२ षट्पञ्च सप्त चाष्टौ च दश चाष्टौ च भो द्विजाः ॥ १०.५। ०१०००६१ वने चैत्ररथे रम्ये तथा मन्दाकिनीतटे । ०१०००६२ अलकायां विशालायां नन्दने च वनोत्तमे ॥ १०.६। ०१०००७१ उत्तरान्स कुरून्प्राप्य मनोरमफलद्रुमान् । ०१०००७२ गन्धमादनपादेषु मेरुशृङ्गे तथोत्तरे ॥ १०.७। ०१०००८१ एतेषु वनमुख्येषु सुरैराचरितेषु च । ०१०००८२ उर्वश्या सहितो राजा रेमे परमया मुदा ॥ १०.८। ०१०००९१ देशे पुण्यतमे चैव महर्षिभिरभिष्टुते । ०१०००९२ राज्यं स कारयामास प्रयागे पृथिवीपतिः ॥ १०.९। ०१००१०१ एवम्प्रभावो राजासीदैलस्तु नरसत्तमः । ०१००१०२ उत्तरे जाह्नवीतीरे प्रतिष्ठाने महायशाः ॥ १०.१०। ०१००११० लोमहर्षण उवाच ०१००१११ ऐलपुत्रा बभूवुस्ते सप्त देवसुतोपमाः । ०१००११२ गन्धर्वलोके विदिता आयुर्धीमानमावसुः ॥ १०.११। ०१००१२१ विश्वायुश्चैव धर्मात्मा श्रुतायुश्च तथापरः । ०१००१२२ दृढायुश्च वनायुश्च बह्वायुश्चोर्वशीसुताः ॥ १०.१२। ०१००१३१ अमावसोस्तु दायादो भीमो राजाथ राजराट् । ०१००१३२ श्रीमान्भीमस्य दायादो राजासीत्काञ्चनप्रभः ॥ १०.१३। ०१००१४१ विद्वांस्तु काञ्चनस्यापि सुहोत्रो ऽभून्महाबलः । ०१००१४२ सुहोत्रस्याभवज्जह्नुः केशिन्या गर्भसम्भवः ॥ १०.१४। ०१००१५१ आजह्रे यो महत्सत्त्रं सर्पमेधं महामखम् । ०१००१५२ पतिलोभेन यं गङ्गा पतित्वेन ससार ह ॥ १०.१५। ०१००१६१ नेच्छतः प्लावयामास तस्य गङ्गा तदा सदः । ०१००१६२ स तया प्लावितं दृष्ट्वा यज्ञवाटं समन्ततः ॥ १०.१६। ०१००१७१ सौहोत्रिरशपद्गङ्गां क्रुद्धो राजा द्विजोत्तमाः । ०१००१७२ एष ते विफलं यत्नं पिबन्नम्भः करोम्यहम् ॥ १०.१७। ०१००१८१ अस्य गङ्गे ऽवलेपस्य सद्यः फलमवाप्नुहि । ०१००१८२ जह्नुराजर्षिणा पीतां गङ्गां दृष्ट्वा महर्षयः ॥ १०.१८। ०१००१९१ उपनिन्युर्महाभागां दुहितृत्वेन जाह्नवीम् । ०१००१९२ युवनाश्वस्य पुत्रीं तु कावेरीं जह्नुरावहत् ॥ १०.१९। ०१००२०१ युवनाश्वस्य शापेन गङ्गार्धेन विनिर्गता । ०१००२०२ कावेरीं सरितां श्रेष्ठां जह्नोर्भार्यामनिन्दिताम् ॥ १०.२०। ०१००२११ जह्नुस्तु दयितं पुत्रं सुनद्यं नाम धार्मिकम् । ०१००२१२ कावेर्यां जनयामास अजकस्तस्य चात्मजः ॥ १०.२१। ०१००२२१ अजकस्य तु दायादो बलाकाश्वो महीपतिः । ०१००२२२ बभूव मृगयाशीलः कुशस्तस्यात्मजो ऽभवत् ॥ १०.२२। ०१००२३१ कुशपुत्रा बभूवुर्हि चत्वारो देववर्चसः । ०१००२३२ कुशिकः कुशनाभश्च कुशाम्बो मूर्तिमांस्तथा ॥ १०.२३। ०१००२४१ बल्लवैः सह संवृद्धो राजा वनचरः सदा । ०१००२४२ कुशिकस्तु तपस्तेपे पुत्रमिन्द्रसमं प्रभुः ॥ १०.२४। ०१००२५१ लभेयमिति तं शक्रस्त्रासादभ्येत्य जज्ञिवान् । ०१००२५२ पूर्णे वर्षसहस्रे वै ततः शक्रो ह्यपश्यत ॥ १०.२५। ०१००२६१ अत्युग्रतपसं दृष्ट्वा सहस्राक्षः पुरन्दरः । ०१००२६२ समर्थः पुत्रजनने स्वयमेवास्य शाश्वतः ॥ १०.२६। ०१००२७१ पुत्रार्थं कल्पयामास देवेन्द्रः सुरसत्तमः । ०१००२७२ स गाधिरभवद्राजा मघवान्कौशिकः स्वयम् ॥ १०.२७। ०१००२८१ पौरा यस्याभवद्भार्या गाधिस्तस्यामजायत । ०१००२८२ गाधेः कन्या महाभागा नाम्ना सत्यवती शुभा ॥ १०.२८। ०१००२९१ तां गाधिः काव्यपुत्राय ऋचीकाय ददौ प्रभुः । ०१००२९२ तस्याः प्रीतः स वै भर्ता भार्गवो भृगुनन्दनः ॥ १०.२९। ०१००३०१ पुत्रार्थं साधयामास चरुं गाधेस्तथैव च । ०१००३०२ उवाचाहूय तां भार्यामृचीको भार्गवस्तदा ॥ १०.३०। ०१००३११ उपयोज्यश्चरुरयं त्वया मात्रा स्वयं शुभे । ०१००३१२ तस्यां जनिष्यते पुत्रो दीप्तिमान्क्षत्रियर्षभः ॥ १०.३१। ०१००३२१ अजेयः क्षत्रियैर्लोके क्षत्रियर्षभसूदनः । ०१००३२२ तवापि पुत्रं कल्याणि धृतिमन्तं तपोधनम् ॥ १०.३२। ०१००३३१ शमात्मकं द्विजश्रेष्ठं चरुरेष विधास्यति । ०१००३३२ एवमुक्त्वा तु तां भार्यामृचीको भृगुनन्दनः ॥ १०.३३। ०१००३४१ तपस्यभिरतो नित्यमरण्यं प्रविवेश ह । ०१००३४२ गाधिः सदारस्तु तदा ऋचीकाश्रममभ्यगात् ॥ १०.३४। ०१००३५१ तीर्थयात्राप्रसङ्गेन सुतां द्रष्टुं नरेश्वरः । ०१००३५२ चरुद्वयं गृहीत्वा सा ऋषेः सत्यवती तदा ॥ १०.३५। ०१००३६१ चरुमादाय यत्नेन सा तु मात्रे न्यवेदयत् । ०१००३६२ माता तु तस्या दैवेन दुहित्रे स्वं चरुं ददौ ॥ १०.३६। ०१००३७१ तस्याश्चरुमथाज्ञानादात्मसंस्थं चकार ह । ०१००३७२ अथ सत्यवती सर्वं क्षत्रियान्तकरं तदा ॥ १०.३७। ०१००३८१ धारयामास दीप्तेन वपुषा घोरदर्शना । ०१००३८२ तामृचीकस्ततो दृष्ट्वा योगेनाभ्युपसृत्य च ॥ १०.३८। ०१००३९१ ततो ऽब्रवीद्द्विजश्रेष्ठः स्वां भार्यां वरवर्णिनीम् । ०१००३९२ मात्रासि वञ्चिता भद्रे चरुव्यत्यासहेतुना ॥ १०.३९। ०१००४०१ जनयिष्यति हि पुत्रस्ते क्रूरकर्मातिदारुणः । ०१००४०२ भ्राता जनिष्यते चापि ब्रह्मभूतस्तपोधनः ॥ १०.४०। ०१००४११ विश्वं हि ब्रह्म तपसा मया तस्मिन्समर्पितम् । ०१००४१२ एवमुक्ता महाभागा भर्त्रा सत्यवती तदा ॥ १०.४१। ०१००४२१ प्रसादयामास पतिं पुत्रो मे नेदृशो भवेत् । ०१००४२२ ब्राह्मणापसदस्त्वत्त इत्युक्तो मुनिरब्रवीत् ॥ १०.४२। ०१००४३० ऋचीक उवाच ०१००४३१ नैष सङ्कल्पितः कामो मया भद्रे तथास्त्विति । ०१००४३२ उग्रकर्मा भवेत्पुत्रः पितुर्मातुश्च कारणात् ॥ १०.४३। ०१००४४१ पुनः सत्यवती वाक्यमेवमुक्त्वाब्रवीदिदम् । ०१००४४२ इच्छंल्लोकानपि मुने सृजेथाः किं पुनः सुतम् ॥ १०.४४। ०१००४५१ शमात्मकमृजुं त्वं मे पुत्रं दातुमिहार्हसि । ०१००४५२ काममेवंविधः पौत्रो मम स्यात्तव च प्रभो ॥ १०.४५। ०१००४६१ यद्यन्यथा न शक्यं वै कर्तुमेतद्द्विजोत्तम । ०१००४६२ ततः प्रसादमकरोत्स तस्यास्तपसो बलात् ॥ १०.४६। ०१००४७१ पुत्रे नास्ति विशेषो मे पौत्रे वा वरवर्णिनि । ०१००४७२ त्वया यथोक्तं वचनं तथा भद्रे भविष्यति ॥ १०.४७। ०१००४८१ ततः सत्यवती पुत्रं जनयामास भार्गवम् । ०१००४८२ तपस्यभिरतं दान्तं जमदग्निं समात्मकम् ॥ १०.४८। ०१००४९१ भृगोर्जगत्यां वंशे ऽस्मिञ् । ०१००४९२ जमदग्निरजायत । ०१००४९३ सा हि सत्यवती पुण्या सत्यधर्मपरायणा ॥ १०.४९। ०१००५०१ कौशिकीति समाख्याता प्रवृत्तेयं महानदी । ०१००५०२ इक्ष्वाकुवंशप्रभवो रेणुर्नाम नराधिपः ॥ १०.५०। ०१००५११ तस्य कन्या महाभागा कामली नाम रेणुका । ०१००५१२ रेणुकायां तु कामल्यां तपोविद्यासमन्वितः ॥ १०.५१। ०१००५२१ आर्चीको जनयामास जामदग्न्यं सुदारुणम् । ०१००५२२ सर्वविद्यान्तगं श्रेष्ठं धनुर्वेदस्य पारगम् ॥ १०.५२। ०१००५३१ रामं क्षत्रियहन्तारं प्रदीप्तमिव पावकम् । ०१००५३२ और्वस्यैवमृचीकस्य सत्यवत्यां महायशाः ॥ १०.५३। ०१००५४१ जमदग्निस्तपोवीर्याज्जज्ञे ब्रह्मविदां वरः । ०१००५४२ मध्यमश्च शुनःशेफः शुनःपुच्छः कनिष्ठकः ॥ १०.५४। ०१००५५१ विश्वामित्रं तु दायादं गाधिः कुशिकनन्दनः । ०१००५५२ जनयामास पुत्रं तु तपोविद्याशमात्मकम् ॥ १०.५५। ०१००५६१ प्राप्य ब्रह्मर्षिसमतां यो ऽयं ब्रह्मर्षितां गतः । ०१००५६२ विश्वामित्रस्तु धर्मात्मा नाम्ना विश्वरथः स्मृतः ॥ १०.५६। ०१००५७१ जज्ञे भृगुप्रसादेन कौशिकाद्वंशवर्धनः । ०१००५७२ विश्वामित्रस्य च सुता देवरातादयः स्मृताः ॥ १०.५७। ०१००५८१ प्रख्यातास्त्रिषु लोकेषु तेषां नामान्यतःपरम् । ०१००५८२ देवरातः कतिश्चैव यस्मात्कात्यायनाः स्मृताः ॥ १०.५८। ०१००५९१ शालावत्यां हिरण्याक्षो रेणुर्जज्ञे ऽथ रेणुकः । ०१००५९२ साङ्कृतिर्गालवश्चैव मुद्गलश्चैव विश्रुतः ॥ १०.५९। ०१००६०१ मधुच्छन्दो जयश्चैव देवलश्च तथाष्टकः । ०१००६०२ कच्छपो हारितश्चैव विश्वामित्रस्य ते सुताः ॥ १०.६०। ०१००६११ तेषां ख्यातानि गोत्राणि कौशिकानां महात्मनाम् । ०१००६१२ पाणिनो बभ्रवश्चैव ध्यानजप्यास्तथैव च ॥ १०.६१। ०१००६२१ पार्थिवा देवराताश्च शालङ्कायनबाष्कलाः । ०१००६२२ लोहिता यमदूताश्च तथा कारूषकाः स्मृताः ॥ १०.६२। ०१००६३१ पौरवस्य मुनिश्रेष्ठा ब्रह्मर्षेः कौशिकस्य च । ०१००६३२ सम्बन्धो ऽप्यस्य वंशे ऽस्मिन्ब्रह्मक्षत्रस्य विश्रुतः ॥ १०.६३। ०१००६४१ विश्वामित्रात्मजानां तु शुनःशेफो ऽग्रजः स्मृतः । ०१००६४२ भार्गवः कौशिकत्वं हि प्राप्तः स मुनिसत्तमः ॥ १०.६४। ०१००६५१ विश्वामित्रस्य पुत्रस्तु शुनःशेफो ऽभवत्किल । ०१००६५२ हरिदश्वस्य यज्ञे तु पशुत्वे विनियोजितः ॥ १०.६५। ०१००६६१ देवैर्दत्तः शुनःशेफो विश्वामित्राय वै पुनः । ०१००६६२ देवैर्दत्तः स वै यस्माद्देवरातस्ततो ऽभवत् ॥ १०.६६। ०१००६७१ देवरातादयः सप्त विश्वामित्रस्य वै सुताः । ०१००६७२ दृषद्वतीसुतश्चापि वैश्वामित्रस्तथाष्टकः ॥ १०.६७। ०१००६८१ अष्टकस्य सुतो लौहिः प्रोक्तो जह्नुगणो मया । ०१००६८२ अत ऊर्ध्वं प्रवक्ष्यामि वंशमायोर्महात्मनः ॥ १०.६८। ०११००१० लोमहर्षण उवाच ०११००११ आयोः पुत्राश्च ते पञ्च सर्वे वीरा महारथाः । ०११००१२ स्वर्भानुतनयायां च प्रभायां जज्ञिरे नृपाः ॥ ११.१। ०११००२१ नहुषः प्रथमं जज्ञे वृद्धशर्मा ततः परम् । ०११००२२ रम्भो रजिरनेनाश्च त्रिषु लोकेषु विश्रुताः ॥ ११.२। ०११००३१ रजिः पुत्रशतानीह जनयामास पञ्च वै । ०११००३२ राजेयमिति विख्यातं क्षत्रमिन्द्रभयावहम् ॥ ११.३। ०११००४१ यत्र दैवासुरे युद्धे समुत्पन्ने सुदारुणे । ०११००४२ देवाश्चैवासुराश्चैव पितामहमथाब्रुवन् ॥ ११.४। ०११००५० देवासुरा ऊचुः ०११००५१ आवयोर्भगवन्युद्धे को विजेता भविष्यति । ०११००५२ ब्रूहि नः सर्वभूतेश श्रोतुमिच्छाम तत्त्वतः ॥ ११.५। ०११००६० ब्रह्मोवाच ०११००६१ येषामर्थाय सङ्ग्रामे रजिरात्तायुधः प्रभुः । ०११००६२ योत्स्यते ते विजेष्यन्ति त्रींल्लोकान्नात्र संशयः ॥ ११.६। ०११००७१ यतो रजिर्धृतिस्तत्र श्रीश्च तत्र यतो धृतिः । ०११००७२ यतो धृतिश्च श्रीश्चैव धर्मस्तत्र जयस्तथा ॥ ११.७। ०११००८१ ते देवा दानवाः प्रीता देवेनोक्ता रजिं तदा । ०११००८२ अभ्ययुर्जयमिच्छन्तो वृण्वानास्तं नरर्षभम् ॥ ११.८। ०११००९१ स हि स्वर्भानुदौहित्रः प्रभायां समपद्यत । ०११००९२ राजा परमतेजस्वी सोमवंशविवर्धनः ॥ ११.९। ०११०१०१ ते हृष्टमनसः सर्वे रजिं वै देवदानवाः । ०११०१०२ ऊचुरस्मज्जयाय त्वं गृहाण वरकार्मुकम् ॥ ११.१०। ०११०१११ अथोवाच रजिस्तत्र तयोर्वै देवदैत्ययोः । ०११०११२ अर्थज्ञः स्वार्थमुद्दिश्य यशः स्वं च प्रकाशयन् ॥ ११.११। ०११०१२० रजिरुवाच ०११०१२१ यदि दैत्यगणान्सर्वाञ्जित्वा वीर्येण वासवः । ०११०१२२ इन्द्रो भवामि धर्मेण ततो योत्स्यामि संयुगे ॥ ११.१२। ०११०१३१ देवाः प्रथमतो विप्राः प्रतीयुर्हृष्टमानसाः । ०११०१३२ एवं यथेष्टं नृपते कामः सम्पद्यतां तव ॥ ११.१३। ०११०१४१ श्रुत्वा सुरगणानां तु वाक्यं राजा रजिस्तदा । ०११०१४२ पप्रच्छासुरमुख्यांस्तु यथा देवानपृच्छत ॥ ११.१४। ०११०१५१ दानवा दर्पसम्पूर्णाः स्वार्थमेवावगम्य ह । ०११०१५२ प्रत्यूचुस्तं नृपवरं साभिमानमिदं वचः ॥ ११.१५। ०११०१६० दानवा ऊचुः ०११०१६१ अस्माकमिन्द्रः प्रह्रादो यस्यार्थे विजयामहे । ०११०१६२ अस्मिंस्तु समरे राजंस्तिष्ठ त्वं राजसत्तम ॥ ११.१६। ०११०१७१ स तथेति ब्रुवन्नेव देवैरप्यतिचोदितः । ०११०१७२ भविष्यसीन्द्रो जित्वैनं देवैरुक्तस्तु पार्थिवः ॥ ११.१७। ०११०१८१ जघान दानवान्सर्वान्ये ऽवध्या वज्रपाणिनः । ०११०१८२ स विप्रनष्टां देवानां परमश्रीः श्रियं वशी ॥ ११.१८। ०११०१९१ निहत्य दानवान्सर्वानाजहार रजिः प्रभुः । ०११०१९२ ततो रजिं महावीर्यं देवैः सह शतक्रतुः ॥ ११.१९। ०११०२०१ रजिपुत्रो ऽहमित्युक्त्वा पुनरेवाब्रवीद्वचः । ०११०२०२ इन्द्रो ऽसि तात देवानां सर्वेषां नात्र संशयः ॥ ११.२०। ०११०२११ यस्याहमिन्द्रः पुत्रस्ते ख्यातिं यास्यामि कर्मभिः । ०११०२१२ स तु शक्रवचः श्रुत्वा वञ्चितस्तेन मायया ॥ ११.२१। ०११०२२१ तथैवेत्यब्रवीद्राजा प्रीयमाणः शतक्रतुम् । ०११०२२२ तस्मिंस्तु देवैः सदृशो दिवं प्राप्ते महीपतौ ॥ ११.२२। ०११०२३१ दायाद्यमिन्द्रादाजह्रू राज्यं तत्तनया रजेः । ०११०२३२ पञ्च पुत्रशतान्यस्य तद्वै स्थानं शतक्रतोः ॥ ११.२३। ०११०२४१ समाक्रामन्त बहुधा स्वर्गलोकं त्रिविष्टपम् । ०११०२४२ ते यदा तु स्वसम्मूढा रागोन्मत्ता विधर्मिणः ॥ ११.२४। ०११०२५१ ब्रह्मद्विषश्च संवृत्ता हतवीर्यपराक्रमाः । ०११०२५२ ततो लेभे स्वमैश्वर्यमिन्द्रः स्थानं तथोत्तमम् ॥ ११.२५। ०११०२६१ हत्वा रजिसुतान्सर्वान्कामक्रोधपरायणान् । ०११०२६२ य इदं च्यावनं स्थानात्प्रतिष्ठानं शतक्रतोः । ०११०२६३ शृणुयाद्धारयेद्वापि न स दौर्गत्यमाप्नुयात् ॥ ११.२६। ०११०२७० लोमहर्षण उवाच ०११०२७१ रम्भो ऽनपत्यस्त्वासीच्च वंशं वक्ष्याम्यनेनसः । ०११०२७२ अनेनसः सुतो राजा प्रतिक्षत्रो महायशाः ॥ ११.२७। ०११०२८१ प्रतिक्षत्रसुतश्चासीत्सञ्जयो नाम विश्रुतः । ०११०२८२ सञ्जयस्य जयः पुत्रो विजयस्तस्य चात्मजः ॥ ११.२८। ०११०२९१ विजयस्य कृतिः पुत्रस्तस्य हर्यत्वतः सुतः । ०११०२९२ हर्यत्वतसुतो राजा सहदेवः प्रतापवान् ॥ ११.२९। ०११०३०१ सहदेवस्य धर्मात्मा नदीन इति विश्रुतः । ०११०३०२ नदीनस्य जयत्सेनो जयत्सेनस्य सङ्कृतिः ॥ ११.३०। ०११०३११ सङ्कृतेरपि धर्मात्मा क्षत्रवृद्धो महायशाः । ०११०३१२ अनेनसः समाख्याताः क्षत्रवृद्धस्य चापरः ॥ ११.३१। ०११०३२१ क्षत्रवृद्धात्मजस्तत्र सुनहोत्रो महायशाः । ०११०३२२ सुनहोत्रस्य दायादास्त्रयः परमधार्मिकाः ॥ ११.३२। ०११०३३१ काशः शलश्च द्वावेतौ तथा गृत्समदः प्रभुः । ०११०३३२ पुत्रो गृत्समदस्यापि शुनको यस्य शौनकः ॥ ११.३३। ०११०३४१ ब्राह्मणाः क्षत्रियाश्चैव वैश्याः शूद्रास्तथैव च । ०११०३४२ शलात्मज आर्ष्टिसेणस्तनयस्तस्य काश्यपः ॥ ११.३४। ०११०३५१ काशस्य काशिपो राजा पुत्रो दीर्घतपास्तथा । ०११०३५२ धनुस्तु दीर्घतपसो विद्वान्धन्वन्तरिस्ततः ॥ ११.३५। ०११०३६१ तपसो ऽन्ते सुमहतो जातो वृद्धस्य धीमतः । ०११०३६२ पुनर्धन्वन्तरिर्देवो मानुषेष्विह जन्मनि ॥ ११.३६। ०११०३७१ तस्य गेहे समुत्पन्नो देवो धन्वन्तरिस्तदा । ०११०३७२ काशिराजो महाराजः सर्वरोगप्रणाशनः ॥ ११.३७। ०११०३८१ आयुर्वेदं भरद्वाजात्प्राप्येह स भिषक्क्रियः । ०११०३८२ तमष्टधा पुनर्व्यस्य शिष्येभ्यः प्रत्यपादयत् ॥ ११.३८। ०११०३९१ धन्वन्तरेस्तु तनयः केतुमानिति विश्रुतः । ०११०३९२ अथ केतुमतः पुत्रो वीरो भीमरथः स्मृतः ॥ ११.३९। ०११०४०१ पुत्रो भीमरथस्यापि दिवोदासः प्रजेश्वरः । ०११०४०२ दिवोदासस्तु धर्मात्मा वाराणस्यधिपो ऽभवत् ॥ ११.४०। ०११०४११ एतस्मिन्नेव काले तु पुरीं वाराणसीं द्विजाः । ०११०४१२ शून्यां निवेशयामास क्षेमको नाम राक्षसः ॥ ११.४१। ०११०४२१ शप्ता हि सा मतिमता निकुम्भेन महात्मना । ०११०४२२ शून्या वर्षसहस्रं वै भवित्री तु न संशयः ॥ ११.४२। ०११०४३१ तस्यां हि शप्तमात्रायां दिवोदासः प्रजेश्वरः । ०११०४३२ विषयान्ते पुरीं रम्यां गोमत्यां सन्न्यवेशयत् ॥ ११.४३। ०११०४४१ भद्रश्रेण्यस्य पूर्वं तु पुरी वाराणसी अभूत् । ०११०४४२ भद्रश्रेण्यस्य पुत्राणां शतमुत्तमधन्विनाम् ॥ ११.४४। ०११०४५१ हत्वा निवेशयामास दिवोदासो नराधिपः । ०११०४५२ भद्रश्रेण्यस्य तद्राज्यं हृतं येन बलीयसा ॥ ११.४५। ०११०४६१ भद्रश्रेण्यस्य पुत्रस्तु दुर्दमो नाम विश्रुतः । ०११०४६२ दिवोदासेन बालेति घृणया स विसर्जितः ॥ ११.४६। ०११०४७१ हैहयस्य तु दायाद्यं हृतवान्वै महीपतिः । ०११०४७२ आजह्रे पितृदायाद्यं दिवोदासहृतं बलात् ॥ ११.४७। ०११०४८१ भद्रश्रेण्यस्य पुत्रेण दुर्दमेन महात्मना । ०११०४८२ वैरस्यान्तो महाभागाः कृतश्चात्मीयतेजसा ॥ ११.४८। ०११०४९१ दिवोदासाद्दृषद्वत्यां वीरो जज्ञे प्रतर्दनः । ०११०४९२ तेन बालेन पुत्रेण प्रहृतं तु पुनर्बलम् ॥ ११.४९। ०११०५०१ प्रतर्दनस्य पुत्रौ द्वौ वत्सभर्गौ सुविश्रुतौ । ०११०५०२ वत्सपुत्रो ह्यलर्कस्तु सन्नतिस्तस्य चात्मजः ॥ ११.५०। ०११०५११ अलर्कस्तस्य पुत्रस्तु ब्रह्मण्यः सत्यसङ्गरः । ०११०५१२ अलर्कं प्रति राजर्षिं श्लोको गीतः पुरातनैः ॥ ११.५१। ०११०५२१ षष्टिर्वर्षसहस्राणि षष्टिर्वर्षशतानि च । ०११०५२२ युवा रूपेण सम्पन्नः प्रागासीच्च कुलोद्वहः ॥ ११.५२। ०११०५३१ लोपामुद्राप्रसादेन परमायुरवाप्तवान् । ०११०५३२ तस्यासीत्सुमहद्राज्यं रूपयौवनशालिनः ॥ ११.५३। ०११०५४१ शापस्यान्ते महाबाहुर्हत्वा क्षेमकराक्षसम् । ०११०५४२ रम्यां निवेशयामास पुरीं वाराणसीं पुनः ॥ ११.५४। ०११०५५१ सन्नतेरपि दायादः सुनीथो नाम धार्मिकः । ०११०५५२ सुनीथस्य तु दायादः क्षेमो नाम महायशाः ॥ ११.५५। ०११०५६१ क्षेमस्य केतुमान्पुत्रः सुकेतुस्तस्य चात्मजः । ०११०५६२ सुकेतोस्तनयश्चापि धर्मकेतुरिति स्मृतः ॥ ११.५६। ०११०५७१ धर्मकेतोस्तु दायादः सत्यकेतुर्महारथः । ०११०५७२ सत्यकेतुसुतश्चापि विभुर्नाम प्रजेश्वरः ॥ ११.५७। ०११०५८१ आनर्तस्तु विभोः पुत्रः सुकुमारश्च तत्सुतः । ०११०५८२ सुकुमारस्य पुत्रस्तु धृष्टकेतुः सुधार्मिकः ॥ ११.५८। ०११०५९१ धृष्टकेतोस्तु दायादो वेणुहोत्रः प्रजेश्वरः । ०११०५९२ वेणुहोत्रसुतश्चापि भार्गो नाम प्रजेश्वरः ॥ ११.५९। ०११०६०१ वत्सस्य वत्सभूमिस्तु भार्गभूमिस्तु भार्गजः । ०११०६०२ एते त्वङ्गिरसः पुत्रा जाता वंशे ऽथ भार्गव ॥ ११.६०। ०११०६११ ब्राह्मणाः क्षत्रिया वैश्यास्त्रयः पुत्राः सहस्रशः । ०११०६१२ इत्येते काश्यपाः प्रोक्ता नहुषस्य निबोधत ॥ ११.६१। ०१२००१० लोमहर्षण उवाच ०१२००११ उत्पन्नाः पितृकन्यायां विरजायां महौजसः । ०१२००१२ नहुषस्य तु दायादाः षडिन्द्रोपमतेजसः ॥ १२.१। ०१२००२१ यतिर्ययातिः संयातिर् । ०१२००२२ आयातिः पार्श्वको ऽभवत् । ०१२००२३ यतिर्ज्येष्ठस्तु तेषां वै ययातिस्तु ततः परम् ॥ १२.२। ०१२००३१ ककुत्स्थकन्यां गां नाम लेभे परमधार्मिकः । ०१२००३२ यतिस्तु मोक्षमास्थाय ब्रह्मभूतो ऽभवन्मुनिः ॥ १२.३। ०१२००४१ तेषां ययातिः पञ्चानां विजित्य वसुधामिमाम् । ०१२००४२ देवयानीमुशनसः सुतां भार्यामवाप सः ॥ १२.४। ०१२००५१ शर्मिष्ठामासुरीं चैव तनयां वृषपर्वणः । ०१२००५२ यदुं च तुर्वसुं चैव देवयानी व्यजायत ॥ १२.५। ०१२००६१ द्रुह्यं चानुं च पुरुं च शर्मिष्ठा वार्षपर्वणी । ०१२००६२ तस्मै शक्रो ददौ प्रीतो रथं परमभास्वरम् ॥ १२.६। ०१२००७१ अङ्गदं काञ्चनं दिव्यं दिव्यैः परमवाजिभिः । ०१२००७२ युक्तं मनोजवैः शुभ्रैर्येन कार्यं समुद्वहन् ॥ १२.७। ०१२००८१ स तेन रथमुख्येन षड्रात्रेणाजयन्महीम् । ०१२००८२ ययातिर्युधि दुर्धर्षस्तथा देवान्सदानवान् ॥ १२.८। ०१२००९१ सरथः कौरवाणां तु सर्वेषामभवत्तदा । ०१२००९२ संवर्तवसुनाम्नस्तु कौरवाज्जनमेजयात् ॥ १२.९। ०१२०१०१ कुरोः पुत्रस्य राजेन्द्र-राज्ञः पारीक्षितस्य ह । ०१२०१०२ जगाम स रथो नाशं शापाद्गर्गस्य धीमतः ॥ १२.१०। ०१२०१११ गर्गस्य हि सुतं बालं स राजा जनमेजयः । ०१२०११२ कालेन हिंसयामास ब्रह्महत्यामवाप सः ॥ १२.११। ०१२०१२१ स लोहगन्धी राजर्षिः परिधावन्नितस्ततः । ०१२०१२२ पौरजानपदैस्त्यक्तो न लेभे शर्म कर्हिचित् ॥ १२.१२। ०१२०१३१ ततः स दुःखसन्तप्तो नालभत्संविदं क्वचित् । ०१२०१३२ विप्रेन्द्रं शौनकं राजा शरणं प्रत्यपद्यत ॥ १२.१३। ०१२०१४१ याजयामास च ज्ञानी शौनको जनमेजयम् । ०१२०१४२ अश्वमेधेन राजानं पावनार्थं द्विजोत्तमाः ॥ १२.१४। ०१२०१५१ स लोहगन्धो व्यनशत्तस्यावभृथमेत्य च । ०१२०१५२ स च दिव्यरथो राज्ञो वशश्चेदिपतेस्तदा ॥ १२.१५। ०१२०१६१ दत्तः शक्रेण तुष्टेन लेभे तस्माद्बृहद्रथः । ०१२०१६२ बृहद्रथात्क्रमेणैव गतो बार्हद्रथं नृपम् ॥ १२.१६। ०१२०१७१ ततो हत्वा जरासन्धं भीमस्तं रथमुत्तमम् । ०१२०१७२ प्रददौ वासुदेवाय प्रीत्या कौरवनन्दनः ॥ १२.१७। ०१२०१८१ सप्तद्वीपां ययातिस्तु जित्वा पृथ्वीं ससागराम् । ०१२०१८२ विभज्य पञ्चधा राज्यं पुत्राणां नाहुषस्तदा ॥ १२.१८। ०१२०१९१ ययातिर्दिशि पूर्वस्यां यदुं ज्येष्ठं न्ययोजयत् । ०१२०१९२ मध्ये पुरुं च राजानमभ्यषिञ्चत्स नाहुषः ॥ १२.१९। ०१२०२०१ दिशि दक्षिणपूर्वस्यां तुर्वसुं मतिमान्नृपः । ०१२०२०२ तैरियं पृथिवी सर्वा सप्तद्वीपा सपत्तना ॥ १२.२०। ०१२०२११ यथाप्रदेशमद्यापि धर्मेण प्रतिपाल्यते । ०१२०२१२ प्रजास्तेषां पुरस्तात्तु वक्ष्यामि मुनिसत्तमाः ॥ १२.२१। ०१२०२२१ धनुर्न्यस्य पृषत्कांश्च पञ्चभिः पुरुषर्षभैः । ०१२०२२२ जरावानभवद्राजा भारमावेश्य बन्धुषु ॥ १२.२२। ०१२०२३१ निक्षिप्तशस्त्रः पृथिवीं चचार पृथिवीपतिः । ०१२०२३२ प्रीतिमानभवद्राजा ययातिरपराजितः ॥ १२.२३। ०१२०२४१ एवं विभज्य पृथिवीं ययातिर्यदुमब्रवीत् । ०१२०२४२ जरां मे प्रतिगृह्णीष्व पुत्र कृत्यान्तरेण वै ॥ १२.२४। ०१२०२५१ तरुणस्तव रूपेण चरेयं पृथिवीमिमाम् । ०१२०२५२ जरां त्वयि समाधाय तं यदुः प्रत्युवाच ह ॥ १२.२५। ०१२०२६० यदुरुवाच ०१२०२६१ अनिर्दिष्टा मया भिक्षा ब्राह्मणस्य प्रतिश्रुता । ०१२०२६२ अनपाकृत्य तां राजन्न ग्रहीष्यामि ते जराम् ॥ १२.२६। ०१२०२७१ जरायां बहवो दोषाः पानभोजनकारिताः । ०१२०२७२ तस्माज्जरां न ते राजन्ग्रहीतुमहमुत्सहे ॥ १२.२७। ०१२०२८१ सन्ति ते बहवः पुत्रा मत्तः प्रियतरा नृप । ०१२०२८२ प्रतिग्रहीतुं धर्मज्ञ पुत्रमन्यं वृणीष्व वै ॥ १२.२८। ०१२०२९१ स एवमुक्तो यदुना राजा कोपसमन्वितः । ०१२०२९२ उवाच वदतां श्रेष्ठो ययातिर्गर्हयन्सुतम् ॥ १२.२९। ०१२०३०० ययातिरुवाच ०१२०३०१ क आश्रमस्तवान्यो ऽस्ति को वा धर्मो विधीयते । ०१२०३०२ मामनादृत्य दुर्बुद्धे यदहं तव देशिकः ॥ १२.३०। ०१२०३११ एवमुक्त्वा यदुं विप्राः शशापैनं स मन्युमान् । ०१२०३१२ अराज्या ते प्रजा मूढ भवित्रीति न संशयः ॥ १२.३१। ०१२०३२१ द्रुह्यं च तुर्वसुं चैवाप्यनुं च द्विजसत्तमाः । ०१२०३२२ एवमेवाब्रवीद्राजा प्रत्याख्यातश्च तैरपि ॥ १२.३२। ०१२०३३१ शशाप तानतिक्रुद्धो ययातिरपराजितः । ०१२०३३२ यथावत्कथितं सर्वं मयास्य द्विजसत्तमाः ॥ १२.३३। ०१२०३४१ एवं शप्त्वा सुतान्सर्वांश्चतुरः पुरुपूर्वजान् । ०१२०३४२ तदेव वचनं राजा पुरुमप्याह भो द्विजाः ॥ १२.३४। ०१२०३५१ तरुणस्तव रूपेण चरेयं पृथिवीमिमाम् । ०१२०३५२ जरां त्वयि समाधाय त्वं पुरो यदि मन्यसे ॥ १२.३५। ०१२०३६१ स जरां प्रतिजग्राह पितुः पुरुः प्रतापवान् । ०१२०३६२ ययातिरपि रूपेण पुरोः पर्यचरन्महीम् ॥ १२.३६। ०१२०३७१ स मार्गमाणः कामानामन्तं नृपतिसत्तमः । ०१२०३७२ विश्वाच्या सहितो रेमे वने चैत्ररथे प्रभुः ॥ १२.३७। ०१२०३८१ यदा च तृप्तः कामेषु भोगेषु च नराधिपः । ०१२०३८२ तदा पुरोः सकाशाद्वै स्वां जरां प्रत्यपद्यत ॥ १२.३८। ०१२०३९१ यत्र गाथा मुनिश्रेष्ठा गीताः किल ययातिना । ०१२०३९२ याभिः प्रत्याहरेत्कामान्सर्वशो ऽङ्गानि कूर्मवत् ॥ १२.३९। ०१२०४०१ न जातु कामः कामानामुपभोगेन शाम्यति । ०१२०४०२ हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥ १२.४०। ०१२०४११ यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः । ०१२०४१२ नालमेकस्य तत्सर्वमिति कृत्वा न मुह्यति ॥ १२.४१। ०१२०४२१ यदा भावं न कुरुते सर्वभूतेषु पापकम् । ०१२०४२२ कर्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा ॥ १२.४२। ०१२०४३१ यदा तेभ्यो न बिभेति यदा चास्मान्न बिभ्यति । ०१२०४३२ यदा नेच्छति न द्वेष्टि ब्रह्म सम्पद्यते तदा ॥ १२.४३। ०१२०४४१ या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः । ०१२०४४२ यो ऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम् ॥ १२.४४। ०१२०४५१ जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः । ०१२०४५२ धनाशा जीविताशा च जीर्यतो ऽपि न जीर्यति ॥ १२.४५। ०१२०४६१ यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् । ०१२०४६२ तृष्णाक्षयसुखस्यैते नार्हन्ति षोडशीं कलाम् ॥ १२.४६। ०१२०४७१ एवमुक्त्वा स राजर्षिः सदारः प्राविशद्वनम् । ०१२०४७२ कालेन महता चायं चचार विपुलं तपः ॥ १२.४७। ०१२०४८१ भृगुतुङ्गे गतिं प्राप तपसो ऽन्ते महायशाः । ०१२०४८२ अनश्नन्देहमुत्सृज्य सदारः स्वर्गमाप्तवान् ॥ १२.४८। ०१२०४९१ तस्य वंशे मुनिश्रेष्ठाः पञ्च राजर्षिसत्तमाः । ०१२०४९२ यैर्व्याप्ता पृथिवी सर्वा सूर्यस्येव गभस्तिभिः ॥ १२.४९। ०१२०५०१ यदोस्तु वंशं वक्ष्यामि शृणुध्वं राजसत्कृतम् । ०१२०५०२ यत्र नारायणो जज्ञे हरिर्वृष्णिकुलोद्वहः ॥ १२.५०। ०१२०५११ सुस्थः प्रजावानायुष्मान्कीर्तिमांश्च भवेन्नरः । ०१२०५१२ ययातिचरितं नित्यमिदं शृण्वन्द्विजोत्तमाः ॥ १२.५१। ०१३००१० ब्राह्मणा ऊचुः ०१३००११ पुरोर्वंशं वयं सूत श्रोतुमिच्छाम तत्त्वतः । ०१३००१२ द्रुह्यस्यानोर्यदोश्चैव तुर्वसोश्च पृथक्पृथक् ॥ १३.१। ०१३००२० लोमहर्षण उवाच ०१३००२१ शृणुध्वं मुनिशार्दूलाः पुरोर्वंशं महात्मनः । ०१३००२२ विस्तरेणानुपूर्व्या च प्रथमं वदतो मम ॥ १३.२। ०१३००३१ पुरोः पुत्रः सुवीरो ऽभून्मनस्युस्तस्य चात्मजः । ०१३००३२ राजा चाभयदो नाम मनस्योरभवत्सुतः ॥ १३.३। ०१३००४१ तथैवाभयदस्यासीत्सुधन्वा नाम पार्थिवः । ०१३००४२ सुधन्वनः सुबाहुश्च रौद्राश्वस्तस्य चात्मजः ॥ १३.४। ०१३००५१ रौद्राश्वस्य दशार्णेयुः कृकणेयुस्तथैव च । ०१३००५२ कक्षेयुस्थण्डिलेयुश्च सन्नतेयुस्तथैव च ॥ १३.५। ०१३००६१ ऋचेयुश्च जलेयुश्च स्थलेयुश्च महाबलः । ०१३००६२ धनेयुश्च वनेयुश्च पुत्रकाश्च दश स्त्रियः ॥ १३.६। ०१३००७१ भद्रा शूद्रा च मद्रा च शलदा मलदा तथा । ०१३००७२ खलदा च ततो विप्रा नलदा सुरसापि च ॥ १३.७। ०१३००८१ तथा गोचपला च स्त्री-रत्नकूटा च ता दश । ०१३००८२ ऋषिर्जातो ऽत्रिवंशे च तासां भर्ता प्रभाकरः ॥ १३.८। ०१३००९१ भद्रायां जनयामास सुतं सोमं यशस्विनम् । ०१३००९२ स्वर्भानुना हते सूर्ये पतमाने दिवो महीम् ॥ १३.९। ०१३०१०१ तमोभिभूते लोके च प्रभा येन प्रवर्तिता । ०१३०१०२ स्वस्ति ते ऽस्त्विति चोक्त्वा वै पतमानो दिवाकरः ॥ १३.१०। ०१३०१११ वचनात्तस्य विप्रर्षेर्न पपात दिवो महीम् । ०१३०११२ अत्रिश्रेष्ठानि गोत्राणि यश्चकार महातपाः ॥ १३.११। ०१३०१२१ यज्ञेष्वत्रेर्बलं चैव देवैर्यस्य प्रतिष्ठितम् । ०१३०१२२ स तासु जनयामास पुत्रिकास्वात्मकामजान् ॥ १३.१२। ०१३०१३१ दश पुत्रान्महासत्त्वांस्तपस्युग्रे रतांस्तथा । ०१३०१३२ ते तु गोत्रकरा विप्रा ऋषयो वेदपारगाः ॥ १३.१३। ०१३०१४१ स्वस्त्यात्रेया इति ख्याताः किञ्च त्रिधनवर्जिताः । ०१३०१४२ कक्षेयोस्तनयास्त्वासंस्त्रय एव महारथाः ॥ १३.१४। ०१३०१५१ सभानरश्चाक्षुषश्च परमन्युस्तथैव च । ०१३०१५२ सभानरस्य पुत्रस्तु विद्वान्कालानलो नृपः ॥ १३.१५। ०१३०१६१ कालानलस्य धर्मज्ञः सृञ्जयो नाम वै सुतः । ०१३०१६२ सृञ्जयस्याभवत्पुत्रो वीरो राजा पुरञ्जयः ॥ १३.१६। ०१३०१७१ जनमेजयो मुनिश्रेष्ठाः पुरञ्जयसुतो ऽभवत् । ०१३०१७२ जनमेजयस्य राजर्षेर्महाशालो ऽभवत्सुतः ॥ १३.१७। ०१३०१८१ देवेषु स परिज्ञातः प्रतिष्ठितयशा भुवि । ०१३०१८२ महामना नाम सुतो महाशालस्य विश्रुतः ॥ १३.१८। ०१३०१९१ जज्ञे वीरः सुरगणैः पूजितः सुमहामनाः । ०१३०१९२ महामनास्तु पुत्रौ द्वौ जनयामास भो द्विजाः ॥ १३.१९। ०१३०२०१ उशीनरं च धर्मज्ञं तितिक्षुं च महाबलम् । ०१३०२०२ उशीनरस्य पत्न्यस्तु पञ्च राजर्षिवंशजाः ॥ १३.२०। ०१३०२११ नृगा कृमिर्नवा दर्वा पञ्चमी च दृषद्वती । ०१३०२१२ उशीनरस्य पुत्रास्तु पञ्च तासु कुलोद्वहाः ॥ १३.२१। ०१३०२२१ तपसा चैव महता जाता वृद्धस्य चात्मजाः । ०१३०२२२ नृगायास्तु नृगः पुत्रः कृम्यां कृमिरजायत ॥ १३.२२। ०१३०२३१ नवायास्तु नवः पुत्रो दर्वायाः सुव्रतो ऽभवत् । ०१३०२३२ दृषद्वत्यास्तु सञ्जज्ञे शिबिरौशीनरो नृपः ॥ १३.२३। ०१३०२४१ शिबेस्तु शिबयो विप्रा यौधेयास्तु नृगस्य ह । ०१३०२४२ नवस्य नवराष्ट्रं तु कृमेस्तु कृमिला पुरी ॥ १३.२४। ०१३०२५१ सुव्रतस्य तथाम्बष्ठाः शिबिपुत्रान्निबोधत । ०१३०२५२ शिबेस्तु शिबयः पुत्राश्चत्वारो लोकविश्रुताः ॥ १३.२५। ०१३०२६१ वृषदर्भः सुवीरश्च केकयो मद्रकस्तथा । ०१३०२६२ तेषां जनपदाः स्फीता केकया मद्रकास्तथा ॥ १३.२६। ०१३०२७१ वृषदर्भाः सुवीराश्च तितिक्षोस्तु प्रजास्त्विमाः । ०१३०२७२ तितिक्षुरभवद्राजा पूर्वस्यां दिशि भो द्विजाः ॥ १३.२७। ०१३०२८१ उषद्रथो महावीर्यः फेनस्तस्य सुतो ऽभवत् । ०१३०२८२ फेनस्य सुतपा जज्ञे ततः सुतपसो बलिः ॥ १३.२८। ०१३०२९१ जातो मानुषयोनौ तु स राजा काञ्चनेषुधिः । ०१३०२९२ महायोगी स तु बलिर्बभूव नृपतिः पुरा ॥ १३.२९। ०१३०३०१ पुत्रानुत्पादयामास पञ्च वंशकरान्भुवि । ०१३०३०२ अङ्गः प्रथमतो जज्ञे वङ्गः सुह्मस्तथैव च ॥ १३.३०। ०१३०३११ पुण्ड्रः कलिङ्गश्च तथा बालेयं क्षत्रमुच्यते । ०१३०३१२ बालेया ब्राह्मणाश्चैव तस्य वंशकरा भुवि ॥ १३.३१। ०१३०३२१ बलेश्च ब्रह्मणा दत्तो वरः प्रीतेन भो द्विजाः । ०१३०३२२ महायोगित्वमायुश्च कल्पस्य परिमाणतः ॥ १३.३२। ०१३०३३१ बले चाप्रतिमत्वं वै धर्मतत्त्वार्थदर्शनम् । ०१३०३३२ सङ्ग्रामे चाप्यजेयत्वं धर्मे चैव प्रधानताम् ॥ १३.३३। ०१३०३४१ त्रैलोक्यदर्शनं चापि प्राधान्यं प्रसवे तथा । ०१३०३४२ चतुरो नियतान्वर्णांस्त्वं च स्थापयितेति च ॥ १३.३४। ०१३०३५१ इत्युक्तो विभुना राजा बलिः शान्तिं परां ययौ । ०१३०३५२ कालेन महता विप्राः स्वं च स्थानमुपागमत् ॥ १३.३५। ०१३०३६१ तेषां जनपदाः पञ्च अङ्गा वङ्गाः ससुह्मकाः । ०१३०३६२ कलिङ्गाः पुण्ड्रकाश्चैव प्रजास्त्वङ्गस्य साम्प्रतम् ॥ १३.३६। ०१३०३७१ अङ्गपुत्रो महानासीद्राजेन्द्रो दधिवाहनः । ०१३०३७२ दधिवाहनपुत्रस्तु राजा दिविरथो ऽभवत् ॥ १३.३७। ०१३०३८१ पुत्रो दिविरथस्यासीच्छक्रतुल्यपराक्रमः । ०१३०३८२ विद्वान्धर्मरथो नाम तस्य चित्ररथः सुतः ॥ १३.३८। ०१३०३९१ तेन धर्मरथेनाथ तदा कालञ्जरे गिरौ । ०१३०३९२ यजता सह शक्रेण सोमः पीतो महात्मना ॥ १३.३९। ०१३०४०१ अथ चित्ररथस्यापि पुत्रो दशरथो ऽभवत् । ०१३०४०२ लोमपाद इति ख्यातो यस्य शान्ता सुताभवत् ॥ १३.४०। ०१३०४११ तस्य दाशरथिर्वीरश्चतुरङ्गो महायशाः । ०१३०४१२ ऋष्यशृङ्गप्रसादेन जज्ञे वंशविवर्धनः ॥ १३.४१। ०१३०४२१ चतुरङ्गस्य पुत्रस्तु पृथुलाक्ष इति स्मृतः । ०१३०४२२ पृथुलाक्षसुतो राजा चम्पो नाम महायशाः ॥ १३.४२। ०१३०४३१ चम्पस्य तु पुरी चम्पा या मालिन्यभवत्पुरा । ०१३०४३२ पूर्णभद्रप्रसादेन हर्यङ्गो ऽस्य सुतो ऽभवत् ॥ १३.४३। ०१३०४४१ ततो वैभाण्डकिस्तस्य वारणं शक्रवारणम् । ०१३०४४२ अवतारयामास महीं मन्त्रैर्वाहनमुत्तमम् ॥ १३.४४। ०१३०४५१ हर्यङ्गस्य सुतस्तत्र राजा भद्ररथः स्मृतः । ०१३०४५२ पुत्रो भद्ररथस्यासीद्बृहत्कर्मा प्रजेश्वरः ॥ १३.४५। ०१३०४६१ बृहद्दर्भः सुतस्तस्य यस्माज्जज्ञे बृहन्मनाः । ०१३०४६२ बृहन्मनास्तु राजेन्द्रो जनयामास वै सुतम् ॥ १३.४६। ०१३०४७१ नाम्ना जयद्रथं नाम यस्माद्दृढरथो नृपः । ०१३०४७२ आसीद्दृढरथस्यापि विश्वजिज्जनमेजयी ॥ १३.४७। ०१३०४८१ दायादस्तस्य वैकर्णो विकर्णस्तस्य चात्मजः । ०१३०४८२ तस्य पुत्रशतं त्वासीदङ्गानां कुलवर्धनम् ॥ १३.४८। ०१३०४९१ एते ऽङ्गवंशजाः सर्वे राजानः कीर्तिता मया । ०१३०४९२ सत्यव्रता महात्मानः प्रजावन्तो महारथाः ॥ १३.४९। ०१३०५०१ ऋचेयोस्तु मुनिश्रेष्ठा रौद्राश्वतनयस्य वै । ०१३०५०२ शृणुध्वं सम्प्रवक्ष्यामि वंशं राज्ञस्तु भो द्विजाः ॥ १३.५०। ०१३०५११ ऋचेयोस्तनयो राजा मतिनारो महीपतिः । ०१३०५१२ मतिनारसुतास्त्वासंस्त्रयः परमधार्मिकाः ॥ १३.५१। ०१३०५२१ वसुरोधः प्रतिरथः सुबाहुश्चैव धार्मिकः । ०१३०५२२ सर्वे वेदविदश्चैव ब्रह्मण्याः सत्यवादिनः ॥ १३.५२। ०१३०५३१ इला नाम तु यस्यासीत्कन्या वै मुनिसत्तमाः । ०१३०५३२ ब्रह्मवादिन्यधिस्त्री सा तंसुस्तामभ्यगच्छत ॥ १३.५३। ०१३०५४१ तंसोः सुतो ऽथ राजर्षिर्धर्मनेत्रः प्रतापवान् । ०१३०५४२ ब्रह्मवादी पराक्रान्तस्तस्य भार्योपदानवी ॥ १३.५४। ०१३०५५१ उपदानवी ततः पुत्रांश्चतुरो ऽजनयच्छुबान् । ०१३०५५२ दुष्यन्तमथ सुष्मन्तं प्रवीरमनघं तथा ॥ १३.५५। ०१३०५६१ दुष्यन्तस्य तु दायादो भरतो नाम वीर्यवान् । ०१३०५६२ स सर्वदमनो नाम नागायुतबलो महान् ॥ १३.५६। ०१३०५७१ चक्रवर्ती सुतो जज्ञे दुष्यन्तस्य महात्मनः । ०१३०५७२ शकुन्तलायां भरतो यस्य नाम्ना तु भारताः ॥ १३.५७। ०१३०५८१ भरतस्य विनष्टेषु तनयेषु महीपतेः । ०१३०५८२ मातॄणां तु प्रकोपेण मया तत्कथितं पुरा ॥ १३.५८। ०१३०५९१ बृहस्पतेरङ्गिरसः पुत्रो विप्रो महामुनिः । ०१३०५९२ अयाजयद्भरद्वाजो महद्भिः क्रतुभिर्विभुः ॥ १३.५९। ०१३०६०१ पूर्वं तु वितथे तस्य कृते वै पुत्रजन्मनि । ०१३०६०२ ततो ऽथ वितथो नाम भरद्वाजात्सुतो ऽभवत् ॥ १३.६०। ०१३०६११ ततो ऽथ वितथे जाते भरतस्तु दिवं ययौ । ०१३०६१२ वितथं चाभिषिच्याथ भरद्वाजो वनं ययौ ॥ १३.६१। ०१३०६२१ स चापि वितथः पुत्राञ्जनयामास पञ्च वै । ०१३०६२२ सुहोत्रं च सुहोतारं गयं गर्गं तथैव च ॥ १३.६२। ०१३०६३१ कपिलं च महात्मानं सुहोत्रस्य सुतद्वयम् । ०१३०६३२ काशिकं च महासत्यं तथा गृत्समतिं नृपम् ॥ १३.६३। ०१३०६४१ तथा गृत्समतेः पुत्रा ब्राह्मणाः क्षत्रिया विशः । ०१३०६४२ काशिकस्य तु काशेयः पुत्रो दीर्घतपास्तथा ॥ १३.६४। ०१३०६५१ बभूव दीर्घतपसो विद्वान्धन्वन्तरिः सुतः । ०१३०६५२ धन्वन्तरेस्तु तनयः केतुमानिति विश्रुतः ॥ १३.६५। ०१३०६६१ तथा केतुमतः पुत्रो विद्वान्भीमरथः स्मृतः । ०१३०६६२ पुत्रो भीमरथस्यापि वाराणस्यधिपो ऽभवत् ॥ १३.६६। ०१३०६७१ दिवोदास इति ख्यातः सर्वक्षत्रप्रणाशनः । ०१३०६७२ दिवोदासस्य पुत्रस्तु वीरो राजा प्रतर्दनः ॥ १३.६७। ०१३०६८१ प्रतर्दनस्य पुत्रौ द्वौ वत्सो भार्गव एव च । ०१३०६८२ अलर्को राजपुत्रस्तु राजा सन्मतिमान्भुवि ॥ १३.६८। ०१३०६९१ हैहयस्य तु दायाद्यं हृतवान्वै महीपतिः । ०१३०६९२ आजह्रे पितृदायाद्यं दिवोदासहृतं बलात् ॥ १३.६९। ०१३०७०१ भद्रश्रेण्यस्य पुत्रेण दुर्दमेन महात्मना । ०१३०७०२ दिवोदासेन बालेति घृणयासौ विसर्जितः ॥ १३.७०। ०१३०७११ अष्टारथो नाम नृपः सुतो भीमरथस्य वै । ०१३०७१२ तेन पुत्रेण बालस्य प्रहृतं तस्य भो द्विजाः ॥ १३.७१। ०१३०७२१ वैरस्यान्तं मुनिश्रेष्ठाः क्षत्रियेण विधित्सता । ०१३०७२२ अलर्कः काशिराजस्तु ब्रह्मण्यः सत्यसङ्गरः ॥ १३.७२। ०१३०७३१ षष्टिं वर्षसहस्राणि षष्टिं वर्षशतानि च । ०१३०७३२ युवा रूपेण सम्पन्न आसीत्काशिकुलोद्वहः ॥ १३.७३। ०१३०७४१ लोपामुद्राप्रसादेन परमायुरवाप सः । ०१३०७४२ वयसो ऽन्ते मुनिश्रेष्ठा हत्वा क्षेमकराक्षसम् ॥ १३.७४। ०१३०७५१ रम्यां निवेशयामास पुरीं वाराणसीं नृपः । ०१३०७५२ अलर्कस्य तु दायादः क्षेमको नाम पार्थिवः ॥ १३.७५। ०१३०७६१ क्षेमकस्य तु पुत्रो वै वर्षकेतुस्ततो ऽभवत् । ०१३०७६२ वर्षकेतोश्च दायादो विभुर्नाम प्रजेश्वरः ॥ १३.७६। ०१३०७७१ आनर्तस्तु विभोः पुत्रः सुकुमारस्ततो ऽभवत् । ०१३०७७२ सुकुमारस्य पुत्रस्तु सत्यकेतुर्महारथः ॥ १३.७७। ०१३०७८१ सुतो ऽभवन्महातेजा राजा परमधार्मिकः । ०१३०७८२ वत्सस्य वत्सभूमिस्तु भर्गभूमिस्तु भार्गवात् ॥ १३.७८। ०१३०७९१ एते त्वङ्गिरसः पुत्रा जाता वंशे ऽथ भार्गवे । ०१३०७९२ ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च मुनिसत्तमाः ॥ १३.७९। ०१३०८०१ आजमीढो ऽपरो वंशः श्रूयतां द्विजसत्तमाः । ०१३०८०२ सुहोत्रस्य बृहत्पुत्रो बृहतस्तनयास्त्रयः ॥ १३.८०। ०१३०८११ अजमीढो द्विमीढश्च पुरुमीढश्च वीर्यवान् । ०१३०८१२ अजमीढस्य पत्न्यस्तु तिस्रो वै यशसान्विताः ॥ १३.८१। ०१३०८२१ नीली च केशिनी चैव धूमिनी च वराङ्गनाः । ०१३०८२२ अजमीढस्य केशिन्यां जज्ञे जह्नुः प्रतापवान् ॥ १३.८२। ०१३०८३१ आजह्रे यो महासत्त्रं सर्वमेधमखं विभुम् । ०१३०८३२ पतिलोभेन यं गङ्गा विनीतेव ससार ह ॥ १३.८३। ०१३०८४१ नेच्छतः प्लावयामास तस्य गङ्गा च तत्सदः । ०१३०८४२ तत्तया प्लावितं दृष्ट्वा यज्ञवाटं समन्ततः ॥ १३.८४। ०१३०८५१ जह्नुरप्यब्रवीद्गङ्गां क्रुद्धो विप्रास्तदा नृपः । ०१३०८५२ एष ते त्रिषु लोकेषु सङ्क्षिप्यापः पिबाम्यहम् । ०१३०८५३ अस्य गङ्गे ऽवलेपस्य सद्यः फलमवाप्नुहि ॥ १३.८५। ०१३०८६१ ततः पीतां महात्मानो दृष्ट्वा गङ्गां महर्षयः । ०१३०८६२ उपनिन्युर्महाभागा दुहितृत्वेन जाह्नवीम् ॥ १३.८६। ०१३०८७१ युवनाश्वस्य पुत्रीं तु कावेरीं जह्नुरावहत् । ०१३०८७२ गङ्गाशापेन देहार्धं यस्याः पश्चान्नदीकृतम् ॥ १३.८७। ०१३०८८१ जह्नोस्तु दयितः पुत्रो अजको नाम वीर्यवान् । ०१३०८८२ अजकस्य तु दायादो बलाकाश्वो महीपतिः ॥ १३.८८। ०१३०८९१ बभूव मृगयाशीलः कुशिकस्तस्य चात्मजः । ०१३०८९२ पह्नवैः सह संवृद्धो राजा वनचरैः सह ॥ १३.८९। ०१३०९०१ कुशिकस्तु तपस्तेपे पुत्रमिन्द्रसमं विभुम् । ०१३०९०२ लभेयमिति तं शक्रस्त्रासादभ्येत्य जज्ञिवान् ॥ १३.९०। ०१३०९११ स गाधिरभवद्राजा मघवा कौशिकः स्वयम् । ०१३०९१२ विश्वामित्रस्तु गाधेयो विश्वामित्रात्तथाष्टकः ॥ १३.९१। ०१३०९२१ अष्टकस्य सुतो लौहिः प्रोक्तो जह्नुगणो मया । ०१३०९२२ आजमीढो ऽपरो वंशः श्रूयतां मुनिसत्तमाः ॥ १३.९२। ०१३०९३१ अजमीढात्तु नील्यां वै सुशान्तिरुदपद्यत । ०१३०९३२ पुरुजातिः सुशान्तेश्च बाह्याश्वः पुरुजातितः ॥ १३.९३। ०१३०९४१ बाह्याश्वतनयाः पञ्च स्फीता जनपदावृताः । ०१३०९४२ मुद्गलः सृञ्जयश्चैव राजा बृहदिषुस्तदा ॥ १३.९४। ०१३०९५१ यवीनरश्च विक्रान्तः कृमिलाश्वश्च पञ्चमः । ०१३०९५२ पञ्चैते रक्षणायालं देशानामिति विश्रुताः ॥ १३.९५। ०१३०९६१ पञ्चानां ते तु पञ्चालाः स्फीता जनपदावृताः । ०१३०९६२ अलं संरक्षणे तेषां पञ्चाला इति विश्रुताः ॥ १३.९६। ०१३०९७१ मुद्गलस्य तु दायादो मौद्गल्यः सुमहायशाः । ०१३०९७२ इन्द्रसेना यतो गर्भं वध्न्यं च प्रत्यपद्यत ॥ १३.९७। ०१३०९८१ आसीत्पञ्चजनः पुत्रः सृञ्जयस्य महात्मनः । ०१३०९८२ सुतः पञ्चजनस्यापि सोमदत्तो महीपतिः ॥ १३.९८। ०१३०९९१ सोमदत्तस्य दायादः सहदेवो महायशाः । ०१३०९९२ सहदेवसुतश्चापि सोमको नाम विश्रुतः ॥ १३.९९। ०१३१००१ अजमीढसुतो जातः क्षीणे वंशे तु सोमकः । ०१३१००२ सोमकस्य सुतो जन्तुर्यस्य पुत्रशतं बभौ ॥ १३.१००। ०१३१०११ तेषां यवीयान्पृषतो द्रुपदस्य पिता प्रभुः । ०१३१०१२ आजमीढाः स्मृताश्चैते महात्मानस्तु सोमकाः ॥ १३.१०१। ०१३१०२१ महिषी त्वजमीढस्य धूमिनी पुत्रगृद्धिनी । ०१३१०२२ पतिव्रता महाभागा कुलजा मुनिसत्तमाः ॥ १३.१०२। ०१३१०३१ सा च पुत्रार्थिनी देवी व्रतचर्यासमन्विता । ०१३१०३२ ततो वर्षायुतं तप्त्वा तपः परमदुश्चरम् ॥ १३.१०३। ०१३१०४१ हुत्वाग्निं विधिवत्सा तु पवित्रा मितभोजना । ०१३१०४२ अग्निहोत्रकुशेष्वेव सुष्वाप मुनिसत्तमाः ॥ १३.१०४। ०१३१०५१ धूमिन्या स तया देव्या त्वजमीढः समीयिवान् । ०१३१०५२ ऋक्षं सञ्जनयामास धूम्रवर्णं सुदर्शनम् ॥ १३.१०५। ०१३१०६१ ऋक्षात्संवरणो जज्ञे कुरुः संवरणात्तथा । ०१३१०६२ यः प्रयागादतिक्रम्य कुरुक्षेत्रं चकार ह ॥ १३.१०६। ०१३१०७१ पुण्यं च रमणीयं च पुण्यकृद्भिर्निषेवितम् । ०१३१०७२ तस्यान्ववायः सुमहान्यस्य नाम्नाथ कौरवाः ॥ १३.१०७। ०१३१०८१ कुरोश्च पुत्राश्चत्वारः सुधन्वा सुधनुस्तथा । ०१३१०८२ परीक्षिच्च महाबाहुः प्रवरश्चारिमेजयः ॥ १३.१०८। ०१३१०९१ परीक्षितस्तु दायादो धार्मिको जनमेजयः । ०१३१०९२ श्रुतसेनो ऽग्रसेनश्च भीमसेनश्च नामतः ॥ १३.१०९। ०१३११०१ एते सर्वे महाभागा विक्रान्ता बलशालिनः । ०१३११०२ जनमेजयस्य पुत्रस्तु सुरथो मतिमांस्तथा ॥ १३.११०। ०१३११११ सुरथस्य तु विक्रान्तः पुत्रो जज्ञे विदूरथः । ०१३१११२ विदूरथस्य दायाद ऋक्ष एव महारथः ॥ १३.१११। ०१३११२१ द्वितीयस्तु भरद्वाजान्नाम्ना तेनैव विश्रुतः । ०१३११२२ द्वावृक्षौ सोमवंशे ऽस्मिन्द्वावेव च परीक्षितौ ॥ १३.११२। ०१३११३१ भीमसेनास्त्रयो विप्रा द्वौ चापि जनमेजयौ । ०१३११३२ ऋक्षस्य तु द्वितीयस्य भीमसेनो ऽभवत्सुतः ॥ १३.११३। ०१३११४१ प्रतीपो भीमसेनात्तु प्रतीपस्य तु शान्तनुः । ०१३११४२ देवापिर्बाह्लिकश्चैव त्रय एव महारथाः ॥ १३.११४। ०१३११५१ शान्तनोस्त्वभवद्भीष्मस्तस्मिन्वंशे द्विजोत्तमाः । ०१३११५२ बाह्लिकस्य तु राजर्षेर्वंशं शृणुत भो द्विजाः ॥ १३.११५। ०१३११६१ बाह्लिकस्य सुतश्चैव सोमदत्तो महायशाः । ०१३११६२ जज्ञिरे सोमदत्तात्तु भूरिर्भूरिश्रवाः शलः ॥ १३.११६। ०१३११७१ उपाध्यायस्तु देवानां देवापिरभवन्मुनिः । ०१३११७२ च्यवनपुत्रः कृतक इष्ट आसीन्महात्मनः ॥ १३.११७। ०१३११८१ शान्तनुस्त्वभवद्राजा कौरवाणां धुरन्धरः । ०१३११८२ शान्तनोः सम्प्रवक्ष्यामि वंशं त्रैलोक्यविश्रुतम् ॥ १३.११८। ०१३११९१ गाङ्गं देवव्रतं नाम पुत्रं सो ऽजनयत्प्रभुः । ०१३११९२ स तु भीष्म इति ख्यातः पाण्डवानां पितामहः ॥ १३.११९। ०१३१२०१ काली विचित्रवीर्यं तु जनयामास भो द्विजाः । ०१३१२०२ शान्तनोर्दयितं पुत्रं धर्मात्मानमकल्मषम् ॥ १३.१२०। ०१३१२११ कृष्णद्वैपायनाच्चैव क्षेत्रे वैचित्रवीर्यके । ०१३१२१२ धृतराष्ट्रं च पाण्डुं च विदुरं चाप्यजीजनत् ॥ १३.१२१। ०१३१२२१ धृतराष्ट्रस्तु गान्धार्यां पुत्रानुत्पादयच्छतम् । ०१३१२२२ तेषां दुर्योधनः श्रेष्ठः सर्वेषामपि स प्रभुः ॥ १३.१२२। ०१३१२३१ पाण्डोर्धनञ्जयः पुत्रः सौभद्रस्तस्य चात्मजः । ०१३१२३२ अभिमन्योः परीक्षित्तु पिता पारीक्षितस्य ह ॥ १३.१२३। ०१३१२४१ पारीक्षितस्य काश्यायां द्वौ पुत्रौ सम्बभूवतुः । ०१३१२४२ चन्द्रापीडस्तु नृपतिः सूर्यापीडश्च मोक्षवित् ॥ १३.१२४। ०१३१२५१ चन्द्रापीडस्य पुत्राणां शतमुत्तमधन्विनाम् । ०१३१२५२ जानमेजयमित्येवं क्षात्रं भुवि परिश्रुतम् ॥ १३.१२५। ०१३१२६१ तेषां ज्येष्ठस्तु तत्रासीत्पुरे वारणसाह्वये । ०१३१२६२ सत्यकर्णो महाबाहुर्यज्वा विपुलदक्षिणः ॥ १३.१२६। ०१३१२७१ सत्यकर्णस्य दायादः श्वेतकर्णः प्रतापवान् । ०१३१२७२ अपुत्रः स तु धर्मात्मा प्रविवेश तपोवनम् ॥ १३.१२७। ०१३१२८१ तस्माद्वनगता गर्भं यादवी प्रत्यपद्यत । ०१३१२८२ सुचारोर्दुहिता सुभ्रूर्मालिनी ग्राहमालिनी ॥ १३.१२८। ०१३१२९१ सम्भूते स च गर्भे च श्वेतकर्णः प्रजेश्वरः । ०१३१२९२ अन्वगच्छत्कृतं पूर्वं महाप्रस्थानमच्युतम् ॥ १३.१२९। ०१३१३०१ सा तु दृष्ट्वा प्रियं तं तु मालिनी पृष्ठतो ऽन्वगात् । ०१३१३०२ सुचारोर्दुहिता साध्वी वने राजीवलोचना ॥ १३.१३०। ०१३१३११ पथि सा सुषुवे बाला सुकुमारं कुमारकम् । ०१३१३१२ तमपास्याथ तत्रैव राजानं सान्वगच्छत ॥ १३.१३१। ०१३१३२१ पतिव्रता महाभागा द्रौपदीव पुरा सती । ०१३१३२२ कुमारः सुकुमारो ऽसौ गिरिपृष्ठे रुरोद ह ॥ १३.१३२। ०१३१३३१ दयार्थं तस्य मेघास्तु प्रादुरासन्महात्मनः । ०१३१३३२ श्रविष्ठायास्तु पुत्रौ द्वौ पैप्पलादिश्च कौशिकः ॥ १३.१३३। ०१३१३४१ दृष्ट्वा कृपान्वितौ गृह्य तौ प्राक्षालयतां जले । ०१३१३४२ निघृष्टौ तस्य पार्श्वौ तु शिलायां रुधिरप्लुतौ ॥ १३.१३४। ०१३१३५१ अजश्यामः स पार्श्वाभ्यां घृष्टाभ्यां सुसमाहितः । ०१३१३५२ अजश्यामौ तु तत्पार्श्वौ देवेन सम्बभूवतुः ॥ १३.१३५। ०१३१३६१ अथाजपार्श्व इति वै चक्राते नाम तस्य तौ । ०१३१३६२ स तु रेमकशालायां द्विजाभ्यामभिवर्धितः ॥ १३.१३६। ०१३१३७१ रेमकस्य तु भार्या तमुद्वहत्पुत्रकारणात् । ०१३१३७२ रेमत्याः स तु पुत्रो ऽभूद्ब्राह्मणौ सचिवौ तु तौ ॥ १३.१३७। ०१३१३८१ तेषां पुत्राश्च पौत्राश्च युगपत्तुल्यजीविनः । ०१३१३८२ स एष पौरवो वंशः पाण्डवानां महात्मनाम् ॥ १३.१३८। ०१३१३९१ श्लोको ऽपि चात्र गीतो ऽयं नाहुषेण ययातिना । ०१३१३९२ जरासङ्क्रमणे पूर्वं तदा प्रीतेन धीमता ॥ १३.१३९। ०१३१४०१ अचन्द्रार्कग्रहा भूमिर्भवेदियमसंशयम् । ०१३१४०२ अपौरवा मही नैव भविष्यति कदाचन ॥ १३.१४०। ०१३१४११ एष वः पौरवो वंशो विख्यातः कथितो मया । ०१३१४१२ तुर्वसोस्तु प्रवक्ष्यामि द्रुह्योश्चानोर्यदोस्तथा ॥ १३.१४१। ०१३१४२१ तुर्वसोस्तु सुतो वह्निर्गोभानुस्तस्य चात्मजः । ०१३१४२२ गोभानोस्तु सुतो राजा ऐशानुरपराजितः ॥ १३.१४२। ०१३१४३१ करन्धमस्तु ऐशानोर्मरुत्तस्तस्य चात्मजः । ०१३१४३२ अन्यस्त्वाविक्षितो राजा मरुत्तः कथितो मया ॥ १३.१४३। ०१३१४४१ अनपत्यो ऽभवद्राजा यज्वा विपुलदक्षिणः । ०१३१४४२ दुहिता संयता नाम तस्यासीत्पृथिवीपतेः ॥ १३.१४४। ०१३१४५१ दक्षिणार्थं तु सा दत्ता संवर्ताय महात्मने । ०१३१४५२ दुष्यन्तं पौरवं चापि लेभे पुत्रमकल्मषम् ॥ १३.१४५। ०१३१४६१ एवं ययातिशापेन जरासङ्क्रमणे तदा । ०१३१४६२ पौरवं तुर्वसोर्वंशं प्रविवेश द्विजोत्तमाः ॥ १३.१४६। ०१३१४७१ दुष्यन्तस्य तु दायादः करूरोमः प्रजेश्वरः । ०१३१४७२ करूरोमादथाह्रीदश्चत्वारस्तस्य चात्मजाः ॥ १३.१४७। ०१३१४८१ पाण्ड्यश्च केरलश्चैव कालश्चोलश्च पार्थिवः । ०१३१४८२ द्रुह्योश्च तनयो राजन्बभ्रुसेतुश्च पार्थिवः ॥ १३.१४८। ०१३१४९१ अङ्गारसेतुस्तत्पुत्रो मरुतां पतिरुच्यते । ०१३१४९२ यौवनाश्वेन समरे कृच्छ्रेण निहतो बली ॥ १३.१४९। ०१३१५०१ युद्धं सुमहदप्यासीन्मासान्परिचरद्दश । ०१३१५०२ अङ्गारसेतोर्दायादो गान्धारो नाम पार्थिवः ॥ १३.१५०। ०१३१५११ ख्यायते यस्य नाम्ना वै गान्धारविषयो महान् । ०१३१५१२ गान्धारदेशजाश्चैव तुरगा वाजिनां वराः ॥ १३.१५१। ०१३१५२१ अनोस्तु पुत्रो धर्मो ऽभूद्द्यूतस्तस्यात्मजो ऽभवत् । ०१३१५२२ द्यूताद्वनदुहो जज्ञे प्रचेतास्तस्य चात्मजः ॥ १३.१५२। ०१३१५३१ प्रचेतसः सुचेतास्तु कीर्तितास्त्वनवो मया । ०१३१५३२ बभूवुस्तु यदोः पुत्राः पञ्च देवसुतोपमाः ॥ १३.१५३। ०१३१५४१ सहस्रादः पयोदश्च क्रोष्टा नीलो ऽञ्जिकस्तथा । ०१३१५४२ सहस्रादस्य दायादास्त्रयः परमधार्मिकाः ॥ १३.१५४। ०१३१५५१ हैहयश्च हयश्चैव राजा वेणुहयस्तथा । ०१३१५५२ हैहयस्याभवत्पुत्रो धर्मनेत्र इति श्रुतः ॥ १३.१५५। ०१३१५६१ धर्मनेत्रस्य कार्तस्तु साहञ्जस्तस्य चात्मजः । ०१३१५६२ साहञ्जनी नाम पुरी तेन राज्ञा निवेशिता ॥ १३.१५६। ०१३१५७१ आसीन्महिष्मतः पुत्रो भद्रश्रेण्यः प्रतापवान् । ०१३१५७२ भद्रश्रेण्यस्य दायादो दुर्दमो नाम विश्रुतः ॥ १३.१५७। ०१३१५८१ दुर्दमस्य सुतो धीमान्कनको नाम नामतः । ०१३१५८२ कनकस्य तु दायादाश्चत्वारो लोकविश्रुताः ॥ १३.१५८। ०१३१५९१ कृतवीर्यः कृतौजाश्च कृतधन्वा तथैव च । ०१३१५९२ कृताग्निस्तु चतुर्थो ऽभूत्कृतवीर्यादथार्जुनः ॥ १३.१५९। ०१३१६०१ यो ऽसौ बाहुसहस्रेण सप्तद्वीपेश्वरो ऽभवत् । ०१३१६०२ जिगाय पृथिवीमेको रथेनादित्यवर्चसा ॥ १३.१६०। ०१३१६११ स हि वर्षायुतं तप्त्वा तपः परमदुश्चरम् । ०१३१६१२ दत्तमाराधयामास कार्तवीर्यो ऽत्रिसम्भवम् ॥ १३.१६१। ०१३१६२१ तस्मै दत्तो वरान्प्रादाच्चतुरो भूरितेजसः । ०१३१६२२ पूर्वं बाहुसहस्रं तु प्रार्थितं सुमहद्वरम् ॥ १३.१६२। ०१३१६३१ अधर्मे ऽधीयमानस्य सद्भिस्तत्र निवारणम् । ०१३१६३२ उग्रेण पृथिवीं जित्वा धर्मेणैवानुरञ्जनम् ॥ १३.१६३। ०१३१६४१ सङ्ग्रामान्सुबहूञ्जित्वा हत्वा चारीन्सहस्रशः । ०१३१६४२ सङ्ग्रामे वर्तमानस्य वधं चाभ्यधिकाद्रणे ॥ १३.१६४। ०१३१६५१ तस्य बाहुसहस्रं तु युध्यतः किल भो द्विजाः । ०१३१६५२ योगाद्योगीश्वरस्येव प्रादुर्भवति मायया ॥ १३.१६५। ०१३१६६१ तेनेयं पृथिवी सर्वा सप्तद्वीपा सपत्तना । ०१३१६६२ ससमुद्रा सनगरा उग्रेण विधिना जिता ॥ १३.१६६। ०१३१६७१ तेन सप्तसु द्वीपेषु सप्त यज्ञशतानि च । ०१३१६७२ प्राप्तानि विधिना राज्ञा श्रूयन्ते मुनिसत्तमाः ॥ १३.१६७। ०१३१६८१ सर्वे यज्ञा मुनिश्रेष्ठाः सहस्रशतदक्षिणाः । ०१३१६८२ सर्वे काञ्चनयूपाश्च सर्वे काञ्चनवेदयः ॥ १३.१६८। ०१३१६९१ सर्वे देवैर्मुनिश्रेष्ठा विमानस्थैरलङ्कृतैः । ०१३१६९२ गन्धर्वैरप्सरोभिश्च नित्यमेवोपशोभिताः ॥ १३.१६९। ०१३१७०१ यस्य यज्ञे जगौ गाथां गन्धर्वो नारदस्तथा । ०१३१७०२ वरीदासात्मजो विद्वान्महिम्ना तस्य विस्मितः ॥ १३.१७०। ०१३१७१० नारद उवाच ०१३१७११ न नूनं कार्तवीर्यस्य गतिं यास्यन्ति पार्थिवाः । ०१३१७१२ यज्ञैर्दानैस्तपोभिश्च विक्रमेण श्रुतेन च ॥ १३.१७१। ०१३१७२१ स हि सप्तसु द्वीपेषु चर्मी खड्गी शरासनी । ०१३१७२२ रथी द्वीपाननुचरन्योगी सन्दृश्यते नृभिः ॥ १३.१७२। ०१३१७३१ अनष्टद्रव्यता चैव न शोको न च विभ्रमः । ०१३१७३२ प्रभावेण महाराज्ञः प्रजा धर्मेण रक्षतः ॥ १३.१७३। ०१३१७४१ स सर्वरत्नभाक्सम्राट्चक्रवर्ती बभूव ह । ०१३१७४२ स एव पशुपालो ऽभूत्क्षेत्रपालः स एव च ॥ १३.१७४। ०१३१७५१ सैव वृष्ट्या पर्जन्यो योगित्वादर्जुनो ऽभवत् । ०१३१७५२ स वै बाहुसहस्रेण ज्याघातकठिनत्वचा ॥ १३.१७५। ०१३१७६१ भाति रश्मिसहस्रेण शरदीव च भास्करः । ०१३१७६२ स हि नागान्मनुष्येषु माहिष्मत्यां महाद्युतिः ॥ १३.१७६। ०१३१७७१ कर्कोटकसुताञ्जित्वा पुर्यां तस्यां न्यवेशयत् । ०१३१७७२ स वै वेगं समुद्रस्य प्रावृट्काले ऽम्बुजेक्षणः ॥ १३.१७७। ०१३१७८१ क्रीडन्निव भुजोद्भिन्नं प्रतिस्रोतश्चकार ह । ०१३१७८२ लुण्ठिता क्रीडता तेन नदी तद्ग्राममालिनी ॥ १३.१७८। ०१३१७९१ चलदूर्मिसहस्रेण शङ्किताभ्येति नर्मदा । ०१३१७९२ तस्य बाहुसहस्रेण क्षिप्यमाणे महोदधौ ॥ १३.१७९। ०१३१८०१ भयान्निलीना निश्चेष्ठाः पातालस्था महीसुराः । ०१३१८०२ चूर्णीकृतमहावीचिं चलन्मीनमहातिमिम् ॥ १३.१८०। ०१३१८११ मारुताविद्धफेनौघमावर्तक्षोभसङ्कुलम् । ०१३१८१२ प्रावर्तयत्तदा राजा सहस्रेण च बाहुना ॥ १३.१८१। ०१३१८२१ देवासुरसमाक्षिप्तः क्षीरोदमिव मन्दरः । ०१३१८२२ मन्दरक्षोभचकिता अमृतोत्पादशङ्किताः ॥ १३.१८२। ०१३१८३१ सहसोत्पतिता भीता भीमं दृष्ट्वा नृपोत्तमम् । ०१३१८३२ नता निश्चलमूर्धानो बभूवुस्ते महोरगाः ॥ १३.१८३। ०१३१८४१ सायाह्ने कदलीखण्डाः कम्पिता इव वायुना । ०१३१८४२ स वै बद्ध्वा धनुर्ज्याभिरुत्सिक्तं पञ्चभिः शरैः ॥ १३.१८४। ०१३१८५१ लङ्केशं मोहयित्वा तु सबलं रावणं बलात् । ०१३१८५२ निर्जित्य वशमानीय माहिष्मत्यां बबन्ध तम् ॥ १३.१८५। ०१३१८६१ श्रुत्वा तु बद्धं पौलस्त्यं रावणं त्वर्जुनेन च । ०१३१८६२ ततो गत्वा पुलस्त्यस्तमर्जुनं ददृशे स्वयम् ॥ १३.१८६। ०१३१८७१ मुमोच रक्षः पौलस्त्यं पुलस्त्येनाभियाचितः । ०१३१८७२ यस्य बाहुसहस्रस्य बभूव ज्यातलस्वनः ॥ १३.१८७। ०१३१८८१ युगान्ते तोयदस्येव स्फुटतो ह्यशनेरिव । ०१३१८८२ अहो बत मृधे वीर्यं भार्गवस्य यदच्छिनत् ॥ १३.१८८। ०१३१८९१ राज्ञो बाहुसहस्रस्य हैमं तालवनं यथा । ०१३१८९२ तृषितेन कदाचित्स भिक्षितश्चित्रभानुना ॥ १३.१८९। ०१३१९०१ स भिक्षामददाद्वीरः सप्त द्वीपान्विभावसोः । ०१३१९०२ पुराणि ग्रामघोषांश्च विषयांश्चैव सर्वशः ॥ १३.१९०। ०१३१९११ जज्वाल तस्य सर्वाणि चित्रभानुर्दिधृक्षया । ०१३१९१२ स तस्य पुरुषेन्द्रस्य प्रभावेण महात्मनः ॥ १३.१९१। ०१३१९२१ ददाह कार्तवीर्यस्य शैलांश्चैष वनानि च । ०१३१९२२ स शून्यमाश्रमं रम्यं वरुणस्यात्मजस्य वै ॥ १३.१९२। ०१३१९३१ ददाह बलवद्भीतश्चित्रभानुः स हैहयः । ०१३१९३२ यं लेभे वरुणः पुत्रं पुरा भास्वन्तमुत्तमम् ॥ १३.१९३। ०१३१९४१ वसिष्ठं नाम स मुनिः ख्यात आपव इत्युत । ०१३१९४२ यत्रापवस्तु तं क्रोधाच्छप्तवानर्जुनं विभुः ॥ १३.१९४। ०१३१९५१ यस्मान्न वर्जितमिदं वनं ते मम हैहय । ०१३१९५२ तस्मात्ते दुष्करं कर्म कृतमन्यो हनिष्यति ॥ १३.१९५। ०१३१९६१ रामो नाम महाबाहुर्जामदग्न्यः प्रतापवान् । ०१३१९६२ छित्त्वा बाहुसहस्रं ते प्रमथ्य तरसा बली ॥ १३.१९६। ०१३१९७१ तपस्वी ब्राह्मणस्त्वां तु हनिष्यति स भार्गवः । ०१३१९७२ अनष्टद्रव्यता यस्य बभूवामित्रकर्षिणः ॥ १३.१९७। ०१३१९८१ प्रतापेन नरेन्द्रस्य प्रजा धर्मेण रक्षतः । ०१३१९८२ प्राप्तस्ततो ऽस्य मृत्युर्वै तस्य शापान्महामुनेः ॥ १३.१९८। ०१३१९९१ वरस्तथैव भो विप्राः स्वयमेव वृतः पुरा । ०१३१९९२ तस्य पुत्रशतं त्वासीत्पञ्च शेषा महात्मनः ॥ १३.१९९। ०१३२००१ कृतास्त्रा बलिनः शूरा धर्मात्मानो यशस्विनः । ०१३२००२ शूरसेनश्च शूरश्च वृषणो मधुपध्वजः ॥ १३.२००। ०१३२०११ जयध्वजश्च नाम्नासीदावन्त्यो नृपतिर्महान् । ०१३२०१२ कार्तवीर्यस्य तनया वीर्यवन्तो महाबलाः ॥ १३.२०१। ०१३२०२१ जयध्वजस्य पुत्रस्तु तालजङ्घो महाबलः । ०१३२०२२ तस्य पुत्रशतं ख्यातास्तालजङ्घा इति स्मृताः ॥ १३.२०२। ०१३२०३१ तेषां कुले मुनिश्रेष्ठा हैहयानां महात्मनाम् । ०१३२०३२ वीतिहोत्राः सुजाताश्च भोजाश्चावन्तयः स्मृताः ॥ १३.२०३। ०१३२०४१ तौण्डिकेराश्च विख्यातास्तालजङ्घास्तथैव च । ०१३२०४२ भरताश्च सुजाताश्च बहुत्वान्नानुकीर्तिताः ॥ १३.२०४। ०१३२०५१ वृषप्रभृतयो विप्रा यादवाः पुण्यकर्मिणः । ०१३२०५२ वृषो वंशधरस्तत्र तस्य पुत्रो ऽभवन्मधुः ॥ १३.२०५। ०१३२०६१ मधोः पुत्रशतं त्वासीद्वृषणस्तस्य वंशकृत् । ०१३२०६२ वृषणाद्वृष्णयः सर्वे मधोस्तु माधवाः स्मृताः ॥ १३.२०६। ०१३२०७१ यादवा यदुनाम्ना ते निरुच्यन्ते च हैहयाः । ०१३२०७२ न तस्य वित्तनाशः स्यान्नष्टं प्रति लभेच्च सः ॥ १३.२०७। ०१३२०८१ कार्तवीर्यस्य यो जन्म कथयेदिह नित्यशः । ०१३२०८२ एते ययातिपुत्राणां पञ्च वंशा द्विजोत्तमाः ॥ १३.२०८। ०१३२०९१ कीर्तिता लोकवीराणां ये लोकान्धारयन्ति वै । ०१३२०९२ भूतानीव मुनिश्रेष्ठाः पञ्च स्थावरजङ्गमान् ॥ १३.२०९। ०१३२१०१ श्रुत्वा पञ्च विसर्गांस्तु राजा धर्मार्थकोविदः । ०१३२१०२ वशी भवति पञ्चानामात्मजानां तथेश्वरः ॥ १३.२१०। ०१३२१११ लभेत्पञ्च वरांश्चैव दुर्लभानिह लौकिकान् । ०१३२११२ आयुः कीर्तिं तथा पुत्रानैश्वर्यं भूतिमेव च ॥ १३.२११। ०१३२१२१ धारणाच्छ्रवणाच्चैव पञ्चवर्गस्य भो द्विजाः । ०१३२१२२ क्रोष्टोर्वंशं मुनिश्रेष्ठाः शृणुध्वं गदतो मम ॥ १३.२१२। ०१३२१३१ यदोर्वंशधरस्याथ यज्विनः पुण्यकर्मिणः । ०१३२१३२ क्रोष्टोर्वंशं हि श्रुत्वैव सर्वपापैः प्रमुच्यते । ०१३२१३३ यस्यान्ववायजो विष्णुर्हरिर्वृष्णिकुलोद्वहः ॥ १३.२१३। ०१४००१० लोमहर्षण उवाच ०१४००११ गान्धारी चैव माद्री च क्रोष्टोर्भार्ये बभूवतुः । ०१४००१२ गान्धारी जनयामास अनमित्रं महाबलम् ॥ १४.१। ०१४००२१ माद्री युधाजितं पुत्रं ततो ऽन्यं देवमीढुषम् । ०१४००२२ तेषां वंशस्त्रिधा भूतो वृष्णीनां कुलवर्धनः ॥ १४.२। ०१४००३१ माद्र्याः पुत्रौ तु जज्ञाते श्रुतौ वृष्ण्यन्धकावुभौ । ०१४००३२ जज्ञाते तनयौ वृष्णेः श्वफल्कश्चित्रकस्तथा ॥ १४.३। ०१४००४१ श्वफल्कस्तु मुनिश्रेष्ठा धर्मात्मा यत्र वर्तते । ०१४००४२ नास्ति व्याधिभयं तत्र नावर्षस्तपमेव च ॥ १४.४। ०१४००५१ कदाचित्काशिराजस्य विषये मुनिसत्तमाः । ०१४००५२ त्रीणि वर्षाणि पूर्णानि नावर्षत्पाकशासनः ॥ १४.५। ०१४००६१ स तत्र चानयामास श्वफल्कं परमार्चितम् । ०१४००६२ श्वफल्कपरिवर्तेन ववर्ष हरिवाहनः ॥ १४.६। ०१४००७१ श्वफल्कः काशिराजस्य सुतां भार्यामविन्दत । ०१४००७२ गान्दिनीं नाम गां सा च ददौ विप्राय नित्यशः ॥ १४.७। ०१४००८१ दाता यज्वा च वीरश्च श्रुतवानतिथिप्रियः । ०१४००८२ अक्रूरः सुषुवे तस्माच्छ्वफल्काद्भूरिदक्षिणः ॥ १४.८। ०१४००९१ उपमद्गुस्तथा मद्गुर्मेदुरश्चारिमेजयः । ०१४००९२ अविक्षितस्तथाक्षेपः शत्रुघ्नश्चारिमर्दनः ॥ १४.९। ०१४०१०१ धर्मधृग्यतिधर्मा च धर्मोक्षान्धकरुस्तथा । ०१४०१०२ आवाहप्रतिवाहौ च सुन्दरी च वराङ्गना ॥ १४.१०। ०१४०१११ अक्रूरेणोग्रसेनायां सुगात्र्यां द्विजसत्तमाः । ०१४०११२ प्रसेनश्चोपदेवश्च जज्ञाते देववर्चसौ ॥ १४.११। ०१४०१२१ चित्रकस्याभवन्पुत्राः पृथुर्विपृथुरेव च । ०१४०१२२ अश्वग्रीवो ऽश्वबाहुश्च स्वपार्श्वकगवेषणौ ॥ १४.१२। ०१४०१३१ अरिष्टनेमिरश्वश्च सुधर्मा धर्मभृत्तथा । ०१४०१३२ सुबाहुर्बहुबाहुश्च श्रविष्ठाश्रवणे स्त्रियौ ॥ १४.१३। ०१४०१४१ असिक्न्यां जनयामास शूरं वै देवमीढुषम् । ०१४०१४२ महिष्यां जज्ञिरे शूरा भोज्यायां पुरुषा दश ॥ १४.१४। ०१४०१५१ वसुदेवो महाबाहुः पूर्वमानकदुन्दुभिः । ०१४०१५२ जज्ञे यस्य प्रसूतस्य दुन्दुभ्यः प्राणदन्दिवि ॥ १४.१५। ०१४०१६१ आनकानां च संह्रादः सुमहानभवद्दिवि । ०१४०१६२ पपात पुष्पवर्षश्च शूरस्य जनने महान् ॥ १४.१६। ०१४०१७१ मनुष्यलोके कृत्स्ने ऽपि रूपे नास्ति समो भुवि । ०१४०१७२ यस्यासीत्पुरुषाग्र्यस्य कान्तिश्चन्द्रमसो यथा ॥ १४.१७। ०१४०१८१ देवभागस्ततो जज्ञे तथा देवश्रवाः पुनः । ०१४०१८२ अनाधृष्टिः कनवको वत्सवानथ गृञ्जमः ॥ १४.१८। ०१४०१९१ श्यामः शमीको गण्डूषः पञ्च चास्य वराङ्गनाः । ०१४०१९२ पृथुकीर्तिः पृथा चैव श्रुतदेवा श्रुतश्रवा ॥ १४.१९। ०१४०२०१ राजाधिदेवी च तथा पञ्चैता वीरमातरः । ०१४०२०२ श्रुतश्रवायां चैद्यस्तु शिशुपालो ऽभवन्नृपः ॥ १४.२०। ०१४०२११ हिरण्यकशिपुर्यो ऽसौ दैत्यराजो ऽभवत्पुरा । ०१४०२१२ पृथुकीर्त्यां तु सञ्जज्ञे तनयो वृद्धशर्मणः ॥ १४.२१। ०१४०२२१ करूषाधिपतिर्वीरो दन्तवक्रो महाबलः । ०१४०२२२ पृथां दुहितरं चक्रे कुन्तिस्तां पाण्डुरावहत् ॥ १४.२२। ०१४०२३१ यस्यां स धर्मविद्राजा धर्मो जज्ञे युधिष्ठिरः । ०१४०२३२ भीमसेनस्तथा वातादिन्द्राच्चैव धनञ्जयः ॥ १४.२३। ०१४०२४१ लोके प्रतिरथो वीरः शक्रतुल्यपराक्रमः । ०१४०२४२ अनमित्राच्छनिर्जज्ञे कनिष्ठाद्वृष्णिनन्दनात् ॥ १४.२४। ०१४०२५१ शैनेयः सत्यकस्तस्माद्युयुधानश्च सात्यकिः । ०१४०२५२ उद्धवो देवभागस्य महाभागः सुतो ऽभवत् ॥ १४.२५। ०१४०२६१ पण्डितानां परं प्राहुर्देवश्रवसमुत्तमम् । ०१४०२६२ अश्मक्यं प्राप्तवान्पुत्रमनाधृष्टिर्यशस्विनम् ॥ १४.२६। ०१४०२७१ निवृत्तशत्रुं शत्रुघ्नं श्रुतदेवा त्वजायत । ०१४०२७२ श्रुतदेवात्मजास्ते तु नैषादिर्यः परिश्रुतः ॥ १४.२७। ०१४०२८१ एकलव्यो मुनिश्रेष्ठा निषादैः परिवर्धितः । ०१४०२८२ वत्सवते त्वपुत्राय वसुदेवः प्रतापवान् । ०१४०२८३ अद्भिर्ददौ सुतं वीरं शौरिः कौशिकमौरसम् ॥ १४.२८। ०१४०२९१ गण्डूषाय ह्यपुत्राय विष्वक्सेनो ददौ सुतान् । ०१४०२९२ चारुदेष्णं सुदेष्णं च पञ्चालं कृतलक्षणम् ॥ १४.२९। ०१४०३०१ असङ्ग्रामेण यो वीरो नावर्तत कदाचन । ०१४०३०२ रौक्मिणेयो महाबाहुः कनीयान्द्विजसत्तमाः ॥ १४.३०। ०१४०३११ वायसानां सहस्राणि यं यान्तं पृष्ठतो ऽन्वयुः । ०१४०३१२ चारूनद्योपभोक्ष्यामश्चारुदेष्णहतानिति ॥ १४.३१। ०१४०३२१ तन्त्रिजस्तन्त्रिपालश्च सुतौ कनवकस्य तौ । ०१४०३२२ वीरुश्चाश्वहनुश्चैव वीरौ तावथ गृञ्जिमौ ॥ १४.३२। ०१४०३३१ श्यामपुत्रः शमीकस्तु शमीको राज्यमावहत् । ०१४०३३२ जुगुप्समानो भोजत्वाद्राजसूयमवाप सः ॥ १४.३३। ०१४०३४१ अजातशत्रुः शत्रूणां जज्ञे तस्य विनाशनः । ०१४०३४२ वसुदेवसुतान्वीरान्कीर्तयिष्याम्यतः परम् ॥ १४.३४। ०१४०३५१ वृष्णेस्त्रिविधमेवं तु बहुशाखं महौजसम् । ०१४०३५२ धारयन्विपुलं वंशं नानर्थैरिह युज्यते ॥ १४.३५। ०१४०३६१ याः पत्न्यो वसुदेवस्य चतुर्दश वराङ्गनाः । ०१४०३६२ पौरवी रोहिणी नाम मदिरादितथावरा ॥ १४.३६। ०१४०३७१ वैशाखी च तथा भद्रा सुनाम्नी चैव पञ्चमी । ०१४०३७२ सहदेवा शान्तिदेवा श्रीदेवी देवरक्षिता ॥ १४.३७। ०१४०३८१ वृकदेव्युपदेवी च देवकी चैव सप्तमी । ०१४०३८२ सुतनुर्वडवा चैव द्वे एते परिचारिके ॥ १४.३८। ०१४०३९१ पौरवी रोहिणी नाम बाह्लिकस्यात्मजाभवत् । ०१४०३९२ ज्येष्ठा पत्नी मुनिश्रेष्ठा दयितानकदुन्दुभेः ॥ १४.३९। ०१४०४०१ लेभे ज्येष्ठं सुतं रामं शरण्यं शठमेव च । ०१४०४०२ दुर्दमं दमनं शुभ्रं पिण्डारकमुशीनरम् ॥ १४.४०। ०१४०४११ चित्रा नाम कुमारी च रोहिणीतनया नव । ०१४०४१२ चित्रा सुभद्रेति पुनर्विख्याता मुनिसत्तमाः ॥ १४.४१। ०१४०४२१ वसुदेवाच्च देवक्यां जज्ञे शौरिर्महायशाः । ०१४०४२२ रामाच्च निशठो जज्ञे रेवत्यां दयितः सुतः ॥ १४.४२। ०१४०४३१ सुभद्रायां रथी पार्थादभिमन्युरजायत । ०१४०४३२ अक्रूरात्काशिकन्यायां सत्यकेतुरजायत ॥ १४.४३। ०१४०४४१ वसुदेवस्य भार्यासु महाभागासु सप्तसु । ०१४०४४२ ये पुत्रा जज्ञिरे शूराः समस्तांस्तान्निबोधत ॥ १४.४४। ०१४०४५१ भोजश्च विजयश्चैव शान्तिदेवासुतावुभौ । ०१४०४५२ वृकदेवः सुनामायां गदश्चास्तां सुतावुभौ ॥ १४.४५। ०१४०४६१ अगावहं महात्मानं वृकदेवी व्यजायत । ०१४०४६२ कन्या त्रिगर्तराजस्य भार्या वै शिशिरायणेः ॥ १४.४६। ०१४०४७१ जिज्ञासां पौरुषे चक्रे न चस्कन्दे च पौरुषम् । ०१४०४७२ कृष्णायससमप्रख्यो वर्षे द्वादशमे तथा ॥ १४.४७। ०१४०४८१ मिथ्याभिशस्तो गार्ग्यस्तु मन्युनातिसमीरितः । ०१४०४८२ घोषकन्यामुपादाय मैथुनायोपचक्रमे ॥ १४.४८। ०१४०४९१ गोपाली चाप्सरास्तस्य गोपस्त्रीवेषधारिणी । ०१४०४९२ धारयामास गार्ग्यस्य गर्भं दुर्धरमच्युतम् ॥ १४.४९। ०१४०५०१ मानुष्यां गर्गभार्यायां नियोगाच्छूलपाणिनः । ०१४०५०२ स कालयवनो नाम जज्ञे राजा महाबलः ॥ १४.५०। ०१४०५११ वृत्तपूर्वार्धकायस्तु सिंहसंहननो युवा । ०१४०५१२ अपुत्रस्य स राज्ञस्तु ववृधे ऽन्तःपुरे शिशुः ॥ १४.५१। ०१४०५२१ यवनस्य मुनिश्रेष्ठाः स कालयवनो ऽभवत् । ०१४०५२२ आयुध्यमानो नृपतिः पर्यपृच्छद्द्विजोत्तमम् ॥ १४.५२। ०१४०५३१ वृष्ण्यन्धककुलं तस्य नारदो ऽकथयद्विभुः । ०१४०५३२ अक्षौहिण्या तु सैन्यस्य मथुरामभ्ययात्तदा ॥ १४.५३। ०१४०५४१ दूतं सम्प्रेषयामास वृष्ण्यन्धकनिवेशनम् । ०१४०५४२ ततो वृष्ण्यन्धकाः कृष्णं पुरस्कृत्य महामतिम् ॥ १४.५४। ०१४०५५१ समेता मन्त्रयामासुर्यवनस्य भयात्तदा । ०१४०५५२ कृत्वा विनिश्चयं सर्वे पलायनमरोचयन् ॥ १४.५५। ०१४०५६१ विहाय मथुरां रम्यां मानयन्तः पिनाकिनम् । ०१४०५६२ कुशस्थलीं द्वारवतीं निवेशयितुमीप्सवः ॥ १४.५६। ०१४०५९१ इति कृष्णस्य जन्मेदं यः शुचिर्नियतेन्द्रियः । ०१४०५९२ पर्वसु श्रावयेद्विद्वाननृणः स सुखी भवेत् ॥ १४.५९। ०१५००१० लोमहर्षण उवाच ०१५००११ क्रोष्टोरथाभवत्पुत्रो वृजिनीवान्महायशाः । ०१५००१२ वार्जिनीवतमिच्छन्ति स्वाहिं स्वाहाकृतां वरम् ॥ १५.१। ०१५००२१ स्वाहिपुत्रो ऽभवद्राजा उषद्गुर्वदतां वरः । ०१५००२२ महाक्रतुभिरीजे यो विविधैर्भूरिदक्षिणैः ॥ १५.२। ०१५००३१ ततः प्रसूतिमिच्छन्वै उषद्गुः सो ऽग्र्यमात्मजम् । ०१५००३२ जज्ञे चित्ररथस्तस्य पुत्रः कर्मभिरन्वितः ॥ १५.३। ०१५००४१ आसीच्चैत्ररथिर्वीरो यज्वा विपुलदक्षिणः । ०१५००४२ शशबिन्दुः परं वृत्तं राजर्षीणामनुष्ठितः ॥ १५.४। ०१५००५१ पृथुश्रवाः पृथुयशा राजासीच्छाशिबिन्दवः । ०१५००५२ शंसन्ति च पुराणज्ञाः पार्थश्रवसमन्तरम् ॥ १५.५। ०१५००६१ अन्तरस्य सुयज्ञस्तु सुयज्ञतनयो ऽभवत् । ०१५००६२ उषतो यज्ञमखिलं स्वधर्मे च कृतादरः ॥ १५.६। ०१५००७१ शिनेयुरभवत्पुत्र उषतः शत्रुतापनः । ०१५००७२ मरुतस्तस्य तनयो राजर्षिरभवन्नृपः ॥ १५.७। ०१५००८१ मरुतो ऽलभत ज्येष्ठं सुतं कम्बलबर्हिषम् । ०१५००८२ चचार विपुलं धर्मममर्षात्प्रत्यभागपि ॥ १५.८। ०१५००९१ स सत्प्रसूतिमिच्छन्वै सुतं कम्बलबर्हिषः । ०१५००९२ बभूव रुक्मकवचः शतप्रसवतः सुतः ॥ १५.९। ०१५०१०१ निहत्य रुक्मकवचः शतं कवचिनां रणे । ०१५०१०२ धन्विनां निशितैर्बाणैरवाप श्रियमुत्तमाम् ॥ १५.१०। ०१५०१११ जज्ञे च रुक्मकवचात्परजित्परवीरहा । ०१५०११२ जज्ञिरे पञ्च पुत्रास्तु महावीर्याः पराजिताः ॥ १५.११। ०१५०१२१ रुक्मेषुः पृथुरुक्मश्च ज्यामघः पालितो हरिः । ०१५०१२२ पालितं च हरिं चैव विदेहेभ्यः पिता ददौ ॥ १५.१२। ०१५०१३१ रुक्मेषुरभवद्राजा पृथुरुक्मस्य संश्रयात् । ०१५०१३२ ताभ्यां प्रव्राजितो राजा ज्यामघो ऽवसदाश्रमे ॥ १५.१३। ०१५०१४१ प्रशान्तश्च तदा राजा ब्राह्मणैश्चावबोधितः । ०१५०१४२ जगाम धनुरादाय देशमन्यं ध्वजी रथी ॥ १५.१४। ०१५०१५१ नर्मदाकूलमेकाकीमेकलां मृत्तिकावतीम् । ०१५०१५२ ऋक्षवन्तं गिरिं जित्वा शुक्तिमत्यामुवास सः ॥ १५.१५। ०१५०१६१ ज्यामघस्याभवद्भार्या शैब्या बलवती सती । ०१५०१६२ अपुत्रो ऽपि स राजा वै नान्यां भार्यामविन्दत ॥ १५.१६। ०१५०१७१ तस्यासीद्विजयो युद्धे तत्र कन्यामवाप सः । ०१५०१७२ भार्यामुवाच सन्त्रस्तः स्नुषेति स जनेश्वरः ॥ १५.१७। ०१५०१८१ एतच्छ्रुत्वाब्रवीद्देवी कस्य देव स्नुषेति वै । ०१५०१८२ अब्रवीत्तदुपश्रुत्य ज्यामघो राजसत्तमः ॥ १५.१८। ०१५०१९० राजोवाच ०१५०१९१ यस्ते जनिष्यते पुत्रस्तस्य भार्योपपादिता ॥ १५.१९। ०१५०२०० लोमहर्षण उवाच ०१५०२०१ उग्रेण तपसा तस्याः कन्यायाः सा व्यजायत । ०१५०२०२ पुत्रं विदर्भं सुभागा शैब्या परिणता सती ॥ १५.२०। ०१५०२११ राजपुत्र्यां तु विद्वांसौ स्नुषायां क्रथकैशिकौ । ०१५०२१२ पश्चाद्विदर्भो ऽजनयच्छूरौ रणविशारदौ ॥ १५.२१। ०१५०२२१ भीमो विदर्भस्य सुतः कुन्तिस्तस्यात्मजो ऽभवत् । ०१५०२२२ कुन्तेर्धृष्टः सुतो जज्ञे रणधृष्टः प्रतापवान् ॥ १५.२२। ०१५०२३१ धृष्टस्य जज्ञिरे शूरास्त्रयः परमधार्मिकाः । ०१५०२३२ आवन्तश्च दशार्हश्च बली विषहरश्च सः ॥ १५.२३। ०१५०२४१ दशार्हस्य सुतो व्योमा व्योम्नो जीमूत उच्यते । ०१५०२४२ जीमूतपुत्रो विकृतिस्तस्य भीमरथः स्मृतः ॥ १५.२४। ०१५०२५१ अथ भीमरथस्यासीत्पुत्रो नवरथस्तथा । ०१५०२५२ तस्य चासीद्दशरथः शकुनिस्तस्य चात्मजः ॥ १५.२५। ०१५०२६१ तस्मात्करम्भः कारम्भिर्देवरातो ऽभवन्नृपः । ०१५०२६२ देवक्षत्रो ऽभवत्तस्य वृद्धक्षत्रो महायशाः ॥ १५.२६। ०१५०२७१ देवगर्भसमो जज्ञे देवक्षत्रस्य नन्दनः । ०१५०२७२ मधूनां वंशकृद्राजा मधुर्मधुरवागपि ॥ १५.२७। ०१५०२८१ मधोर्जज्ञे ऽथ वैदर्भ्यां पुरुद्वान्पुरुषोत्तमः । ०१५०२८२ ऐक्ष्वाकी चाभवद्भार्या मधोस्तस्यां व्यजायत ॥ १५.२८। ०१५०२९१ सत्वान्सर्वगुणोपेतः सात्वता कीर्तिवर्धनः । ०१५०२९२ इमां विसृष्टिं विज्ञाय ज्यामघस्य महात्मनः । ०१५०२९३ युज्यते परमप्रीत्या प्रजावांश्च भवेत्सदा ॥ १५.२९। ०१५०३०० लोमहर्षण उवाच ०१५०३०१ सत्वतः सत्त्वसम्पन्नान्कौशल्या सुषुवे सुतान् । ०१५०३०२ भागिनं भजमानं च दिव्यं देवावृधं नृपम् ॥ १५.३०। ०१५०३११ अन्धकं च महाबाहुं वृष्णिं च यदुनन्दनम् । ०१५०३१२ तेषां विसर्गाश्चत्वारो विस्तरेणेह कीर्तिताः ॥ १५.३१। ०१५०३२१ भजमानस्य सृञ्जय्यौ बाह्यकाथोपबाह्यका । ०१५०३२२ आस्तां भार्ये तयोस्तस्माज्जज्ञिरे बहवः सुताः ॥ १५.३२। ०१५०३३१ क्रिमिश्च क्रमणश्चैव धृष्टः शूरः पुरञ्जयः । ०१५०३३२ एते बाह्यकसृञ्जय्यां भजमानाद्विजज्ञिरे ॥ १५.३३। ०१५०३४१ आयुताजित्सहस्राजिच्छताजित्त्वथ दासकः । ०१५०३४२ उपबाह्यकसृञ्जय्यां भजमानाद्विजज्ञिरे ॥ १५.३४। ०१५०३५१ यज्वा देवावृधो राजा चचार विपुलं तपः । ०१५०३५२ पुत्रः सर्वगुणोपेतो मम स्यादिति निश्चितः ॥ १५.३५। ०१५०३६१ संयुज्यमानस्तपसा पर्णाशाया जलं स्पृशन् । ०१५०३६२ सदोपस्पृशतस्तस्य चकार प्रियमापगा ॥ १५.३६। ०१५०३७१ चिन्तयाभिपरीता सा न जगामैव निश्चयम् । ०१५०३७२ कल्याणत्वान्नरपतेस्तस्य सा निम्नगोत्तमा ॥ १५.३७। ०१५०३८१ नाध्यगच्छत्तु तां नारीं यस्यामेवंविधः सुतः । ०१५०३८२ भवेत्तस्मात्स्वयं गत्वा भवाम्यस्य सहानुगा ॥ १५.३८। ०१५०३९१ अथ भूत्वा कुमारी सा बिभ्रती परमं वपुः । ०१५०३९२ वरयामास नृपतिं तामियेष च स प्रभुः ॥ १५.३९। ०१५०४०१ तस्यामाधत्त गर्भं स तेजस्विनमुदारधीः । ०१५०४०२ अथ सा दशमे मासि सुषुवे सरितां वरा ॥ १५.४०। ०१५०४११ पुत्रं सर्वगुणोपेतं बभ्रुं देवावृधं द्विजाः । ०१५०४१२ अत्र वंशे पुराणज्ञा गायन्तीति परिश्रुतम् ॥ १५.४१। ०१५०४२१ गुणान्देवावृधस्यापि कीर्तयन्तो महात्मनः । ०१५०४२२ यथैवाग्रे तथा दूरात्पश्यामस्तावदन्तिकात् ॥ १५.४२। ०१५०४३१ बभ्रुः श्रेष्ठो मनुष्याणां देवैर्देवावृधः समः । ०१५०४३२ षष्टिश्च षट्च पुरुषाः सहस्राणि च सप्त च ॥ १५.४३। ०१५०४४१ एते ऽमृतत्वं प्राप्ता वै बभ्रोर्देवावृधादपि । ०१५०४४२ यज्वा दानपतिर्धीमान्ब्रह्मण्यः सुदृढायुधः ॥ १५.४४। ०१५०४५१ तस्यान्ववायः सुमहान्भोजा ये सार्तिकावताः । ०१५०४५२ अन्धकात्काश्यदुहिता चतुरो ऽलभतात्मजान् ॥ १५.४५। ०१५०४६१ कुकुरं भजमानं च ससकं बलबर्हिषम् । ०१५०४६२ कुकुरस्य सुतो वृष्टिर्वृष्टेस्तु तनयस्तथा ॥ १५.४६। ०१५०४७१ कपोतरोमा तस्याथ तिलिरिस्तनयो ऽभवत् । ०१५०४७२ जज्ञे पुनर्वसुस्तस्मादभिजिच्च पुनर्वसोः ॥ १५.४७। ०१५०४८१ तथा वै पुत्रमिथुनं बभूवाभिजितः किल । ०१५०४८२ आहुकः श्राहुकश्चैव ख्यातौ ख्यातिमतां वरौ ॥ १५.४८। ०१५०४९१ इमां चोदाहरन्त्यत्र गाथां प्रति तमाहुकम् । ०१५०४९२ श्वेतेन परिवारेण किशोरप्रतिमो महान् ॥ १५.४९। ०१५०५०१ अशीतिवर्मणा युक्त आहुकः प्रथमं व्रजेत् । ०१५०५०२ नापुत्रवान्नाशतदो नासहस्रशतायुषः ॥ १५.५०। ०१५०५११ नाशुद्धकर्मा नायज्वा यो भोजमभितो व्रजेत् । ०१५०५१२ पूर्वस्यां दिशि नागानां भोजस्य प्रययुः किल ॥ १५.५१। ०१५०५२१ सोमात्सङ्गानुकर्षाणां ध्वजिनां सवरूथिनाम् । ०१५०५२२ रथानां मेघघोषाणां सहस्राणि दशैव तु ॥ १५.५२। ०१५०५३१ रौप्यकाञ्चनकक्षाणां सहस्राण्येकविंशतिः । ०१५०५३२ तावत्येव सहस्राणि उत्तरस्यां तथा दिशि ॥ १५.५३। ०१५०५४१ आभूमिपाला भोजास्तु सन्ति ज्याकिङ्किणीकिनः । ०१५०५४२ आहुः किं चाप्यवन्तिभ्यः स्वसारं ददुरन्धकाः ॥ १५.५४। ०१५०५५१ आहुकस्य तु काश्यायां द्वौ पुत्रौ सम्बभूवतुः । ०१५०५५२ देवकश्चोग्रसेनश्च देवगर्भसमावुभौ ॥ १५.५५। ०१५०५६१ देवकस्याभवन्पुत्राश्चत्वारस्त्रिदशोपमाः । ०१५०५६२ देववानुपदेवश्च सन्देवो देवरक्षितः ॥ १५.५६। ०१५०५७१ कुमार्यः सप्त चास्याथ वसुदेवाय ता ददौ । ०१५०५७२ देवकी शान्तिदेवा च सुदेवा देवरक्षिता ॥ १५.५७। ०१५०५८१ वृकदेव्युपदेवी च सुनाम्नी चैव सप्तमी । ०१५०५८२ नवोग्रसेनस्य सुतास्तेषां कंसस्तु पूर्वजः ॥ १५.५८। ०१५०५९१ न्यग्रोधश्च सुनामा च तथा कङ्कः सुभूषणः । ०१५०५९२ राष्ट्रपालो ऽथ सुतनुरनावृष्टिस्तु पुष्टिमान् ॥ १५.५९। ०१५०६०१ तेषां स्वसारः पञ्चासन्कंसा कंसवती तथा । ०१५०६०२ सुतनू राष्ट्रपाली च कङ्का चैव वराङ्गना ॥ १५.६०। ०१५०६११ उग्रसेनः सहापत्यो व्याख्यातः कुकुरोद्भवः । ०१५०६१२ कुकुराणामिमं वंशं धारयन्नमितौजसाम् ॥ १५.६१। ०१५०६२१ आत्मनो विपुलं वंशं प्रजावानाप्नुयान्नरः ॥ १५.६२। ०१६००१० लोमहर्षण उवाच ०१६००११ भजमानस्य पुत्रो ऽथ रथमुख्यो विदूरथः । ०१६००१२ राजाधिदेवः शूरस्तु विदूरथसुतो ऽभवत् ॥ १६.१। ०१६००२१ राजाधिदेवस्य सुता जज्ञिरे वीर्यवत्तराः । ०१६००२२ दत्तातिदत्तौ बलिनौ शोणाश्वः श्वेतवाहनः ॥ १६.२। ०१६००३१ शमी च दण्डशर्मा च दन्तशत्रुश्च शत्रुजित् । ०१६००३२ श्रवणा च श्रविष्ठा च स्वसारौ सम्बभूवतुः ॥ १६.३। ०१६००४१ शमिपुत्रः प्रतिक्षत्रः प्रतिक्षत्रस्य चात्मजः । ०१६००४२ स्वयम्भोजः स्वयम्भोजाद्भदिकः सम्बभूव ह ॥ १६.४। ०१६००५१ तस्य पुत्रा बभूवुर्हि सर्वे भीमपराक्रमाः । ०१६००५२ कृतवर्माग्रजस्तेषां शतधन्वा तु मध्यमः ॥ १६.५। ०१६००६१ देवान्तश्च नरान्तश्च भिषग्वैतरणश्च यः । ०१६००६२ सुदान्तश्चातिदान्तश्च निकाश्यः कामदम्भकः ॥ १६.६। ०१६००७१ देवान्तस्याभवत्पुत्रो विद्वान्कम्बलबर्हिषः । ०१६००७२ असमौजाः सुतस्तस्य नासमौजाश्च तावुभौ ॥ १६.७। ०१६००८१ अजातपुत्राय सुतान्प्रददावसमौजसे । ०१६००८२ सुदंष्ट्रश्च सुचारुश्च कृष्ण इत्यन्धकाः स्मृताः ॥ १६.८। ०१६००९१ गान्धारी चैव माद्री च क्रोष्टुभार्ये बभूवतुः । ०१६००९२ गान्धारी जनयामास अनमित्रं महाबलम् ॥ १६.९। ०१६०१०१ माद्री युधाजितं पुत्रं ततो वै देवमीधुषम् । ०१६०१०२ अनमित्रममित्राणां जेतारमपराजितम् ॥ १६.१०। ०१६०१११ अनमित्रसुतो निघ्नो निघ्नतो द्वौ बभूवतुः । ०१६०११२ प्रसेनश्चाथ सत्राजिच्छत्रुसेनाजितावुभौ ॥ १६.११। ०१६०१२१ प्रसेनो द्वारवत्यां तु निवसन्यो महामणिम् । ०१६०१२२ दिव्यं स्यमन्तकं नाम स सूर्यादुपलब्धवान् ॥ १६.१२। ०१६०१३१ तस्य सत्राजितः सूर्यः सखा प्राणसमो ऽभवत् । ०१६०१३२ स कदाचिन्निशापाये रथेन रथिनां वरः ॥ १६.१३। ०१६०१४१ तोयकूलमपः स्प्रष्टुमुपस्थातुं ययौ रविम् । ०१६०१४२ तस्योपतिष्ठतः सूर्यं विवस्वानग्रतः स्थितः ॥ १६.१४। ०१६०१५१ विस्पष्टमूर्तिर्भगवांस्तेजोमण्डलवान्विभुः । ०१६०१५२ अथ राजा विवस्वन्तमुवाच स्थितमग्रतः ॥ १६.१५। ०१६०१६१ यथैव व्योम्नि पश्यामि सदा त्वां ज्योतिषां पते । ०१६०१६२ तेजोमण्डलिनं देवं तथैव पुरतः स्थितम् ॥ १६.१६। ०१६०१७१ को विशेषो ऽस्ति मे त्वत्तः सख्येनोपगतस्य वै । ०१६०१७२ एतच्छ्रुत्वा तु भगवान्मणिरत्नं स्यमन्तकम् ॥ १६.१७। ०१६०१८१ स्वकण्ठादवमुच्याथ एकान्ते न्यस्तवान्विभुः । ०१६०१८२ ततो विग्रहवन्तं तं ददर्श नृपतिस्तदा ॥ १६.१८। ०१६०१९१ प्रीतिमानथ तं दृष्ट्वा मुहूर्तं कृतवान्कथाम् । ०१६०१९२ तमभिप्रस्थितं भूयो विवस्वन्तं स सत्रजित् ॥ १६.१९। ०१६०२०१ लोकान्भासयसे सर्वान्येन त्वं सततं प्रभो । ०१६०२०२ तदेतन्मणिरत्नं मे भगवन्दातुमर्हसि ॥ १६.२०। ०१६०२११ ततः स्यमन्तकमणिं दत्तवान्भास्करस्तदा । ०१६०२१२ स तमाबध्य नगरीं प्रविवेश महीपतिः ॥ १६.२१। ०१६०२२१ तं जनाः पर्यधावन्त सूर्यो ऽयं गच्छतीति ह । ०१६०२२२ स्वां पुरीं स विसिष्माय राजा त्वन्तःपुरं तथा ॥ १६.२२। ०१६०२३१ तं प्रसेनजितं दिव्यं मणिरत्नं स्यमन्तकम् । ०१६०२३२ ददौ भ्रात्रे नरपतिः प्रेम्णा सत्राजिदुत्तमम् ॥ १६.२३। ०१६०२४१ स मणिः स्यन्दते रुक्मं वृष्ण्यन्धकनिवेशने । ०१६०२४२ कालवर्षी च पर्जन्यो न च व्याधिभयं ह्यभूत् ॥ १६.२४। ०१६०२५१ लिप्सां चक्रे प्रसेनस्य मणिरत्ने स्यमन्तके । ०१६०२५२ गोविन्दो न च तं लेभे शक्तो ऽपि न जहार सः ॥ १६.२५। ०१६०२६१ कदाचिन्मृगयां यातः प्रसेनस्तेन भूषितः । ०१६०२६२ स्यमन्तककृते सिंहाद्वधं प्राप वनेचरात् ॥ १६.२६। ०१६०२७१ अथ सिंहं प्रधावन्तमृक्षराजो महाबलः । ०१६०२७२ निहत्य मणिरत्नं तदादाय प्राविशद्गुहाम् ॥ १६.२७। ०१६०२८१ ततो वृष्ण्यन्धकाः कृष्णं प्रसेनवधकारणात् । ०१६०२८२ प्रार्थनां तां मणेर्बद्ध्वा सर्व एव शशङ्किरे ॥ १६.२८। ०१६०२९१ स शङ्क्यमानो धर्मात्मा अकारी तस्य कर्मणः । ०१६०२९२ आहरिष्ये मणिमिति प्रतिज्ञाय वनं ययौ ॥ १६.२९। ०१६०३०१ यत्र प्रसेनो मृगयां व्यचरत्तत्र चाप्यथ । ०१६०३०२ प्रसेनस्य पदं गृह्य पुरुषैराप्तकारिभिः ॥ १६.३०। ०१६०३११ ऋक्षवन्तं गिरिवरं विन्ध्यं च गिरिमुत्तमम् । ०१६०३१२ अन्वेषयन्परिश्रान्तः स ददर्श महामनाः ॥ १६.३१। ०१६०३२१ साश्वं हतं प्रसेनं तु नाविन्दत च तन्मणिम् । ०१६०३२२ अथ सिंहः प्रसेनस्य शरीरस्याविदूरतः ॥ १६.३२। ०१६०३३१ ऋक्षेण निहतो दृष्टः पदैरृक्षस्तु सूचितः । ०१६०३३२ पदैस्तैरन्वियायाथ गुहामृक्षस्य माधवः ॥ १६.३३। ०१६०३४१ स हि ऋक्षबिले वाणीं शुश्राव प्रमदेरिताम् । ०१६०३४२ धात्र्या कुमारमादाय सुतं जाम्बवतो द्विजाः ॥ १६.३४। ०१६०३५१ क्रीडयन्त्या च मणिना मा रोदीरित्यथेरिताम् ॥ १६.३५। ०१६०३६० धात्र्युवाच ०१६०३६१ सिंहः प्रसेनमवधीत्सिंहो जाम्बवता हतः । ०१६०३६२ सुकुमारक मा रोदीस्तव ह्येष स्यमन्तकः ॥ १६.३६। ०१६०३७१ व्यक्तितस्तस्य शब्दस्य तूर्णमेव बिलं ययौ । ०१६०३७२ प्रविश्य तत्र भगवांस्तदृक्षबिलमञ्जसा ॥ १६.३७। ०१६०३८१ स्थापयित्वा बिलद्वारे यदूंल्लाङ्गलिना सह । ०१६०३८२ शार्ङ्गधन्वा बिलस्थं तु जाम्बवन्तं ददर्श सः ॥ १६.३८। ०१६०३९१ युयुधे वासुदेवस्तु बिले जाम्बवता सह । ०१६०३९२ बाहुभ्यामेव गोविन्दो दिवसानेकविंशतिम् ॥ १६.३९। ०१६०४०१ प्रविष्टे ऽथ बिले कृष्णे बलदेवपुरःसराः । ०१६०४०२ पुरीं द्वारवतीमेत्य हतं कृष्णं न्यवेदयन् ॥ १६.४०। ०१६०४११ वासुदेवो ऽपि निर्जित्य जाम्बवन्तं महाबलम् । ०१६०४१२ लेभे जाम्बवतीं कन्यामृक्षराजस्य सम्मताम् ॥ १६.४१। ०१६०४२१ मणिं स्यमन्तकं चैव जग्राहात्मविशुद्धये । ०१६०४२२ अनुनीयर्क्षराजं तु निर्ययौ च ततो बिलात् ॥ १६.४२। ०१६०४३१ उपायाद्द्वारकां कृष्णः स विनीतैः पुरःसरैः । ०१६०४३२ एवं स मणिमाहृत्य विशोध्यात्मानमच्युतः ॥ १६.४३। ०१६०४४१ ददौ सत्राजिते तं वै सर्वसात्वतसंसदि । ०१६०४४२ एवं मिथ्याभिशस्तेन कृष्णेनामित्रघातिना ॥ १६.४४। ०१६०४५१ आत्मा विशोधितः पापाद्विनिर्जित्य स्यमन्तकम् । ०१६०४५२ सत्राजितो दश त्वासन्भार्यास्तासां शतं सुताः ॥ १६.४५। ०१६०४६१ ख्यातिमन्तस्त्रयस्तेषां भगङ्कारस्तु पूर्वजः । ०१६०४६२ वीरो वातपतिश्चैव वसुमेधस्तथैव च ॥ १६.४६। ०१६०४७१ कुमार्यश्चापि तिस्रो वै दिक्षु ख्याता द्विजोत्तमाः । ०१६०४७२ सत्यभामोत्तमा तासां व्रतिनी च दृढव्रता ॥ १६.४७। ०१६०४८१ तथा प्रस्वापिनी चैव भार्यां कृष्णाय तां ददौ । ०१६०४८२ सभाक्षो भङ्गकारिस्तु नावेयश्च नरोत्तमौ ॥ १६.४८। ०१६०४९१ जज्ञाते गुणसम्पन्नौ विश्रुतौ रूपसम्पदा । ०१६०४९२ माद्र्याः पुत्रो ऽथ जज्ञे ऽथ वृष्णिपुत्रो युधाजितः ॥ १६.४९। ०१६०५०१ जज्ञाते तनयौ वृष्णेः श्वफल्कश्चित्रकस्तथा । ०१६०५०२ श्वफल्कः काशिराजस्य सुतां भार्यामविन्दत ॥ १६.५०। ०१६०५११ गान्दिनीं नाम तस्याश्च गाः सदा प्रददौ पिता । ०१६०५१२ तस्यां जज्ञे महाबाहुः श्रुतवानतिथिप्रियः ॥ १६.५१। ०१६०५२१ अक्रूरो ऽथ महाभागो जज्ञे विपुलदक्षिणः । ०१६०५२२ उपमद्गुस्तथा मद्गुर्मुदरश्चारिमर्दनः ॥ १६.५२। ०१६०५३१ आरिक्षेपस्तथोपेक्षः शत्रुहा चारिमेजयः । ०१६०५३२ धर्मभृच्चापि धर्मा च गृध्रभोजान्धकस्तथा ॥ १६.५३। ०१६०५४१ आवाहप्रतिवाहौ च सुन्दरी च वराङ्गना । ०१६०५४२ विश्रुताश्वस्य महिषी कन्या चास्य वसुन्धरा ॥ १६.५४। ०१६०५५१ रूपयौवनसम्पन्ना सर्वसत्त्वमनोहरा । ०१६०५५२ अक्रूरेणोग्रसेनायां सुतौ वै कुलनन्दनौ ॥ १६.५५। ०१६०५६१ वसुदेवश्चोपदेवश्च जज्ञाते देववर्चसौ । ०१६०५६२ चित्रकस्याभवन्पुत्राः पृथुर्विपृथुरेव च ॥ १६.५६। ०१६०५७१ अश्वग्रीवो ऽश्वबाहुश्च सुपार्श्वकगवेषणौ । ०१६०५७२ अरिष्टनेमिश्च सुता धर्मो धर्मभृदेव च ॥ १६.५७। ०१६०५८१ सुबाहुर्बहुबाहुश्च श्रविष्ठाश्रवणे स्त्रियौ । ०१६०५८२ इमां मिथ्याभिशस्तिं यः कृष्णस्य समुदाहृताम् ॥ १६.५८। ०१६०५९१ वेद मिथ्याभिशापास्तं न स्पृशन्ति कदाचन ॥ १६.५९। ०१७००१० लोमहर्षण उवाच ०१७००११ यत्तु सत्राजिते कृष्णो मणिरत्नं स्यमन्तकम् । ०१७००१२ ददावहारयद्बभ्रुर्भोजेन शतधन्वना ॥ १७.१। ०१७००२१ सदा हि प्रार्थयामास सत्यभामामनिन्दिताम् । ०१७००२२ अक्रूरो ऽन्तरमन्विष्यन्मणिं चैव स्यमन्तकम् ॥ १७.२। ०१७००३१ सत्राजितं ततो हत्वा शतधन्वा महाबलः । ०१७००३२ रात्रौ तं मणिमादाय ततो ऽक्रूराय दत्तवान् ॥ १७.३। ०१७००४१ अक्रूरस्तु तदा विप्रा रत्नमादाय चोत्तमम् । ०१७००४२ समयं कारयां चक्रे नावेद्यो ऽहं त्वयेत्युत ॥ १७.४। ०१७००५१ वयमभ्युत्प्रपत्स्यामः कृष्णेन त्वां प्रधर्षितम् । ०१७००५२ ममाद्य द्वारका सर्वा वशे तिष्ठत्यसंशयम् ॥ १७.५। ०१७००६१ हते पितरि दुःखार्ता सत्यभामा मनस्विनी । ०१७००६२ प्रययौ रथमारुह्य नगरं वारणावतम् ॥ १७.६। ०१७००७१ सत्यभामा तु तद्वृत्तं भोजस्य शतधन्वनः । ०१७००७२ भर्तुर्निवेद्य दुःखार्ता पार्श्वस्थाश्रूण्यवर्तयत् ॥ १७.७। ०१७००८१ पाण्डवानां च दग्धानां हरिः कृत्वोदकक्रियाम् । ०१७००८२ कुल्यार्थे चापि पाण्डूनां न्ययोजयत सात्यकिम् ॥ १७.८। ०१७००९१ ततस्त्वरितमागम्य द्वारकां मधुसूदनः । ०१७००९२ पूर्वजं हलिनं श्रीमानिदं वचनमब्रवीत् ॥ १७.९। ०१७०१०० श्रीकृष्ण उवाच ०१७०१०१ हतः प्रसेनः सिंहेन सत्राजिच्छतधन्वना । ०१७०१०२ स्यमन्तकस्तु मद्नामी तस्य प्रभुरहं विभो ॥ १७.१०। ०१७०१११ तदारोह रथं शीघ्रं भोजं हत्वा महारथम् । ०१७०११२ स्यमन्तको महाबाहो अस्माकं स भविष्यति ॥ १७.११। ०१७०१२० लोमहर्षण उवाच ०१७०१२१ ततः प्रववृते युद्धं तुमुलं भोजकृष्णयोः । ०१७०१२२ शतधन्वा ततो ऽक्रूरं सर्वतोदिशमैक्षत ॥ १७.१२। ०१७०१३१ संरब्धौ तावुभौ तत्र दृष्ट्वा भोजजनार्दनौ । ०१७०१३२ शक्तो ऽपि शापाद्धार्दिक्यमक्रूरो नान्वपद्यत ॥ १७.१३। ०१७०१४१ अपयाने ततो बुद्धिं भोजश्चक्रे भयार्दितः । ०१७०१४२ योजनानां शतं साग्रं हृदया प्रत्यपद्यत ॥ १७.१४। ०१७०१५१ विख्याता हृदया नाम शतयोजनगामिनी । ०१७०१५२ भोजस्य वडवा विप्रा यया कृष्णमयोधयत् ॥ १७.१५। ०१७०१६१ क्षीणां जवेन हृदयामध्वनः शतयोजने । ०१७०१६२ दृष्ट्वा रथस्य स्वां वृद्धिं शतधन्वानमर्दयत् ॥ १७.१६। ०१७०१७१ ततस्तस्या हतायास्तु श्रमात्खेदाच्च भो द्विजाः । ०१७०१७२ खमुत्पेतुरथ प्राणाः कृष्णो राममथाब्रवीत् ॥ १७.१७। ०१७०१८० श्रीकृष्ण उवाच ०१७०१८१ तिष्ठेह त्वं महाबाहो दृष्टदोषा हया मया । ०१७०१८२ पद्भ्यां गत्वा हरिष्यामि मणिरत्नं स्यमन्तकम् ॥ १७.१८। ०१७०१९१ पद्भ्यामेव ततो गत्वा शतधन्वानमच्युतः । ०१७०१९२ मिथिलामभितो विप्रा जघान परमास्त्रवित् ॥ १७.१९। ०१७०२०१ स्यमन्तकं च नापश्यद्धत्वा भोजं महाबलम् । ०१७०२०२ निवृत्तं चाब्रवीत्कृष्णं मणिं देहीति लाङ्गली ॥ १७.२०। ०१७०२११ नास्तीति कृष्णश्चोवाच ततो रामो रुषान्वितः । ०१७०२१२ धिक्षब्दपूर्वमसकृत्प्रत्युवाच जनार्दनम् ॥ १७.२१। ०१७०२२० बलराम उवाच ०१७०२२१ भ्रातृत्वान्मर्षयाम्येष स्वस्ति ते ऽस्तु व्रजाम्यहम् । ०१७०२२२ कृत्यं न मे द्वारकया न त्वया न च वृष्णिभिः ॥ १७.२२। ०१७०२३१ प्रविवेश ततो रामो मिथिलामरिमर्दनः । ०१७०२३२ सर्वकामैरुपहृतैर्मिथिलेनाभिपूजितः ॥ १७.२३। ०१७०२४१ एतस्मिन्नेव काले तु बभ्रुर्मतिमतां वरः । ०१७०२४२ नानारूपान्क्रतून्सर्वानाजहार निरर्गलान् ॥ १७.२४। ०१७०२५१ दीक्षामयं स कवचं रक्षार्थं प्रविवेश ह । ०१७०२५२ स्यमन्तककृते प्राज्ञो गान्दीपुत्रो महायशाः ॥ १७.२५। ०१७०२६१ अथ रत्नानि चान्यानि धनानि विविधानि च । ०१७०२६२ षष्टिं वर्षाणि धर्मात्मा यज्ञेष्वेव न्ययोजयत् ॥ १७.२६। ०१७०२७१ अक्रूरयज्ञा इति ते ख्यातास्तस्य महात्मनः । ०१७०२७२ बह्वन्नदक्षिणाः सर्वे सर्वकामप्रदायिनः ॥ १७.२७। ०१७०२८१ अथ दुर्योधनो राजा गत्वा स मिथिलां प्रभुः । ०१७०२८२ गदाशिक्षां ततो दिव्यां बलदेवादवाप्तवान् ॥ १७.२८। ०१७०२९१ सम्प्रसाद्य ततो रामो वृष्ण्यन्धकमहारथैः । ०१७०२९२ आनीतो द्वारकामेव कृष्णेन च महात्मना ॥ १७.२९। ०१७०३०१ अक्रूरश्चान्धकैः सार्धमायातः पुरुषर्षभः । ०१७०३०२ हत्वा सत्राजितं सुप्तं सहबन्धुं महाबलः ॥ १७.३०। ०१७०३११ ज्ञातिभेदभयात्कृष्णस्तमुपेक्षितवांस्तदा । ०१७०३१२ अपयाते तदाक्रूरे नावर्षत्पाकशासनः ॥ १७.३१। ०१७०३२१ अनावृष्ट्या तदा राष्ट्रमभवद्बहुधा कृशम् । ०१७०३२२ ततः प्रसादयामासुरक्रूरं कुकुरान्धकाः ॥ १७.३२। ०१७०३३१ पुनर्द्वारवतीं प्राप्ते तस्मिन्दानपतौ ततः । ०१७०३३२ प्रववर्ष सहस्राक्षः कक्षे जलनिधेस्तदा ॥ १७.३३। ०१७०३४१ कन्यां च वासुदेवाय स्वसारं शीलसम्मताम् । ०१७०३४२ अक्रूरः प्रददौ धीमान्प्रीत्यर्थं मुनिसत्तमाः ॥ १७.३४। ०१७०३५१ अथ विज्ञाय योगेन कृष्णो बभ्रुगतं मणिम् । ०१७०३५२ सभामध्यगतः प्राह तमक्रूरं जनार्दनः ॥ १७.३५। ०१७०३६० श्रीकृष्ण उवाच ०१७०३६१ यत्तद्रत्नं मणिवरं तव हस्तगतं विभो । ०१७०३६२ तत्प्रयच्छ च मानार्ह मयि मानार्यकं कृथाः ॥ १७.३६। ०१७०३७१ षष्टिवर्षगते काले यो रोषो ऽभून्ममानघ । ०१७०३७२ स संरूढो ऽसकृत्प्राप्तस्ततः कालात्ययो महान् ॥ १७.३७। ०१७०३८१ स ततः कृष्णवचनात्सर्वसात्वतसंसदि । ०१७०३८२ प्रददौ तं मणिं बभ्रुरक्लेशेन महामतिः ॥ १७.३८। ०१७०३९१ ततस्तमार्जवात्प्राप्तं बभ्रोर्हस्तादरिन्दमः । ०१७०३९२ ददौ हृष्टमनाः कृष्णस्तं मणिं बभ्रवे पुनः ॥ १७.३९। ०१७०४०१ स कृष्णहस्तात्सम्प्राप्तं मणिरत्नं स्यमन्तकम् । ०१७०४०२ आबध्य गान्दिनीपुत्रो विरराजांशुमानिव ॥ १७.४०। ०१८००१० मुनय ऊचुः ०१८००११ अहो सुमहदाख्यानं भवता परिकीर्तितम् । ०१८००१२ भारतानां च सर्वेषां पार्थिवानां तथैव च ॥ १८.१। ०१८००२१ देवानां दानवानां च गन्धर्वोरगरक्षसाम् । ०१८००२२ दैत्यानामथ सिद्धानां गुह्यकानां तथैव च ॥ १८.२। ०१८००३१ अत्यद्भुतानि कर्माणि विक्रमा धर्मनिश्चयाः । ०१८००३२ विविधाश्च कथा दिव्या जन्म चाग्र्यमनुत्तमम् ॥ १८.३। ०१८००४१ सृष्टिः प्रजापतेः सम्यक्त्वया प्रोक्ता महामते । ०१८००४२ प्रजापतीनां सर्वेषां गुह्यकाप्सरसां तथा ॥ १८.४। ०१८००५१ स्थावरं जङ्गमं सर्वमुत्पन्नं विविधं जगत् । ०१८००५२ त्वया प्रोक्तं महाभाग श्रुतं चैतन्मनोहरम् ॥ १८.५। ०१८००६१ कथितं पुण्यफलदं पुराणं श्लक्ष्णया गिरा । ०१८००६२ मनःकर्णसुखं सम्यक्प्रीणात्यमृतसम्मितम् ॥ १८.६। ०१८००७१ इदानीं श्रोतुमिच्छामः सकलं मण्डलं भुवः । ०१८००७२ वक्तुमर्हसि सर्वज्ञ परं कौतूहलं हि नः ॥ १८.७। ०१८००८१ यावन्तः सागरा द्वीपास्तथा वर्षाणि पर्वताः । ०१८००८२ वनानि सरितः पुण्य-देवादीनां महामते ॥ १८.८। ०१८००९१ यत्प्रमाणमिदं सर्वं यदाधारं यदात्मकम् । ०१८००९२ संस्थानमस्य जगतो यथावद्वक्तुमर्हसि ॥ १८.९। ०१८०१०० लोमहर्षण उवाच ०१८०१०१ मुनयः श्रूयतामेतत्सङ्क्षेपाद्वदतो मम । ०१८०१०२ नास्य वर्षशतेनापि वक्तुं शक्यो ऽतिविस्तरः ॥ १८.१०। ०१८०१११ जम्बूप्लक्षाह्वयौ द्वीपौ शाल्मलश्चापरो द्विजाः । ०१८०११२ कुशः क्रौञ्चस्तथा शाकः पुष्करश्चैव सप्तमः ॥ १८.११। ०१८०१२१ एते द्वीपाः समुद्रैस्तु सप्त सप्तभिरावृताः । ०१८०१२२ लवणेक्षुसुरासर्पिर्दधिदुग्धजलैः समम् ॥ १८.१२। ०१८०१३१ जम्बूद्वीपः समस्तानामेतेषां मध्यसंस्थितः । ०१८०१३२ तस्यापि मध्ये विप्रेन्द्रा मेरुः कनकपर्वतः ॥ १८.१३। ०१८०१४१ चतुरशीतिसाहस्रैर्योजनैस्तस्य चोच्छ्रयः । ०१८०१४२ प्रविष्टः षोडशाधस्ताद्द्वात्रिंशन्मूर्ध्नि विस्तृतः ॥ १८.१४। ०१८०१५१ मूले षोडशसाहस्रैर्विस्तारस्तस्य सर्वतः । ०१८०१५२ भूपद्मस्यास्य शैलो ऽसौ कर्णिकाकारसंस्थितः ॥ १८.१५। ०१८०१६१ हिमवान्हेमकूटश्च निषधस्तस्य दक्षिणे । ०१८०१६२ नीलः श्वेतश्च शृङ्गी च उत्तरे वर्षपर्वताः ॥ १८.१६। ०१८०१७१ लक्षप्रमाणौ द्वौ मध्ये दशहीनास्तथापरे । ०१८०१७२ सहस्रद्वितयोच्छ्रायास्तावद्विस्तारिणश्च ते ॥ १८.१७। ०१८०१८१ भारतं प्रथमं वर्षं ततः किम्पुरुषं स्मृतम् । ०१८०१८२ हरिवर्षं तथैवान्यन्मेरोर्दक्षिणतो द्विजाः ॥ १८.१८। ०१८०१९१ रम्यकं चोत्तरं वर्षं तस्यैव तु हिरण्मयम् । ०१८०१९२ उत्तराः कुरवश्चैव यथा वै भारतं तथा ॥ १८.१९। ०१८०२०१ नवसाहस्रमेकैकमेतेषां द्विजसत्तमाः । ०१८०२०२ इलावृतं च तन्मध्ये सौवर्णो मेरुरुच्छ्रितः ॥ १८.२०। ०१८०२११ मेरोश्चतुर्दिशं तत्र नवसाहस्रविस्तृतम् । ०१८०२१२ इलावृतं महाभागाश्चत्वारश्चात्र पर्वताः ॥ १८.२१। ०१८०२२१ विष्कम्भा वितता मेरोर्योजनायुतविस्तृताः । ०१८०२२२ पूर्वेण मन्दरो नाम दक्षिणे गन्धमादनः ॥ १८.२२। ०१८०२३१ विपुलः पश्चिमे पार्श्वे सुपार्श्वश्चोत्तरे स्थितः । ०१८०२३२ कदम्बस्तेषु जम्बूश्च पिप्पलो वट एव च ॥ १८.२३। ०१८०२४१ एकादशशतायामाः पादपा गिरिकेतवः । ०१८०२४२ जम्बूद्वीपस्य सा जम्बूर्नामहेतुर्द्विजोत्तमाः ॥ १८.२४। ०१८०२५१ महागजप्रमाणानि जम्ब्वास्तस्याः फलानि वै । ०१८०२५२ पतन्ति भूभृतः पृष्ठे शीर्यमाणानि सर्वतः ॥ १८.२५। ०१८०२६१ रसेन तेषां विख्याता तत्र जम्बूनदीति वै । ०१८०२६२ सरित्प्रवर्तते सा च पीयते तन्निवासिभिः ॥ १८.२६। ०१८०२७१ न खेदो न च दौर्गन्ध्यं न जरा नेन्द्रियक्षयः । ०१८०२७२ तत्पानस्वस्थमनसां जनानां तत्र जायते ॥ १८.२७। ०१८०२८१ तीरमृत्तद्रसं प्राप्य सुखवायुविशोषिता । ०१८०२८२ जाम्बूनदाख्यं भवति सुवर्णं सिद्धभूषणम् ॥ १८.२८। ०१८०२९१ भद्राश्वं पूर्वतो मेरोः केतुमालं च पश्चिमे । ०१८०२९२ वर्षे द्वे तु मुनिश्रेष्ठास्तयोर्मध्ये त्विलावृतम् ॥ १८.२९। ०१८०३०१ वनं चैत्ररथं पूर्वे दक्षिणे गन्धमादनम् । ०१८०३०२ वैभ्राजं पश्चिमे तद्वदुत्तरे नन्दनं स्मृतम् ॥ १८.३०। ०१८०३११ अरुणोदं महाभद्रमसितोदं समानसम् । ०१८०३१२ सरांस्येतानि चत्वारि देवभोग्यानि सर्वदा ॥ १८.३१। ०१८०३२१ शान्तवांश्चक्रकुञ्जश्च कुररी माल्यवांस्तथा । ०१८०३२२ वैकङ्कप्रमुखा मेरोः पूर्वतः केसराचलाः ॥ १८.३२। ०१८०३३१ त्रिकूटः शिशिरश्चैव पतङ्गो रुचकस्तथा । ०१८०३३२ निषधादयो दक्षिणतस्तस्य केसरपर्वताः ॥ १८.३३। ०१८०३४१ शिखिवासः सवैदूर्यः कपिलो गन्धमादनः । ०१८०३४२ जानुधिप्रमुखास्तद्वत्पश्चिमे केसराचलाः ॥ १८.३४। ०१८०३५१ मेरोरनन्तरास्ते च जठरादिष्ववस्थिताः । ०१८०३५२ शङ्खकूटो ऽथ ऋषभो हंसो नागस्तथापराः ॥ १८.३५। ०१८०३६१ कालञ्जराद्याश्च तथा उत्तरे केसराचलाः । ०१८०३६२ चतुर्दश सहस्राणि योजनानां महापुरी ॥ १८.३६। ०१८०३७१ मेरोरुपरि विप्रेन्द्रा ब्रह्मणः कथिता दिवि । ०१८०३७२ तस्यां समन्ततश्चाष्टौ दिशासु विदिशासु च ॥ १८.३७। ०१८०३८१ इन्द्रादिलोकपालानां प्रख्याताः प्रवराः पुरः । ०१८०३८२ विष्णुपादविनिष्क्रान्ता प्लावयन्तीन्दुमण्डलम् ॥ १८.३८। ०१८०३९१ समन्ताद्ब्रह्मणः पुर्यां गङ्गा पतति वै दिवि । ०१८०३९२ सा तत्र पतिता दिक्षु चतुर्धा प्रत्यपद्यत ॥ १८.३९। ०१८०४०१ सीता चालकनन्दा च चक्षुर्बध्रा च वै क्रमात् । ०१८०४०२ पूर्वेण सीता शैलाच्च शैलं यान्त्यन्तरिक्षगा ॥ १८.४०। ०१८०४११ ततश्च पूर्ववर्षेण भद्राश्वेनैति सार्णवम् । ०१८०४१२ तथैवालकनन्दा च दक्षिणेनैत्य भारतम् ॥ १८.४१। ०१८०४२१ प्रयाति सागरं भूत्वा सप्तभेदा द्विजोत्तमाः । ०१८०४२२ चक्षुश्च पश्चिमगिरीनतीत्य सकलांस्ततः ॥ १८.४२। ०१८०४३१ पश्चिमं केतुमालाख्यं वर्षमन्वेति सार्णवम् । ०१८०४३२ भद्रा तथोत्तरगिरीनुत्तरांश्च तथा कुरून् ॥ १८.४३। ०१८०४४१ अतीत्योत्तरमम्भोधिं समभ्येति द्विजोत्तमाः । ०१८०४४२ आनीलनिषधायामौ माल्यवद्गन्धमादनौ ॥ १८.४४। ०१८०४५१ तयोर्मध्यगतो मेरुः कर्णिकाकारसंस्थितः । ०१८०४५२ भारताः केतुमालाश्च भद्राश्वाः कुरवस्तथा ॥ १८.४५। ०१८०४६१ पत्त्राणि लोकशैलस्य मर्यादाशैलबाह्यतः । ०१८०४६२ जठरो देवकूटश्च मर्यादापर्वतावुभौ ॥ १८.४६। ०१८०४७१ तौ दक्षिणोत्तरायामावानीलनिषधायतौ । ०१८०४७२ गन्धमादनकैलासौ पूर्वपश्चात्तु तावुभौ ॥ १८.४७। ०१८०४८१ अशीतियोजनायामावर्णवान्तर्व्यवस्थितौ । ०१८०४८२ निषधः पारियात्रश्च मर्यादापर्वतावुभौ ॥ १८.४८। ०१८०४९१ तौ दक्षिणोत्तरायामावानीलनिषधायतौ । ०१८०४९२ मेरोः पश्चिमदिग्भागे यथा पूर्वौ तथा स्थितौ ॥ १८.४९। ०१८०५०१ त्रिशृङ्गो जारुधिश्चैव उत्तरौ वर्षपर्वतौ । ०१८०५०२ पूर्वपश्चायतावेतावर्णवान्तर्व्यवस्थितौ ॥ १८.५०। ०१८०५११ इत्येते हि मया प्रोक्ता मर्यादापर्वता द्विजाः । ०१८०५१२ जठरावस्थिता मेरोर्येषां द्वौ द्वौ चतुर्दिशम् ॥ १८.५१। ०१८०५२१ मेरोश्चतुर्दिशं ये तु प्रोक्ताः केसरपर्वताः । ०१८०५२२ शीतान्ताद्या द्विजास्तेषामतीव हि मनोहराः ॥ १८.५२। ०१८०५३१ शैलानामन्तरद्रोण्यः सिद्धचारणसेविताः । ०१८०५३२ सुरम्याणि तथा तासु काननानि पुराणि च ॥ १८.५३। ०१८०५४१ लक्ष्मीविष्ण्वग्निसूर्येन्द्र-देवानां मुनिसत्तमाः । ०१८०५४२ तास्वायतनवर्याणि जुष्टानि नरकिन्नरैः ॥ १८.५४। ०१८०५५१ गन्धर्वयक्षरक्षांसि तथा दैतेयदानवाः । ०१८०५५२ क्रीडन्ति तासु रम्यासु शैलद्रोणीष्वहर्निशम् ॥ १८.५५। ०१८०५६१ भौमा ह्येते स्मृताः स्वर्गा धर्मिणामालया द्विजाः । ०१८०५६२ नैतेषु पापकर्तारो यान्ति जन्मशतैरपि ॥ १८.५६। ०१८०५७१ भद्राश्वे भगवान्विष्णुरास्ते हयशिरा द्विजाः । ०१८०५७२ वाराहः केतुमाले तु भारते कूर्मरूपधृक् ॥ १८.५७। ०१८०५८१ मत्स्यरूपश्च गोविन्दः कुरुष्वास्ते सनातनः । ०१८०५८२ विश्वरूपेण सर्वत्र सर्वः सर्वेश्वरो हरिः ॥ १८.५८। ०१८०५९१ सर्वस्याधारभूतो ऽसौ द्विजा आस्ते ऽखिलात्मकः । ०१८०५९२ यानि किम्पुरुषाद्यानि वर्षाण्यष्टौ द्विजोत्तमाः ॥ १८.५९। ०१८०६०१ न तेषु शोको नायासो नोद्वेगः क्षुद्भयादिकम् । ०१८०६०२ सुस्थाः प्रजा निरातङ्काः सर्वदुःखविवर्जिताः ॥ १८.६०। ०१८०६११ दशद्वादशवर्षाणां सहस्राणि स्थिरायुषः । ०१८०६१२ नैतेषु भौमान्यन्यानि क्षुत्पिपासादि नो द्विजाः ॥ १८.६१। ०१८०६२१ कृतत्रेतादिका नैव तेषु स्थानेषु कल्पना । ०१८०६२२ सर्वेष्वेतेषु वर्षेषु सप्त सप्त कुलाचलाः । ०१८०६२३ नद्यश्च शतशस्तेभ्यः प्रसूता या द्विजोत्तमाः ॥ १८.६२। ०१९००१० लोमहर्षण उवाच ०१९००११ उत्तरेण समुद्रस्य हिमाद्रेश्चैव दक्षिणे । ०१९००१२ वर्षं तद्भारतं नाम भारती यत्र सन्ततिः ॥ १९.१। ०१९००२१ नवयोजनसाहस्रो विस्तारश्च द्विजोत्तमाः । ०१९००२२ कर्मभूमिरियं स्वर्गमपवर्गं च पृच्छताम् ॥ १९.२। ०१९००३१ महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः । ०१९००३२ विन्ध्यश्च पारियात्रश्च सप्तात्र कुलपर्वताः ॥ १९.३। ०१९००४१ अतः सम्प्राप्यते स्वर्गो मुक्तिमस्मात्प्रयाति वै । ०१९००४२ तिर्यक्त्वं नरकं चापि यान्त्यतः पुरुषा द्विजाः ॥ १९.४। ०१९००५१ इतः स्वर्गश्च मोक्षश्च मध्यं चान्ते च गच्छति । ०१९००५२ न खल्वन्यत्र मर्त्यानां कर्म भूमौ विधीयते ॥ १९.५। ०१९००६१ भारतस्यास्य वर्षस्य नव भेदान्निशामय । ०१९००६२ इन्द्रद्वीपः कसेतुमांस्ताम्रपर्णो गभस्तिमान् ॥ १९.६। ०१९००७१ नागद्वीपस्तथा सौम्यो गन्धर्वस्त्वथ वारुणः । ०१९००७२ अयं तु नवमस्तेषां द्वीपः सागरसंवृतः ॥ १९.७। ०१९००८१ योजनानां सहस्रं च द्वीपो ऽयं दक्षिणोत्तरात् । ०१९००८२ पूर्वे किरातास्तिष्ठन्ति पश्चिमे यवनाः स्थिताः ॥ १९.८। ०१९००९१ ब्राह्मणाः क्षत्रिया वैश्या मध्ये शूद्राश्च भागशः । ०१९००९२ इज्यायुद्धवणिज्याद्य-वृत्तिमन्तो व्यवस्थिताः ॥ १९.९। ०१९०१०१ शतद्रुचन्द्रभागाद्या हिमवत्पादनिःसृताः । ०१९०१०२ वेदस्मृतिमुखाश्चान्याः पारियात्रोद्भवा मुने ॥ १९.१०। ०१९०१११ नर्मदासुरमाद्याश्च नद्यो विन्ध्यविनिःसृताः । ०१९०११२ तापीपयोष्णीनिर्विन्ध्या-कावेरीप्रमुखा नदीः ॥ १९.११। ०१९०१२१ ऋक्षपादोद्भवा ह्येताः श्रुताः पापं हरन्ति याः । ०१९०१२२ गोदावरीभीमरथी-कृष्णवेण्यादिकास्तथा ॥ १९.१२। ०१९०१३१ सह्यपादोद्भवा नद्यः स्मृताः पापभयापहाः । ०१९०१३२ कृतमालाताम्रपर्णी-प्रमुखा मलयोद्भवाः ॥ १९.१३। ०१९०१४१ त्रिसान्ध्यर्षिकुल्याद्या महेन्द्रप्रभवाः स्मृताः । ०१९०१४२ ऋषिकुल्याकुमाराद्याः शुक्तिमत्पादसम्भवाः ॥ १९.१४। ०१९०१५१ आसां नद्युपनद्यश्च सन्त्यन्यास्तु सहस्रशः । ०१९०१५२ तास्विमे कुरुपञ्चाल-मध्यदेशादयो जनाः ॥ १९.१५। ०१९०१६१ पूर्वदेशादिकाश्चैव कामरूपनिवासिनः । ०१९०१६२ पौण्ड्राः कलिङ्गा मगधा दाक्षिणात्याश्च सर्वशः ॥ १९.१६। ०१९०१७१ तथा परान्त्याः सौराष्ट्राः शूद्राभीरास्तथार्बुदाः । ०१९०१७२ मारुका मालवाश्चैव पारियात्रनिवासिनः ॥ १९.१७। ०१९०१८१ सौवीराः सैन्धवापन्नाः शाल्वाः शाकलवासिनः । ०१९०१८२ मद्रारामास्तथाम्बष्ठाः पारसीकादयस्तथा ॥ १९.१८। ०१९०१९१ आसां पिबन्ति सलिलं वसन्ति सरितां सदा । ०१९०१९२ समोपेता महाभाग हृष्टपुष्टजनाकुलाः ॥ १९.१९। ०१९०२०१ वसन्ति भारते वर्षे युगान्यत्र महामुने । ०१९०२०२ कृतं त्रेता द्वापरं च कलिश्चान्यत्र न क्वचित् ॥ १९.२०। ०१९०२११ तपस्तप्यन्ति यतयो जुह्वते चात्र यज्विनः । ०१९०२१२ दानानि चात्र दीयन्ते परलोकार्थमादरात् ॥ १९.२१। ०१९०२२१ पुरुषैर्यज्ञपुरुषो जम्बूद्वीपे सदेज्यते । ०१९०२२२ यज्ञैर्यज्ञमयो विष्णुरन्यद्वीपेषु चान्यथा ॥ १९.२२। ०१९०२३१ अत्रापि भारतं श्रेष्ठं जम्बूद्वीपे महामुने । ०१९०२३२ यतो हि कर्मभूरेषा यतो ऽन्या भोगभूमयः ॥ १९.२३। ०१९०२४१ अत्र जन्मसहस्राणां सहस्रैरपि सत्तम । ०१९०२४२ कदाचिल्लभते जन्तुर्मानुष्यं पुण्यसञ्चयन् ॥ १९.२४। ०१९०२५१ गायन्ति देवाः किल गीतकानि । ०१९०२५२ धन्यास्तु ये भारतभूमिभागे । ०१९०२५३ स्वर्गापवर्गास्पदहेतुभूते । ०१९०२५४ भवन्ति भूयः पुरुषा मनुष्याः ॥ १९.२५। ०१९०२६१ कर्माण्यसङ्कल्पिततत्फलानि । ०१९०२६२ सन्न्यस्य विष्णौ परमात्मरूपे । ०१९०२६३ अवाप्य तां कर्ममहीमनन्ते । ०१९०२६४ तस्मिंल्लयं ये त्वमलाः प्रयान्ति ॥ १९.२६। ०१९०२७१ जानीम नो तत्कूवयं विलीने । ०१९०२७२ स्वर्गप्रदे कर्मणि देहबन्धम् । ०१९०२७३ प्राप्स्यन्ति धन्याः खलु ते मनुष्या । ०१९०२७४ ये भारतेनेन्द्रियविप्रहीनाः ॥ १९.२७। ०१९०२८१ नववर्षं च भो विप्रा जम्बूद्वीपमिदं मया । ०१९०२८२ लक्षयोजनविस्तारं सङ्क्षेपात्कथितं द्विजाः ॥ १९.२८। ०१९०२९१ जम्बूद्वीपं समावृत्य लक्षयोजनविस्तरः । ०१९०२९२ भो द्विजा वलयाकारः स्थितः क्षीरोदधिर्बहिः ॥ १९.२९। ०२०००१० लोमहर्षण उवाच ०२०००११ क्षारोदेन यथा द्वीपो जम्बूसञ्ज्ञो ऽभिवेष्टितः । ०२०००१२ संवेष्ट्य क्षारमुदधिं प्लक्षद्वीपस्तथा स्थितः ॥ २०.१। ०२०००२१ जम्बूद्वीपस्य विस्तारः शतसाहस्रसम्मितः । ०२०००२२ स एव द्विगुणो विप्राः प्लक्षद्वीपे ऽप्युदाहृतः ॥ २०.२। ०२०००३१ सप्त मेधातिथेः पुत्राः प्लक्षद्वीपेश्वरस्य वै । ०२०००३२ श्रेष्ठः शान्तभयो नाम शिशिरस्तदनन्तरम् ॥ २०.३। ०२०००४१ सुखोदयस्तथानन्दः शिवः क्षेमक एव च । ०२०००४२ ध्रुवश्च सप्तमस्तेषां प्लक्षद्वीपेश्वरा हि ते ॥ २०.४। ०२०००५१ पूर्वं शान्तभयं वर्षं शिशिरं सुखदं तथा । ०२०००५२ आनन्दं च शिवं चैव क्षेमकं ध्रुवमेव च ॥ २०.५। ०२०००६१ मर्यादाकारकास्तेषां तथान्ये वर्षपर्वताः । ०२०००६२ सप्तैव तेषां नामानि शृणुध्वं मुनिसत्तमाः ॥ २०.६। ०२०००७१ गोमेदश्चैव चन्द्रश्च नारदो दन्दुभिस्तथा । ०२०००७२ सोमकः सुमनाः शैलो वैभ्राजश्चैव सप्तमः ॥ २०.७। ०२०००८१ वर्षाचलेषु रम्येषु वर्षेष्वेतेषु चानघाः । ०२०००८२ वसन्ति देवगन्धर्व-सहिताः सहितं प्रजाः ॥ २०.८। ०२०००९१ तेषु पुण्या जनपदा वीरा न म्रियते जनः । ०२०००९२ नाधयो व्याधयो वापि सर्वकालसुखं हि तत् ॥ २०.९। ०२००१०१ तेषां नद्यश्च सप्तैव वर्षाणां तु समुद्रगाः । ०२००१०२ नामतस्ताः प्रवक्ष्यामि श्रुताः पापं हरन्ति याः ॥ २०.१०। ०२००१११ अनुतप्ता शिखा चैव विप्राशा त्रिदिवा क्रमुः । ०२००११२ अमृता सुकृता चैव सप्तैतास्तत्र निम्नगाः ॥ २०.११। ०२००१२१ एते शैलास्तथा नद्यः प्रधानाः कथिता द्विजाः । ०२००१२२ क्षुद्रनद्यस्तथा शैलास्तत्र सन्ति सहस्रशः ॥ २०.१२। ०२००१३१ ताः पिबन्ति सदा हृष्टा नदीर्जनपदास्तु ते । ०२००१३२ अवसर्पिणी नदी तेषां न चैवोत्सर्पिणी द्विजाः ॥ २०.१३। ०२००१४१ न तेष्वस्ति युगावस्था तेषु स्थानेषु सप्तसु । ०२००१४२ त्रेतायुगसमः कालः सर्वदैव द्विजोत्तमाः ॥ २०.१४। ०२००१५१ प्लक्षद्वीपादिके विप्राः शाकद्वीपान्तिकेषु वै । ०२००१५२ पञ्चवर्षसहस्राणि जना जीवन्त्यनामयाः ॥ २०.१५। ०२००१६१ धर्मश्चतुर्विधस्तेषु वर्णाश्रमविभागजः । ०२००१६२ वर्णाश्च तत्र चत्वारस्तान्बुधाः प्रवदामि वः ॥ २०.१६। ०२००१७१ आर्यकाः कुरवश्चैव विविश्वा भाविनश्च ये । ०२००१७२ विप्रक्षत्रियवैश्यास्ते शूद्राश्च मुनिसत्तमाः ॥ २०.१७। ०२००१८१ जम्बूवृक्षप्रमाणस्तु तन्मध्ये सुमहातरुः । ०२००१८२ प्लक्षस्तन्नामसञ्ज्ञो ऽयं प्लक्षद्वीपो द्विजोत्तमाः ॥ २०.१८। ०२००१९१ इज्यते तत्र भगवांस्तैर्वर्णैरार्यकादिभिः । ०२००१९२ सोमरूपी जगत्स्रष्टा सर्वः सर्वेश्वरो हरिः ॥ २०.१९। ०२००२०१ प्लक्षद्वीपप्रमाणेन प्लक्षद्वीपः समावृतः । ०२००२०२ तथैवेक्षुरसोदेन परिवेषानुकारिणा ॥ २०.२०। ०२००२११ इत्येतद्वो मुनिश्रेष्ठाः प्लक्षद्वीप उदाहृतः । ०२००२१२ सङ्क्षेपेण मया भूयः शाल्मलं तं निबोधत ॥ २०.२१। ०२००२२१ शाल्मलस्येश्वरो वीरो वपुष्मांस्तत्सुता द्विजाः । ०२००२२२ तेषां तु नाम सञ्ज्ञानि सप्तवर्षाणि तानि वै ॥ २०.२२। ०२००२३१ श्वेतो ऽथ हरितश्चैव जीमूतो रोहितस्तथा । ०२००२३२ वैद्युतो मानसश्चैव सुप्रभश्च द्विजोत्तमाः ॥ २०.२३। ०२००२४१ शाल्मनश्च समुद्रो ऽसौ द्वीपेनेक्षुरसोदकः । ०२००२४२ विस्ताराद्द्विगुणेनाथ सर्वतः संवृतः स्थितः ॥ २०.२४। ०२००२५१ तत्रापि पर्वताः सप्त विज्ञेया रत्नयोनयः । ०२००२५२ वर्षाभिव्यञ्जकास्ते तु तथा सप्तैव निम्नगाः ॥ २०.२५। ०२००२६१ कुमुदश्चोन्नतश्चैव तृतीयस्तु बलाहकः । ०२००२६२ द्रोणो यत्र महौषध्यः स चतुर्थो महीधरः ॥ २०.२६। ०२००२७१ कङ्कस्तु पञ्चमः षष्ठो महिषः सप्तमस्तथा । ०२००२७२ ककुद्मान्पर्वतवरः सरिन्नामान्यतो द्विजाः ॥ २०.२७। ०२००२८१ श्रोणी तोया वितृष्णा च चन्द्रा शुक्रा विमोचनी । ०२००२८२ निवृत्तिः सप्तमी तासां स्मृतास्ताः पापशान्तिदाः ॥ २०.२८। ०२००२९१ श्वेतं च लोहितं चैव जीमूतं हरितं तथा । ०२००२९२ वैद्युतं मानसं चैव सुप्रभं नाम सप्तमम् ॥ २०.२९। ०२००३०१ सप्तैतानि तु वर्षाणि चातुर्वर्ण्ययुतानि च । ०२००३०२ वर्णाश्च शाल्मले ये च वसन्त्येषु द्विजोत्तमाः ॥ २०.३०। ०२००३११ कपिलाश्चारुणाः पीताः कृष्णाश्चैव पृथक्पृथक् । ०२००३१२ ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव यजन्ति तम् ॥ २०.३१। ०२००३२१ भगवन्तं समस्तस्य विष्णुमात्मानमव्ययम् । ०२००३२२ वायुभूतं मखश्रेष्ठैर्यज्वानो यज्ञसंस्थितम् ॥ २०.३२। ०२००३३१ देवानामत्र सान्निध्यमतीव सुमनोहरे । ०२००३३२ शाल्मलिश्च महावृक्षो नामनिर्वृत्तिकारकः ॥ २०.३३। ०२००३४१ एष द्वीपः समुद्रेण सुरोदेन समावृतः । ०२००३४२ विस्ताराच्छाल्मलेश्चैव समेन तु समन्ततः ॥ २०.३४। ०२००३५१ सुरोदकः परिवृतः कुशद्वीपेन सर्वतः । ०२००३५२ शाल्मलस्य तु विस्ताराद्द्विगुणेन समन्ततः ॥ २०.३५। ०२००३६१ ज्योतिष्मतः कुशद्वीपे शृणुध्वं तस्य पुत्रकान् । ०२००३६२ उद्भिदो वेणुमांश्चैव स्वैरथो रन्धनो धृतिः ॥ २०.३६। ०२००३७१ प्रभाकरो ऽथ कपिलस्तन्नाम्ना वर्षपद्धतिः । ०२००३७२ तस्यां वसन्ति मनुजैः सह दैतेयदानवाः ॥ २०.३७। ०२००३८१ तथैव देवगन्धर्वा यक्षकिम्पुरुषादयः । ०२००३८२ वर्णास्तत्रापि चत्वारो निजानुष्ठानतत्पराः ॥ २०.३८। ०२००३९१ दमिनः शुष्मिणः स्नेहा मान्दहाश्च द्विजोत्तमाः । ०२००३९२ ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चानुक्रमोदिताः ॥ २०.३९। ०२००४०१ यथोक्तकर्मकर्तृत्वात्स्वाधिकारक्षयाय ते । ०२००४०२ तत्र ते तु कुशद्वीपे ब्रह्मरूपं जनार्दनम् ॥ २०.४०। ०२००४११ यजन्तः क्षपयन्त्युग्रमधिकारफलप्रदम् । ०२००४१२ विद्रुमो हेमशैलश्च द्युतिमान्पुष्टिमांस्तथा ॥ २०.४१। ०२००४२१ कुशेशयो हरिश्चैव सप्तमो मन्दराचलः । ०२००४२२ वर्षाचलास्तु सप्तैते द्वीपे तत्र द्विजोत्तमाः ॥ २०.४२। ०२००४३१ नद्यश्च सप्त तासां तु वक्ष्ये नामान्यनुक्रमात् । ०२००४३२ धूतपापा शिवा चैव पवित्रा सम्मतिस्तथा ॥ २०.४३। ०२००४४१ विद्युदम्भो मही चान्या सर्वपापहरास्त्विमाः । ०२००४४२ अन्याः सहस्रशस्तत्र क्षुद्रनद्यस्तथाचलाः ॥ २०.४४। ०२००४५१ कुशद्वीपे कुशस्तम्बः सञ्ज्ञया तस्य तत्स्मृतम् । ०२००४५२ तत्प्रमाणेन स द्वीपो घृतोदेन समावृतः ॥ २०.४५। ०२००४६१ घृतोदश्च समुद्रो वै क्रौञ्चद्वीपेन संवृतः । ०२००४६२ क्रौञ्चद्वीपो मुनिश्रेष्ठाः श्रूयतां चापरो महान् ॥ २०.४६। ०२००४७१ कुशद्वीपस्य विस्ताराद्द्विगुणो यस्य विस्तरः । ०२००४७२ क्रौञ्चद्वीपे द्युतिमतः पुत्राः सप्त महात्मनः ॥ २०.४७। ०२००४८१ तन्नामानि च वर्षाणि तेषां चक्रे महामनाः । ०२००४८२ कुशगो मन्दगश्चोष्णः पीवरो ऽथान्धकारकः ॥ २०.४८। ०२००४९१ मुनिश्च दुन्दुभिश्चैव सप्तैते तत्सुता द्विजाः । ०२००४९२ तत्रापि देवगन्धर्व-सेविताः सुमनोरमाः ॥ २०.४९। ०२००५०१ वर्षाचला मुनिश्रेष्ठास्तेषां नामानि भो द्विजाः । ०२००५०२ क्रौञ्चश्च वामनश्चैव तृतीयश्चान्धकारकः ॥ २०.५०। ०२००५११ देवव्रतो धमश्चैव तथान्यः पुण्डरीकवान् । ०२००५१२ दुन्दुभिश्च महाशैलो द्विगुणास्ते परस्परम् ॥ २०.५१। ०२००५२१ द्वीपाद्द्वीपेषु ये शैलास्तथा द्वीपानि ते तथा । ०२००५२२ वर्षेष्वेतेषु रम्येषु वर्षशैलवरेषु च ॥ २०.५२। ०२००५३१ निवसन्ति निरातङ्काः सह देवगणैः प्रजाः । ०२००५३२ पुष्कला पुष्करा धन्यास्ते ख्याताश्च द्विजोत्तमाः ॥ २०.५३। ०२००५४१ ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चानुक्रमोदिताः । ०२००५४२ तत्र नद्यो मुनिश्रेष्ठा याः पिबन्ति तु ते सदा ॥ २०.५४। ०२००५५१ सप्त प्रधानाः शतशस्तथान्याः क्षुद्रनिम्नगाः । ०२००५५२ गौरी कुमुद्वती चैव सन्ध्या रात्रिर्मनोजवा ॥ २०.५५। ०२००५६१ ख्यातिश्च पुण्डरीका च सप्तैता वर्षनिम्नगाः । ०२००५६२ तत्रापि वर्णैर्भगवान्पुष्कराद्यैर्जनार्दनः ॥ २०.५६। ०२००५७१ ध्यानयोगै रुद्ररूप ईज्यते यज्ञसन्निधौ । ०२००५७२ क्रौञ्चद्वीपः समुद्रेण दधिमण्डोदकेन तु ॥ २०.५७। ०२००५८१ आवृतः सर्वतः क्रौञ्च-द्वीपतुल्येन मानतः । ०२००५८२ दधिमण्डोदकश्चापि शाकद्वीपेन संवृतः ॥ २०.५८। ०२००५९१ क्रौञ्चद्वीपस्य विस्तार-द्विगुणेन द्विजोत्तमाः । ०२००५९२ शाकद्वीपेश्वरस्यापि भव्यस्य सुमहात्मनः ॥ २०.५९। ०२००६०१ सप्तैव तनयास्तेषां ददौ वर्षाणि सप्त सः । ०२००६०२ जलदश्च कुमारश्च सुकुमारो मनीरकः ॥ २०.६०। ०२००६११ कुसमोदश्च मोदाकिः सप्तमश्च महाद्रुमः । ०२००६१२ तत्सञ्ज्ञान्येव तत्रापि सप्त वर्षाण्यनुक्रमात् ॥ २०.६१। ०२००६२१ तत्रापि पर्वताः सप्त वर्षविच्छेदकारकाः । ०२००६२२ पूर्वस्तत्रोदयगिरिर्जलधारस्तथापरः ॥ २०.६२। ०२००६३१ तथा रैवतकः श्यामस्तथैवाम्भोगिरिर्द्विजाः । ०२००६३२ आस्तिकेयस्तथा रम्यः केसरी पर्वतोत्तमः ॥ २०.६३। ०२००६४१ शाकश्चात्र महावृक्षः सिद्धगन्धर्वसेवितः । ०२००६४२ यत्पत्त्रवातसंस्पर्शादाह्लादो जायते परः ॥ २०.६४। ०२००६५१ तत्र पुण्या जनपदाश्चातुर्वर्ण्यसमन्विताः । ०२००६५२ निवसन्ति महात्मानो निरातङ्का निरामयाः ॥ २०.६५। ०२००६६१ नद्यश्चात्र महापुण्याः सर्वपापभयापहाः । ०२००६६२ सुकुमारी कुमारी च नलिनी रेणुका च या ॥ २०.६६। ०२००६७१ इक्षुश्च धेनुका चैव गभस्ती सप्तमी तथा । ०२००६७२ अन्यास्त्वयुतशस्तत्र क्षुद्रनद्यो द्विजोत्तमाः ॥ २०.६७। ०२००६८१ महीधरास्तथा सन्ति शतशो ऽथ सहस्रशः । ०२००६८२ ताः पिबन्ति मुदा युक्ता जलदादिषु ये स्थिताः ॥ २०.६८। ०२००६९१ वर्षेषु ये जनपदाश्चतुर्थार्थसमन्विताः । ०२००६९२ नद्यश्चात्र महापुण्याः स्वर्गादभ्येत्य मेदिनीम् ॥ २०.६९। ०२००७०१ धर्महानिर्न तेष्वस्ति न संहर्षो न शुक्तथा । ०२००७०२ मर्यादाव्युत्क्रमश्चापि तेषु देशेषु सप्तसु ॥ २०.७०। ०२००७११ मगाश्च मागधाश्चैव मानसा मन्दगास्तथा । ०२००७१२ मगा ब्राह्मणभूयिष्ठा मागधाः क्षत्रियास्तु ते ॥ २०.७१। ०२००७२१ वैश्यास्तु मानसास्तेषां शूद्रा ज्ञेयास्तु मन्दगाः । ०२००७२२ शाकद्वीपे स्थितैर्विष्णुः सूर्यरूपधरो हरिः ॥ २०.७२। ०२००७३१ यथोक्तैरिज्यते सम्यक्कर्मभिर्नियतात्मभिः । ०२००७३२ शाकद्वीपस्ततो विप्राः क्षीरोदेन समन्ततः ॥ २०.७३। ०२००७४१ शाकद्वीपप्रमाणेन वलयेनेव वेष्टितः । ०२००७४२ क्षीराब्धिः सर्वतो विप्राः पुष्कराख्येन वेष्टितः ॥ २०.७४। ०२००७५१ द्वीपेन शाकद्वीपात्तु द्विगुणेन समन्ततः । ०२००७५२ पुष्करे सवनस्यापि महावीतो ऽभवत्सुतः ॥ २०.७५। ०२००७६१ धातकिश्च तयोस्तद्वद्द्वे वर्षे नामसञ्ज्ञिते । ०२००७६२ महावीतं तथैवान्यद्धातकीखण्डसञ्ज्ञितम् ॥ २०.७६। ०२००७७१ एकश्चात्र महाभागाः प्रख्यातो वर्षपर्वतः । ०२००७७२ मानसोत्तरसञ्ज्ञो वै मध्यतो वलयाकृतिः ॥ २०.७७। ०२००७८१ योजनानां सहस्राणि ऊर्ध्वं पञ्चाशदुच्छ्रितः । ०२००७८२ तावदेव च विस्तीर्णः सर्वतः परिमण्डलः ॥ २०.७८। ०२००७९१ पुष्करद्वीपवलयं मध्येन विभजन्निव । ०२००७९२ स्थितो ऽसौ तेन विच्छिन्नं जातं वर्षद्वयं हि तत् ॥ २०.७९। ०२००८०१ वलयाकारमेकैकं तयोर्मध्ये महागिरिः । ०२००८०२ दशवर्षसहस्राणि तत्र जीवन्ति मानवाः ॥ २०.८०। ०२००८११ निरामया विशोकाश्च रागद्वेषविवर्जिताः । ०२००८१२ अधमोत्तमौ न तेष्वास्तां न वध्यवधकौ द्विजाः ॥ २०.८१। ०२००८२१ नेर्ष्यासूया भयं रोषो दोषो लोभादिकं न च । ०२००८२२ महावीतं बहिर्वर्षं धातकीखण्डमन्ततः ॥ २०.८२। ०२००८३१ मानसोत्तरशैलस्य देवदैत्यादिसेवितम् । ०२००८३२ सत्यानृते न तत्रास्तां द्वीपे पुष्करसञ्ज्ञिते ॥ २०.८३। ०२००८४१ न तत्र नद्यः शैला वा द्वीपे वर्षद्वयान्विते । ०२००८४२ तुल्यवेषास्तु मनुजा देवैस्तत्रैकरूपिणः ॥ २०.८४। ०२००८५१ वर्णाश्रमाचारहीनं धर्माहरणवर्जितम् । ०२००८५२ त्रयीवार्त्तादण्डनीति-शुश्रूषारहितं च तत् ॥ २०.८५। ०२००८६१ वर्षद्वयं ततो विप्रा भौमस्वर्गो ऽयमुत्तमः । ०२००८६२ सर्वस्य सुखदः कालो जरारोगविवर्जितः ॥ २०.८६। ०२००८७१ पुष्करे धातकीखण्डे महावीते च वै द्विजाः । ०२००८७२ न्यग्रोधः पुष्करद्वीपे ब्रह्मणः स्थानमुत्तमम् ॥ २०.८७। ०२००८८१ तस्मिन्निवसति ब्रह्मा पूज्यमानः सुरासुरैः । ०२००८८२ स्वादूदकेनोदधिना पुष्करः परिवेष्टितः ॥ २०.८८। ०२००८९१ समेन पुष्करस्यैव विस्तारान्मण्डलात्तथा । ०२००८९२ एवं द्वीपाः समुद्रैस्तु सप्त सप्तभिरावृताः ॥ २०.८९। ०२००९०१ द्वीपश्चैव समुद्रश्च समानौ द्विगुणौ परौ । ०२००९०२ पयांसि सर्वदा सर्व-समुद्रेषु समानि वै ॥ २०.९०। ०२००९११ न्यूनातिरिक्तता तेषां कदाचिन्नैव जायते । ०२००९१२ स्थालीस्थमग्निसंयोगादुद्रेकि सलिलं यथा ॥ २०.९१। ०२००९२१ तथेन्दुवृद्धौ सलिलमम्भोधौ मुनिसत्तमाः । ०२००९२२ अन्यूनानतिरिक्ताश्च वर्धन्त्यापो ह्रसन्ति च ॥ २०.९२। ०२००९३१ उदयास्तमने त्विन्दोः पक्षयोः शुक्लकृष्णयोः । ०२००९३२ दशोत्तराणि पञ्चैव अङ्गुलानां शतानि च ॥ २०.९३। ०२००९४१ अपां वृद्धिक्षयौ दृष्टौ सामुद्रीणां द्विजोत्तमाः । ०२००९४२ भोजनं पुष्करद्वीपे तत्र स्वयमुपस्थितम् ॥ २०.९४। ०२००९५१ भुञ्जन्ति षड्रसं विप्राः प्रजाः सर्वाः सदैव हि । ०२००९५२ स्वादूदकस्य परितो दृश्यते लोकसंस्थितिः ॥ २०.९५। ०२००९६१ द्विगुणा काञ्चनी भूमिः सर्वजन्तुविवर्जिता । ०२००९६२ लोकालोकस्ततः शैलो योजनायुतविस्तृतः ॥ २०.९६। ०२००९७१ उच्छ्रयेणापि तावन्ति सहस्राण्यावलोहि सः । ०२००९७२ ततस्तमः समावृत्य तं शैलं सर्वतः स्थितम् ॥ २०.९७। ०२००९८१ तमश्चाण्डकटाहेन समन्तात्परिवेष्टितम् । ०२००९८२ पञ्चाशत्कोटिविस्तारा सेयमुर्वी द्विजोत्तमाः ॥ २०.९८। ०२००९९१ सहैवाण्डकटाहेन सद्वीपा समहीधरा । ०२००९९२ सेयं धात्री विधात्री च सर्वभूतगुणाधिका । ०२००९९३ आधारभूता जगतां सर्वेषां सा द्विजोत्तमाः ॥ २०.९९। ०२१००१० लोमहर्षण उवाच ०२१००११ विस्तार एष कथितः पृथिव्या मुनिसत्तमाः । ०२१००१२ सप्ततिस्तु सहस्राणि तदुच्छ्रायो ऽपि कथ्यते ॥ २१.१। ०२१००२१ दशसाहस्रमेकैकं पातालं मुनिसत्तमाः । ०२१००२२ अतलं वितलं चैव नितलं सुतलं तथा ॥ २१.२। ०२१००३१ तलातलं रसातलं पातालं चापि सप्तमम् । ०२१००३२ कृष्णा शुक्लारुणा पीता शर्करा शैलकाञ्चनी ॥ २१.३। ०२१००४१ भूमयो यत्र विप्रेन्द्रा वरप्रासादशोभिताः । ०२१००४२ तेषु दानवदैतेयजातयः शतशः स्थिताः ॥ २१.४। ०२१००५१ नागानां च महाङ्गानां ज्ञातयश्च द्विजोत्तमाः । ०२१००५२ स्वर्लोकादपि रम्याणि पातालानीति नारदः ॥ २१.५। ०२१००६१ प्राह स्वर्गसदोमध्ये पातालेभ्यो गतो दिवम् । ०२१००६२ आह्लादकारिणः शुभ्रा मणयो यत्र सुप्रभाः ॥ २१.६। ०२१००७१ नागाभरणभूषाश्च पातालं केन तत्समम् । ०२१००७२ दैत्यदानवकन्याभिरितश्चेतश्च शोभिते ॥ २१.७। ०२१००८१ पाताले कस्य न प्रीतिर्विमुक्तस्यापि जायते । ०२१००८२ दिवार्करश्मयो यत्र प्रभास्तन्वन्ति नातपम् ॥ २१.८। ०२१००९१ शशिनश्च न शीताय निशि द्योताय केवलम् । ०२१००९२ भक्ष्यभोज्यमहापान-मदमत्तैश्च भोगिभिः ॥ २१.९। ०२१०१०१ यत्र न ज्ञायते कालो गतो ऽपि दनुजादिभिः । ०२१०१०२ वनानि नद्यो रम्याणि सरांसि कमलाकराः ॥ २१.१०। ०२१०१११ पुंस्कोकिलादिलापाश्च मनोज्ञान्यम्बराणि च । ०२१०११२ भूषणान्यतिरम्याणि गन्धाद्यं चानुलेपनम् ॥ २१.११। ०२१०१२१ वीणावेणुमृदङ्गानां निःस्वनाश्च सदा द्विजाः । ०२१०१२२ एतान्यन्यानि रम्याणि भाग्यभोग्यानि दानवैः ॥ २१.१२। ०२१०१३१ दैत्योरगैश्च भुज्यन्ते पातालान्तरगोचरैः । ०२१०१३२ पातालानामधश्चास्ते विष्णोर्या तामसी तनुः ॥ २१.१३। ०२१०१४१ शेषाख्या यद्गुणान्वक्तुं न शक्ता दैत्यदानवाः । ०२१०१४२ यो ऽनन्तः पठ्यते सिद्धैर्देवदेवर्षिपूजितः ॥ २१.१४। ०२१०१५१ सहस्रशिरसा व्यक्तः स्वस्तिकामलभूषणः । ०२१०१५२ फणामणिसहस्रेण यः स विद्योतयन्दिशः ॥ २१.१५। ०२१०१६१ सर्वान्करोति निर्वीर्यान्हिताय जगतो ऽसुरान् । ०२१०१६२ मदाघूर्णितनेत्रो ऽसौ यः सदैवैककुण्डलः ॥ २१.१६। ०२१०१७१ किरीटी स्रग्धरो भाति साग्निश्वेत इवाचलः । ०२१०१७२ नीलवासा मदोत्सिक्तः श्वेतहारोपशोभितः ॥ २१.१७। ०२१०१८१ साभ्रगङ्गाप्रपातो ऽसौ कैलासाद्रिरिवोत्तमः । ०२१०१८२ लाङ्गलासक्तहस्ताग्रो बिभ्रन्मुशलमुत्तमम् ॥ २१.१८। ०२१०१९१ उपास्यते स्वयं कान्त्या यो वारुण्या च मूर्तया । ०२१०१९२ कल्पान्ते यस्य वक्त्रेभ्यो विषानलशिखोज्ज्वलः ॥ २१.१९। ०२१०२०१ सङ्कर्षणात्मको रुद्रो निष्क्रम्यात्ति जगत्त्रयम् । ०२१०२०२ स बिभ्रच्छिखरीभूतमशेषं क्षितिमण्डलम् ॥ २१.२०। ०२१०२११ आस्ते पातालमूलस्थः शेषो ऽशेषसुरार्चितः । ०२१०२१२ तस्य वीर्यं प्रभावश्च स्वरूपं रूपमेव च ॥ २१.२१। ०२१०२२१ नहि वर्णयितुं शक्यं ज्ञातुं वा त्रिदशैरपि । ०२१०२२२ यस्यैषा सकला पृथ्वी फणामणिशिखारुणा ॥ २१.२२। ०२१०२३१ आस्ते कुसुममालेव कस्तद्वीर्यं वदिष्यति । ०२१०२३२ यदा विजृम्भते ऽनन्तो मदाघूर्णितलोचनः ॥ २१.२३। ०२१०२४१ तदा चलति भूरेषा साद्रितोयाधिकानना । ०२१०२४२ गन्धर्वाप्सरसः सिद्धाः किन्नरोरगवारणाः ॥ २१.२४। ०२१०२५१ नान्तं गुणानां गच्छन्ति ततो ऽनन्तो ऽयमव्ययः । ०२१०२५२ यस्य नागवधूहस्तैर्लापितं हरिचन्दनम् ॥ २१.२५। ०२१०२६१ मुहुः श्वासानिलायस्तं याति दिक्पटवासताम् । ०२१०२६२ यमाराध्य पुराणर्षिर्गर्गो ज्योतींषि तत्त्वतः ॥ २१.२६। ०२१०२७१ ज्ञातवान्सकलं चैव निमित्तपठितं फलम्। ०२१०२७२ तेनेयं नागवर्येण शिरसा विधृता मही । ०२१०२७३ बिभर्ति सकलांल्लोकान्सदेवासुरमानुषान् ॥ २१.२७। ०२२००१० लोमहर्षण उवाच ०२२००११ ततश्चानन्तरं विप्रा नरका रौरवादयः । ०२२००१२ पापिनो येषु पात्यन्ते ताञ्शृणुध्वं द्विजोत्तमाः ॥ २२.१। ०२२००२१ रौरवः शौकरो रोधस्तानो विशसनस्तथा । ०२२००२२ महाज्वालस्तप्तकुड्यो महालोभो विमोहनः ॥ २२.२। ०२२००३१ रुधिरान्धो वसातप्तः कृमीशः कृमिभोजनः । ०२२००३२ असिपत्त्रवनं कृष्णो लालाभक्षश्च दारुणः ॥ २२.३। ०२२००४१ तथा पूयवहः पापो वह्निज्वालो ह्यधःशिराः । ०२२००४२ सदंशः कृष्णसूत्रश्च तमश्चावीचिरेव च ॥ २२.४। ०२२००५१ श्वभोजनो ऽथाप्रतिष्ठोम-आवीचिश्च तथापरः । ०२२००५२ इत्येवमादयश्चान्ये नरका भृशदारुणाः ॥ २२.५। ०२२००६१ यमस्य विषये घोराः शस्त्राग्निविषदर्शिनः । ०२२००६२ पतन्ति येषु पुरुषाः पापकर्मरताश्च ये ॥ २२.६। ०२२००७१ कूटसाक्षी तथा सम्यक्पक्षपातेन यो वदेत् । ०२२००७२ यश्चान्यदनृतं वक्ति स नरो याति रौरवम् ॥ २२.७। ०२२००८१ भ्रूणहा पुरहन्ता च गोघ्नश्च मुनिसत्तमाः । ०२२००८२ यान्ति ते रौरवं घोरं यश्चोच्छ्वासनिरोधकः ॥ २२.८। ०२२००९१ सुरापो ब्रह्महा हर्ता सुवर्णस्य च शूकरे । ०२२००९२ प्रयाति नरके यश्च तैः संसर्गमुपैति वै ॥ २२.९। ०२२०१०१ राजन्यवैश्यहा चैव तथैव गुरुतल्पगः । ०२२०१०२ तप्तकुम्भे स्वसृगामी हन्ति राजभटं च यः ॥ २२.१०। ०२२०१११ माध्वीविक्रयकृन्वध्यपालः केसरविक्रयी । ०२२०११२ तप्तलोहे पतन्त्येते यश्च भक्तं परित्यजेत् ॥ २२.११। ०२२०१२१ सुतां स्नुषां चापि गत्वा महाज्वाले निपात्यते । ०२२०१२२ अवमन्ता गुरूणां यो यश्चाक्रोष्टा नराधमः ॥ २२.१२। ०२२०१३१ वेददूषयिता यश्च वेदविक्रयकश्च यः । ०२२०१३२ अगम्यगामी यश्च स्यात्ते यान्ति शबलं द्विजाः ॥ २२.१३। ०२२०१४१ चौरो विमोहे पतति मर्यादादूषकस्तथा । ०२२०१४२ देवद्विजपितृद्वेष्टा रत्नदूषयिता च यः ॥ २२.१४। ०२२०१५१ स याति कृमिभक्ष्ये वै कृमीशे तु दुरिष्टिकृत् । ०२२०१५२ पितृदेवातिथीन्यस्तु पर्यश्नाति नराधमः ॥ २२.१५। ०२२०१६१ लालाभक्ष्ये स यात्युग्रे शरकर्ता च वेधके । ०२२०१६२ करोति कर्णिनो यश्च यश्च खड्गादिकृन्नरः ॥ २२.१६। ०२२०१७१ प्रयान्त्येते विशसने नरके भृशदारुणे । ०२२०१७२ असत्प्रतिग्रहीता च नरके यात्यधोमुखे ॥ २२.१७। ०२२०१८१ अयाज्ययाजकस्तत्र तथा नक्षत्रसूचकः । ०२२०१८२ कृमिपूये नरश्चैको याति मिष्टान्नभुक्सदा ॥ २२.१८। ०२२०१९१ लाक्षामांसरसानां च तिलानां लवणस्य च । ०२२०१९२ विक्रेता ब्राह्मणो याति तमेव नरकं द्विजाः ॥ २२.१९। ०२२०२०१ मार्जारकुक्कुटच्छाग-श्ववराहविहङ्गमान् । ०२२०२०२ पोषयन्नरकं याति तमेव द्विजसत्तमाः ॥ २२.२०। ०२२०२११ रङ्गोपजीवी कैवर्तः कुण्डाशी गरदस्तथा । ०२२०२१२ सूची माहिषिकश्चैव पर्वगामी च यो द्विजः ॥ २२.२१। ०२२०२२१ अगारदाही मित्रघ्नः शकुनिग्रामयाजकः । ०२२०२२२ रुधिरान्धे पतन्त्येते सोमं विक्रीणते च ये ॥ २२.२२। ०२२०२३१ मधुहा ग्रामहन्ता च याति वैतरणीं नरः । ०२२०२३२ रेतःपानादिकर्तारो मर्यादाभेदिनश्च ये ॥ २२.२३। ०२२०२४१ ते कृच्छ्रे यान्त्यशौचाश्च कुहकाजीविनश्च ये । ०२२०२४२ असिपत्त्रवनं याति वनच्छेदी वृथैव यः ॥ २२.२४। ०२२०२५१ औरभ्रिका मृगव्याधा वह्निज्वाले पतन्ति वै । ०२२०२५२ यान्ति तत्रैव ते विप्रा यश्चापाकेषु वह्निदः ॥ २२.२५। ०२२०२६१ व्रतोपलोपको यश्च स्वाश्रमाद्विच्युतश्च यः । ०२२०२६२ सन्दंशयातनामध्ये पततस्तावुभावपि ॥ २२.२६। ०२२०२७१ दिवा स्वप्नेषु स्यन्दन्ते ये नरा ब्रह्मचारिणः । ०२२०२७२ पुत्रैरध्यापिता ये तु ते पतन्ति श्वभोजने ॥ २२.२७। ०२२०२८१ एते चान्ये च नरकाः शतशो ऽथ सहस्रशः । ०२२०२८२ येषु दुष्कृतकर्माणः पच्यन्ते यातनागताः ॥ २२.२८। ०२२०२९१ तथैव पापान्येतानि तथान्यानि सहस्रशः । ०२२०२९२ भुज्यन्ते जातिपुरुषैर्नरकान्तरगोचरैः ॥ २२.२९। ०२२०३०१ वर्णाश्रमविरुद्धं च कर्म कुर्वन्ति ये नराः । ०२२०३०२ कर्मणा मनसा वाचा निरयेषु पतन्ति ते ॥ २२.३०। ०२२०३११ अधःशिरोभिर्दृश्यन्ते नारकैर्दिवि देवताः । ०२२०३१२ देवाश्चाधोमुखान्सर्वानधः पश्यन्ति नारकान् ॥ २२.३१। ०२२०३२१ स्थावराः कृमयो ऽज्वाश्च पक्षिणः पशवो नराः । ०२२०३२२ धार्मिकास्त्रिदशास्तद्वन्मोक्षिणश्च यथाक्रमम् ॥ २२.३२। ०२२०३३१ सहस्रभागः प्रथमाद्द्वितीयो ऽनुक्रमात्तथा । ०२२०३३२ सर्वे ह्येते महाभागा यावन्मुक्तिसमाश्रयाः ॥ २२.३३। ०२२०३४१ यावन्तो जन्तवः स्वर्गे तावन्तो नरकौकसः । ०२२०३४२ पापकृद्याति नरकं प्रायश्चित्तपराङ्मुखः ॥ २२.३४। ०२२०३५१ पापानामनुरूपाणि प्रायश्चित्तानि यद्यथा । ०२२०३५२ तथा तथैव संस्मृत्य प्रोक्तानि परमर्षिभिः ॥ २२.३५। ०२२०३६१ पापे गुरूणि गुरुणि स्वल्पान्यल्पे च तद्विदः । ०२२०३६२ प्रायश्चित्तानि विप्रेन्द्रा जगुः स्वायम्भुवादयः ॥ २२.३६। ०२२०३७१ प्रायश्चित्तान्यशेषाणि तपःकर्मात्मकानि वै । ०२२०३७२ यानि तेषामशेषाणां कृष्णानुस्मरणं परम् ॥ २२.३७। ०२२०३८१ कृते पापे ऽनुतापो वै यस्य पुंसः प्रजायते । ०२२०३८२ प्रायश्चित्तं तु तस्यैकं हरिसंस्मरणं परम् ॥ २२.३८। ०२२०३९१ प्रातर्निशि तथा सन्ध्या-मध्याह्नादिषु संस्मरन् । ०२२०३९२ नारायणमवाप्नोति सद्यः पापक्षयान्नरः ॥ २२.३९। ०२२०४०१ विष्णुसंस्मरणात्क्षीण-समस्तक्लेशसञ्चयः । ०२२०४०२ मुक्तिं प्रयाति भो विप्रा विष्णोस्तस्यानुकीर्तनात् ॥ २२.४०। ०२२०४११ वासुदेवे मनो यस्य जपहोमार्चनादिषु । ०२२०४१२ तस्यान्तरायो विप्रेन्द्रा देवेन्द्रत्वादिकं फलम् ॥ २२.४१। ०२२०४२१ क्व नाकपृष्ठगमनं पुनरावृत्तिलक्षणम् । ०२२०४२२ क्व जपो वासुदेवेति मुक्तिबीजमनुत्तमम् ॥ २२.४२। ०२२०४३१ तस्मादहर्निशं विष्णुं संस्मरन्पुरुषो द्विजः । ०२२०४३२ न याति नरकं शुद्धः सङ्क्षीणाखिलपातकः ॥ २२.४३। ०२२०४४१ मनःप्रीतिकरः स्वर्गो नरकस्तद्विपर्ययः । ०२२०४४२ नरकस्वर्गसञ्ज्ञे वै पापपुण्ये द्विजोत्तमाः ॥ २२.४४। ०२२०४५१ वस्त्वेकमेव दुःखाय सुखायेर्ष्योदयाय च । ०२२०४५२ कोपाय च यतस्तस्माद्वस्तु दुःखात्मकं कुतः ॥ २२.४५। ०२२०४६१ तदेव प्रीतये भूत्वा पुनर्दुःखाय जायते । ०२२०४६२ तदेव कोपालयतः प्रसादाय च जायते ॥ २२.४६। ०२२०४७१ तस्माद्दुःखात्मकं नास्ति न च किञ्चित्सुखात्मकम् । ०२२०४७२ मनसः परिणामो ऽयं सुखदुःखादिलक्षणः ॥ २२.४७। ०२२०४८१ ज्ञानमेव परं ब्रह्मा-ज्ञानं बन्धाय चेष्यते । ०२२०४८२ ज्ञानात्मकमिदं विश्वं न ज्ञानाद्विद्यते परम् ॥ २२.४८। ०२२०४९१ विद्याविद्ये हि भो विप्रा ज्ञानमेवावधार्यताम् । ०२२०४९२ एवमेतद्मयाख्यातं भवतां मण्डलं भुवः ॥ २२.४९। ०२२०५०१ पातालानि च सर्वाणि तथैव नरका द्विजाः । ०२२०५०२ समुद्राः पर्वताश्चैव द्वीपा वर्षाणि निम्नगाः । ०२२०५०३ सङ्क्षेपात्सर्वमाख्यातं किं भूयः श्रोतुमिच्छथ ॥ २२.५०। ०२३००१० मुनय ऊचुः ०२३००११ कथितं भवता सर्वमस्माकं सकलं तथा । ०२३००१२ भुवर्लोकादिकांल्लोकाञ्श्रोतुमिच्छामहे वयम् ॥ २३.१। ०२३००२१ तथैव ग्रहसंस्थानं प्रमाणानि यथा तथा । ०२३००२२ समाचक्ष्व महाभाग यथावल्लोमहर्षण ॥ २३.२। ०२३००३० लोमहर्षण उवाच ०२३००३१ रविचन्द्रमसोर्यावन्मयूखैरवभास्यते । ०२३००३२ ससमुद्रसरिच्छैला तावती पृथिवी स्मृता ॥ २३.३। ०२३००४१ यावत्प्रमाणा पृथिवी विस्तारपरिमण्डला । ०२३००४२ नभस्तावत्प्रमाणं हि विस्तारपरिमण्डलम् ॥ २३.४। ०२३००५१ भूमेर्योजनलक्षे तु सौरं विप्रास्तु मण्डलम् । ०२३००५२ लक्षे दिवाकराच्चापि मण्डलं शशिनः स्थितम् ॥ २३.५। ०२३००६१ पूर्णे शतसहस्रे तु योजनानां निशाकरात् । ०२३००६२ नक्षत्रमण्डलं कृत्स्नमुपरिष्टात्प्रकाशते ॥ २३.६। ०२३००७१ द्विलक्षे चोत्तरे विप्रा बुधो नक्षत्रमण्डलात् । ०२३००७२ तावत्प्रमाणभागे तु बुधस्याप्युशना स्थितः ॥ २३.७। ०२३००८१ अङ्गारको ऽपि शुक्रस्य तत्प्रमाणे व्यवस्थितः । ०२३००८२ लक्षद्वयेन भौमस्य स्थितो देवपुरोहितः ॥ २३.८। ०२३००९१ सौरिर्बृहस्पतेरूर्ध्वं द्विलक्षे समवस्थितः । ०२३००९२ सप्तर्षिमण्डलं तस्माल्लक्षमेकं द्विजोत्तमाः ॥ २३.९। ०२३०१०१ ऋषिभ्यस्तु सहस्राणां शतादूर्ध्वं व्यवस्थितः । ०२३०१०२ मेढीभूतः समस्तस्य ज्योतिश्चक्रस्य वै ध्रुवः ॥ २३.१०। ०२३०१११ त्रैलोक्यमेतत्कथितं सङ्क्षेपेण द्विजोत्तमाः । ०२३०११२ इज्याफलस्य भूरेषा इज्या चात्र प्रतिष्ठिता ॥ २३.११। ०२३०१२१ ध्रुवादूर्ध्वं महर्लोको यत्र ते कल्पवासिनः । ०२३०१२२ एकयोजनकोटी तु महर्लोको विधीयते ॥ २३.१२। ०२३०१३१ द्वे कोट्यौ तु जनो लोको यत्र ते ब्रह्मणः सुताः । ०२३०१३२ सनन्दनाद्याः कथिता विप्राश्चामलचेतसः ॥ २३.१३। ०२३०१४१ चतुर्गुणोत्तरं चोर्ध्वं जनलोकात्तपः स्मृतम् । ०२३०१४२ वैराजा यत्र ते देवाः स्थिता देहविवर्जिताः ॥ २३.१४। ०२३०१५१ षड्गुणेन तपोलोकात्सत्यलोको विराजते । ०२३०१५२ अपुनर्मारकं यत्र सिद्धादिमुनिसेवितम् ॥ २३.१५। ०२३०१६१ पादगम्यं तु यत्किञ्चिद्वस्त्वस्ति पृथिवीमयम् । ०२३०१६२ स भूर्लोकः समाख्यातो विस्तारो ऽस्य मयोदितः ॥ २३.१६। ०२३०१७१ भूमिसूर्यान्तरं यत्तु सिद्धादिमुनिसेवितम् । ०२३०१७२ भुवर्लोकस्तु सो ऽप्युक्तो द्वितीयो मुनिसत्तमाः ॥ २३.१७। ०२३०१८१ ध्रुवसूर्यान्तरं यत्तु नियुतानि चतुर्दश । ०२३०१८२ स्वर्लोकः सो ऽपि कथितो लोकसंस्थानचिन्तकैः ॥ २३.१८। ०२३०१९१ त्रैलोक्यमेतत्कृतकं विप्रैश्च परिपठ्यते । ०२३०१९२ जनस्तपस्तथा सत्यमिति चाकृतकं त्रयम् ॥ २३.१९। ०२३०२०१ कृतकाकृतको मध्ये महर्लोक इति स्मृतः । ०२३०२०२ शून्यो भवति कल्पान्ते यो ऽन्तं न च विनश्यति ॥ २३.२०। ०२३०२११ एते सप्त महालोका मया वः कथिता द्विजाः । ०२३०२१२ पातालानि च सप्तैव ब्रह्माण्डस्यैष विस्तरः ॥ २३.२१। ०२३०२२१ एतदण्डकटाहेन तिर्यगूर्ध्वमधस्तथा । ०२३०२२२ कपित्थस्य यथा बीजं सर्वतो वै समावृतम् ॥ २३.२२। ०२३०२३१ दशोत्तरेण पयसा द्विजाश्चाण्डं च तद्वृतम् । ०२३०२३२ स चाम्बुपरिवारो ऽसौ वह्निना वेष्टितो बहिः ॥ २३.२३। ०२३०२४१ वह्निस्तु वायुना वायुर्विप्रास्तु नभसावृतः । ०२३०२४२ आकाशो ऽपि मुनिश्रेष्ठा महता परिवेष्टितः ॥ २३.२४। ०२३०२५१ दशोत्तराण्यशेषाणि विप्राश्चैतानि सप्त वै । ०२३०२५२ महान्तं च समावृत्य प्रधानं समवस्थितम् ॥ २३.२५। ०२३०२६१ अनन्तस्य न तस्यान्तः सङ्ख्यानं चापि विद्यते । ०२३०२६२ तदनन्तमसङ्ख्यातं प्रमाणेनापि वै यतः ॥ २३.२६। ०२३०२७१ हेतुभूतमशेषस्य प्रकृतिः सा परा द्विजाः । ०२३०२७२ अण्डानां तु सहस्राणां सहस्राण्ययुतानि च ॥ २३.२७। ०२३०२८१ ईदृशानां तथा तत्र कोटिकोटिशतानि च । ०२३०२८२ दारुण्यग्निर्यथा तैलं तिले तद्वत्पुमानिह ॥ २३.२८। ०२३०२९१ प्रधाने ऽवस्थितो व्यापी चेतनात्मनिवेदनः । ०२३०२९२ प्रधानं च पुमांश्चैव सर्वभूतानुभूतया ॥ २३.२९। ०२३०३०१ विष्णुशक्त्या द्विजश्रेष्ठा धृतौ संश्रयधर्मिणौ । ०२३०३०२ तयोः सैव पृथग्भावे कारणं संश्रयस्य च ॥ २३.३०। ०२३०३११ क्षोभकारणभूता च सर्गकाले द्विजोत्तमाः । ०२३०३१२ यथा शैत्यं जले वातो बिभर्ति कणिकागतम् ॥ २३.३१। ०२३०३२१ जगच्छक्तिस्तथा विष्णोः प्रधानपुरुषात्मकम् । ०२३०३२२ यथा च पादपो मूल-स्कन्धशाखादिसंयुतः ॥ २३.३२। ०२३०३३१ आद्यबीजात्प्रभवति बीजान्यन्यानि वै ततः । ०२३०३३२ प्रभवन्ति ततस्तेभ्यो भवन्त्यन्ये परे द्रुमाः ॥ २३.३३। ०२३०३४१ ते ऽपि तल्लक्षणद्रव्य-कारणानुगता द्विजाः । ०२३०३४२ एवमव्याकृतात्पूर्वं जायन्ते महदादयः ॥ २३.३४। ०२३०३५१ विशेषान्तास्ततस्तेभ्यः सम्भवन्ति सुरादयः । ०२३०३५२ तेभ्यश्च पुत्रास्तेषां तु पुत्राणां परमे सुताः ॥ २३.३५। ०२३०३६१ बीजाद्वृक्षप्ररोहेण यथा नापचयस्तरोः । ०२३०३६२ भूतानां भूतसर्गेण नैवास्त्यपचयस्तथा ॥ २३.३६। ०२३०३७१ सन्निधानाद्यथाकाश-कालाद्याः कारणं तरोः । ०२३०३७२ तथैवापरिणामेन विश्वस्य भगवान्हरिः ॥ २३.३७। ०२३०३८१ व्रीहिबीजे यथा मूलं नालं पत्त्राङ्कुरौ तथा । ०२३०३८२ काण्डकोषास्तथा पुष्पं क्षीरं तद्वच्च तण्डुलः ॥ २३.३८। ०२३०३९१ तुषाः कणाश्च सन्तो वै यान्त्याविर्भावमात्मनः । ०२३०३९२ प्ररोहहेतुसामग्र्यमासाद्य मुनिसत्तमाः ॥ २३.३९। ०२३०४०१ तथा कर्मस्वनेकेषु देवाद्यास्तनवः स्थिताः । ०२३०४०२ विष्णुशक्तिं समासाद्य प्ररोहमुपयान्ति वै ॥ २३.४०। ०२३०४११ स च विष्णुः परं ब्रह्म यतः सर्वमिदं जगत् । ०२३०४१२ जगच्च यो यत्र चेदं यस्मिन्विलयमेष्यति ॥ २३.४१। ०२३०४२१ तद्ब्रह्म परमं धाम सदसत्परमं पदम् । ०२३०४२२ यस्य सर्वमभेदेन जगदेतच्चराचरम् ॥ २३.४२। ०२३०४३१ स एव मूलप्रकृतिर्व्यक्तरूपी जगच्च सः । ०२३०४३२ तस्मिन्नेव लयं सर्वं याति तत्र च तिष्ठति ॥ २३.४३। ०२३०४४१ कर्ता क्रियाणां स च इज्यते क्रतुः । ०२३०४४२ स एव तत्कर्मफलं च तस्य यत् । ०२३०४४३ युगादि यस्माच्च भवेदशेषतो । ०२३०४४४ हरेर्न किञ्चिद्व्यतिरिक्तमस्ति तत् ॥ २३.४४। ०२४००१० लोमहर्षण उवाच ०२४००११ तारामयं भगवतः शिशुमाराकृति प्रभोः । ०२४००१२ दिवि रूपं हरेर्यत्तु तस्य पुच्छे स्थितो ध्रुवः ॥ २४.१। ०२४००२१ सएष भ्रमन्भ्रामयति चन्द्रादित्यादिकान्ग्रहान् । ०२४००२२ भ्रमन्तमनु तं यान्ति नक्षत्राणि च चक्रवत् ॥ २४.२। ०२४००३१ सूर्याचन्द्रमसौ तारा नक्षत्राणि ग्रहैः सह । ०२४००३२ वातानीकमयैर्बन्धैर्ध्रुवे बद्धानि तानि वै ॥ २४.३। ०२४००४१ शिशुमाराकृति प्रोक्तं यद्रूपं ज्योतिषां दिवि । ०२४००४२ नारायणः परं धाम तस्याधारः स्वयं हृदि ॥ २४.४। ०२४००५१ उत्तानपादतनयस्तमाराध्य प्रजापतिम् । ०२४००५२ स ताराशिशुमारस्य ध्रुवः पुच्छे व्यवस्थितः ॥ २४.५। ०२४००६१ आधारः शिशुमारस्य सर्वाध्यक्षो जनार्दनः । ०२४००६२ ध्रुवस्य शिशुमारश्च ध्रुवे भानुर्व्यवस्थितः ॥ २४.६। ०२४००७१ तदाधारं जगच्चेदं सदेवासुरमानुषम् । ०२४००७२ येन विप्रा विधानेन तन्मे शृणुत साम्प्रतम् ॥ २४.७। ०२४००८१ विवस्वानष्टभिर्मासैर्ग्रसत्यपो रसात्मिकाः । ०२४००८२ वर्षत्यम्बु ततश्चान्नमन्नादमखिलं जगत् ॥ २४.८। ०२४००९१ विवस्वानंशुभिस्तीक्ष्णैरादाय जगतो जलम् । ०२४००९२ सोमं पुष्यत्यथेन्दुश्च वायुनाडीमयैर्दिवि ॥ २४.९। ०२४०१०१ जलैर्विक्षिप्यते ऽभ्रेषु धूमाग्न्यनिलमूर्तिषु । ०२४०१०२ न भ्रश्यन्ति यतस्तेभ्यो जलान्यभ्राणि तान्यतः ॥ २४.१०। ०२४०१११ अभ्रस्थाः प्रपतन्त्यापो वायुना समुदीरिताः । ०२४०११२ संस्कारं कालजनितं विप्राश्चासाद्य निर्मलाः ॥ २४.११। ०२४०१२१ सरित्समुद्रा भौमास्तु तथापः प्राणिसम्भवाः । ०२४०१२२ चतुष्प्रकारा भगवानादत्ते सविता द्विजाः ॥ २४.१२। ०२४०१३१ आकाशगङ्गासलिलं तथाहृत्य गभस्तिमान् । ०२४०१३२ अनभ्रगतमेवोर्व्यां सद्यः क्षिपति रश्मिभिः ॥ २४.१३। ०२४०१४१ तस्य संस्पर्शनिर्धूत-पापपङ्को द्विजोत्तमाः । ०२४०१४२ न याति नरकं मर्त्यो दिव्यं स्नानं हि तत्स्मृतम् ॥ २४.१४। ०२४०१५१ दृष्टसूर्यं हि तद्वारि पतत्यभ्रैर्विना दिवः । ०२४०१५२ आकाशगङ्गासलिलं तद्गोभिः क्षिप्यते रवेः ॥ २४.१५। ०२४०१६१ कृत्तिकादिषु ऋक्षेषु विषमेष्वम्बु यद्दिवः । ०२४०१६२ दृष्ट्वार्कं पतितं ज्ञेयं तद्गाङ्गं दिग्गजोह्नितम् ॥ २४.१६। ०२४०१७१ युग्मर्क्षेषु तु यत्तोयं पतत्यर्कोद्गितं दिवः । ०२४०१७२ तत्सूर्यरश्मिभिः सद्यः समादाय निरस्यते ॥ २४.१७। ०२४०१८१ उभयं पुण्यमत्यर्थं नृणां पापहरं द्विजाः । ०२४०१८२ आकाशगङ्गासलिलं दिव्यं स्नानं द्विजोत्तमाः ॥ २४.१८। ०२४०१९१ यत्तु मेघैः समुत्सृष्टं वारि तत्प्राणिनां द्विजाः । ०२४०१९२ पुष्णात्योषधयः सर्वा जीवनायामृतं हि तत् ॥ २४.१९। ०२४०२०१ तेन वृद्धिं परां नीतः सकलश्चौषधीगणः । ०२४०२०२ साधकः फलपाकान्तः प्रजानां तु प्रजायते ॥ २४.२०। ०२४०२११ तेन यज्ञान्यथाप्रोक्तान्मानवाः शास्त्रचक्षुषः । ०२४०२१२ कुर्वते ऽहरहश्चैव देवानाप्याययन्ति ते ॥ २४.२१। ०२४०२२१ एवं यज्ञाश्च वेदाश्च वर्णाश्च द्विजपूर्वकाः । ०२४०२२२ सर्वदेवनिकायाश्च पशुभूतगणाश्च ये ॥ २४.२२। ०२४०२३१ वृष्ट्या धृतमिदं सर्वं जगत्स्थावरजङ्गमम् । ०२४०२३२ सापि निष्पाद्यते वृष्टिः सवित्रा मुनिसत्तमाः ॥ २४.२३। ०२४०२४१ आधारभूतः सवितुर्ध्रुवो मुनिवरोत्तमाः । ०२४०२४२ ध्रुवस्य शिशुमारो ऽसौ सो ऽपि नारायणाश्रयः ॥ २४.२४। ०२४०२५१ हृदि नारायणस्तस्य शिशुमारस्य संस्थितः । ०२४०२५२ विभर्ता सर्वभूतानामादिभूतः सनातनः ॥ २४.२५। ०२४०२६१ एवं मया मुनिश्रेष्ठा ब्रह्माण्डं समुदाहृतम् । ०२४०२६२ भूसमुद्रादिभिर्युक्तं किमन्यच्छ्रोतुमिच्छथ ॥ २४.२६। ०२५००१० मुनय ऊचुः ०२५००११ पृथिव्यां यानि तीर्थानि पुण्यान्यायतनानि च । ०२५००१२ वक्तुमर्हसि धर्मज्ञ श्रोतुं नो वर्तते मनः ॥ २५.१। ०२५००२० लोमहर्षण उवाच ०२५००२१ यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम् । ०२५००२२ विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते ॥ २५.२। ०२५००३१ मनो विशुद्धं पुरुषस्य तीर्थम् । ०२५००३२ वाचां तथा चेन्द्रियनिग्रहश्च । ०२५००३३ एतानि तीर्थानि शरीरजानि । ०२५००३४ स्वर्गस्य मार्गं प्रतिबोधयन्ति ॥ २५.३। ०२५००४१ चित्तमन्तर्गतं दुष्टं तीर्थस्नानैर्न शुध्यति । ०२५००४२ शतशो ऽपि जलैर्धौतं सुराभाण्डमिवाशुचि ॥ २५.४। ०२५००५१ न तीर्थानि न दानानि न व्रतानि न चाश्रमाः । ०२५००५२ दुष्टाशयं दम्भरुचिं पुनन्ति व्युत्थितेन्द्रियम् ॥ २५.५। ०२५००६१ इन्द्रियाणि वशे कृत्वा यत्र यत्र वसेन्नरः । ०२५००६२ तत्र तत्र कुरुक्षेत्रं प्रयागं पुष्करं तथा ॥ २५.६। ०२५००७१ तस्माच्छृणुध्वं वक्ष्यामि तीर्थान्यायतनानि च । ०२५००७२ सङ्क्षेपेण मुनिश्रेष्ठाः पृथिव्यां यानि कानि वै ॥ २५.७। ०२५००८१ विस्तरेण न शक्यन्ते वक्तुं वर्षशतैरपि । ०२५००८२ प्रथमं पुष्करं तीर्थं नैमिषारण्यमेव च ॥ २५.८। ०२५००९१ प्रयागं च प्रवक्ष्यामि धर्मारण्यं द्विजोत्तमाः । ०२५००९२ धेनुकं चम्पकारण्यं सैन्धवारण्यमेव च ॥ २५.९। ०२५०१०१ पुण्यं च मगधारण्यं दण्डकारण्यमेव च । ०२५०१०२ गया प्रभासं श्रीतीर्थं दिव्यं कनखलं तथा ॥ २५.१०। ०२५०१११ भृगुतुङ्गं हिरण्याक्षं भीमारण्यं कुशस्थलीम् । ०२५०११२ लोहाकुलं सकेदारं मन्दरारण्यमेव च ॥ २५.११। ०२५०१२१ महाबलं कोटितीर्थं सर्वपापहरं तथा । ०२५०१२२ रूपतीर्थं शूकरवं चक्रतीर्थं महाफलम् ॥ २५.१२। ०२५०१३१ योगतीर्थं सोमतीर्थं तीर्थं साहोटकं तथा । ०२५०१३२ तीर्थं कोकामुखं पुण्यं बदरीशैलमेव च ॥ २५.१३। ०२५०१४१ सोमतीर्थं तुङ्गकूटं तीर्थं स्कन्दाश्रमं तथा । ०२५०१४२ कोटितीर्थं चाग्निपदं तीर्थं पञ्चशिखं तथा ॥ २५.१४। ०२५०१५१ धर्मोद्भवं कोटितीर्थं तीर्थं बाधप्रमोचनम् । ०२५०१५२ गङ्गाद्वारं पञ्चकूटं मध्यकेसरमेव च ॥ २५.१५। ०२५०१६१ चक्रप्रभं मतङ्गं च क्रुशदण्डं च विश्रुतम् । ०२५०१६२ दंष्ट्राकुण्डं विष्णुतीर्थं सार्वकामिकमेव च ॥ २५.१६। ०२५०१७१ तीर्थं मत्स्यतिलं चैव बदरी सुप्रभं तथा । ०२५०१७२ ब्रह्मकुण्डं वह्निकुण्डं तीर्थं सत्यपदं तथा ॥ २५.१७। ०२५०१८१ चतुःस्रोतश्चतुःशृङ्गं शैलं द्वादशधारकम् । ०२५०१८२ मानसं स्थूलशृङ्गं च स्थूलदण्डं तथोर्वशी ॥ २५.१८। ०२५०१९१ लोकपालं मनुवरं सोमाह्वशैलमेव च । ०२५०१९२ सदाप्रभं मेरुकुण्डं तीर्थं सोमाभिषेचनम् ॥ २५.१९। ०२५०२०१ महास्रोतं कोटरकं पञ्चधारं त्रिधारकम् । ०२५०२०२ सप्तधारैकधारं च तीर्थं चामरकण्टकम् ॥ २५.२०। ०२५०२११ शालग्रामं चक्रतीर्थं कोटिद्रुममनुत्तमम् । ०२५०२१२ बिल्वप्रभं देवह्रदं तीर्थं विष्णुह्रदं तथा ॥ २५.२१। ०२५०२२१ शङ्खप्रभं देवकुण्डं तीर्थं वज्रायुधं तथा । ०२५०२२२ अग्निप्रभं च पुन्नागं देवप्रभमनुत्तमम् ॥ २५.२२। ०२५०२३१ विद्याधरं सगान्धर्वं श्रीतीर्थं ब्रह्मणो ह्रदम् । ०२५०२३२ सातीर्थं लोकपालाख्यं मणिपुरगिरिं तथा ॥ २५.२३। ०२५०२४१ तीर्थं पञ्चह्रदं चैव पुण्यं पिण्डारकं तथा । ०२५०२४२ मलव्यं गोप्रभावं च गोवरं वटमूलकम् ॥ २५.२४। ०२५०२५१ स्नानदण्डं प्रयागं च गुह्यं विष्णुपदं तथा । ०२५०२५२ कन्याश्रमं वायुकुण्डं जम्बूमार्गं तथोत्तमम् ॥ २५.२५। ०२५०२६१ गभस्तितीर्थं च तथा ययातिपतनं शुचि । ०२५०२६२ कोटितीर्थं भद्रवटं महाकालवनं तथा ॥ २५.२६। ०२५०२७१ नर्मदातीर्थमपरं तीर्थवज्रं तथार्बुदम् । ०२५०२७२ पिङ्गुतीर्थं सवासिष्ठं तीर्थं च पृथसङ्गमम् ॥ २५.२७। ०२५०२८१ तीर्थं दौर्वासिकं नाम तथा पिञ्जरकं शुभम् । ०२५०२८२ ऋषितीर्थं ब्रह्मतुङ्गं वसुतीर्थं कुमारिकम् ॥ २५.२८। ०२५०२९१ शक्रतीर्थं पञ्चनदं रेणुकातीर्थमेव च । ०२५०२९२ पैतामहं च विमलं रुद्रपादं तथोत्तमम् ॥ २५.२९। ०२५०३०१ मणिमत्तं च कामाख्यं कृष्णतीर्थं कुशाविलम् । ०२५०३०२ यजनं याजनं चैव तथैव ब्रह्मवालुकम् ॥ २५.३०। ०२५०३११ पुष्पन्यासं पुण्डरीकं मणिपूरं तथोत्तरम् । ०२५०३१२ दीर्घसत्त्रं हयपदं तीर्थं चानशनं तथा ॥ २५.३१। ०२५०३२१ गङ्गोद्भेदं शिवोद्भेदं नर्मदोद्भेदमेव च । ०२५०३२२ वस्त्रापदं दारुवलं छायारोहणमेव च ॥ २५.३२। ०२५०३३१ सिद्धेश्वरं मित्रवलं कालिकाश्रममेव च । ०२५०३३२ वटावटं भद्रवटं कौशाम्बी च दिवाकरम् ॥ २५.३३। ०२५०३४१ द्वीपं सारस्वतं चैव विजयं कामदं तथा । ०२५०३४२ रुद्रकोटिं सुमनसं तीर्थं सद्रावनामितम् ॥ २५.३४। ०२५०३५१ स्यमन्तपञ्चकं तीर्थं ब्रह्मतीर्थं सुदर्शनम् । ०२५०३५२ सततं पृथिवीसर्वं पारिप्लवपृथूदकौ ॥ २५.३५। ०२५०३६१ दशाश्वमेधिकं तीर्थं सर्पिजं विषयान्तिकम् । ०२५०३६२ कोटितीर्थं पञ्चनदं वाराहं यक्षिणीह्रदम् ॥ २५.३६। ०२५०३७१ पुण्डरीकं सोमतीर्थं मुञ्जवटं तथोत्तमम् । ०२५०३७२ बदरीवनमासीनं रत्नमूलकमेव च ॥ २५.३७। ०२५०३८१ लोकद्वारं पञ्चतीर्थं कपिलातीर्थमेव च । ०२५०३८२ सूर्यतीर्थं शङ्खिनी च गवां भवनमेव च ॥ २५.३८। ०२५०३९१ तीर्थं च यक्षराजस्य ब्रह्मावर्तं सुतीर्थकम् । ०२५०३९२ कामेश्वरं मात्रितीर्थं तीर्थं शीतवनं तथा ॥ २५.३९। ०२५०४०१ स्नानलोमापहं चैव माससंसरकं तथा । ०२५०४०२ दशाश्वमेधं केदारं ब्रह्मोदुम्बरमेव च ॥ २५.४०। ०२५०४११ सप्तर्षिकुण्डं च तथा तीर्थं देव्याः सुजम्बुकम् । ०२५०४१२ ईटास्पदं कोटिकूटं किन्दानं किञ्जपं तथा ॥ २५.४१। ०२५०४२१ कारण्डवं चावेध्यं च त्रिविष्टपमथापरम् । ०२५०४२२ पाणिषातं मिश्रकं च मधूवटमनोजवौ ॥ २५.४२। ०२५०४३१ कौशिकी देवतीर्थं च तीर्थं च ऋणमोचनम् । ०२५०४३२ दिव्यं च नृगधूमाख्यं तीर्थं विष्णुपदं तथा ॥ २५.४३। ०२५०४४१ अमराणां ह्रदं पुण्यं कोटितीर्थं तथापरम् । ०२५०४४२ श्रीकुञ्जं शालितीर्थं च नैमिषेयं च विश्रुतम् ॥ २५.४४। ०२५०४५१ ब्रह्मस्थानं सोमतीर्थं कन्यातीर्थं तथैव च । ०२५०४५२ ब्रह्मतीर्थं मनस्तीर्थं तीर्थं वै कारुपावनम् ॥ २५.४५। ०२५०४६१ सौगन्धिकवनं चैव मणितीर्थं सरस्वती । ०२५०४६२ ईशानतीर्थं प्रवरं पावनं पाञ्चयज्ञिकम् ॥ २५.४६। ०२५०४७१ त्रिशूलधारं माहेन्द्रं देवस्थानं कृतालयम् । ०२५०४७२ शाकम्भरी देवतीर्थं सुवर्णाख्यं किलं ह्रदम् ॥ २५.४७। ०२५०४८१ क्षीरश्रवं विरूपाक्षं भृगुतीर्थं कुशोद्भवम् । ०२५०४८२ ब्रह्मतीर्थं ब्रह्मयोनिं नीलपर्वतमेव च ॥ २५.४८। ०२५०४९१ कुब्जाम्बकं भद्रवटं वसिष्ठपदमेव च । ०२५०४९२ स्वर्गद्वारं प्रजाद्वारं कालिकाश्रममेव च ॥ २५.४९। ०२५०५०१ रुद्रावर्तं सुगन्धाश्वं कपिलावनमेव च । ०२५०५०२ भद्रकर्णह्रदं चैव शङ्कुकर्णह्रदं तथा ॥ २५.५०। ०२५०५११ सप्तसारस्वतं चैव तीर्थमौशनसं तथा । ०२५०५१२ कपालमोचनं चैव अवकीर्णं च काम्यकम् ॥ २५.५१। ०२५०५२१ चतुःसामुद्रिकं चैव शतकिं च सहस्रिकम् । ०२५०५२२ रेणुकं पञ्चवटकं विमोचनमथौजसम् ॥ २५.५२। ०२५०५३१ स्थाणुतीर्थं कुरोस्तीर्थं स्वर्गद्वारं कुशध्वजम् । ०२५०५३२ विश्वेश्वरं मानवकं कूपं नारायणाश्रयम् ॥ २५.५३। ०२५०५४१ गङ्गाह्रदं वटं चैव बदरीपाटनं तथा । ०२५०५४२ इन्द्रमार्गमेकरात्रं क्षीरकावासमेव च ॥ २५.५४। ०२५०५५१ सोमतीर्थं दधीचं च श्रुततीर्थं च भो द्विजाः । ०२५०५५२ कोटितीर्थस्थलीं चैव भद्रकालीह्रदं तथा ॥ २५.५५। ०२५०५६१ अरुन्धतीवनं चैव ब्रह्मावर्तं तथोत्तमम् । ०२५०५६२ अश्ववेदी कुब्जावनं यमुनाप्रभवं तथा ॥ २५.५६। ०२५०५७१ वीरं प्रमोक्षं सिन्धूत्थमृष कुल्या सकृत्तिकम् । ०२५०५७२ उर्वीसङ्क्रमणं चैव मायाविद्योद्भवं तथा ॥ २५.५७। ०२५०५८१ महाश्रमो वैतसिका-रूपं सुन्दरिकाश्रमम् । ०२५०५८२ बाहुतीर्थं चारुनदीं विमलाशोकमेव च ॥ २५.५८। ०२५०५९१ तीर्थं पञ्चनदं चैव मार्कण्डेयस्य धीमतः । ०२५०५९२ सोमतीर्थं सितोदं च तीर्थं मत्स्योदरीं तथा ॥ २५.५९। ०२५०६०१ सूर्यप्रभं सूर्यतीर्थमशोकवनमेव च । ०२५०६०२ अरुणास्पदं कामदं च शुक्रतीर्थं सवालुकम् ॥ २५.६०। ०२५०६११ पिशाचमोचनं चैव सुभद्राह्रदमेव च । ०२५०६१२ कुण्डं विमलदण्डस्य तीर्थं चण्डेश्वरस्य च ॥ २५.६१। ०२५०६२१ ज्येष्ठस्थानह्रदं चैव पुण्यं ब्रह्मसरं तथा । ०२५०६२२ जैगीषव्यगुहा चैव हरिकेशवनं तथा ॥ २५.६२। ०२५०६३१ अजामुखसरं चैव घण्टाकर्णह्रदं तथा । ०२५०६३२ पुण्डरीकह्रदं चैव वापी कर्कोटकस्य च ॥ २५.६३। ०२५०६४१ सुवर्णस्योदपानं च श्वेततीर्थह्रदं तथा । ०२५०६४२ कुण्डं घर्घरिकायाश्च श्यामकूपं च चन्द्रिका ॥ २५.६४। ०२५०६५१ श्मशानस्तम्भकूपं च विनायकह्रदं तथा । ०२५०६५२ कूपं सिन्धूद्भवं चैव पुण्यं ब्रह्मसरं तथा ॥ २५.६५। ०२५०६६१ रुद्रावासं तथा तीर्थं नागतीर्थं पुलोमकम् । ०२५०६६२ भक्तह्रदं क्षीरसरः प्रेताधारं कुमारकम् ॥ २५.६६। ०२५०६७१ ब्रह्मावर्तं कुशावर्तं दधिकर्णोदपानकम् । ०२५०६७२ शृङ्गतीर्थं महातीर्थं तीर्थश्रेष्ठा महानदी ॥ २५.६७। ०२५०६८१ दिव्यं ब्रह्मसरं पुण्यं गयाशीर्षाक्षयं वटम् । ०२५०६८२ दक्षिणं चोत्तरं चैव गोमयं रूपशीतिकम् ॥ २५.६८। ०२५०६९१ कपिलाह्रदं गृध्रवटं सावित्रीह्रदमेव च । ०२५०६९२ प्रभासनं सीतवनं योनिद्वारं च धेनुकम् ॥ २५.६९। ०२५०७०१ धन्यकं कोकिलाख्यं च मतङ्गह्रदमेव च । ०२५०७०२ पितृकूपं रुद्रतीर्थं शक्रतीर्थं सुमालिनम् ॥ २५.७०। ०२५०७११ ब्रह्मस्थानं सप्तकुण्डं मणिरत्नह्रदं तथा । ०२५०७१२ कौशिक्यं भरतं चैव तीर्थं ज्येष्ठालिका तथा ॥ २५.७१। ०२५०७२१ विश्वेश्वरं कल्पसरः कन्यासंवेत्यमेव च । ०२५०७२२ निश्चीवा प्रभवश्चैव वसिष्ठाश्रममेव च ॥ २५.७२। ०२५०७३१ देवकूटं च कूपं च वसिष्ठाश्रममेव च । ०२५०७३२ वीराश्रमं ब्रह्मसरो ब्रह्मवीरावकापिली ॥ २५.७३। ०२५०७४१ कुमारधारा श्रीधारा गौरीशिखरमेव च । ०२५०७४२ शुनः कुण्डो ऽथ तीर्थं च नन्दितीर्थं तथैव च ॥ २५.७४। ०२५०७५१ कुमारवासं श्रीवासमौर्वीशीतार्थमेव च । ०२५०७५२ कुम्भकर्णह्रदं चैव कौशिकीह्रदमेव च ॥ २५.७५। ०२५०७६१ धर्मतीर्थं कामतीर्थं तीर्थमुद्दालकं तथा । ०२५०७६२ सन्ध्यातीर्थं कारतोयं कपिलं लोहितार्णवम् ॥ २५.७६। ०२५०७७१ शोणोद्भवं वंशगुल्ममृषभं कलतीर्थकम् । ०२५०७७२ पुण्यावतीह्रदं तीर्थं तीर्थं बदरिकाश्रमम् ॥ २५.७७। ०२५०७८१ रामतीर्थं पितृवनं विरजातीर्थमेव च । ०२५०७८२ मार्कण्डेयवनं चैव कृष्णतीर्थं तथा वटम् ॥ २५.७८। ०२५०७९१ रोहिणीकूपप्रवरमिन्द्रद्युम्नसरं च यत् । ०२५०७९२ सानुगर्तं समाहेन्द्रं श्रीतीर्थं श्रीनदं तथा ॥ २५.७९। ०२५०८०१ इषुतीर्थं वार्षभं च कावेरीह्रदमेव च । ०२५०८०२ कन्यातीर्थं च गोकर्णं गायत्रीस्थानमेव च ॥ २५.८०। ०२५०८११ बदरीह्रदमन्यच्च मध्यस्थानं विकर्णकम् । ०२५०८१२ जातीह्रदं देवकूपं कुशप्रवणमेव च ॥ २५.८१। ०२५०८२१ सर्वदेवव्रतं चैव कन्याश्रमह्रदं तथा । ०२५०८२२ तथान्यद्वालखिल्यानां सपूर्वाणां तथापरम् ॥ २५.८२। ०२५०८३१ तथान्यच्च महर्षीणामखण्डितह्रदं तथा । ०२५०८३२ तीर्थेष्वेतेषु विधिवत्सम्यक्ष्रद्धासमन्वितः ॥ २५.८३। ०२५०८४१ स्नानं करोति यो मर्त्यः सोपवासो जितेन्द्रियः । ०२५०८४२ देवानृषीन्मनुष्यांश्च पितॄन्सन्तर्प्य च क्रमात् ॥ २५.८४। ०२५०८५१ अभ्यर्च्य देवतास्तत्र स्थित्वा च रजनीत्रयम् । ०२५०८५२ पृथक्पृथक्फलं तेषु प्रतितीर्थेषु भो द्विजाः ॥ २५.८५। ०२५०८६१ प्राप्नोति हयमेधस्य नरो नास्त्यत्र संशयः । ०२५०८६२ यस्त्विदं शृणुयान्नित्यं तीर्थमाहात्म्यमुत्तमम् । ०२५०८६३ पठेच्च श्रावयेद्वापि सर्वपापैः प्रमुच्यते ॥ २५.८६। ०२६००१० मुनय ऊचुः ०२६००११ पृथिव्यामुत्तमां भूमिं धर्मकामार्थमोक्षदाम् । ०२६००१२ तीर्थानामुत्तमं तीर्थं ब्रूहि नो वदतां वर ॥ २६.१। ०२६००२० लोमहर्षण उवाच ०२६००२१ इमं प्रश्नं मम गुरुं पप्रच्छुर्मुनयः पुरा । ०२६००२२ तमहं सम्प्रवक्ष्यामि यत्पृच्छध्वं द्विजोत्तमाः ॥ २६.२। ०२६००३१ स्वाश्रमे सुमहापुण्ये नानापुष्पोपशोभिते । ०२६००३२ नानाद्रुमलताकीर्णे नानामृगगणैर्युते ॥ २६.३। ०२६००४१ पुन्नागैः कर्णिकारैश्च सरलैर्देवदारुभिः । ०२६००४२ शालैस्तालैस्तमालैश्च पनसैर्धवखादिरैः ॥ २६.४। ०२६००५१ पाटलाशोकबकुलैः करवीरैः सचम्पकैः । ०२६००५२ अन्यैश्च विविधैर्वृक्षैर्नानापुष्पोपशोभितैः ॥ २६.५। ०२६००६१ कुरुक्षेत्रे समासीनं व्यासं मतिमतां वरम् । ०२६००६२ महाभारतकर्तारं सर्वशास्त्रविशारदम् ॥ २६.६। ०२६००७१ अध्यात्मनिष्ठं सर्वज्ञं सर्वभूतहिते रतम् । ०२६००७२ पुराणागमवक्तारं वेदवेदाङ्गपारगम् ॥ २६.७। ०२६००८१ पराशरसुतं शान्तं पद्मपत्त्रायतेक्षणम् । ०२६००८२ द्रष्टुमभ्याययुः प्रीत्या मुनयः संशितव्रताः ॥ २६.८। ०२६००९१ कश्यपो जमदग्निश्च भरद्वाजो ऽथ गौतमः । ०२६००९२ वसिष्ठो जैमिनिर्धौम्यो मार्कण्डेयो ऽथ वाल्मिकिः ॥ २६.९। ०२६०१०१ विश्वामित्रः शतानन्दो वात्स्यो गार्ग्यो ऽथ आसुरिः । ०२६०१०२ सुमन्तुर्भार्गवो नाम कण्वो मेधातिथिर्गुरुः ॥ २६.१०। ०२६०१११ माण्डव्यश्च्यवनो धूम्रो ह्यसितो देवलस्तथा । ०२६०११२ मौद्गल्यस्तृणयज्ञश्च पिप्पलादो ऽकृतव्रणः ॥ २६.११। ०२६०१२१ संवर्तः कौशिको रैभ्यो मैत्रेयो हरितस्तथा । ०२६०१२२ शाण्डिल्यश्च विभाण्डश्च दुर्वासा लोमशस्तथा ॥ २६.१२। ०२६०१३१ नारदः पर्वतश्चैव वैशम्पायनगालवौ । ०२६०१३२ भास्करिः पूरणः सूतः पुलस्त्यः कपिलस्तथा ॥ २६.१३। ०२६०१४१ उलूकः पुलहो वायुर्देवस्थानश्चतुर्भुजः । ०२६०१४२ सनत्कुमारः पैलश्च कृष्णः कृष्णानुभौतिकः ॥ २६.१४। ०२६०१५१ एतैर्मुनिवरैश्चान्यैर्वृतः सत्यवतीसुतः । ०२६०१५२ रराज स मुनिः श्रीमान्नक्षत्रैरिव चन्द्रमाः ॥ २६.१५। ०२६०१६१ तानागतान्मुनीन्सर्वान्पूजयामास वेदवित् । ०२६०१६२ ते ऽपि तं प्रतिपूज्यैव कथां चक्रुः परस्परम् ॥ २६.१६। ०२६०१७१ कथान्ते ते मुनिश्रेष्ठाः कृष्णं सत्यवतीसुतम् । ०२६०१७२ पप्रच्छुः संशयं सर्वे तपोवननिवासिनः ॥ २६.१७। ०२६०१८० मुनय ऊचुः ०२६०१८१ मुने वेदांश्च शास्त्राणि पुराणागमभारतम् । ०२६०१८२ भूतं भव्यं भविष्यं च सर्वं जानासि वाङ्मयम् ॥ २६.१८। ०२६०१९१ कष्टे ऽस्मिन्दुःखबहुले निःसारे भवसागरे । ०२६०१९२ रागग्राहाकुले रौद्रे विषयोदकसम्प्लवे ॥ २६.१९। ०२६०२०१ इन्द्रियावर्तकलिले दृष्टोर्मिशतसङ्कुले । ०२६०२०२ मोहपङ्काविले दुर्गे लोभगम्भीरदुस्तरे ॥ २६.२०। ०२६०२११ निमज्जज्जगदालोक्य निरालम्बमचेतनम् । ०२६०२१२ पृच्छामस्त्वां महाभागं ब्रूहि नो मुनिसत्तम ॥ २६.२१। ०२६०२२१ श्रेयः किमत्र संसारे भैरवे लोमहर्षणे । ०२६०२२२ उपदेशप्रदानेन लोकानुद्धर्तुमर्हसि ॥ २६.२२। ०२६०२३१ दुर्लभं परमं क्षेत्रं वक्तुमर्हसि मोक्षदम् । ०२६०२३२ पृथिव्यां कर्मभूमिं च श्रोतुमिच्छामहे वयम् ॥ २६.२३। ०२६०२४१ कृत्वा किल नरः सम्यक्कर्म भूमौ यथोदितम् । ०२६०२४२ प्राप्नोति परमां सिद्धिं नरकं च विकर्मतः ॥ २६.२४। ०२६०२५१ मोक्षक्षेत्रे तथा मोक्षं प्राप्नोति पुरुषः सुधीः । ०२६०२५२ तस्माद्ब्रूहि महाप्राज्ञ यत्पृष्टो ऽसि द्विजोत्तम ॥ २६.२५। ०२६०२६१ श्रुत्वा तु वचनं तेषां मुनीनां भावितात्मनाम् । ०२६०२६२ व्यासः प्रोवाच भगवान्भूतभव्यभविष्यवित् ॥ २६.२६। ०२६०२७० व्यास उवाच ०२६०२७१ शृणुध्वं मुनयः सर्वे वक्ष्यामि यदि पृच्छथ । ०२६०२७२ यः संवादो ऽभवत्पूर्वमृषीणां ब्रह्मणा सह ॥ २६.२७। ०२६०२८१ मेरुपृष्ठे तु विस्तीर्णे नानारत्नविभूषिते । ०२६०२८२ नानाद्रुमलताकीर्णे नानापुष्पोपशोभिते ॥ २६.२८। ०२६०२९१ नानापक्षिरुते रम्ये नानाप्रसवनाकुले । ०२६०२९२ नानासत्त्वसमाकीर्णे नानाश्चर्यसमन्विते ॥ २६.२९। ०२६०३०१ नानावर्णशिलाकीर्णे नानाधातुविभूषिते । ०२६०३०२ नानामुनिजनाकीर्णे नानाश्रमसमन्विते ॥ २६.३०। ०२६०३११ तत्रासीनं जगन्नाथं जगद्योनिं चतुर्मुखम् । ०२६०३१२ जगत्पतिं जगद्वन्द्यं जगदाधारमीश्वरम् ॥ २६.३१। ०२६०३२१ देवदानवगन्धर्वैर्यक्षविद्याधरोरगैः । ०२६०३२२ मुनिसिद्धाप्सरोभिश्च वृतमन्यैर्दिवालयैः ॥ २६.३२। ०२६०३३१ केचित्स्तुवन्ति तं देवं केचिद्गायन्ति चाग्रतः । ०२६०३३२ केचिद्वाद्यानि वाद्यन्ते केचिन्नृत्यन्ति चापरे ॥ २६.३३। ०२६०३४१ एवं प्रमुदिते काले सर्वभूतसमागमे । ०२६०३४२ नानाकुसुमगन्धाढ्ये दक्षिणानिलसेविते ॥ २६.३४। ०२६०३५१ भृग्वाद्यास्तं तदा देवं प्रणिपत्य पितामहम् । ०२६०३५२ इममर्थमृषिवराः पप्रच्छुः पितरं द्विजाः ॥ २६.३५। ०२६०३६० ऋषय ऊचुः ०२६०३६१ भगवञ्श्रोतुमिच्छामः कर्मभूमिं महीतले । ०२६०३६२ वक्तुमर्हसि देवेश मोक्षक्षेत्रं च दुर्लभम् ॥ २६.३६। ०२६०३७० व्यास उवाच ०२६०३७१ तेषां वचनमाकर्ण्य प्राह ब्रह्मा सुरेश्वरः । ०२६०३७२ पप्रच्छुस्ते यथा प्रश्नं तत्सर्वं मुनिसत्तमाः ॥ २६.३७। ०२७००१० ब्रह्मोवाच ०२७००११ शृणुध्वं मुनयः सर्वे यद्वो वक्ष्यामि साम्प्रतम् । ०२७००१२ पुराणं वेदसम्बद्धं भुक्तिमुक्तिप्रदं शुभम् ॥ २७.१। ०२७००२१ पृथिव्यां भारतं वर्षं कर्मभूमिरुदाहृता । ०२७००२२ कर्मणः फलभूमिश्च स्वर्गं च नरकं तथा ॥ २७.२। ०२७००३१ तस्मिन्वर्षे नरः पापं कृत्वा धर्मं च भो द्विजाः । ०२७००३२ अवश्यं फलमाप्नोति अशुभस्य शुभस्य च ॥ २७.३। ०२७००४१ ब्राह्मणाद्याः स्वकं कर्म कृत्वा सम्यक्सुसंयताः । ०२७००४२ प्राप्नुवन्ति परां सिद्धिं तस्मिन्वर्षे न संशयः ॥ २७.४। ०२७००५१ धर्मं चार्थं च कामं च मोक्षं च द्विजसत्तमाः । ०२७००५२ प्राप्नोति पुरुषः सर्वं तस्मिन्वर्षे सुसंयतः ॥ २७.५। ०२७००६१ इन्द्राद्याश्च सुराः सर्वे तस्मिन्वर्षे द्विजोत्तमाः । ०२७००६२ कृत्वा सुशोभनं कर्म देवत्वं प्रतिपेदिरे ॥ २७.६। ०२७००७१ अन्ये ऽपि लेभिरे मोक्षं पुरुषाः संयतेन्द्रियाः । ०२७००७२ तस्मिन्वर्षे बुधाः शान्ता वीतरागा विमत्सराः ॥ २७.७। ०२७००८१ ये चापि स्वर्गे तिष्ठन्ति विमानेन गतज्वराः । ०२७००८२ ते ऽपि कृत्वा शुभं कर्म तस्मिन्वर्षे दिवं गताः ॥ २७.८। ०२७००९१ निवासं भारते वर्ष आकाङ्क्षन्ति सदा सुराः । ०२७००९२ स्वर्गापवर्गफलदे तत्पश्यामः कदा वयम् ॥ २७.९। ०२७०१०० मुनय ऊचुः ०२७०१०१ यदेतद्भवता प्रोक्तं कर्म नान्यत्र पुण्यदम् । ०२७०१०२ पापाय वा सुरश्रेष्ठ वर्जयित्वा च भारतम् ॥ २७.१०। ०२७०१११ ततः स्वर्गश्च मोक्षश्च मध्यमं तच्च गम्यते । ०२७०११२ न खल्वन्यत्र मर्त्यानां भूमौ कर्म विधीयते ॥ २७.११। ०२७०१२१ तस्माद्विस्तरतो ब्रह्मन्नस्माकं भारतं वद । ०२७०१२२ यदि ते ऽस्ति दयास्मासु यथावस्थितिरेव च ॥ २७.१२। ०२७०१३१ तस्माद्वर्षमिदं नाथ ये वास्मिन्वर्षपर्वताः । ०२७०१३२ भेदाश्च तस्य वर्षस्य ब्रूहि सर्वानशेषतः ॥ २७.१३। ०२७०१४० ब्रह्मोवाच ०२७०१४१ शृणुध्वं भारतं वर्षं नवभेदेन भो द्विजाः । ०२७०१४२ समुद्रान्तरिता ज्ञेयास्ते समाश्च परस्परम् ॥ २७.१४। ०२७०१५१ इन्द्रद्वीपः कशेरुश्च ताम्रवर्णो गभस्तिमान् । ०२७०१५२ नागद्वीपस्तथा सौम्यो गान्धर्वो वारुणस्तथा ॥ २७.१५। ०२७०१६१ अयं तु नवमस्तेषां द्वीपः सागरसंवृतः । ०२७०१६२ योजनानां सहस्रं वै द्वीपो ऽयं दक्षिणोत्तरः ॥ २७.१६। ०२७०१७१ पूर्वे किराता यस्यासन्पश्चिमे यवनास्तथा । ०२७०१७२ ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चान्ते स्थिता द्विजाः ॥ २७.१७। ०२७०१८१ इज्यायुद्धवणिज्याद्यैः कर्मभिः कृतपावनाः । ०२७०१८२ तेषां संव्यवहारश्च एभिः कर्मभिरिष्यते ॥ २७.१८। ०२७०१९१ स्वर्गापवर्गहेतुश्च पुण्यं पापं च वै तथा । ०२७०१९२ महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः ॥ २७.१९। ०२७०२०१ विन्ध्यश्च पारियात्रश्च सप्तैवात्र कुलाचलाः । ०२७०२०२ तेषां सहस्रशश्चान्ये भूधरा ये समीपगाः ॥ २७.२०। ०२७०२११ विस्तारोच्छ्रयिणो रम्या विपुलाश्चित्रसानवः । ०२७०२१२ कोलाहलः स वैभ्राजो मन्दरो दर्दलाचलः ॥ २७.२१। ०२७०२२१ वातन्धयो वैद्युतश्च मैनाकः सुरसस्तथा । ०२७०२२२ तुङ्गप्रस्थो नागगिरिर्गोधनः पाण्डराचलः ॥ २७.२२। ०२७०२३१ पुष्पगिरिर्वैजयन्तो रैवतो ऽर्बुद एव च । ०२७०२३२ ऋष्यमूकः स गोमन्थः कृतशैलः कृताचलः ॥ २७.२३। ०२७०२४१ श्रीपार्वतश्चकोरश्च शतशो ऽन्ये च पर्वताः । ०२७०२४२ तैर्विमिश्रा जनपदा म्लेच्छाद्याश्चैव भागशः ॥ २७.२४। ०२७०२५१ तैः पीयन्ते सरिच्छ्रेष्ठास्ता बुध्यध्वं द्विजोत्तमाः । ०२७०२५२ गङ्गा सरस्वती सिन्धुश्चन्द्रभागा तथापरा ॥ २७.२५। ०२७०२६१ यमुना शतद्रुर्विपाशा वितस्तैरावती कुहूः । ०२७०२६२ गोमती धूतपापा च बाहुदा च दृषद्वती ॥ २७.२६। ०२७०२७१ विपाशा देविका चक्षुर्निष्ठीवा गण्डकी तथा । ०२७०२७२ कौशिकी चापगा चैव हिमवत्पादनिःसृताः ॥ २७.२७। ०२७०२८१ देवस्मृतिर्देववती वातघ्नी सिन्धुरेव च । ०२७०२८२ वेण्या तु चन्दना चैव सदानीरा मही तथा ॥ २७.२८। ०२७०२९१ चर्मण्वती वृषी चैव विदिशा वेदवत्यपि । ०२७०२९२ सिप्रा ह्यवन्ती च तथा पारियात्रानुगाः स्मृताः ॥ २७.२९। ०२७०३०१ शोणा महानदी चैव नर्मदा सुरथा क्रिया । ०२७०३०२ मन्दाकिनी दशार्णा च चित्रकूटा तथापरा ॥ २७.३०। ०२७०३११ चित्रोत्पला वेत्रवती करमोदा पिशाचिका । ०२७०३१२ तथान्यातिलघुश्रोणी विपाप्मा शैवला नदी ॥ २७.३१। ०२७०३२१ सधेरुजा शक्तिमती शकुनी त्रिदिवा क्रमुः । ०२७०३२२ ऋक्षपादप्रसूता वै तथान्या वेगवाहिनी ॥ २७.३२। ०२७०३३१ सिप्रा पयोष्णी निर्विन्ध्या तापी चैव सरिद्वरा । ०२७०३३२ वेणा वैतरणी चैव सिनीवाली कुमुद्वती ॥ २७.३३। ०२७०३४१ तोया चैव महागौरी दुर्गा चान्तःशिला तथा । ०२७०३४२ विन्ध्यपादप्रसूतास्ता नद्यः पुण्यजलाः शुभाः ॥ २७.३४। ०२७०३५१ गोदावरी भीमरथी कृष्णवेणा तथापगा । ०२७०३५२ तुङ्गभद्रा सुप्रयोगा तथान्या पापनाशिनी ॥ २७.३५। ०२७०३६१ सह्यपादविनिष्क्रान्ता इत्येताः सरितां वराः । ०२७०३६२ कृतमाला ताम्रपर्णी पुष्यजा प्रत्यलावती ॥ २७.३६। ०२७०३७१ मलयाद्रिसमुद्भूताः पुण्याः शीतजलास्त्विमाः । ०२७०३७२ पितृसोमर्षिकुल्या च वञ्जुला त्रिदिवा च या ॥ २७.३७। ०२७०३८१ लाङ्गुलिनी वंशकरा महेन्द्रप्रभवाः स्मृताः । ०२७०३८२ सुविकाला कुमारी च मनूगा मन्दगामिनी ॥ २७.३८। ०२७०३९१ क्षयापलासिनी चैव शुक्तिमत्प्रभवाः स्मृताः । ०२७०३९२ सर्वाः पुण्याः सरस्वत्यः सर्वा गङ्गाः समुद्रगाः ॥ २७.३९। ०२७०४०१ विश्वस्य मातरः सर्वाः सर्वाः पापहराः स्मृताः । ०२७०४०२ अन्याः सहस्रशः प्रोक्ताः क्षुद्रनद्यो द्विजोत्तमाः ॥ २७.४०। ०२७०४११ प्रावृट्कालवहाः सन्ति सदाकालवहाश्च याः । ०२७०४१२ मत्स्या मुकुटकुल्याश्च कुन्तलाः काशिकोशलाः ॥ २७.४१। ०२७०४२१ अन्ध्रकाश्च कलिङ्गाश्च शमकाश्च वृकैः सह । ०२७०४२२ मध्यदेशा जनपदाः प्रायशो ऽमी प्रकीर्तिताः ॥ २७.४२। ०२७०४३१ सह्यस्य चोत्तरे यस्तु यत्र गोदावरी नदी । ०२७०४३२ पृथिव्यामपि कृत्स्नायां स प्रदेशो मनोरमः ॥ २७.४३। ०२७०४४१ गोवर्धनपुरं रम्यं भार्गवस्य महात्मनः । ०२७०४४२ वाहीकराटधानाश्च सुतीराः कालतोयदाः ॥ २७.४४। ०२७०४५१ अपरान्ताश्च शूद्राश्च वाह्लिकाश्च सकेरलाः । ०२७०४५२ गान्धारा यवनाश्चैव सिन्धुसौवीरमद्रकाः ॥ २७.४५। ०२७०४६१ शतद्रुहाः कलिङ्गाश्च पारदा हारभूषिकाः । ०२७०४६२ माठराश्चैव कनकाः कैकेया दम्भमालिकाः ॥ २७.४६। ०२७०४७१ क्षत्रियोपमदेशाश्च वैश्यशूद्रकुलानि च । ०२७०४७२ काम्बोजाश्चैव विप्रेन्द्रा बर्बराश्च सलौकिकाः ॥ २७.४७। ०२७०४८१ वीराश्चैव तुषाराश्च पह्लवाधायता नराः । ०२७०४८२ आत्रेयाश्च भरद्वाजाः पुष्कलाश्च दशेरकाः ॥ २७.४८। ०२७०४९१ लम्पकाः शुनशोकाश्च कुलिका जाङ्गलैः सह । ०२७०४९२ औषध्यश्चलचन्द्रा च किरातानां च जातयः ॥ २७.४९। ०२७०५०१ तोमरा हंसमार्गाश्च काश्मीराः करुणास्तथा । ०२७०५०२ शूलिकाः कुहकाश्चैव मागधाश्च तथैव च ॥ २७.५०। ०२७०५११ एते देशा उदीच्यास्तु प्राच्यान्देशान्निबोधत । ०२७०५१२ अन्धा वामङ्कुराकाश्च वल्लकाश्च मखान्तकाः ॥ २७.५१। ०२७०५२१ तथापरे ऽङ्गा वङ्गाश्च मलदा मालवर्तिकाः । ०२७०५२२ भद्रतुङ्गाः प्रतिजया भार्याङ्गाश्चापमर्दकाः ॥ २७.५२। ०२७०५३१ प्राग्ज्योतिषाश्च मद्राश्च विदेहास्ताम्रलिप्तकाः । ०२७०५३२ मल्ला मगधका नन्दाः प्राच्या जनपदास्तथा ॥ २७.५३। ०२७०५४१ अथापरे जनपदा दक्षिणापथवासिनः । ०२७०५४२ पूर्णाश्च केवलाश्चैव गोलाङ्गूलास्तथैव च ॥ २७.५४। ०२७०५५१ ऋषिका मुषिकाश्चैव कुमारा रामठाः शकाः । ०२७०५५२ महाराष्ट्रा माहिषकाः कलिङ्गाश्चैव सर्वशः ॥ २७.५५। ०२७०५६१ आभीराः सह वैशिक्या अटव्याः सरवाश्च ये । ०२७०५६२ पुलिन्दाश्चैव मौलेया वैदर्भा दण्डकैः सह ॥ २७.५६। ०२७०५७१ पौलिका मौलिकाश्चैव अश्मका भोजवर्धनाः । ०२७०५७२ कौलिकाः कुन्तलाश्चैव दम्भका नीलकालकाः ॥ २७.५७। ०२७०५८१ दाक्षिणात्यास्त्वमी देशा अपरान्तान्निबोधत । ०२७०५८२ शूर्पारकाः कालिधना लोलास्तालकटैः सह ॥ २७.५८। ०२७०५९१ इत्येते ह्यपरान्ताश्च शृणुध्वं विन्ध्यवासिनः । ०२७०५९२ मलजाः कर्कशाश्चैव मेलकाश्चोलकैः सह ॥ २७.५९। ०२७०६०१ उत्तमार्णा दशार्णाश्च भोजाः किष्किन्धकैः सह । ०२७०६०२ तोषलाः कोशलाश्चैव त्रैपुरा वैदिशास्तथा ॥ २७.६०। ०२७०६११ तुम्बुरास्तु चराश्चैव यवनाः पवनैः सह । ०२७०६१२ अभया रुण्डिकेराश्च चर्चरा होत्रधर्तयः ॥ २७.६१। ०२७०६२१ एते जनपदाः सर्वे तत्र विन्ध्यनिवासिनः । ०२७०६२२ अतो देशान्प्रवक्ष्यामि पर्वताश्रयिणश्च ये ॥ २७.६२। ०२७०६३१ नीहारास्तुषमार्गाश्च कुरवस्तुङ्गणाः खसाः । ०२७०६३२ कर्णप्रावरणाश्चैव ऊर्णा दर्घाः सकुन्तकाः ॥ २७.६३। ०२७०६४१ चित्रमार्गा मालवाश्च किरातास्तोमरैः सह । ०२७०६४२ कृतत्रेतादिकश्चात्र चतुर्युगकृतो विधिः ॥ २७.६४। ०२७०६५१ एवं तु भारतं वर्षं नवसंस्थानसंस्थितम् । ०२७०६५२ दक्षिणे परतो यस्य पूर्वे चैव महोदधिः ॥ २७.६५। ०२७०६६१ हिमवानुत्तरेणास्य कार्मुकस्य यथा गुणः । ०२७०६६२ तदेतद्भारतं वर्षं सर्वबीजं द्विजोत्तमाः ॥ २७.६६। ०२७०६७१ ब्रह्मत्वममरेशत्वं देवत्वं मरुतां तथा । ०२७०६७२ मृगयक्षाप्सरोयोनिं तद्वत्सर्पसरीसृपाः ॥ २७.६७। ०२७०६८१ स्थावराणां च सर्वेषां मितो विप्राः शुभाशुभैः । ०२७०६८२ प्रयान्ति कर्मभूर्विप्रा नान्या लोकेषु विद्यते ॥ २७.६८। ०२७०६९१ देवानामपि भो विप्राः सदैवैष मनोरथः । ०२७०६९२ अपि मानुष्यमाप्स्यामो देवत्वात्प्रच्युताः क्षितौ ॥ २७.६९। ०२७०७०१ मनुष्यः कुरुते यत्तु तन्न शक्यं सुरासुरैः । ०२७०७०२ तत्कर्मनिगडग्रस्तैस्तत्कर्मक्षपणोन्मुखैः ॥ २७.७०। ०२७०७११ न भारतसमं वर्षं पृथिव्यामस्ति भो द्विजाः । ०२७०७१२ यत्र विप्रादयो वर्णाः प्राप्नुवन्त्यभिवाञ्छितम् ॥ २७.७१। ०२७०७२१ धन्यास्ते भारते वर्षे जायन्ते ये नरोत्तमाः । ०२७०७२२ धर्मार्थकाममोक्षाणां प्राप्नुवन्ति महाफलम् ॥ २७.७२। ०२७०७३१ प्राप्यते यत्र तपसः फलं परमदुर्लभम् । ०२७०७३२ सर्वदानफलं चैव सर्वयज्ञफलं तथा ॥ २७.७३। ०२७०७४१ तीर्थयात्राफलं चैव गुरुसेवाफलं तथा । ०२७०७४२ देवताराधनफलं स्वाध्यायस्य फलं द्विजाः ॥ २७.७४। ०२७०७५१ यत्र देवाः सदा हृष्टा जन्म वाञ्छन्ति शोभनम् । ०२७०७५२ नानाव्रतफलं चैव नानाशास्त्रफलं तथा ॥ २७.७५। ०२७०७६१ अहिंसादिफलं सम्यक्फलं सर्वाभिवाञ्छितम् । ०२७०७६२ ब्रह्मचर्यफलं चैव गार्हस्थ्येन च यत्फलम् ॥ २७.७६। ०२७०७७१ यत्फलं वनवासेन सन्न्यासेन च यत्फलम् । ०२७०७७२ इष्टापूर्तफलं चैव तथान्यच्छुभकर्मणाम् ॥ २७.७७। ०२७०७८१ प्राप्यते भारते वर्षे न चान्यत्र द्विजोत्तमाः । ०२७०७८२ कः शक्नोति गुणान्वक्तुं भारतस्याखिलान्द्विजाः ॥ २७.७८। ०२७०७९१ एवं सम्यङ्मया प्रोक्तं भारतं वर्षमुत्तमम् । ०२७०७९२ सर्वपापहरं पुण्यं धन्यं बुद्धिविवर्धनम् ॥ २७.७९। ०२७०८०१ य इदं शृणुयान्नित्यं पठेद्वा नियतेन्द्रियः । ०२७०८०२ सर्वपापैर्विनिर्मुक्तो विष्णुलोकं स गच्छति ॥ २७.८०। ०२८००१० ब्रह्मोवाच ०२८००११ तत्रास्ते भारते वर्षे दक्षिणोदधिसंस्थितः । ०२८००१२ ओण्ड्रदेश इति ख्यातः स्वर्गमोक्षप्रदायकः ॥ २८.१। ०२८००२१ समुद्रादुत्तरं तावद्यावद्विरजमण्डलम् । ०२८००२२ देशो ऽसौ पुण्यशीलानां गुणैः सर्वैरलङ्कृतः ॥ २८.२। ०२८००३१ तत्र देशप्रसूता ये ब्राह्मणाः संयतेन्द्रियाः । ०२८००३२ तपःस्वाध्यायनिरता वन्द्याः पूज्याश्च ते सदा ॥ २८.३। ०२८००४१ श्राद्धे दाने विवाहे च यज्ञे वाचार्यकर्मणि । ०२८००४२ प्रशस्ताः सर्वकार्येषु तत्रदेशोद्भवा द्विजाः ॥ २८.४। ०२८००५१ षट्कर्मनिरतास्तत्र ब्राह्मणा वेदपारगाः । ०२८००५२ इतिहासविदश्चैव पुराणार्थविशारदाः ॥ २८.५। ०२८००६१ सर्वशास्त्रार्थकुशला यज्वानो वीतमत्सराः । ०२८००६२ अग्निहोत्ररताः केचित्केचित्स्मार्ताग्नितत्पराः ॥ २८.६। ०२८००७१ पुत्रदारधनैर्युक्ता दातारः सत्यवादिनः । ०२८००७२ निवसन्त्युत्कले पुण्ये यज्ञोत्सवविभूषिते ॥ २८.७। ०२८००८१ इतरे ऽपि त्रयो वर्णाः क्षत्रियाद्याः सुसंयताः । ०२८००८२ स्वकर्मनिरताः शान्तास्तत्र तिष्ठन्ति धार्मिकाः ॥ २८.८। ०२८००९१ कोणादित्य इति ख्यातस्तस्मिन्देशे व्यवस्थितः । ०२८००९२ यं दृष्ट्वा भास्करं मर्त्यः सर्वपापैः प्रमुच्यते ॥ २८.९। ०२८०१०० मुनय ऊचुः ०२८०१०१ श्रोतुमिच्छाम तद्ब्रूहि क्षेत्रं सूर्यस्य साम्प्रतम् । ०२८०१०२ तस्मिन्देशे सुरश्रेष्ठ यत्रास्ते स दिवाकरः ॥ २८.१०। ०२८०११० ब्रह्मोवाच ०२८०१११ लवणस्योदधेस्तीरे पवित्रे सुमनोहरे । ०२८०११२ सर्वत्र वालुकाकीर्णे देशे सर्वगुणान्विते ॥ २८.११। ०२८०१२१ चम्पकाशोकबकुलैः करवीरैः सपाटलैः । ०२८०१२२ पुन्नागैः कर्णिकारैश्च बकुलैर्नागकेसरैः ॥ २८.१२। ०२८०१३१ तगरैर्धवबाणैश्च अतिमुक्तैः सकुब्जकैः । ०२८०१३२ मालतीकुन्दपुष्पैश्च तथान्यैर्मल्लिकादिभिः ॥ २८.१३। ०२८०१४१ केतकीवनखण्डैश्च सर्वर्तुकुसुमोज्ज्वलैः । ०२८०१४२ कदम्बैर्लकुचैः शालैः पनसैर्देवदारुभिः ॥ २८.१४। ०२८०१५१ सरलैर्मुचुकुन्दैश्च चन्दनैश्च सितेतरैः । ०२८०१५२ अश्वत्थैः सप्तपर्णैश्च आम्रैराम्रातकैस्तथा ॥ २८.१५। ०२८०१६१ तालैः पूगफलैश्चैव नारिकेरैः कपित्थकैः । ०२८०१६२ अन्यैश्च विविधैर्वृक्षैः सर्वतः समलङ्कृतम् ॥ २८.१६। ०२८०१७१ क्षेत्रं तत्र रवेः पुण्यमास्ते जगति विश्रुतम् । ०२८०१७२ समन्ताद्योजनं साग्रं भुक्तिमुक्तिफलप्रदम् ॥ २८.१७। ०२८०१८१ आस्ते तत्र स्वयं देवः सहस्रांशुर्दिवाकरः । ०२८०१८२ कोणादित्य इति ख्यातो भुक्तिमुक्तिफलप्रदः ॥ २८.१८। ०२८०१९१ माघे मासि सिते पक्षे सप्तम्यां संयतेन्द्रियः । ०२८०१९२ कृतोपवासो यत्रेत्य स्नात्वा तु मकरालये ॥ २८.१९। ०२८०२०१ कृतशौचो विशुद्धात्मा स्मरन्देवं दिवाकरम् । ०२८०२०२ सागरे विधिवत्स्नात्वा शर्वर्यन्ते समाहितः ॥ २८.२०। ०२८०२११ देवानृषीन्मनुष्यांश्च पितॄन्सन्तर्प्य च द्विजाः । ०२८०२१२ उत्तीर्य वाससी धौते परिधाय सुनिर्मले ॥ २८.२१। ०२८०२२१ आचम्य प्रयतो भूत्वा तीरे तस्य महोदधेः । ०२८०२२२ उपविश्योदये काले प्राङ्मुखः सवितुस्तदा ॥ २८.२२। ०२८०२३१ विलिख्य पद्मं मेधावी रक्तचन्दनवारिणा । ०२८०२३२ अष्टपत्त्रं केसराढ्यं वर्तुलं चोर्ध्वकर्णिकम् ॥ २८.२३। ०२८०२४१ तिलतण्डुलतोयं च रक्तचन्दनसंयुतम् । ०२८०२४२ रक्तपुष्पं सदर्भं च प्रक्षिपेत्ताम्रभाजने ॥ २८.२४। ०२८०२५१ ताम्राभावे ऽर्कपत्त्रस्य पुटे कृत्वा तिलादिकम् । ०२८०२५२ पिधाय तन्मुनिश्रेष्ठाः पात्रं पात्रेण विन्यसेत् ॥ २८.२५। ०२८०२६१ करन्यासाङ्गविन्यासं कृत्वाङ्गैर्हृदयादिभिः । ०२८०२६२ आत्मानं भास्करं ध्यात्वा सम्यक्ष्रद्धासमन्वितः ॥ २८.२६। ०२८०२७१ मध्ये चाग्निदले धीमान्नैरृते श्वसने दले । ०२८०२७२ कामारिगोचरे चैव पुनर्मध्ये च पूजयेत् ॥ २८.२७। ०२८०२८१ प्रभूतं विमलं सारमाराध्यं परमं सुखम् । ०२८०२८२ सम्पूज्य पद्ममावाह्य गगनात्तत्र भास्करम् ॥ २८.२८। ०२८०२९१ कर्णिकोपरि संस्थाप्य ततो मुद्रां प्रदर्शयेत् । ०२८०२९२ कृत्वा स्नानादिकं सर्वं ध्यात्वा तं सुसमाहितः ॥ २८.२९। ०२८०३०१ सितपद्मोपरि रविं तेजोबिम्बे व्यवस्थितम् । ०२८०३०२ पिङ्गाक्षं द्विभुजं रक्तं पद्मपत्त्रारुणाम्बरम् ॥ २८.३०। ०२८०३११ सर्वलक्षणसंयुक्तं सर्वाभरणभूषितम् । ०२८०३१२ सुरूपं वरदं शान्तं प्रभामण्डलमण्डितम् ॥ २८.३१। ०२८०३२१ उद्यन्तं भास्करं दृष्ट्वा सान्द्रसिन्दूरसन्निभम् । ०२८०३२२ ततस्तत्पात्रमादाय जानुभ्यां धरणीं गतः ॥ २८.३२। ०२८०३३१ कृत्वा शिरसि तत्पात्रमेकचित्तस्तु वाग्यतः । ०२८०३३२ त्र्यक्षरेण तु मन्त्रेण सूर्यायार्घ्यं निवेदयेत् ॥ २८.३३। ०२८०३४१ अदीक्षितस्तु तस्यैव नाम्नैवार्घं प्रयच्छति । ०२८०३४२ श्रद्धया भावयुक्तेन भक्तिग्राह्यो रविर्यतः ॥ २८.३४। ०२८०३५१ अग्निनिरृतिवाय्वीश-मध्यपूर्वादिदिक्षु च । ०२८०३५२ हृच्छिरश्च शिखावर्म-नेत्राण्यस्त्रं च पूजयेत् ॥ २८.३५। ०२८०३६१ दत्त्वार्घ्यं गन्धधूपं च दीपं नैवेद्यमेव च । ०२८०३६२ जप्त्वा स्तुत्वा नमस्कृत्वा मुद्रां बद्ध्वा विसर्जयेत् ॥ २८.३६। ०२८०३७१ ये वार्घ्यं सम्प्रयच्छन्ति सूर्याय नियतेन्द्रियाः । ०२८०३७२ ब्राह्मणाः क्षत्रिया वैश्याः स्त्रियः शूद्राश्च संयताः ॥ २८.३७। ०२८०३८१ भक्तिभावेन सततं विशुद्धेनान्तरात्मना । ०२८०३८२ ते भुक्त्वाभिमतान्कामान्प्राप्नुवन्ति परां गतिम् ॥ २८.३८। ०२८०३९१ त्रैलोक्यदीपकं देवं भास्करं गगनेचरम् । ०२८०३९२ ये संश्रयन्ति मनुजास्ते स्युः सुखस्य भाजनम् ॥ २८.३९। ०२८०४०१ यावन्न दीयते चार्घ्यं भास्कराय यथोदितम् । ०२८०४०२ तावन्न पूजयेद्विष्णुं शङ्करं वा सुरेश्वरम् ॥ २८.४०। ०२८०४११ तस्मात्प्रयत्नमास्थाय दद्यादर्घ्यं दिने दिने । ०२८०४१२ आदित्याय शुचिर्भूत्वा पुष्पैर्गन्धैर्मनोरमैः ॥ २८.४१। ०२८०४२१ एवं ददाति यश्चार्घ्यं सप्तम्यां सुसमाहितः । ०२८०४२२ आदित्याय शुचिः स्नातः स लभेदीप्सितं फलम् ॥ २८.४२। ०२८०४३१ रोगाद्विमुच्यते रोगी वित्तार्थी लभते धनम् । ०२८०४३२ विद्यां प्राप्नोति विद्यार्थी सुतार्थी पुत्रवान्भवेत् ॥ २८.४३। ०२८०४४१ यं यं काममभिध्यायन्सूर्यायार्घ्यं प्रयच्छति । ०२८०४४२ तस्य तस्य फलं सम्यक्प्राप्नोति पुरुषः सुधीः ॥ २८.४४। ०२८०४५१ स्नात्वा वै सागरे दत्त्वा सूर्यायार्घ्यं प्रणम्य च । ०२८०४५२ नरो वा यदि वा नारी सर्वकामफलं लभेत् ॥ २८.४५। ०२८०४६१ ततः सूर्यालयं गच्छेत्पुष्पमादाय वाग्यतः । ०२८०४६२ प्रविश्य पूजयेद्भानुं कृत्वा तु त्रिः प्रदक्षिणम् ॥ २८.४६। ०२८०४७१ पूजयेत्परया भक्त्या कोणार्कं मुनिसत्तमाः । ०२८०४७२ गन्धैः पुष्पैस्तथा दीपैर्धूपैर्नैवेद्यकैरपि ॥ २८.४७। ०२८०४८१ दण्डवत्प्रणिपातैश्च जयशब्दैस्तथा स्तवैः । ०२८०४८२ एवं सम्पूज्य तं देवं सहस्रांशुं जगत्पतिम् ॥ २८.४८। ०२८०४९१ दशानामश्वमेधानां फलं प्राप्नोति मानवः । ०२८०४९२ सर्वपापविनिर्मुक्तो युवा दिव्यवपुर्नरः ॥ २८.४९। ०२८०५०१ सप्तावरान्सप्त परान्वंशानुद्धृत्य भो द्विजाः । ०२८०५०२ विमानेनार्कवर्णेन कामगेन सुवर्चसा ॥ २८.५०। ०२८०५११ उपगीयमानो गन्धर्वैः सूर्यलोकं स गच्छति । ०२८०५१२ भुक्त्वा तत्र वरान्भोगान्यावदाभूतसम्प्लवम् ॥ २८.५१। ०२८०५२१ पुण्यक्षयादिहायातः प्रवरे योगिनां कुले । ०२८०५२२ चतुर्वेदो भवेद्विप्रः स्वधर्मनिरतः शुचिः ॥ २८.५२। ०२८०५३१ योगं विवस्वतः प्राप्य ततो मोक्षमवाप्नुयात् । ०२८०५३२ चैत्रे मासि सिते पक्षे यात्रां दमनभञ्जिकाम् ॥ २८.५३। ०२८०५४१ यः करोति नरस्तत्र पूर्वोक्तं स फलं लभेत् । ०२८०५४२ शयनोत्थापने भानोः सङ्क्रान्त्यां विषुवायने ॥ २८.५४। ०२८०५५१ वारे रवेस्तिथौ चैव पर्वकाले ऽथवा द्विजाः । ०२८०५५२ ये तत्र यात्रां कुर्वन्ति श्रद्धया संयतेन्द्रियाः ॥ २८.५५। ०२८०५६१ विमानेनार्कवर्णेन सूर्यलोकं व्रजन्ति ते । ०२८०५६२ आस्ते तत्र महादेवस्तीरे नदनदीपतेः ॥ २८.५६। ०२८०५७१ रामेश्वर इति ख्यातः सर्वकामफलप्रदः । ०२८०५७२ ये तं पश्यन्ति कामारिं स्नात्वा सम्यङ्महोदधौ ॥ २८.५७। ०२८०५८१ गन्धैः पुष्पैस्तथा धूपैर्दीपैर्नैवेद्यकैर्वरैः । ०२८०५८२ प्रणिपातैस्तथा स्तोत्रैर्गीतैर्वाद्यैर्मनोहरैः ॥ २८.५८। ०२८०५९१ राजसूयफलं सम्यग्वाजिमेधफलं तथा । ०२८०५९२ प्राप्नुवन्ति महात्मानः संसिद्धिं परमां तथा ॥ २८.५९। ०२८०६०१ कामगेन विमानेन किङ्किणीजालमालिना । ०२८०६०२ उपगीयमाना गन्धर्वैः शिवलोकं व्रजन्ति ते ॥ २८.६०। ०२८०६११ आहूतसम्प्लवं यावद्भुक्त्वा भोगान्मनोरमान् । ०२८०६१२ पुण्यक्षयादिहागत्य चातुर्वेदा भवन्ति ते ॥ २८.६१। ०२८०६२१ शाङ्करं योगमास्थाय ततो मोक्षं व्रजन्ति ते । ०२८०६२२ यस्तत्र सवितुः क्षेत्रे प्राणांस्त्यजति मानवः ॥ २८.६२। ०२८०६३१ स सूर्यलोकमास्थाय देववन्मोदते दिवि । ०२८०६३२ पुनर्मानुषतां प्राप्य राजा भवति धार्मिकः ॥ २८.६३। ०२८०६४१ योगं रवेः समासाद्य ततो मोक्षमवाप्नुयात् । ०२८०६४२ एवं मया मुनिश्रेष्ठाः प्रोक्तं क्षेत्रं सुदुर्लभम् ॥ २८.६४। ०२८०६५१ कोणार्कस्योदधेस्तीरे भुक्तिमुक्तिफलप्रदः ॥ २८.६५। ०२९००१० मुनय ऊचुः ०२९००११ श्रुतो ऽस्माभिः सुरश्रेष्ठ भवता यदुदाहृतम् । ०२९००१२ भास्करस्य परं क्षेत्रं भुक्तिमुक्तिफलप्रदम् ॥ २९.१। ०२९००२१ न तृप्तिमधिगच्छामः शृण्वन्तः सुखदां कथाम् । ०२९००२२ तव वक्त्रोद्भवां पुण्यामादित्यस्याघनाशिनीम् ॥ २९.२। ०२९००३१ अतः परं सुरश्रेष्ठ ब्रूहि नो वदतां वर । ०२९००३२ देवपूजाफलं यच्च यच्च दानफलं प्रभो ॥ २९.३। ०२९००४१ प्रणिपाते नमस्कारे तथा चैव प्रदक्षिणे । ०२९००४२ दीपधूपप्रदाने च सम्मार्जनविधौ च यत् ॥ २९.४। ०२९००५१ उपवासे च यत्पुण्यं यत्पुण्यं नक्तभोजने । ०२९००५२ अर्घश्च कीदृशः प्रोक्तः कुत्र वा सम्प्रदीयते ॥ २९.५। ०२९००६१ कथं च क्रियते भक्तिः कथं देवः प्रसीदति । ०२९००६२ एतत्सर्वं सुरश्रेष्ठ श्रोतुमिच्छामहे वयम् ॥ २९.६। ०२९००७० ब्रह्मोवाच ०२९००७१ अर्घ्यं पूजादिकं सर्वं भास्करस्य द्विजोत्तमाः । ०२९००७२ भक्तिं श्रद्धां समाधिं च कथ्यमानं निबोधत ॥ २९.७। ०२९००८१ मनसा भावना भक्तिरिष्टा श्रद्धा च कीर्त्यते । ०२९००८२ ध्यानं समाधिरित्युक्तं शृणुध्वं सुसमाहिताः ॥ २९.८। ०२९००९१ तत्कथां श्रावयेद्यस्तु तद्भक्तान्पूजयीत वा । ०२९००९२ अग्निशुश्रूषकश्चैव स वै भक्तः सनातनः ॥ २९.९। ०२९०१०१ तच्चित्तस्तन्मनाश्चैव देवपूजारतः सदा । ०२९०१०२ तत्कर्मकृद्भवेद्यस्तु स वै भक्तः सनातनः ॥ २९.१०। ०२९०१११ देवार्थे क्रियमाणानि यः कर्माण्यनुमन्यते । ०२९०११२ कीर्तनाद्वा परो विप्राः स वै भक्ततरो नरः ॥ २९.११। ०२९०१२१ नाभ्यसूयेत तद्भक्तान्न निन्द्याच्चान्यदेवताम् । ०२९०१२२ आदित्यव्रतचारी च स वै भक्ततरो नरः ॥ २९.१२। ०२९०१३१ गच्छंस्तिष्ठन्स्वपञ्जिघ्रन्नुन्मिषन्निमिषन्नपि । ०२९०१३२ यः स्मरेद्भास्करं नित्यं स वै भक्ततरो नरः ॥ २९.१३। ०२९०१४१ एवंविधा त्वियं भक्तिः सदा कार्या विजानता । ०२९०१४२ भक्त्या समाधिना चैव स्तवेन मनसा तथा ॥ २९.१४। ०२९०१५१ क्रियते नियमो यस्तु दानं विप्राय दीयते । ०२९०१५२ प्रतिगृह्णन्ति तं देवा मनुष्याः पितरस्तथा ॥ २९.१५। ०२९०१६१ पत्त्रं पुष्पं फलं तोयं यद्भक्त्या समुपाहृतम् । ०२९०१६२ प्रतिगृह्णन्ति तद्देवा नास्तिकान्वर्जयन्ति च ॥ २९.१६। ०२९०१७१ भावशुद्धिः प्रयोक्तव्या नियमाचारसंयुता । ०२९०१७२ भावशुद्ध्या क्रियते यत्तत्सर्वं सफलं भवेत् ॥ २९.१७। ०२९०१८१ स्तुतिजप्योपहारेण पूजयापि विवस्वतः । ०२९०१८२ उपवासेन भक्त्या वै सर्वपापैः प्रमुच्यते ॥ २९.१८। ०२९०१९१ प्रणिधाय शिरो भूम्यां नमस्कारं करोति यः । ०२९०१९२ तत्क्षणात्सर्वपापेभ्यो मुच्यते नात्र संशयः ॥ २९.१९। ०२९०२०१ भक्तियुक्तो नरो यो ऽसौ रवेः कुर्यात्प्रदक्षिणाम् । ०२९०२०२ प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा ॥ २९.२०। ०२९०२११ सूर्यं मनसि यः कृत्वा कुर्याद्व्योमप्रदक्षिणाम् । ०२९०२१२ प्रदक्षिणीकृतास्तेन सर्वे देवा भवन्ति हि ॥ २९.२१। ०२९०२२१ एकाहारो नरो भूत्वा षष्ठ्यां यो ऽर्चयते रविम् । ०२९०२२२ नियमव्रतचारी च भवेद्भक्तिसमन्वितः ॥ २९.२२। ०२९०२३१ सप्तम्यां वा महाभागाः सो ऽश्वमेधफलं लभेत् । ०२९०२३२ अहोरात्रोपवासेन पूजयेद्यस्तु भास्करम् ॥ २९.२३। ०२९०२४१ सप्तम्यामथवा षष्ठ्यां स याति परमां गतिम् । ०२९०२४२ कृष्णपक्षस्य सप्तम्यां सोपवासो जितेन्द्रियः ॥ २९.२४। ०२९०२५१ सर्वरत्नोपहारेण पूजयेद्यस्तु भास्करम् । ०२९०२५२ पद्मप्रभेण यानेन सूर्यलोकं स गच्छति ॥ २९.२५। ०२९०२६१ शुक्लपक्षस्य सप्तम्यामुपवासपरो नरः । ०२९०२६२ सर्वशुक्लोपहारेण पूजयेद्यस्तु भास्करम् ॥ २९.२६। ०२९०२७१ सर्वपापविनिर्मुक्तः सूर्यलोकं स गच्छति । ०२९०२७२ अर्कसम्पुटसंयुक्तमुदकं प्रसृतं पिबेत् ॥ २९.२७। ०२९०२८१ क्रमवृद्ध्या चतुर्विंशमेकैकं क्षपयेत्पुनः । ०२९०२८२ द्वाभ्यां संवत्सराभ्यां तु समाप्तनियमो भवेत् ॥ २९.२८। ०२९०२९१ सर्वकामप्रदा ह्येषा प्रशस्ता ह्यर्कसप्तमी । ०२९०२९२ शुक्लपक्षस्य सप्तम्यां यदादित्यदिनं भवेत् ॥ २९.२९। ०२९०३०१ सप्तमी विजया नाम तत्र दत्तं महत्फलम् । ०२९०३०२ स्नानं दानं तपो होम उपवासस्तथैव च ॥ २९.३०। ०२९०३११ सर्वं विजयसप्तम्यां महापातकनाशनम् । ०२९०३१२ ये चादित्यदिने प्राप्ते श्राद्धं कुर्वन्ति मानवाः ॥ २९.३१। ०२९०३२१ यजन्ति च महाश्वेतं ते लभन्ते यथेप्सितम् । ०२९०३२२ येषां धर्म्याः क्रियाः सर्वाः सदैवोद्दिश्य भास्करम् ॥ २९.३२। ०२९०३३१ न कुले जायते तेषां दरिद्रो व्याधितो ऽपि वा । ०२९०३३२ श्वेतया रक्तया वापि पीतमृत्तिकयापि वा ॥ २९.३३। ०२९०३४१ उपलेपनकर्ता तु चिन्तितं लभते फलम् । ०२९०३४२ चित्रभानुं विचित्रैस्तु कुसुमैश्च सुगन्धिभिः ॥ २९.३४। ०२९०३५१ पूजयेत्सोपवासो यः स कामानीप्सितांल्लभेत्। ०२९०३५२ घृतेन दीपं प्रज्वाल्य तिलतैलेन वा पुनः ॥ २९.३५। ०२९०३६१ आदित्यं पूजयेद्यस्तु चक्षुषा न स हीयते । ०२९०३६२ दीपदाता नरो नित्यं ज्ञानदीपेन दीप्यते ॥ २९.३६। ०२९०३७१ तिलाः पवित्रं तैलं वा तिलगोदानमुत्तमम् । ०२९०३७२ अग्निकार्ये च दीपे च महापातकनाशनम् ॥ २९.३७। ०२९०३८१ दीपं ददाति यो नित्यं देवतायतनेषु च । ०२९०३८२ चतुष्पथेषु रथ्यासु रूपवान्सुभगो भवेत् ॥ २९.३८। ०२९०३९१ हविर्भिः प्रथमः कल्पो द्वितीयश्चौषधीरसैः । ०२९०३९२ वसामेदोस्थिनिर्यासैर्न तु देयः कथञ्चन ॥ २९.३९। ०२९०४०१ भवेदूर्ध्वगतिर्दीपो न कदाचिदधोगतिः । ०२९०४०२ दाता दीप्यति चाप्येवं न तिर्यग्गतिमाप्नुयात् ॥ २९.४०। ०२९०४११ ज्वलमानं सदा दीपं न हरेन्नापि नाशयेत् । ०२९०४१२ दीपहर्ता नरो बन्धं नाशं क्रोधं तमो व्रजेत् ॥ २९.४१। ०२९०४२१ दीपदाता स्वर्गलोके दीपमालेव राजते । ०२९०४२२ यः समालभते नित्यं कुङ्कुमागुरुचन्दनैः ॥ २९.४२। ०२९०४३१ सम्पद्यते नरः प्रेत्य धनेन यशसा श्रिया । ०२९०४३२ रक्तचन्दनसम्मिश्रै रक्तपुष्पैः शुचिर्नरः ॥ २९.४३। ०२९०४४१ उदये ऽर्घ्यं सदा दत्त्वा सिद्धिं संवत्सराल्लभेत् । ०२९०४४२ उदयात्परिवर्तेत यावदस्तमने स्थितः ॥ २९.४४। ०२९०४५१ जपन्नभिमुखः किञ्चिन्मन्त्रं स्तोत्रमथापि वा । ०२९०४५२ आदित्यव्रतमेतत्तु महापातकनाशनम् ॥ २९.४५। ०२९०४६१ अर्घ्येण सहितं चैव सर्वे साङ्गं प्रदापयेत् । ०२९०४६२ उदये श्रद्धया युक्तः सर्वपापैः प्रमुच्यते ॥ २९.४६। ०२९०४७१ सुवर्णधेनुअनड्वाह-वसुधावस्त्रसंयुतम् । ०२९०४७२ अर्घ्यप्रदाता लभते सप्तजन्मानुगं फलम् ॥ २९.४७। ०२९०४८१ अग्नौ तोये ऽन्तरिक्षे च शुचौ भूम्यां तथैव च । ०२९०४८२ प्रतिमायां तथा पिण्ड्यां देयमर्घ्यं प्रयत्नतः ॥ २९.४८। ०२९०४९१ नापसव्यं न सव्यं च दद्यादभिमुखः सदा । ०२९०४९२ सघृतं गुग्गुलं वापि रवेर्भक्तिसमन्वितः ॥ २९.४९। ०२९०५०१ तत्क्षणात्सर्वपापेभ्यो मुच्यते नात्र संशयः । ०२९०५०२ श्रीवासं चतुरस्रं च देवदारुं तथैव च ॥ २९.५०। ०२९०५११ कर्पूरागरुधूपानि दत्त्वा वै स्वर्गगामिनः । ०२९०५१२ अयने तूत्तरे सूर्यमथवा दक्षिणायने ॥ २९.५१। ०२९०५२१ पूजयित्वा विशेषेण सर्वपापैः प्रमुच्यते । ०२९०५२२ विषुवेषूपरागेषु षडशीतिमुखेषु च ॥ २९.५२। ०२९०५३१ पूजयित्वा विशेषेण सर्वपापैः प्रमुच्यते । ०२९०५३२ एवं वेलासु सर्वासु सर्वकालं च मानवः ॥ २९.५३। ०२९०५४१ भक्त्या पूजयते यो ऽर्कं सो ऽर्कलोके महीयते । ०२९०५४२ कृसरैः पायसैः पूपैः फलमूलघृतौदनैः ॥ २९.५४। ०२९०५५१ बलिं कृत्वा तु सूर्याय सर्वान्कामानवाप्नुयात् । ०२९०५५२ घृतेन तर्पणं कृत्वा सर्वसिद्धो भवेन्नरः ॥ २९.५५। ०२९०५६१ क्षीरेण तर्पणं कृत्वा मनस्तापैर्न युज्यते । ०२९०५६२ दध्ना तु तर्पणं कृत्वा कार्यसिद्धिं लभेन्नरः ॥ २९.५६। ०२९०५७१ स्नानार्थमाहरेद्यस्तु जलं भानोः समाहितः । ०२९०५७२ तीर्थेषु शुचितापन्नः स याति परमां गतिम् ॥ २९.५७। ०२९०५८१ छत्त्रं ध्वजं वितानं वा पताकां चामराणि च । ०२९०५८२ श्रद्धया भानवे दत्त्वा गतिमिष्टामवाप्नुयात् ॥ २९.५८। ०२९०५९१ यद्यद्द्रव्यं नरो भक्त्या आदित्याय प्रयच्छति । ०२९०५९२ तत्तस्य शतसाहस्रमुत्पादयति भास्करः ॥ २९.५९। ०२९०६०१ मानसं वाचिकं वापि कायजं यच्च दुष्कृतम् । ०२९०६०२ सर्वं सूर्यप्रसादेन तदशेषं व्यपोहति ॥ २९.६०। ०२९०६११ एकाहेनापि यद्भानोः पूजायाः प्राप्यते फलम् । ०२९०६१२ यथोक्तदक्षिणैर्विप्रैर्न तत्क्रतुशतैरपि ॥ २९.६१। ०३०००१० मुनय ऊचुः ०३०००११ अहो देवस्य माहात्म्यं श्रुतमेवं जगत्पते । ०३०००१२ भास्करस्य सुरश्रेष्ठ वदतस्तेषु दुर्लभम् ॥ ३०.१। ०३०००२१ भूयः प्रब्रूहि देवेश यत्पृच्छामो जगत्पते । ०३०००२२ श्रोतुमिच्छामहे ब्रह्मन्परं कौतूहलं हि नः ॥ ३०.२। ०३०००३१ गृहस्थो ब्रह्मचारी च वानप्रस्थो ऽथ भिक्षुकः । ०३०००३२ य इच्छेन्मोक्षमास्थातुं देवतां कां यजेत सः ॥ ३०.३। ०३०००४१ कुतो ह्यस्याक्षयः स्वर्गः कुतो निःश्रेयसं परम् । ०३०००४२ स्वर्गतश्चैव किं कुर्याद्येन न च्यवते पुनः ॥ ३०.४। ०३०००५१ देवानां चात्र को देवः पितॄणां चैव कः पिता । ०३०००५२ यस्मात्परतरं नास्ति तन्मे ब्रूहि सुरेश्वर ॥ ३०.५। ०३०००६१ कुतः सृष्टमिदं विश्वं सर्वं स्थावरजङ्गमम् । ०३०००६२ प्रलये च कमभ्येति तद्भवान्वक्तुमर्हति ॥ ३०.६। ०३०००७० ब्रह्मोवाच ०३०००७१ उद्यन्नेवैष कुरुते जगद्वितिमिरं करैः । ०३०००७२ नातः परतरो देवः कश्चिदन्यो द्विजोत्तमाः ॥ ३०.७। ०३०००८१ अनादिनिधनो ह्येष पुरुषः शाश्वतो ऽव्ययः । ०३०००८२ तापयत्येष त्रींल्लोकान्भवन्रश्मिभिरुल्बणः ॥ ३०.८। ०३०००९१ सर्वदेवमयो ह्येष तपतां तपनो वरः । ०३०००९२ सर्वस्य जगतो नाथः सर्वसाक्षी जगत्पतिः ॥ ३०.९। ०३००१०१ सङ्क्षिपत्येष भूतानि तथा विसृजते पुनः । ०३००१०२ एष भाति तपत्येष वर्षत्येष गभस्तिभिः ॥ ३०.१०। ०३००१११ एष धाता विधाता च भूतादिर्भूतभावनः । ०३००११२ न ह्येष क्षयमायाति नित्यमक्षयमण्डलः ॥ ३०.११। ०३००१२१ पितॄणां च पिता ह्येष देवतानां हि देवता । ०३००१२२ ध्रुवं स्थानं स्मृतं ह्येतद्यस्मान्न च्यवते पुनः ॥ ३०.१२। ०३००१३१ सर्गकाले जगत्कृत्स्नमादित्यात्सम्प्रसूयते । ०३००१३२ प्रलये च तमभ्येति भास्करं दीप्ततेजसम् ॥ ३०.१३। ०३००१४१ योगिनश्चाप्यसङ्ख्यातास्त्यक्त्वा गृहकलेवरम् । ०३००१४२ वायुर्भूत्वा विशन्त्यस्मिंस्तेजोराशौ दिवाकरे ॥ ३०.१४। ०३००१५१ अस्य रश्मिसहस्राणि शाखा इव विहङ्गमाः । ०३००१५२ वसन्त्याश्रित्य मुनयः संसिद्धा दैवतैः सह ॥ ३०.१५। ०३००१६१ गृहस्था जनकाद्याश्च राजानो योगधर्मिणः । ०३००१६२ वालखिल्यादयश्चैव ऋषयो ब्रह्मवादिनः ॥ ३०.१६। ०३००१७१ वानप्रस्थाश्च ये चान्ये व्यासाद्या भिक्षवस्तथा । ०३००१७२ योगमास्थाय सर्वे ते प्रविष्टाः सूर्यमण्डलम् ॥ ३०.१७। ०३००१८१ शुको व्याससुतः श्रीमान्योगधर्ममवाप्य सः । ०३००१८२ आदित्यकिरणान्गत्वा ह्यपुनर्भावमास्थितः ॥ ३०.१८। ०३००१९१ शब्दमात्रश्रुतिमुखा ब्रह्मविष्णुशिवादयः । ०३००१९२ प्रत्यक्षो ऽयं परो देवः सूर्यस्तिमिरनाशनः ॥ ३०.१९। ०३००२०१ तस्मादन्यत्र भक्तिर्हि न कार्या शुभमिच्छता । ०३००२०२ यस्माद्दृष्टेरगम्यास्ते देवा विष्णुपुरोगमाः ॥ ३०.२०। ०३००२११ अतो भवद्भिः सततमभ्यर्च्यो भगवान्रविः । ०३००२१२ स हि माता पिता चैव कृत्स्नस्य जगतो गुरुः ॥ ३०.२१। ०३००२२१ अनाद्यो लोकनाथो ऽसौ रश्मिमाली जगत्पतिः । ०३००२२२ मित्रत्वे च स्थितो यस्मात्तपस्तेपे द्विजोत्तमाः ॥ ३०.२२। ०३००२३१ अनादिनिधनो ब्रह्मा नित्यश्चाक्षय एव च । ०३००२३२ सृष्ट्वा ससागरान्द्वीपान्भुवनानि चतुर्दश ॥ ३०.२३। ०३००२४१ लोकानां स हितार्थाय स्थितश्चन्द्रसरित्तटे । ०३००२४२ सृष्ट्वा प्रजापतीन्सर्वान्सृष्ट्वा च विविधाः प्रजाः ॥ ३०.२४। ०३००२५१ ततः शतसहस्रांशुरव्यक्तश्च पुनः स्वयम् । ०३००२५२ कृत्वा द्वादशधात्मानमादित्यमुपपद्यते ॥ ३०.२५। ०३००२६१ इन्द्रो धाताथ पर्जन्यस्त्वष्टा पूषार्यमा भगः । ०३००२६२ विवस्वान्विष्णुरंशश्च वरुणो मित्र एव च ॥ ३०.२६। ०३००२७१ आभिर्द्वादशभिस्तेन सूर्येण परमात्मना । ०३००२७२ कृत्स्नं जगदिदं व्याप्तं मूर्तिभिश्च द्विजोत्तमाः ॥ ३०.२७। ०३००२८१ तस्य या प्रथमा मूर्तिरादित्यस्येन्द्रसञ्ज्ञिता । ०३००२८२ स्थिता सा देवराजत्वे देवानां रिपुनाशिनी ॥ ३०.२८। ०३००२९१ द्वितीया तस्य या मूर्तिर्नाम्ना धातेति कीर्तिता । ०३००२९२ स्थिता प्रजापतित्वेन विविधाः सृजते प्रजाः ॥ ३०.२९। ०३००३०१ तृतीयार्कस्य या मूर्तिः पर्जन्य इति विश्रुता । ०३००३०२ मेघेष्वेव स्थिता सा तु वर्षते च गभस्तिभिः ॥ ३०.३०। ०३००३११ चतुर्थी तस्य या मूर्तिर्नाम्ना त्वष्टेति विश्रुता । ०३००३१२ स्थिता वनस्पतौ सा तु ओषधीषु च सर्वतः ॥ ३०.३१। ०३००३२१ पञ्चमी तस्य या मूर्तिर्नाम्ना पूषेति विश्रुता । ०३००३२२ अन्ने व्यवस्थिता सा तु प्रजां पुष्णाति नित्यशः ॥ ३०.३२। ०३००३३१ मूर्तिः षष्ठी रवेर्या तु अर्यमा इति विश्रुता । ०३००३३२ वायोः संसरणा सा तु देवेष्वेव समाश्रिता ॥ ३०.३३। ०३००३४१ भानोर्या सप्तमी मूर्तिर्नाम्ना भगेति विश्रुता । ०३००३४२ भूयिष्व् अवस्थिता सा तु शरीरेषु च देहिनाम् ॥ ३०.३४। ०३००३५१ मूर्तिर्या त्वष्टमी तस्य विवस्वानिति विश्रुता । ०३००३५२ अग्नौ प्रतिष्ठिता सा तु पचत्यन्नं शरीरिणाम् ॥ ३०.३५। ०३००३६१ नवमी चित्रभानोर्या मूर्तिर्विष्णुश्च नामतः । ०३००३६२ प्रादुर्भवति सा नित्यं देवानामरिसूदनी ॥ ३०.३६। ०३००३७१ दशमी तस्य या मूर्तिरंशुमानिति विश्रुता । ०३००३७२ वायौ प्रतिष्ठिता सा तु प्रह्लादयति वै प्रजाः ॥ ३०.३७। ०३००३८१ मूर्तिस्त्वेकादशी भानोर्नाम्ना वरुणसञ्ज्ञिता । ०३००३८२ जलेष्ववस्थिता सा तु प्रजां पुष्णाति नित्यशः ॥ ३०.३८। ०३००३९१ मूर्तिर्या द्वादशी भानोर्नाम्ना मित्रेति सञ्ज्ञिता । ०३००३९२ लोकानां सा हितार्थाय स्थिता चन्द्रसरित्तटे ॥ ३०.३९। ०३००४०१ वायुभक्षस्तपस्तेपे स्थित्वा मैत्रेण चक्षुषा । ०३००४०२ अनुगृह्णन्सदा भक्तान्वरैर्नानाविधैस्तु सः ॥ ३०.४०। ०३००४११ एवं सा जगतां मूर्तिर्हिता विहिता पुरा । ०३००४१२ तत्र मित्रः स्थितो यस्मात्तस्मान्मित्रं परं स्मृतम् ॥ ३०.४१। ०३००४२१ आभिर्द्वादशभिस्तेन सवित्रा परमात्मना । ०३००४२२ कृत्स्नं जगदिदं व्याप्तं मूर्तिभिश्च द्विजोत्तमाः ॥ ३०.४२। ०३००४३१ तस्माद्ध्येयो नमस्यश्च द्वादशस्थासु मूर्तिषु । ०३००४३२ भक्तिमद्भिर्नरैर्नित्यं तद्गतेनान्तरात्मना ॥ ३०.४३। ०३००४४१ इत्येवं द्वादशादित्यान्नमस्कृत्वा तु मानवः । ०३००४४२ नित्यं श्रुत्वा पठित्वा च सूर्यलोके महीयते ॥ ३०.४४। ०३००४५० मुनय ऊचुः ०३००४५१ यदि तावदयं सूर्यश्चादिदेवः सनातनः । ०३००४५२ ततः कस्मात्तपस्तेपे वरेप्सुः प्राकृतो यथा ॥ ३०.४५। ०३००४६० ब्रह्मोवाच ०३००४६१ एतद्वः सम्प्रवक्ष्यामि परं गुह्यं विभावसोः । ०३००४६२ पृष्टं मित्रेण यत्पूर्वं नारदाय महात्मने ॥ ३०.४६। ०३००४७१ प्राङ्मयोक्तास्तु युष्मभ्यं रवेर्द्वादश मूर्तयः । ०३००४७२ मित्रश्च वरुणश्चोभौ तासां तपसि संस्थितौ ॥ ३०.४७। ०३००४८१ अब्भक्षो वरुणस्तासां तस्थौ पश्चिमसागरे । ०३००४८२ मित्रो मित्रवने चास्मिन्वायुभक्षो ऽभवत्तदा ॥ ३०.४८। ०३००४९१ अथ मेरुगिरेः शृङ्गात्प्रच्युतो गन्धमादनात् । ०३००४९२ नारदस्तु महायोगी सर्वांल्लोकांश्चरन्वशी ॥ ३०.४९। ०३००५०१ आजगामाथ तत्रैव यत्र मित्रो ऽचरत्तपः । ०३००५०२ तं दृष्ट्वा तु तपस्यन्तं तस्य कौतूहलं ह्यभूत् ॥ ३०.५०। ०३००५११ यो ऽक्षयश्चाव्ययश्चैव व्यक्ताव्यक्तः सनातनः । ०३००५१२ धृतमेकात्मकं येन त्रैलोक्यं सुमहात्मना ॥ ३०.५१। ०३००५२१ यः पिता सर्वदेवानां पराणामपि यः परः । ०३००५२२ अयजद्देवताः कास्तु पितॄन्वा कानसौ यजेत् । ०३००५२३ इति सञ्चिन्त्य मनसा तं देवं नारदो ऽब्रवीत् ॥ ३०.५२। ०३००५३० नारद उवाच ०३००५३१ वेदेषु सपुराणेषु साङ्गोपाङ्गेषु गीयसे । ०३००५३२ त्वमजः शाश्वतो धाता त्वं निधानमनुत्तमम् ॥ ३०.५३। ०३००५४१ भूतं भव्यं भवच्चैव त्वयि सर्वं प्रतिष्ठितम् । ०३००५४२ चत्वारश्चाश्रमा देव गृहस्थाद्यास्तथैव हि ॥ ३०.५४। ०३००५५१ यजन्ति त्वामहरहस्त्वां मूर्तित्वं समाश्रितम् । ०३००५५२ पिता माता च सर्वस्य दैवतं त्वं हि शाश्वतम् ॥ ३०.५५। ०३००५६१ यजसे पितरं कं त्वं देवं वापि न विद्महे ॥ ३०.५६। ०३००५७० मित्र उवाच ०३००५७१ अवाच्यमेतद्वक्तव्यं परं गुह्यं सनातनम् । ०३००५७२ त्वयि भक्तिमति ब्रह्मन्प्रवक्ष्यामि यथातथम् ॥ ३०.५७। ०३००५८१ यत्तत्सूक्ष्ममविज्ञेयमव्यक्तमचलं ध्रुवम् । ०३००५८२ इन्द्रियैरिन्द्रियार्थैश्च सर्वभूतैर्विवर्जितम् ॥ ३०.५८। ०३००५९१ स ह्यन्तरात्मा भूतानां क्षेत्रज्ञश्चैव कथ्यते । ०३००५९२ त्रिगुणाद्व्यतिरिक्तो ऽसौ पुरुषश्चैव कल्पितः ॥ ३०.५९। ०३००६०१ हिरण्यगर्भो भगवान्सैव बुद्धिरिति स्मृतः । ०३००६०२ महानिति च योगेषु प्रधानमिति कथ्यते ॥ ३०.६०। ०३००६११ साङ्ख्ये च कथ्यते योगे नामभिर्बहुधात्मकः । ०३००६१२ स च त्रिरूपो विश्वात्मा शर्वो ऽक्षर इति स्मृतः ॥ ३०.६१। ०३००६२१ धृतमेकात्मकं तेन त्रैलोक्यमिदमात्मना । ०३००६२२ अशरीरः शरीरेषु सर्वेषु निवसत्यसौ ॥ ३०.६२। ०३००६३१ वसन्नपि शरीरेषु न स लिप्येत कर्मभिः । ०३००६३२ ममान्तरात्मा तव च ये चान्ये देहसंस्थिताः ॥ ३०.६३। ०३००६४१ सर्वेषां साक्षिभूतो ऽसौ न ग्राह्यः केनचित्क्वचित् । ०३००६४२ सगुणो निर्गुणो विश्वो ज्ञानगम्यो ह्यसौ स्मृतः ॥ ३०.६४। ०३००६५१ सर्वतःपाणिपादान्तः सर्वतोक्षिशिरोमुखः । ०३००६५२ सर्वतःश्रुतिमांल्लोके सर्वमावृत्य तिष्ठति ॥ ३०.६५। ०३००६६१ विश्वमूर्धा विश्वभुजो विश्वपादाक्षिनासिकः । ०३००६६२ एकश्चरति वै क्षेत्रे स्वैरचारी यथासुखम् ॥ ३०.६६। ०३००६७१ क्षेत्राणीह शरीराणि तेषां चैव यथासुखम् । ०३००६७२ तानि वेत्ति स योगात्मा ततः क्षेत्रज्ञ उच्यते ॥ ३०.६७। ०३००६८१ अव्यक्ते च पुरे शेते पुरुषस्तेन चोच्यते । ०३००६८२ विश्वं बहुविधं ज्ञेयं स च सर्वत्र उच्यते ॥ ३०.६८। ०३००६९१ तस्मात्स बहुरूपत्वाद्विश्वरूप इति स्मृतः । ०३००६९२ तस्यैकस्य महत्त्वं हि स चैकः पुरुषः स्मृतः ॥ ३०.६९। ०३००७०१ महापुरुषशब्दं हि बिभर्त्येकः सनातनः । ०३००७०२ स तु विधिक्रियायत्तः सृजत्यात्मानमात्मना ॥ ३०.७०। ०३००७११ शतधा सहस्रधा चैव तथा शतसहस्रधा । ०३००७१२ कोटिशश्च करोत्येष प्रत्यगात्मानमात्मना ॥ ३०.७१। ०३००७२१ आकाशात्पतितं तोयं याति स्वाद्वन्तरं यथा । ०३००७२२ भूमे रसविशेषेण तथा गुणरसात्तु सः ॥ ३०.७२। ०३००७३१ एक एव यथा वायुर्देहेष्वेव हि पञ्चधा । ०३००७३२ एकत्वं च पृथक्त्वं च तथा तस्य न संशयः ॥ ३०.७३। ०३००७४१ स्थानान्तरविशेषाच्च यथाग्निर्लभते पराम् । ०३००७४२ सञ्ज्ञां तथा मुने सो ऽयं ब्रह्मादिषु तथाप्नुयात् ॥ ३०.७४। ०३००७५१ यथा दीपसहस्राणि दीप एकः प्रसूयते । ०३००७५२ तथा रूपसहस्राणि स एकः सम्प्रसूयते ॥ ३०.७५। ०३००७६१ यदा स बुध्यत्यात्मानं तदा भवति केवलः । ०३००७६२ एकत्वप्रलये चास्य बहुत्वं च प्रवर्तते ॥ ३०.७६। ०३००७७१ नित्यं हि नास्ति जगति भूतं स्थावरजङ्गमम् । ०३००७७२ अक्षयश्चाप्रमेयश्च सर्वगश्च स उच्यते ॥ ३०.७७। ०३००७८१ तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तमाः । ०३००७८२ अव्यक्ताव्यक्तभावस्था या सा प्रकृतिरुच्यते ॥ ३०.७८। ०३००७९१ तां योनिं ब्रह्मणो विद्धि यो ऽसौ सदसदात्मकः । ०३००७९२ लोके च पूज्यते यो ऽसौ दैवे पित्र्ये च कर्मणि ॥ ३०.७९। ०३००८०१ नास्ति तस्मात्परो ह्यन्यः पिता देवो ऽपि वा द्विजाः । ०३००८०२ आत्मना स तु विज्ञेयस्ततस्तं पूजयाम्यहम् ॥ ३०.८०। ०३००८११ स्वर्गेष्वपि हि ये केचित्तं नमस्यन्ति देहिनः । ०३००८१२ तेन गच्छन्ति देवर्षे तेनोद्दिष्टफलां गतिम् ॥ ३०.८१। ०३००८२१ तं देवाः स्वाश्रमस्थाश्च नानामूर्तिसमाश्रिताः । ०३००८२२ भक्त्या सम्पूजयन्त्याद्यं गतिश्चैषां ददाति सः ॥ ३०.८२। ०३००८३१ स हि सर्वगतश्चैव निर्गुणश्चैव कथ्यते । ०३००८३२ एवं मत्वा यथाज्ञानं पूजयामि दिवाकरम् ॥ ३०.८३। ०३००८४१ ये च तद्भाविता लोक एकतत्त्वं समाश्रिताः । ०३००८४२ एतदप्यधिकं तेषां यदेकं प्रविशन्त्युत ॥ ३०.८४। ०३००८५१ इति गुह्यसमुद्देशस्तव नारद कीर्तितः । ०३००८५२ अस्मद्भक्त्यापि देवर्षे त्वयापि परमं स्मृतम् ॥ ३०.८५। ०३००८६१ सुरैर्वा मुनिभिर्वापि पुराणैर्वरदं स्मृतम् । ०३००८६२ सर्वे च परमात्मानं पूजयन्ति दिवाकरम् ॥ ३०.८६। ०३००८७० ब्रह्मोवाच ०३००८७१ एवमेतत्पुराख्यातं नारदाय तु भानुना । ०३००८७२ मयापि च समाख्याता कथा भानोर्द्विजोत्तमाः ॥ ३०.८७। ०३००८८१ इदमाख्यानमाख्येयं मयाख्यातं द्विजोत्तमाः । ०३००८८२ न ह्यनादित्यभक्ताय इदं देयं कदाचन ॥ ३०.८८। ०३००८९१ यश्चैतच्छ्रावयेन्नित्यं यश्चैव शृणुयान्नरः । ०३००८९२ स सहस्रार्चिषं देवं प्रविशेन्नात्र संशयः ॥ ३०.८९। ०३००९०१ मुच्येतार्तस्तथा रोगाच्छ्रुत्वेमामादितः कथाम् । ०३००९०२ जिज्ञासुर्लभते ज्ञानं गतिमिष्टां तथैव च ॥ ३०.९०। ०३००९११ क्षणेन लभते ऽध्वानमिदं यः पठते मुने । ०३००९१२ यो यं कामयते कामं स तं प्राप्नोत्यसंशयम् ॥ ३०.९१। ०३००९२१ तस्माद्भवद्भिः सततं स्मर्तव्यो भगवान्रविः । ०३००९२२ स च धाता विधाता च सर्वस्य जगतः प्रभुः ॥ ३०.९२। ०३१००१० ब्रह्मोवाच ०३१००११ आदित्यमूलमखिलं त्रैलोक्यं मुनिसत्तमाः । ०३१००१२ भवत्यस्माज्जगत्सर्वं सदेवासुरमानुषम् ॥ ३१.१। ०३१००२१ रुद्रोपेन्द्रमहेन्द्राणां विप्रेन्द्रत्रिदिवौकसाम् । ०३१००२२ महाद्युतिमतां चैव तेजो ऽयं सार्वलौकिकम् ॥ ३१.२। ०३१००३१ सर्वात्मा सर्वलोकेशो देवदेवः प्रजापतिः । ०३१००३२ सूर्य एव त्रिलोकस्य मूलं परमदैवतम् ॥ ३१.३। ०३१००४१ अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । ०३१००४२ आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ॥ ३१.४। ०३१००५१ सूर्यात्प्रसूयते सर्वं तत्र चैव प्रलीयते । ०३१००५२ भावाभावौ हि लोकानामादित्यान्निःसृतौ पुरा ॥ ३१.५। ०३१००६१ एतत्तु ध्यानिनां ध्यानं मोक्षश्चाप्येष मोक्षिणाम् । ०३१००६२ तत्र गच्छन्ति निर्वाणं जायन्ते ऽस्मात्पुनः पुनः ॥ ३१.६। ०३१००७१ क्षणा मुहूर्ता दिवसा निशा पक्षाश्च नित्यशः । ०३१००७२ मासाः संवत्सराश्चैव ऋतवश्च युगानि च ॥ ३१.७। ०३१००८१ अथादित्यादृते ह्येषां कालसङ्ख्या न विद्यते । ०३१००८२ कालादृते न नियमो नाग्नौ विहरणक्रिया ॥ ३१.८। ०३१००९१ ऋतूनामविभागश्ततः पुष्पफलं कुतः । ०३१००९२ कुतो वै सस्यनिष्पत्तिस्तृणौषधिगणः कुतः ॥ ३१.९। ०३१०१०१ अभावो व्यवहाराणां जन्तूनां दिवि चेह च । ०३१०१०२ जगत्प्रभावाद्विशते भास्कराद्वारितस्करात् ॥ ३१.१०। ०३१०१११ नावृष्ट्या तपते सूर्यो नावृष्ट्या परिशुष्यति । ०३१०११२ नावृष्ट्या परिधिं धत्ते वारिणा दीप्यते रविः ॥ ३१.११। ०३१०१२१ वसन्ते कपिलः सूर्यो ग्रीष्मे काञ्चनसन्निभः । ०३१०१२२ श्वेतो वर्षासु वर्णेन पाण्डुः शरदि भास्करः ॥ ३१.१२। ०३१०१३१ हेमन्ते ताम्रवर्णाभः शिशिरे लोहितो रविः । ०३१०१३२ इति वर्णाः समाख्याताः सूर्यस्य ऋतुसम्भवाः ॥ ३१.१३। ०३१०१४१ ऋतुस्वभाववर्णैश्च सूर्यः क्षेमसुभिक्षकृत् । ०३१०१४२ अथादित्यस्य नामानि सामान्यानि द्विजोत्तमाः ॥ ३१.१४। ०३१०१५१ द्वादशैव पृथक्त्वेन तानि वक्ष्याम्यशेषतः । ०३१०१५२ आदित्यः सविता सूर्यो मिहिरो ऽर्कः प्रभाकरः ॥ ३१.१५। ०३१०१६१ मार्तण्डो भास्करो भानुश्चित्रभानुर्दिवाकरः । ०३१०१६२ रविर्द्वादशभिस्तेषां ज्ञेयः सामान्यनामभिः ॥ ३१.१६। ०३१०१७१ विष्णुर्धाता भगः पूषा मित्रेन्द्रौ वरुणो ऽर्यमा । ०३१०१७२ विवस्वानंशुमांस्त्वष्टा पर्जन्यो द्वादशः स्मृतः ॥ ३१.१७। ०३१०१८१ इत्येते द्वादशादित्याः पृथक्त्वेन व्यवस्थिताः । ०३१०१८२ उत्तिष्ठन्ति सदा ह्येते मासैर्द्वादशभिः क्रमात् ॥ ३१.१८। ०३१०१९१ विष्णुस्तपति चैत्रे तु वैशाखे चार्यमा तथा । ०३१०१९२ विवस्वाञ्ज्येष्ठमासे तु आषाढे चांशुमान्स्मृतः ॥ ३१.१९। ०३१०२०१ पर्जन्यः श्रावणे मासि वरुणः प्रौष्ठसञ्ज्ञके । ०३१०२०२ इन्द्र आश्वयुजे मासि धाता तपति कार्त्तिके ॥ ३१.२०। ०३१०२११ मार्गशीर्षे तथा मित्रः पौषे पूषा दिवाकरः । ०३१०२१२ माघे भगस्तु विज्ञेयस्त्वष्टा तपति फाल्गुने ॥ ३१.२१। ०३१०२२१ शतैर्द्वादशभिर्विष्णू रश्मिभिर्दीप्यते सदा । ०३१०२२२ दीप्यते गोसहस्रेण शतैश्च त्रिभिरर्यमा ॥ ३१.२२। ०३१०२३१ द्विःसप्तकैर्विवस्वांस्तु अंशुमान्पञ्चभिस्त्रिभिः । ०३१०२३२ विवस्वानिव पर्जन्यो वरुणश्चार्यमा तथा ॥ ३१.२३। ०३१०२४१ मित्रवद्भगवांस्त्वष्टा सहस्रेण शतेन च । ०३१०२४२ इन्द्रस्तु द्विगुणैः षड्भिर्धातैकादशभिः शतैः ॥ ३१.२४। ०३१०२५१ सहस्रेण तु मित्रो वै पूषा तु नवभिः शतैः । ०३१०२५२ उत्तरोपक्रमे ऽर्कस्य वर्धन्ते रश्मयस्तथा ॥ ३१.२५। ०३१०२६१ दक्षिणोपक्रमे भूयो ह्रसन्ते सूर्यरश्मयः । ०३१०२६२ एवं रश्मिसहस्रं तु सूर्यलोकादनुग्रहम् ॥ ३१.२६। ०३१०२७१ एवं नाम्नां चतुर्विंशदेक एषां प्रकीर्तितः । ०३१०२७२ विस्तरेण सहस्रं तु पुनरन्यत्प्रकीर्तितम् ॥ ३१.२७। ०३१०२८० मुनय ऊचुः ०३१०२८१ ये तन्नामसहस्रेण स्तुवन्त्यर्कं प्रजापते । ०३१०२८२ तेषां भवति किं पुण्यं गतिश्च परमेश्वर ॥ ३१.२८। ०३१०२९० ब्रह्मोवाच ०३१०२९१ शृणुध्वं मुनिशार्दूलाः सारभूतं सनातनम् । ०३१०२९२ अलं नामसहस्रेण पठन्नेवं स्तवं शुभम् ॥ ३१.२९। ०३१०३०१ यानि नामानि गुह्यानि पवित्राणि शुभानि च । ०३१०३०२ तानि वः कीर्तयिष्यामि शृणुध्वं भास्करस्य वै ॥ ३१.३०। ०३१०३११ विकर्तनो विवस्वांश्च मार्तण्डो भास्करो रविः । ०३१०३१२ लोकप्रकाशकः श्रीमांल्लोकचक्षुर्महेश्वरः ॥ ३१.३१। ०३१०३२१ लोकसाक्षी त्रिलोकेशः कर्ता हर्ता तमिस्रहा । ०३१०३२२ तपनस्तापनश्चैव शुचिः सप्ताश्ववाहनः ॥ ३१.३२। ०३१०३३१ गभस्तिहस्तो ब्रह्मा च सर्वदेवनमस्कृतः । ०३१०३३२ एकविंशति इत्येष स्तव इष्टः सदा रवेः ॥ ३१.३३। ०३१०३४१ शरीरारोग्यदश्चैव धनवृद्धियशस्करः । ०३१०३४२ स्तवराज इति ख्यातस्त्रिषु लोकेषु विश्रुतः ॥ ३१.३४। ०३१०३५१ य एतेन द्विजश्रेष्ठा द्विसन्ध्ये ऽस्तमनोदये । ०३१०३५२ स्तौति सूर्यं शुचिर्भूत्वा सर्वपापैः प्रमुच्यते ॥ ३१.३५। ०३१०३६१ मानसं वाचिकं वापि देहजं कर्मजं तथा । ०३१०३६२ एकजप्येन तत्सर्वं नश्यत्यर्कस्य सन्निधौ ॥ ३१.३६। ०३१०३७१ एकजप्यश्च होमश्च सन्ध्योपासनमेव च । ०३१०३७२ धूपमन्त्रार्घ्यमन्त्रश्च बलिमन्त्रस्तथैव च ॥ ३१.३७। ०३१०३८१ अन्नप्रदाने दाने च प्रणिपाते प्रदक्षिणे । ०३१०३८२ पूजितो ऽयं महामन्त्रः सर्वपापहरः शुभः ॥ ३१.३८। ०३१०३९१ तस्माद्यूयं प्रयत्नेन स्तवेनानेन वै द्विजाः । ०३१०३९२ स्तुवीध्वं वरदं देवं सर्वकामफलप्रदम् ॥ ३१.३९। ०३२००१० मुनय ऊचुः ०३२००११ निर्गुणः शाश्वतो देवस्त्वया प्रोक्तो दिवाकरः । ०३२००१२ पुनर्द्वादशधा जातः श्रुतो ऽस्माभिस्त्वयोदितः ॥ ३२.१। ०३२००२१ स कथं तेजसो रश्मिः स्त्रिया गर्भे महाद्युतिः । ०३२००२२ सम्भूतो भास्करो जातस्तत्र नः संशयो महान् ॥ ३२.२। ०३२००३० ब्रह्मोवाच ०३२००३१ दक्षस्य हि सुताः श्रेष्ठा बभूवुः षष्टिः शोभनाः । ०३२००३२ अदितिर्दितिर्दनुश्चैव विनताद्यास्तथैव च ॥ ३२.३। ०३२००४१ दक्षस्ताः प्रददौ कन्याः कश्यपाय त्रयोदश । ०३२००४२ अदितिर्जनयामास देवांस्त्रिभुवनेश्वरान् ॥ ३२.४। ०३२००५१ दैत्यान्दितिर्दनुश्चोग्रान्दानवान्बलदर्पितान् । ०३२००५२ विनताद्यास्तथा चान्याः सुषुवुः स्थानुजङ्गमान् ॥ ३२.५। ०३२००६१ तस्याथ पुत्रदौहित्रैः पौत्रदौहित्रकादिभिः । ०३२००६२ व्याप्तमेतज्जगत्सर्वं तेषां तासां च वै मुने ॥ ३२.६। ०३२००७१ तेषां कश्यपपुत्राणां प्रधाना देवतागणाः । ०३२००७२ सात्त्विका राजसाश्चान्ये तामसाश्च गणाः स्मृताः ॥ ३२.७। ०३२००८१ देवान्यज्ञभुजश्चक्रे तथा त्रिभुवनेश्वरान् । ०३२००८२ स्रष्टा ब्रह्मविदां श्रेष्ठः परमेष्ठी प्रजापतिः ॥ ३२.८। ०३२००९१ तानबाधन्त सहिताः सापत्न्याद्दैत्यदानवाः । ०३२००९२ ततो निराकृतान्पुत्रान्दैतेयैर्दानवैस्तथा ॥ ३२.९। ०३२०१०१ हतं त्रिभुवनं दृष्ट्वा अदितिर्मुनिसत्तमाः । ०३२०१०२ आच्छिनद्यज्ञभागांश्च क्षुधा सम्पीडितान्भृशम् ॥ ३२.१०। ०३२०१११ आराधनाय सवितुः परं यत्नं प्रचक्रमे । ०३२०११२ एकाग्रा नियताहारा परं नियममास्थिता । ०३२०११३ तुष्टाव तेजसां राशिं गगनस्थं दिवाकरम् ॥ ३२.११। ०३२०१२० अदितिरुवाच ०३२०१२१ नमस्तुभ्यं परं सूक्ष्मं सुपुण्यं बिभ्रते ऽतुलम् । ०३२०१२२ धाम धामवतामीशं धामाधारं च शाश्वतम् ॥ ३२.१२। ०३२०१३१ जगतामुपकाराय त्वामहं स्तौमि गोपते । ०३२०१३२ आददानस्य यद्रूपं तीव्रं तस्मै नमाम्यहम् ॥ ३२.१३। ०३२०१४१ ग्रहीतुमष्टमासेन कालेनाम्बुमयं रसम् । ०३२०१४२ बिभ्रतस्तव यद्रूपमतितीव्रं नतास्मि तत् ॥ ३२.१४। ०३२०१५१ समेतमग्निसोमाभ्यां नमस्तस्मै गुणात्मने । ०३२०१५२ यद्रूपमृग्यजुःसाम्नामैक्येन तपते तव ॥ ३२.१५। ०३२०१६१ विश्वमेतत्त्रयीसञ्ज्ञं नमस्तस्मै विभावसो । ०३२०१६२ यत्तु तस्मात्परं रूपमोमित्युक्त्वाभिसंहितम् । ०३२०१६३ अस्थूलं स्थूलममलं नमस्तस्मै सनातन ॥ ३२.१६। ०३२०१७० ब्रह्मोवाच ०३२०१७१ एवं सा नियता देवी चक्रे स्तोत्रमहर्निशम् । ०३२०१७२ निराहारा विवस्वन्तमारिराधयिषुर्द्विजाः ॥ ३२.१७। ०३२०१८१ ततः कालेन महता भगवांस्तपनो द्विजाः । ०३२०१८२ प्रत्यक्षतामगात्तस्या दाक्षायण्या द्विजोत्तमाः ॥ ३२.१८। ०३२०१९१ सा ददर्श महाकूटं तेजसो ऽम्बरसंवृतम् । ०३२०१९२ भूमौ च संस्थितं भास्वज्-ज्वालाभिरतिदुर्दृशम् । ०३२०१९३ तं दृष्ट्वा च ततो देवी साध्वसं परमं गता ॥ ३२.१९। ०३२०२१० अदितिरुवाच ०३२०२११ जगदाद्य प्रसीदेति न त्वां पश्यामि गोपते । ०३२०२१२ प्रसादं कुरु पश्येयं यद्रूपं ते दिवाकर । ०३२०२१३ भक्तानुकम्पक विभो त्वद्भक्तान्पाहि मे सुतान् ॥ ३२.२१। ०३२०२२० ब्रह्मोवाच ०३२०२२१ ततः स तेजसस्तस्मादाविर्भूतो विभावसुः । ०३२०२२२ अदृश्यत तदादित्यस्तप्तताम्रोपमः प्रभुः ॥ ३२.२२। ०३२०२३१ ततस्तां प्रणतां देवीं तस्यासन्दर्शने द्विजाः । ०३२०२३२ प्राह भास्वान्वृणुष्वैकं वरं मत्तो यमिच्छसि ॥ ३२.२३। ०३२०२४१ प्रणता शिरसा सा तु जानुपीडितमेदिनी । ०३२०२४२ प्रत्युवाच विवस्वन्तं वरदं समुपस्थितम् ॥ ३२.२४। ०३२०२५० अदितिरुवाच ०३२०२५१ देव प्रसीद पुत्राणां हृतं त्रिभुवनं मम । ०३२०२५२ यज्ञभागाश्च दैतेयैर्दानवैश्च बलाधिकैः ॥ ३२.२५। ०३२०२६१ तन्निमित्तं प्रसादं त्वं कुरुष्व मम गोपते । ०३२०२६२ अंशेन तेषां भ्रातृत्वं गत्वा तान्नाशये रिपून् ॥ ३२.२६। ०३२०२७१ यथा मे तनया भूयो यज्ञभागभुजः प्रभो । ०३२०२७२ भवेयुरधिपाश्चैव त्रैलोक्यस्य दिवाकर ॥ ३२.२७। ०३२०२८१ तथानुकल्पं पुत्राणां सुप्रसन्नो रवे मम । ०३२०२८२ कुरु प्रसन्नार्तिहर कार्यं कर्ता उच्यते ॥ ३२.२८। ०३२०२९० ब्रह्मोवाच ०३२०२९१ ततस्तामाह भगवान्भास्करो वारितस्करः । ०३२०२९२ प्रणतामदितिं विप्राः प्रसादसुमुखो विभुः ॥ ३२.२९। ०३२०३०० सूर्य उवाच ०३२०३०१ सहस्रांशेन ते गर्भः सम्भूयाहमशेषतः । ०३२०३०२ त्वत्पुत्रशत्रून्दक्षो ऽहं नाशयाम्याशु निर्वृतः ॥ ३२.३०। ०३२०३१० ब्रह्मोवाच ०३२०३११ इत्युक्त्वा भगवान्भास्वानन्तर्धानमुपागतः । ०३२०३१२ निवृत्ता सापि तपसः सम्प्राप्ताखिलवाञ्छिता ॥ ३२.३१। ०३२०३२१ ततो रश्मिसहस्रात्तु सुषुम्नाख्यो रवेः करः । ०३२०३२२ ततः संवत्सरस्यान्ते तत्कामपूरणाय सः ॥ ३२.३२। ०३२०३३१ निवासं सविता चक्रे देवमातुस्तदोदरे । ०३२०३३२ कृच्छ्रचान्द्रायणादींश्च सा चक्रे सुसमाहिता ॥ ३२.३३। ०३२०३४१ शुचिना धारयाम्येनं दिव्यं गर्भमिति द्विजाः । ०३२०३४२ ततस्तां कश्यपः प्राह किञ्चित्कोपप्लुताक्षरम् ॥ ३२.३४। ०३२०३५० कश्यप उवाच ०३२०३५१ किं मारयसि गर्भाण्डमिति नित्योपवासिनी । ०३२०३५० ब्रह्मोवाच ०३२०३५२ सा च तं प्राह गर्भाण्डमेतत्पश्येति कोपना । ०३२०३५३ न मारितं विपक्षाणां मृत्युरेव भविष्यति ॥ ३२.३५। ०३२०३६१ इत्युक्त्वा तं तदा गर्भमुत्ससर्ज सुरारणिः । ०३२०३६२ जाज्वल्यमानं तेजोभिः पत्युर्वचनकोपिता ॥ ३२.३६। ०३२०३७१ तं दृष्ट्वा कश्यपो गर्भमुद्यद्भास्करवर्चसम् । ०३२०३७२ तुष्टाव प्रणतो भूत्वा वाग्भिराद्याभिरादरात् ॥ ३२.३७। ०३२०३८१ संस्तूयमानः स तदा गर्भाण्डात्प्रकटो ऽभवत् । ०३२०३८२ पद्मपत्त्रसवर्णाभस्तेजसा व्याप्तदिङ्मुखः ॥ ३२.३८। ०३२०३९१ अथान्तरिक्षादाभाष्य कश्यपं मुनिसत्तमम् । ०३२०३९२ सतोयमेघगम्भीरा वागुवाचाशरीरिणी ॥ ३२.३९। ०३२०४०० वागुवाच ०३२०४०१ मारितन्तेपतः प्रोक्तमेतदण्डं त्वयादितेः । ०३२०४०२ तस्मान्मुने सुतस्ते ऽयं मार्तण्डाख्यो भविष्यति ॥ ३२.४०। ०३२०४११ हनिष्यत्यसुरांश्चायं यज्ञभागहरानरीन् । ०३२०४१२ देवा निशम्येति वचो गगनात्समुपागतम् ॥ ३२.४१। ०३२०४२१ प्रहर्षमतुलं याता दानवाश्च हतौजसः । ०३२०४२२ ततो युद्धाय दैतेयानाजुहाव शतक्रतुः ॥ ३२.४२। ०३२०४३१ सह देवैर्मुदा युक्तो दानवाश्च तमभ्ययुः । ०३२०४३२ तेषां युद्धमभूद्घोरं देवानामसुरैः सह ॥ ३२.४३। ०३२०४४१ शस्त्रास्त्रवृष्टिसन्दीप्त-समस्तभुवनान्तरम् । ०३२०४४२ तस्मिन्युद्धे भगवता मार्तण्डेन निरीक्षिताः ॥ ३२.४४। ०३२०४५१ तेजसा दह्यमानास्ते भस्मीभूता महासुराः । ०३२०४५२ ततः प्रहर्षमतुलं प्राप्ताः सर्वे दिवौकसः ॥ ३२.४५। ०३२०४६१ तुष्टुवुस्तेजसां योनिं मार्तण्डमदितिं तथा । ०३२०४६२ स्वाधिकारांस्ततः प्राप्ता यज्ञभागांश्च पूर्ववत् ॥ ३२.४६। ०३२०४७१ भगवानपि मार्तण्डः स्वाधिकारमथाकरोत् । ०३२०४७२ कदम्बपुष्पवद्भास्वानधश्चोर्ध्वं च रश्मिभिः । ०३२०४७३ वृतो ऽग्निपिण्डसदृशो दध्रे नातिस्फुटं वपुः ॥ ३२.४७। ०३२०४८० मुनय ऊचुः ०३२०४८१ कथं कान्ततरं पश्चाद्रूपं संलब्धवान्रविः । ०३२०४८२ कदम्बगोलकाकारं तन्मे ब्रूहि जगत्पते ॥ ३२.४८। ०३२०४९० ब्रह्मोवाच ०३२०४९१ त्वष्टा तस्मै ददौ कन्यां सञ्ज्ञां नाम विवस्वते । ०३२०४९२ प्रसाद्य प्रणतो भूत्वा विश्वकर्मा प्रजापतिः ॥ ३२.४९। ०३२०५०१ त्रीण्यपत्यान्यसौ तस्यां जनयामास गोपतिः । ०३२०५०२ द्वौ पुत्रौ सुमहाभागौ कन्यां च यमुनां तथा ॥ ३२.५०। ०३२०५११ यत्तेजो ऽभ्यधिकं तस्य मार्तण्डस्य विवस्वतः । ०३२०५१२ तेनातितापयामास त्रींल्लोकान्सचराचरान् ॥ ३२.५१। ०३२०५२१ तद्रूपं गोलकाकारं दृष्ट्वा सञ्ज्ञा विवस्वतः । ०३२०५२२ असहन्ती महत्तेजः स्वां छायां वाक्यमब्रवीत् ॥ ३२.५२। ०३२०५३० सञ्ज्ञोवाच ०३२०५३१ अहं यास्यामि भद्रं ते स्वमेव भवनं पितुः । ०३२०५३२ निर्विकारं त्वयात्रैव स्थेयं मच्छासनाच्छुभे ॥ ३२.५३। ०३२०५४१ इमौ च बालकौ मह्यं कन्या च वरवर्णिनी । ०३२०५४२ सम्भाव्या नैव चाख्येयमिदं भगवते त्वया ॥ ३२.५४। ०३२०५५० छायोवाच ०३२०५५१ आ कचग्रहणाद्देवि आ शापान्नैव कर्हिचित् । ०३२०५५२ आख्यास्यामि मतं तुभ्यं गम्यतां यत्र वाञ्छितम् ॥ ३२.५५। ०३२०५६१ इत्युक्ता व्रीडिता सञ्ज्ञा जगाम पितृमन्दिरम् । ०३२०५६२ वत्सराणां सहस्रं तु वसमाना पितुर्गृहे ॥ ३२.५६। ०३२०५७१ भर्तुः समीपं याहीति पित्रोक्ता सा पुनः पुनः । ०३२०५७२ आगच्छद्वडवा भूत्वा कुरूनथोत्तरांस्ततः ॥ ३२.५७। ०३२०५८१ तत्र तेपे तपः साध्वी निराहारा द्विजोत्तमाः । ०३२०५८२ पितुः समीपं यातायां सञ्ज्ञायां वाक्यतत्परा ॥ ३२.५८। ०३२०५९१ तद्रूपधारिणी छाया भास्करं समुपस्थिता । ०३२०५९२ तस्यां च भगवान्सूर्यः सञ्ज्ञेयमिति चिन्तयन् ॥ ३२.५९। ०३२०६०१ तथैव जनयामास द्वौ पुत्रौ कन्यकां तथा । ०३२०६०२ सञ्ज्ञा तु पार्थिवी तेषामात्मजानां तथाकरोत् ॥ ३२.६०। ०३२०६११ स्नेहं न पूर्वजातानां तथा कृतवती तु सा । ०३२०६१२ मनुस्तत्क्षान्तवांस्तस्या यमस्तस्या न चक्षमे ॥ ३२.६१। ०३२०६२१ बहुधा पीड्यमानस्तु पितुः पत्या सुदुःखितः । ०३२०६२२ स वै कोपाच्च बाल्याच्च भाविनो ऽर्थस्य वै बलात् । ०३२०६२३ पदा सन्तर्जयामास न तु देहे न्यपातयत् ॥ ३२.६२। ०३२०६३० छायोवाच ०३२०६३१ पदा तर्जयसे यस्मात्पितुर्भार्यां गरीयसीम् । ०३२०६३२ तस्मात्तवैष चरणः पतिष्यति न संशयः ॥ ३२.६३। ०३२०६४० ब्रह्मोवाच ०३२०६४१ यमस्तु तेन शापेन भृशं पीडितमानसः । ०३२०६४२ मनुना सह धर्मात्मा पित्रे सर्वं न्यवेदयत् ॥ ३२.६४। ०३२०६५० यम उवाच ०३२०६५१ स्नेहेन तुल्यमस्मासु माता देव न वर्तते । ०३२०६५२ विसृज्य ज्यायसं भक्त्या कनीयांसं बुभूषति ॥ ३२.६५। ०३२०६६१ तस्यां मयोद्यतः पादो न तु देहे निपातितः । ०३२०६६२ बाल्याद्वा यदि वा मोहात्तद्भवान्क्षन्तुमर्हसि ॥ ३२.६६। ०३२०६७१ शप्तो ऽहं तात कोपेन जनन्या तनयो यतः । ०३२०६७२ ततो मन्ये न जननीमिमां वै तपतां वर ॥ ३२.६७। ०३२०६८१ तव प्रसादाच्चरणो भगवन्न पतेद्यथा । ०३२०६८२ मातृशापादयं मे ऽद्य तथा चिन्तय गोपते ॥ ३२.६८। ०३२०६९० रविरुवाच ०३२०६९१ असंशयं महत्पुत्र भविष्यत्यत्र कारणम् । ०३२०६९२ येन त्वामाविशत्क्रोधो धर्मज्ञं धर्मशीलिनम् ॥ ३२.६९। ०३२०७०१ सर्वेषामेव शापानां प्रतिघातो हि विद्यते । ०३२०७०२ न तु मात्राभिशप्तानां क्वचिच्छापनिवर्तनम् ॥ ३२.७०। ०३२०७११ न शक्यमेतन्मिथ्या तु कर्तुं मातुर्वचस्तव । ०३२०७१२ किञ्चित्ते ऽहं विधास्यामि पुत्रस्नेहादनुग्रहम् ॥ ३२.७१। ०३२०७२१ कृमयो मांसमादाय प्रयास्यन्ति महीतलम् । ०३२०७२२ कृतं तस्या वचः सत्यं त्वं च त्रातो भविष्यसि ॥ ३२.७२। ०३२०७३० ब्रह्मोवाच ०३२०७३१ आदित्यस्त्वब्रवीच्छायां किमर्थं तनयेषु वै । ०३२०७३२ तुल्येष्वप्यधिकः स्नेह एकं प्रति कृतस्त्वया ॥ ३२.७३। ०३२०७४१ नूनं नैषां त्वं जननी सञ्ज्ञा कापि त्वमागता । ०३२०७४२ निर्गुणेष्वप्यपत्येषु माता शापं न दास्यति ॥ ३२.७४। ०३२०७५१ सा तत्परिहरन्ती च शापाद्भीता तदा रवेः । ०३२०७५२ कथयामास वृत्तान्तं स श्रुत्वा श्वशुरं ययौ ॥ ३२.७५। ०३२०७६१ स चापि तं यथान्यायमर्चयित्वा तदा रविम् । ०३२०७६२ निर्दग्धुकामं रोषेण सान्त्वयानस्तमब्रवीत् ॥ ३२.७६। ०३२०७७० विश्वकर्मोवाच ०३२०७७१ तवातितेजसा व्याप्तमिदं रूपं सुदुःसहम् । ०३२०७७२ असहन्ती तु तत्सञ्ज्ञा वने चरति वै तपः ॥ ३२.७७। ०३२०७८१ द्रक्ष्यते तां भवानद्य स्वां भार्यां शुभचारिणीम् । ०३२०७८२ रूपार्थं भवतो ऽरण्ये चरन्तीं सुमहत्तपः ॥ ३२.७८। ०३२०७९१ श्रुतं मे ब्रह्मणो वाक्यं तव तेजोवरोधने । ०३२०७९२ रूपं निर्वर्तयाम्यद्य तव कान्तं दिवस्पते ॥ ३२.७९। ०३२०८०० ब्रह्मोवाच ०३२०८०१ ततस्तथेति तं प्राह त्वष्टारं भगवान्रविः । ०३२०८०२ ततो विवस्वतो रूपं प्रागासीत्परिमण्डलम् ॥ ३२.८०। ०३२०८११ विश्वकर्मा त्वनुज्ञातः शाकद्वीपे विवस्वता । ०३२०८१२ भ्रमिमारोप्य तत्तेजः-शातनायोपचक्रमे ॥ ३२.८१। ०३२०८२१ भ्रमताशेषजगतां नाभिभूतेन भास्वता । ०३२०८२२ समुद्राद्रिवनोपेता त्वारुरोह मही नभः ॥ ३२.८२। ०३२०८३१ गगनं चाखिलं विप्राः सचन्द्रग्रहतारकम् । ०३२०८३२ अधोगतं महाभागा बभूवाक्षिप्तमाकुलम् ॥ ३२.८३। ०३२०८४१ विक्षिप्तसलिलाः सर्वे बभूवुश्च तथार्णवाः । ०३२०८४२ व्यभिद्यन्त महाशैलाः शीर्णसानुनिबन्धनाः ॥ ३२.८४। ०३२०८५१ ध्रुवाधाराण्यशेषाणि धिष्ण्यानि मुनिसत्तमाः । ०३२०८५२ त्रुट्यद्रश्मिनिबन्धीनि बन्धनानि अधो ययुः ॥ ३२.८५। ०३२०८६१ वेगभ्रमणसम्पात-वायुक्षिप्ताः सहस्रशः । ०३२०८६२ व्यशीर्यन्त महामेघा घोरारावविराविणः ॥ ३२.८६। ०३२०८७१ भास्वद्भ्रमणविभ्रान्त-भूम्याकाशरसातलम् । ०३२०८७२ जगदाकुलमत्यर्थं तदासीन्मुनिसत्तमाः ॥ ३२.८७। ०३२०८८१ त्रैलोक्यमाकुलं वीक्ष्य भ्रममाणं सुरर्षयः । ०३२०८८२ देवाश्च ब्रह्मणा सार्धं भास्वन्तमभितुष्टुवुः ॥ ३२.८८। ०३२०८९१ आदिदेवो ऽसि देवानां जातस्त्वं भूतये भुवः । ०३२०८९२ सर्गस्थित्यन्तकालेषु त्रिधा भेदेन तिष्ठसि ॥ ३२.८९। ०३२०९०१ स्वस्ति ते ऽस्तु जगन्नाथ घर्मवर्षदिवाकर । ०३२०९०२ इन्द्रादयस्तदा देवा लिख्यमानमथास्तुवन् ॥ ३२.९०। ०३२०९११ जय देव जगत्स्वामिञ्जयाशेषजगत्पते । ०३२०९१२ ऋषयश्च ततः सप्त वसिष्ठात्रिपुरोगमाः ॥ ३२.९१। ०३२०९२१ तुष्टुवुर्विविधैः स्तोत्रैः स्वस्ति स्वस्तीतिवादिनः । ०३२०९२२ वेदोक्तिभिरथाग्र्याभिर्वालखिल्याश्च तुष्टुवुः ॥ ३२.९२। ०३२०९३१ अग्निराद्याश्च भास्वन्तं लिख्यमानं मुदा युताः । ०३२०९३२ त्वं नाथ मोक्षिणां मोक्षो ध्येयस्त्वं ध्यानिनां परः ॥ ३२.९३। ०३२०९४१ त्वं गतिः सर्वभूतानां कर्मकाण्डविवर्तिनाम् । ०३२०९४२ सम्पूज्यस्त्वं तु देवेश शं नो ऽस्तु जगतां पते ॥ ३२.९४। ०३२०९५१ शं नो ऽस्तु द्विपदे नित्यं शं नश्चास्तु चतुष्पदे । ०३२०९५२ ततो विद्याधरगणा यक्षराक्षसपन्नगाः ॥ ३२.९५। ०३२०९६१ कृताञ्जलिपुटाः सर्वे शिरोभिः प्रणता रविम् । ०३२०९६२ ऊचुस्ते विविधा वाचो मनःश्रोत्रसुखावहाः ॥ ३२.९६। ०३२०९७१ सह्यं भवतु तेजस्ते भूतानां भूतभावन । ०३२०९७२ ततो हाहाहूहूश्चैव नारदस्तुम्बुरुस्तथा ॥ ३२.९७। ०३२०९८१ उपगायितुमारब्धा गान्धर्वकुशला रविम् । ०३२०९८२ षड्जमध्यमगान्धार-गानत्रयविशारदाः ॥ ३२.९८। ०३२०९९१ मूर्छनाभिश्च तालैश्च सम्प्रयोगैः सुखप्रदम् । ०३२०९९२ विश्वाची च घृताची च उर्वश्यथ तिलोत्तमाः ॥ ३२.९९। ०३२१००१ मेनका सहजन्या च रम्भा चाप्सरसां वरा । ०३२१००२ ननृतुर्जगतामीशे लिख्यमाने विभावसौ ॥ ३२.१००। ०३२१०११ भावहावविलासाद्यान्कुर्वत्यो ऽभिनयान्बहून् । ०३२१०१२ प्रावाद्यन्त ततस्तत्र वीणा वेण्वादिझर्झराः ॥ ३२.१०१। ०३२१०२१ पणवाः पुष्कराश्चैव मृदङ्गाः पटहानकाः । ०३२१०२२ देवदुन्दुभयः शङ्खाः शतशो ऽथ सहस्रशः ॥ ३२.१०२। ०३२१०३१ गायद्भिश्चैव नृत्यद्भिर्गन्धर्वैरप्सरोगणैः । ०३२१०३२ तूर्यवादित्रघोषैश्च सर्वं कोलाहलीकृतम् ॥ ३२.१०३। ०३२१०४१ ततः कृताञ्जलिपुटा भक्तिनम्रात्ममूर्तयः । ०३२१०४२ लिख्यमानं सहस्रांशुं प्रणेमुः सर्वदेवताः ॥ ३२.१०४। ०३२१०५१ ततः कोलाहले तस्मिन्सर्वदेवसमागमे । ०३२१०५२ तेजसः शातनं चक्रे विश्वकर्मा शनैः शनैः ॥ ३२.१०५। ०३२१०६१ आजानुलिखितश्चासौ निपुणं विश्वकर्मणा । ०३२१०६२ नाभ्यनन्दत्तु लिखनं ततस्तेनावतारितः ॥ ३२.१०६। ०३२१०७१ न तु निर्भर्त्सितं रूपं तेजसो हननेन तु । ०३२१०७२ कान्तात्कान्ततरं रूपमधिकं शुशुभे ततः ॥ ३२.१०७। ०३२१०८१ इति हिमजलघर्मकालहेतोर् । ०३२१०८२ हरकमलासनविष्णुसंस्तुतस्य । ०३२१०८३ तदुपरि लिखनं निशम्य भानोर् । ०३२१०८४ व्रजति दिवाकरलोकमायुषो ऽन्ते ॥ ३२.१०८। ०३२१०९१ एवं जन्म रवेः पूर्वं बभूव मुनिसत्तमाः । ०३२१०९२ रूपं च परमं तस्य मया सम्परिकीर्तितम् ॥ ३२.१०९। ०३३००१० मुनय ऊचुः ०३३००११ भूयो ऽपि कथयास्माकं कथां सूर्यसमाश्रिताम् । ०३३००१२ न तृप्तिमधिगच्छामः शृण्वन्तस्तां कथां शुभाम् ॥ ३३.१। ०३३००२१ यो ऽयं दीप्तो महातेजा वह्निराशिसमप्रभः । ०३३००२२ एतद्वेदितुमिच्छामः प्रभावो ऽस्य कुतः प्रभो ॥ ३३.२। ०३३००३० ब्रह्मोवाच ०३३००३१ तमोभूतेषु लोकेषु नष्टे स्थावरजङ्गमे । ०३३००३२ प्रकृतेर्गुणहेतुस्तु पूर्वं बुद्धिरजायत ॥ ३३.३। ०३३००४१ अहङ्कारस्ततो जातो महाभूतप्रवर्तकः । ०३३००४२ वाय्वग्निरापः खं भूमिस्ततस्त्वण्डमजायत ॥ ३३.४। ०३३००५१ तस्मिन्नण्डे त्विमे लोकाः सप्त चैव प्रतिष्ठिताः । ०३३००५२ पृथिवी सप्तभिर्द्वीपैः समुद्रैश्चैव सप्तभिः ॥ ३३.५। ०३३००६१ तत्रैवावस्थितो ह्यासीदहं विष्णुर्महेश्वरः । ०३३००६२ विमूढास्तामसाः सर्वे प्रध्यायन्ति तमीश्वरम् ॥ ३३.६। ०३३००७१ ततो वै सुमहातेजाः प्रादुर्भूतस्तमोनुदः । ०३३००७२ ध्यानयोगेन चास्माभिर्विज्ञातः सविता तदा ॥ ३३.७। ०३३००८१ ज्ञात्वा च परमात्मानं सर्व एव पृथक्पृथक् । ०३३००८२ दिव्याभिः स्तुतिभिर्देवः स्तुतो ऽस्माभिस्तदेश्वरः ॥ ३३.८। ०३३००९१ आदिदेवो ऽसि देवानामैश्वर्याच्च त्वमीश्वरः । ०३३००९२ आदिकर्तासि भूतानां देवदेवो दिवाकरः ॥ ३३.९। ०३३०१०१ जीवनः सर्वभूतानां देवगन्धर्वरक्षसाम् । ०३३०१०२ मुनिकिन्नरसिद्धानां तथैवोरगपक्षिणाम् ॥ ३३.१०। ०३३०१११ त्वं ब्रह्मा त्वं महादेवस्त्वं विष्णुस्त्वं प्रजापतिः । ०३३०११२ वायुरिन्द्रश्च सोमश्च विवस्वान्वरुणस्तथा ॥ ३३.११। ०३३०१२१ त्वं कालः सृष्टिकर्ता च हर्ता भर्ता तथा प्रभुः । ०३३०१२२ सरितः सागराः शैला विद्युदिन्द्रधनूंषि च ॥ ३३.१२। ०३३०१३१ प्रलयः प्रभवश्चैव व्यक्ताव्यक्तः सनातनः । ०३३०१३२ ईश्वरात्परतो विद्या विद्यायाः परतः शिवः ॥ ३३.१३। ०३३०१४१ शिवात्परतरो देवस्त्वमेव परमेश्वरः । ०३३०१४२ सर्वतःपाणिपादान्तः सर्वतोक्षिशिरोमुखः ॥ ३३.१४। ०३३०१५१ सहस्रांशुः सहस्रास्यः सहस्रचरणेक्षणः । ०३३०१५२ भूतादिर्भूर्भुवः स्वश्च महः सत्यं तपो जनः ॥ ३३.१५। ०३३०१६१ प्रदीप्तं दीपनं दिव्यं सर्वलोकप्रकाशकम् । ०३३०१६२ दुर्निरीक्षं सुरेन्द्राणां यद्रूपं तस्य ते नमः ॥ ३३.१६। ०३३०१७१ सुरसिद्धगणैर्जुष्टं भृग्वत्रिपुलहादिभिः । ०३३०१७२ स्तुतं परममव्यक्तं यद्रूपं तस्य ते नमः ॥ ३३.१७। ०३३०१८१ वेद्यं वेदविदां नित्यं सर्वज्ञानसमन्वितम् । ०३३०१८२ सर्वदेवातिदेवस्य यद्रूपं तस्य ते नमः ॥ ३३.१८। ०३३०१९१ विश्वकृद्विश्वभूतं च वैश्वानरसुरार्चितम् । ०३३०१९२ विश्वस्थितमचिन्त्यं च यद्रूपं तस्य ते नमः ॥ ३३.१९। ०३३०२०१ परं यज्ञात्परं वेदात्परं लोकात्परं दिवः । ०३३०२०२ परमात्मेत्यभिख्यातं यद्रूपं तस्य ते नमः ॥ ३३.२०। ०३३०२११ अविज्ञेयमनालक्ष्यमध्यानगतमव्ययम् । ०३३०२१२ अनादिनिधनं चैव यद्रूपं तस्य ते नमः ॥ ३३.२१। ०३३०२२१ नमो नमः कारणकारणाय । ०३३०२२२ नमो नमः पापविमोचनाय । ०३३०२२३ नमो नमस्ते दितिजार्दनाय । ०३३०२२४ नमो नमो रोगविमोचनाय ॥ ३३.२२। ०३३०२३१ नमो नमः सर्ववरप्रदाय । ०३३०२३२ नमो नमः सर्वसुखप्रदाय । ०३३०२३३ नमो नमः सर्वधनप्रदाय । ०३३०२३४ नमो नमः सर्वमतिप्रदाय ॥ ३३.२३। ०३३०२४१ स्तुतः स भगवानेवं तैजसं रूपमास्थितः । ०३३०२४२ उवाच वाचा कल्याण्या को वरो वः प्रदीयताम् ॥ ३३.२४। ०३३०२५० देवा ऊचुः ०३३०२५१ तवातितैजसं रूपं न कश्चित्सोढुमुत्सहेत् । ०३३०२५२ सहनीयं तद्भवतु हिताय जगतः प्रभो ॥ ३३.२५। ०३३०२६१ एवमस्त्विति सो ऽप्युक्त्वा भगवानादिकृत्प्रभुः । ०३३०२६२ लोकानां कार्यसिद्ध्यर्थं घर्मवर्षहिमप्रदः ॥ ३३.२६। ०३३०२७१ ततः साङ्ख्याश्च योगाश्च ये चान्ये मोक्षकाङ्क्षिणः । ०३३०२७२ ध्यायन्ति ध्यायिनो देवं हृदयस्थं दिवाकरम् ॥ ३३.२७। ०३३०२८१ सर्वलक्षणहीनो ऽपि युक्तो वा सर्वपातकैः । ०३३०२८२ सर्वं च तरते पापं देवमर्कं समाश्रितः ॥ ३३.२८। ०३३०२९१ अग्निहोत्रं च वेदाश्च यज्ञाश्च बहुदक्षिणाः । ०३३०२९२ भानोर्भक्तिनमस्कार-कलां नार्हन्ति षोडशीम् ॥ ३३.२९। ०३३०३०१ तीर्थानां परमं तीर्थं मङ्गलानां च मङ्गलम् । ०३३०३०२ पवित्रं च पवित्राणां प्रपद्यन्ते दिवाकरम् ॥ ३३.३०। ०३३०३११ शक्राद्यैः संस्तुतं देवं ये नमस्यन्ति भास्करम् । ०३३०३१२ सर्वकिल्बिषनिर्मुक्ताः सूर्यलोकं व्रजन्ति ते ॥ ३३.३१। ०३३०३२० मुनय ऊचुः ०३३०३२१ चिरात्प्रभृति नो ब्रह्मञ्श्रोतुमिच्छा प्रवर्तते । ०३३०३२२ नाम्नामष्टशतं ब्रूहि यत्त्वयोक्तं पुरा रवेः ॥ ३३.३२। ०३३०३३० ब्रह्मोवाच ०३३०३३१ अष्टोत्तरशतं नाम्नां शृणुध्वं गदतो मम । ०३३०३३२ भास्करस्य परं गुह्यं स्वर्गमोक्षप्रदं द्विजाः ॥ ३३.३३। ०३३०३४१ ओं सूर्यो ऽर्यमा भगस्त्वष्टा पूषार्कः सविता रविः । ०३३०३४२ गभस्तिमानजः कालो मृत्युर्धाता प्रभाकरः ॥ ३३.३४। ०३३०३५१ पृथिव्यापश्च तेजश्च खं वायुश्च परायणम् । ०३३०३५२ सोमो बृहस्पतिः शुक्रो बुधो ऽङ्गारक एव च ॥ ३३.३५। ०३३०३६१ इन्द्रो विवस्वान्दीप्तांशुः शुचिः शौरिः शनैश्चरः । ०३३०३६२ ब्रह्मा विष्णुश्च रुद्रश्च स्कन्दो वैश्रवणो यमः ॥ ३३.३६। ०३३०३७१ वैद्युतो जाठरश्चाग्निरैन्धनस्तेजसां पतिः । ०३३०३७२ धर्मध्वजो वेदकर्ता वेदाङ्गो वेदवाहनः ॥ ३३.३७। ०३३०३८१ कृतं त्रेता द्वापरश्च कलिः सर्वामराश्रयः । ०३३०३८२ कलाकाष्ठामुहूर्ताश्च क्षपा यामास्तथा क्षणाः ॥ ३३.३८। ०३३०३९१ संवत्सरकरो ऽश्वत्थः कालचक्रो विभावसुः । ०३३०३९२ पुरुषः शाश्वतो योगी व्यक्ताव्यक्तः सनातनः ॥ ३३.३९। ०३३०४०१ कालाध्यक्षः प्रजाध्यक्षो विश्वकर्मा तमोनुदः । ०३३०४०२ वरुणः सागरो ऽंशश्च जीमूतो जिवनो ऽरिहा ॥ ३३.४०। ०३३०४११ भूताश्रयो भूतपतिः सर्वलोकनमस्कृतः । ०३३०४१२ स्रष्टा संवर्तको वह्निः सर्वस्यादिरलोलुपः ॥ ३३.४१। ०३३०४२१ अनन्तः कपिलो भानुः कामदः सर्वतोमुखः । ०३३०४२२ जयो विशालो वरदः सर्वभूतनिषेवितः ॥ ३३.४२। ०३३०४३१ मनः सुपर्णो भूतादिः शीघ्रगः प्राणधारणः । ०३३०४३२ धन्वन्तरिर्धूमकेतुरादिदेवो ऽदितेः सुतः ॥ ३३.४३। ०३३०४४१ द्वादशात्मा रविर्दक्षः पिता माता पितामहः । ०३३०४४२ स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् ॥ ३३.४४। ०३३०४५१ देहकर्ता प्रशान्तात्मा विश्वात्मा विश्वतोमुखः । ०३३०४५२ चराचरात्मा सूक्ष्मात्मा मैत्रेयः करुणान्वितः ॥ ३३.४५। ०३३०४६१ एतद्वै कीर्तनीयस्य सूर्यस्यामिततेजसः । ०३३०४६२ नाम्नामष्टशतं रम्यं मया प्रोक्तं द्विजोत्तमाः ॥ ३३.४६। ०३३०४७१ सुरगणपितृयक्षसेवितं ह्य् । ०३३०४७२ असुरनिशाकरसिद्धवन्दितम् । ०३३०४७३ वरकनकहुताशनप्रभम् । ०३३०४७४ प्रणिपतितो ऽस्मि हिताय भास्करम् ॥ ३३.४७। ०३३०४८१ सूर्योदये यः सुसमाहितः पठेत् । ०३३०४८२ स पुत्रदारान्धनरत्नसञ्चयान् । ०३३०४८३ लभेत जातिस्मरतां नरः स तु । ०३३०४८४ स्मृतिं च मेधां च स विन्दते पराम् ॥ ३३.४८। ०३३०४९१ इमं स्तवं देववरस्य यो नरः । ०३३०४९२ प्रकीर्तयेच्छुद्धमनाः समाहितः । ०३३०४९३ विमुच्यते शोकदवाग्निसागराल् । ०३३०४९४ लभेत कामान्मनसा यथेप्सितान् ॥ ३३.४९। ०३४००१० ब्रह्मोवाच ०३४००११ यो ऽसौ सर्वगतो देवस्त्रिपुरारिस्त्रिलोचनः । ०३४००१२ उमाप्रियकरो रुद्रश्चन्द्रार्धकृतशेखरः ॥ ३४.१। ०३४००२१ विद्राव्य विबुधान्सर्वान्सिद्धविद्याधरानृषीन् । ०३४००२२ गन्धर्वयक्षनागांश्च तथान्यांश्च समागतान् ॥ ३४.२। ०३४००३१ जघान पूर्वं दक्षस्य यजतो धरणीतले । ०३४००३२ यज्ञं समृद्धं रत्नाढ्यं सर्वसम्भारसम्भृतम् ॥ ३४.३। ०३४००४१ यस्य प्रतापसन्त्रस्ताः शक्राद्यास्त्रिदिवौकसः । ०३४००४२ शान्तिं न लेभिरे विप्राः कैलासं शरणं गताः ॥ ३४.४। ०३४००५१ स आस्ते तत्र वरदः शूलपाणिर्वृषध्वजः । ०३४००५२ पिनाकपाणिर्भगवान्दक्षयज्ञविनाशनः ॥ ३४.५। ०३४००६१ महादेवो ऽकले देशे कृत्तिवासा वृषध्वजः । ०३४००६२ एकाम्रके मुनिश्रेष्ठाः सर्वकामप्रदो हरः ॥ ३४.६। ०३४००७० मुनय ऊचुः ०३४००७१ किमर्थं स भवो देवः सर्वभूतहिते रतः । ०३४००७२ जघान यज्ञं दक्षस्य देवैः सर्वैरलङ्कृतम् ॥ ३४.७। ०३४००८१ न ह्यल्पं कारणं तत्र प्रभो मन्यामहे वयम् । ०३४००८२ श्रोतुमिच्छामहे ब्रूहि परं कौतूहलं हि नः ॥ ३४.८। ०३४००९० ब्रह्मोवाच ०३४००९१ दक्षस्यासन्नष्ट कन्या याश्चैवं पतिसङ्गताः । ०३४००९२ स्वेभ्यो गृहेभ्यश्चानीय ताः पिताभ्यर्चयद्गृहे ॥ ३४.९। ०३४०१०१ ततस्त्वभ्यर्चिता विप्रा न्यवसंस्ताः पितुर्गृहे । ०३४०१०२ तासां ज्येष्ठा सती नाम पत्नी या त्र्यम्बकस्य वै ॥ ३४.१०। ०३४०१११ नाजुहावात्मजां तां वै दक्षो रुद्रमभिद्विषन् । ०३४०११२ अकरोत्सन्नतिं दक्षे न च काञ्चिन्महेश्वरः ॥ ३४.११। ०३४०१२१ जामाता श्वशुरे तस्मिन्स्वभावात्तेजसि स्थितः । ०३४०१२२ ततो ज्ञात्वा सती सर्वास्तास्तु प्राप्ताः पितुर्गृहम् ॥ ३४.१२। ०३४०१३१ जगाम साप्यनाहूता सती तु स्वपितुर्गृहम् । ०३४०१३२ ताभ्यो हीनां पिता चक्रे सत्याः पूजामसम्मताम् । ०३४०१३३ ततो ऽब्रवीत्सा पितरं देवी क्रोधसमाकुला ॥ ३४.१३। ०३४०१४० सत्युवाच ०३४०१४१ यवीयसीभ्यः श्रेष्ठाहं किं न पूजसि मां प्रभो । ०३४०१४२ असत्कृतामवस्थां यः कृतवानसि गर्हिताम् । ०३४०१४३ अहं ज्येष्ठा वरिष्ठा च मां त्वं सत्कर्तुमर्हसि ॥ ३४.१४। ०३४०१५० ब्रह्मोवाच ०३४०१५१ एवमुक्तो ऽब्रवीदेनां दक्षः संरक्तलोचनः ॥ ३४.१५। ०३४०१६० दक्ष उवाच ०३४०१६१ त्वत्तः श्रेष्ठा वरिष्ठाश्च पूज्या बालाः सुता मम । ०३४०१६२ तासां ये चैव भर्तारस्ते मे बहुमताः सति ॥ ३४.१६। ०३४०१७१ ब्रह्मिष्ठाश्च व्रतस्थाश्च महायोगाः सुधार्मिकाः । ०३४०१७२ गुणैश्चैवाधिकाः श्लाघ्याः सर्वे ते त्र्यम्बकात्सति ॥ ३४.१७। ०३४०१८१ वसिष्ठो ऽत्रिः पुलस्त्यश्च अङ्गिराः पुलहः क्रतुः । ०३४०१८२ भृगुर्मरीचिश्च तथा श्रेष्ठा जामातरो मम ॥ ३४.१८। ०३४०१९१ तैश्चापि स्पर्धते शर्वः सर्वे ते चैव तं प्रति । ०३४०१९२ तेन त्वां न बुभूषामि प्रतिकूलो हि मे भवः ॥ ३४.१९। ०३४०२०१ इत्युक्तवांस्तदा दक्षः सम्प्रमूढेन चेतसा । ०३४०२०२ शापार्थमात्मनश्चैव येनोक्ता वै महर्षयः । ०३४०२०३ तथोक्ता पितरं सा वै क्रुद्धा देवी तमब्रवीत् ॥ ३४.२०। ०३४०२१० सत्युवाच ०३४०२११ वाङ्मनःकर्मभिर्यस्माददुष्टां मां विगर्हसि । ०३४०२१२ तस्मात्त्यजाम्यहं देहमिमं तात तवात्मजम् ॥ ३४.२१। ०३४०२२० ब्रह्मोवाच ०३४०२२१ ततस्तेनापमानेन सती दुःखादमर्षिता । ०३४०२२२ अब्रवीद्वचनं देवी नमस्कृत्य स्वयम्भुवे ॥ ३४.२२। ०३४०२३० सत्युवाच ०३४०२३१ येनाहमपदेहा वै पुनर्देहेन भास्वता । ०३४०२३२ तत्राप्यहमसम्मूढा सम्भूता धार्मिकी पुनः । ०३४०२३३ गच्छेयं धर्मपत्नीत्वं त्र्यम्बकस्यैव धीमतः ॥ ३४.२३। ०३४०२४० ब्रह्मोवाच ०३४०२४१ तत्रैवाथ समासीना रुष्टात्मानं समादधे । ०३४०२४२ धारयामास चाग्नेयीं धारणामात्मनात्मनि ॥ ३४.२४। ०३४०२५१ ततः स्वात्मानमुत्थाप्य वायुना समुदीरितः । ०३४०२५२ सर्वाङ्गेभ्यो विनिःसृत्य वह्निर्भस्म चकार ताम् ॥ ३४.२५। ०३४०२६१ तदुपश्रुत्य निधनं सत्या देव्याः स शूलधृक् । ०३४०२६२ संवादं च तयोर्बुद्ध्वा याथातथ्येन शङ्करः । ०३४०२६३ दक्षस्य च विनाशाय चुकोप भगवान्प्रभुः ॥ ३४.२६। ०३४०२७० श्रीशङ्कर उवाच ०३४०२७१ यस्मादवमता दक्ष सहसैवागता सती । ०३४०२७२ प्रशस्ताश्चेतराः सर्वास्त्वत्सुता भर्तृभिः सह ॥ ३४.२७। ०३४०२८१ तस्माद्वैवस्वते प्राप्ते पुनरेते महर्षयः । ०३४०२८२ उत्पत्स्यन्ति द्वितीये वै तव यज्ञे ह्ययोनिजाः ॥ ३४.२८। ०३४०२९१ हुते वै ब्रह्मणः सत्त्रे चाक्षुषस्यान्तरे मनोः । ०३४०२९२ अभिव्याहृत्य सप्तर्षीन्दक्षं सो ऽभ्यशपत्पुनः ॥ ३४.२९। ०३४०३०१ भविता मानुषो राजा चाक्षुषस्यान्तरे मनोः । ०३४०३०२ प्राचीनबर्हिषः पौत्रः पुत्रश्चापि प्रचेतसः ॥ ३४.३०। ०३४०३११ दक्ष इत्येव नाम्ना त्वं मारिषायां जनिष्यसि । ०३४०३१२ कन्यायां शाखिनां चैव प्राप्ते वै चाक्षुषान्तरे ॥ ३४.३१। ०३४०३२१ अहं तत्रापि ते विघ्नमाचरिष्यामि दुर्मते । ०३४०३२२ धर्मकामार्थयुक्तेषु कर्मस्विह पुनः पुनः ॥ ३४.३२। ०३४०३३१ ततो वै व्याहृतो दक्षो रुद्रं सो ऽभ्यशपत्पुनः ॥ ३४.३३। ०३४०३४० दक्ष उवाच ०३४०३४१ यस्मात्त्वं मत्कृते क्रूर ऋषीन्व्याहृतवानसि । ०३४०३४२ तस्मात्सार्धं सुरैर्यज्ञे न त्वां यक्ष्यन्ति वै द्विजाः ॥ ३४.३४। ०३४०३५१ कृत्वाहुतिं तव क्रूर अपः स्पृशन्ति कर्मसु । ०३४०३५२ इहैव वत्स्यसे लोके दिवं हित्वायुगक्षयात् । ०३४०३५३ ततो देवैस्तु ते सार्धं न तु पूजा भविष्यति ॥ ३४.३५। ०३४०३६० रुद्र उवाच ०३४०३६१ चातुर्वर्ण्यं तु देवानां ते चाप्येकत्र भुञ्जते । ०३४०३६२ न भोक्ष्ये सहितस्तैस्तु ततो भोक्ष्याम्यहं पृथक् ॥ ३४.३६। ०३४०३७१ सर्वेषां चैव लोकानामादिर्भूर्लोक उच्यते । ०३४०३७२ तमहं धारयाम्येकः स्वेच्छया न तवाज्ञया ॥ ३४.३७। ०३४०३८१ तस्मिन्धृते सर्वलोकाः सर्वे तिष्ठन्ति शाश्वताः । ०३४०३८२ तस्मादहं वसामीह सततं न तवाज्ञया ॥ ३४.३८। ०३४०३९० ब्रह्मोवाच ०३४०३९१ ततो ऽभिव्याहृतो दक्षो रुद्रेणामिततेजसा । ०३४०३९२ स्वायम्भुवीं तनुं त्यक्त्वा उत्पन्नो मानुषेष्विह ॥ ३४.३९। ०३४०४०१ यदा गृहपतिर्दक्षो यज्ञानामीश्वरः प्रभुः । ०३४०४०२ समस्तेनेह यज्ञेन सो ऽयजद्दैवतैः सह ॥ ३४.४०। ०३४०४११ अथ देवी सती यत्ते प्राप्ते वैवस्वते ऽन्तरे । ०३४०४१२ मेनायां तामुमां देवीं जनयामास शैलराट् ॥ ३४.४१। ०३४०४२१ सा तु देवी सती पूर्वमासीत्पश्चादुमाभवत् । ०३४०४२२ सहव्रता भवस्यैषा नैतया मुच्यते भवः ॥ ३४.४२। ०३४०४३१ यावदिच्छति संस्थानं प्रभुर्मन्वन्तरेष्विह । ०३४०४३२ मारीचं कश्यपं देवी यथादितिरनुव्रता ॥ ३४.४३। ०३४०४४१ सार्धं नारायणं श्रीस्तु मघवन्तं शची यथा । ०३४०४४२ विष्णुं कीर्तिरुषा सूर्यं वसिष्ठं चाप्यरुन्धती ॥ ३४.४४। ०३४०४५१ नैतांस्तु विजहत्येता भर्तॄन्देव्यः कथञ्चन । ०३४०४५२ एवं प्राचेतसो दक्षो जज्ञे वै चाक्षुषे ऽन्तरे ॥ ३४.४५। ०३४०४६१ प्राचीनबर्हिषः पौत्रः पुत्रश्चापि प्रचेतसाम् । ०३४०४६२ दशभ्यस्तु प्रचेतोभ्यो मारिषायां पुनर्नृप ॥ ३४.४६। ०३४०४७१ जज्ञे रुद्राभिशापेन द्वितीयमिति नः श्रुतम् । ०३४०४७२ भृग्वादयस्तु ते सर्वे जज्ञिरे वै महर्षयः ॥ ३४.४७। ०३४०४८१ आद्ये त्रेतायुगे पूर्वं मनोर्वैवस्वतस्य ह । ०३४०४८२ देवस्य महतो यज्ञे वारुणीं बिभ्रतस्तनुम् ॥ ३४.४८। ०३४०४९१ इत्येषो ऽनुशयो ह्यासीत्तयोर्जात्यन्तरे गतः । ०३४०४९२ प्रजापतेश्च दक्षस्य त्र्यम्बकस्य च धीमतः ॥ ३४.४९। ०३४०५०१ तस्मान्नानुशयः कार्यो वरेष्विह कदाचन । ०३४०५०२ जात्यन्तरगतस्यापि भावितस्य शुभाशुभैः । ०३४०५०३ जन्तोर्न भूतये ख्यातिस्तन्न कार्यं विजानता ॥ ३४.५०। ०३४०५१० मुनय ऊचुः ०३४०५११ कथं रोषेण सा पूर्वं दक्षस्य दुहिता सती । ०३४०५१२ त्यक्त्वा देहं पुनर्जाता गिरिराजगृहे प्रभो ॥ ३४.५१। ०३४०५२१ देहान्तरे कथं तस्याः पूर्वदेहो बभूव ह । ०३४०५२२ भवेन सह संयोगः संवादश्च तयोः कथम् ॥ ३४.५२। ०३४०५३१ स्वयंवरः कथं वृत्तस्तस्मिन्महति जन्मनि । ०३४०५३२ विवाहश्च जगन्नाथ सर्वाश्चर्यसमन्वितः ॥ ३४.५३। ०३४०५४१ तत्सर्वं विस्तराद्ब्रह्मन्वक्तुमर्हसि साम्प्रतम् । ०३४०५४२ श्रोतुमिच्छामहे पुण्यां कथां चातिमनोहराम् ॥ ३४.५४। ०३४०५५० ब्रह्मोवाच ०३४०५५१ शृणुध्वं मुनिशार्दूलाः कथां पापप्रणाशिनीम् । ०३४०५५२ उमाशङ्करयोः पुण्यां सर्वकामफलप्रदाम् ॥ ३४.५५। ०३४०५६१ कदाचित्स्वगृहात्प्राप्तं कश्यपं द्विपदां वरम् । ०३४०५६२ अपृच्छद्धिमवान्वृत्तं लोके ख्यातिकरं हितम् ॥ ३४.५६। ०३४०५७१ केनाक्षयाश्च लोकाः स्युः ख्यातिश्च परमा मुने । ०३४०५७२ तथैव चार्चनीयत्वं सत्सु तत्कथयस्व मे ॥ ३४.५७। ०३४०५८० कश्यप उवाच ०३४०५८१ अपत्येन महाबाहो सर्वमेतदवाप्यते । ०३४०५८२ ममाख्यातिरपत्येन ब्रह्मणा ऋषिभिः सह ॥ ३४.५८। ०३४०५९१ किं न पश्यसि शैलेन्द्र यतो मां परिपृच्छसि । ०३४०५९२ वर्तयिष्यामि यच्चापि यथादृष्टं पुराचल ॥ ३४.५९। ०३४०६०१ वाराणसीमहं गच्छन्नपश्यं संस्थितं दिवि । ०३४०६०२ विमानं सुनवं दिव्यमनौपम्यं महर्धिमत् ॥ ३४.६०। ०३४०६११ तस्याधस्तादार्तनादं गर्तस्थाने शृणोम्यहम् । ०३४०६१२ तमहं तपसा ज्ञात्वा तत्रैवान्तर्हितः स्थितः ॥ ३४.६१। ०३४०६२१ अथागात्तत्र शैलेन्द्र विप्रो नियमवाञ्शुचिः । ०३४०६२२ तीर्थाभिषेकपूतात्मा परे तपसि संस्थितः ॥ ३४.६२। ०३४०६३१ अथ स व्रजमानस्तु व्याघ्रेणाभीषितो द्विजः । ०३४०६३२ विवेश तं तदा देशं स गर्तो यत्र भूधर ॥ ३४.६३। ०३४०६४१ गर्तायां वीरणस्तम्बे लम्बमानांस्तदा मुनीन् । ०३४०६४२ अपश्यदार्तो दुःखार्तांस्तानपृच्छच्च स द्विजः ॥ ३४.६४। ०३४०६५० द्विज उवाच ०३४०६५१ के यूयं वीरणस्तम्बे लम्बमाना ह्यधोमुखाः । ०३४०६५२ दुःखिताः केन मोक्षश्च युष्माकं भवितानघाः ॥ ३४.६५। ०३४०६६० पितर ऊचुः ०३४०६६१ वयं ते कृतपुण्यस्य पितरः सपितामहाः । ०३४०६६२ प्रपितामहाश्च क्लिश्यामस्तव दुष्टेन कर्मणा ॥ ३४.६६। ०३४०६७१ नरको ऽयं महाभाग गर्तरूपेण संस्थितः । ०३४०६७२ त्वं चापि वीरणस्तम्बस्त्वयि लम्बामहे वयम् ॥ ३४.६७। ०३४०६८१ यावत्त्वं जीवसे विप्र तावदेव वयं स्थिताः । ०३४०६८२ मृते त्वयि गमिष्यामो नरकं पापचेतसः ॥ ३४.६८। ०३४०६९१ यदि त्वं दारसंयोगं कृत्वापत्यं गुणोत्तरम् । ०३४०६९२ उत्पादयसि तेनास्मान्मुच्येम वयमेनसः ॥ ३४.६९। ०३४०७०१ नान्येन तपसा पुत्र तीर्थानां च फलेन च । ०३४०७०२ एतत्कुरु महाबुद्धे तारयस्व पितॄन्भयात् ॥ ३४.७०। ०३४०७१० कश्यप उवाच ०३४०७११ स तथेति प्रतिज्ञाय आराध्य वृषभध्वजम् । ०३४०७१२ पितॄन्गर्तात्समुद्धृत्य गणपान्प्रचकार ह ॥ ३४.७१। ०३४०७२१ स्वयं रुद्रस्य दयितः सुवेशो नाम नामतः । ०३४०७२२ सम्मतो बलवांश्चैव रुद्रस्य गणपो ऽभवत् ॥ ३४.७२। ०३४०७३१ तस्मात्कृत्वा तपो घोरमपत्यं गुणवद्भृशम् । ०३४०७३२ उत्पादयस्व शैलेन्द्र सुतां त्वं वरवर्णिनीम् ॥ ३४.७३। ०३४०७४० ब्रह्मोवाच ०३४०७४१ स एवमुक्त्वा ऋषिणा शैलेन्द्रो नियमस्थितः । ०३४०७४२ तपश्चकाराप्यतुलं येन तुष्टिरभून्मम ॥ ३४.७४। ०३४०७५१ तदा तमुत्पपाताहं वरदो ऽस्मीति चाब्रवम् । ०३४०७५२ ब्रूहि तुष्टो ऽस्मि शैलेन्द्र तपसानेन सुव्रत ॥ ३४.७५। ०३४०७६० हिमवानुवाच ०३४०७६१ भगवन्पुत्रमिच्छामि गुणैः सर्वैरलङ्कृतम् । ०३४०७६२ एवं वरं प्रयच्छस्व यदि तुष्टो ऽसि मे प्रभो ॥ ३४.७६। ०३४०७७० ब्रह्मोवाच ०३४०७७१ तस्य तद्वचनं श्रुत्वा गिरिराजस्य भो द्विजाः । ०३४०७७२ तदा तस्मै वरं चाहं दत्तवान्मनसेप्सितम् ॥ ३४.७७। ०३४०७८१ कन्या भवित्री शैलेन्द्र तपसानेन सुव्रत । ०३४०७८२ यस्याः प्रभावात्सर्वत्र कीर्तिमाप्स्यसि शोभनाम् ॥ ३४.७८। ०३४०७९१ अर्चितः सर्वदेवानां तीर्थकोटिसमावृतः । ०३४०७९२ पावनश्चैव पुण्येन देवानामपि सर्वतः ॥ ३४.७९। ०३४०८०१ ज्येष्ठा च सा भवित्री ते अन्ये चात्र ततः शुभे ॥ ३४.८०। ०३४०८११ सो ऽपि कालेन शैलेन्द्रो मेनायामुदपादयत् । ०३४०८१२ अपर्णामेकपर्णां च तथा चैवैकपाटलाम् ॥ ३४.८१। ०३४०८२१ न्यग्रोधमेकपर्णं तु पाटलं चैकपाटलाम् । ०३४०८२२ अशित्वा त्वेकपर्णां तु अनिकेतस्तपो ऽचरत् ॥ ३४.८२। ०३४०८३१ शतं वर्षसहस्राणां दुश्चरं देवदानवैः । ०३४०८३२ आहारमेकपर्णं तु एकपर्णा समाचरत् ॥ ३४.८३। ०३४०८४१ पाटलेन तथैकेन विदधे चैकपाटला । ०३४०८४२ पूर्णे वर्षसहस्रे तु आहारं ताः प्रचक्रतुः ॥ ३४.८४। ०३४०८५१ अपर्णा तु निराहारा तां माता प्रत्यभाषत । ०३४०८५२ निषेधयन्ती चो मेति मातृस्नेहेन दुःखिता ॥ ३४.८५। ०३४०८६१ सा तथोक्ता तया मात्रा देवी दुश्चरचारिणी । ०३४०८६२ तेनैव नाम्ना लोकेषु विख्याता सुरपूजिता ॥ ३४.८६। ०३४०८७१ एतत्तु त्रिकुमारीकं जगत्स्थावरजङ्गमम् । ०३४०८७२ एतासां तपसां वृत्तं यावद्भूमिर्धरिष्यति ॥ ३४.८७। ०३४०८८१ तपःशरीरास्ताः सर्वास्तिस्रो योगं समाश्रिताः । ०३४०८८२ सर्वाश्चैव महाभागास्तथा च स्थिरयौवनाः ॥ ३४.८८। ०३४०८९१ ता लोकमातरश्चैव ब्रह्मचारिण्य एव च । ०३४०८९२ अनुगृह्णन्ति लोकांश्च तपसा स्वेन सर्वदा ॥ ३४.८९। ०३४०९०१ उमा तासां वरिष्ठा च ज्येष्ठा च वरवर्णिनी । ०३४०९०२ महायोगबलोपेता महादेवमुपस्थिता ॥ ३४.९०। ०३४०९११ दत्तकश्चोशना तस्य पुत्रः स भृगुनन्दनः । ०३४०९१२ आसीत्तस्यैकपर्णा तु देवलं सुषुवे सुतम् ॥ ३४.९१। ०३४०९२१ या तु तासां कुमारीणां तृतीया ह्येकपाटला । ०३४०९२२ पुत्रं सा तमलर्कस्य जैगीषव्यमुपस्थिता ॥ ३४.९२। ०३४०९३१ तस्याश्च शङ्खलिखितौ स्मृतौ पुत्रावयोनिजौ । ०३४०९३२ उमा तु या मया तुभ्यं कीर्तिता वरवर्णिनी ॥ ३४.९३। ०३४०९४१ अथ तस्यास्तपोयोगात्त्रैलोक्यमखिलं तदा । ०३४०९४२ प्रधूपितमिहालक्ष्य वचस्तामहमब्रवम् ॥ ३४.९४। ०३४०९५१ देवि किं तपसा लोकांस्तापयिष्यसि शोभने । ०३४०९५२ त्वया सृष्टमिदं सर्वं मा कृत्वा तद्विनाशय ॥ ३४.९५। ०३४०९६१ त्वं हि धारयसे लोकानिमान्सर्वान्स्वतेजसा । ०३४०९६२ ब्रूहि किं ते जगन्मातः प्रार्थितं सम्प्रतीह नः ॥ ३४.९६। ०३४०९७० देव्युवाच ०३४०९७१ यदर्थं तपसो ह्यस्य चरणं मे पितामह । ०३४०९७२ त्वमेव तद्विजानीषे ततः पृच्छसि किं पुनः ॥ ३४.९७। ०३४०९८० ब्रह्मोवाच ०३४०९८१ ततस्तामब्रवं चाहं यदर्थं तप्यसे शुभे । ०३४०९८२ स त्वां स्वयमुपागम्य इहैव वरयिष्यति ॥ ३४.९८। ०३४०९९१ शर्व एव पतिः श्रेष्ठः सर्वलोकेश्वरेश्वरः । ०३४०९९२ वयं सदैव यस्येमे वश्या वै किङ्कराः शुभे ॥ ३४.९९। ०३४१००१ स देवदेवः परमेश्वरः स्वयम् । ०३४१००२ स्वयम्भुरायास्यति देवि ते ऽन्तिकम् । ०३४१००३ उदाररूपो विकृतादिरूपः । ०३४१००४ समानरूपो ऽपि न यस्य कस्यचित् ॥ ३४.१००। ०३४१०११ महेश्वरः पर्वतलोकवासी । ०३४१०१२ चराचरेशः प्रथमो ऽप्रमेयः । ०३४१०१३ विनेन्दुना हीन्द्रसमानवर्चसा । ०३४१०१४ विभीषणं रूपमिवास्थितो यः ॥ ३४.१०१। ०३५००१० ब्रह्मोवाच ०३५००११ ततस्तामब्रुवन्देवास्तदा गत्वा तु सुन्दरीम् । ०३५००१२ देवि शीघ्रेण कालेन धूर्जटिर्नीललोहितः ॥ ३५.१। ०३५००२१ स भर्ता तव देवेशो भविता मा तपः कृथाः । ०३५००२२ ततः प्रदक्षिणीकृत्य देवा विप्रा गिरेः सुताम् ॥ ३५.२। ०३५००३१ जग्मुश्चादर्शनं तस्याः सा चापि विरराम ह । ०३५००३२ सा देवी सूक्तमित्येवमुक्त्वा स्वस्याश्रमे शुभे ॥ ३५.३। ०३५००४१ द्वारि जातमशोकं च समुपाश्रित्य चास्थिता । ०३५००४२ अथागाच्चन्द्रतिलकस्त्रिदशार्तिहरो हरः ॥ ३५.४। ०३५००५१ विकृतं रूपमास्थाय ह्रस्वो बाहुक एव च । ०३५००५२ विभग्ननासिको भूत्वा कुब्जः केशान्तपिङ्गलः ॥ ३५.५। ०३५००६१ उवाच विकृतास्यश्च देवि त्वां वरयाम्यहम् । ०३५००६२ अथोमा योगसंसिद्धा ज्ञात्वा शङ्करमागतम् ॥ ३५.६। ०३५००७१ अन्तर्भावविशुद्धात्मा कृपानुष्ठानलिप्सया । ०३५००७२ तमुवाचार्घपाद्याभ्यां मधुपर्केण चैव ह ॥ ३५.७। ०३५००८१ सम्पूज्य सुमनोभिस्तं ब्राह्मणं ब्राह्मणप्रिया ॥ ३५.८। ०३५००९० देव्युवाच ०३५००९१ भगवन्न स्वतन्त्राहं पिता मे त्वग्रणीर्गृहे । ०३५००९२ स प्रभुर्मम दाने वै कन्याहं द्विजपुङ्गव ॥ ३५.९। ०३५०१०१ गत्वा याचस्व पितरं मम शैलेन्द्रमव्ययम् । ०३५०१०२ स चेद्ददाति मां विप्र तुभ्यं तदुचितं मम ॥ ३५.१०। ०३५०११० ब्रह्मोवाच ०३५०१११ ततः स भगवान्देवस्तथैव विकृतः प्रभुः । ०३५०११२ उवाच शैलराजानं सुतां मे यच्छ शैलराट् ॥ ३५.११। ०३५०१२१ स तं विकृतरूपेण ज्ञात्वा रुद्रमथाव्ययम् । ०३५०१२२ भीतः शापाच्च विमना इदं वचनमब्रवीत् ॥ ३५.१२। ०३५०१३० शैलेन्द्र उवाच ०३५०१३१ भगवन्नावमन्ये ऽहं ब्राह्मणान्भुवि देवताः । ०३५०१३२ मनीषितं तु यत्पूर्वं तच्छृणुष्व महामते ॥ ३५.१३। ०३५०१४१ स्वयंवरो मे दुहितुर्भविता विप्रपूजितः । ०३५०१४२ वरयेद्यं स्वयं तत्र स भर्तास्या भविष्यति ॥ ३५.१४। ०३५०१५१ तच्छ्रुत्वा शैलवचनं भगवान्वृषभध्वजः । ०३५०१५२ देव्याः समीपमागत्य इदमाह महामनाः ॥ ३५.१५। ०३५०१६० शिव उवाच ०३५०१६१ देवि पित्रा त्वनुज्ञातः स्वयंवर इति श्रुतिः । ०३५०१६२ तत्र त्वं वरयित्री यं स ते भर्ता भवेदिति ॥ ३५.१६। ०३५०१७१ तदापृच्छ्य गमिष्यामि दुर्लभां त्वां वरानने । ०३५०१७२ रूपवन्तं समुत्सृज्य वृणोष्यसदृशं कथम् ॥ ३५.१७। ०३५०१८० ब्रह्मोवाच ०३५०१८१ तेनोक्ता सा तदा तत्र भावयन्ती तदीरितम् । ०३५०१८२ भावं च रुद्रनिहितं प्रसादं मनसस्तथा ॥ ३५.१८। ०३५०१९१ सम्प्राप्योवाच देवेशं मा ते ऽभूद्बुद्धिरन्यथा । ०३५०१९२ अहं त्वां वरयिष्यामि नाद्भुतं तु कथञ्चन ॥ ३५.१९। ०३५०२०१ अथवा ते ऽस्ति सन्देहो मयि विप्र कथञ्चन । ०३५०२०२ इहैव त्वां महाभाग वरयामि मनोगतम् ॥ ३५.२०। ०३५०२१० ब्रह्मोवाच ०३५०२११ गृहीत्वा स्तबकं सा तु हस्ताभ्यां तत्र संस्थिता । ०३५०२१२ स्कन्धे शम्भोः समाधाय देवी प्राह वृतो ऽसि मे ॥ ३५.२१। ०३५०२२१ ततः स भगवान्देवस्तया देव्या वृतस्तदा । ०३५०२२२ उवाच तमशोकं वै वाचा सञ्जीवयन्निव ॥ ३५.२२। ०३५०२३० शिव उवाच ०३५०२३१ यस्मात्तव सुपुण्येन स्तबकेन वृतो ऽस्म्यहम् । ०३५०२३२ तस्मात्त्वं जरया त्यक्तस्त्वमरः सम्भविष्यसि ॥ ३५.२३। ०३५०२४१ कामरूपी कामपुष्पः कामदो दयितो मम । ०३५०२४२ सर्वाभरणपुष्पाढ्यः सर्वपुष्पफलोपगः ॥ ३५.२४। ०३५०२५१ सर्वान्नभक्षकश्चैव अमृतस्वाद एव च । ०३५०२५२ सर्वगन्धश्च देवानां भविष्यसि दृढप्रियः ॥ ३५.२५। ०३५०२६१ निर्भयः सर्वलोकेषु भविष्यसि सुनिर्वृतः । ०३५०२६२ आश्रमं वेदमत्यर्थं चित्रकूटेति विश्रुतम् ॥ ३५.२६। ०३५०२७१ यो हि यास्यति पुण्यार्थी सो ऽश्वमेधमवाप्स्यति । ०३५०२७२ यस्तु तत्र मृतश्चापि ब्रह्मलोकं स गच्छति ॥ ३५.२७। ०३५०२८१ यश्चात्र नियमैर्युक्तः प्राणान्सम्यक्परित्यजेत् । ०३५०२८२ स देव्यास्तपसा युक्तो महागणपतिर्भवेत् ॥ ३५.२८। ०३५०२९० ब्रह्मोवाच ०३५०२९१ एवमुक्त्वा तदा देव आपृच्छ्य हिमवत्सुताम् । ०३५०२९२ अन्तर्दधे जगत्स्रष्टा सर्वभूतप ईश्वरः ॥ ३५.२९। ०३५०३०१ सापि देवी गते तस्मिन्भगवत्यमितात्मनि । ०३५०३०२ तत एवोन्मुखी भूत्वा शिलायां सम्बभूव ह ॥ ३५.३०। ०३५०३११ उन्मुखी सा भवे तस्मिन्महेशे जगतां प्रभौ । ०३५०३१२ निशेव चन्द्ररहिता न बभौ विमनास्तदा ॥ ३५.३१। ०३५०३२१ अथ शुश्राव शब्दं च बालस्यार्तस्य शैलजा । ०३५०३२२ सरस्युदकसम्पूर्णे समीपे चाश्रमस्य च ॥ ३५.३२। ०३५०३३१ स कृत्वा बालरूपं तु देवदेवः स्वयं शिवः । ०३५०३३२ क्रीडाहेतोः सरोमध्ये ग्राहग्रस्तो ऽभवत्तदा ॥ ३५.३३। ०३५०३४१ योगमायां समास्थाय प्रपञ्चोद्भवकारणम् । ०३५०३४२ तद्रूपं सरसो मध्ये कृत्वैवं समभाषत ॥ ३५.३४। ०३५०३५० बाल उवाच ०३५०३५१ त्रातु मां कश्चिदित्याह ग्राहेण हृतचेतसम् । ०३५०३५२ धिक्कष्टं बाल एवाहमप्राप्तार्थमनोरथः ॥ ३५.३५। ०३५०३६१ प्रयामि निधनं वक्त्रे ग्राहस्यास्य दुरात्मनः । ०३५०३६२ शोचामि न स्वकं देहं ग्राहग्रस्तः सुदुःखितः ॥ ३५.३६। ०३५०३७१ यथा शोचामि पितरं मातरं च तपस्विनीम् । ०३५०३७२ ग्राहगृहीतं मां श्रुत्वा प्राप्तं निधनमुत्सुकौ ॥ ३५.३७। ०३५०३८१ प्रियपुत्रावेकपुत्रौ प्राणान्नूनं त्यजिष्यतः । ०३५०३८२ अहो बत सुकष्टं वै यो ऽहं बालो ऽकृताश्रमः । ०३५०३८३ अन्तर्ग्राहेण ग्रस्तस्तु यास्यामि निधनं किल ॥ ३५.३८। ०३५०३९० ब्रह्मोवाच ०३५०३९१ श्रुत्वा तु देवी तं नादं विप्रस्यार्तस्य शोभना । ०३५०३९२ उत्थाय प्रस्थिता तत्र यत्र तिष्ठत्यसौ द्विजः ॥ ३५.३९। ०३५०४०१ सापश्यदिन्दुवदना बालकं चारुरूपिणम् । ०३५०४०२ ग्राहस्य मुखमापन्नं वेपमानमवस्थितम् ॥ ३५.४०। ०३५०४११ सो ऽपि ग्राहवरः श्रीमान्दृष्ट्वा देवीमुपागताम् । ०३५०४१२ तं गृहीत्वा द्रुतं यातो मध्यं सरस एव हि ॥ ३५.४१। ०३५०४२१ स कृष्यमाणस्तेजस्वी नादमार्तं तदाकरोत् । ०३५०४२२ अथाह देवी दुःखार्ता बालं दृष्ट्वा ग्रहावृतम् ॥ ३५.४२। ०३५०४३० पार्वत्युवाच ०३५०४३१ ग्राहराज महासत्त्व बालकं ह्येकपुत्रकम् । ०३५०४३२ विमुञ्चेमं महादंष्ट्र क्षिप्रं भीमपराक्रम ॥ ३५.४३। ०३५०४४० ग्राह उवाच ०३५०४४१ यो देवि दिवसे षष्ठे प्रथमं समुपैति माम् । ०३५०४४२ स आहारो मम पुरा विहितो लोककर्तृभिः ॥ ३५.४४। ०३५०४५१ सो ऽयं मम महाभागे षष्ठे ऽहनि गिरीन्द्रजे । ०३५०४५२ ब्रह्मणा प्रेरितो नूनं नैनं मोक्ष्ये कथञ्चन ॥ ३५.४५। ०३५०४६० देव्युवाच ०३५०४६१ यन्मया हिमवच्छृङ्गे चरितं तप उत्तमम् । ०३५०४६२ तेन बालमिमं मुञ्च ग्राहराज नमो ऽस्तु ते ॥ ३५.४६। ०३५०४७० ग्राह उवाच ०३५०४७१ मा व्ययस्तपसो देवि भृशं बाले शुभानने । ०३५०४७२ यद्ब्रवीमि कुरु श्रेष्ठे तथा मोक्षमवाप्स्यति ॥ ३५.४७। ०३५०४८० देव्युवाच ०३५०४८१ ग्राहाधिप वदस्वाशु यत्सतामविगर्हितम् । ०३५०४८२ तत्कृतं नात्र सन्देहो यतो मे ब्राह्मणाः प्रियाः ॥ ३५.४८। ०३५०४९० ग्राह उवाच ०३५०४९१ यत्कृतं वै तपः किञ्चिद्भवत्या स्वल्पमुत्तमम् । ०३५०४९२ तत्सर्वं मे प्रयच्छाशु ततो मोक्षमवाप्स्यति ॥ ३५.४९। ०३५०५०० देव्युवाच ०३५०५०१ जन्मप्रभृति यत्पुण्यं महाग्राह कृतं मया । ०३५०५०२ तत्ते सर्वं मया दत्तं बालं मुञ्च महाग्रह ॥ ३५.५०। ०३५०५१० ब्रह्मोवाच ०३५०५११ प्रजज्वाल ततो ग्राहस्तपसा तेन भूषितः । ०३५०५१२ आदित्य इव मध्याह्ने दुर्निरीक्षस्तदाभवत् । ०३५०५१३ उवाच चैवं तुष्टात्मा देवीं लोकस्य धारिणीम् ॥ ३५.५१। ०३५०५२० ग्राह उवाच ०३५०५२१ देवि किं कृत्यमेतत्ते सुनिश्चित्य महाव्रते । ०३५०५२२ तपसो ऽप्यर्जनं दुःखं तस्य त्यागो न शस्यते ॥ ३५.५२। ०३५०५३१ गृहाण तप एव त्वं बालं चेमं सुमध्यमे । ०३५०५३२ तुष्टो ऽस्मि ते विप्रभक्त्या वरं तस्माद्ददामि ते । ०३५०५३३ सा त्वेवमुक्ता ग्राहेण उवाचेदं महाव्रता ॥ ३५.५३। ०३५०५४० देव्युवाच ०३५०५४१ देहेनापि मया ग्राह रक्ष्यो विप्रः प्रयत्नतः । ०३५०५४२ तपः पुनर्मया प्राप्यं न प्राप्यो ब्राह्मणः पुनः ॥ ३५.५४। ०३५०५५१ सुनिश्चित्य महाग्राह कृतं बालस्य मोक्षणम् । ०३५०५५२ न विप्रेभ्यस्तपः श्रेष्ठं श्रेष्ठा मे ब्राह्मणा मताः ॥ ३५.५५। ०३५०५६१ दत्त्वा चाहं न गृह्णामि ग्राहेन्द्र विहितं हि ते । ०३५०५६२ नहि कश्चिन्नरो ग्राह प्रदत्तं पुनराहरेत् ॥ ३५.५६। ०३५०५७१ दत्तमेतन्मया तुभ्यं नाददानि हि तत्पुनः । ०३५०५७२ त्वय्येव रमतामेतद्बालश्चायं विमुच्यताम् ॥ ३५.५७। ०३५०५८० ब्रह्मोवाच ०३५०५८१ तथोक्तस्तां प्रशस्याथ मुक्त्वा बालं नमस्य च । ०३५०५८२ देवीमादित्यावभासस्तत्रैवान्तरधीयत ॥ ३५.५८। ०३५०५९१ बालो ऽपि सरसस्तीरे मुक्तो ग्राहेण वै तदा । ०३५०५९२ स्वप्नलब्ध इवार्थौघस्तत्रैवान्तरधीयत ॥ ३५.५९। ०३५०६०१ तपसो ऽपचयं मत्वा देवी हिमगिरीन्द्रजा । ०३५०६०२ भूय एव तपः कर्तुमारेभे नियमस्थिता ॥ ३५.६०। ०३५०६११ कर्तुकामां तपो भूयो ज्ञात्वा तां शङ्करः स्वयम् । ०३५०६१२ प्रोवाच वचनं विप्रा मा कृथास्तप इत्युत ॥ ३५.६१। ०३५०६२१ मह्यमेतत्तपो देवि त्वया दत्तं महाव्रते । ०३५०६२२ तत्तेनैवाक्षयं तुभ्यं भविष्यति सहस्रधा ॥ ३५.६२। ०३५०६३१ इति लब्ध्वा वरं देवी तपसो ऽक्षयमुत्तमम् । ०३५०६३२ स्वयंवरमुदीक्षन्ती तस्थौ प्रीता मुदा युता ॥ ३५.६३। ०३५०६४१ इदं पठेद्यो हि नरः सदैव । ०३५०६४२ बालानुभावाचरणं हि शम्भोः । ०३५०६४३ स देहभेदं समवाप्य पूतो । ०३५०६४४ भवेद्गणेशस्तु कुमारतुल्यः ॥ ३५.६४। ०३६००१० ब्रह्मोवाच ०३६००११ विस्तृते हिमवत्पृष्ठे विमानशतसङ्कुले । ०३६००१२ अभवत्स तु कालेन शैलपुत्र्याः स्वयंवरः ॥ ३६.१। ०३६००२१ अथ पर्वतराजो ऽसौ हिमवान्ध्यानकोविदः । ०३६००२२ दुहितुर्देवदेवेन ज्ञात्वा तदभिमन्त्रितम् ॥ ३६.२। ०३६००३१ जानन्नपि महाशैलः समयारक्षणेप्सया । ०३६००३२ स्वयंवरं ततो देव्याः सर्वलोकेष्वघोषयत् ॥ ३६.३। ०३६००४१ देवदानवसिद्धानां सर्वलोकनिवासिनाम् । ०३६००४२ वृणुयात्परमेशानं समक्षं यदि मे सुता ॥ ३६.४। ०३६००५१ तदेव सुकृतं श्लाघ्यं ममाभ्युदयसम्मतम् । ०३६००५२ इति सञ्चिन्त्य शैलेन्द्रः कृत्वा हृदि महेश्वरम् ॥ ३६.५। ०३६००६१ आब्रह्मकेषु देवेषु देव्याः शैलेन्द्रसत्तमः । ०३६००६२ कृत्वा रत्नाकुलं देशं स्वयंवरमचीकरत् ॥ ३६.६। ०३६००७१ अथैवमाघोषितमात्र एव । ०३६००७२ स्वयंवरे तत्र नगेन्द्रपुत्र्याः । ०३६००७३ देवादयः सर्वजगन्निवासाः । ०३६००७४ समाययुस्तत्र गृहीतवेशाः ॥ ३६.७। ०३६००८१ प्रफुल्लपद्मासनसन्निविष्टः । ०३६००८२ सिद्धैर्वृतो योगिभिरप्रमेयैः । ०३६००८३ विज्ञापितस्तेन महीध्रराज्ञा । ०३६००८४ आगतस्तदाहं त्रिदिवैरुपेतः ॥ ३६.८। ०३६००९१ अक्ष्णां सहस्रं सुरराट्स बिभ्रद् । ०३६००९२ दिव्याङ्गहारस्रगुदाररूपः । ०३६००९३ ऐरावतं सर्वगजेन्द्रमुख्यम् । ०३६००९४ स्रवन्मदासारकृतप्रवाहम् ॥ ३६.९। ०३६०१०१ आरुह्य सर्वामरराट्स वज्रम् । ०३६०१०२ बिभ्रत्समागात्पुरतः सुराणाम् । ०३६०१०३ तेजःप्रभावाधिकतुल्यरूपी । ०३६०१०४ प्रोद्भासयन्सर्वदिशो विवस्वान् ॥ ३६.१०। ०३६०१११ हैमं विमानं सवलत्पताकम् । ०३६०११२ आरूढ आगात्त्वरितं जवेन । ०३६०११३ मणिप्रदीप्तोज्ज्वलकुण्डलश्च । ०३६०११४ वह्न्यर्कतेजःप्रतिमे विमाने ॥ ३६.११। ०३६०१२१ समभ्यगात्कश्यपसूनुरेक । ०३६०१२२ आदित्यमध्याद्भगनामधारी । ०३६०१२३ पीनाङ्गयष्टिः सुकृताङ्गहार- । ०३६०१२४ तेजोबलाज्ञासदृशप्रभावः ॥ ३६.१२। ०३६०१३१ दण्डं समागृह्य कृतान्त आगाद् । ०३६०१३२ आरुह्य भीमं महिषं जवेन । ०३६०१३३ महामहीध्रोच्छ्रयपीनगात्रः । ०३६०१३४ स्वर्णादिरत्नाञ्चितचारुवेशः ॥ ३६.१३। ०३६०१४१ समीरणः सर्वजगद्विभर्ता । ०३६०१४२ विमानमारुह्य समभ्यगाद्धि । ०३६०१४३ सन्तापयन्सर्वसुरासुरेशांस् । ०३६०१४४ तेजोधिकस्तेजसि सन्निविष्टः ॥ ३६.१४। ०३६०१५१ वह्निः समभ्येत्य सुरेन्द्रमध्ये । ०३६०१५२ ज्वलन्प्रतस्थौ वरवेशधारी । ०३६०१५३ नानामणिप्रज्वलिताङ्गयष्टिर् । ०३६०१५४ जगद्वरं दिव्यविमानमग्र्यम् ॥ ३६.१५। ०३६०१६१ आरुह्य सर्वद्रविणाधिपेशः । ०३६०१६२ स राजराजस्त्वरितो ऽभ्यगाच्च । ०३६०१६३ आप्याययन्सर्वसुरासुरेशान् । ०३६०१६४ कान्त्या च वेशेन च चारुरूपः ॥ ३६.१६। ०३६०१७१ ज्वलन्महारत्नविचित्ररूपम् । ०३६०१७२ विमानमारुह्य शशी समायात् । ०३६०१७३ श्यामाङ्गयष्टिः सुविचित्रवेशः । ०३६०१७४ सर्वाङ्ग आबद्धसुगन्धिमाल्यः ॥ ३६.१७। ०३६०१८१ तार्क्ष्यं समारुह्य महीध्रकल्पम् । ०३६०१८२ गदाधरो ऽसौ त्वरितः समेतः । ०३६०१८३ अथाश्विनौ चापि भिषग्वरौ द्वाव् । ०३६०१८४ एकं विमानं त्वरयाधिरुह्य ॥ ३६.१८। ०३६०१९१ मनोहरौ प्रज्वलचारुवेशौ । ०३६०१९२ आजग्मतुर्देववरौ सुवीरौ । ०३६०१९३ सहस्रनागः स्फुरदग्निवर्णम् । ०३६०१९४ बिभ्रत्तदानीं ज्वलनार्कतेजाः ॥ ३६.१९। ०३६०२०१ सार्धं स नागैरपरैर्महात्मा । ०३६०२०२ विमानमारुह्य समभ्यगाच्च । ०३६०२०३ दितेः सुतानां च महासुराणाम् । ०३६०२०४ वह्न्यर्कशक्रानिलतुल्यभासाम् ॥ ३६.२०। ०३६०२११ वरानुरूपं प्रविधाय वेशम् । ०३६०२१२ वृन्दं समागात्पुरतः सुराणाम् । ०३६०२१३ गन्धर्वराजः स च चारुरूपी । ०३६०२१४ दिव्याङ्गदो दिव्यविमानचारी ॥ ३६.२१। ०३६०२२१ गन्धर्वसङ्घैः सहितो ऽप्सरोभिः । ०३६०२२२ शक्राज्ञया तत्र समाजगाम । ०३६०२२३ अन्ये च देवास्त्रिदिवात्तदानीम् । ०३६०२२४ पृथक्पृथक्चारुगृहीतवेशाः ॥ ३६.२२। ०३६०२३१ आजग्मुरारुह्य विमानपृष्ठम् । ०३६०२३२ गन्धर्वयक्षोरगकिन्नराश्च । ०३६०२३३ शचीपतिस्तत्र सुरेन्द्रमध्ये । ०३६०२३४ रराज राजाधिकलक्ष्यमूर्तिः ॥ ३६.२३। ०३६०२४१ आज्ञाबलैश्वर्यकृतप्रमोदः । ०३६०२४२ स्वयंवरं तं समलञ्चकार । ०३६०२४३ हेतुस्त्रिलोकस्य जगत्प्रसूतेर् । ०३६०२४४ माता च तेषां ससुरासुराणाम् ॥ ३६.२४। ०३६०२५१ पत्नी च शम्भोः पुरुषस्य धीमतो । ०३६०२५२ गीता पुराणे प्रकृतिः परा या । ०३६०२५३ दक्षस्य कोपाद्धिमवद्गृहं सा । ०३६०२५४ कार्यार्थमायात्त्रिदिवौकसां हि ॥ ३६.२५। ०३६०२६१ विमानपृष्ठे मणिहेमजुष्टे । ०३६०२६२ स्थिता वलच्चामरवीजिताङ्गी । ०३६०२६३ सर्वर्तुपुष्पां सुसुगन्धमालाम् । ०३६०२६४ प्रगृह्य देवी प्रसभं प्रतस्थे ॥ ३६.२६। ०३६०२७० ब्रह्मोवाच ०३६०२७१ मालां प्रगृह्य देव्यां तु स्थितायां देवसंसदि । ०३६०२७२ शक्राद्यैरागतैर्देवैः स्वयंवर उपागते ॥ ३६.२७। ०३६०२८१ देव्या जिज्ञासया शम्भुर्भूत्वा पञ्चशिखः शिशुः । ०३६०२८२ उत्सङ्गतलसंसुप्तो बभूव सहसा विभुः ॥ ३६.२८। ०३६०२९१ ततो ददर्श तं देवी शिशुं पञ्चशिखं स्थितम् । ०३६०२९२ ज्ञात्वा तं समवध्यानाज्जगृहे प्रीतिसंयुता ॥ ३६.२९। ०३६०३०१ अथ सा शुद्धसङ्कल्पा काङ्क्षितं प्राप्य सत्पतिम् । ०३६०३०२ निवृत्ता च तदा तस्थौ कृत्वा सा हृदि तं विभुम् ॥ ३६.३०। ०३६०३११ ततो दृष्ट्वा शिशुं देवा देव्या उत्सङ्गवर्तिनम् । ०३६०३१२ को ऽयमत्रेति सम्मन्त्र्य चुक्रुशुर्भृशमोहिताः ॥ ३६.३१। ०३६०३२१ वज्रमाहारयत्तस्य बाहुमुत्क्षिप्य वृत्रहा । ०३६०३२२ स बाहुरुत्थितस्तस्य तथैव समतिष्ठत ॥ ३६.३२। ०३६०३३१ स्तम्भितः शिशुरूपेण देवदेवेन शम्भुना । ०३६०३३२ वज्रं क्षेप्तुं न शशाक वृत्रहा चलितुं न च ॥ ३६.३३। ०३६०३४१ भगो नाम ततो देव आदित्यः काश्यपो बली । ०३६०३४२ उत्क्षिप्य आयुधं दीप्तं छेत्तुमिच्छन्विमोहितः ॥ ३६.३४। ०३६०३५१ तस्यापि भगवान्बाहुं तथैवास्तम्भयत्तदा । ०३६०३५२ बलं तेजश्च योगश्च तथैवास्तम्भयद्विभुः ॥ ३६.३५। ०३६०३६१ शिरः प्रकम्पयन्विष्णुः शङ्करं समवैक्षत । ०३६०३६२ अथ तेषु स्थितेष्वेवं मन्युमत्सु सुरेषु च ॥ ३६.३६। ०३६०३७१ अहं परमसंविग्नो ध्यानमास्थाय सादरम् । ०३६०३७२ बुद्धवान्देवदेवेशमुमोत्सङ्गे समास्थितम् ॥ ३६.३७। ०३६०३८१ ज्ञात्वाहं परमेशानं शीघ्रमुत्थाय सादरम् । ०३६०३८२ ववन्दे चरणं शम्भोः स्तुतवांस्तमहं द्विजाः ॥ ३६.३८। ०३६०३९१ पुराणैः सामसङ्गीतैः पुण्याख्यैर्गुह्यनामभिः । ०३६०३९२ अजस्त्वमजरो देवः स्रष्टा विभुः परापरम् ॥ ३६.३९। ०३६०४०१ प्रधानं पुरुषो यस्त्वं ब्रह्म ध्येयं तदक्षरम् । ०३६०४०२ अमृतं परमात्मा च ईश्वरः कारणं महत् ॥ ३६.४०। ०३६०४११ ब्रह्मसृक्प्रकृतेः स्रष्टा सर्वकृत्प्रकृतेः परः । ०३६०४१२ इयं च प्रकृतिर्देवी सदा ते सृष्टिकारणम् ॥ ३६.४१। ०३६०४२१ पत्नीरूपं समास्थाय जगत्कारणमागता । ०३६०४२२ नमस्तुभ्यं महादेव देव्या वै सहिताय च ॥ ३६.४२। ०३६०४३१ प्रसादात्तव देवेश नियोगाच्च मया प्रजाः । ०३६०४३२ देवाद्यास्तु इमाः सृष्टा मूढास्त्वद्योगमायया ॥ ३६.४३। ०३६०४४१ कुरु प्रसादमेतेषां यथापूर्वं भवन्त्विमे । ०३६०४४२ तत एवमहं विप्रा विज्ञाप्य परमेश्वरम् ॥ ३६.४४। ०३६०४५१ स्तम्भितान्सर्वदेवांस्तानिदं चाहं तदोक्तवान् । ०३६०४५२ मूढाश्च देवताः सर्वा नैनं बुध्यत शङ्करम् ॥ ३६.४५। ०३६०४६१ गच्छध्वं शरणं शीघ्रमेनमेव महेश्वरम् । ०३६०४६२ सार्धं मयैव देवेशं परमात्मानमव्ययम् ॥ ३६.४६। ०३६०४७१ ततस्ते स्तम्भिताः सर्वे तथैव त्रिदिवौकसः । ०३६०४७२ प्रणेमुर्मनसा शर्वं भावशुद्धेन चेतसा ॥ ३६.४७। ०३६०४८१ अथ तेषां प्रसन्नो ऽभूद्देवदेवो महेश्वरः । ०३६०४८२ यथापूर्वं चकाराशु देवतानां तनूस्तदा ॥ ३६.४८। ०३६०४९१ तत एवं प्रवृत्ते तु सर्वदेवनिवारणे । ०३६०४९२ वपुश्चकार देवेशस्त्र्यक्षं परममद्भुतम् ॥ ३६.४९। ०३६०५०१ तेजसा तस्य ते ध्वस्ताश्चक्षुः सर्वे न्यमीलयन् । ०३६०५०२ तेभ्यः स परमं चक्षुः स्ववपुर्दृष्टिशक्तिमत् ॥ ३६.५०। ०३६०५११ प्रादात्परमदेवेशमपश्यंस्ते तदा विभुम् । ०३६०५१२ ते दृष्ट्वा परमेशानं तृतीयेक्षणधारिणम् ॥ ३६.५१। ०३६०५२१ शक्राद्या मेनिरे देवाः सर्व एव सुरेश्वराः । ०३६०५२२ तस्य देवी तदा हृष्टा समक्षं त्रिदिवौकसाम् ॥ ३६.५२। ०३६०५३१ पादयोः स्थापयामास स्रङ्मालाममितद्युतिः । ०३६०५३२ साधु साध्विति ते होचुः सर्वे देवाः पुनर्विभुम् ॥ ३६.५३। ०३६०५४१ सह देव्या नमश्चक्रुः शिरोभिर्भूतलाश्रितैः । ०३६०५४२ अथास्मिन्नन्तरे विप्रास्तमहं दैवतैः सह ॥ ३६.५४। ०३६०५५१ हिमवन्तं महाशैलमुक्तवांश्च महाद्युतिम् । ०३६०५५२ श्लाघ्यः पूज्यश्च वन्द्यश्च सर्वेषां त्वं महानसि ॥ ३६.५५। ०३६०५६१ शर्वेण सह सम्बन्धो यस्य ते ऽभ्युदयो महान् । ०३६०५६२ क्रियतां चारुरुद्वाहः किमर्थं स्थीयते परम् । ०३६०५६३ ततः प्रणम्य हिमवांस्तदा मां प्रत्यभाषत ॥ ३६.५६। ०३६०५७० हिमवानुवाच ०३६०५७१ त्वमेव कारणं देव यस्य सर्वोदये मम । ०३६०५७२ प्रसादः सहसोत्पन्नो हेतुश्चापि त्वमेव हि । ०३६०५७३ उद्वाहस्तु यदा यादृक्तद्विधत्स्व पितामह ॥ ३६.५७। ०३६०५८० ब्रह्मोवाच ०३६०५८१ तत एवं वचः श्रुत्वा गिरिराजस्य भो द्विजाः । ०३६०५८२ उद्वाहः क्रियतां देव इत्यहं चोक्तवान्विभुम् ॥ ३६.५८। ०३६०५९१ मामाह शङ्करो देवो यथेष्टमिति लोकपः । ०३६०५९२ तत्क्षणाच्च ततो विप्रा अस्माभिर्निर्मितं पुरम् ॥ ३६.५९। ०३६०६०१ उद्वाहार्थं महेशस्य नानारत्नोपशोभितम् । ०३६०६०२ रत्नानि मणयश्चित्रा हेममौक्तिकमेव च ॥ ३६.६०। ०३६०६११ मूर्तिमन्त उपागम्य अलञ्चक्रुः पुरोत्तमम् । ०३६०६१२ चित्रा मारकती भूमिः सुवर्णस्तम्भशोभिता ॥ ३६.६१। ०३६०६२१ भास्वत्स्फटिकभित्तिश्च मुक्ताहारप्रलम्बिता । ०३६०६२२ तस्मिन्द्वारि पुरे रम्य उद्वाहार्थं विनिर्मिता ॥ ३६.६२। ०३६०६३१ शुशुभे देवदेवस्य महेशस्य महात्मनः । ०३६०६३२ सोमादित्यौ समं तत्र तापयन्तौ महामणी ॥ ३६.६३। ०३६०६४१ सौरभेयं मनोरम्यं गन्धमादाय मारुतः । ०३६०६४२ प्रववौ सुखसंस्पर्शो भवभक्तिं प्रदर्शयन् ॥ ३६.६४। ०३६०६५१ समुद्रास्तत्र चत्वारः शक्राद्याश्च सुरोत्तमाः । ०३६०६५२ देवनद्यो महानद्यः सिद्धा मुनय एव च ॥ ३६.६५। ०३६०६६१ गन्धर्वाप्सरसः सर्वे नागा यक्षाः सराक्षसाः । ०३६०६६२ औदकाः खेचराश्चान्ये किन्नरा देवचारणाः ॥ ३६.६६। ०३६०६७१ तुम्बुरुर्नारदो हाहा हूहूश्चैव तु सामगाः । ०३६०६७२ रम्याण्यादाय वाद्यानि तत्राजग्मुस्तदा पुरम् ॥ ३६.६७। ०३६०६८१ ऋषयस्तु कथास्तत्र वेदगीतास्तपोधनाः । ०३६०६८२ पुण्यान्वैवाहिकान्मन्त्राञ्जेपुः संहृष्टमानसाः ॥ ३६.६८। ०३६०६९१ जगतो मातरः सर्वा देवकन्याश्च कृत्स्नशः । ०३६०६९२ गायन्ति हर्षिताः सर्वा उद्वाहे परमेष्ठिनः ॥ ३६.६९। ०३६०७०१ ऋतवः षट्समं तत्र नानागन्धसुखावहाः । ०३६०७०२ उद्वाहः शङ्करस्येति मूर्तिमन्त उपस्थिताः ॥ ३६.७०। ०३६०७११ नीलजीमूतसङ्काशैर्मन्त्रध्वनिप्रहर्षिभिः । ०३६०७१२ केकायमानैः शिखिभिर्नृत्यमानैश्च सर्वशः ॥ ३६.७१। ०३६०७२१ विलोलपिङ्गलस्पष्ट-विद्युल्लेखाविहासिता । ०३६०७२२ कुमुदापीडशुक्लाभिर्बलाकाभिश्च शोभिता ॥ ३६.७२। ०३६०७३१ प्रत्यग्रसञ्जातशिलीन्ध्रकन्दली- । ०३६०७३२ लताद्रुमाद्युद्गतपल्लवा शुभा । ०३६०७३३ शुभाम्बुधाराप्रणयप्रबोधितैर् । ०३६०७३४ महालसैर्भेकगणैश्च नादिता ॥ ३६.७३। ०३६०७४१ प्रियेषु मानोद्धतमानसानाम् । ०३६०७४२ मनस्विनीनामपि कामिनीनाम् । ०३६०७४३ मयूरकेकाभिरुतैः क्षणेन । ०३६०७४४ मनोहरैर्मानविभङ्गहेतुभिः ॥ ३६.७४। ०३६०७५१ तथा विवर्णोज्ज्वलचारुमूर्तिना । ०३६०७५२ शशाङ्कलेखाकुटिलेन सर्वतः । ०३६०७५३ पयोदसङ्घातसमीपवर्तिना । ०३६०७५४ महेन्द्रचापेन भृशं विराजिता ॥ ३६.७५। ०३६०७६१ विचित्रपुष्पाम्बुभवैः सुगन्धिभिर् । ०३६०७६२ घनाम्बुसम्पर्कतया सुशीतलैः । ०३६०७६३ विकम्पयन्ती पवनैर्मनोहरैः । ०३६०७६४ सुराङ्गनानामलकावलीः शुभाः ॥ ३६.७६। ०३६०७७१ गर्जत्पयोदस्थगितेन्दुबिम्बा । ०३६०७७२ नवाम्बुसिक्तोदकचारुदूर्वा । ०३६०७७३ निरीक्षिता सादरमुत्सुकाभिर् । ०३६०७७४ निश्वासधूम्रं पथिकाङ्गनाभिः ॥ ३६.७७। ०३६०७८१ हंसनूपुरशब्दाढ्या समुन्नतपयोधरा । ०३६०७८२ चलद्विद्युल्लताहारा स्पष्टपद्मविलोचना ॥ ३६.७८। ०३६०७९१ असितजलदधीरध्वानवित्रस्तहंसा । ०३६०७९२ विमलसलिलधारोत्पातनम्रोत्पलाग्रा । ०३६०७९३ सुरभिकुसुमरेणुकॢप्तसर्वाङ्गशोभा । ०३६०७९४ गिरिदुहितृविवाहे प्रावृडाविर्बभूव ॥ ३६.७९। ०३६०८०१ मेघकञ्चुकनिर्मुक्ता पद्मकोशोद्भवस्तनी । ०३६०८०२ हंसनूपुरनिह्रादा सर्वसस्यदिगन्तरा ॥ ३६.८०। ०३६०८११ विस्तीर्णपुलिनश्रोणी कूजत्सारसमेखला । ०३६०८१२ प्रफुल्लेन्दीवरश्याम-विलोचनमनोहरा ॥ ३६.८१। ०३६०८२१ पक्वबिम्बाधरपुटा कुन्ददन्तप्रहासिनी । ०३६०८२२ नवश्यामलताश्याम-रोमराजिपुरस्कृता ॥ ३६.८२। ०३६०८३१ चन्द्रांशुहारवर्गेण कण्ठोरस्थलगामिना । ०३६०८३२ प्रह्लादयन्ती चेतांसि सर्वेषां त्रिदिवौकसाम् ॥ ३६.८३। ०३६०८४१ समदालिकुलोद्गीत-मधुरस्वरभाषिणी । ०३६०८४२ चलत्कुमुदसङ्घात-चारुकुण्डलशोभिनी ॥ ३६.८४। ०३६०८५१ रक्ताशोकप्रशाखोत्थ-पल्लवाङ्गुलिधारिणी । ०३६०८५२ तत्पुष्पसञ्चयमयैर्वासोभिः समलङ्कृता ॥ ३६.८५। ०३६०८६१ रक्तोत्पलाग्रचरणा जातीपुष्पनखावली । ०३६०८६२ कदलीस्तम्भवामोरूः शशाङ्कवदना तथा ॥ ३६.८६। ०३६०८७१ सर्वलक्षणसम्पन्ना सर्वालङ्कारभूषिता । ०३६०८७२ प्रेम्णा स्पृशति कान्तेव सानुरागा मनोरमा ॥ ३६.८७। ०३६०८८१ निर्मुक्तासितमेघकञ्चुकपटा पूर्णेन्दुबिम्बानना । ०३६०८८२ नीलाम्भोजविलोचना रविकरप्रोद्भिन्नपद्मस्तनी । ०३६०८८३ नानापुष्परजःसुगन्धिपवनप्रह्रादनी चेतसाम् । ०३६०८८४ तत्रासीत्कलहंसनूपुररवा देव्या विवाहे शरत् ॥ ३६.८८। ०३६०८९१ अत्यर्थशीतलाम्भोभिः प्लावयन्तौ दिशः सदा । ०३६०८९२ ऋतू हेमन्तशिशिरौ आजग्मतुरतिद्युती ॥ ३६.८९। ०३६०९०१ ताभ्यामृतुभ्यां सम्प्राप्तो हिमवान्स नगोत्तमः । ०३६०९०२ प्रालेयचूर्णवर्षिभ्यां क्षिप्रं रौप्यहरो बभौ ॥ ३६.९०। ०३६०९११ तेन प्रालेयवर्षेण घनेनैव हिमालयः । ०३६०९१२ अगाधेन तदा रेजे क्षीरोद इव सागरः ॥ ३६.९१। ०३६०९२१ ऋतुपार्ययसम्प्राप्तो बभूव स महागिरिः । ०३६०९२२ साधूपचारात्सहसा कृतार्थ इव दुर्जनः ॥ ३६.९२। ०३६०९३१ प्रालेयपटलच्छन्नैः शृङ्गैस्तु शुशुभे नगः । ०३६०९३२ छत्त्रैरिव महाभागैः पाण्डरैः पृथिवीपतिः ॥ ३६.९३। ०३६०९४१ मनोभवोद्रेककराः सुराणाम् । ०३६०९४२ सुराङ्गनानां च मुहुः समीराः । ०३६०९४३ स्वच्छाम्बुपूर्णाश्च तथा नलिन्यः । ०३६०९४४ पद्मोत्पलानां कुसुमैरुपेताः ॥ ३६.९४। ०३६०९५१ विवाहे गुरुकन्याया वसन्तः समगादृतुः ॥ ३६.९५। ०३६०९६१ ईषत्समुद्भिन्नपयोधराग्रा । ०३६०९६२ नार्यो यथा रम्यतरा बभूवुः । ०३६०९६३ नात्युष्णशीतानि पयःसरांसि । ०३६०९६४ किञ्जल्कचूर्णैः कपिलीकृतानि । ०३६०९६५ चक्राह्वयुग्मैरुपनादितानि । ०३६०९६६ ययुः प्रहृष्टाः सुरदन्तिमुख्याः ॥ ३६.९६। ०३६०९७१ प्रियङ्गूश्चूततरवश्चूतांश्चापि प्रियङ्गवः । ०३६०९७२ तर्जयन्त इवान्योन्यं मञ्जरीभिश्चकाशिरे ॥ ३६.९७। ०३६०९८१ हिमशृङ्गेषु शुक्लेषु तिलकाः कुसुमोत्कराः । ०३६०९८२ शुशुभुः कार्यमुद्दिश्य वृद्धा इव समागताः ॥ ३६.९८। ०३६०९९१ फुल्लाशोकलतास्तत्र रेजिरे शालसंश्रिताः । ०३६०९९२ कामिन्य इव कान्तानां कण्ठालम्बितबाहवः ॥ ३६.९९। ०३६१००१ तस्मिन्नृतौ शुभ्रकदम्बनीपास् । ०३६१००२ तालाः स्तमालाः सरलाः कपित्थाः ॥ ३६.१००। ०३६१०११ अशोकसर्जार्जुनकोविदाराः । ०३६१०१२ पुन्नागनागेश्वरकर्णिकाराः । ०३६१०१३ लवङ्गतालागुरुसप्तपर्णा । ०३६१०१४ न्यग्रोधशोभाञ्जननारिकेलाः ॥ ३६.१०१। ०३६१०२१ वृक्षास्तथान्ये फलपुष्पवन्तो । ०३६१०२२ दृश्या बभूवुः सुमनोहराङ्गाः । ०३६१०२३ जलाशयाश्चैव सुवर्णतोयाश् । ०३६१०२४ चक्राङ्गकारण्डवहंसजुष्टाः ॥ ३६.१०२। ०३६१०३१ कोयष्टिदात्यूहबलाकयुक्ता । ०३६१०३२ दृश्यास्तु पद्मोत्पलमीनपूर्णाः । ०३६१०३३ खगाश्च नानाविधभूषिताङ्गा । ०३६१०३४ दृश्यास्तु वृक्षेषु सुचित्रपक्षाः ॥ ३६.१०३। ०३६१०४१ क्रीडासु युक्तानथ तर्जयन्तः । ०३६१०४२ कुर्वन्ति शब्दं मदनेरिताङ्गाः । ०३६१०४३ तस्मिन्गिरावद्रिसुताविवाहे । ०३६१०४४ ववुश्च वाताः सुखशीतलाङ्गाः ॥ ३६.१०४। ०३६१०५१ पुष्पाणि शुभ्राण्यपि पातयन्तः । ०३६१०५२ शनैर्नगेभ्यो मलयाद्रिजाताः । ०३६१०५३ तथैव सर्वे ऋतवश्च पुण्याश् । ०३६१०५४ चकाशिरे ऽन्योन्यविमिश्रिताङ्गाः ॥ ३६.१०५। ०३६१०६१ येषां सुलिङ्गानि च कीर्तितानि । ०३६१०६२ ते तत्र आसन्सुमनोज्ञरूपाः ॥ ३६.१०६। ०३६१०७१ समदालिकुलोद्गीत-शिलाकुसुमसञ्चयैः । ०३६१०७२ परस्परं हि मालत्यो भावयन्त्यो विरेजिरे ॥ ३६.१०७। ०३६१०८१ नीलानि नीलाम्बुरुहैः पयांसि । ०३६१०८२ गौराणि गौरैश्च मृणालदण्डैः । ०३६१०८३ रक्तैश्च रक्तानि भृशं कृतानि । ०३६१०८४ मत्तद्विरेफावलिजुष्टपत्त्रैः ॥ ३६.१०८। ०३६१०९१ हैमानि विस्तीर्णजलेषु केषुचिन् । ०३६१०९२ निरन्तरं चारुतराणि केषुचित् । ०३६१०९३ वैदूर्यनालानि सरःसु केषुचित् । ०३६१०९४ प्रजज्ञिरे पद्मवनानि सर्वतः ॥ ३६.१०९। ०३६११०१ वाप्यस्तत्राभवन्रम्याः कमलोत्पलपुष्पिताः । ०३६११०२ नानाविहङ्गसञ्जुष्टा हैमसोपानपङ्क्तयः ॥ ३६.११०। ०३६११११ शृङ्गाणि तस्य तु गिरेः कर्णिकारैः सुपुष्पितैः । ०३६१११२ समुच्छ्रितान्यविरलैर्हेमानीव बभुर्द्विजाः ॥ ३६.१११। ०३६११२१ ईषद्विभिन्नकुसुमैः पाटलैश्चापि पाटलाः । ०३६११२२ सम्बभूवुर्दिशः सर्वाः पवनाकम्पिमूर्तिभिः ॥ ३६.११२। ०३६११३१ कृष्णार्जुना दशगुणा नीलाशोकमहीरुहाः । ०३६११३२ गिरौ ववृधिरे फुल्लाः स्पर्धयन्तः परस्परम् ॥ ३६.११३। ०३६११४१ चारुरावविजुष्टानि किंशुकानां वनानि च । ०३६११४२ पर्वतस्य नितम्बेषु सर्वेषु च विरेजिरे ॥ ३६.११४। ०३६११५१ तमालगुल्मैस्तस्यासीच्छोभा हिमवतस्तदा । ०३६११५२ नीलजीमूतसङ्घातैर्निलीनैरिव सन्धिषु ॥ ३६.११५। ०३६११६१ निकामपुष्पैः सुविशालशाखैः । ०३६११६२ समुच्छ्रितैश्चन्दनचम्पकैश्च । ०३६११६३ प्रमत्तपुंस्कोकिलसम्प्रलापैर् । ०३६११६४ हिमाचलो ऽतीव तदा रराज ॥ ३६.११६। ०३६११७१ श्रुत्वा शब्दं मृदुमदकलं सर्वतः कोकिलानाम् । ०३६११७२ चञ्चत्पक्षाः समधुरतरं नीलकण्ठा विनेदुः । ०३६११७३ तेषां शब्दैरुपचितबलः पुष्पचापेषुहस्तः । ०३६११७४ सज्जीभूतस्त्रिदशवनिता वेद्धुमङ्गेष्वनङ्गः ॥ ३६.११७। ०३६११८१ पटुः सूर्यातपश्चापि प्रायशो ऽल्पजलाशयः । ०३६११८२ देवीविवाहसमये ग्रीष्म आगाद्धिमाचलम् ॥ ३६.११८। ०३६११९१ स चापि तरुभिस्तत्र बहुभिः कुसुमोत्करैः । ०३६११९२ शोभयामास शृङ्गाणि प्रालेयाद्रेः समन्ततः ॥ ३६.११९। ०३६१२०१ तथापि च गिरौ तत्र वायवः सुमनोहराः । ०३६१२०२ ववुः पाटलविस्तीर्ण-कदम्बार्जुनगन्धिनः ॥ ३६.१२०। ०३६१२११ वाप्यः प्रफुल्लपद्मौघ-केसरारुणमूर्तयः । ०३६१२१२ अभवंस्तटसङ्घुष्ट-फलहंसकदम्बकाः ॥ ३६.१२१। ०३६१२२१ तथा कुरबकाश्चापि कुसुमापाण्डुमूर्तयः । ०३६१२२२ सर्वेषु नगशृङ्गेषु भ्रमरावलिसेविताः ॥ ३६.१२२। ०३६१२३१ बकुलाश्च नितम्बेषु विशालेषु महीभृतः । ०३६१२३२ उत्ससर्ज मनोज्ञानि कुसुमानि समन्ततः ॥ ३६.१२३। ०३६१२४१ इति कुसुमविचित्रसर्ववृक्षा । ०३६१२४२ विविधविहङ्गमनादरम्यदेशाः । ०३६१२४३ हिमगिरितनयाविवाहभूत्यै । ०३६१२४४ षडुपययुरृतवो मुनिप्रवीराः ॥ ३६.१२४। ०३६१२५१ तत एवं प्रवृत्ते तु सर्वभूतसमागमे । ०३६१२५२ नानावाद्यसमाकीर्णे अहं तत्र द्विजातयः ॥ ३६.१२५। ०३६१२६१ शैलपुत्रीमलङ्कृत्य योग्याभरणसम्पदा । ०३६१२६२ पुरं प्रवेशितवांस्तां स्वयमादाय भो द्विजाः ॥ ३६.१२६। ०३६१२७१ ततस्तु पुनरेवेशमहं चैवोक्तवान्विभुम् । ०३६१२७२ हविर्जुहोमि वह्नौ ते उपाध्यायपदे स्थितः ॥ ३६.१२७। ०३६१२८१ ददासि मह्यं यद्याज्ञां कर्तव्यो ऽयं क्रियाविधिः । ०३६१२८२ मामाह शङ्करश्चैवं देवदेवो जगत्पतिः ॥ ३६.१२८। ०३६१२९० शिव उवाच ०३६१२९१ यदुद्दिष्टं सुरेशान तत्कुरुष्व यथेप्सितम् । ०३६१२९२ कर्तास्मि वचनं सर्वं ब्रह्मंस्तव जगद्विभो ॥ ३६.१२९। ०३६१३०० ब्रह्मोवाच ०३६१३०१ ततश्चाहं प्रहृष्टात्मा कुशानादाय सत्वरम् । ०३६१३०२ हस्तं देवस्य देव्याश्च योगबन्धेन युक्तवान् ॥ ३६.१३०। ०३६१३११ ज्वलनश्च स्वयं तत्र कृताञ्जलिपुटः स्थितः । ०३६१३१२ श्रुतिगीतैर्महामन्त्रैर्मूर्तिमद्भिरुपस्थितैः ॥ ३६.१३१। ०३६१३२१ यथोक्तविधिना हुत्वा सर्पिस्तदमृतं हविः । ०३६१३२२ ततस्तं ज्वलनं सर्वं कारयित्वा प्रदक्षिणम् ॥ ३६.१३२। ०३६१३३१ मुक्त्वा हस्तसमायोगं सहितः सर्वदैवतैः । ०३६१३३२ पुत्रैश्च मानसैः सिद्धैः प्रहृष्टेनान्तरात्मना ॥ ३६.१३३। ०३६१३४१ वृत्त उद्वाहकाले तु प्रणम्य च वृषध्वजम् । ०३६१३४२ योगेनैव तयोर्विप्रास्तदुमापरमेशयोः ॥ ३६.१३४। ०३६१३५१ उद्वाहः स परो वृत्तो यं देवा न विदुः क्वचित् । ०३६१३५२ इति वः सर्वमाख्यातं स्वयंवरमिदं शुभम् । ०३६१३५३ उद्वाहश्चैव देवस्य शृणुध्वं परमाद्भुतम् ॥ ३६.१३५। ०३७००१० ब्रह्मोवाच ०३७००११ अथ वृत्ते विवाहे तु भवस्यामिततेजसः । ०३७००१२ प्रहर्षमतुलं गत्वा देवाः शक्रपुरोगमाः । ०३७००१३ तुष्टुवुर्वाग्भिराद्याभिः प्रणेमुस्ते महेश्वरम् ॥ ३७.१। ०३७००२० देवा ऊचुः ०३७००२१ नमः पर्वतलिङ्गाय पर्वतेशाय वै नमः । ०३७००२२ नमः पवनवेगाय विरूपायाजिताय च । ०३७००२३ नमः क्लेशविनाशाय दात्रे च शुभसम्पदाम् ॥ ३७.२। ०३७००३१ नमो नीलशिखण्डाय अम्बिकापतये नमः । ०३७००३२ नमः पवनरूपाय शतरूपाय वै नमः ॥ ३७.३। ०३७००४१ नमो भैरवरूपाय विरूपनयनाय च । ०३७००४२ नमः सहस्रनेत्राय सहस्रचरणाय च ॥ ३७.४। ०३७००५१ नमो देववयस्याय वेदाङ्गाय नमो नमः । ०३७००५२ विष्टम्भनाय शक्रस्य बाह्वोर्वेदाङ्कुराय च ॥ ३७.५। ०३७००६१ चराचराधिपतये शमनाय नमो नमः । ०३७००६२ सलिलाशयलिङ्गाय युगान्ताय नमो नमः ॥ ३७.६। ०३७००७१ नमः कपालमालाय कपालसूत्रधारिणे । ०३७००७२ नमः कपालहस्ताय दण्डिने गदिने नमः ॥ ३७.७। ०३७००८१ नमस्त्रैलोक्यनाथाय पशुलोकरताय च । ०३७००८२ नमः खट्वाङ्गहस्ताय प्रमथार्तिहराय च ॥ ३७.८। ०३७००९१ नमो यज्ञशिरोहन्त्रे कृष्णकेशापहारिणे । ०३७००९२ भगनेत्रनिपाताय पूष्णो दन्तहराय च ॥ ३७.९। ०३७०१०१ नमः पिनाकशूलासि-खड्गमुद्गरधारिणे । ०३७०१०२ नमो ऽस्तु कालकालाय तृतीयनयनाय च ॥ ३७.१०। ०३७०१११ अन्तकान्तकृते चैव नमः पर्वतवासिने । ०३७०११२ सुवर्णरेतसे चैव नमः कुण्डलधारिणे ॥ ३७.११। ०३७०१२१ दैत्यानां योगनाशाय योगिनां गुरवे नमः । ०३७०१२२ शशाङ्कादित्यनेत्राय ललाटनयनाय च ॥ ३७.१२। ०३७०१३१ नमः श्मशानरतये श्मशानवरदाय च । ०३७०१३२ नमो दैवतनाथाय त्र्यम्बकाय नमो नमः ॥ ३७.१३। ०३७०१४१ गृहस्थसाधवे नित्यं जटिले ब्रह्मचारिणे । ०३७०१४२ नमो मुण्डार्धमुण्डाय पशूनां पतये नमः ॥ ३७.१४। ०३७०१५१ सलिले तप्यमानाय योगैश्वर्यप्रदाय च । ०३७०१५२ नमः शान्ताय दान्ताय प्रलयोत्पत्तिकारिणे ॥ ३७.१५। ०३७०१६१ नमो ऽनुग्रहकर्त्रे च स्थितिकर्त्रे नमो नमः । ०३७०१६२ नमो रुद्राय वसव आदित्यायाश्विने नमः ॥ ३७.१६। ०३७०१७१ नमः पित्रे ऽथ साङ्ख्याय विश्वेदेवाय वै नमः । ०३७०१७२ नमः शर्वाय उग्राय शिवाय वरदाय च ॥ ३७.१७। ०३७०१८१ नमो भीमाय सेनान्ये पशूनां पतये नमः । ०३७०१८२ शुचये वैरिहानाय सद्योजाताय वै नमः ॥ ३७.१८। ०३७०१९१ महादेवाय चित्राय विचित्राय च वै नमः । ०३७०१९२ प्रधानायाप्रमेयाय कार्याय कारणाय च ॥ ३७.१९। ०३७०२०१ पुरुषाय नमस्ते ऽस्तु पुरुषेच्छाकराय च । ०३७०२०२ नमः पुरुषसंयोग-प्रधानगुणकारिणे ॥ ३७.२०। ०३७०२११ प्रवर्तकाय प्रकृतेः पुरुषस्य च सर्वशः । ०३७०२१२ कृताकृतस्य सत्कर्त्रे फलसंयोगदाय च ॥ ३७.२१। ०३७०२२१ कालज्ञाय च सर्वेषां नमो नियमकारिणे । ०३७०२२२ नमो वैषम्यकर्त्रे च गुणानां वृत्तिदाय च ॥ ३७.२२। ०३७०२३१ नमस्ते देवदेवेश नमस्ते भूतभावन । ०३७०२३२ शिव सौम्यमुखो द्रष्टुं भव सौम्यो हि नः प्रभो ॥ ३७.२३। ०३७०२४० ब्रह्मोवाच ०३७०२४१ एवं स भगवान्देवो जगत्पतिरुमापतिः । ०३७०२४२ स्तूयमानः सुरैः सर्वैरमरानिदमब्रवीत् ॥ ३७.२४। ०३७०२५० श्रीशङ्कर उवाच ०३७०२५१ द्रष्टुं सुखश्च सौम्यश्च देवानामस्मि भोः सुराः । ०३७०२५२ वरं वरयत क्षिप्रं दातास्मि तमसंशयम् ॥ ३७.२५। ०३७०२६० ब्रह्मोवाच ०३७०२६१ ततस्ते प्रणताः सर्वे सुरा ऊचुस्त्रिलोचनम् ॥ ३७.२६। ०३७०२७० देवा ऊचुः ०३७०२७१ तवैव भगवन्हस्ते वर एषो ऽवतिष्ठताम् । ०३७०२७२ यदा कार्यं तदा नस्त्वं दास्यसे वरमीप्सितम् ॥ ३७.२७। ०३७०२८० ब्रह्मोवाच ०३७०२८१ एवमस्त्विति तानुक्त्वा विसृज्य च सुरान्हरः । ०३७०२८२ लोकांश्च प्रमथैः सार्धं विवेश भवनं स्वकम् ॥ ३७.२८। ०३७०२९१ यस्तु हरोत्सवमद्भुतमेनम् । ०३७०२९२ गायति दैवतविप्रसमक्षम् । ०३७०२९३ सो ऽप्रतिरूपगणेशसमानो । ०३७०२९४ देहविपर्ययमेत्य सुखी स्यात् ॥ ३७.२९। ०३७०३०० ब्रह्मोवाच ०३७०३०१ विप्रवर्याः स्तवं हीमं शृणुयाद्वा पठेच्च यः । ०३७०३०२ स सर्वलोकगो देवैः पूज्यते ऽमरराडिव ॥ ३७.३०। ०३८००१० ब्रह्मोवाच ०३८००११ प्रविष्टे भवनं देवे सूपविष्टे वरासने । ०३८००१२ स वक्रो मन्मथः क्रूरो देवं वेद्धुमना भवत् ॥ ३८.१। ०३८००२१ तमनाचारसंयुक्तं दुरात्मानं कुलाधमम् । ०३८००२२ लोकान्सर्वान्पीडयन्तं सर्वाङ्गावरणात्मकम् ॥ ३८.२। ०३८००३१ ऋषीणां विघ्नकर्तारं नियमानां व्रतैः सह । ०३८००३२ चक्राह्वयस्य रूपेण रत्या सह समागतम् ॥ ३८.३। ०३८००४१ अथाततायिनं विप्रा वेद्धुकामं सुरेश्वरः । ०३८००४२ नयनेन तृतीयेन सावज्ञं समवैक्षत ॥ ३८.४। ०३८००५१ ततो ऽस्य नेत्रजो वह्निर्ज्वालामालासहस्रवान् । ०३८००५२ सहसा रतिभर्तारमदहत्सपरिच्छदम् ॥ ३८.५। ०३८००६१ स दह्यमानः करुणमार्तो ऽक्रोशत विस्वरम् । ०३८००६२ प्रसादयंश्च तं देवं पपात धरणीतले ॥ ३८.६। ०३८००७१ अथ सो ऽग्निपरीताङ्गो मन्मथो लोकतापनः । ०३८००७२ पपात सहसा मूर्छां क्षणेन समपद्यत ॥ ३८.७। ०३८००८१ पत्नी तु करुणं तस्य विललाप सुदुःखिता । ०३८००८२ देवीं देवं च दुःखार्ता अयाचत्करुणावती ॥ ३८.८। ०३८००९१ तस्याश्च करुणां ज्ञात्वा देवौ तौ करुणात्मकौ । ०३८००९२ ऊचतुस्तां समालोक्य समाश्वास्य च दुःखिताम् ॥ ३८.९। ०३८०१०० उमामहेश्वरावूचतुः ०३८०१०१ दग्ध एव ध्रुवं भद्रे नास्योत्पत्तिरिहेष्यते । ०३८०१०२ अशरीरो ऽपि ते भद्रे कार्यं सर्वं करिष्यति ॥ ३८.१०। ०३८०१११ यदा तु विष्णुर्भगवान्वसुदेवसुतः शुभे । ०३८०११२ तदा तस्य सुतो यश्च पतिस्ते सम्भविष्यति ॥ ३८.११। ०३८०१२० ब्रह्मोवाच ०३८०१२१ ततः सा तु वरं लब्ध्वा कामपत्नी शुभानना । ०३८०१२२ जगामेष्टं तदा देशं प्रीतियुक्ता गतक्लमा ॥ ३८.१२। ०३८०१३१ दग्ध्वा कामं ततो विप्राः स तु देवो वृषध्वजः । ०३८०१३२ रेमे तत्रोमया सार्धं प्रहृष्टस्तु हिमाचले ॥ ३८.१३। ०३८०१४१ कन्दरेषु च रम्येषु पद्मिनीषु गुहासु च । ०३८०१४२ निर्झरेषु च रम्येषु कर्णिकारवनेषु च ॥ ३८.१४। ०३८०१५१ नदीतीरेषु कान्तेषु किन्नराचरितेषु च । ०३८०१५२ शृङ्गेषु शैलराजस्य तडागेषु सरःसु च ॥ ३८.१५। ०३८०१६१ वनराजिषु रम्यासु नानापक्षिरुतेषु च । ०३८०१६२ तीर्थेषु पुण्यतोयेषु मुनीनामाश्रमेषु च ॥ ३८.१६। ०३८०१७१ एतेषु पुण्येषु मनोहरेषु । ०३८०१७२ देशेषु विद्याधरभूषितेषु । ०३८०१७३ गन्धर्वयक्षामरसेवितेषु । ०३८०१७४ रेमे स देव्या सहितस्त्रिनेत्रः ॥ ३८.१७। ०३८०१८१ देवैः सहेन्द्रैर्मुनियक्षसिद्धैर् । ०३८०१८२ गन्धर्वविद्याधरदैत्यमुख्यैः । ०३८०१८३ अन्यैश्च सर्वैर्विविधैर्वृतो ऽसौ । ०३८०१८४ तस्मिन्नगे हर्षमवाप शम्भुः ॥ ३८.१८। ०३८०१९१ नृत्यन्ति तत्राप्सरसः सुरेशा । ०३८०१९२ गायन्ति गन्धर्वगणाः प्रहृष्टाः । ०३८०१९३ दिव्यानि वाद्यान्यथ वादयन्ति । ०३८०१९४ केचिद्द्रुतं देववरं स्तुवन्ति ॥ ३८.१९। ०३८०२०१ एवं स देवः स्वगणैरुपेतो । ०३८०२०२ महाबलैः शक्रयमाग्नितुल्यैः । ०३८०२०३ देव्याः प्रियार्थं भगनेत्रहन्ता । ०३८०२०४ गिरिं न तत्याज तदा महात्मा ॥ ३८.२०। ०३८०२१० ऋषय ऊचुः ०३८०२११ देव्याः समं तु भगवांस्तिष्ठंस्तत्र स कामहा । ०३८०२१२ अकरोत्किं महादेव एतदिच्छाम वेदितुम् ॥ ३८.२१। ०३८०२२० ब्रह्मोवाच ०३८०२२१ भगवान्हिमवच्छृङ्गे स हि देव्याः प्रियेच्छया । ०३८०२२२ गणेशैर्विविधाकारैर्हासं सञ्जनयन्मुहुः ॥ ३८.२२। ०३८०२३१ देवीं बालेन्दुतिलको रमयंश्च रराम च । ०३८०२३२ महानुभावैः सर्वज्ञैः कामरूपधरैः शुभैः ॥ ३८.२३। ०३८०२४१ अथ देव्याससादैका मातरं परमेश्वरी । ०३८०२४२ आसीनां काञ्चने शुभ्र आसने परमाद्भुते ॥ ३८.२४। ०३८०२५१ अथ दृष्ट्वा सतीं देवीमागतां सुररूपिणीम् । ०३८०२५२ आसनेन महार्हेण ऽसम्पादयदनिन्दिताम् । ०३८०२५३ आसीनां तामथोवाच मेना हिमवतः प्रिया ॥ ३८.२५। ०३८०२६० मेनोवाच ०३८०२६१ चिरस्यागमनं ते ऽद्य वद पुत्रि शुभेक्षणे । ०३८०२६२ दरिद्रा क्रीडनैस्त्वं हि भर्त्रा क्रीडसि सङ्गता ॥ ३८.२६। ०३८०२७१ ये दरिद्रा भवन्ति स्म तथैव च निराश्रयाः । ०३८०२७२ उमे त एवं क्रीडन्ति यथा तव पतिः शुभे ॥ ३८.२७। ०३८०२८० ब्रह्मोवाच ०३८०२८१ सैवमुक्ताथ मात्रा तु नातिहृष्टमना भवत् । ०३८०२८२ महत्या क्षमया युक्ता न किञ्चित्तामुवाच ह । ०३८०२८३ विसृष्टा च तदा मात्रा गत्वा देवमुवाच ह ॥ ३८.२८। ०३८०२९० पार्वत्युवाच ०३८०२९१ भगवन्देवदेवेश नेह वत्स्यामि भूधरे । ०३८०२९२ अन्यं कुरु ममावासं भुवनेषु महाद्युते ॥ ३८.२९। ०३८०३०० देव उवाच ०३८०३०१ सदा त्वमुच्यमाना वै मया वासार्थमीश्वरि । ०३८०३०२ अन्यं न रोचितवती वासं वै देवि कर्हिचित् ॥ ३८.३०। ०३८०३११ इदानीं स्वयमेव त्वं वासमन्यत्र शोभने । ०३८०३१२ कस्मान्मृगयसे देवि ब्रूहि तन्मे शुचिस्मिते ॥ ३८.३१। ०३८०३२० देव्युवाच ०३८०३२१ गृहं गतास्मि देवेश पितुरद्य महात्मनः । ०३८०३२२ दृष्ट्वा च तत्र मे माता विजने लोकभावने ॥ ३८.३२। ०३८०३३१ आसनादिभिरभ्यर्च्य सा मामेवमभाषत । ०३८०३३२ उमे तव सदा भर्ता दरिद्रः क्रीडनैः शुभे ॥ ३८.३३। ०३८०३४१ क्रीडते नहि देवानां क्रीडा भवति तादृशी । ०३८०३४२ यत्किल त्वं महादेव गणैश्च विविधैस्तथा । ०३८०३४३ रमसे तदनिष्टं हि मम मातुर्वृषध्वज ॥ ३८.३४। ०३८०३५० ब्रह्मोवाच ०३८०३५१ ततो देवः प्रहस्याह देवीं हासयितुं प्रभुः ॥ ३८.३५। ०३८०३६० देव उवाच ०३८०३६१ एवमेव न सन्देहः कस्मान्मन्युरभूत्तव । ०३८०३६२ कृत्तिवासा ह्यवासाश्च श्मशाननिलयश्च ह ॥ ३८.३६। ०३८०३७१ अनिकेतो ह्यरण्येषु पर्वतानां गुहासु च । ०३८०३७२ विचरामि गणैर्नग्नैर्वृतो ऽम्भोजविलोचने ॥ ३८.३७। ०३८०३८१ मा क्रुधो देवि मात्रे त्वं तथ्यं मातावदत्तव । ०३८०३८२ नहि मातृसमो बन्धुर्जन्तूनामस्ति भूतले ॥ ३८.३८। ०३८०३९० देव्युवाच ०३८०३९१ न मे ऽस्ति बन्धुभिः किञ्चित्कृत्यं सुरवरेश्वर । ०३८०३९२ तथा कुरु महादेव यथाहं सुखमाप्नुयाम् ॥ ३८.३९। ०३८०४०० ब्रह्मोवाच ०३८०४०१ श्रुत्वा स देव्या वचनं सुरेशस् । ०३८०४०२ तस्याः प्रियार्थे स्वगिरिं विहाय । ०३८०४०३ जगाम मेरुं सुरसिद्धसेवितम् । ०३८०४०४ भार्यासहायः स्वगणैश्च युक्तः ॥ ३८.४०। ०३९००१० ऋषय ऊचुः ०३९००११ प्राचेतसस्य दक्षस्य कथं वैवस्वते ऽन्तरे । ०३९००१२ विनाशमगमद्ब्रह्मन्हयमेधः प्रजापतेः ॥ ३९.१। ०३९००२१ देव्या मन्युकृतं बुद्ध्वा क्रुद्धः सर्वात्मकः प्रभुः । ०३९००२२ कथं विनाशितो यज्ञो दक्षस्यामिततेजसः । ०३९००२३ महादेवेन रोषाद्वै तन्नः प्रब्रूहि विस्तरात् ॥ ३९.२। ०३९००३० ब्रह्मोवाच ०३९००३१ वर्णयिष्यामि वो विप्रा महादेवेन वै यथा । ०३९००३२ क्रोधाद्विध्वंसितो यज्ञो देव्याः प्रियचिकीर्षया ॥ ३९.३। ०३९००४१ पुरा मेरोर्द्विजश्रेष्ठाः शृङ्गं त्रैलोक्यपूजितम् । ०३९००४२ ज्योतिःस्थलं नाम चित्रं सर्वरत्नविभूषितम् ॥ ३९.४। ०३९००५१ अप्रमेयमनाधृष्यं सर्वलोकनमस्कृतम् । ०३९००५२ तत्र देवो गिरितटे सर्वधातुविचित्रिते ॥ ३९.५। ०३९००६१ पर्यङ्क इव विस्तीर्ण उपविष्टो बभूव ह । ०३९००६२ शैलराजसुता चास्य नित्यं पार्श्वस्थिताभवत् ॥ ३९.६। ०३९००७१ आदित्याश्च महात्मानो वसवश्च महौजसः । ०३९००७२ तथैव च महात्मानावश्विनौ भिषजां वरौ ॥ ३९.७। ०३९००८१ तथा वैश्रवणो राजा गुह्यकैः परिवारितः । ०३९००८२ यक्षाणामीश्वरः श्रीमान्कैलासनिलयः प्रभुः ॥ ३९.८। ०३९००९१ उपासते महात्मानमुशना च महामुनिः । ०३९००९२ सनत्कुमारप्रमुखास्तथैव परमर्षयः ॥ ३९.९। ०३९०१०१ अङ्गिरःप्रमुखाश्चैव तथा देवर्षयो ऽपि च । ०३९०१०२ विश्वावसुश्च गन्धर्वस्तथा नारदपर्वतौ ॥ ३९.१०। ०३९०१११ अप्सरोगणसङ्घाश्च समाजग्मुरनेकशः । ०३९०११२ ववौ सुखशिवो वायुर्नानागन्धवहः शुचिः ॥ ३९.११। ०३९०१२१ सर्वर्तुकुसुमोपेतः पुष्पवन्तो ऽभवन्द्रुमाः । ०३९०१२२ तथा विद्याधराः साध्याः सिद्धाश्चैव तपोधनाः ॥ ३९.१२। ०३९०१३१ महादेवं पशुपतिं पर्युपासत तत्र वै । ०३९०१३२ भूतानि च तथान्यानि नानारूपधराण्यथ ॥ ३९.१३। ०३९०१४१ राक्षसाश्च महारौद्राः पिशाचाश्च महाबलाः । ०३९०१४२ बहुरूपधरा धृष्टा नानाप्रहरणायुधाः ॥ ३९.१४। ०३९०१५१ देवस्यानुचरास्तत्र तस्थुर्वैश्वानरोपमाः । ०३९०१५२ नन्दीश्वरश्च भगवान्देवस्यानुमते स्थितः ॥ ३९.१५। ०३९०१६१ प्रगृह्य ज्वलितं शूलं दीप्यमानं स्वतेजसा । ०३९०१६२ गङ्गा च सरितां श्रेष्ठा सर्वतीर्थजलोद्भवा ॥ ३९.१६। ०३९०१७१ पर्युपासत तं देवं रूपिणी द्विजसत्तमाः । ०३९०१७२ एवं स भगवांस्तत्र पूज्यमानः सुरर्षिभिः ॥ ३९.१७। ०३९०१८१ देवैश्च सुमहाभागैर्महादेवो व्यतिष्ठत । ०३९०१८२ कस्यचित्त्वथ कालस्य दक्षो नाम प्रजापतिः ॥ ३९.१८। ०३९०१९१ पूर्वोक्तेन विधानेन यक्ष्यमाणो ऽभ्यपद्यत । ०३९०१९२ ततस्तस्य मखे देवाः सर्वे शक्रपुरोगमाः ॥ ३९.१९। ०३९०२०१ स्वर्गस्थानादथागम्य दक्षमापेदिरे तथा । ०३९०२०२ ते विमानैर्महात्मानो ज्वलद्भिर्ज्वलनप्रभाः ॥ ३९.२०। ०३९०२११ देवस्यानुमते ऽगच्छन्गङ्गाद्वारमिति श्रुतिः । ०३९०२१२ गन्धर्वाप्सरसाकीर्णं नानाद्रुमलतावृतम् ॥ ३९.२१। ०३९०२२१ ऋषिसिद्धैः परिवृतं दक्षं धर्मभृतां वरम् । ०३९०२२२ पृथिव्यामन्तरिक्षे च ये च स्वर्लोकवासिनः ॥ ३९.२२। ०३९०२३१ सर्वे प्राञ्जलयो भूत्वा उपतस्थुः प्रजापतिम् । ०३९०२३२ आदित्या वसवो रुद्राः साध्याः सर्वे मरुद्गणाः ॥ ३९.२३। ०३९०२४१ विष्णुना सहिताः सर्व आगता यज्ञभागिनः । ०३९०२४२ ऊष्मपा धूमपाश्चैव आज्यपाः सोमपास्तथा ॥ ३९.२४। ०३९०२५१ अश्विनौ मरुतश्चैव नानादेवगणैः सह । ०३९०२५२ एते चान्ये च बहवो भूतग्रामास्तथैव च ॥ ३९.२५। ०३९०२६१ जरायुजाण्डजाश्चैव तथैव स्वेदजोद्भिदः । ०३९०२६२ आगताः सत्त्रिणः सर्वे देवाः स्त्रीभिः सहर्षिभिः ॥ ३९.२६। ०३९०२७१ विराजन्ते विमानस्था दीप्यमाना इवाग्नयः । ०३९०२७२ तान्दृष्ट्वा मन्युनाविष्टो दधीचिर्वाक्यमब्रवीत् ॥ ३९.२७। ०३९०२८० दधीचिरुवाच ०३९०२८१ अपूज्यपूजने चैव पूज्यानां चाप्यपूजने । ०३९०२८२ नरः पापमवाप्नोति महद्वै नात्र संशयः ॥ ३९.२८। ०३९०२९० ब्रह्मोवाच ०३९०२९१ एवमुक्त्वा तु विप्रर्षिः पुनर्दक्षमभाषत ॥ ३९.२९। ०३९०३०० दधीचिरुवाच ०३९०३०१ पूज्यं च पशुभर्तारं कस्मान्नार्चयसे प्रभुम् ॥ ३९.३०। ०३९०३१० दक्ष उवाच ०३९०३११ सन्ति मे बहवो रुद्राः शूलहस्ताः कपर्दिनः । ०३९०३१२ एकादशस्थानगता नान्यं विद्मो महेश्वरम् ॥ ३९.३१। ०३९०३२० दधीचिरुवाच ०३९०३२१ सर्वेषामेकमन्त्रो ऽयं ममेशो न निमन्त्रितः । ०३९०३२२ यथाहं शङ्करादूर्ध्वं नान्यं पश्यामि दैवतम् । ०३९०३२३ तथा दक्षस्य विपुलो यज्ञो ऽयं न भविष्यति ॥ ३९.३२। ०३९०३३० दक्ष उवाच ०३९०३३१ विष्णोश्च भागा विविधाः प्रदत्तास् । ०३९०३३२ तथा च रुद्रेभ्य उत प्रदत्ताः । ०३९०३३३ अन्ये ऽपि देवा निजभागयुक्ता । ०३९०३३४ ददामि भागं न तु शङ्कराय ॥ ३९.३३। ०३९०३४० ब्रह्मोवाच ०३९०३४१ गतास्तु देवता ज्ञात्वा शैलराजसुता तदा । ०३९०३४२ उवाच वचनं शर्वं देवं पशुपतिं पतिम् ॥ ३९.३४। ०३९०३५० उमोवाच ०३९०३५१ भगवन्कुत्र यान्त्येते देवाः शक्रपुरोगमाः । ०३९०३५२ ब्रूहि तत्त्वेन तत्त्वज्ञ संशयो मे महानयम् ॥ ३९.३५। ०३९०३६० महेश्वर उवाच ०३९०३६१ दक्षो नाम महाभागे प्रजानां पतिरुत्तमः । ०३९०३६२ हयमेधेन यजते तत्र यान्ति दिवौकसः ॥ ३९.३६। ०३९०३७० देव्युवाच ०३९०३७१ यज्ञमेतं महाभाग किमर्थं नानुगच्छसि । ०३९०३७२ केन वा प्रतिषेधेन गमनं ते न विद्यते ॥ ३९.३७। ०३९०३८० महेश्वर उवाच ०३९०३८१ सुरैरेव महाभागे सर्वमेतदनुष्ठितम् । ०३९०३८२ यज्ञेषु मम सर्वेषु न भाग उपकल्पितः ॥ ३९.३८। ०३९०३९१ पूर्वागतेन गन्तव्यं मार्गेण वरवर्णिनि । ०३९०३९२ न मे सुराः प्रयच्छन्ति भागं यज्ञस्य धर्मतः ॥ ३९.३९। ०३९०४०० उमोवाच ०३९०४०१ भगवन्सर्वदेवेषु प्रभावाभ्यधिको गुणैः । ०३९०४०२ अजेयश्चाप्यधृष्यश्च तेजसा यशसा श्रिया ॥ ३९.४०। ०३९०४११ अनेन तु महाभाग प्रतिषेधेन भागतः । ०३९०४१२ अतीव दुःखमापन्ना वेपथुश्च महानयम् ॥ ३९.४१। ०३९०४२१ किं नाम दानं नियमं तपो वा । ०३९०४२२ कुर्यामहं येन पतिर्ममाद्य । ०३९०४२३ लभेत भागं भगवानचिन्त्यो । ०३९०४२४ यज्ञस्य चेन्द्राद्यमरैर्विचित्रम् ॥ ३९.४२। ०३९०४३० ब्रह्मोवाच ०३९०४३१ एवं ब्रुवाणां भगवान्विचिन्त्य । ०३९०४३२ पत्नीं प्रहृष्टः क्षुभितामुवाच । ०३९०४३० महेश्वर उवाच ०३९०४३३ न वेत्सि मां देवि कृशोदराङ्गि । ०३९०४३४ किं नाम युक्तं वचनं तवेदम् ॥ ३९.४३। ०३९०४४१ अहं विजानामि विशालनेत्रे । ०३९०४४२ ध्यानेन सर्वे च विदन्ति सन्तः । ०३९०४४३ तवाद्य मोहेन सहेन्द्रदेवा । ०३९०४४४ लोकत्रयं सर्वमथो विनष्टम् ॥ ३९.४४। ०३९०४५१ मामध्वरेशं नितरां स्तुवन्ति । ०३९०४५२ रथन्तरं साम गायन्ति मह्यम् । ०३९०४५३ मां ब्राह्मणा ब्रह्ममन्त्रैर्यजन्ति । ०३९०४५४ ममाध्वर्यवः कल्पयन्ते च भागम् ॥ ३९.४५। ०३९०४६० देव्युवाच ०३९०४६१ विकत्थसे प्राकृतवत्सर्वस्त्रीजनसंसदि । ०३९०४६२ स्तौषि गर्वायसे चापि स्वमात्मानं न संशयः ॥ ३९.४६। ०३९०४७० भगवानुवाच ०३९०४७१ नात्मानं स्तौमि देवेशि यथा त्वमनुगच्छसि । ०३९०४७२ संस्रक्ष्यामि वरारोहे भागार्थे वरवर्णिनि ॥ ३९.४७। ०३९०४८० ब्रह्मोवाच ०३९०४८१ इत्युक्त्वा भगवान्पत्नीमुमां प्राणैरपि प्रियाम् । ०३९०४८२ सो ऽसृजद्भगवान्वक्त्राद्भूतं क्रोधाग्निसम्भवम् ॥ ३९.४८। ०३९०४९१ तमुवाच मखं गच्छ दक्षस्य त्वं महेश्वरः । ०३९०४९२ नाशयाशु क्रतुं तस्य दक्षस्य मदनुज्ञया ॥ ३९.४९। ०३९०५०० ब्रह्मोवाच ०३९०५०१ ततो रुद्रप्रयुक्तेन सिंहवेषेण लीलया । ०३९०५०२ देव्या मन्युकृतं ज्ञात्वा हतो दक्षस्य स क्रतुः ॥ ३९.५०। ०३९०५११ मन्युना च महाभीमा भद्रकाली महेश्वरी । ०३९०५१२ आत्मनः कर्मसाक्षित्वे तेन सार्धं सहानुगा ॥ ३९.५१। ०३९०५२१ स एष भगवान्क्रोधः प्रेतावासकृतालयः । ०३९०५२२ वीरभद्रेति विख्यातो देव्या मन्युप्रमार्जकः ॥ ३९.५२। ०३९०५३१ सो ऽसृजद्रोमकूपेभ्य आत्मनैव गणेश्वरान् । ०३९०५३२ रुद्रानुगान्गणान्रौद्रान्रुद्रवीर्यपराक्रमान् ॥ ३९.५३। ०३९०५४१ रुद्रस्यानुचराः सर्वे सर्वे रुद्रपराक्रमाः । ०३९०५४२ ते निपेतुस्ततस्तूर्णं शतशो ऽथ सहस्रशः ॥ ३९.५४। ०३९०५५१ ततः किलकिलाशब्द आकाशं पूरयन्निव । ०३९०५५२ समभूत्सुमहान्विप्राः सर्वरुद्रगणैः कृतः ॥ ३९.५५। ०३९०५६१ तेन शब्देन महता त्रस्ताः सर्वे दिवौकसः । ०३९०५६२ पर्वताश्च व्यशीर्यन्त चकम्पे च वसुन्धरा ॥ ३९.५६। ०३९०५७१ मरुतश्च ववुः क्रूराश्चुक्षुभे वरुणालयः । ०३९०५७२ अग्नयो वै न दीप्यन्ते न चादीप्यत भास्करः ॥ ३९.५७। ०३९०५८१ ग्रहा नैव प्रकाशन्ते नक्षत्राणि न तारकाः । ०३९०५८२ ऋषयो न प्रभासन्ते न देवा न च दानवाः ॥ ३९.५८। ०३९०५९१ एवं हि तिमिरीभूते निर्दहन्ति गणेश्वराः । ०३९०५९२ प्रभञ्जन्त्यपरे यूपान्घोरानुत्पाटयन्ति च ॥ ३९.५९। ०३९०६०१ प्रणदन्ति तथा चान्ये विकुर्वन्ति तथा परे । ०३९०६०२ त्वरितं वै प्रधावन्ति वायुवेगा मनोजवाः ॥ ३९.६०। ०३९०६११ चूर्ण्यन्ते यज्ञपात्राणि यज्ञस्यायतनानि च । ०३९०६१२ शीर्यमाणान्यदृश्यन्त तारा इव नभस्तलात् ॥ ३९.६१। ०३९०६२१ दिव्यान्नपानभक्ष्याणां राशयः पर्वतोपमाः । ०३९०६२२ क्षीरनद्यस्तथा चान्या घृतपायसकर्दमाः ॥ ३९.६२। ०३९०६३१ मधुमण्डोदका दिव्याः खण्डशर्करवालुकाः । ०३९०६३२ षड्रसान्निवहन्त्यन्या गुडकुल्या मनोरमाः ॥ ३९.६३। ०३९०६४१ उच्चावचानि मांसानि भक्ष्याणि विविधानि च । ०३९०६४२ यानि कानि च दिव्यानि लेह्यचोष्याणि यानि च ॥ ३९.६४। ०३९०६५१ भुञ्जन्ति विविधैर्वक्त्रैर्विलुम्पन्ति क्षिपन्ति च । ०३९०६५२ रुद्रकोपा महाकोपाः कालाग्निसदृशोपमाः ॥ ३९.६५। ०३९०६६१ भक्षयन्तो ऽथ शैलाभा भीषयन्तश्च सर्वतः । ०३९०६६२ क्रीडन्ति विविधाकाराश्चिक्षिपुः सुरयोषितः ॥ ३९.६६। ०३९०६७१ एवं गणाश्च तैर्युक्तो वीरभद्रः प्रतापवान् । ०३९०६७२ रुद्रकोपप्रयुक्तश्च सर्वदेवैः सुरक्षितम् ॥ ३९.६७। ०३९०६८१ तं यज्ञमदहच्छीघ्रं भद्रकाल्याः समीपतः । ०३९०६८२ चक्रुरन्ये तथा नादान्सर्वभूतभयङ्करान् ॥ ३९.६८। ०३९०६९१ छित्त्वा शिरो ऽन्ये यज्ञस्य व्यनदन्त भयङ्करम् । ०३९०६९२ ततः शक्रादयो देवा दक्षश्चैव प्रजापतिः । ०३९०६९३ ऊचुः प्राञ्जलयो भूत्वा कथ्यतां को भवानिति ॥ ३९.६९। ०३९०७०० वीरभद्र उवाच ०३९०७०१ नाहं देवो न दैत्यो वा न च भोक्तुमिहागतः । ०३९०७०२ नैव द्रष्टुं च देवेन्द्रा न च कौतूहलान्विताः ॥ ३९.७०। ०३९०७११ दक्षयज्ञविनाशार्थं सम्प्राप्तो ऽहं सुरोत्तमाः । ०३९०७१२ वीरभद्रेति विख्यातो रुद्रकोपाद्विनिःसृतः ॥ ३९.७१। ०३९०७२१ भद्रकाली च विख्याता देव्याः क्रोधाद्विनिर्गता । ०३९०७२२ प्रेषिता देवदेवेन यज्ञान्तिकमुपागता ॥ ३९.७२। ०३९०७३१ शरणं गच्छ राजेन्द्र देवदेवमुमापतिम् । ०३९०७३२ वरं क्रोधो ऽपि देवस्य न वरः परिचारकैः ॥ ३९.७३। ०३९०७४० ब्रह्मोवाच ०३९०७४१ निखातोत्पाटितैर्यूपैरपविद्धैस्ततस्ततः । ०३९०७४२ उत्पतद्भिः पतद्भिश्च गृध्रैरामिषगृध्नुभिः ॥ ३९.७४। ०३९०७५१ पक्षवातविनिर्धूतैः शिवारुतविनादितैः । ०३९०७५२ स तस्य यज्ञो नृपतेर्बाध्यमानस्तदा गणैः ॥ ३९.७५। ०३९०७६१ आस्थाय मृगरूपं वै खमेवाभ्यपतत्तदा । ०३९०७६२ तं तु यज्ञं तथारूपं गच्छन्तमुपलभ्य सः ॥ ३९.७६। ०३९०७७१ धनुरादाय बाणं च तदर्थमगमत्प्रभुः । ०३९०७७२ ततस्तस्य गणेशस्य क्रोधादमिततेजसः ॥ ३९.७७। ०३९०७८१ ललाटात्प्रसृतो घोरः स्वेदबिन्दुर्बभूव ह । ०३९०७८२ तस्मिन्पतितमात्रे च स्वेदबिन्दौ तदा भुवि ॥ ३९.७८। ०३९०७९१ प्रादुर्भूतो महानग्निर्ज्वलत्कालानलोपमः । ०३९०७९२ तत्रोदपद्यत तदा पुरुषो द्विजसत्तमाः ॥ ३९.७९। ०३९०८०१ ह्रस्वो ऽतिमात्रो रक्ताक्षो हरिच्छ्मश्रुर्विभीषणः । ०३९०८०२ ऊर्ध्वकेशो ऽतिरोमाङ्गः शोणकर्णस्तथैव च ॥ ३९.८०। ०३९०८११ करालकृष्णवर्णश्च रक्तवासास्तथैव च । ०३९०८१२ तं यज्ञं स महासत्त्वो ऽदहत्कक्षमिवानलः ॥ ३९.८१। ०३९०८२१ देवाश्च प्रद्रुताः सर्वे गता भीता दिशो दश । ०३९०८२२ तेन तस्मिन्विचरता विक्रमेण तदा तु वै ॥ ३९.८२। ०३९०८३१ पृथिवी व्यचलत्सर्वा सप्तद्वीपा समन्ततः । ०३९०८३२ महाभूते प्रवृत्ते तु देवलोकभयङ्करे ॥ ३९.८३। ०३९०८४१ तदा चाहं महादेवमब्रवं प्रतिपूजयन् । ०३९०८४२ भवते ऽपि सुराः सर्वे भागं दास्यन्ति वै प्रभो ॥ ३९.८४। ०३९०८५१ क्रियतां प्रतिसंहारः सर्वदेवेश्वर त्वया । ०३९०८५२ इमाश्च देवताः सर्वा ऋषयश्च सहस्रशः ॥ ३९.८५। ०३९०८६१ तव क्रोधान्महादेव न शान्तिमुपलेभिरे । ०३९०८६२ यश्चैष पुरुषो जातः स्वेदजस्ते सुरर्षभ ॥ ३९.८६। ०३९०८७१ ज्वरो नामैष धर्मज्ञ लोकेषु प्रचरिष्यति । ०३९०८७२ एकीभूतस्य न ह्यस्य धारणे तेजसः प्रभो ॥ ३९.८७। ०३९०८८१ समर्था सकला पृथ्वी बहुधा सृज्यतामयम् । ०३९०८८२ इत्युक्तः स मया देवो भागे चापि प्रकल्पिते ॥ ३९.८८। ०३९०८९१ भगवान्मां तथेत्याह देवदेवः पिनाकधृक् । ०३९०८९२ परां च प्रीतिमगमत्स स्वयं च पिनाकधृक् ॥ ३९.८९। ०३९०९०१ दक्षो ऽपि मनसा देवं भवं शरणमन्वगात् । ०३९०९०२ प्राणापानौ समारुध्य चक्षुःस्थाने प्रयत्नतः ॥ ३९.९०। ०३९०९११ विधार्य सर्वतो दृष्टिं बहुदृष्टिरमित्रजित् । ०३९०९१२ स्मितं कृत्वाब्रवीद्वाक्यं ब्रूहि किं करवाणि ते ॥ ३९.९१। ०३९०९२१ श्राविते च महाख्याने देवानां पितृभिः सह । ०३९०९२२ तमुवाचाञ्जलिं कृत्वा दक्षो देवं प्रजापतिः । ०३९०९२३ भीतः शङ्कितचित्तस्तु सबाष्पवदनेक्षणः ॥ ३९.९२। ०३९०९३० दक्ष उवाच ०३९०९३१ यदि प्रसन्नो भगवान्यदि वाहं तव प्रियः । ०३९०९३२ यदि चाहमनुग्राह्यो यदि देयो वरो मम ॥ ३९.९३। ०३९०९४१ यद्भक्ष्यं भक्षितं पीतं त्रासितं यच्च नाशितम् । ०३९०९४२ चूर्णीकृतापविद्धं च यज्ञसम्भारमीदृशम् ॥ ३९.९४। ०३९०९५१ दीर्घकालेन महता प्रयत्नेन च सञ्चितम् । ०३९०९५२ न च मिथ्या भवेन्मह्यं त्वत्प्रसादान्महेश्वर ॥ ३९.९५। ०३९०९६० ब्रह्मोवाच ०३९०९६१ तथास्त्वित्याह भगवान्भगनेत्रहरो हरः । ०३९०९६२ धर्माध्यक्षं महादेवं त्र्यम्बकं च प्रजापतिः ॥ ३९.९६। ०३९०९७१ जानुभ्यामवनीं गत्वा दक्षो लब्ध्वा भवाद्वरम् । ०३९०९७२ नाम्नां चाष्टसहस्रेण स्तुतवान्वृषभध्वजम् ॥ ३९.९७। ०४०००१० ब्रह्मोवाच ०४०००११ एवं दृष्ट्वा तदा दक्षः शम्भोर्वीर्यं द्विजोत्तमाः । ०४०००१२ प्राञ्जलिः प्रणतो भूत्वा संस्तोतुमुपचक्रमे ॥ ४०.१। ०४०००२० दक्ष उवाच ०४०००२१ नमस्ते देवदेवेश नमस्ते ऽन्धकसूदन । ०४०००२२ देवेन्द्र त्वं बलश्रेष्ठ देवदानवपूजित ॥ ४०.२। ०४०००३१ सहस्राक्ष विरूपाक्ष त्र्यक्ष यक्षाधिपप्रिय । ०४०००३२ सर्वतःपाणिपादस्त्वं सर्वतोक्षिशिरोमुखः ॥ ४०.३। ०४०००४१ सर्वतःश्रुतिमांल्लोके सर्वमावृत्य तिष्ठसि । ०४०००४२ शङ्कुकर्णो महाकर्णः कुम्भकर्णो ऽर्णवालयः ॥ ४०.४। ०४०००५१ गजेन्द्रकर्णो गोकर्णः शतकर्णो नमो ऽस्तु ते । ०४०००५२ शतोदरः शतावर्तः शतजिह्वः सनातनः ॥ ४०.५। ०४०००६१ गायन्ति त्वां गायत्रिणो अर्चयन्त्यर्कमर्किणः । ०४०००६२ देवदानवगोप्ता च ब्रह्मा च त्वं शतक्रतुः ॥ ४०.६। ०४०००७१ मूर्तिमांस्त्वं महामूर्तिः समुद्रः सरसां निधिः । ०४०००७२ त्वयि सर्वा देवता हि गावो गोष्ठ इवासते ॥ ४०.७। ०४०००८१ त्वत्तः शरीरे पश्यामि सोममग्निजलेश्वरम् । ०४०००८२ आदित्यमथ विष्णुं च ब्रह्माणं सबृहस्पतिम् ॥ ४०.८। ०४०००९१ क्रिया करणकार्ये च कर्ता कारणमेव च । ०४०००९२ असच्च सदसच्चैव तथैव प्रभवाव्ययौ ॥ ४०.९। ०४००१०१ नमो भवाय शर्वाय रुद्राय वरदाय च । ०४००१०२ पशूनां पतये चैव नमो ऽस्त्वन्धकघातिने ॥ ४०.१०। ०४००१११ त्रिजटाय त्रिशीर्षाय त्रिशूलवरधारिणे । ०४००११२ त्र्यम्बकाय त्रिनेत्राय त्रिपुरघ्नाय वै नमः ॥ ४०.११। ०४००१२१ नमश्चण्डाय मुण्डाय विश्वचण्डधराय च । ०४००१२२ दण्डिने शङ्कुकर्णाय दण्डिदण्डाय वै नमः ॥ ४०.१२। ०४००१३१ नमो ऽर्धदण्डिकेशाय शुष्काय विकृताय च । ०४००१३२ विलोहिताय धूम्राय नीलग्रीवाय वै नमः ॥ ४०.१३। ०४००१४१ नमो ऽस्त्वप्रतिरूपाय विरूपाय शिवाय च । ०४००१४२ सूर्याय सूर्यपतये सूर्यध्वजपताकिने ॥ ४०.१४। ०४००१५१ नमः प्रमथनाशाय वृषस्कन्धाय वै नमः । ०४००१५२ नमो हिरण्यगर्भाय हिरण्यकवचाय च ॥ ४०.१५। ०४००१६१ हिरण्यकृतचूडाय हिरण्यपतये नमः । ०४००१६२ शत्रुघाताय चण्डाय पर्णसङ्घशयाय च ॥ ४०.१६। ०४००१७१ नमः स्तुताय स्तुतये स्तूयमानाय वै नमः । ०४००१७२ सर्वाय सर्वभक्षाय सर्वभूतान्तरात्मने ॥ ४०.१७। ०४००१८१ नमो होमाय मन्त्राय शुक्लध्वजपताकिने । ०४००१८२ नमो ऽनम्याय नम्याय नमः किलकिलाय च ॥ ४०.१८। ०४००१९१ नमस्त्वां शयमानाय शयितायोत्थिताय च । ०४००१९२ स्थिताय धावमानाय कुब्जाय कुटिलाय च ॥ ४०.१९। ०४००२०१ नमो नर्तनशीलाय मुखवादित्रकारिणे । ०४००२०२ बाधापहाय लुब्धाय गीतवादित्रकारिणे ॥ ४०.२०। ०४००२११ नमो ज्येष्ठाय श्रेष्ठाय बलप्रमथनाय च । ०४००२१२ उग्राय च नमो नित्यं नमश्च दशबाहवे ॥ ४०.२१। ०४००२२१ नमः कपालहस्ताय सितभस्मप्रियाय च । ०४००२२२ विभीषणाय भीमाय भीष्मव्रतधराय च ॥ ४०.२२। ०४००२३१ नानाविकृतवक्त्राय खड्गजिह्वोग्रदंष्ट्रिणे । ०४००२३२ पक्षमासलवार्धाय तुम्बीवीणाप्रियाय च ॥ ४०.२३। ०४००२४१ अघोरघोररूपाय घोराघोरतराय च । ०४००२४२ नमः शिवाय शान्ताय नमः शान्ततमाय च ॥ ४०.२४। ०४००२५१ नमो बुद्धाय शुद्धाय संविभागप्रियाय च । ०४००२५२ पवनाय पतङ्गाय नमः साङ्ख्यपराय च ॥ ४०.२५। ०४००२६१ नमश्चण्डैकघण्टाय घण्टाजल्पाय घण्टिने । ०४००२६२ सहस्रशतघण्टाय घण्टामालाप्रियाय च ॥ ४०.२६। ०४००२७१ प्राणदण्डाय नित्याय नमस्ते लोहिताय च । ०४००२७२ हूंहूङ्काराय रुद्राय भगाकारप्रियाय च ॥ ४०.२७। ०४००२८१ नमो ऽपारवते नित्यं गिरिवृक्षप्रियाय च । ०४००२८२ नमो यज्ञाधिपतये भूताय प्रसुताय च ॥ ४०.२८। ०४००२९१ यज्ञवाहाय दान्ताय तप्याय च भगाय च । ०४००२९२ नमस्तटाय तट्याय तटिनीपतये नमः ॥ ४०.२९। ०४००३०१ अन्नदायान्नपतये नमस्त्वन्नभुजाय च । ०४००३०२ नमः सहस्रशीर्षाय सहस्रचरणाय च ॥ ४०.३०। ०४००३११ सहस्रोद्धतशूलाय सहस्रनयनाय च । ०४००३१२ नमो बालार्कवर्णाय बालरूपधराय च ॥ ४०.३१। ०४००३२१ नमो बालार्करूपाय बालक्रीडनकाय च । ०४००३२२ नमः शुद्धाय बुद्धाय क्षोभणाय क्षयाय च ॥ ४०.३२। ०४००३३१ तरङ्गाङ्कितकेशाय मुक्तकेशाय वै नमः । ०४००३३२ नमः षट्कर्मनिष्ठाय त्रिकर्मनियताय च ॥ ४०.३३। ०४००३४१ वर्णाश्रमाणां विधिवत्पृथग्धर्मप्रवर्तिने । ०४००३४२ नमः श्रेष्ठाय ज्येष्ठाय नमः कलकलाय च ॥ ४०.३४। ०४००३५१ श्वेतपिङ्गलनेत्राय कृष्णरक्तेक्षणाय च । ०४००३५२ धर्मकामार्थमोक्षाय क्रथाय क्रथनाय च ॥ ४०.३५। ०४००३६१ साङ्ख्याय साङ्ख्यमुख्याय योगाधिपतये नमः । ०४००३६२ नमो रथ्याधिरथ्याय चतुष्पथपथाय च ॥ ४०.३६। ०४००३७१ कृष्णाजिनोत्तरीयाय व्यालयज्ञोपवीतिने । ०४००३७२ ईशान रुद्रसङ्घात हरिकेश नमो ऽस्तु ते ॥ ४०.३७। ०४००३८१ त्र्यम्बकायाम्बिकानाथ व्यक्ताव्यक्त नमो ऽस्तु ते । ०४००३८२ कालकामदकामघ्न दुष्टोद्वृत्तनिषूदन ॥ ४०.३८। ०४००३९१ सर्वगर्हित सर्वघ्न सद्योजात नमो ऽस्तु ते । ०४००३९२ उन्मादन शतावर्त-गङ्गातोयार्द्रमूर्धज ॥ ४०.३९। ०४००४०१ चन्द्रार्धसंयुगावर्त मेघावर्त नमो ऽस्तु ते । ०४००४०२ नमो ऽन्नदानकर्त्रे च अन्नदप्रभवे नमः ॥ ४०.४०। ०४००४११ अन्नभोक्त्रे च गोप्त्रे च त्वमेव प्रलयानल । ०४००४१२ जरायुजाण्डजाश्चैव स्वेदजोद्भिज्ज एव च ॥ ४०.४१। ०४००४२१ त्वमेव देवदेवेश भूतग्रामश्चतुर्विधः । ०४००४२२ चराचरस्य स्रष्टा त्वं प्रतिहर्ता त्वमेव च ॥ ४०.४२। ०४००४३१ त्वमेव ब्रह्मा विश्वेश अप्सु ब्रह्म वदन्ति ते । ०४००४३२ सर्वस्य परमा योनिः सुधांशो ज्योतिषां निधिः ॥ ४०.४३। ०४००४४१ ऋक्सामानि तथौङ्कारमाहुस्त्वां ब्रह्मवादिनः । ०४००४४२ हायि हायि हरे हायि हुवाहावेति वासकृत् ॥ ४०.४४। ०४००४५१ गायन्ति त्वां सुरश्रेष्ठाः सामगा ब्रह्मवादिनः । ०४००४५२ यजुर्मय ऋङ्मयश्च सामाथर्वयुतस्तथा ॥ ४०.४५। ०४००४६१ पठ्यसे ब्रह्मविद्भिस्त्वं कल्पोपनिषदां गणैः । ०४००४६२ ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वर्णाश्रमाश्च ये ॥ ४०.४६। ०४००४७१ त्वमेवाश्रमसङ्घाश्च विद्युत्स्तनितमेव च । ०४००४७२ संवत्सरस्त्वमृतवो मासा मासार्धमेव च ॥ ४०.४७। ०४००४८१ कला काष्ठा निमेषाश्च नक्षत्राणि युगानि च । ०४००४८२ वृषाणां ककुदं त्वं हि गिरीणां शिखराणि च ॥ ४०.४८। ०४००४९१ सिंहो मृगाणां पतयस्तक्षकानन्तभोगिनाम् । ०४००४९२ क्षीरोदो ह्युदधीनां च मन्त्राणां प्रणवस्तथा ॥ ४०.४९। ०४००५०१ वज्रं प्रहरणानां च व्रतानां सत्यमेव च । ०४००५०२ त्वमेवेच्छा च द्वेषश्च रागो मोहः शमः क्षमा ॥ ४०.५०। ०४००५११ व्यवसायो धृतिर्लोभः कामक्रोधौ जयाजयौ । ०४००५१२ त्वं गदी त्वं शरी चापी खट्वाङ्गी मुद्गरी तथा ॥ ४०.५१। ०४००५२१ छेत्ता भेत्ता प्रहर्ता च नेता मन्तासि नो मतः । ०४००५२२ दशलक्षणसंयुक्तो धर्मो ऽर्थः काम एव च ॥ ४०.५२। ०४००५३१ इन्दुः समुद्रः सरितः पल्वलानि सरांसि च । ०४००५३२ लतावल्ल्यस्तृणौषध्यः पशवो मृगपक्षिणः ॥ ४०.५३। ०४००५४१ द्रव्यकर्मगुणारम्भः कालपुष्पफलप्रदः । ०४००५४२ आदिश्चान्तश्च मध्यश्च गायत्र्योङ्कार एव च ॥ ४०.५४। ०४००५५१ हरितो लोहितः कृष्णो नीलः पीतस्तथा क्षणः । ०४००५५२ कद्रुश्च कपिलो बभ्रुः कपोतो मच्छकस्तथा ॥ ४०.५५। ०४००५६१ सुवर्णरेता विख्यातः सुवर्णश्चाप्यथो मतः । ०४००५६२ सुवर्णनामा च तथा सुवर्णप्रिय एव च ॥ ४०.५६। ०४००५७१ त्वमिन्द्रश्च यमश्चैव वरुणो धनदो ऽनलः । ०४००५७२ उत्फुल्लश्चित्रभानुश्च स्वर्भानुर्भानुरेव च ॥ ४०.५७। ०४००५८१ होत्रं होता च होम्यं च हुतं चैव तथा प्रभुः । ०४००५८२ त्रिसौपर्णस्तथा ब्रह्मन्यजुषां शतरुद्रियम् ॥ ४०.५८। ०४००५९१ पवित्रं च पवित्राणां मङ्गलानां च मङ्गलम् । ०४००५९२ प्राणश्च त्वं रजश्च त्वं तमः सत्त्वयुतस्तथा ॥ ४०.५९। ०४००६०१ प्राणो ऽपानः समानश्च उदानो व्यान एव च । ०४००६०२ उन्मेषश्च निमेषश्च क्षुत्तृङ्जृम्भा तथैव च ॥ ४०.६०। ०४००६११ लोहिताङ्गश्च दंष्ट्री च महावक्त्रो महोदरः । ०४००६१२ शुचिरोमा हरिच्छ्मश्रुरूर्ध्वकेशश्चलाचलः ॥ ४०.६१। ०४००६२१ गीतवादित्रनृत्याङ्गो गीतवादनकप्रियः । ०४००६२२ मत्स्यो जालो जलो ऽजय्यो जलव्यालः कुटीचरः ॥ ४०.६२। ०४००६३१ विकालश्च सुकालश्च दुष्कालः कालनाशनः । ०४००६३२ मृत्युश्चैवाक्षयो ऽन्तश्च क्षमामायाकरोत्करः ॥ ४०.६३। ०४००६४१ संवर्तो वर्तकश्चैव संवर्तकबलाहकौ । ०४००६४२ घण्टाकी घण्टकी घण्टी चूडालो लवणोदधिः ॥ ४०.६४। ०४००६५१ ब्रह्मा कालाग्निवक्त्रश्च दण्डी मुण्डस्त्रिदण्डधृक् । ०४००६५२ चतुर्युगश्चतुर्वेदश्चतुर्होत्रश्चतुष्पथः ॥ ४०.६५। ०४००६६१ चातुराश्रम्यनेता च चातुर्वर्ण्यकरश्च ह । ०४००६६२ क्षराक्षरः प्रियो धूर्तो गणैर्गण्यो गणाधिपः ॥ ४०.६६। ०४००६७१ रक्तमाल्याम्बरधरो गिरीशो गिरिजाप्रियः । ०४००६७२ शिल्पीशः शिल्पिनः श्रेष्ठः सर्वशिल्पिप्रवर्तकः ॥ ४०.६७। ०४००६८१ भगनेत्रान्तकश्चण्डः पूष्णो दन्तविनाशनः । ०४००६८२ स्वाहा स्वधा वषट्कारो नमस्कार नमो ऽस्तु ते ॥ ४०.६८। ०४००६९१ गूढव्रतश्च गूढश्च गूढव्रतनिषेवितः । ०४००६९२ तरणस्तारणश्चैव सर्वभूतेषु तारणः ॥ ४०.६९। ०४००७०१ धाता विधाता सन्धाता निधाता धारणो धरः । ०४००७०२ तपो ब्रह्म च सत्यं च ब्रह्मचर्यं तथार्जवम् ॥ ४०.७०। ०४००७११ भूतात्मा भूतकृद्भूतो भूतभव्यभवोद्भवः । ०४००७१२ भूर्भुवः स्वरितश्चैव भूतो ह्यग्निर्महेश्वरः ॥ ४०.७१। ०४००७२१ ब्रह्मावर्तः सुरावर्तः कामावर्त नमो ऽस्तु ते । ०४००७२२ कामबिम्बविनिर्हन्ता कर्णिकारस्रजप्रियः ॥ ४०.७२। ०४००७३१ गोनेता गोप्रचारश्च गोवृषेश्वरवाहनः । ०४००७३२ त्रैलोक्यगोप्ता गोविन्दो गोप्ता गोगर्ग एव च ॥ ४०.७३। ०४००७४१ अखण्डचन्द्राभिमुखः सुमुखो दुर्मुखो ऽमुखः । ०४००७४२ चतुर्मुखो बहुमुखो रणेष्वभिमुखः सदा ॥ ४०.७४। ०४००७५१ हिरण्यगर्भः शकुनिर्धनदो ऽर्थपतिर्विराट् । ०४००७५२ अधर्महा महादक्षो दण्डधारो रणप्रियः ॥ ४०.७५। ०४००७६१ तिष्ठन्स्थिरश्च स्थाणुश्च निष्कम्पश्च सुनिश्चलः । ०४००७६२ दुर्वारणो दुर्विषहो दुःसहो दुरतिक्रमः ॥ ४०.७६। ०४००७७१ दुर्धरो दुर्वशो नित्यो दुर्दर्पो विजयो जयः । ०४००७७२ शशः शशाङ्कनयन-शीतोष्णः क्षुत्तृषा जरा ॥ ४०.७७। ०४००७८१ आधयो व्याधयश्चैव व्याधिहा व्याधिपश्च यः । ०४००७८२ सह्यो यज्ञमृगव्याधो व्याधीनामाकरो ऽकरः ॥ ४०.७८। ०४००७९१ शिखण्डी पुण्डरीकश्च पुण्डरीकावलोकनः । ०४००७९२ दण्डधृक्चक्रदण्डश्च रौद्रभागविनाशनः ॥ ४०.७९। ०४००८०१ विषपो ऽमृतपश्चैव सुरापः क्षीरसोमपः । ०४००८०२ मधुपश्चापपश्चैव सर्वपश्च बलाबलः ॥ ४०.८०। ०४००८११ वृषाङ्गराम्भो वृषभस्तथा वृषभलोचनः । ०४००८१२ वृषभश्चैव विख्यातो लोकानां लोकसंस्कृतः ॥ ४०.८१। ०४००८२१ चन्द्रादित्यौ चक्षुषी ते हृदयं च पितामहः । ०४००८२२ अग्निष्टोमस्तथा देहो धर्मकर्मप्रसाधितः ॥ ४०.८२। ०४००८३१ न ब्रह्मा न च गोविन्दः पुराणर्षयो न च । ०४००८३२ माहात्म्यं वेदितुं शक्ता याथातथ्येन ते शिव ॥ ४०.८३। ०४००८४१ शिवा या मूर्तयः सूक्ष्मास्ते मह्यं यान्तु दर्शनम् । ०४००८४२ ताभिर्मां सर्वतो रक्ष पिता पुत्रमिवौरसम् ॥ ४०.८४। ०४००८५१ रक्ष मां रक्षणीयो ऽहं तवानघ नमो ऽस्तु ते । ०४००८५२ भक्तानुकम्पी भगवान्भक्तश्चाहं सदा त्वयि ॥ ४०.८५। ०४००८६१ यः सहस्राण्यनेकानि पुंसामावृत्य दुर्दृशाम् । ०४००८६२ तिष्ठत्येकः समुद्रान्ते स मे गोप्तास्तु नित्यशः ॥ ४०.८६। ०४००८७१ यं विनिद्रा जितश्वासाः सत्त्वस्थाः समदर्शिनः । ०४००८७२ ज्योतिः पश्यन्ति युञ्जानास्तस्मै योगात्मने नमः ॥ ४०.८७। ०४००८८१ सम्भक्ष्य सर्वभूतानि युगान्ते समुपस्थिते । ०४००८८२ यः शेते जलमध्यस्थस्तं प्रपद्ये ऽम्बुशायिनम् ॥ ४०.८८। ०४००८९१ प्रविश्य वदनं राहोर्यः सोमं पिबते निशि । ०४००८९२ ग्रसत्यर्कं च स्वर्भानुर्भूत्वा सोमाग्निरेव च ॥ ४०.८९। ०४००९०१ अङ्गुष्ठमात्राः पुरुषा देहस्थाः सर्वदेहिनाम् । ०४००९०२ रक्षन्तु ते च मां नित्यं नित्यं चाप्याययन्तु माम् ॥ ४०.९०। ०४००९११ येनाप्युत्पादिता गर्भा अपो भागगताश्च ये । ०४००९१२ तेषां स्वाहा स्वधा चैव आप्नुवन्ति स्वदन्ति च ॥ ४०.९१। ०४००९२१ येन रोहन्ति देहस्थाः प्राणिनो रोदयन्ति च । ०४००९२२ हर्षयन्ति न कृष्यन्ति नमस्तेभ्यस्तु नित्यशः ॥ ४०.९२। ०४००९३१ ये समुद्रे नदीदुर्गे पर्वतेषु गुहासु च । ०४००९३२ वृक्षमूलेषु गोष्ठेषु कान्तारगहनेषु च ॥ ४०.९३। ०४००९४१ चतुष्पथेषु रथ्यासु चत्वरेषु सभासु च । ०४००९४२ हस्त्यश्वरथशालासु जीर्णोद्यानालयेषु च ॥ ४०.९४। ०४००९५१ येषु पञ्चसु भूतेषु दिशासु विदिशासु च । ०४००९५२ इन्द्रार्कयोर्मध्यगता ये च चन्द्रार्करश्मिषु ॥ ४०.९५। ०४००९६१ रसातलगता ये च ये च तस्मात्परं गताः । ०४००९६२ नमस्तेभ्यो नमस्तेभ्यो नमस्तेभ्यस्तु सर्वशः ॥ ४०.९६। ०४००९७१ सर्वस्त्वं सर्वगो देवः सर्वभूतपतिर्भवः । ०४००९७२ सर्वभूतान्तरात्मा च तेन त्वं न निमन्त्रितः ॥ ४०.९७। ०४००९८१ त्वमेव चेज्यसे देव यज्ञैर्विविधदक्षिणैः । ०४००९८२ त्वमेव कर्ता सर्वस्य तेन त्वं न निमन्त्रितः ॥ ४०.९८। ०४००९९१ अथवा मायया देव मोहितः सूक्ष्मया तव । ०४००९९२ तस्मात्तु कारणाद्वापि त्वं मया न निमन्त्रितः ॥ ४०.९९। ०४०१००१ प्रसीद मम देवेश त्वमेव शरणं मम । ०४०१००२ त्वं गतिस्त्वं प्रतिष्ठा च न चान्यो ऽस्तीति मे मतिः ॥ ४०.१००। ०४०१०१० ब्रह्मोवाच ०४०१०११ स्तुत्वैवं स महादेवं विरराम महामतिः । ०४०१०१२ भगवानपि सुप्रीतः पुनर्दक्षमभाषत ॥ ४०.१०१। ०४०१०२० श्रीभगवानुवाच ०४०१०२१ परितुष्टो ऽस्मि ते दक्ष स्तवेनानेन सुव्रत । ०४०१०२२ बहुना तु किमुक्तेन मत्समीपं गमिष्यसि ॥ ४०.१०२। ०४०१०३० ब्रह्मोवाच ०४०१०३१ तथैवमब्रवीद्वाक्यं त्रैलोक्याधिपतिर्भवः । ०४०१०३२ कृत्वाश्वासकरं वाक्यं सर्वज्ञो वाक्यसंहितम् ॥ ४०.१०३। ०४०१०४० श्रीशिव उवाच ०४०१०४१ दक्ष दुःखं न कर्तव्यं यज्ञविध्वंसनं प्रति । ०४०१०४२ अहं यज्ञहनस्तुभ्यं दृष्टमेतत्पुरानघ ॥ ४०.१०४। ०४०१०५१ भूयश्च त्वं वरमिमं मत्तो गृह्णीष्व सुव्रत । ०४०१०५२ प्रसन्नसुमुखो भूत्वा ममैकाग्रमनाः शृणु ॥ ४०.१०५। ०४०१०६१ अश्वमेधसहस्रस्य वाजपेयशतस्य वै । ०४०१०६२ प्रजापते मत्प्रसादात्फलभागी भविष्यसि ॥ ४०.१०६। ०४०१०७१ वेदान्षडङ्गान्बुध्यस्व साङ्ख्ययोगांश्च कृत्स्नशः । ०४०१०७२ तपश्च विपुलं तप्त्वा दुश्चरं देवदानवैः ॥ ४०.१०७। ०४०१०८१ अब्दैर्द्वादशभिर्युक्तं गूढमप्रज्ञनिन्दितम् । ०४०१०८२ वर्णाश्रमकृतैर्धर्मैर्विनीतं न क्वचित्क्वचित् ॥ ४०.१०८। ०४०१०९१ समागतं व्यवसितं पशुपाशविमोक्षणम् । ०४०१०९२ सर्वेषामाश्रमाणां च मया पाशुपतं व्रतम् ॥ ४०.१०९। ०४०११०१ उत्पादितं दक्ष शुभं सर्वपापविमोचनम् । ०४०११०२ अस्य चीर्णस्य यत्सम्यक्फलं भवति पुष्कलम् । ०४०११०३ तच्चास्तु सुमहाभाग मानसस्त्यज्यतां ज्वरः ॥ ४०.११०। ०४०१११० ब्रह्मोवाच ०४०११११ एवमुक्त्वा तु देवेशः सपत्नीकः सहानुगः । ०४०१११२ अदर्शनमनुप्राप्तो दक्षस्यामिततेजसः ॥ ४०.१११। ०४०११२१ अवाप्य च तथा भागं यथोक्तं चोमया भवः । ०४०११२२ ज्वरं च सर्वधर्मज्ञो बहुधा व्यभजत्तदा ॥ ४०.११२। ०४०११३१ शान्त्यर्थं सर्वभूतानां शृणुध्वमथ वै द्विजाः । ०४०११३२ शिखाभितापो नागानां पर्वतानां शिलाजतु ॥ ४०.११३। ०४०११४१ अपां तु नीलिकां विद्यान्निर्मोको भुजगेषु च । ०४०११४२ खोरकः सौरभेयाणामूखरः पृथिवीतले ॥ ४०.११४। ०४०११५१ शुनामपि च धर्मज्ञा दृष्टिप्रत्यवरोधनम् । ०४०११५२ रन्ध्रागतमथाश्वानां शिखोद्भेदश्च बर्हिणाम् ॥ ४०.११५। ०४०११६१ नेत्ररागः कोकिलानां द्वेषः प्रोक्तो महात्मनाम् । ०४०११६२ जनानामपि भेदश्च सर्वेषामिति नः श्रुतम् ॥ ४०.११६। ०४०११७१ शुकानामपि सर्वेषां हिक्किका प्रोच्यते ज्वरः । ०४०११७२ शार्दूलेष्वथ वै विप्राः श्रमो ज्वर इहोच्यते ॥ ४०.११७। ०४०११८१ मानुषेषु च सर्वज्ञा ज्वरो नामैष कीर्तितः । ०४०११८२ मरणे जन्मनि तथा मध्ये चापि निवेशितः ॥ ४०.११८। ०४०११९१ एतन्माहेश्वरं तेजो ज्वरो नाम सुदारुणः । ०४०११९२ नमस्यश्चैव मान्यश्च सर्वप्राणिभिरीश्वरः ॥ ४०.११९। ०४०१२०१ इमां ज्वरोत्पत्तिमदीनमानसः । ०४०१२०२ पठेत्सदा यः सुसमाहितो नरः । ०४०१२०३ विमुक्तरोगः स नरो मुदायुतो । ०४०१२०४ लभेत कामांश्च यथामनीषितान् ॥ ४०.१२०। ०४०१२११ दक्षप्रोक्तं स्तवं चापि कीर्तयेद्यः शृणोति वा । ०४०१२१२ नाशुभं प्राप्नुयात्किञ्चिद्दीर्घमायुरवाप्नुयात् ॥ ४०.१२१। ०४०१२२१ यथा सर्वेषु देवेषु वरिष्ठो भगवान्भवः । ०४०१२२२ तथा स्तवो वरिष्ठो ऽयं स्तवानां दक्षनिर्मितः ॥ ४०.१२२। ०४०१२३१ यशःस्वर्गसुरैश्वर्य-वित्तादिजयकाङ्क्षिभिः । ०४०१२३२ स्तोतव्यो भक्तिमास्थाय विद्याकामैश्च यत्नतः ॥ ४०.१२३। ०४०१२४१ व्याधितो दुःखितो दीनो नरो ग्रस्तो भयादिभिः । ०४०१२४२ राजकार्यनियुक्तो वा मुच्यते महतो भयात् ॥ ४०.१२४। ०४०१२५१ अनेनैव च देहेन गणानां च महेश्वरात् । ०४०१२५२ इह लोके सुखं प्राप्य गणराडुपजायते ॥ ४०.१२५। ०४०१२६१ न यक्षा न पिशाचा वा न नागा न विनायकाः । ०४०१२६२ कुर्युर्विघ्नं गृहे तस्य यत्र संस्तूयते भवः ॥ ४०.१२६। ०४०१२७१ शृणुयाद्वा इदं नारी भक्त्याथ भवभाविता । ०४०१२७२ पितृपक्षे भर्तृपक्षे पूज्या भवति चैव ह ॥ ४०.१२७। ०४०१२८१ शृणुयाद्वा इदं सर्वं कीर्तयेद्वाप्यभीक्ष्णशः । ०४०१२८२ तस्य सर्वाणि कार्याणि सिद्धिं गच्छन्त्यविघ्नतः ॥ ४०.१२८। ०४०१२९१ मनसा चिन्तितं यच्च यच्च वाचाप्युदाहृतम् । ०४०१२९२ सर्वं सम्पद्यते तस्य स्तवस्यास्यानुकीर्तनात् ॥ ४०.१२९। ०४०१३०१ देवस्य सगुहस्याथ देव्या नन्दीश्वरस्य च । ०४०१३०२ बलिं विभजतः कृत्वा दमेन नियमेन च ॥ ४०.१३०। ०४०१३११ ततः प्रयुक्तो गृह्णीयान्नामान्याशु यथाक्रमम् । ०४०१३१२ ईप्सितांल्लभते ऽप्यर्थान्कामान्भोगांश्च मानवः ॥ ४०.१३१। ०४०१३२१ मृतश्च स्वर्गमाप्नोति स्त्रीसहस्रसमावृतः । ०४०१३२२ सर्वकामसुयुक्तो वा युक्तो वा सर्वपातकैः ॥ ४०.१३२। ०४०१३३१ पठन्दक्षकृतं स्तोत्रं सर्वपापैः प्रमुच्यते । ०४०१३३२ मृतश्च गणसायुज्यं पूज्यमानः सुरासुरैः ॥ ४०.१३३। ०४०१३४१ वृषेण विनियुक्तेन विमानेन विराजते । ०४०१३४२ आभूतसम्प्लवस्थायी रुद्रस्यानुचरो भवेत् ॥ ४०.१३४। ०४०१३५१ इत्याह भगवान्व्यासः पराशरसुतः प्रभुः । ०४०१३५२ नैतद्वेदयते कश्चिन्नैतच्छ्राव्यं च कस्यचित् ॥ ४०.१३५। ०४०१३६१ श्रुत्वेमं परमं गुह्यं ये ऽपि स्युः पापयोनयः । ०४०१३६२ वैश्याः स्त्रियश्च शूद्राश्च रुद्रलोकमवाप्नुयुः ॥ ४०.१३६। ०४०१३७१ श्रावयेद्यश्च विप्रेभ्यः सदा पर्वसु पर्वसु । ०४०१३७२ रुद्रलोकमवाप्नोति द्विजो वै नात्र संशयः ॥ ४०.१३७। ०४१००१० लोमहर्षण उवाच ०४१००११ श्रुत्वैवं वै मुनिश्रेष्ठाः कथां पापप्रणाशिनीम् । ०४१००१२ रुद्रक्रोधोद्भवां पुण्यां व्यासस्य वदतो द्विजाः ॥ ४१.१। ०४१००२१ पार्वत्याश्च तथा रोषं क्रोधं शम्भोश्च दुःसहम् । ०४१००२२ उत्पत्तिं वीरभद्रस्य भद्रकाल्याश्च सम्भवम् ॥ ४१.२। ०४१००३१ दक्षयज्ञविनाशं च वीर्यं शम्भोस्तथाद्भुतम् । ०४१००३२ पुनः प्रसादं देवस्य दक्षस्य सुमहात्मनः ॥ ४१.३। ०४१००४१ यज्ञभागं च रुद्रस्य दक्षस्य च फलं क्रतोः । ०४१००४२ हृष्टा बभूवुः सम्प्रीता विस्मिताश्च पुनः पुनः ॥ ४१.४। ०४१००५१ पप्रच्छुश्च पुनर्व्यासं कथाशेषं तथा द्विजाः । ०४१००५२ पृष्टः प्रोवाच तान्व्यासः क्षेत्रमेकाम्रकं पुनः ॥ ४१.५। ०४१००६० व्यास उवाच ०४१००६१ ब्रह्मप्रोक्तां कथां पुण्यां श्रुत्वा तु ऋषिपुङ्गवाः । ०४१००६२ प्रशशंसुस्तदा हृष्टा रोमाञ्चिततनूरुहाः ॥ ४१.६। ०४१००७० ऋषय ऊचुः ०४१००७१ अहो देवस्य माहात्म्यं त्वया शम्भोः प्रकीर्तितम् । ०४१००७२ दक्षस्य च सुरश्रेष्ठ यज्ञविध्वंसनं तथा ॥ ४१.७। ०४१००८१ एकाम्रकं क्षेत्रवरं वक्तुमर्हसि साम्प्रतम् । ०४१००८२ श्रोतुमिच्छामहे ब्रह्मन्परं कौतूहलं हि नः ॥ ४१.८। ०४१००९० व्यास उवाच ०४१००९१ तेषां तद्वचनं श्रुत्वा लोकनाथश्चतुर्मुखः । ०४१००९२ प्रोवाच शम्भोस्तत्क्षेत्रं भूतले दुष्कृतच्छदम् ॥ ४१.९। ०४१०१०० ब्रह्मोवाच ०४१०१०१ शृणुध्वं मुनिशार्दूलाः प्रवक्ष्यामि समासतः । ०४१०१०२ सर्वपापहरं पुण्यं क्षेत्रं परमदुर्लभम् ॥ ४१.१०। ०४१०१११ लिङ्गकोटिसमायुक्तं वाराणसीसमं शुभम् । ०४१०११२ एकाम्रकेति विख्यातं तीर्थाष्टकसमन्वितम् ॥ ४१.११। ०४१०१२१ एकाम्रवृक्षस्तत्रासीत्पुरा कल्पे द्विजोत्तमाः । ०४१०१२२ नाम्ना तस्यैव तत्क्षेत्रमेकाम्रकमिति श्रुतम् ॥ ४१.१२। ०४१०१३१ हृष्टपुष्टजनाकीर्णं नरनारीसमन्वितम् । ०४१०१३२ विद्वांसगण भूयिष्ठं धनधान्यादिसंयुतम् ॥ ४१.१३। ०४१०१४१ गृहगोपुरसम्बाधं त्रिकचाद्वारभूषितम् । ०४१०१४२ नानावणिक्समाकीर्णं नानारत्नोपशोभितम् ॥ ४१.१४। ०४१०१५१ पुराट्टालकसंयुक्तं रथिभिः समलङ्कृतम् । ०४१०१५२ राजहंसनिभैः शुभ्रैः प्रासादैरुपशोभितम् ॥ ४१.१५। ०४१०१६१ मार्गगद्वारसंयुक्तं सितप्राकारशोभितम् । ०४१०१६२ रक्षितं शस्त्रसङ्घैश्च परिखाभिरलङ्कृतम् ॥ ४१.१६। ०४१०१७१ सितरक्तैस्तथा पीतैः कृष्णश्यामैश्च वर्णकैः । ०४१०१७२ समीरणोद्धताभिश्च पताकाभिरलङ्कृतम् ॥ ४१.१७। ०४१०१८१ नित्योत्सवप्रमुदितं नानावादित्रनिस्वनैः । ०४१०१८२ वीणावेणुमृदङ्गैश्च क्षेपणीभिरलङ्कृतम् ॥ ४१.१८। ०४१०१९१ देवतायतनैर्दिव्यैः प्राकारोद्यानमण्डितैः । ०४१०१९२ पूजाविचित्ररचितैः सर्वत्र समलङ्कृतम् ॥ ४१.१९। ०४१०२०१ स्त्रियः प्रमुदितास्तत्र दृश्यन्ते तनुमध्यमाः । ०४१०२०२ हारैरलङ्कृतग्रीवाः पद्मपत्त्रायतेक्षणाः ॥ ४१.२०। ०४१०२११ पीनोन्नतकुचाः श्यामाः पूर्णचन्द्रनिभाननाः । ०४१०२१२ स्थिरालकाः सुकपोलाः काञ्चीनूपुरनादिताः ॥ ४१.२१। ०४१०२२१ सुकेश्यश्चारुजघनाः कर्णान्तायतलोचनाः । ०४१०२२२ सर्वलक्षणसम्पन्नाः सर्वाभरणभूषिताः ॥ ४१.२२। ०४१०२३१ दिव्यवस्त्रधराः शुभ्राः काश्चित्काञ्चनसन्निभाः । ०४१०२३२ हंसवारणगामिन्यः कुचभारावनामिताः ॥ ४१.२३। ०४१०२४१ दिव्यगन्धानुलिप्ताङ्गाः कर्णाभरणभूषिताः । ०४१०२४२ मदालसाश्च सुश्रोण्यो नित्यं प्रहसिताननाः ॥ ४१.२४। ०४१०२५१ ईषद्विस्पष्टदशना बिम्बौष्ठा मधुरस्वराः । ०४१०२५२ ताम्बूलरञ्जितमुखा विदग्धाः प्रियदर्शनाः ॥ ४१.२५। ०४१०२६१ सुभगाः प्रियवादिन्यो नित्यं यौवनगर्विताः । ०४१०२६२ दिव्यवस्त्रधराः सर्वाः सदा चारित्रमण्डिताः ॥ ४१.२६। ०४१०२७१ क्रीडन्ति ताः सदा तत्र स्त्रियश्चाप्सरसोपमाः । ०४१०२७२ स्वे स्वे गृहे प्रमुदिता दिवा रात्रौ वराननाः ॥ ४१.२७। ०४१०२८१ पुरुषास्तत्र दृश्यन्ते रूपयौवनगर्विताः । ०४१०२८२ सर्वलक्षणसम्पन्नाः सुमृष्टमणिकुण्डलाः ॥ ४१.२८। ०४१०२९१ ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च मुनिसत्तमाः । ०४१०२९२ स्वधर्मनिरतास्तत्र निवसन्ति सुधार्मिकाः ॥ ४१.२९। ०४१०३०१ अन्याश्च तत्र तिष्ठन्ति वारमुख्याः सुलोचनाः । ०४१०३०२ घृताचीमेनकातुल्यास्तथा समतिलोत्तमाः ॥ ४१.३०। ०४१०३११ उर्वशीसदृशाश्चैव विप्रचित्तिनिभास्तथा । ०४१०३१२ विश्वाचीसहजन्याभाः प्रम्लोचासदृशास्तथा ॥ ४१.३१। ०४१०३२१ सर्वास्ताः प्रियवादिन्यः सर्वा विहसिताननाः । ०४१०३२२ कलाकौशलसंयुक्ताः सर्वास्ता गुणसंयुताः ॥ ४१.३२। ०४१०३३१ एवं पण्यस्त्रियस्तत्र नृत्यगीतविशारदाः । ०४१०३३२ निवसन्ति मुनिश्रेष्ठाः सर्वस्त्रीगुणगर्विताः ॥ ४१.३३। ०४१०३४१ प्रेक्षणालापकुशलाः सुन्दर्यः प्रियदर्शनाः । ०४१०३४२ न रूपहीना दुर्वृत्ता न परद्रोहकारिकाः ॥ ४१.३४। ०४१०३५१ यासां कटाक्षपातेन मोहं गच्छन्ति मानवाः । ०४१०३५२ न तत्र निर्धनाः सन्ति न मूर्खा न परद्विषः ॥ ४१.३५। ०४१०३६१ न रोगिणो न मलिना न कदर्या न मायिनः । ०४१०३६२ न रूपहीना दुर्वृत्ता न परद्रोहकारिणः ॥ ४१.३६। ०४१०३७१ तिष्ठन्ति मानवास्तत्र क्षेत्रे जगति विश्रुते । ०४१०३७२ सर्वत्र सुखसञ्चारं सर्वसत्त्वसुखावहम् ॥ ४१.३७। ०४१०३८१ नानाजनसमाकीर्णं सर्वसस्यसमन्वितम् । ०४१०३८२ कर्णिकारैश्च पनसैश्चम्पकैर्नागकेसरैः ॥ ४१.३८। ०४१०३९१ पाटलाशोकबकुलैः कपित्थैर्बहुलैर्धवैः । ०४१०३९२ चूतनिम्बकदम्बैश्च तथान्यैः पुष्पजातिभिः ॥ ४१.३९। ०४१०४०१ नीपकैर्धवखदिरैर्लताभिश्च विराजितम् । ०४१०४०२ शालैस्तालैस्तमालैश्च नारिकेलैः शुभाञ्जनैः ॥ ४१.४०। ०४१०४११ अर्जुनैः समपर्णैश्च कोविदारैः सपिप्पलैः । ०४१०४१२ लकुचैः सरलैर्लोध्रैर्हिन्तालैर्देवदारुभिः ॥ ४१.४१। ०४१०४२१ पलाशैर्मुचुकुन्दैश्च पारिजातैः सकुब्जकैः । ०४१०४२२ कदलीवनखण्डैश्च जम्बूपूगफलैस्तथा ॥ ४१.४२। ०४१०४३१ केतकीकरवीरैश्च अतिमुक्तैश्च किंशुकैः । ०४१०४३२ मन्दारकुन्दपुष्पैश्च तथान्यैः पुष्पजातिभिः ॥ ४१.४३। ०४१०४४१ नानापक्षिरुतैः सेव्यैरुद्यानैर्नन्दनोपमैः । ०४१०४४२ फलभारानतैर्वृक्षैः सर्वर्तुकुसुमोत्करैः ॥ ४१.४४। ०४१०४५१ चकोरैः शतपत्त्रैश्च भृङ्गराजैश्च कोकिलैः । ०४१०४५२ कलविङ्कैर्मयूरैश्च प्रियपुत्रैः शुकैस्तथा ॥ ४१.४५। ०४१०४६१ जीवञ्जीवकहारीतैश्चातकैर्वनवेष्टितैः । ०४१०४६२ नानापक्षिगणैश्चान्यैः कूजद्भिर्मधुरस्वरैः ॥ ४१.४६। ०४१०४७१ दीर्घिकाभिस्तडागैश्च पुष्करिणीभिश्च वापिभिः । ०४१०४७२ नानाजलाशयैश्चान्यैः पद्मिनीखण्डमण्डितैः ॥ ४१.४७। ०४१०४८१ कुमुदैः पुण्डरीकैश्च तथा नीलोत्पलैः शुभैः । ०४१०४८२ कादम्बैश्चक्रवाकैश्च तथैव जलकुक्कुटैः ॥ ४१.४८। ०४१०४९१ कारण्डवैः प्लवैर्हंसैस्तथान्यैर्जलचारिभिः । ०४१०४९२ एवं नानाविधैर्वृक्षैः पुष्पैर्नानाविधैर्वरैः ॥ ४१.४९। ०४१०५०१ नानाजलाशयैः पुण्यैः शोभितं तत्समन्ततः । ०४१०५०२ आस्ते तत्र स्वयं देवः कृत्तिवासा वृषध्वजः ॥ ४१.५०। ०४१०५११ हिताय सर्वलोकस्य भुक्तिमुक्तिप्रदः शिवः । ०४१०५१२ पृथिव्यां यानि तीर्थानि सरितश्च सरांसि च ॥ ४१.५१। ०४१०५२१ पुष्करिण्यस्तडागानि वाप्यः कूपाश्च सागराः । ०४१०५२२ तेभ्यः पूर्वं समाहृत्य जलबिन्दून्पृथक्पृथक् ॥ ४१.५२। ०४१०५३१ सर्वलोकहितार्थाय रुद्रः सर्वसुरैः सह । ०४१०५३२ तीर्थं बिन्दुसरो नाम तस्मिन्क्षेत्रे द्विजोत्तमाः ॥ ४१.५३। ०४१०५४१ चकार ऋषिभिः सार्धं तेन बिन्दुसरः स्मृतम् । ०४१०५४२ अष्टम्यां बहुले पक्षे मार्गशीर्षे द्विजोत्तमाः ॥ ४१.५४। ०४१०५५१ यस्तत्र यात्रां कुरुते विषुवे विजितेन्द्रियः । ०४१०५५२ विधिवद्बिन्दुसरसि स्नात्वा श्रद्धासमन्वितः ॥ ४१.५५। ०४१०५६१ देवानृषीन्मनुष्यांश्च पितॄन्सन्तर्प्य वाग्यतः । ०४१०५६२ तिलोदकेन विधिना नामगोत्रविधानवित् ॥ ४१.५६। ०४१०५७१ स्नात्वैवं विधिवत्तत्र सो ऽश्वमेधफलं लभेत् । ०४१०५७२ ग्रहोपरागे विषुवे सङ्क्रान्त्यामयने तथा ॥ ४१.५७। ०४१०५८१ युगादिषु षडशीत्यां तथान्यत्र शुभे तिथौ । ०४१०५८२ ये तत्र दानं विप्रेभ्यः प्रयच्छन्ति धनादिकम् ॥ ४१.५८। ०४१०५९१ अन्यतीर्थाच्छतगुणं फलं ते प्राप्नुवन्ति वै । ०४१०५९२ पिण्डं ये सम्प्रयच्छन्ति पितृभ्यः सरसस्तटे ॥ ४१.५९। ०४१०६०१ पितॄणामक्षयां तृप्तिं ते कुर्वन्ति न संशयः । ०४१०६०२ ततः शम्भोर्गृहं गत्वा वाग्यतः संयतेन्द्रियः ॥ ४१.६०। ०४१०६११ प्रविश्य पूजयेच्छर्वं कृत्वा तं त्रिः प्रदक्षिणम् । ०४१०६१२ घृतक्षीरादिभिः स्नानं कारयित्वा भवं शुचिः ॥ ४१.६१। ०४१०६२१ चन्दनेन सुगन्धेन विलिप्य कुङ्कुमेन च । ०४१०६२२ ततः सम्पूजयेद्देवं चन्द्रमौलिमुमापतिम् ॥ ४१.६२। ०४१०६३१ पुष्पैर्नानाविधैर्मेध्यैर्बिल्वार्ककमलादिभिः । ०४१०६३२ आगमोक्तेन मन्त्रेण वेदोक्तेन च शङ्करम् ॥ ४१.६३। ०४१०६४१ अदीक्षितस्तु नाम्नैव मूलमन्त्रेण चार्चयेत् । ०४१०६४२ एवं सम्पूज्य तं देवं गन्धपुष्पानुरागिभिः ॥ ४१.६४। ०४१०६५१ धूपदीपैश्च नैवेद्यैरुपहारैस्तथा स्तवैः । ०४१०६५२ दण्डवत्प्रणिपातैश्च गीतैर्वाद्यैर्मनोहरैः ॥ ४१.६५। ०४१०६६१ नृत्यजप्यनमस्कारैर्जयशब्दैः प्रदक्षिणैः । ०४१०६६२ एवं सम्पूज्य विधिवद्देवदेवमुमापतिम् ॥ ४१.६६। ०४१०६७१ सर्वपापविनिर्मुक्तो रूपयौवनगर्वितः । ०४१०६७२ कुलैकविंशमुद्धृत्य दिव्याभरणभूषिताः ॥ ४१.६७। ०४१०६८१ सौवर्णेन विमानेन किङ्किणीजालमालिना । ०४१०६८२ उपगीयमानो गन्धर्वैरप्सरोभिरलङ्कृतः ॥ ४१.६८। ०४१०६९१ उद्द्योतयन्दिशः सर्वाः शिवलोकं स गच्छति । ०४१०६९२ भुक्त्वा तत्र सुखं विप्रा मनसः प्रीतिदायकम् ॥ ४१.६९। ०४१०७०१ तल्लोकवासिभिः सार्धं यावदाभूतसम्प्लवम् । ०४१०७०२ ततस्तस्मादिहायातः पृथिव्यां पुण्यसङ्क्षये ॥ ४१.७०। ०४१०७११ जायते योगिनां गेहे चतुर्वेदी द्विजोत्तमाः । ०४१०७१२ योगं पाशुपतं प्राप्य ततो मोक्षमवाप्नुयात् ॥ ४१.७१। ०४१०७२१ शयनोत्थापने चैव सङ्क्रान्त्यामयने तथा । ०४१०७२२ अशोकाख्यां तथाष्टम्यां पवित्रारोपणे तथा ॥ ४१.७२। ०४१०७३१ ये च पश्यन्ति तं देवं कृत्तिवाससमुत्तमम् । ०४१०७३२ विमानेनार्कवर्णेन शिवलोकं व्रजन्ति ते ॥ ४१.७३। ०४१०७४१ सर्वकाले ऽपि तं देवं ये पश्यन्ति सुमेधसः । ०४१०७४२ ते ऽपि पापविनिर्मुक्ताः शिवलोकं व्रजन्ति वै ॥ ४१.७४। ०४१०७५१ देवस्य पश्चिमे पूर्वे दक्षिणे चोत्तरे तथा । ०४१०७५२ योजनद्वितयं सार्धं क्षेत्रं तद्भुक्तिमुक्तिदम् ॥ ४१.७५। ०४१०७६१ तस्मिन्क्षेत्रवरे लिङ्गं भास्करेश्वरसञ्ज्ञितम् । ०४१०७६२ पश्यन्ति ये तु तं देवं स्नात्वा कुण्डे महेश्वरम् ॥ ४१.७६। ०४१०७७१ आदित्येनार्चितं पूर्वं देवदेवं त्रिलोचनम् । ०४१०७७२ सर्वपापविनिर्मुक्ता विमानवरमास्थिताः ॥ ४१.७७। ०४१०७८१ उपगीयमाना गन्धर्वैः शिवलोकं व्रजन्ति ते । ०४१०७८२ तिष्ठन्ति तत्र मुदिताः कल्पमेकं द्विजोत्तमाः ॥ ४१.७८। ०४१०७९१ भुक्त्वा तु विपुलान्भोगाञ्शिवलोके मनोरमान् । ०४१०७९२ पुण्यक्षयादिहायाता जायन्ते प्रवरे कुले ॥ ४१.७९। ०४१०८०१ अथवा योगिनां गेहे वेदवेदाङ्गपारगाः । ०४१०८०२ उत्पद्यन्ते द्विजवराः सर्वभूतहिते रताः ॥ ४१.८०। ०४१०८११ मोक्षशास्त्रार्थकुशलाः सर्वत्र समबुद्धयः । ०४१०८१२ योगं शम्भोर्वरं प्राप्य ततो मोक्षं व्रजन्ति ते ॥ ४१.८१। ०४१०८२१ तस्मिन्क्षेत्रवरे पुण्ये लिङ्गं यद्दृश्यते द्विजाः । ०४१०८२२ पूज्यापूज्यं च सर्वत्र वने रथ्यान्तरे ऽपि वा ॥ ४१.८२। ०४१०८३१ चतुष्पथे श्मशाने वा यत्र कुत्र च तिष्ठति । ०४१०८३२ दृष्ट्वा तल्लिङ्गमव्यग्रः श्रद्धया सुसमाहितः ॥ ४१.८३। ०४१०८४१ स्नापयित्वा तु तं भक्त्या गन्धैः पुष्पैर्मनोहरैः । ०४१०८४२ धूपैर्दीपैः सनैवेद्यैर्नमस्कारैस्तथा स्तवैः ॥ ४१.८४। ०४१०८५१ दण्डवत्प्रणिपातैश्च नृत्यगीतादिभिस्तथा । ०४१०८५२ सम्पूज्यैवं विधानेन शिवलोकं व्रजेन्नरः ॥ ४१.८५। ०४१०८६१ नारी वा द्विजशार्दूलाः सम्पूज्य श्रद्धयान्विता । ०४१०८६२ पूर्वोक्तं फलमाप्नोति नात्र कार्या विचारणा ॥ ४१.८६। ०४१०८७१ कः शक्नोति गुणान्वक्तुं समग्रान्मुनिसत्तमाः । ०४१०८७२ तस्य क्षेत्रवरस्याथ ऋते देवान्महेश्वरात् ॥ ४१.८७। ०४१०८८१ तस्मिन्क्षेत्रोत्तमे गत्वा श्रद्धयाश्रद्धयापि वा । ०४१०८८२ माधवादिषु मासेषु नरो वा यदि वाङ्गना ॥ ४१.८८। ०४१०८९१ यस्मिन्यस्मिंस्तिथौ विप्राः स्नात्वा बिन्दुसरोम्भसि । ०४१०८९२ पश्येद्देवं विरूपाक्षं देवीं च वरदां शिवाम् ॥ ४१.८९। ०४१०९०१ गणं चण्डं कार्त्तिकेयं गणेशं वृषभं तथा । ०४१०९०२ कल्पद्रुमं च सावित्रीं शिवलोकं स गच्छति ॥ ४१.९०। ०४१०९११ स्नात्वा च कापिले तीर्थे विधिवत्पापनाशने । ०४१०९१२ प्राप्नोत्यभिमतान्कामाञ्शिवलोकं स गच्छति ॥ ४१.९१। ०४१०९२१ यः स्तम्भ्यं तत्र विधिवत्करोति नियतेन्द्रियः । ०४१०९२२ कुलैकविंशमुद्धृत्य शिवलोकं स गच्छति ॥ ४१.९२। ०४१०९३१ एकाम्रके शिवक्षेत्रे वाराणसीसमे शुभे । ०४१०९३२ स्नानं करोति यस्तत्र मोक्षं स लभते ध्रुवम् ॥ ४१.९३। ०४२००१० ब्रह्मोवाच ०४२००११ विरजे विरजा माता ब्रह्माणी सम्प्रतिष्ठिता । ०४२००१२ यस्याः सन्दर्शनान्मर्त्यः पुनात्यासप्तमं कुलम् ॥ ४२.१। ०४२००२१ सकृद्दृष्ट्वा तु तां देवीं भक्त्यापूज्य प्रणम्य च । ०४२००२२ नरः स्ववंशमुद्धृत्य मम लोकं स गच्छति ॥ ४२.२। ०४२००३१ अन्याश्च तत्र तिष्ठन्ति विरजे लोकमातरः । ०४२००३२ सर्वपापहरा देव्यो वरदा भक्तिवत्सलाः ॥ ४२.३। ०४२००४१ आस्ते वैतरणी तत्र सर्वपापहरा नदी । ०४२००४२ यस्यां स्नात्वा नरश्रेष्ठः सर्वपापैः प्रमुच्यते ॥ ४२.४। ०४२००५१ आस्ते स्वयम्भूस्तत्रैव क्रोडरूपी हरिः स्वयम् । ०४२००५२ दृष्ट्वा प्रणम्य तं भक्त्या परं विष्णुं व्रजन्ति ते ॥ ४२.५। ०४२००६१ कापिले गोग्रहे सोमे तीर्थे चालाबुसञ्ज्ञिते । ०४२००६२ मृत्युञ्जये क्रोडतीर्थे वासुके सिद्धकेश्वरे ॥ ४२.६। ०४२००७१ तीर्थेष्वेतेषु मतिमान्विरजे संयतेन्द्रियः । ०४२००७२ गत्वाष्टतीर्थं विधिवत्स्नात्वा देवान्प्रणम्य च ॥ ४२.७। ०४२००८१ सर्वपापविनिर्मुक्तो विमानवरमास्थितः । ०४२००८२ उपगीयमानो गन्धर्वैर्मम लोके महीयते ॥ ४२.८। ०४२००९१ विरजे यो मम क्षेत्रे पिण्डदानं करोति वै । ०४२००९२ स करोत्यक्षयां तृप्तिं पितॄणां नात्र संशयः ॥ ४२.९। ०४२०१०१ मम क्षेत्रे मुनिश्रेष्ठा विरजे ये कलेवरम् । ०४२०१०२ परित्यजन्ति पुरुषास्ते मोक्षं प्राप्नुवन्ति वै ॥ ४२.१०। ०४२०१११ स्नात्वा यः सागरे मर्त्यो दृष्ट्वा च कपिलं हरिम् । ०४२०११२ पश्येद्देवीं च वाराहीं स याति त्रिदशालयम् ॥ ४२.११। ०४२०१२१ सन्ति चान्यानि तीर्थानि पुण्यान्यायतनानि च । ०४२०१२२ तत्काले तु मुनिश्रेष्ठा वेदितव्यानि तानि वै ॥ ४२.१२। ०४२०१३१ समुद्रस्योत्तरे तीरे तस्मिन्देशे द्विजोत्तमाः । ०४२०१३२ आस्ते गुह्यं परं क्षेत्रं मुक्तिदं पापनाशनम् ॥ ४२.१३। ०४२०१४१ सर्वत्र वालुकाकीर्णं पवित्रं सर्वकामदम् । ०४२०१४२ दशयोजनविस्तीर्णं क्षेत्रं परमदुर्लभम् ॥ ४२.१४। ०४२०१५१ अशोकार्जुनपुन्नागैर्बकुलैः सरलद्रुमैः । ०४२०१५२ पनसैर्नारिकेलैश्च शालैस्तालैः कपित्थकैः ॥ ४२.१५। ०४२०१६१ चम्पकैः कर्णिकारैश्च चूतबिल्वैः सपाटलैः । ०४२०१६२ कदम्बैः कोविदारैश्च लकुचैर्नागकेसरैः ॥ ४२.१६। ०४२०१७१ प्राचीनामलकैर्लोध्रैर्नारङ्गैर्धवखादिरैः । ०४२०१७२ सर्जभूर्जाश्वकर्णैश्च तमालैर्देवदारुभिः ॥ ४२.१७। ०४२०१८१ मन्दारैः पारिजातैश्च न्यग्रोधागुरुचन्दनैः । ०४२०१८२ खर्जूराम्रातकैः सिद्धैर्मुचुकुन्दैः सकिंशुकैः ॥ ४२.१८। ०४२०१९१ अश्वत्थैः सप्तपर्णैश्च मधुधारशुभाञ्जनैः । ०४२०१९२ शिंशपामलकैर्नीपैर्निम्बतिन्दुविभीतकैः ॥ ४२.१९। ०४२०२०१ सर्वर्तुफलगन्धाढ्यैः सर्वर्तुकुसुमोज्ज्वलैः । ०४२०२०२ मनोह्लादकरैः शुभ्रैर्नानाविहगनादितैः ॥ ४२.२०। ०४२०२११ श्रोत्ररम्यैः सुमधुरैर्बलनिर्मदनेरितैः । ०४२०२१२ मनसः प्रीतिजनकैः शब्दैः खगमुखेरितैः ॥ ४२.२१। ०४२०२२१ चकोरैः शतपत्त्रैश्च भृङ्गराजैस्तथा शुकैः । ०४२०२२२ कोकिलैः कलविङ्कैश्च हारीतैर्जीवजीवकैः ॥ ४२.२२। ०४२०२३१ प्रियपुत्रैश्चातकैश्च तथान्यैर्मधुरस्वरैः । ०४२०२३२ श्रोत्ररम्यैः प्रियकरैः कूजद्भिश्चार्वधिष्ठितैः ॥ ४२.२३। ०४२०२४१ केतकीवनखण्डैश्च अतिमुक्तैः सकुब्जकैः । ०४२०२४२ मालतीकुन्दबाणैश्च करवीरैः सितेतरैः ॥ ४२.२४। ०४२०२५१ जम्बीरकरुणाङ्कोलैर्दाडिमैर्बीजपूरकैः । ०४२०२५२ मातुलुङ्गैः पूगफलैर्हिन्तालैः कदलीवनैः ॥ ४२.२५। ०४२०२६१ अन्यैश्च विविधैर्वृक्षैः पुष्पैश्चान्यैर्मनोहरैः । ०४२०२६२ लतावितानगुल्मैश्च विविधैश्च जलाशयैः ॥ ४२.२६। ०४२०२७१ दीर्घिकाभिस्तडागैश्च पुष्करिणीभिश्च वापिभिः । ०४२०२७२ नानाजलाशयैः पुण्यैः पद्मिनीखण्डमण्डितैः ॥ ४२.२७। ०४२०२८१ सरांसि च मनोज्ञानि प्रसन्नसलिलानि च । ०४२०२८२ कुमुदैः पुण्डरीकैश्च तथा नीलोत्पलैः शुभैः ॥ ४२.२८। ०४२०२९१ कह्लारैः कमलैश्चापि आचितानि समन्ततः । ०४२०२९२ कादम्बैश्चक्रवाकैश्च तथैव जलकुक्कुटैः ॥ ४२.२९। ०४२०३०१ कारण्डवैः प्लवैर्हंसैः कूर्मैर्मत्स्यैश्च मद्गुभिः । ०४२०३०२ दात्यूहसारसाकीर्णैः कोयष्टिबकशोभितैः ॥ ४२.३०। ०४२०३११ एतैश्चान्यैश्च कूजद्भिः समन्ताज्जलचारिभिः । ०४२०३१२ खगैर्जलचरैश्चान्यैः कुसुमैश्च जलोद्भवैः ॥ ४२.३१। ०४२०३२१ एवं नानाविधैर्वृक्षैः पुष्पैः स्थलजलोद्भवैः । ०४२०३२२ ब्रह्मचारिगृहस्थैश्च वानप्रस्थैश्च भिक्षुभिः ॥ ४२.३२। ०४२०३३१ स्वधर्मनिरतैर्वर्णैस्तथान्यैः समलङ्कृतम् । ०४२०३३२ हृष्टपुष्टजनाकीर्णं नरनारीसमाकुलम् ॥ ४२.३३। ०४२०३४१ अशेषविद्यानिलयं सर्वधर्मगुणाकरम् । ०४२०३४२ एवं सर्वगुणोपेतं क्षेत्रं परमदुर्लभम् ॥ ४२.३४। ०४२०३५१ आस्ते तत्र मुनिश्रेष्ठा विख्यातः पुरुषोत्तमः । ०४२०३५२ यावदुत्कलमर्यादा दिक्क्रमेण प्रकीर्तिता ॥ ४२.३५। ०४२०३६१ तावत्कृष्णप्रसादेन देशः पुण्यतमो हि सः । ०४२०३६२ यत्र तिष्ठति विश्वात्मा देशे स पुरुषोत्तमः ॥ ४२.३६। ०४२०३७१ जगद्व्यापी जगन्नाथस्तत्र सर्वं प्रतिष्ठितम् । ०४२०३७२ अहं रुद्रश्च शक्रश्च देवाश्चाग्निपुरोगमाः ॥ ४२.३७। ०४२०३८१ निवसामो मुनिश्रेष्ठास्तस्मिन्देशे सदा वयम् । ०४२०३८२ गन्धर्वाप्सरसः सर्वाः पितरो देवमानुषाः ॥ ४२.३८। ०४२०३९१ यक्षा विद्याधराः सिद्धा मुनयः संशितव्रताः । ०४२०३९२ ऋषयो वालखिल्याश्च कश्यपाद्याः प्रजेश्वराः ॥ ४२.३९। ०४२०४०१ सुपर्णाः किन्नरा नागास्तथान्ये स्वर्गवासिनः । ०४२०४०२ साङ्गाश्च चतुरो वेदाः शास्त्राणि विविधानि च ॥ ४२.४०। ०४२०४११ इतिहासपुराणानि यज्ञाश्च वरदक्षिणाः । ०४२०४१२ नद्यश्च विविधाः पुण्यास्तीर्थान्यायतनानि च ॥ ४२.४१। ०४२०४२१ सागराश्च तथा शैलास्तस्मिन्देशे व्यवस्थिताः । ०४२०४२२ एवं पुण्यतमे देशे देवर्षिपितृसेविते ॥ ४२.४२। ०४२०४३१ सर्वोपभोगसहिते वासः कस्य न रोचते । ०४२०४३२ श्रेष्ठत्वं कस्य देशस्य किं चान्यदधिकं ततः ॥ ४२.४३। ०४२०४४१ आस्ते यत्र स्वयं देवो मुक्तिदः पुरुषोत्तमः । ०४२०४४२ धन्यास्ते विबुधप्रख्या ये वसन्त्युत्कले नराः ॥ ४२.४४। ०४२०४५१ तीर्थराजजले स्नात्वा पश्यन्ति पुरुषोत्तमम् । ०४२०४५२ स्वर्गे वसन्ति ते मर्त्या न ते यान्ति यमालये ॥ ४२.४५। ०४२०४६१ ये वसन्त्युत्कले क्षेत्रे पुण्ये श्रीपुरुषोत्तमे । ०४२०४६२ सफलं जीवितं तेषामुत्कलानां सुमेधसाम् ॥ ४२.४६। ०४२०४७१ ये पश्यन्ति सुरश्रेष्ठं प्रसन्नायतलोचनम् । ०४२०४७२ चारुभ्रूकेशमुकुटं चारुकर्णावतंसकम् ॥ ४२.४७। ०४२०४८१ चारुस्मितं चारुदन्तं चारुकुण्डलमण्डितम् । ०४२०४८२ सुनासं सुकपोलं च सुललाटं सुलक्षणम् ॥ ४२.४८। ०४२०४९१ त्रैलोक्यानन्दजननं कृष्णस्य मुखपङ्कजम् ॥ ४२.४९। ०४३००१० ब्रह्मोवाच ०४३००११ पुरा कृतयुगे विप्राः शक्रतुल्यपराक्रमः । ०४३००१२ बभूव नृपतिः श्रीमानिन्द्रद्युम्न इति श्रुतः ॥ ४३.१। ०४३००२१ सत्यवादी शुचिर्दक्षः सर्वशास्त्रविशारदः । ०४३००२२ रूपवान्सुभगः शूरो दाता भोक्ता प्रियंवदः ॥ ४३.२। ०४३००३१ यष्टा समस्तयज्ञानां ब्रह्मण्यः सत्यसङ्गरः । ०४३००३२ धनुर्वेदे च वेदे च शास्त्रे च निपुणः कृती ॥ ४३.३। ०४३००४१ वल्लभो नरनारीणां पौर्णमास्यां यथा शशी । ०४३००४२ आदित्य इव दुष्प्रेक्ष्यः शत्रुसङ्घभयङ्करः ॥ ४३.४। ०४३००५१ वैष्णवः सत्त्वसम्पन्नो जितक्रोधो जितेन्द्रियः । ०४३००५२ अध्येता योगसाङ्ख्यानां मुमुक्षुर्धर्मतत्परः ॥ ४३.५। ०४३००६१ एवं स पालयन्पृथ्वीं राजा सर्वगुणाकरः । ०४३००६२ तस्य बुद्धिः समुत्पन्ना हरेराराधनं प्रति ॥ ४३.६। ०४३००७१ कथमाराधयिष्यामि देवदेवं जनार्दनम् । ०४३००७२ कस्मिन्क्षेत्रे ऽथवा तीर्थे नदीतीरे तथाश्रमे ॥ ४३.७। ०४३००८१ एवं चिन्तापरः सो ऽथ निरीक्ष्य मनसा महीम् । ०४३००८२ आलोक्य सर्वतीर्थानि क्षेत्राण्यथ पुराण्यपि ॥ ४३.८। ०४३००९१ तानि सर्वाणि सन्त्यज्य जगामायतनं पुनः । ०४३००९२ विख्यातं परमं क्षेत्रं मुक्तिदं पुरुषोत्तमम् ॥ ४३.९। ०४३०१०१ स गत्वा तत्क्षेत्रवरं समृद्धबलवाहनः । ०४३०१०२ अयजच्चाश्वमेधेन विधिवद्भूरिदक्षिणः ॥ ४३.१०। ०४३०१११ कारयित्वा महोत्सेधं प्रासादं चैव विश्रुतम् । ०४३०११२ तत्र सङ्कर्षणं कृष्णं सुभद्रां स्थाप्य वीर्यवान् ॥ ४३.११। ०४३०१२१ पञ्चतीर्थं च विधिवत्कृत्वा तत्र महीपतिः । ०४३०१२२ स्नानं दानं तपो होमं देवताप्रेक्षणं तथा ॥ ४३.१२। ०४३०१३१ भक्त्या चाराध्य विधिवत्प्रत्यहं पुरुषोत्तमम् । ०४३०१३२ प्रसादाद्देवदेवस्य ततो मोक्षमवाप्तवान् ॥ ४३.१३। ०४३०१४१ मार्कण्डेयं च कृष्णं च दृष्ट्वा रामं च भो द्विजाः । ०४३०१४२ सागरे चेन्द्रद्युम्नाख्ये स्नात्वा मोक्षं लभेद्ध्रुवम् ॥ ४३.१४। ०४३०१५० मुनय ऊचुः ०४३०१५१ कस्मात्स नृपतिः पूर्वमिन्द्रद्युम्नो जगत्पतिः । ०४३०१५२ जगाम परमं क्षेत्रं मुक्तिदं पुरुषोत्तमम् ॥ ४३.१५। ०४३०१६१ गत्वा तत्र सुरश्रेष्ठ कथं स नृपसत्तमः । ०४३०१६२ वाजिमेधेन विधिवदिष्टवान्पुरुषोत्तमम् ॥ ४३.१६। ०४३०१७१ कथं स सर्वफलदे क्षेत्रे परमदुर्लभे । ०४३०१७२ प्रासादं कारयामास चेष्टं त्रैलोक्यविश्रुतम् ॥ ४३.१७। ०४३०१८१ कथं स कृष्णं रामं च सुभद्रां च प्रजापते । ०४३०१८२ निर्ममे राजशार्दूलः क्षेत्रं रक्षितवान्कथम् ॥ ४३.१८। ०४३०१९१ कथं तत्र महीपालः प्रासादे भुवनोत्तमे । ०४३०१९२ स्थापयामास मतिमान्कृष्णादींस्त्रिदशार्चितान् ॥ ४३.१९। ०४३०२०१ एतत्सर्वं सुरश्रेष्ठ विस्तरेण यथातथम् । ०४३०२०२ वक्तुमर्हस्यशेषेण चरितं तस्य धीमतः ॥ ४३.२०। ०४३०२११ न तृप्तिमधिगच्छामस्तव वाक्यामृतेन वै । ०४३०२१२ श्रोतुमिच्छामहे ब्रह्मन्परं कौतूहलं हि नः ॥ ४३.२१। ०४३०२२० ब्रह्मोवाच ०४३०२२१ साधु साधु द्विजश्रेष्ठा यत्पृच्छध्वं पुरातनम् । ०४३०२२२ सर्वपापहरं पुण्यं भुक्तिमुक्तिप्रदं शुभम् ॥ ४३.२२। ०४३०२३१ वक्ष्यामि तस्य चरितं यथावृत्तं कृते युगे । ०४३०२३२ शृणुध्वं मुनिशार्दूलाः प्रयताः संयतेन्द्रियाः ॥ ४३.२३। ०४३०२४१ अवन्ती नाम नगरी मालवे भुवि विश्रुता । ०४३०२४२ बभूव तस्य नृपतेः पृथिवी ककुदोपमा ॥ ४३.२४। ०४३०२५१ हृष्टपुष्टजनाकीर्णा दृढप्राकारतोरणा । ०४३०२५२ दृढयन्त्रार्गलद्वारा परिखाभिरलङ्कृता ॥ ४३.२५। ०४३०२६१ नानावणिक्समाकीर्णा नानाभाण्डसुविक्रिया । ०४३०२६२ रथ्यापणवती रम्या । ०४३०२६३ सुविभक्तचतुष्पथा ॥ ४३.२६। ०४३०२७१ गृहगोपुरसम्बाधा वीथीभिः समलङ्कृता । ०४३०२७२ राजहंसनिभैः शुभ्रैश्चित्रग्रीवैर्मनोहरैः ॥ ४३.२७। ०४३०२८१ अनेकशतसाहस्रैः प्रासादैः समलङ्कृता । ०४३०२८२ यज्ञोत्सवप्रमुदिता गीतवादित्रनिस्वना ॥ ४३.२८। ०४३०२९१ नानावर्णपताकाभिर्ध्वजैश्च समलङ्कृता । ०४३०२९२ हस्त्यश्वरथसङ्कीर्णा पदातिगणसङ्कुला ॥ ४३.२९। ०४३०३०१ नानायोधसमाकीर्णा नानाजनपदैर्युता । ०४३०३०२ ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्चैव द्विजातिभिः ॥ ४३.३०। ०४३०३११ समृद्धा सा मुनिश्रेष्ठा विद्वद्भिः समलङ्कृता । ०४३०३१२ न तत्र मलिनाः सन्ति न मूर्खा नापि निर्धनाः ॥ ४३.३१। ०४३०३२१ न रोगिणो न हीनाङ्गा न द्यूतव्यसनान्विताः । ०४३०३२२ सदा हृष्टाः सुमनसो दृश्यन्ते पुरुषाः स्त्रियः ॥ ४३.३२। ०४३०३३१ क्रीडन्ति स्म दिवा रात्रौ हृष्टास्तत्र पृथक्पृथक् । ०४३०३३२ सुवेषाः पुरुषास्तत्र दृश्यन्ते मृष्टकुण्डलाः ॥ ४३.३३। ०४३०३४१ सुरूपाः सुगुणाश्चैव दिव्यालङ्कारभूषिताः । ०४३०३४२ कामदेवप्रतीकाशाः सर्वलक्षणलक्षिताः ॥ ४३.३४। ०४३०३५१ सुकेशाः सुकपोलाश्च सुमुखाः श्मश्रुधारिणः । ०४३०३५२ ज्ञातारः सर्वशास्त्राणां भेत्तारः शत्रुवाहिनीम् ॥ ४३.३५। ०४३०३६१ दातारः सर्वरत्नानां भोक्तारः सर्वसम्पदाम् । ०४३०३६२ स्त्रियस्तत्र मुनिश्रेष्ठा दृश्यन्ते सुमनोहराः ॥ ४३.३६। ०४३०३७१ हंसवारणगामिन्यः प्रफुल्लाम्भोजलोचनाः । ०४३०३७२ सुमध्यमाः सुजघनाः पीनोन्नतपयोधराः ॥ ४३.३७। ०४३०३८१ सुकेशाश्चारुवदनाः सुकपोलाः स्थिरालकाः । ०४३०३८२ हावभावानतग्रीवाः कर्णाभरणभूषिताः ॥ ४३.३८। ०४३०३९१ बिम्बौष्ठ्यो रञ्जितमुखास्ताम्बूलेन विराजिताः । ०४३०३९२ सुवर्णाभरणोपेताः सर्वालङ्कारभूषिताः ॥ ४३.३९। ०४३०४०१ श्यामावदाताः सुश्रोण्यः काञ्चीनूपुरनादिताः । ०४३०४०२ दिव्यमाल्याम्बरधरा दिव्यगन्धानुलेपनाः ॥ ४३.४०। ०४३०४११ विदग्धाः सुभगाः कान्ताश्चार्वङ्ग्यः प्रियदर्शनाः । ०४३०४१२ रूपलावण्यसंयुक्ताः सर्वाः प्रहसिताननाः ॥ ४३.४१। ०४३०४२१ क्रीडन्त्यश्च मदोन्मत्ताः च । ०४३०४२२ गीतवाद्यकथालापै रमयन्त्यश्च ताः स्त्रियः ॥ ४३.४२। ०४३०४३१ वारमुख्याश्च दृश्यन्ते नृत्यगीतविशारदाः । ०४३०४३२ प्रेक्षणालापकुशलाः सर्वयोषिद्गुणान्विताः ॥ ४३.४३। ०४३०४४१ अन्याश्च तत्र दृश्यन्ते गुणाचार्याः कुलस्त्रियः । ०४३०४४२ पतिव्रताश्च सुभगा गुणैः सर्वैरलङ्कृताः ॥ ४३.४४। ०४३०४५१ वनैश्चोपवनैः पुण्यैरुद्यानैश्च मनोरमैः । ०४३०४५२ देवतायतनैर्दिव्यैर्नानाकुसुमशोभितैः ॥ ४३.४५। ०४३०४६१ शालैस्तालैस्तमालैश्च बकुलैर्नागकेसरैः । ०४३०४६२ पिप्पलैः कर्णिकारैश्च चन्दनागुरुचम्पकैः ॥ ४३.४६। ०४३०४७१ पुन्नागैर्नारिकेरैश्च पनसैः सरलद्रुमैः । ०४३०४७२ नारङ्गैर्लकुचैर्लोध्रैः सप्तपर्णैः शुभाञ्जनैः ॥ ४३.४७। ०४३०४८१ चूतबिल्वकदम्बैश्च शिंशपैर्धवखादिरैः । ०४३०४८२ पाटलाशोकतगरैः करवीरैः सितेतरैः ॥ ४३.४८। ०४३०४९१ पीतार्जुनकभल्लातैः सिद्धैराम्रातकैस्तथा । ०४३०४९२ न्यग्रोधाश्वत्थकाश्मर्यैः पलाशैर्देवदारुभिः ॥ ४३.४९। ०४३०५०१ मन्दारैः पारिजातैश्च तिन्तिडीकविभीतकैः । ०४३०५०२ प्राचीनामलकैः प्लक्षैर्जम्बूशिरीषपादपैः ॥ ४३.५०। ०४३०५११ कालेयैः काञ्चनारैश्च मधुजम्बीरतिन्दुकैः । ०४३०५१२ खर्जूरागस्त्यबकुलैः शाखोटकहरीतकैः ॥ ४३.५१। ०४३०५२१ कङ्कोलैर्मुचुकुन्दैश्च हिन्तालैर्बीजपूरकैः । ०४३०५२२ केतकीवनखण्डैश्च अतिमुक्तैः सकुब्जकैः ॥ ४३.५२। ०४३०५३१ मल्लिकाकुन्दबाणैश्च कदलीखण्डमण्डितैः । ०४३०५३२ मातुलुङ्गैः पूगफलैः करुणैः सिन्धुवारकैः ॥ ४३.५३। ०४३०५४१ बहुवारैः कोविदारैर्बदरैः सकरञ्जकैः । ०४३०५४२ अन्यैश्च विविधैः पुष्प-वृक्षैश्चान्यैर्मनोहरैः ॥ ४३.५४। ०४३०५५१ लतागुल्मैर्वितानैश्च उद्यानैर्नन्दनोपमैः । ०४३०५५२ सदा कुसुमगन्धाढ्यैः सदा फलभरानतैः ॥ ४३.५५। ०४३०५६१ नानापक्षिरुतै रम्यैर्नानामृगगणावृतैः । ०४३०५६२ चकोरैः शतपत्त्रैश्च भृङ्गारैः प्रियपुत्रकैः ॥ ४३.५६। ०४३०५७१ कलविङ्कैर्मयूरैश्च शुकैः कोकिलकैस्तथा । ०४३०५७२ कपोतैः खञ्जरीटैश्च श्येनैः पारावतैस्तथा ॥ ४३.५७। ०४३०५८१ खगैश्चान्यैर्बहुविधैः श्रोत्ररम्यैर्मनोरमैः । ०४३०५८२ सरितः पुष्करिण्यश्च सरांसि सुबहूनि च ॥ ४३.५८। ०४३०५९१ अन्यैर्जलाशयैः पुण्यैः कुमुदोत्पलमण्डितैः । ०४३०५९२ पद्मैः सितेतरैः शुभ्रैः कह्लारैश्च सुगन्धिभिः ॥ ४३.५९। ०४३०६०१ अन्यैर्बहुविधैः पुष्पैर्जलजैः सुमनोहरैः । ०४३०६०२ गन्धामोदकरैर्दिव्यैः सर्वर्तुकुसुमोज्ज्वलैः ॥ ४३.६०। ०४३०६११ हंसकारण्डवाकीर्णैश्चक्रवाकोपशोभितैः । ०४३०६१२ सारसैश्च बलाकैश्च कूर्मैर्मत्स्यैः सनक्रकैः ॥ ४३.६१। ०४३०६२१ जलपादैः कदम्बैश्च प्लवैश्च जलकुक्कुटैः । ०४३०६२२ खगैर्जलचरैश्चान्यैर्नानारवविभूषितैः ॥ ४३.६२। ०४३०६३१ नानावर्णैः सदा हृष्टैरञ्चितानि समन्ततः । ०४३०६३२ एवं नानाविधैः पुष्पैर्विविधैश्च जलाशयैः ॥ ४३.६३। ०४३०६४१ विविधैः पादपैः पुण्यैरुद्यानैर्विविधैस्तथा । ०४३०६४२ जलस्थलचरैश्चैव विहगैश्चार्वधिष्ठितैः ॥ ४३.६४। ०४३०६५१ देवतायतनैर्दिव्यैः शोभिता सा महापुरी । ०४३०६५२ तत्रास्ते भगवान्देवस्त्रिपुरारिस्त्रिलोचनः ॥ ४३.६५। ०४३०६६१ महाकालेति विख्यातः सर्वकामप्रदः शिवः । ०४३०६६२ शिवकुण्डे नरः स्नात्वा विधिवत्पापनाशने ॥ ४३.६६। ०४३०६७१ देवान्पितॄनृषींश्चैव सन्तर्प्य विधिवद्बुधः । ०४३०६७२ गत्वा शिवालयं पश्चात्कृत्वा तं त्रिः प्रदक्षिणम् ॥ ४३.६७। ०४३०६८१ प्रविश्य संयतो भूत्वा धौतवासा जितेन्द्रियः । ०४३०६८२ स्नानैः पुष्पैस्तथा गन्धैर्धूपैर्दीपैश्च भक्तितः ॥ ४३.६८। ०४३०६९१ नैवेद्यैरुपहारैश्च गीतवाद्यैः प्रदक्षिणैः । ०४३०६९२ दण्डवत्प्रणिपातैश्च नृत्यैः स्तोत्रैश्च शङ्करम् ॥ ४३.६९। ०४३०७०१ सम्पूज्य विधिवद्भक्त्या महाकालं सकृच्छिवम् । ०४३०७०२ अश्वमेधसहस्रस्य फलं प्राप्नोति मानवः ॥ ४३.७०। ०४३०७११ पापैः सर्वैर्विनिर्मुक्तो विमानैः सार्वकामिकैः । ०४३०७१२ आरुह्य त्रिदिवं याति यत्र शम्भोर्निकेतनम् ॥ ४३.७१। ०४३०७२१ दिव्यरूपधरः श्रीमान्दिव्यालङ्कारभूषितः । ०४३०७२२ भुङ्क्ते तत्र वरान्भोगान्यावदाभूतसम्प्लवम् ॥ ४३.७२। ०४३०७३१ शिवलोके मुनिश्रेष्ठा जरामरणवर्जितः । ०४३०७३२ पुण्यक्षयादिहायातः प्रवरे ब्राह्मणे कुले ॥ ४३.७३। ०४३०७४१ चतुर्वेदी भवेद्विप्रः सर्वशास्त्रविशारदः । ०४३०७४२ योगं पाशुपतं प्राप्य ततो मोक्षमवाप्नुयात् ॥ ४३.७४। ०४३०७५१ आस्ते तत्र नदी पुण्या शिप्रा नामेति विश्रुता । ०४३०७५२ तस्यां स्नातस्तु विधिवत्सन्तर्प्य पितृदेवताः ॥ ४३.७५। ०४३०७६१ सर्वपापविनिर्मुक्तो विमानवरमास्थितः । ०४३०७६२ भुङ्क्ते बहुविधान्भोगान्स्वर्गलोके नरोत्तमः ॥ ४३.७६। ०४३०७७१ आस्ते तत्रैव भगवान्देवदेवो जनार्दनः । ०४३०७७२ गोविन्दस्वामिनामासौ भुक्तिमुक्तिप्रदो हरिः ॥ ४३.७७। ०४३०७८१ तं दृष्ट्वा मुक्तिमाप्नोति त्रिसप्तकुलसंयुतः । ०४३०७८२ विमानेनार्कवर्णेन किङ्किणीजालमालिना ॥ ४३.७८। ०४३०७९१ सर्वकामसमृद्धेन कामगेनास्थिरेण च । ०४३०७९२ उपगीयमानो गन्धर्वैर्विष्णुलोके महीयते ॥ ४३.७९। ०४३०८०१ भुङ्क्ते च विविधान्कामान्निरातङ्को गतज्वरः । ०४३०८०२ आभूतसम्प्लवं यावत्सुरूपः सुभगः सुखी ॥ ४३.८०। ०४३०८११ कालेनागत्य मतिमान्ब्राह्मणः स्यान्महीतले । ०४३०८१२ प्रवरे योगिनां गेहे वेदशास्त्रार्थतत्त्ववित् ॥ ४३.८१। ०४३०८२१ वैष्णवं योगमास्थाय ततो मोक्षमवाप्नुयात् । ०४३०८२२ विक्रमस्वामिनामानं विष्णुं तत्रैव भो द्विजाः ॥ ४३.८२। ०४३०८३१ दृष्ट्वा नरो वा नारी वा फलं पूर्वोदितं लभेत् । ०४३०८३२ अन्ये ऽपि तत्र तिष्ठन्ति देवाः शक्रपुरोगमाः ॥ ४३.८३। ०४३०८४१ मातरश्च मुनिश्रेष्ठाः सर्वकामफलप्रदाः । ०४३०८४२ दृष्ट्वा तान्विधिवद्भक्त्या सम्पूज्य प्रणिपत्य च ॥ ४३.८४। ०४३०८५१ सर्वपापविनिर्मुक्तो नरो याति त्रिविष्टपम् । ०४३०८५२ एवं सा नगरी रम्या राजसिंहेन पालिता ॥ ४३.८५। ०४३०८६१ नित्योत्सवप्रमुदिता यथेन्द्रस्यामरावती । ०४३०८६२ पुराष्टादशसंयुक्ता सुविस्तीर्णचतुष्पथा ॥ ४३.८६। ०४३०८७१ धनुर्ज्याघोषनिनदा सिद्धसङ्गमभूषिता । ०४३०८७२ विद्यावद्गणभूयिष्ठा वेदनिर्घोषनादिता ॥ ४३.८७। ०४३०८८१ इतिहासपुराणानि शास्त्राणि विविधानि च । ०४३०८८२ काव्यालापकथाश्चैव श्रूयन्ते ऽहर्निशं द्विजाः ॥ ४३.८८। ०४३०८९१ एवं मया गुणाढ्या सा तदुयिनी समुदाहृता । ०४३०८९२ यस्यां राजाभवत्पूर्वमिन्द्रद्युम्नो महामतिः ॥ ४३.८९। ०४४००१० ब्रह्मोवाच ०४४००११ तस्यां स नृपतिः पूर्वं कुर्वन्राज्यमनुत्तमम् । ०४४००१२ पालयामास मतिमान्प्रजाः पुत्रानिवौरसान् ॥ ४४.१। ०४४००२१ सत्यवादी महाप्राज्ञः शूरः सर्वगुणाकरः । ०४४००२२ मतिमान्धर्मसम्पन्नः सर्वशस्त्रभृतां वरः ॥ ४४.२। ०४४००३१ सत्यवाञ्शीलवान्दान्तः श्रीमान्परपुरञ्जयः । ०४४००३२ आदित्य इव तेजोभी रूपैराश्विनयोरिव ॥ ४४.३। ०४४००४१ वर्धमानसुराश्चर्यः शक्रतुल्यपराक्रमः । ०४४००४२ शारदेन्दुरिवाभाति लक्षणैः समलङ्कृतः ॥ ४४.४। ०४४००५१ आहर्ता सर्वयज्ञानां हयमेधादिकृत्तथा । ०४४००५२ दानैर्यज्ञैस्तपोभिश्च तत्तुल्यो नास्ति भूपतिः ॥ ४४.५। ०४४००६१ सुवर्णमणिमुक्तानां गजाश्वानां च भूपतिः । ०४४००६२ प्रददौ विप्रमुख्येभ्यो यागे यागे महाधनम् ॥ ४४.६। ०४४००७१ हस्त्यश्वरथमुख्यानां कम्बलाजिनवाससाम् । ०४४००७२ रत्नानां धनधान्यानामन्तस्तस्य न विद्यते ॥ ४४.७। ०४४००८१ एवं सर्वधनैर्युक्तो गुणैः सर्वैरलङ्कृतः । ०४४००८२ सर्वकामसमृद्धात्मा कुर्वन्राज्यमकण्टकम् ॥ ४४.८। ०४४००९१ तस्येयं मतिरुत्पन्ना सर्वयोगेश्वरं हरिम् । ०४४००९२ कथमाराधयिष्यामि भुक्तिमुक्तिप्रदं प्रभुम् ॥ ४४.९। ०४४०१०१ विचार्य सर्वशास्त्राणि तन्त्राण्यागमविस्तरम् । ०४४०१०२ इतिहासपुराणानि वेदाङ्गानि च सर्वशः ॥ ४४.१०। ०४४०१११ धर्मशास्त्राणि सर्वाणि नियमानृषिभाषितान् । ०४४०११२ वेदाङ्गानि च शास्त्राणि विद्यास्थानानि यानि च ॥ ४४.११। ०४४०१२१ गुरुं संसेव्य यत्नेन ब्राह्मणान्वेदपारगान् । ०४४०१२२ आधाय परमां काष्ठां कृतकृत्यो ऽभवत्तदा ॥ ४४.१२। ०४४०१३१ सम्प्राप्य परमं तत्त्वं वासुदेवाख्यमव्ययम् । ०४४०१३२ भ्रान्तिज्ञानादतीतस्तु मुमुक्षुः संयतेन्द्रियः ॥ ४४.१३। ०४४०१४१ कथमाराधयिष्यामि देवदेवं सनातनम् । ०४४०१४२ पीतवस्त्रं चतुर्बाहुं शङ्खचक्रगदाधरम् ॥ ४४.१४। ०४४०१५१ वनमालावृतोरस्कं पद्मपत्त्रायतेक्षणम् । ०४४०१५२ श्रीवत्सोरःसमायुक्तं मुकुटाङ्गदशोभितम् ॥ ४४.१५। ०४४०१६१ स्वपुरात्स तु निष्क्रान्त उज्जयिन्याः प्रजापतिः । ०४४०१६२ बलेन महता युक्तः सभृत्यः सपुरोहितः ॥ ४४.१६। ०४४०१७१ अनुजग्मुस्तु तं सर्वे रथिनः शस्त्रपाणयः । ०४४०१७२ रथैर्विमानसङ्काशैः पताकाध्वजसेवितैः ॥ ४४.१७। ०४४०१८१ सादिनश्च तथा सर्वे प्रासतोमरपाणयः । ०४४०१८२ अश्वैः पवनसङ्काशैरनुजग्मुस्तु तं नृपम् ॥ ४४.१८। ०४४०१९१ हिमवत्सम्भवैर्मत्तैर्वारणैः पर्वतोपमैः । ०४४०१९२ ईषादन्तैः सदा मत्तैः प्रचण्डैः षष्टिहायनैः ॥ ४४.१९। ०४४०२०१ हेमकक्षैः सपताकैर्घण्टारवविभूषितैः । ०४४०२०२ अनुजग्मुश्च तं सर्वे गजयुद्धविशारदाः ॥ ४४.२०। ०४४०२११ असङ्ख्येयाश्च पादाता धनुष्प्रासासिपाणयः । ०४४०२१२ दिव्यमाल्याम्बरधरा दिव्यगन्धानुलेपनाः ॥ ४४.२१। ०४४०२२१ अनुजग्मुश्च तं सर्वे युवानो मृष्टकुण्डलाः । ०४४०२२२ सर्वास्त्रकुशलाः शूराः सदा सङ्ग्रामलालसाः ॥ ४४.२२। ०४४०२३१ अन्तःपुरनिवासिन्यः स्त्रियः सर्वाः स्वलङ्कृताः । ०४४०२३२ बिम्बौष्ठचारुदशनाः सर्वाभरणभूषिताः ॥ ४४.२३। ०४४०२४१ दिव्यवस्त्रधराः सर्वा दिव्यमाल्यविभूषिताः । ०४४०२४२ दिव्यगन्धानुलिप्ताङ्गाः शरच्चन्द्रनिभाननाः ॥ ४४.२४। ०४४०२५१ सुमध्यमाश्चारुवेषाश्चारुकर्णालकाञ्चिताः । ०४४०२५२ ताम्बूलरञ्जितमुखा रक्षिभिश्च सुरक्षिताः ॥ ४४.२५। ०४४०२६१ यानैरुच्चावचैः शुभ्रैर्मणिकाञ्चनभूषितैः । ०४४०२६२ उपगीयमानास्ताः सर्वा गायनैः स्तुतिपाठकैः ॥ ४४.२६। ०४४०२७१ वेष्टिताः शस्त्रहस्तैश्च पद्मपत्त्रायतेक्षणाः । ०४४०२७२ ब्राह्मणाः क्षत्रिया वैश्या अनुजग्मुश्च तं नृपम् ॥ ४४.२७। ०४४०२८१ वणिग्ग्रामगणाः सर्वे नानापुरनिवासिनः । ०४४०२८२ धनै रत्नैः सुवर्णैश्च सदाराः सपरिच्छदाः ॥ ४४.२८। ०४४०२९१ अस्त्रविक्रयकाश्चैव ताम्बूलपण्यजीविनः । ०४४०२९२ तृणविक्रयकाश्चैव काष्ठविक्रयकारकाः ॥ ४४.२९। ०४४०३०१ रङ्गोपजीविनः सर्वे मांसविक्रयिणस्तथा । ०४४०३०२ तैलविक्रयकाश्चैव वस्त्रविक्रयकास्तथा ॥ ४४.३०। ०४४०३११ फलविक्रयिणश्चैव पत्त्रविक्रयिणस्तथा । ०४४०३१२ तथा जवसहाराश्च रजकाश्च सहस्रशः ॥ ४४.३१। ०४४०३२१ गोपाला नापिताश्चैव तथान्ये वस्त्रसूचकाः । ०४४०३२२ मेषपालाश्चाजपाला मृगपालाश्च हंसकाः ॥ ४४.३२। ०४४०३३१ धान्यविक्रयिणश्चैव सक्तुविक्रयिणश्च ये । ०४४०३३२ गुडविक्रयिकाश्चैव तथा लवणजीविनः ॥ ४४.३३। ०४४०३४१ गायना नर्तकाश्चैव तथा मङ्गलपाठकाः । ०४४०३४२ शैलूषाः कथकाश्चैव पुराणार्थविशारदाः ॥ ४४.३४। ०४४०३५१ कवयः काव्यकर्तारो नानाकाव्यविशारदाः । ०४४०३५२ विषघ्ना गारुडाश्चैव नानारत्नपरीक्षकाः ॥ ४४.३५। ०४४०३६१ व्योकारास्ताम्रकाराश्च कांस्यकाराश्च रूठकाः । ०४४०३६२ कौषकाराश्चित्रकाराः कुन्दकाराश्च पावकाः ॥ ४४.३६। ०४४०३७१ दण्डकाराश्चासिकाराः सुराधूतोपजीविनः । ०४४०३७२ मल्ला दूताश्च कायस्था ये चान्ये कर्मकारिणः ॥ ४४.३७। ०४४०३८१ तन्तुवाया रूपकारा वार्तिकास्तैलपाठकाः । ०४४०३८२ लावजीवास्तैत्तिरिका मृगपक्ष्युपजीविनः ॥ ४४.३८। ०४४०३९१ गजवैद्याश्च वैद्याश्च नरवैद्याश्च ये नराः । ०४४०३९२ वृक्षवैद्याश्च गोवैद्या ये चान्ये छेददाहकाः ॥ ४४.३९। ०४४०४०१ एते नागरकाः सर्वे ये चान्ये नानुकीर्तिताः । ०४४०४०२ अनुजग्मुस्तु राजानं समस्तपुरवासिनः ॥ ४४.४०। ०४४०४११ यथा व्रजन्तं पितरं ग्रामान्तरं समुत्सुकाः । ०४४०४१२ अनुयान्ति यथा पुत्रास्तथा तं ते ऽपि नागराः ॥ ४४.४१। ०४४०४२१ एवं स नृपतिः श्रीमान्वृतः सर्वैर्महाजनैः । ०४४०४२२ हस्त्यश्वरथपादातैर्जगाम च शनैः शनैः ॥ ४४.४२। ०४४०४३१ एवं गत्वा स नृपतिर्दक्षिणस्योदधेस्तटम् । ०४४०४३२ सर्वैस्तैर्दीर्घकालेन बलैरनुगतः प्रभुः ॥ ४४.४३। ०४४०४४१ ददर्श सागरं रम्यं नृत्यन्तमिव च स्थितम् । ०४४०४४२ अनेकशतसाहस्रैरूर्मिभिश्च समाकुलम् ॥ ४४.४४। ०४४०४५१ नानारत्नालयं पूर्णं नानाप्राणिसमाकुलम् । ०४४०४५२ वीचीतरङ्गबहुलं महाश्चर्यसमन्वितम् ॥ ४४.४५। ०४४०४६१ तीर्थराजं महाशब्दमपारं सुभयङ्करम् । ०४४०४६२ मेघवृन्दप्रतीकाशमगाधं मकरालयम् ॥ ४४.४६। ०४४०४७१ मत्स्यैः कूर्मैश्च शङ्खैश्च शुक्तिकानक्रशङ्कुभिः । ०४४०४७२ शिंशुमारैः कर्कटैश्च वृतं सर्पैर्महाविषैः ॥ ४४.४७। ०४४०४८१ लवणोदं हरेः स्थानं शयनस्य नदीपतिम् । ०४४०४८२ सर्वपापहरं पुण्यं सर्ववाञ्छाफलप्रदम् ॥ ४४.४८। ०४४०४९१ अनेकावर्तगम्भीरं दानवानां समाश्रयम् । ०४४०४९२ अमृतस्यारणिं दिव्यं देवयोनिमपां पतिम् ॥ ४४.४९। ०४४०५०१ विशिष्टं सर्वभूतानां प्राणिनां जीवधारणम् । ०४४०५०२ सुपवित्रं पवित्राणां मङ्गलानां च मङ्गलम् ॥ ४४.५०। ०४४०५११ तीर्थानामुत्तमं तीर्थमव्ययं यादसां पतिम् । ०४४०५१२ चन्द्रवृद्धिक्षयस्येव यस्य मानं प्रतिष्ठितम् ॥ ४४.५१। ०४४०५२१ अभेद्यं सर्वभूतानां देवानाममृतालयम् । ०४४०५२२ उत्पत्तिस्थितिसंहार-हेतुभूतं सनातनम् ॥ ४४.५२। ०४४०५३१ उपजीव्यं च सर्वेषां पुण्यं नदनदीपतिम् । ०४४०५३२ दृष्ट्वा तं नृपतिश्रेष्ठो विस्मयं परमं गतः ॥ ४४.५३। ०४४०५४१ निवासमकरोत्तत्र वेलामसाद्य सागरीम् । ०४४०५४२ पुण्ये मनोहरे देशे सर्वभूमिगुणैर्युते ॥ ४४.५४। ०४४०५५१ वृतं शालैः कदम्बैश्च पुन्नागैः सरलद्रुमैः । ०४४०५५२ पनसैर्नारिकेलैश्च बकुलैर्नागकेसरैः ॥ ४४.५५। ०४४०५६१ तालैः पिप्पलैः खर्जूरैर्नारङ्गैर्बीजपूरकैः । ०४४०५६२ शालैराम्रातकैर्लोध्रैर्बकुलैर्बहुवारकैः ॥ ४४.५६। ०४४०५७१ कपित्थैः कर्णिकारैश्च पाटलाशोकचम्पकैः । ०४४०५७२ दाडिमैश्च तमालैश्च पारिजातैस्तथार्जुनैः ॥ ४४.५७। ०४४०५८१ प्राचीनामलकैर्बिल्वैः प्रियङ्गुवटखादिरैः । ०४४०५८२ इङ्गुदीसप्तपर्णैश्च अश्वत्थागस्त्यजम्बुकैः ॥ ४४.५८। ०४४०५९१ मधुकैः कर्णिकारैश्च बहुवारैः सतिन्दुकैः । ०४४०५९२ पलाशबदरैर्नीपैः सिद्धनिम्बशुभाञ्जनैः ॥ ४४.५९। ०४४०६०१ वारकैः कोविदारैश्च भल्लातामलकैस्तथा । ०४४०६०२ इति हिन्तालकाङ्कोलैः करञ्जैः सविभीतकैः ॥ ४४.६०। ०४४०६११ ससर्जमधुकाश्मर्यैः शाल्मलीदेवदारुभिः । ०४४०६१२ शाखोठकैर्निम्बवटैः कुम्भीकौष्ठहरीतकैः ॥ ४४.६१। ०४४०६२१ गुग्गुलैश्चन्दनैर्वृक्षैस्तथैवागुरुपाटलैः । ०४४०६२२ जम्बीरकरुणैर्वृक्षैस्तिन्तिडीरक्तचन्दनैः ॥ ४४.६२। ०४४०६३१ एवं नानाविधैर्वृक्षैस्तथान्यैर्बहुपादपैः । ०४४०६३२ कल्पद्रुमैर्नित्यफलैः सर्वर्तुकुसुमोत्करैः ॥ ४४.६३। ०४४०६४१ नानापक्षिरुतैर्दिव्यैर्मत्तकोकिलनादितैः । ०४४०६४२ मयूरवरसङ्घुष्टैः शुकसारिकसङ्कुलैः ॥ ४४.६४। ०४४०६५१ हारीतैर्भृङ्गराजैश्च चातकैर्बहुपुत्रकैः । ०४४०६५२ जीवञ्जीवककाकोलैः कलविङ्कैः कपोतकैः ॥ ४४.६५। ०४४०६६१ खगैर्नानाविधैश्चान्यैः श्रोत्ररम्यैर्मनोहरैः । ०४४०६६२ पुष्पिताग्रेषु वृक्षेषु कूजद्भिश्चार्वधिष्ठितैः ॥ ४४.६६। ०४४०६७१ केतकीवनखण्डैश्च सदा पुष्पधरैः सितैः । ०४४०६७२ मल्लिकाकुन्दकुसुमैर्यूथिकातगरैस्तथा ॥ ४४.६७। ०४४०६८१ कुटजैर्बाणपुष्पैश्च अतिमुक्तैः सकुब्जकैः । ०४४०६८२ मालतीकरवीरैश्च तथा कदलकाञ्चनैः ॥ ४४.६८। ०४४०६९१ अन्यैर्नानाविधैः पुष्पैः सुगन्धैश्चारुदर्शनैः । ०४४०६९२ वनोद्यानोपवनजैर्नानावर्णैः सुगन्धिभिः ॥ ४४.६९। ०४४०७०१ विद्याधरगणाकीर्णैः सिद्धचारणसेवितैः । ०४४०७०२ गन्धर्वोरगरक्षोभिर्भूताप्सरसकिन्नरैः ॥ ४४.७०। ०४४०७११ मुनियक्षगणाकीर्णैर्नानासत्त्वनिषेवितैः । ०४४०७१२ मृगैः शाखामृगैः सिंहैर्वराहमहिषाकुलैः ॥ ४४.७१। ०४४०७२१ तथान्यैः कृष्णसाराद्यैर्मृगैः सर्वत्र शोभितैः । ०४४०७२२ शार्दूलैर्दीप्तमातङ्गैस्तथान्यैर्वनचारिभिः ॥ ४४.७२। ०४४०७३१ एवं नानाविधैर्वृक्षैरुद्यानैर्नन्दनोपमैः । ०४४०७३२ लतागुल्मवितानैश्च विविधैश्च जलाशयैः ॥ ४४.७३। ०४४०७४१ हंसकारण्डवाकीर्णैः पद्मिनीखण्डमण्डितैः । ०४४०७४२ कादम्बैश्च प्लवैर्हंसैश्चक्रवाकोपशोभितैः ॥ ४४.७४। ०४४०७५१ कमलैः शतपत्त्रैश्च कह्लारैः कुमुदोत्पलैः । ०४४०७५२ खगैर्जलचरैश्चान्यैः पुष्पैर्जलसमुद्भवैः ॥ ४४.७५। ०४४०७६१ पर्वतैर्दीप्तशिखरैश्चारुकन्दरमण्डितैः । ०४४०७६२ नानावृक्षसमाकीर्णैर्नानाधातुविभूषितैः ॥ ४४.७६। ०४४०७७१ सर्वाश्चर्यमयैः शृङ्गैः सर्वभूतालयैः शुभैः । ०४४०७७२ सर्वौषधिसमायुक्तैर्विपुलैश्चित्रसानुभिः ॥ ४४.७७। ०४४०७८१ एवं सर्वैः समुदितैः शोभितं सुमनोहरैः । ०४४०७८२ ददर्श स महीपालः स्थानं त्रैलोक्यपूजितम् ॥ ४४.७८। ०४४०७९१ दशयोजनविस्तीर्णं पञ्चयोजनमायतम् । ०४४०७९२ नानाश्चर्यसमायुक्तं क्षेत्रं परमदुर्लभम् ॥ ४४.७९। ०४५००१० मुनय ऊचुः ०४५००११ तस्मिन्क्षेत्रवरे पुण्ये वैष्णवे पुरुषोत्तमे । ०४५००१२ किं तत्र प्रतिमा पूर्वं न स्थिता वैष्णवी प्रभो ॥ ४५.१। ०४५००२१ येनासौ नृपतिस्तत्र गत्वा सबलवाहनः । ०४५००२२ स्थापयामास कृष्णं च रामं भद्रां शुभप्रदाम् ॥ ४५.२। ०४५००३१ संशयो नो महानत्र विस्मयश्च जगत्पते । ०४५००३२ श्रोतुमिच्छामहे सर्वं ब्रूहि तत्कारणं च नः ॥ ४५.३। ०४५००४० ब्रह्मोवाच ०४५००४१ शृणुध्वं पूर्वसंवृत्तां कथां पापप्रणाशिनीम् । ०४५००४२ प्रवक्ष्यामि समासेन श्रिया पृष्टः पुरा हरिः ॥ ४५.४। ०४५००५१ सुमेरोः काञ्चने शृङ्गे सर्वाश्चर्यसमन्विते । ०४५००५२ सिद्धविद्याधरैर्यक्षैः किन्नरैरुपशोभिते ॥ ४५.५। ०४५००६१ देवदानवगन्धर्वैर्नागैरप्सरसां गणैः । ०४५००६२ मुनिभिर्गुह्यकैः सिद्धैः सौपर्णैः समरुद्गणैः ॥ ४५.६। ०४५००७१ अन्यैर्देवालयैः साध्यैः कश्यपाद्यैः प्रजेश्वरैः । ०४५००७२ वालखिल्यादिभिश्चैव शोभिते सुमनोहरे ॥ ४५.७। ०४५००८१ कर्णिकारवनैर्दिव्यैः सर्वर्तुकुसुमोत्करैः । ०४५००८२ जातरूपप्रतीकाशैर्भूषिते सूर्यसन्निभैः ॥ ४५.८। ०४५००९१ अन्यैश्च बहुभिर्वृक्षैः शालतालादिभिर्वनैः । ०४५००९२ पुन्नागाशोकसरल-न्यग्रोधाम्रातकार्जुनैः ॥ ४५.९। ०४५०१०१ पारिजाताम्रखदिर-नीपबिल्वकदम्बकैः । ०४५०१०२ धवखादिरपालाश-शीर्षामलकतिन्दुकैः ॥ ४५.१०। ०४५०१११ नारिङ्गकोलबकुल-लोध्रदाडिमदारुकैः । ०४५०११२ सर्जैश्च कर्णैस्तगरैः शिशिभूर्जवनिम्बकैः ॥ ४५.११। ०४५०१२१ अन्यैश्च काञ्चनैश्चैव फलभारैश्च नामितैः । ०४५०१२२ नानाकुसुमगन्धाढ्यैर्भूषिते पुष्पपादपैः ॥ ४५.१२। ०४५०१३१ मालतीयूथिकामल्ली-कुन्दबाणकुरुण्टकैः । ०४५०१३२ पाटलागस्त्यकुटज-मन्दारकुसुमादिभिः ॥ ४५.१३। ०४५०१४१ अन्यैश्च विविधैः पुष्पैर्मनसः प्रीतिदायकैः । ०४५०१४२ नानाविहगसङ्घैश्च कूजद्भिर्मधुरस्वरैः ॥ ४५.१४। ०४५०१५१ पुंस्कोकिलरुतैर्दिव्यैर्मत्तबर्हिणनादितैः । ०४५०१५२ एवं नानाविधैर्वृक्षैः पुष्पैर्नानाविधैस्तथा ॥ ४५.१५। ०४५०१६१ खगैर्नानाविधैश्चैव शोभिते सुरसेविते । ०४५०१६२ तत्र स्थितं जगन्नाथं जगत्स्रष्टारमव्ययम् ॥ ४५.१६। ०४५०१७१ सर्वलोकविधातारं वासुदेवाख्यमव्ययम् । ०४५०१७२ प्रणम्य शिरसा देवी लोकानां हितकाम्यया । ०४५०१७३ पप्रच्छेमं महाप्रश्नं पद्मजा तमनुत्तमम् ॥ ४५.१७। ०४५०१८० श्रीरुवाच ०४५०१८१ ब्रूहि त्वं सर्वलोकेश संशयं मे हृदि स्थितम् । ०४५०१८२ मर्त्यलोके महाश्चर्ये कर्मभूमौ सुदुर्लभे ॥ ४५.१८। ०४५०१९१ लोभमोहग्रहग्रस्ते कामक्रोधमहार्णवे । ०४५०१९२ येन मुच्येत देवेश अस्मात्संसारसागरात् ॥ ४५.१९। ०४५०२०१ आचक्ष्व सर्वदेवेश प्रणतां यदि मन्यसे । ०४५०२०२ त्वदृते नास्ति लोके ऽस्मिन्वक्ता संशयनिर्णये ॥ ४५.२०। ०४५०२१० ब्रह्मोवाच ०४५०२११ श्रुत्वैवं वचनं तस्या देवदेवो जनार्दनः । ०४५०२१२ प्रोवाच परया प्रीत्या परं सारामृतोपमम् ॥ ४५.२१। ०४५०२२० श्रीभगवानुवाच ०४५०२२१ सुखोपास्यः सुसाध्यश्च ऽभिरामश्च सुसत्फलः । ०४५०२२२ आस्ते तीर्थवरे देवि विख्यातः पुरुषोत्तमः ॥ ४५.२२। ०४५०२३१ न तेन सदृशः कश्चित्त्रिषु लोकेषु विद्यते । ०४५०२३२ कीर्तनाद्यस्य देवेशि मुच्यते सर्वपातकैः ॥ ४५.२३। ०४५०२४१ न विज्ञातो ऽमरैः सर्वैर्न दैत्यैर्न च दानवैः । ०४५०२४२ मरीच्याद्यैर्मुनिवरैर्गोपितं मे वरानने ॥ ४५.२४। ०४५०२५१ तत्ते ऽहं सम्प्रवक्ष्यामि तीर्थराजं च साम्प्रतम् । ०४५०२५२ भावेनैकेन सुश्रोणि शृणुष्व वरवर्णिनि ॥ ४५.२५। ०४५०२६१ आसीत्कल्पे समुत्पन्ने नष्टे स्थावरजङ्गमे । ०४५०२६२ प्रलीना देवगन्धर्व-दैत्यविद्याधरोरगाः ॥ ४५.२६। ०४५०२७१ तमोभूतमिदं सर्वं न प्राज्ञायत किञ्चन । ०४५०२७२ तस्मिञ्जागर्ति भूतात्मा परमात्मा जगद्गुरुः ॥ ४५.२७। ०४५०२८१ श्रीमांस्त्रिमूर्तिकृद्देवो जगत्कर्ता महेश्वरः । ०४५०२८२ वासुदेवेति विख्यातो योगात्मा हरिरीश्वरः ॥ ४५.२८। ०४५०२९१ सो ऽसृजद्योगनिद्रान्ते नाभ्यम्भोरुहमध्यगम् । ०४५०२९२ पद्मकेशरसङ्काशं ब्रह्माणं भूतमव्ययम् ॥ ४५.२९। ०४५०३०१ तादृग्भूतस्ततो ब्रह्मा सर्वलोकमहेश्वरः । ०४५०३०२ पञ्चभूतसमायुक्तं सृजते च शनैः शनैः ॥ ४५.३०। ०४५०३११ मात्रायोनीनि भूतानि स्थूलसूक्ष्माणि यानि च । ०४५०३१२ चतुर्विधानि सर्वाणि स्थावराणि चराणि च ॥ ४५.३१। ०४५०३२१ ततः प्रजापतिर्ब्रह्मा चक्रे सर्वं चराचरम् । ०४५०३२२ सञ्चिन्त्य मनसात्मानं ससर्ज विविधाः प्रजाः ॥ ४५.३२। ०४५०३३१ मरीच्यादीन्मुनीन्सर्वान्देवासुरपितॄनपि । ०४५०३३२ यक्षविद्याधरांश्चान्यान्गङ्गाद्याः सरितस्तथा ॥ ४५.३३। ०४५०३४१ नरवानरसिंहांश्च विविधांश्च विहङ्गमान् । ०४५०३४२ जरायूनण्डजान्देवि स्वेदजोद्भेदजांस्तथा ॥ ४५.३४। ०४५०३५१ ब्रह्म क्षत्रं तथा वैश्यं शूद्रं चैव चतुष्टयम् । ०४५०३५२ अन्त्यजातांश्च म्लेच्छांश्च ससर्ज विविधान्पृथक् ॥ ४५.३५। ०४५०३६१ यत्किञ्चिज्जीवसञ्ज्ञं तु तृणगुल्मपिपीलिकम् । ०४५०३६२ ब्रह्मा भूत्वा जगत्सर्वं निर्ममे स चराचरम् ॥ ४५.३६। ०४५०३७१ दक्षिणाङ्गे तथात्मानं सञ्चिन्त्य पुरुषं स्वयम् । ०४५०३७२ वामे चैव तु नारीं स द्विधा भूतमकल्पयत् ॥ ४५.३७। ०४५०३८१ ततः प्रभृति लोके ऽस्मिन्प्रजा मैथुनसम्भवाः । ०४५०३८२ अधमोत्तममध्याश्च मम क्षेत्राणि यानि च ॥ ४५.३८। ०४५०३९१ एवं सञ्चिन्त्य देवो ऽसौ पुरा सलिलयोनिजः । ०४५०३९२ जगाम ध्यानमास्थाय वासुदेवात्मिकां तनुम् ॥ ४५.३९। ०४५०४०१ ध्यानमात्रेण देवेन स्वयमेव जनार्दनः । ०४५०४०२ तस्मिन्क्षणे समुत्पन्नः सहस्राक्षः सहस्रपात् ॥ ४५.४०। ०४५०४११ सहस्रशीर्षा पुरुषः पुण्डरीकनिभेक्षणः । ०४५०४१२ सलिलध्वान्तमेघाभः श्रीमाञ्श्रीवत्सलक्षणः ॥ ४५.४१। ०४५०४२१ अपश्यत्सहसा तं तु ब्रह्मा लोकपितामहः । ०४५०४२२ आसनैरर्घ्यपाद्यैश्च अक्षतैरभिनन्द्य च ॥ ४५.४२। ०४५०४३१ तुष्टाव परमैः स्तोत्रैर्विरिञ्चिः सुसमाहितः । ०४५०४३२ ततो ऽहमुक्तवान्देवं ब्रह्माणं कमलोद्भवम् । ०४५०४३३ कारणं वद मां तात मम ध्यानस्य साम्प्रतम् ॥ ४५.४३। ०४५०४४० ब्रह्मोवाच ०४५०४४१ जगद्धिताय देवेश मर्त्यलोकैश्च दुर्लभम् । ०४५०४४२ स्वर्गद्वारस्य मार्गाणि यज्ञदानव्रतानि च ॥ ४५.४४। ०४५०४५१ योगः सत्यं तपः श्रद्धा तीर्थानि विविधानि च । ०४५०४५२ विहाय सर्वमेतेषां सुखं तत्साधनं वद ॥ ४५.४५। ०४५०४६१ स्थानं जगत्पते मह्यामुत्कृष्टं च यदुच्यते । ०४५०४६२ सर्वेषामुत्तमं स्थानं ब्रूहि मे पुरुषोत्तम ॥ ४५.४६। ०४५०४७१ विधातुर्वचनं श्रुत्वा ततो ऽहं प्रोक्तवान्प्रिये । ०४५०४७२ शृणु ब्रह्मन्प्रवक्ष्यामि निर्मलं भुवि दुर्लभम् ॥ ४५.४७। ०४५०४८१ उत्तमं सर्वक्षेत्राणां धन्यं संसारतारणम् । ०४५०४८२ गोब्राह्मणहितं पुण्यं चातुर्वर्ण्यसुखोदयम् ॥ ४५.४८। ०४५०४९१ भुक्तिमुक्तिप्रदं नॄणां क्षेत्रं परमदुर्लभम् । ०४५०४९२ महापुण्यं तु सर्वेषां सिद्धिदं वै पितामहे ॥ ४५.४९। ०४५०५०१ तस्मादासीत्समुत्पन्नं तीर्थराजं सनातनम् । ०४५०५०२ विख्यातं परमं क्षेत्रं चतुर्युगनिषेवितम् ॥ ४५.५०। ०४५०५११ सर्वेषामेव देवानामृषीणां ब्रह्मचारिणाम् । ०४५०५१२ दैत्यदानवसिद्धानां गन्धर्वोरगरक्षसाम् ॥ ४५.५१। ०४५०५२१ नागविद्याधराणां च स्थावरस्य चरस्य च । ०४५०५२२ उत्तमः पुरुषो यस्मात्तस्मात्स पुरुषोत्तमः ॥ ४५.५२। ०४५०५३१ दक्षिणस्योदधेस्तीरे न्यग्रोधो यत्र तिष्ठति । ०४५०५३२ दशयोजनविस्तीर्णं क्षेत्रं परमदुर्लभम् ॥ ४५.५३। ०४५०५४१ यस्तु कल्पे समुत्पन्ने महदुल्कानिबर्हणे । ०४५०५४२ विनाशं नैवमभ्येति स्वयं तत्रैवमास्थितः ॥ ४५.५४। ०४५०५५१ दृष्टमात्रे वटे तस्मिंश्छायामाक्रम्य चासकृत् । ०४५०५५२ ब्रह्महत्यात्प्रमुच्येत पापेष्वन्येषु का कथा ॥ ४५.५५। ०४५०५६१ प्रदक्षिणा कृता यैस्तु नमस्कारश्च जन्तुभिः । ०४५०५६२ सर्वे विधूतपाप्मानस्ते गताः केशवालयम् ॥ ४५.५६। ०४५०५७१ न्यग्रोधस्योत्तरे किञ्चिद्दक्षिणे केशवस्य तु । ०४५०५७२ प्रासादस्तत्र तिष्ठेत्तु पदं धर्ममयं हि तत् ॥ ४५.५७। ०४५०५८१ प्रतिमां तत्र वै दृष्ट्वा स्वयं देवेन निर्मिताम् । ०४५०५८२ अनायासेन वै यान्ति भुवनं मे ततो नराः ॥ ४५.५८। ०४५०५९१ गच्छमानांस्तु तान्प्रेक्ष्य एकदा धर्मराट्प्रिये । ०४५०५९२ मदन्तिकमनुप्राप्य प्रणम्य शिरसाब्रवीत् ॥ ४५.५९। ०४५०६०० यम उवाच ०४५०६०१ नमस्ते भगवन्देव लोकनाथ जगत्पते । ०४५०६०२ क्षीरोदवासिनं देवं शेषभोगानुशायिनम् ॥ ४५.६०। ०४५०६११ वरं वरेण्यं वरदं कर्तारमकृतं प्रभुम् । ०४५०६१२ विश्वेश्वरमजं विष्णुं सर्वज्ञमपराजितम् ॥ ४५.६१। ०४५०६२१ नीलोत्पलदलश्यामं पुण्डरीकनिभेक्षणम् । ०४५०६२२ सर्वज्ञं निर्गुणं शान्तं जगद्धातारमव्ययम् ॥ ४५.६२। ०४५०६३१ सर्वलोकविधातारं सर्वलोकसुखावहम् । ०४५०६३२ पुराणं पुरुषं वेद्यं व्यक्ताव्यक्तं सनातनम् ॥ ४५.६३। ०४५०६४१ परावराणां स्रष्टारं लोकनाथं जगद्गुरुम् । ०४५०६४२ श्रीवत्सोरस्कसंयुक्तं वनमालाविभूषितम् ॥ ४५.६४। ०४५०६५१ पीतवस्त्रं चतुर्बाहुं शङ्खचक्रगदाधरम् । ०४५०६५२ हारकेयूरसंयुक्तं मुकुटाङ्गदधारिणम् ॥ ४५.६५। ०४५०६६१ सर्वलक्षणसम्पूर्णं सर्वेन्द्रियविवर्जितम् । ०४५०६६२ कूटस्थमचलं सूक्ष्मं ज्योतीरूपं सनातनम् ॥ ४५.६६। ०४५०६७१ भावाभावविनिर्मुक्तं व्यापिनं प्रकृतेः परम् । ०४५०६७२ नमस्यामि जगन्नाथमीश्वरं सुखदं प्रभुम् ॥ ४५.६७। ०४५०६८१ इत्येवं धर्मराजस्तु पुरा न्यग्रोधसन्निधौ । ०४५०६८२ स्तुत्वा नानाविधैः स्तोत्रैः प्रणाममकरोत्तदा ॥ ४५.६८। ०४५०६९१ तं दृष्ट्वा तु महाभागे प्रणतं प्राञ्जलिस्थितम् । ०४५०६९२ स्तोत्रस्य कारणं देवि पृष्टवानहमन्तकम् ॥ ४५.६९। ०४५०७०१ वैवस्वत महाबाहो सर्वदेवोत्तमो ह्यसि । ०४५०७०२ किमर्थं स्तुतवान्मां त्वं सङ्क्षेपात्तद्ब्रवीहि मे ॥ ४५.७०। ०४५०७१० धर्मराज उवाच ०४५०७११ अस्मिन्नायतने पुण्ये विख्याते पुरुषोत्तमे । ०४५०७१२ इन्द्रनीलमयी श्रेष्ठा प्रतिमा सार्वकामिकी ॥ ४५.७१। ०४५०७२१ तां दृष्ट्वा पुण्डरीकाक्ष भावेनैकेन श्रद्धया । ०४५०७२२ श्वेताख्यं भवनं यान्ति निष्कामाश्चैव मानवाः ॥ ४५.७२। ०४५०७३१ अतः कर्तुं न शक्नोमि व्यापारमरिसूदन । ०४५०७३२ प्रसीद सुमहादेव संहर प्रतिमां विभो ॥ ४५.७३। ०४५०७४१ श्रुत्वा वैवस्वतस्यैतद्वाक्यमेतदुवाच ह । ०४५०७४२ यम तां गोपयिष्यामि सिकताभिः समन्ततः ॥ ४५.७४। ०४५०७५१ ततः सा प्रतिमा देवि वल्लिभिर्गोपिता मया । ०४५०७५२ यथा तत्र न पश्यन्ति मनुजाः स्वर्गकाङ्क्षिणः ॥ ४५.७५। ०४५०७६१ प्रच्छाद्य वल्लिकैर्देवि जातरूपपरिच्छदैः । ०४५०७६२ यमं प्रस्थापयामास स्वां पुरीं दक्षिणां दिशम् ॥ ४५.७६। ०४५०७७० ब्रह्मोवाच ०४५०७७१ लुप्तायां प्रतिमायां तु इन्द्रनीलस्य भो द्विजाः । ०४५०७७२ तस्मिन्क्षेत्रवरे पुण्ये विख्याते पुरुषोत्तमे ॥ ४५.७७। ०४५०७८१ यो भूतस्तत्र वृत्तान्तो देवदेवो जनार्दनः । ०४५०७८२ तं सर्वं कथयामास स तस्यै भगवान्पुरा ॥ ४५.७८। ०४५०७९१ इन्द्रद्युम्नस्य गमनं क्षेत्रसन्दर्शनं तथा । ०४५०७९२ क्षेत्रस्य वर्णनं चैव प्रासादकरणं तथा ॥ ४५.७९। ०४५०८०१ हयमेधस्य यजनं स्वप्नदर्शनमेव च । ०४५०८०२ लवणस्योदधेस्तीरे काष्ठस्य दर्शनं तथा ॥ ४५.८०। ०४५०८११ दर्शनं वासुदेवस्य शिल्पिराजस्य च द्विजाः । ०४५०८१२ निर्माणं प्रतिमायास्तु यथावर्णं विशेषतः ॥ ४५.८१। ०४५०८२१ स्थापनं चैव सर्वेषां प्रासादे भुवनोत्तमे । ०४५०८२२ यात्राकाले च विप्रेन्द्राः कल्पसङ्कीर्तनं तथा ॥ ४५.८२। ०४५०८३१ मार्कण्डेयस्य चरितं स्थापनं शङ्करस्य च । ०४५०८३२ पञ्चतीर्थस्य माहात्म्यं दर्शनं शूलपाणिनः ॥ ४५.८३। ०४५०८४१ वटस्य दर्शनं चैव व्युष्टिं तस्य च भो द्विजाः । ०४५०८४२ दर्शनं बलदेवस्य कृष्णस्य च विशेषतः ॥ ४५.८४। ०४५०८५१ सुभद्रायाश्च तत्रैव माहात्म्यं चैव सर्वशः । ०४५०८५२ दर्शनं नरसिंहस्य व्युष्टिसङ्कीर्तनं तथा ॥ ४५.८५। ०४५०८६१ अनन्तवासुदेवस्य दर्शनं गुणकीर्तनम् । ०४५०८६२ श्वेतमाधवमाहात्म्यं स्वर्गद्वारस्य दर्शनम् ॥ ४५.८६। ०४५०८७१ उदधेर्दर्शनं चैव स्नानं तर्पणमेव च । ०४५०८७२ समुद्रस्नानमाहात्म्यमिन्द्रद्युम्नस्य च द्विजाः ॥ ४५.८७। ०४५०८८१ पञ्चतीर्थफलं चैव महाज्येष्ठं तथैव च । ०४५०८८२ स्थानं कृष्णस्य हलिनः पर्वयात्राफलं तथा ॥ ४५.८८। ०४५०८९१ वर्णनं विष्णुलोकस्य क्षेत्रस्य च पुनः पुनः । ०४५०८९२ पूर्वं कथितवान्सर्वं तस्यै स पुरुषोत्तमः ॥ ४५.८९। ०४६००१० मुनय ऊचुः ०४६००११ श्रोतुमिच्छामहे देव कथाशेषं महीपतेः । ०४६००१२ तस्मिन्क्षेत्रवरे गत्वा किं चकार नराधिपः ॥ ४६.१। ०४६००२० ब्रह्मोवाच ०४६००२१ शृणुध्वं मुनिशार्दूलाः प्रवक्ष्यामि समासतः । ०४६००२२ क्षेत्रसन्दर्शनं चैव कृत्यं तस्य च भूपतेः ॥ ४६.२। ०४६००३१ गत्वा तत्र महीपालः क्षेत्रे त्रैलोक्यविश्रुते । ०४६००३२ ददर्श रमणीयानि स्थानानि सरितस्तथा ॥ ४६.३। ०४६००४१ नदी तत्र महापुण्या विन्ध्यपादविनिर्गता । ०४६००४२ स्वित्त्रोपलेति विख्याता सर्वपापहरा शिवा ॥ ४६.४। ०४६००५१ गङ्गातुल्या महास्रोता दक्षिणार्णवगामिनी । ०४६००५२ महानदीति नाम्ना सा पुण्यतोया सरिद्वरा ॥ ४६.५। ०४६००६१ दक्षिणस्योदधेर्गर्भं शोभिता । ०४६००६२ उभयोस्तटयोर्यस्या ग्रामाश्च नगराणि च ॥ ४६.६। ०४६००७१ दृश्यन्ते मुनिशार्दूलाः सुसस्याः सुमनोहराः । ०४६००७२ हृष्टपुष्टजनाकीर्णा वस्त्रालङ्कारभूषिताः ॥ ४६.७। ०४६००८१ ब्राह्मणाः क्षत्रिया वैश्याः शूद्रास्तत्र पृथक्पृथक् । ०४६००८२ स्वधर्मनिरताः शान्ता दृश्यन्ते शुभलक्षणाः ॥ ४६.८। ०४६००९१ ताम्बूलपूर्णवदना मालादामविभूषिताः । ०४६००९२ वेदपूर्णमुखा विप्राः सषडङ्गपदक्रमाः ॥ ४६.९। ०४६०१०१ अग्निहोत्ररताः केचित्केचिदौपासनक्रियाः । ०४६०१०२ सर्वशास्त्रार्थकुशला यज्वानो भूरिदक्षिणाः ॥ ४६.१०। ०४६०१११ चत्वारे राजमार्गेषु वनेषूपवनेषु च । ०४६०११२ सभामण्डलहर्म्येषु देवतायतनेषु च ॥ ४६.११। ०४६०१२१ इतिहासपुराणानि वेदाः साङ्गाः सुलक्षणाः । ०४६०१२२ काव्यशास्त्रकथास्तत्र श्रूयन्ते च महाजनैः ॥ ४६.१२। ०४६०१३१ स्त्रियस्तद्देशवासिन्यो रूपयौवनगर्विताः । ०४६०१३२ सम्पूर्णलक्षणोपेता विस्तीर्णश्रोणिमण्डलाः ॥ ४६.१३। ०४६०१४१ सरोरुहमुखाः श्यामाः शरच्चन्द्रनिभाननाः । ०४६०१४२ पीनोन्नतस्तनाः सर्वाः समृद्ध्या चारुदर्शनाः ॥ ४६.१४। ०४६०१५१ सौवर्णवलयाक्रान्ता दिव्यैर्वस्त्रैरलङ्कृताः । ०४६०१५२ कदलीगर्भसङ्काशाः पद्मकिञ्जल्कसप्रभाः ॥ ४६.१५। ०४६०१६१ बिम्बाधरपुटाः कान्ताः कर्णान्तायतलोचनाः । ०४६०१६२ सुमुखाश्चारुकेशाश्च हावभावावनामिताः ॥ ४६.१६। ०४६०१७१ काश्चित्पद्मपलाशाक्ष्यः काश्चिदिन्दीवरेक्षणाः । ०४६०१७२ विद्युद्विस्पष्टदशनास्तन्वङ्ग्यश्च तथापराः ॥ ४६.१७। ०४६०१८१ कुटिलालकसंयुक्ताः सीमन्तेन विराजिताः । ०४६०१८२ ग्रीवाभरणसंयुक्ता माल्यदामविभूषिताः ॥ ४६.१८। ०४६०१९१ कुण्डलै रत्नसंयुक्तैः कर्णपूरैर्मनोहरैः । ०४६०१९२ देवयोषित्प्रतीकाशा दृश्यन्ते शुभलक्षणाः ॥ ४६.१९। ०४६०२०१ दिव्यगीतवरैर्धन्यैः क्रीडमाना वराङ्गनाः । ०४६०२०२ वीणावेणुमृदङ्गैश्च पणवैश्चैव गोमुखैः ॥ ४६.२०। ०४६०२११ शङ्खदुन्दुभिनिर्घोषैर्नानावाद्यैर्मनोहरैः । ०४६०२१२ क्रीडन्त्यस्ताः सदा हृष्टा विलासिन्यः परस्परम् ॥ ४६.२१। ०४६०२२१ एवमादि तथानेक-गीतवाद्यविशारदाः । ०४६०२२२ दिवा रात्रौ समायुक्ताः कामोन्मत्ता वराङ्गनाः ॥ ४६.२२। ०४६०२३१ भिक्षुवैखानसैः सिद्धैः स्नातकैर्ब्रह्मचारिभिः । ०४६०२३२ मन्त्रसिद्धैस्तपःसिद्धैर्यज्ञसिद्धैर्निषेवितम् ॥ ४६.२३। ०४६०२४१ इत्येवं ददृशे राजा क्षेत्रं परमशोभनम् । ०४६०२४२ अत्रैवाराधयिष्यामि भगवन्तं सनातनम् ॥ ४६.२४। ०४६०२५१ जगद्गुरुं परं देवं परं पारं परं पदम् । ०४६०२५२ सर्वेश्वरेश्वरं विष्णुमनन्तमपराजितम् ॥ ४६.२५। ०४६०२६१ इदं तन्मानसं तीर्थं ज्ञातं मे पुरुषोत्तमम् । ०४६०२६२ कल्पवृक्षो महाकायो न्यग्रोधो यत्र तिष्ठति ॥ ४६.२६। ०४६०२७१ प्रतिमा चेन्द्रनीलाख्या स्वयं देवेन गोपिता । ०४६०२७२ न चात्र दृश्यते चान्या प्रतिमा वैष्णवी शुभा ॥ ४६.२७। ०४६०२८१ तथा यत्नं करिष्यामि यथा देवो जगत्पतिः । ०४६०२८२ प्रत्यक्षं मम चाभ्येति विष्णुः सत्यपराक्रमः ॥ ४६.२८। ०४६०२९१ यज्ञैर्दानैस्तपोभिश्च होमैर्ध्यानैस्तथार्चनैः । ०४६०२९२ उपवासैश्च विधिवच्चरेयं व्रतमुत्तमम् ॥ ४६.२९। ०४६०३०१ अनन्यमनसा चैव तन्मना नान्यमानसः । ०४६०३०२ विष्ण्वायतनविन्यासे प्रारम्भं च करोम्यहम् ॥ ४६.३०। ०४७००१० ब्रह्मोवाच ०४७००११ एवं स पृथिवीपालश्चिन्तयित्वा द्विजोत्तमाः । ०४७००१२ प्रासादार्थं हरेस्तत्र प्रारम्भमकरोत्तदा ॥ ४७.१। ०४७००२१ आनाय्य गणकान्सर्वानाचार्याञ्शास्त्रपारगान् । ०४७००२२ भूमिं संशोध्य यत्नेन राजा तु परया मुदा ॥ ४७.२। ०४७००३१ ब्राह्मणैर्ज्ञानसम्पन्नैर्वेदशास्त्रार्थपारगैः । ०४७००३२ अमात्यैर्मन्त्रिभिश्चैव वास्तुविद्याविशारदैः ॥ ४७.३। ०४७००४१ तैः सार्धं स समालोच्य सुमुहूर्ते शुभे दिने । ०४७००४२ सुचन्द्रतारासंयोगे ग्रहानुकूल्यसंयुते ॥ ४७.४। ०४७००५१ जयमङ्गलशब्दैश्च नानावाद्यैर्मनोहरैः । ०४७००५२ वेदाध्ययननिर्घोषैर्गीतैः सुमधुरस्वरैः ॥ ४७.५। ०४७००६१ पुष्पलाजाक्षतैर्गन्धैः पूर्णकुम्भैः सदीपकैः । ०४७००६२ ददावर्घ्यं ततो राजा श्रद्धया सुसमाहितः ॥ ४७.६। ०४७००७१ दत्त्वैवमर्घ्यं विधिवदानाय्य स महीपतिः । ०४७००७२ कलिङ्गाधिपतिं शूरमुत्कलाधिपतिं तथा । ०४७००७३ कोशलाधिपतिं चैव तानुवाच तदा नृपः ॥ ४७.७। ०४७००८० राजोवाच ०४७००८१ गच्छध्वं सहिताः सर्वे शिलार्थे सुसमाहिताः । ०४७००८२ गृहीत्वा शिल्पिमुख्यांश्च शिलाकर्मविशारदान् ॥ ४७.८। ०४७००९१ विन्ध्याचलं सुविस्तीर्णं बहुकन्दरशोभितम् । ०४७००९२ निरूप्य सर्वसानूनि च्छेदयित्वा शिलाः शुभाः । ०४७००९३ संवाह्यन्तां च शकटैर्नौकाभिर्मा विलम्बथ ॥ ४७.९। ०४७०१०० ब्रह्मोवाच ०४७०१०१ एवं गन्तुं समादिश्य तान्नृपान्स महीपतिः । ०४७०१०२ पुनरेवाब्रवीद्वाक्यं सामात्यान्सपुरोहितान् ॥ ४७.१०। ०४७०११० राजोवाच ०४७०१११ गच्छन्तु दूताः सर्वत्र ममाज्ञां प्रवदन्तु वै । ०४७०११२ यत्र तिष्ठन्ति राजानः पृथिव्यां तान्सुशीघ्रगाः ॥ ४७.११। ०४७०१२१ हस्त्यश्वरथपादातैः सामात्यैः सपुरोहितैः । ०४७०१२२ गच्छत सहिताः सर्व इन्द्रद्युम्नस्य शासनात् ॥ ४७.१२। ०४७०१३० ब्रह्मोवाच ०४७०१३१ एवं दूताः समाज्ञाता राज्ञा तेन महात्मना । ०४७०१३२ गत्वा तदा नृपानूचुर्वचनं तस्य भूपतेः ॥ ४७.१३। ०४७०१४१ श्रुत्वा तु ते तथा सर्वे दूतानां वचनं नृपाः । ०४७०१४२ आजग्मुस्त्वरिताः सर्वे स्वसैन्यैः परिवारिताः ॥ ४७.१४। ०४७०१५१ ये नृपाः सर्वदिग्भागे ये च दक्षिणतः स्थिताः । ०४७०१५२ पश्चिमायां स्थिता ये च उत्तरापथसंस्थिताः ॥ ४७.१५। ०४७०१६१ प्रत्यन्तवासिनो ये ऽपि ये च सन्निधिवासिनः । ०४७०१६२ पार्वतीयाश्च ये केचित्तथा द्वीपनिवासिनः ॥ ४७.१६। ०४७०१७१ रथैर्नागैः पदातैश्च वाजिभिर्धनविस्तरैः । ०४७०१७२ सम्प्राप्ता बहुशो विप्राः श्रुत्वेन्द्रद्युम्नशासनम् ॥ ४७.१७। ०४७०१८१ तानागतान्नृपान्दृष्ट्वा सामात्यान्सपुरोहितान् । ०४७०१८२ प्रोवाच राजा हृष्टात्मा कार्यमुद्दिश्य सादरम् ॥ ४७.१८। ०४७०१९० राजोवाच ०४७०१९१ शृणुध्वं नृपशार्दूला यथा किञ्चिद्ब्रवीम्यहम् । ०४७०१९२ अस्मिन्क्षेत्रवरे पुण्ये भुक्तिमुक्तिप्रदे शिवे ॥ ४७.१९। ०४७०२०१ हयमेधं महायज्ञं प्रासादं चैव वैष्णवम् । ०४७०२०२ कथं शक्नोम्यहं कर्तुमिति चिन्ताकुलं मनः ॥ ४७.२०। ०४७०२११ भवद्भिः सुसहायैस्तु सर्वमेतत्करोम्यहम् । ०४७०२१२ यदि यूयं सहाया मे भवध्वं नृपसत्तमाः ॥ ४७.२१। ०४७०२२० ब्रह्मोवाच ०४७०२२१ इत्येवं वदमानस्य राजराजस्य धीमतः । ०४७०२२२ सर्वे प्रमुदिता हृष्टा भूपास्ते तस्य शासनात् ॥ ४७.२२। ०४७०२३१ ववृषुर्धनरत्नैश्च सुवर्णमणिमौक्तिकैः । ०४७०२३२ कम्बलाजिनरत्नैश्च राङ्कवास्तरणैः शुभैः ॥ ४७.२३। ०४७०२४१ वज्रवैदूर्यमाणिक्यैः पद्मरागेन्द्रनीलकैः । ०४७०२४२ गजैरश्वैर्धनैश्चान्यै रथैश्चैव करेणुभिः ॥ ४७.२४। ०४७०२५१ असङ्ख्येयैर्बहुविधैर्द्रव्यैरुच्चावचैस्तथा । ०४७०२५२ शालिव्रीहियवैश्चैव माषमुद्गतिलैस्तथा ॥ ४७.२५। ०४७०२६१ सिद्धार्थचणकैश्चैव गोधूमैर्मसुरादिभिः । ०४७०२६२ श्यामाकैर्मधुकैश्चैव नीवारैः सकुलत्थकैः ॥ ४७.२६। ०४७०२७१ अन्यैश्च विविधैर्धान्यैर्ग्राम्यारण्यैः सहस्रशः । ०४७०२७२ बहुधान्यसहस्राणां तण्डुलानां च राशिभिः ॥ ४७.२७। ०४७०२८१ गव्यस्य हविषः कुम्भैः शतशो ऽथ सहस्रशः । ०४७०२८२ तथान्यैर्विविधैर्द्रव्यैर्भक्ष्यभोज्यानुलेपनैः ॥ ४७.२८। ०४७०२९१ राजानः पूरयामासुर्यत्किञ्चिद्द्रव्यसम्भवैः । ०४७०२९२ तान्दृष्ट्वा यज्ञसम्भारान्सर्वसम्पत्समन्वितान् ॥ ४७.२९। ०४७०३०१ यज्ञकर्मविदो विप्रान्वेदवेदाङ्गपारगान् । ०४७०३०२ शास्त्रेषु निपुणान्दक्षान्कुशलान्सर्वकर्मसु ॥ ४७.३०। ०४७०३११ ऋषींश्चैव महर्षींश्च देवर्षींश्चैव तापसान् । ०४७०३१२ ब्रह्मचारिगृहस्थांश्च वानप्रस्थान्यतींस्तथा ॥ ४७.३१। ०४७०३२१ स्नातकान्ब्राह्मणांश्चान्यानग्निहोत्रे सदा स्थितान् । ०४७०३२२ आचार्योपाध्यायवरान्स्वाध्यायतपसान्वितान् ॥ ४७.३२। ०४७०३३१ सदस्याञ्शास्त्रकुशलांस्तथान्यान्पावकान्बहून् । ०४७०३३२ दृष्ट्वा तान्नृपतिः श्रीमानुवाच स्वं पुरोहितम् ॥ ४७.३३। ०४७०३४० राजोवाच ०४७०३४१ ततः प्रयान्तु विद्वांसो ब्राह्मणा वेदपारगाः । ०४७०३४२ वाजिमेधार्थसिद्ध्यर्थं देशं पश्यन्तु यज्ञियम् ॥ ४७.३४। ०४७०३५० ब्रह्मोवाच ०४७०३५१ इत्युक्तः स तथा चक्रे वचनं तस्य भूपतेः । ०४७०३५२ हृष्टः स मन्त्रिभिः सार्धं तदा राजपुरोहितः ॥ ४७.३५। ०४७०३६१ ततो ययौ पुरोधाश्च प्राज्ञः स्थपतिभिः सह । ०४७०३६२ ब्राह्मणानग्रतः कृत्वा कुशलान्यज्ञकर्मणि ॥ ४७.३६। ०४७०३७१ तं देशं धीवरग्रामं सप्रतोलिविटङ्किनम् । ०४७०३७२ कारयामास विप्रो ऽसौ यज्ञवाटं यथाविधि ॥ ४७.३७। ०४७०३८१ प्रासादशतसम्बाधं मणिप्रवरशोभितम् । ०४७०३८२ इन्द्रसद्मनिभं रम्यं हेमरत्नविभूषितम् ॥ ४७.३८। ०४७०३९१ स्तम्भान्कनकचित्रांश्च तोरणानि बृहन्ति च । ०४७०३९२ यज्ञायतनदेशेषु दत्त्वा शुद्धं च काञ्चनम् ॥ ४७.३९। ०४७०४०१ अन्तःपुराणि राज्ञां च नानादेशनिवासिनाम् । ०४७०४०२ कारयामास धर्मात्मा तत्र तत्र यथाविधि ॥ ४७.४०। ०४७०४११ ब्राह्मणानां च वैश्यानां नानादेशसमीयुषाम् । ०४७०४१२ कारयामास विधिवच्छालास्तत्राप्यनेकशः ॥ ४७.४१। ०४७०४२१ प्रियार्थं तस्य नृपतेराययुर्नृपसत्तमाः । ०४७०४२२ रत्नान्यनेकान्यादाय स्त्रियश्चाययुरुत्सवे ॥ ४७.४२। ०४७०४३१ तेषां निर्विशतां स्वेषु शिबिरेषु महात्मनाम् । ०४७०४३२ नदतः सागरस्येव दिविस्पृगभवद्ध्वनिः ॥ ४७.४३। ०४७०४४१ तेषामभ्यागतानां च स राजा मुनिसत्तमाः । ०४७०४४२ व्यादिदेशायतनानि शय्याश्चाप्युपचारतः ॥ ४७.४४। ०४७०४५१ भोजनानि विचित्राणि शालीक्षुयवगोरसैः । ०४७०४५२ उपेत्य नृपतिश्रेष्ठो व्यादिदेश स्वयं तदा ॥ ४७.४५। ०४७०४६१ तथा तस्मिन्महायज्ञे बहवो ब्रह्मवादिनः । ०४७०४६२ ये च द्विजातिप्रवरास्तत्रासन्द्विजसत्तमाः ॥ ४७.४६। ०४७०४७१ समाजग्मुः सशिष्यास्तान्प्रतिजग्राह पार्थिवः । ०४७०४७२ सर्वांश्च ताननुययौ यावदावसथानिति ॥ ४७.४७। ०४७०४८१ स्वयमेव महातेजा दम्भं त्यक्त्वा नृपोत्तमः । ०४७०४८२ ततः कृत्वा स्वशिल्पं च शिल्पिनो ऽन्ये च ये तदा ॥ ४७.४८। ०४७०४९१ कृत्स्नं यज्ञविधिं राज्ञे तदा तस्मै न्यवेदयन् । ०४७०४९२ ततः श्रुत्वा नृपश्रेष्ठः कृतं सर्वमतन्द्रितः । ०४७०४९३ हृष्टरोमाभवद्राजा सह मन्त्रिभिरच्युतः ॥ ४७.४९। ०४७०५०० ब्रह्मोवाच ०४७०५०१ तस्मिन्यज्ञे प्रवृत्ते तु वाग्मिनो हेतुवादिभिः । ०४७०५०२ हेतुवादान्बहूनाहुः परस्परजिगीषवः ॥ ४७.५०। ०४७०५११ देवेन्द्रस्येव विहितं राजसिंहेन भो द्विजाः । ०४७०५१२ ददृशुस्तोरणान्यत्र शातकुम्भमयानि च ॥ ४७.५१। ०४७०५२१ शय्यासनविकारांश्च सुबहून्रत्नसञ्चयान् । ०४७०५२२ घटपात्रीकटाहानि कलशान्वर्धमानकान् ॥ ४७.५२। ०४७०५३१ नहि कश्चिदसौवर्णमपश्यद्वसुधाधिपः । ०४७०५३२ यूपांश्च शास्त्रपठितान्दारवान्हेमभूषितान् ॥ ४७.५३। ०४७०५४१ उपक्षिप्तान्यथाकालं विधिवद्भूरिवर्चसः । ०४७०५४२ स्थलजा जलजा ये च पशवः केचन द्विजाः ॥ ४७.५४। ०४७०५५१ सर्वानेव समानीतानपश्यंस्तत्र ते नृपाः । ०४७०५५२ गाश्चैव महिषीश्चैव तथा वृद्धस्त्रियो ऽपि च ॥ ४७.५५। ०४७०५६१ औदकानि च सत्त्वानि श्वापदानि वयांसि च । ०४७०५६२ जरायुजाण्डजातानि स्वेदजान्युद्भिदानि च ॥ ४७.५६। ०४७०५७१ पर्वतान्युपधान्यानि भूतानि ददृशुश्च ते । ०४७०५७२ एवं प्रमुदितं सर्वं पशुतो धनधान्यतः ॥ ४७.५७। ०४७०५८१ यज्ञवाटं नृपा दृष्ट्वा विस्मयं परमं गताः । ०४७०५८२ ब्राह्मणानां विशां चैव बहुमिष्टान्नमृद्धिमत् ॥ ४७.५८। ०४७०५९१ पूर्णे शतसहस्रे तु विप्राणां तत्र भुञ्जताम् । ०४७०५९२ दुन्दुभिर्मेघनिर्घोषान्मुहुर्मुहुरथाकरोत् ॥ ४७.५९। ०४७०६०१ विननादासकृच्चापि दिवसे दिवसे गते । ०४७०६०२ एवं स ववृधे यज्ञस्तस्य राज्ञस्तु धीमतः ॥ ४७.६०। ०४७०६११ अन्नस्य सुबहून्विप्रा उत्सर्गान्निर्गतोपमान् । ०४७०६१२ दधिकुल्याश्च ददृशुः पयसश्च ह्रदांस्तथा ॥ ४७.६१। ०४७०६२१ जम्बूद्वीपो हि सकलो नानाजनपदैर्युतः । ०४७०६२२ द्विजाश्च तत्र दृश्यन्ते राज्ञस्तस्य महामखे ॥ ४७.६२। ०४७०६३१ तत्र यानि सहस्राणि पुरुषाणां ततस्ततः । ०४७०६३२ गृहीत्वा भाजनं जग्मुर्बहूनि द्विजसत्तमाः ॥ ४७.६३। ०४७०६४१ श्राविणश्चापि ते सर्वे सुमृष्टमणिकुण्डलाः । ०४७०६४२ पर्यवेषयन्द्विजातीञ्शतशो ऽथ सहस्रशः ॥ ४७.६४। ०४७०६५१ विविधान्यनुपानानि पुरुषा ये ऽनुयायिनः । ०४७०६५२ ते वै नृपोपभोज्यानि ब्राह्मणेभ्यो ददुः सह ॥ ४७.६५। ०४७०६६१ समागतान्वेदविदो राज्ञश्च पृथिवीश्वरान् । ०४७०६६२ पूजां चक्रे तदा तेषां विधिवद्भूरिदक्षिणः ॥ ४७.६६। ०४७०६७१ दिग्देशादागतान्राज्ञो महासङ्ग्रामशालिनः । ०४७०६७२ नटनर्तककादींश्च गीतस्तुतिविशारदान् ॥ ४७.६७। ०४७०६८१ पत्न्यो मनोरमास्तस्य पीनोन्नतपयोधराः । ०४७०६८२ इन्दीवरपलाशाक्ष्यः शरच्चन्द्रनिभाननाः ॥ ४७.६८। ०४७०६९१ कुलशीलगुणोपेताः सहस्रैकं शताधिकम् । ०४७०६९२ एवं तद्भूपपरम-पत्नीगणसमन्वितम् ॥ ४७.६९। ०४७०७०१ रत्नमालाकुलं दिव्यं पताकाध्वजसेवितम् । ०४७०७०२ रत्नहारयुतं रम्यं चन्द्रकान्तिसमप्रभम् ॥ ४७.७०। ०४७०७११ करिणः पर्वताकारान्मदसिक्तान्महाबलान् । ०४७०७१२ शतशः कोटिसङ्घातैर्दन्तिभिर्दन्तभूषणैः ॥ ४७.७१। ०४७०७२१ वातवेगजवैरश्वैः सिन्धुजातैः सुशोभनैः । ०४७०७२२ श्वेताश्वैः श्यामकर्णैश्च कोट्यनेकैर्जवान्वितैः ॥ ४७.७२। ०४७०७३१ सन्नद्धबद्धकक्षैश्च नानाप्रहरणोद्यतैः । ०४७०७३२ असङ्ख्येयैः पदातैश्च देवपुत्रोपमैस्तथा ॥ ४७.७३। ०४७०७४१ इत्येवं ददृशे राजा यज्ञसम्भारविस्तरम् । ०४७०७४२ मुदं लेभे तदा राजा संहृष्टो वाक्यमब्रवीत् ॥ ४७.७४। ०४७०७५० राजोवाच ०४७०७५१ आनयध्वं हयश्रेष्ठं सर्वलक्षणलक्षितम् । ०४७०७५२ चारयध्वं पृथिव्यां वै राजपुत्राः सुसंयताः ॥ ४७.७५। ०४७०७६१ विद्वद्भिर्धर्मविद्भिश्च अत्र होमो विधीयताम् । ०४७०७६२ कृष्णच्छागं च महिषं कृष्णसारमृगं द्विजान् ॥ ४७.७६। ०४७०७७१ अनड्वाहं च गाश्चैव सर्वांश्च पशुपालकान् । ०४७०७७२ इष्टयश्च प्रवर्तन्तां प्रासादं वैष्णवं ततः ॥ ४७.७७। ०४७०७८१ सर्वमेतच्च विप्रेभ्यो दीयतां मनसेप्सितम् । ०४७०७८२ स्त्रियश्च रत्नकोट्यश्च ग्रामाश्च नगराणि च ॥ ४७.७८। ०४७०७९१ सम्यक्समृद्धभूम्यश्च विषयाश्चैवमर्थिनाम् । ०४७०७९२ अन्यानि द्रव्यजातानि मनोज्ञानि बहूनि च ॥ ४७.७९। ०४७०८०१ सर्वेषां याचमानानां नास्ति ह्येतन्न भाषयेत् । ०४७०८०२ तावत्प्रवर्ततां यज्ञो यावद्देवः पुरा त्विह । ०४७०८०३ प्रत्यक्षं मम चाभ्येति यज्ञस्यास्य समीपतः ॥ ४७.८०। ०४७०८१० ब्रह्मोवाच ०४७०८११ एवमुक्त्वा तदा विप्रा राजसिंहो महाभुजः । ०४७०८१२ ददौ सुवर्णसङ्घातं कोटीनां चैव भूषणम् ॥ ४७.८१। ०४७०८२१ करेणुशतसाहस्रं वाजिनो नियुतानि च । ०४७०८२२ अर्बुदं चैव वृषभं स्वर्णशृङ्गीश्च धेनुकाः ॥ ४७.८२। ०४७०८३१ सुरूपाः सुरभीश्चैव कांस्यदोहाः पयस्विनीः । ०४७०८३२ प्रायच्छत्स तु विप्रेभ्यो वेदविद्भ्यो मुदा युतः ॥ ४७.८३। ०४७०८४१ वासांसि च महार्हाणि राङ्कवास्तरणानि च । ०४७०८४२ सुशुक्लानि च शुभ्राणि प्रवालमणिमुत्तमम् ॥ ४७.८४। ०४७०८५१ अददात्स महायज्ञे रत्नानि विविधानि च ॥ ४७.८५। ०४७०८६१ वज्रवैदूर्यमाणिक्य-मुक्तिकाद्यानि यानि च । ०४७०८६२ अलङ्कारवतीः शुभ्राः कन्या राजीवलोचनाः ॥ ४७.८६। ०४७०८७१ शतानि पञ्च विप्रेभ्यो राजा हृष्टः प्रदत्तवान् । ०४७०८७२ स्त्रियः पीनपयोभाराः कञ्चुकैः स्वस्तनावृताः ॥ ४७.८७। ०४७०८८१ मध्यहीनाश्च सुश्रोण्यः पद्मपत्त्रायतेक्षणाः । ०४७०८८२ हावभावान्वितग्रीवा बह्व्यो वलयभूषिताः ॥ ४७.८८। ०४७०८९१ पादनूपुरसंयुक्ताः पट्टदुकूलवाससः । ०४७०८९२ एकैकशो ऽददात्तस्मिन्काम्याश्च कामिनीर्बहूः ॥ ४७.८९। ०४७०९०१ अर्थिभ्यो ब्राह्मणादिभ्यो हयमेधे द्विजोत्तमाः । ०४७०९०२ भक्ष्यं भोज्यं च सम्पूर्णं नानासम्भारसंयुतम् ॥ ४७.९०। ०४७०९११ खण्डकाद्यान्यनेकानि स्विन्नपक्वांश्च पिष्टकान् । ०४७०९१२ अन्नान्यन्यानि मेध्यांश्च घृतपूरांश्च खाण्डवान् ॥ ४७.९१। ०४७०९२१ मधुरांस्तर्जितान्पूपानन्नं मृष्टं सुपाकिकम् । ०४७०९२२ प्रीत्यर्थं सर्वसत्त्वानां दीयते ऽन्नं पुनः पुनः ॥ ४७.९२। ०४७०९३१ दत्तस्य दीयमानस्य धनस्यान्तो न विद्यते । ०४७०९३२ एवं दृष्ट्वा महायज्ञं देवदैत्याः सवारणाः ॥ ४७.९३। ०४७०९४१ गन्धर्वाप्सरसः सिद्धा ऋषयश्च प्रजेश्वराः । ०४७०९४२ विस्मयं परमं याता दृष्ट्वा क्रतुवरं शुभम् ॥ ४७.९४। ०४७०९५१ पुरोधा मन्त्रिणो राजा हृष्टास्तत्रैव सर्वशः । ०४७०९५२ न तत्र मलिनः कश्चिन्न दीनो न क्षुधान्वितः ॥ ४७.९५। ०४७०९६१ न वोपसर्गो न ग्लानिर्नाधयो व्याधयस्तथा । ०४७०९६२ नाकालमरणं तत्र न दंशो न ग्रहा विषम् ॥ ४७.९६। ०४७०९७१ हृष्टपुष्टजनाः सर्वे तस्मिन्राज्ञो महोत्सवे । ०४७०९७२ ये च तत्र तपःसिद्धा मुनयश्चिरजीविनः ॥ ४७.९७। ०४७०९८१ न जातं तादृशं यज्ञं धनधान्यसमन्वितम् । ०४७०९८२ एवं स राजा विधिवद्वाजिमेधं द्विजोत्तमाः । ०४७०९८३ क्रतुं समापयामास प्रासादं वैष्णवं तथा ॥ ४७.९८। ०४८००१० मुनय ऊचुः ०४८००११ ब्रूहि नो देवदेवेश यत्पृच्छामः पुरातनम् । ०४८००१२ यथा ताः प्रतिमाः पूर्वमिन्द्रद्युम्नेन निर्मिताः ॥ ४८.१। ०४८००२१ केन चैव प्रकारेण तुष्टस्तस्मै स माधवः । ०४८००२२ तत्सर्वं वद चास्माकं परं कौतूहलं हि नः ॥ ४८.२। ०४८००३० ब्रह्मोवाच ०४८००३१ शृणुध्वं मुनिशार्दूलाः पुराणं वेदसम्मितम् । ०४८००३२ कथयामि पुरा वृत्तं प्रतिमानां च सम्भवम् ॥ ४८.३। ०४८००४१ प्रवृत्ते च महायज्ञे प्रासादे चैव निर्मिते । ०४८००४२ चिन्ता तस्य बभूवाथ प्रतिमार्थमहर्निशम् ॥ ४८.४। ०४८००५१ न वेद्मि केन देवेशं सर्वेशं लोकपावनम् । ०४८००५२ सर्गस्थित्यन्तकर्तारं पश्यामि पुरुषोत्तमम् ॥ ४८.५। ०४८००६१ चिन्ताविष्टस्त्वभूद्राजा शेते रात्रौ दिवापि न । ०४८००६२ न भुङ्क्ते विविधान्भोगान्न च स्नानं प्रसाधनम् ॥ ४८.६। ०४८००७१ नैव वाद्येन गन्धेन गायनैर्वर्णकैरपि । ०४८००७२ न गजैर्मदयुक्तैश्च न चानेकैर्हयान्वितैः ॥ ४८.७। ०४८००८१ नेन्द्रनीलैर्महानीलैः पद्मरागमयैर्न च । ०४८००८२ सुवर्णरजताद्यैश्च वज्रस्फटिकसंयुतैः ॥ ४८.८। ०४८००९१ बहुरागार्थकामैर्वा न वन्यैरन्तरिक्षगैः । ०४८००९२ बभूव तस्य नृपतेर्मनसस्तुष्टिवर्धनम् ॥ ४८.९। ०४८०१०१ शैलमृद्दारुजातेषु प्रशस्तं किं महीतले । ०४८०१०२ विष्णुप्रतिमायोग्यं च सर्वलक्षणलक्षितम् ॥ ४८.१०। ०४८०१११ एतैरेव त्रयाणां तु दयितं स्यात्सुरार्चितम् । ०४८०११२ स्थापिते प्रीतिमभ्येति इति चिन्तापरो ऽभवत् ॥ ४८.११। ०४८०१२१ पञ्चरात्रविधानेन सम्पूज्य पुरुषोत्तमम् । ०४८०१२२ चिन्ताविष्टो महीपालः संस्तोतुमुपचक्रमे ॥ ४८.१२। ०४९००११ वासुदेव नमस्ते ऽस्तु नमस्ते मोक्षकारण । ०४९००१२ त्राहि मां सर्वलोकेश जन्मसंसारसागरात् ॥ ४९.१। ०४९००२१ निर्मलाम्बरसङ्काश नमस्ते पुरुषोत्तम । ०४९००२२ सङ्कर्षण नमस्ते ऽस्तु त्राहि मां धरणीधर ॥ ४९.२। ०४९००३१ नमस्ते हेमगर्भाभ नमस्ते मकरध्वज । ०४९००३२ रतिकान्त नमस्ते ऽस्तु त्राहि मां संवरान्तक ॥ ४९.३। ०४९००४१ नमस्ते ऽञ्जनसङ्काश नमस्ते भक्तवत्सल । ०४९००४२ अनिरुद्ध नमस्ते ऽस्तु त्राहि मां वरदो भव ॥ ४९.४। ०४९००५१ नमस्ते विबुधावास नमस्ते विबुधप्रिय । ०४९००५२ नारायण नमस्ते ऽस्तु त्राहि मां शरणागतम् ॥ ४९.५। ०४९००६१ नमस्ते बलिनां श्रेष्ठ नमस्ते लाङ्गलायुध । ०४९००६२ चतुर्मुख जगद्धाम त्राहि मां प्रपितामह ॥ ४९.६। ०४९००७१ नमस्ते नीलमेघाभ नमस्ते त्रिदशार्चित । ०४९००७२ त्राहि विष्णो जगन्नाथ मग्नं मां भवसागरे ॥ ४९.७। ०४९००८१ प्रलयानलसङ्काश नमस्ते दितिजान्तक । ०४९००८२ नरसिंह महावीर्य त्राहि मां दीप्तलोचन ॥ ४९.८। ०४९००९१ यथा रसातलादुर्वी त्वया दंष्ट्रोद्धृता पुरा । ०४९००९२ तथा महावराहस्त्वं त्राहि मां दुःखसागरात् ॥ ४९.९। ०४९०१०१ तवैता मूर्तयः कृष्ण वरदाः संस्तुता मया । ०४९०१०२ तवेमे बलदेवाद्याः पृथग्रूपेण संस्थिताः ॥ ४९.१०। ०४९०१११ अङ्गानि तव देवेश गरुत्माद्यास्तथा प्रभो । ०४९०११२ दिक्पालाः सायुधाश्चैव केशवाद्यास्तथाच्युत ॥ ४९.११। ०४९०१२१ ये चान्ये तव देवेश भेदाः प्रोक्ता मनीषिभिः । ०४९०१२२ ते ऽपि सर्वे जगन्नाथ प्रसन्नायतलोचन ॥ ४९.१२। ०४९०१३१ मयार्चिताः स्तुताः सर्वे तथा यूयं नमस्कृताः । ०४९०१३२ प्रयच्छत वरं मह्यं धर्मकामार्थमोक्षदम् ॥ ४९.१३। ०४९०१४१ भेदास्ते कीर्तिता ये तु हरे सङ्कर्षणादयः । ०४९०१४२ तव पूजार्थसम्भूतास्ततस्त्वयि समाश्रिताः ॥ ४९.१४। ०४९०१५१ न भेदस्तव देवेश विद्यते परमार्थतः । ०४९०१५२ विविधं तव यद्रूपमुक्तं तदुपचारतः ॥ ४९.१५। ०४९०१६१ अद्वैतं त्वां कथं द्वैतं वक्तुं शक्नोति मानवः । ०४९०१६२ एकस्त्वं हि हरे व्यापी चित्स्वभावो निरञ्जनः ॥ ४९.१६। ०४९०१७१ परमं तव यद्रूपं भावाभावविवर्जितम् । ०४९०१७२ निर्लेपं निर्गुणं श्रेष्ठं कूटस्थमचलं ध्रुवम् ॥ ४९.१७। ०४९०१८१ सर्वोपाधिविनिर्मुक्तं सत्तामात्रव्यवस्थितम् । ०४९०१८२ तद्देवाश्च न जानन्ति कथं जानाम्यहं प्रभो ॥ ४९.१८। ०४९०१९१ अपरं तव यद्रूपं पीतवस्त्रं चतुर्भुजम् । ०४९०१९२ शङ्खचक्रगदापाणि-मुकुटाङ्गदधारिणम् ॥ ४९.१९। ०४९०२०१ श्रीवत्सोरस्कसंयुक्तं वनमालाविभूषितम् । ०४९०२०२ तदर्चयन्ति विबुधा ये चान्ये तव संश्रयाः ॥ ४९.२०। ०४९०२११ देवदेव सुरश्रेष्ठ भक्तानामभयप्रद । ०४९०२१२ त्राहि मां पद्मपत्त्राक्ष मग्नं विषयसागरे ॥ ४९.२१। ०४९०२२१ नान्यं पश्यामि लोकेश यस्याहं शरणं व्रजे । ०४९०२२२ त्वामृते कमलाकान्त प्रसीद मधुसूदन ॥ ४९.२२। ०४९०२३१ जराव्याधिशतैर्युक्तो नानादुःखैर्निपीडितः । ०४९०२३२ हर्षशोकान्वितो मूढः कर्मपाशैः सुयन्त्रितः ॥ ४९.२३। ०४९०२४१ पतितो ऽहं महारौद्रे घोरे संसारसागरे । ०४९०२४२ विषमोदकदुष्पारे रागद्वेषझषाकुले ॥ ४९.२४। ०४९०२५१ इन्द्रियावर्तगम्भीरे तृष्णाशोकोर्मिसङ्कुले । ०४९०२५२ निराश्रये निरालम्बे निःसारे ऽत्यन्तचञ्चले ॥ ४९.२५। ०४९०२६१ मायया मोहितस्तत्र भ्रमामि सुचिरं प्रभो । ०४९०२६२ नानाजातिसहस्रेषु जायमानः पुनः पुनः ॥ ४९.२६। ०४९०२७१ मया जन्मान्यनेकानि सहस्राण्ययुतानि च । ०४९०२७२ विविधान्यनुभूतानि संसारे ऽस्मिञ्जनार्दन ॥ ४९.२७। ०४९०२८१ वेदाः साङ्गा मयाधीताः शास्त्राणि विविधानि च । ०४९०२८२ इतिहासपुराणानि तथा शिल्पान्यनेकशः ॥ ४९.२८। ०४९०२९१ असन्तोषाश्च सन्तोषाः सञ्चयापचया व्ययाः । ०४९०२९२ मया प्राप्ता जगन्नाथ क्षयवृद्ध्यक्षयेतराः ॥ ४९.२९। ०४९०३०१ भार्यारिमित्रबन्धूनां वियोगाः सङ्गमास्तथा । ०४९०३०२ पितरो विविधा दृष्टा मातरश्च तथा मया ॥ ४९.३०। ०४९०३११ दुःखानि चानुभूतानि यानि सौख्यान्यनेकशः । ०४९०३१२ प्राप्ताश्च बान्धवाः पुत्रा भ्रातरो ज्ञातयस्तथा ॥ ४९.३१। ०४९०३२१ मयोषितं तथा स्त्रीणां कोष्ठे विण्मूत्रपिच्छले । ०४९०३२२ गर्भवासे महादुःखमनुभूतं तथा प्रभो ॥ ४९.३२। ०४९०३३१ दुःखानि यान्यनेकानि बाल्ययौवनगोचरे । ०४९०३३२ वार्धके च हृषीकेश तानि प्राप्तानि वै मया ॥ ४९.३३। ०४९०३४१ मरणे यानि दुःखानि यममार्गे यमालये । ०४९०३४२ मया तान्यनुभूतानि नरके यातनास्तथा ॥ ४९.३४। ०४९०३५१ कृमिकीटद्रुमाणां च हस्त्यश्वमृगपक्षिणाम् । ०४९०३५२ महिषोष्ट्रगवां चैव तथान्येषां वनौकसाम् ॥ ४९.३५। ०४९०३६१ द्विजातीनां च सर्वेषां शूद्राणां चैव योनिषु । ०४९०३६२ धनिनां क्षत्रियाणां च दरिद्राणां तपस्विनाम् ॥ ४९.३६। ०४९०३७१ नृपाणां नृपभृत्यानां तथान्येषां च देहिनाम् । ०४९०३७२ गृहेषु तेषामुत्पन्नो देव चाहं पुनः पुनः ॥ ४९.३७। ०४९०३८१ गतो ऽस्मि दासतां नाथ भृत्यानां बहुशो नृणाम् । ०४९०३८२ दरिद्रत्वं चेश्वरत्वं स्वामित्वं च तथा गतः ॥ ४९.३८। ०४९०३९१ हतो मया हताश्चान्ये घातितो घातितास्तथा । ०४९०३९२ दत्तं ममान्यैरन्येभ्यो मया दत्तमनेकशः ॥ ४९.३९। ०४९०४०१ पितृमातृसुहृद्भ्रातृ-कलत्राणां कृतेन च । ०४९०४०२ धनिनां श्रोत्रियाणां च दरिद्राणां तपस्विनाम् ॥ ४९.४०। ०४९०४११ उक्तं दैन्यं च विविधं त्यक्त्वा लज्जां जनार्दन । ०४९०४१२ देवतिर्यङ्मनुष्येषु स्थावरेषु चरेषु च ॥ ४९.४१। ०४९०४२१ न विद्यते तथा स्थानं यत्राहं न गतः प्रभो । ०४९०४२२ कदा मे नरके वासः कदा स्वर्गे जगत्पते ॥ ४९.४२। ०४९०४३१ कदा मनुष्यलोकेषु कदा तिर्यग्गतेषु च । ०४९०४३२ जलयन्त्रे यथा चक्रे घटी रज्जुनिबन्धना ॥ ४९.४३। ०४९०४४१ याति चोर्ध्वमधश्चैव कदा मध्ये च तिष्ठति । ०४९०४४२ तथा चाहं सुरश्रेष्ठ कर्मरज्जुसमावृतः ॥ ४९.४४। ०४९०४५१ अधश्चोर्ध्वं तथा मध्ये भ्रमन्गच्छामि योगतः । ०४९०४५२ एवं संसारचक्रे ऽस्मिन्भैरवे रोमहर्षणे ॥ ४९.४५। ०४९०४६१ भ्रमामि सुचिरं कालं नान्तं पश्यामि कर्हिचित् । ०४९०४६२ न जाने किं करोम्यद्य हरे व्याकुलितेन्द्रियः ॥ ४९.४६। ०४९०४७१ शोकतृष्णाभिभूतो ऽहं कान्दिशीको विचेतनः । ०४९०४७२ इदानीं त्वामहं देव विह्वलः शरणं गतः ॥ ४९.४७। ०४९०४८१ त्राहि मां दुःखितं