० श्रीमद्देवीभागवतमाहात्म्यम्
०.१ देवीभागवतमाहात्म्यम् । प्रथमोऽध्यायः । देवीभागवतश्रवणमाहाम्यवर्णनम् ।
सृष्टौ या सर्गरूपा जगदवनविधौ
पालनी या च रौद्री
संहारे चापि यस्या जगदिदमखिलं
क्रीडनं या पराख्या ।
पश्यन्ती मध्यमाथो तदनु भगवती
वैखरी वर्णरूपा
सास्मद्वाचं प्रसन्ना विधिहरिगिरिशा-
राधितालङ्करोतु ॥ १॥
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ २॥
ऋषय ऊचुः ।
सूत जीव समा बह्वीर्यस्त्वं श्रावयसीह नः ।
कथा मनोहराः पुण्या व्यासशिष्य महामते ॥ ३॥
सर्वपापहरं पुण्यं विष्णोश्चरितमद्भुतम् ।
अवतारकथोपेतमस्माभिर्भक्तितः श्रुतम् ॥ ४॥
शिवस्य चरितं दिव्यं भस्मरुद्राक्षयोस्तथा ।
सेतिहासञ्च माहात्म्यं श्रुतं तव मुखाम्बुजात् ॥ ५॥
अधुना श्रोतुमिच्छामः पावनात् पावनं परम् ।
भुक्तिमुक्तिप्रदं नॄणामनायासेन सर्वशः ॥ ६॥
तत् त्वं ब्रूहि महाभाग येन सिध्यन्ति मानवाः ।
कलावपि परं त्वत्तो न विद्मः संशयच्छिदम् ॥ ७॥
सूत उवाच ।
साधु पृष्टं महाभागा लोकानां हितकाम्यया ।
सर्वशास्त्रस्य यत् सारं तद्वो वक्ष्याम्यशेषतः ॥ ८॥
तावद् गर्जन्ति तीर्थानि पुराणानि व्रतानि च ।
यावन्न श्रूयते सम्यग देवीभागवतं नरैः ॥ ९॥
तावत् पापाटवी नॄणां क्लेशदादभ्रकण्टका ।
यावन्न परशुः प्राप्तो देवीभागवताभिधः ॥ १०॥
तावत् क्लेशावहं नॄणामुपसर्गमहातमः ।
यावन्नैवोदयं प्राप्तो देवीभागवतोष्णगुः ॥ ११॥
ऋषय ऊचुः ।
सूत सूत महाभाग वद नो वदतां वर ।
कीदृशं तत्पुराणं हि विधिस्तच्छ्रवणे च कः ॥ १२॥
कतिभिर्वासरैरेतच्छ्रोतव्यं किञ्च पूजनम् ।
कैर्मानवैः श्रुतं पूर्वं कान्कान्कामानवाप्नुयुः ॥ १३॥
सूत उवाच ।
विष्णोरंशो मुनिर्जातः सत्यवत्यां पराशरात् ।
विभज्य वेदांश्चतुरः शिष्यानध्यापयत्पुरा ॥ १४॥
व्रात्यानां द्विजबन्धूनां वेदेष्वनधिकारिणाम् ।
स्त्रीणां दुर्मेधसां नृणां धर्मज्ञानं कथं भवेत् ॥ १५॥
विचार्यैतत् तु मनसा भगवान् बादरायणः ।
पुराणसंहितां दध्यौ तेषां धर्मविधित्सया ॥ १६॥
अष्टादश पुराणानि स कृत्वा भगवान् मुनिः ।
मामेवाध्यापयामास भारताख्यानमेव च ॥ १७॥
देवीभागवतं तत्र पुराणं भोगमोक्षदम् ।
स्वयं तु श्रावयामास जनमेजयभूपतिम् ॥ १८॥
पूर्वमस्य पिता राजा परीक्षित् तक्षकाहिना ।
सन्दष्टस्तस्य संशुध्यै राज्ञा भागवतं श्रुतम् ॥ १९॥
नवभिर्दिवसैः श्रीमद्वेदव्यासमुखाम्बुजात् ।
त्रैलोक्यमातरं देवीं पूजयित्वा विधानतः ॥ २०॥
नवाहयज्ञे सशृर्णे परीक्षिदपि भूपतिः ।
दिव्यरूपधरो देव्याः सालोक्यं तत्क्षणादगात् ॥ २१॥
पितुर्दिव्यां गतिं राजा विलोक्य जनमेजयः ।
व्यासं मुनिं समभ्यर्च्य परां मुदमवाप ह ॥ २२॥
अष्टादशपुराणानां मध्ये सर्वोत्तमं परम् ।
देवीभागवतं नाम धर्मकामार्थमोक्षदम् ॥ २३॥
ये शृण्वन्ति सदा भक्त्या देव्या भागवतीं कथाम् ।
तेषां सिद्धिर्न दूरस्था तस्मात् सेव्या सदा नृभिः ॥ २४॥
दिनमर्धं तदर्धं वा मुहूर्तं क्षणमेव वा ।
ये शृण्वन्ति नरा भक्त्या न तेषां दुर्गतिः क्वचित् ॥ २५॥
सर्वयज्ञेषु तीर्थेषु सर्वदानेषु यत् फलम् ।
सकृत् पुराणश्रवणात् तत् फलं लभते नरः ॥ २६॥
कृतादौ बहवो धर्माः कलौ धर्मस्तु केवलम् ।
पुराणश्रवणादन्यो विद्यते नापरो नृणाम् ॥ २७॥
धर्माचारविहीनानां कलावल्पायुषां नृणाम् ।
व्यासो हिताय विदधे पुराणाख्यं सुधारसम् ॥ २८॥
सुधां पिबन्नेक एव नरः स्यादजरामरः ।
देव्याः कथामृतं कुर्यात् कुलमेवाजरामरम् ॥ २९॥
मासानां नियमो नात्र दिनानां नियमोऽपि न ।
सदा सेव्यं सदा सेव्यं देवीभागवतं नरैः ॥ ३०॥
आश्विने मधुमासे वा तपोमासे शुचौ तथा ।
चतुर्षु नवरात्रेषु विशेषात् फलदायकम् ॥ ३१॥
अतो नवाहयज्ञोऽयं सर्वस्मात् पुण्यकर्मणः ।
फलाधिकप्रदानेन प्रोक्तः पुण्यप्रदो नृणाम् ॥ ३२॥
ये दुर्हृदः पापरता विमूढा
मित्रद्रुहो वेदविनिन्दकाश्च ।
हिंसारता नास्तिकमार्गसक्ता
नवाहयज्ञेन पुनन्ति ते कलौ ॥ ३३॥
परस्वदाराहरणेऽतिलुब्धा
ये वै नराः कल्मषभारभाजः ।
गोदेवताब्राह्मणभक्तिहीना
नवाहयज्ञेन भवन्ति शुद्धाः ॥ ३४॥
तपोभिरुग्रैर्व्रततीर्थसेवनै-
र्दानैरनेकैर्नियमैर्मखैश्च ।
हुतैर्जपैर्यच्च फलं न लभ्यते
नवाहयज्ञेन तदाप्यते नृणाम् ॥ ३५॥
तथा न गङ्गा न गया न काशी
न नैमिषं नो मथुरा न पुष्करम् ।
पुनाति सद्यो बदरीवनं नो
यथा हि देवीमख एष विप्राः ॥ ३६॥
अतो भागवतं देव्याः पुराणं परतः परम् ।
धर्मार्थकाममोक्षाणामुत्तमं साधनं मतम् ॥ ३७॥
आश्विनस्य सिते पक्षे कन्याराशिगते रवौ ।
महाष्टम्यां समभ्यर्च्य हैमसिंहासनस्थितम् ॥ ३८॥
देवीप्रीतिप्रदं भक्त्या श्रीभागवतपुस्तकम् ।
दद्याद् विप्राय योग्याय स देव्याः पदवीं लभेत् ॥ ३९॥
देवीभागवतस्यापि श्लोकं श्लोकार्धमेव वा ।
भक्त्या यश्च पठेन्नित्यं स देव्याः प्रीतिभाग्भवेत् ॥ ४०॥
उपसर्गभयं घोरं महामारीसमुद्भवम् ।
उत्पातानखिलांश्चापि हन्ति श्रवणमात्रतः ॥ ४१॥
बालग्रहकृतं यच्च भूतप्रेतकृतं भयम् ।
देवीभागवतस्यास्य श्रवणाद् याति दूरतः ॥ ४२
यस्तु भागवतं देव्याः पठेद् भक्त्या श्रृणोति वा ।
धर्ममर्थं च कामं च मोक्षं च लभते नरः ॥ ४३॥
श्रवणाद्वसुदेवोऽस्य प्रसेनान्वेषणे गतम् ।
चिरायितं प्रियं पुत्रं कृष्णं लब्ध्वा मुमोद ह ॥ ४४॥
य एतां शृणुयाद् भक्त्या श्रीमद्भागवतीं कथाम् ।
भुक्तिं भुक्तिं स लभते भक्त्या यश्च पठेदिमाम् ॥ ४५॥
अपुत्रो लभते पुत्रं दरिद्रो धनवान् भवेत् ।
रोगी रोगात् प्रमुच्येत श्रुत्वा भागवतामृतम् ॥ ४६॥
वन्ध्या वा काकवन्ध्या वा मृतवत्सा च याङ्गना ।
देवीभागवतं श्रुत्वा लभेत् पुत्रं चिरायुषम् ॥ ४७॥
पूजितं यद्गृहे नित्यं श्रीभागवतपुस्तकम् ।
तद्गृहं तीर्थभूतं हि वसतां पापनाशकम् ॥ ४८॥
अष्टम्यां वा चतुर्दश्यां नवम्यां भक्तिसंयुतः ।
यः पठेच्छणुयाद् वापि स सिद्धिं लभते पराम् ॥ ४९॥
पठन् द्विजो वेदविदग्रणीर्भवेद्
बाहुप्रजातो धरणीपतिः स्यात् ।
वैश्यः पठन् वित्तसमृद्धिमेति
शूद्रोऽपि शृण्वन्स्वकुलोत्तमः स्यात् ॥ ५०॥
इति श्रीस्कन्दपुराणे मानसखण्डे श्रीमद्देवीभागवतमाहात्म्ये
देवीभागवतश्रवणमाहाम्यवर्णनं नाम प्रथमोऽध्यायः ॥ ०.१॥
०.२ देवीभागवतमाहात्म्यम् । द्वितीयोऽध्यायः । वसुदेवस्य देवीभागवतनवाह-श्रवणात्पुत्रप्राप्तिवर्णनम् ।
ऋषय ऊचुः ।
वसुदेवो महाभागः कथं पुत्रमवाप्तवान् ।
प्रसेनः कुत्र कृष्णेन भ्रमतान्वेषितः कथम् ॥ १॥
विधिना केन कस्माच्च देवीभागवतं श्रुतम् ।
वसुदेवेन सुमते वद सूत कथामिमाम् ॥ २॥
सूत उवाच ।
सत्राजिद् भोजवंशीयो द्वारवत्यां सुखं वसन् ।
सूर्यस्याराधने युक्तो भक्तश्च परमः सखा ॥ ३॥
अथ कालेन कियता प्रसन्नः सविताभवत् ।
स्वलोकं दर्शयामास तद्भक्त्या प्रणयेन च ॥ ४॥
तस्मै प्रीतश्च भगवान् स्यमन्तकमणिं ददौ ।
स तं बिभ्रन्मणि कण्ठे द्वारकामाजगाम ह ॥ ५॥
दृष्ट्वा तं तेजसा भ्रान्ता मत्वादित्यं पुरौकसः ।
कृष्णमूचुः समभ्येत्य सुधर्मायामवस्थितम् ॥ ६॥
एष आयाति सविता दिदृक्षुस्त्वां जगत्पते ।
श्रुत्वा कृष्णस्तु तद्वाचं प्रहस्योवाच संसदि ॥ ७॥
सविता नैष भो बालाः सत्राजिन्मणिना ज्वलन् ।
स्यमन्तकेन चायाति भास्वद्दत्तेन भास्वता ॥ ८॥
अथ विप्रान् समाहूय स्वस्तिवाचनपूर्वकम् ।
प्रावेशयत्समभ्यर्च्य सत्राजित्स्वगृहे मणिम् ॥ ९॥
न तत्र मारी दुर्भिक्षं नोपसर्गभयं क्वचित् ।
यत्रास्ते स मणिर्नित्यमष्टभारसुवर्णदः ॥ १०॥
अथ सत्राजितो भ्राता प्रसेनो नाम कर्हिचित् ।
कण्ठे बद्ध्वा मणिं सद्यो हयमारुह्य सैन्धवम् ॥ ११॥
मृगयार्थं वनं यातस्तमद्राक्षीत्रगाधिपः ।
प्रसेनं सहयं हत्वा सिंहो जग्राह तं मणिम् ॥ १२॥
जाम्बवानृक्षराजोऽथ दृष्ट्वा मणिधरं हरिम् ।
हत्वा च तं बिलद्वारि मणिं जग्राह वीर्यवान् ॥ १३॥
स तं मणिं स्वपुत्राय क्रीडनार्थमदात् प्रभुः ।
अथ चिक्रीडबालोऽपि मणिसम्माप्य भास्वरम् ॥ १४॥
प्रसेनेऽनागते चाथ सत्राजित् पर्यतप्यत ।
न जाने केन निहतः प्रसेनो मणिमिच्छता ॥ १५॥
अथ लोकमुखोद्गीर्णा किंवदन्ती पुरेऽभवत् ।
कृष्णेन निहतो नूनं प्रसेनो मणिलिप्सुना ॥ १६॥
स तं शुश्राव कृष्णोऽपि दुर्यशो लिप्तमात्मनि ।
मास्तु तत्तस्य पदवीं पुरौकोभिस्सहागमत् ॥ १७॥
गत्वा स विपिनेऽपश्यत् प्रसेनं हरिणा हतम् ।
ययौ मृगेन्द्रमन्विष्यन्नसृग्बिन्द्वङ्किताध्वना ॥ १८॥
अथ कृष्णो हतं सिंहं बिलद्वारि विलोक्य च ।
उवाच भगवान् वाचं कृपया पुरवासिनः ॥ १९॥
तिष्ठध्वं यूयमत्रैव यावदागमनं मम ।
प्रविशामि बिलं त्वेतन्मणिहारकलब्धये ॥ २०॥
तथेत्युक्त्वा तु ते तस्तुस्तत्रैव द्वारकौकसः ।
जगामान्तर्बिलं कृष्णो यत्र जाम्बवतो गृहम् ॥ २१॥
ऋक्षराजसुतं दृष्ट्वा कृष्णो मणिधरं तदा ।
हर्तुमैच्छन्मणिं तावद् धात्री चुक्रोश भीतवत् ॥ २२॥
श्रुत्वा धात्रीरवं सद्यः समागत्यर्क्षराट् तदा ।
युयुधे स्वामिना साकमविश्रममहर्निशम् ॥ २३॥
एवं त्रिनवरात्रं तु महद्युद्धमभूत्तयोः ।
कृष्णागमं प्रतीक्षन्तस्तस्मृर्द्वारि पुरौकसः ॥ २४॥
द्वादशाहं ततो भीत्या प्रतिजग्मुर्निजालयम् ।
तत्र ते कथयामासुर्वृत्तान्तं सर्वमादितः ॥ २५॥
सत्राजितं शपन्तस्ते सर्वे शोकाकुला भृशम् ।
वसुदेवो महाभागः श्रुत्वा पुत्रस्य तां कथाम् ॥ २६॥
मुमोह सपरीवारस्तदा परमया शुचा ।
चिन्तयामास बहुधा कथं श्रेयो भवेन्मम ॥ २७॥
अथाजगाम भगवान् देवर्षिर्ब्रह्मलोकतः ।
उत्थाय तं प्रणम्यासौ वसुदेवोऽभ्यपूजयत् ॥ २८॥
नारदोऽनामयं पृष्ट्वा वसुदेवं महामतिम् ।
पप्रच्छ च यदुश्रेष्ठं किं चिन्तयसि तद् वद ॥ २९॥
वसुदेव उवाच ।
पुत्रो मेऽतिप्रियः कृष्णः प्रसेनान्वेषणाय तु ।
पौरैः साकं वनं गत्वा निहतं तं तदैक्षत ॥ ३०॥
प्रसेनघातकं दृष्ट्वा बिलद्वारे मृतं हरिम् ।
द्वारि पौरानधिष्ठाप्य बिलान्तर्गतवान् स्वयम् ॥ ३१॥
बहवो दिवसा याता नायात्यद्यापि मे सुतः ।
अतः शोचामि तद् ब्रूहि येन लप्स्ये सुतं मुने ॥ ३२॥
नारद उवाच ।
पुत्रप्राप्त्यै यदुश्रेष्ठ देवीमाराधयाम्बिकाम् ।
तस्या आराधनेनैव सद्यः श्रेयो ह्यवाप्स्यसि ॥ ३३॥
वसुदेव उवाच ।
भगवन् का हि सा देवी किम्प्रभावा महेश्वरी ।
कथमाराधनं तस्या देवर्षे कृपया वद ॥ ३४॥
नारद उवाच ।
वसुदेव महाभाग शृणु सङ्क्षेपतो मम ।
देव्या माहात्म्यमतुलं को वक्तुं विस्तरात् क्षमः ॥ ३५॥
या सा भगवती नित्या सज्जिदानन्दरूपिणी ।
परात्परतरा देवी यया व्याप्समिदं जगत् ॥ ३६॥
यदाराधनतो ब्रह्मा सृजतीदं चराचरम् ।
यां च स्तुत्वा विनिर्मुक्तो मधुकैटभजाद् भयात् ॥ ३७॥
विष्णुर्यत्कृपया विश्वं बिभर्ति भगवानिदम् ।
रुद्रः संहरते यस्याः कृपापाङ्गनिरीक्षणात् ॥ ३८॥
संसारबन्धहेतुर्या सैव मुक्तिप्रदायिनी ।
सा विद्या परमा देवी सैव सर्वेश्वरेश्वरी ॥ ३९॥
नवरात्रविधानेन सम्पूज्य जगदम्बिकाम् ।
नवाहोभिः पुराणं च देव्या भागवतं शृणु ॥ ४०॥
यस्य श्रवणमात्रेण सद्यः पुत्रमवाप्स्यसि ।
भुक्तिर्मुक्तिर्न दूरस्था पततां शृण्वतां नृणाम् ॥ ४१॥
इत्युक्तो नारदेनासौ वसुदेवः प्रणम्य तम् ।
उवाच परया प्रीत्या नारदं मुनिसत्तमम् ॥ ४२॥
वसुदेव उवाच ।
भगवंस्तव वाक्येन संस्मृतं वृत्तमात्मनः ।
श्रूयतां तच्च वक्ष्यामि देवीमाहाक्त्यसम्भवम् ॥ ४३॥
पुरा नभोगिरा कंसो देवक्यष्टमगर्भतः ।
ज्ञात्वात्ममृत्युं पापो मां सभार्यं न्यरुणद्भिया ॥ ४४॥
कारागारेऽहमवसं देवक्या सह भार्यया ।
जातं जातं समवधीत्पुत्रं कंसोऽपि पापकृत् ॥ ४५॥
षट् पुत्रा निहतास्तेन तदा शोकाकुला भृशम् ।
अतप्यद् देवकी देवी नक्तन्दिवमनिन्दिता ॥ ४६॥
तदाहं गर्गमाहूय मुनिं नत्वाभिपूज्य च ।
निवेद्य देवकीदुःखमवोचं पुत्रकाम्यया ॥ ४७॥
भगवन् करुणासिन्धो यादवानां गुरुर्भवान् ।
आयुष्मत्पुत्रसम्प्राप्तिसाधनं वद मे मुने ॥ ४८॥
ततो गर्गः प्रसन्नात्मा मामुवाच दयानिधिः ।
गर्ग उवाच ।
वसुदेव महाभाग शृणु तत् साधनं परम् ॥ ४९॥
या सा भगवती दुर्गा भक्तदुर्गतिहारिणी ।
तामाराधय कल्याणीं सद्यः श्रेयो ह्यवाप्स्यसि ॥ ५०॥
यदाराधनतः सर्वे सर्वान् कामानवाप्नुयुः ।
न किञ्चिद्दुर्लभं लोके दुर्गार्चनवतां नृणाम् ॥ ५१॥
इत्युक्तोऽहं मुदा युक्तः सभार्यो मुनिपुङ्गवम् ।
प्रणम्य परया भक्त्या प्रावोचं विहिताञ्जलिः ॥ ५२॥
वसुदेव उवाच ।
यद्यस्ति भगवन् प्रीतिर्मयि ते करुणानिधे ।
तदा गुरो मदर्थे त्वं समाराधय चण्डिकाम् ॥ ५३॥
निरुद्धः कंसगेहेऽहं न किञ्चित् कर्तुमुत्सहे ।
अतस्त्वमेव दुःखाब्धेर्मामुद्धर महामते ॥ ५४॥
इत्युक्तस्तु मया प्रीतः प्रोवाच मुनिपुङ्गवः ।
वसुदेव तव प्रीत्या करिष्यामि हितं तव ॥ ५५॥
अथ गर्गमुनिः प्रीत्या मया सम्प्रार्थितोऽगमत् ।
आरिराधयिषुर्दुर्गा विन्ध्याद्रिं ब्राह्मणैः सह ॥ ५६॥
तत्र गत्वा जगद्धात्रीं भक्ताभीष्टप्रदायिनीम् ।
आराधयामास मुनिर्जपपाठपरायणः ॥ ५७॥
ततः समाप्ते नियमे वागुवाचाशरीरिणी ।
प्रसन्ताहं मुने कार्यसिद्धिस्तव भविष्यति ॥ ५८॥
भूभारहरणार्थाय मया सम्मेरितो हरिः ।
वसुदेवस्य देवक्यां स्वांशेनावतरिष्यति ॥ ५९॥
कंसभीत्या तमादाय बालमानकदुन्दुभिः ।
प्रापयिष्यति सद्यस्तु गोकुले नन्दवेश्मनि ॥ ६०॥
यशोदातनयां नीत्वा स्वगृहे कंसभूभुजे ।
दास्यत्यथ च तां हन्तुं कंस आक्षेक्यति क्षितौ ॥ ६१॥
सा तद्धस्ताद् विनिर्गत्य सद्यो दिव्यवपुर्धरा ।
मदंशभूता विन्ध्याद्रौ करिष्यति जगद्धितम् ॥ ६२॥
इति तद्वचनं श्रुत्वा प्रणम्य जगदम्बिकाम् ।
गर्गो मुनिः प्रसन्नात्मा मथुरामागमत् पुरीम् ॥ ६३॥
वरदानं महादेव्या गर्गाचार्यमुखादहम् ।
श्रुत्वा सभार्यः सम्प्रीतः परां मुदमथागमम् ॥ ६४॥
तदारभ्य परं जाने देवीमाहात्म्यमुत्तमम् ।
अधुनापि हि देवर्षे श्रुतं तव मुखाम्बुजात् ॥ ६५॥
अतो भागवतं देव्यास्त्वमेव श्रावय प्रभो ।
मद्भाग्यादेव देवर्षे सश्रान्तोऽसि दयानिधे ॥ ६६॥
वसुदेववचः श्रुत्वा नारदः प्रीतमानसः ।
सुदिने शुभनक्षत्रे कथारम्भमथाकरोत् ॥ ६७॥
कथाविघ्नविघातार्थं द्विजा जेपुर्नवाक्षरम् ।
मार्कण्डेयपुराणोक्तं पेठुर्देव्याः स्तवं तथा ॥ ६८॥
प्रथमस्कन्धमारभ्य श्रीनारदमुखोद्गतम् ।
शुश्राव वसुदेवश्च भक्त्या भागवतामृतम् ॥ ६९॥
नवमेऽह्नि कथापूर्तौ पुस्तकं वाचकं तथा ।
प्रसन्नः पूजयामास वसुदेवो महामनाः ॥ ७०॥
अथ तत्र बिलस्यान्तः कृष्णजाम्बवतोर्मृधे ।
कृष्णमुष्टिविनिष्पातश्लथाङ्गो जाम्बवानभूत् ॥ ७१॥
अथागतस्मृतिः सोऽपि भगवन्तं प्रणम्य च ।
उवाच परया भक्त्या स्वापराधं क्षमापयन् ॥ ७२॥
ज्ञातोऽसि रधुवर्यस्त्वं यद्रोषात् सरिताम्पतिः ।
क्षोभं जगाम लङ्का च रावणः सानुगो हतः ॥ ७३॥
स एवासि भवान्कृष्ण मद्दौराम्यं क्षमस्व भोः ।
ब्रूहि यत् करणीयं मे भृत्योऽहं तव सर्वथा ॥ ७४॥
श्रुत्वा जाम्बवतो वाचमब्रवीज्जगदीश्वरः ।
मणिहेतोरिह प्राप्ता वयमृक्षपते बिलम् ॥ ७५॥
ऋक्षराजस्ततः प्रीत्या कन्यां जाम्बवतीं निजाम् ।
ददौ कृष्णाय सम्पूज्य स्यमन्तकमणिं तथा ॥ ७६॥
स तां पत्नीं समादाय मणिं कण्ठे तथादधत् ।
अभिमन्त्र्यर्क्षराजञ्च प्रतस्थे द्वारकां प्रति ॥ ७७॥
कथासमाप्तिदिवसे वसुदेव उदारधीः ।
ब्राह्मणान् भोजयामास दक्षिणाभिरतोषयत् ॥ ७८॥
आशीर्वाचं प्रयुञ्जाना द्विजा यत्समये हरिः ।
आजगाम क्षणे तस्मिन् पत्न्या सह मणिं दधत् ॥ ७९॥
भार्यया सहितं कृष्णं वसुदेवपुरोगमाः ।
दृष्ट्वा हर्षाश्रुपूर्णाक्षाः समवापुः परां मुदम् ॥ ८०॥
देवर्षिर्नारदश्चाथ कृष्णागमनहर्षितः ।
आमन्त्र्य वसुदेवं च कृष्णं ब्रह्मसभां ययौ ॥ ८१॥
हरिचरितमिदं यत्कीर्तितं दुर्यशोघ्नं
पतति विमलभक्त्या शुद्धचित्तः शृणोति ।
स भवति सुखपूर्णः सर्वदा सिद्धकामो
जगति च वपुषोऽन्ते मुक्तिमार्गं लभेच्च ॥ ८२॥
इति श्रीस्कन्दपुराणे मानसखण्डे श्रीमद्देवीभागवतमाहात्म्ये
वसुदेवस्य देवीभागवतनवाह-श्रवणात्पुत्रप्राप्तिवर्णनं नाम द्वितीयोऽध्यायः ॥ ०.२॥
०.३ देवीभागवतमाहात्म्यम् । तृतीयोऽध्यायः । देवीभागवत-नवाहश्रवणाद् इलायाः पुंस्त्वप्राप्तिवर्णनम् ।
सूत उवाच ।
अथेतिहासमन्यच्च शृणुध्वं मुनिसत्तमाः ।
देवीभागवतस्यास्य माहात्म्यं यत्र गीयते ॥ १॥
एकदा कुम्भयोनिस्तु लोपामुद्रापतिर्मुनिः ।
गत्वा कुमारमभ्यर्च्य पप्रच्छ विविधाः कथाः ॥ २॥
स तस्मै भगवान् स्कन्दः कथयामास भूरिशः ।
दानतीर्थव्रतादीनां माहात्म्योपचिताः कथाः ॥ ३॥
वाराणस्याश्च माहात्म्यं मणिकर्णीभवं तथा ।
गङ्गायाश्चापि तीर्थानां वर्णितं बहुविस्तरम् ॥ ४॥
श्रुत्वाथ स मुनिः प्रीतः कुमारं भूरिवर्चसम् ।
पुनः पप्रच्छ लोकानां हितार्थं कुम्भसम्भवः ॥ ५॥
अगस्त्य उवाच ।
भगवंस्तारकाराते देवीभागवतस्य तु ।
माहात्म्यं श्रवणे तस्य विधिं चापि वद प्रभो ॥ ६॥
देवीभागवतं नाम पुराणं परमोत्तमम् ।
त्रैलोक्यजननी साक्षाद् गीयते यत्र शाश्वती ॥ ७॥
स्कन्द उवाच ।
श्रीभागवतमाहाम्य को वक्तुं विस्तरात् क्षमः ।
शृणु सङ्क्षेपतो ब्रह्मन् कथयिष्यामि साम्प्रतम् ॥ ८॥
या नित्या सच्चिदानन्दरूपिणी जगदम्बिका ।
साक्षात् समाश्रिता यत्र भुक्तिमुक्तिप्रदायिनी ॥ ९॥
अतस्तद्वाङ्गमयी मूर्तिर्देवीभागवते मुने ।
पठनाच्छ्रवणाद्यस्य न किञ्चिदिह दुर्लभम् ॥ १०॥
आसीद्विवस्वतः पुत्रः श्राद्धदेव इति श्रुतः ।
सोऽनपत्योऽकरोदिष्टिं वसिष्ठानुमतो नृपः ॥ ११॥
होतारं प्रार्थयामास श्रद्धाथ दयिता मनोः ।
कन्या भवतु मे ब्रह्मंस्तथोपायो विधीयताम् ॥ १२॥
मनसा चिन्तयन् होता कन्यामेवाजुहोद्धविः ।
ततस्तद्व्यभिचारेण कन्येला नाम चाभवत् ॥ १३॥
अथ राजा सुतां दृष्ट्वा प्रोवाच विमना गुरुम् ।
कथं सङ्कल्पवैषम्यमिह जातं प्रभो तव ॥ १४॥
तच्छ्रुत्वा स मुनिर्दध्यौ ज्ञात्वा होतुर्व्यतिक्रमम् ।
ईश्वरं शरणं यात इलायाः पुंस्त्वकाम्यया ॥ १५॥
मुनेस्तपःप्रभावाच्च परेशानुग्रहात्तथा ।
पश्यतां सर्वलोकानामिला पुरुषतामगात् ॥ १६॥
गुरुणा कृतसंस्कारः सुद्युम्नोऽथ मनोः सुतः ।
निधिर्बभूव विद्यानां सरितामिव सागरः ॥ १७॥
अथ कालेन सुद्युम्नस्तारुण्यं समवाप्य च ।
मृगयार्थं वनं यातो हयमारुह्य सैन्धवम् ॥ १८॥
वनाद् वनान्तरं गच्छन् बहु बभ्राम सानुगः ।
दैवादधस्ताद्धेमाद्रेः स कुमारो वनं ययौ ॥ १९॥
कस्मिंश्चित् समये यत्र भार्ययापर्णया सह ।
अरमद्देवदेवस्तु शङ्करो भगवान् मुदा ॥ २०॥
तदा तु मुनयस्तत्र शिवदर्शनलालसाः ।
आजग्मुरथ तान् दृष्ट्वा गिरिजा व्रीडिताभवत् ॥ २१॥
रममाणौ तु तौ दृष्ट्वा गिरिशौ संशितव्रताः ।
निवृत्ता मुनयो जग्मुर्वैकुण्ठनिलयं तदा ॥ २२॥
प्रियायाः प्रियमन्विच्छञ्छिवोऽरण्यं शशाप ह ।
अद्यारभ्य विशेद्योऽत्र पुमान् योषिद् भवेदिति ॥ २३॥
तत आरभ्य तं देशं पुरुषा वर्जयन्ति हि ।
तत्र प्रविष्टः सुद्युम्नो बभूव प्रमदोत्तमा ॥ २४॥
स्त्रीभूताननुगानश्वं वडवां वीक्ष्य विस्मितः ।
अथ सा सुन्दरी योषा विचचार वने वने ॥ २५॥
एकदा सा जगामाथ बुधस्याश्रमसन्निधौ ।
दृष्ट्वा तां चारुसर्वाङ्गीं पीनोन्नतपयोधराम् ॥ २६॥
बिम्बोष्ठीं कुन्ददशनां सुमुखीमुत्पलेक्षणाम् ।
अनङ्गशरविद्धाङ्गश्चकमे भगवान् बुधः ॥ २७॥
सापि तं चकमे सुभ्रूः कुमारं सोमनन्दनम् ।
ततस्तस्याश्रमेऽवात्सीद्रममाणा बुधेन सा ॥ २८॥
अथ कालेन कियता पुरूरवसमात्मजम् ।
स तस्यां जनयामास मित्रावरुणसम्भव ॥ २९॥
अथ वर्षेषु यातेषु कदाचित् सा बुधाश्रमे ।
स्मृत्वा स्वं पूर्ववृत्तान्तं दुःखिता निर्जगाम ह ॥ ३०॥
गुरोरथाश्रमं गत्वा वसिष्ठस्य प्रणम्य तम् ।
निवेद्य वृत्तं शरणं ययौ पुंस्त्वमभीप्सती ॥ ३१॥
वसिष्ठो ज्ञातवृत्तान्तो गत्वा कैलासपर्वतम् ।
सम्पूज्य शम्भुं तुष्टाव भक्त्या परमया युतः ॥ ३२॥
वसिष्ठ उवाच ।
नमो नमः शिवायास्तु शङ्कराय कपर्दिने ।
गिरिजार्धाङ्गदेहाय नमस्ते चन्द्रमौलये ॥ ३३॥
मृडाय सुखदात्रे ते नमः कैलासवासिने ।
नीलकण्ठाय भक्तानां भुक्तिमुक्तिप्रदायिने ॥ ३४॥
शिवाय शिवरूपाय प्रपन्नभयहारिणे ।
नमो वृषभवाहाय शरण्याय परात्मने ॥ ३५॥
ब्रह्मविष्ण्वीशरूपाय सर्गस्थितिलयेषु च ।
नमो देवाधिदेवाय वरदाय पुरारये ॥ ३६॥
यज्ञरूपाय यजतां फलदात्रे नमो नमः ।
गङ्गाधराय सूर्येन्दुशिखिनेत्राय ते नमः ॥ ३७॥
एवं स्तुतः स भगवान् प्रादुरासीज्जगत्पतिः ।
वृषारूढोऽम्बिकोपेतः कोटिसूर्यसमप्रभः ॥ ३८
रजताचलसङ्काशस्त्रिनेत्रश्चन्द्रशेखरः ।
प्रणतं परितुष्टात्मा प्रोवाच मुनिसत्तमम् ॥ ३९॥
श्रीभगवानुवाच ।
वरं वरय विप्रर्षे यत्ते मनसि वर्तते ।
इत्युक्तस्तं प्रणम्येलापुंस्त्वमभ्यर्थयन्मुनिः ॥ ४०॥
अथ प्रसन्नो भगवानुवाच मुनिसत्तमम् ।
मासं पुमान् स भविता मासं नारी भविष्यति ॥ ४१॥
इति प्राप्य वरं शम्भोर्महर्षिर्जगदम्बिकाम् ।
वरदानोन्मुखी देवीं प्रणनाम महेश्वरीम् ॥ ४२॥
कोटिचन्द्रकलाकान्तिं सुस्मितां परिपूज्य च ।
तुष्टाव भक्त्या सततमिलायाः पुंस्त्वकाम्यया ॥ ४३॥
जय देवि महादेवि भक्तानुग्रहकारिणि ।
जय सर्वसुराराध्ये जयानन्तगुणालये ॥ ४४॥
नमो नमस्ते देवेशि शरणागतवत्सले ।
जय दुर्गे दुःखहन्त्रि दुष्टदैत्यनिषूदिनि ॥ ४५॥
भक्तिगम्ये महामाये नमस्ते जगदम्बिके ।
संसारसागरोत्तारपोतीभूतपदाम्बुजे ॥ ४६॥
ब्रह्मादयोऽपि विबुधास्त्वत्पादाम्बुजसेवया ।
विश्वसर्गस्थितिलयप्रभुत्वं समवाप्नुयुः ॥ ४७॥
प्रसन्ना भव देवेशि चतुर्वर्गप्रदायिनि ।
कस्त्वां स्तोतुं क्षमो देवि केवलं प्रणतोऽस्थहम् ॥ ४८॥
एवं स्तुता भगवती दुर्गा नारायणी परा ।
भक्त्या वसिष्ठमुनिना प्रसन्ना तत्क्षणादभूत् ॥ ४९॥
तदोवाच महादेवी प्रणतार्तिहरी मुनिम् ।
सुद्युम्नभवनं गत्वा कुरु भक्त्या मदर्चनम् ॥ ५०॥
सुद्युनं श्रावय प्रीत्या पुराण मत्प्रियङ्करम् ।
देवीभागवतं नाम नवाहोभिर्द्विजोत्तम ॥ ५१॥
श्रवणादेव सततं पुंस्त्वमस्य भविष्यति ।
इत्युक्त्या च तिरोधानं गच्छतः स्म शिवेश्वरौ ॥ ५२॥
वसिष्ठस्तां दिशं नत्वा समागत्याश्रमं निजम् ।
समाहूय च सुद्युम्नं देव्याराधनमादिशत् ॥ ५३॥
आश्विनस्य सिते पक्षे सम्पूज्य जगदम्बिकाम् ।
नवरात्रविधानेन श्रावयामास भूपतिम् ॥ ५४॥
श्रुत्वा भक्त्यापि सुद्युम्नः श्रीमद्भागवतामृतम् ।
प्रणम्याभ्यर्च्य च गुरुं लेभे पुंस्त्वं निरन्तरम् ॥ ५५॥
राज्यासनेऽभिषिक्तस्तु वसिष्ठेन महर्षिणा ।
भुवं शशास धर्मेण प्रजाश्चैवानुरञ्जयन् ॥ ५६॥
ईजे च विविधैर्यज्ञैः सम्पूर्णवरदक्षिणैः ।
पुत्रेषु राज्यं सन्दिश्य प्राप देव्याः सलोकताम् ॥ ५७॥
इति कथितमशेषं सेतिहासं च विप्रा
यदि पठति सुभक्त्या मानवो वा शृणोति ।
स इह सकलकामान् प्राप्य देव्याः प्रसादात्
परममृतमथान्ते याति देव्याः सलोकम् ॥ ५८॥
इति श्रीस्कन्दयुराणे मानसखण्डे श्रीमद्देवीभागवतमाहात्म्ये
देवीभागवत-नवाहश्रवणाद् इलायाः पुंस्त्वप्राप्तिवर्णनं नाम तृतीयोऽध्यायः ॥ ०.३॥
०.४ देवीभागवतमाहात्म्यम् । चतुर्थोऽध्यायः । रैवतनामकमनुपुत्रोत्पत्तिवर्णनम् ।
सूत उवाच ।
इति श्रुत्वा कथां दिव्यां विचित्रां कुम्भसम्भवः ।
शुश्रूषुः पुनराहेदं विशाखं विनयान्वितः ॥ १॥
अगस्त्य उवाच ।
देवसेनापते देव विचित्रेयं श्रुता कथा ।
पुनरन्यज्ज माहात्म्यं वद भागवतस्य मे ॥ २॥
स्कन्द उवाच ।
मित्रावरुणसम्भूत मुने शृणु कथामिमाम् ।
यत्रैकदेशमहिमा प्रोक्तो भागवतस्य तु ॥ ३॥
वर्ण्यते धर्मविस्तारो गायत्रीमधिकृत्य च ।
गायत्र्या महिमा यत्र तद् भागवतमिष्यते ॥ ४॥
भगवत्या इदं यस्मात्तस्मात् भागवतं विदुः ।
ब्रह्मविष्णुशिवाराध्या परा भगवती हि सा ॥ ५॥
ऋतवागिति विख्यातो मुनिरासीन्महामतिः ।
तस्यपुत्रोऽभवत्काले गण्डान्ते पौष्णभान्तिमे ॥ ६॥
स तस्य जातकर्मादिक्रियाश्चक्रे यथाविधि ।
चूडोपनयनादींश्च संस्कारानपि सोऽकरोत् ॥ ७॥
यत आरभ्य जातोऽसौ पुत्रस्तस्य महात्मनः ।
तत एवाथ स मुनिः शोकरोगाकुलोऽभवत् ॥ ८॥
रोषलोभपरीतात्मा तथा मातापि तस्य च ।
बहुरोगार्दिता नित्यं शुचा दुःखीकृता भृशम् ॥ ९॥
ऋतवाक् स मुनिश्चिन्तामवाप भृशदुःखितः ।
किमेतत् कारणं जातं पुत्रो मेऽत्यन्तदुर्मतिः ॥ १०॥
कस्यचिन्मुनिपुत्रस्य बलात् पत्नीं जहार च ।
मेने शिक्षां पितुर्नासौ न च मातुर्विमूढधीः ॥ ११॥
ततो विषण्णचित्तस्तु ऋतवागब्रवीदिदम् ।
अपुत्रता वरं नृणां न कदाचित् कुपुत्रता ॥ १२॥
पितॄन् कुपुत्रः स्वर्यातान्निरये पातयत्यपि ।
यावज्जीवेत् सदा पित्रोः केवलं दुःखदायकः ॥ १३॥
पित्रोर्दुःखाय धिग्जन्म कुपुत्रस्य च पापिनः ।
सुहृदां नोपकाराय नापकाराय वैरिणाम् ॥ १४॥
धन्यास्ते मानवा लोके सुपुत्रो यद्गृहे स्थितः ।
परोपकारशीलश्च पितुर्मातुः सुखावहः ॥ १५॥
कुपुत्रेण कुलं नष्टं कुपुत्रेण हतं यशः ।
कुपुत्रेणेह चामुत्र दुःखं निरययातनाः ॥ १६॥
कुपुत्रेणान्वयो नष्टो जन्म नष्टं कुभार्यया ।
कुभोजनेन दिवसः कुमित्रेण सुखं कुतः ॥ १७॥
स्कन्द उवाच ।
एवं दुष्टस्य पुत्रस्य दुष्टैराचरणैर्मुनि ।
तप्यमानोऽनिशं काले गत्वा गर्गमपृच्छत ॥ १८॥
ऋतवागुवाच ।
भगवंस्त्वामहं प्रष्टुमिच्छामि वद तत् प्रभो ।
ज्योतिश्शास्वस्य चाचार्य पुत्रदौःशील्यकारणम् ॥ १९॥
गुरुशुश्रूषया वेदा अधीता विधिवन्मया ।
ब्रह्मचारिव्रतं तीर्त्वा विवाहो विधिवत् कृतः ॥ २०॥
भार्यया सह गार्हस्थ्यधर्मश्चानुष्ठितोऽनिशम् ।
पञ्चयज्ञविधानं च मयाकारि यथाविधि ॥ २१॥
नरकाद् बिभ्यता विप्र न तु कामसुखेच्छया ।
गर्भाधानं च विधिवत् पुत्रप्राप्त्यै मया कृतम् ॥ २२॥
पुत्रोऽयं मम दोषेण मातुर्दोषेण वा मुने ।
जातो दुःखावहः पित्रोर्दुःशीलो बन्धुशोकदः ॥ २३॥
एतन्निशम्य वचनं गर्गाचार्यो मुनेस्तदा ।
विचार्य सर्वं तद्धेतुं ज्योतिर्विद्वाचमब्रवीत् ॥ २४॥
गर्ग उवाच ।
मुने नैवापराधस्ते न मातुर्न कुलस्य च ।
रेवत्यन्तं तु गण्डान्तं पुत्रदौःशील्यकारणम् ॥ २५॥
दुष्टे काले यतो जन्म पुत्रस्य तव भो मुने ।
तेनैव तव दुःखाय नान्यो हेतुर्मनागपि ॥ २६॥
तद्दुःखशान्तये ब्रह्मञ्जगतां मातरं शिवाम् ।
समाराधय यत्नेन दुर्गां दुर्गतिनाशिनीम् ॥ २७॥
गर्गस्य वचनं श्रुत्वा ऋतवाक् क्रोधमूर्च्छितः ।
रेवतीं तु शशापासौ व्योम्नः पततु रेवती ॥ २८॥
दत्ते शापे तु तेनाथ पूष्णो भञ्ज पपात खात् ।
कुमुदाद्रौ भासमानं सर्वलोकस्य पश्यतः ॥ २९॥
ख्यातो रैवतकश्चाभूत्तत्पातात् कुमुदाचलः ।
अतीव रमणीयश्च ततः प्रभृति सोऽप्यभूत् ॥ ३०॥
दत्त्वा शापं च रेवत्यै गर्गोक्तविधिना मुनिः ।
समाराध्याम्बिकां देवीं सुखसौभाग्यभागभूत् ॥ ३१॥
स्कन्द उवाच ।
रेवत्यृक्षस्य यत् तेजस्तस्माज्जाता तु कन्यका ।
रूपेणाप्रतिमा लोके द्वितीया श्रीरिवाभवत् ॥ ३२॥
अथ तां प्रमुचः कन्यां रेवतीकान्तिसम्भवाम् ।
दृष्ट्वा नाम चकारास्या रेवतीति मुदा मुनिः ॥ ३३॥
निन्येऽथ स्वाश्रमे चैनां पोषयामास धर्मतः ।
ब्रह्मर्षिः प्रमुचो नाम कुमुदाद्रौ सुतामिव ॥ ३४॥
अथ कालेन च प्रौढां दृष्ट्वा तां रूपशालिनीम् ।
स मुनिश्चिन्तयामास कोऽस्या योग्यो वरो भवेत् ॥ ३५॥
बहुधान्वेषयस्तस्या नाससादोचितं पतिम् ।
ततोऽग्निशालां संविश्य मुनिस्तुष्टाव पावकम् ॥ ३६॥
कन्यावरं तदाशंसत्प्रीतस्तमपि हव्यवाट् ।
धर्मिष्ठो बलवान् वीरः प्रियवागपराजितः ॥ ३७॥
दुर्दमो भविता भर्ता मुनेऽस्याः पृथिवीपतिः ।
इति श्रुत्वा वचो वह्नेः प्रसन्नोऽभून्मुनिस्तदा ॥ ३८॥
दैवादाखेटकव्याजात् तत्क्षणादागतो नृपः ।
दुर्दमो नाम मेधावी तस्याश्रमपदं मुनेः ॥ ३९॥
पुत्रो विक्रमशीलस्य बलवान् वीर्यवत्तरः ।
कालिन्दीजठरे जातः प्रियव्रतकुलोद्भवः ॥ ४०॥
मुनेराश्रममाविश्य तमदृष्ट्वा महामुनिम् ।
आमन्त्र्य तां प्रिये चेति रेवतीं पृष्टवान् नृपः ॥ ४१॥
राजोवाच ।
महर्षिर्भगवानस्मादाश्रमात् क्व गतः प्रिये ।
तत्पादौ द्रष्टुमिच्छामि वद कल्याणि तत्त्वतः ॥ ४२॥
कन्योवाच ।
अग्निशालामुपगतो महाराज महामुनिः ।
निश्चक्रामाश्रमात् तूर्णं राजाप्याकर्ण्य तद्वचः ॥ ४३॥
अथाग्निशालाद्वारस्थं राजानं दुर्दमं मुनिः ।
राजलक्षणसंयुक्तमपश्यत् प्रश्रयानतम् ॥ ४४॥
प्रणनाम च तं राजा मुनिः शिष्यमुवाच ह ।
गौतमानीयतामर्घ्यमर्घ्ययोग्योऽस्ति भूपतिः ॥ ४५॥
आगतश्चिरकालेन जामातेति विशेषतः ।
इत्युक्त्यार्घ्यं ददौ तस्मै सोऽपि जग्राह चिन्तयन् ॥ ४६॥
मुनिरासनमासीनं गृहीतार्घ्यं च भूपतिम् ।
आशीर्भिरभिनन्द्याथ कुशलं चाप्यपृच्छत ॥ ४७॥
अपि ऽनामयं राजन् बले कोशे सुहृत्सु च ।
भृत्येऽमात्ये पुरे देशे तथात्मनि जनाधिप ॥ ४८॥
भार्यास्ति ते कुशलिनी यतः सात्रैव तिष्ठति ।
अतो न पृच्छाम्यस्यास्ते चान्यासां कुशलं वद ॥ ४९॥
राजोवाच ।
भगवंस्त्वत्प्रसादेन सर्वत्रानामयं मम ।
एतत् कुतूहलं ब्रह्मन् मद्भार्या कात्र विद्यते ॥ ५०॥
ऋषिरुवाच ।
रेवती नाम ते भार्या रूपेणाप्रतिमा भुवि ।
विद्यतेऽत्र कथं पत्नीं तां न वेत्सि महीपते ॥ ५१॥
राजोवाच ।
सुभद्राद्यास्तु या भार्या मम सन्ति गृहे विभो ।
जानामि तास्तु भगवन् नैव जानामि रेवतीम् ॥ ५२॥
ऋषिरुवाच ।
प्रियेति साम्प्रतं राजंस्त्वयोक्ता या महामते ।
सा विस्मृता क्षणादेव या ते श्लाध्यतमा प्रिया ॥ ५३॥
राजोवाच ।
त्वयोक्तं यन्मृषा तनो तथैवामन्त्रिता मया ।
मुने दुष्टो न मे भावः कोपं मा कर्तुमर्हसि ॥ ५४॥
ऋषिरुवाच ।
राजन्नुक्तं त्वया सत्यं न भावो दूषितस्तव ।
वह्निना प्रेरितेनेत्थं भवता व्याहृतं वचः ॥ ५५॥
अद्य पृष्टो मया वह्निः कोऽस्या भर्ता भविष्यति ।
तेनोक्तं दुर्दमो राजा भवितास्याः पतिर्धुवम् ॥ ५६॥
तदादत्स्व मया दत्तामिमां कन्यां महीपते ।
प्रियेत्यामन्त्रिता पूर्वं मा विचारं कुरुष्व भोः ॥ ५७॥
श्रुत्वैतत्सोऽभवत्तूष्णीं चिन्तयन् मुनिभाषितम् ।
वैवाहिकं विधिं तस्य मुनिः कर्तुं समुद्यतः ॥ ५८॥
अथोद्यतं विवाहाय दृष्ट्वा कन्याब्रवीन्मुनिम् ।
रेवत्यृक्षे विवाहो मे तात कर्तुं त्वमर्हसि ॥ ५९॥
ऋषिरुवाच ।
वत्से विवाहयोग्यानि सन्त्यन्यर्क्षाणि भूरिशः ।
रेवत्यां कथमुद्वाहः पौष्णभं न दिवि स्थितम् ॥ ६०॥
कन्योवाच ।
रेवत्यृक्षं विना कालो ममोद्वाहोचितो न हि ।
अतः सम्प्रार्थयाम्येतद्विवाहं पौष्णभे कुरु ॥ ६१॥
ऋषिरुवाच ।
ऋतवाङ्मुनिना पूर्वं रेवतीभं निपातितम् ।
भान्तरे चेन्न ते प्रीतिर्विवाहः स्यात् कथं तव ॥ ६२॥
कन्योवाच ।
तपः किं तप्तवानेक ऋतवागेव केवलम् ।
भवता किं तपो नेदृक् तप्तं वाल्कायमानसैः ॥ ६३॥
जगत्स्रष्टुं समर्थस्त्वं वेद्म्यहं ते तपोबलम् ।
रेवत्यृक्षं दिवि स्थाप्य ममोद्वाहं पितः कुरु ॥ ६४॥
ऋषिरुवाच ।
एवं भवतु भद्रं ते यथैव त्वं ब्रवीषि माम् ।
त्वत्कृते सोममार्गेऽहं स्थापयाम्यद्य पौष्णभम् ॥ ६५॥
स्कन्द उवाच ।
एवमुक्त्वा मुनिस्तूर्णं पौष्णभं स्वतपोबलात् ।
यथापूर्वं तथा चक्रे सोममार्गे घटोद्भव ॥ ६६॥
रेवतीनाम्नि नक्षत्रे विवाहविधिना मुनिः ।
रेवतीं प्रददौ राज्ञे दुर्दमाय महात्मने ॥ ६७॥
कृत्वा विवाहं कन्याया मुनी राजानमब्रवीत् ।
किं ऽभिलषितं वीर वद तत्पूरयाम्यहम् ॥ ६८॥
राजोवाच ।
मनोः स्वायम्भुवस्याहं वंशे जातोऽस्मि हे मुने ।
मन्वन्तराधिपं पुत्रं त्वत्प्रसादाच्च कामये ॥ ६९॥
मुनिरुवाच ।
यद्येषा कामना तेऽस्ति देव्या आराधनं कुरु ।
भविष्यत्येव ते पुत्रो मनुर्मन्वन्तराधिपः ॥ ७०॥
देवीभागवतं नाम पुराणं यत्तु पञ्चमम् ।
पञ्चकृत्वस्तु तच्छ्रुत्वा लप्स्यसेऽभिमतं सुतम् ॥ ७१॥
रेवत्यां रैवतो नाम पञ्चमो भविता मनुः ।
वेदविच्छास्त्रतत्त्वज्ञो धर्मवानपराजितः ॥ ७२॥
इत्युक्तो मुनिना राजा प्रणम्य मुदितो मुनिम् ।
भार्यया सह मेधावी जगाम नगरं निजम् ॥ ७३॥
पितृपैतामहं राज्यं चकार स महामतिः ।
पालयामास धर्मात्मा प्रजाः पुत्रानिवौरसान् ॥ ७४॥
एकदा लोमशो नाम महात्मा मुनिरागतः ।
प्रणिपत्य तमभ्यर्च्य प्राञ्जलिश्चाब्रवीन्नृपः ॥ ७५॥
राजोवाच ।
भगवंस्त्वत्प्रसादेन श्रोतुमिच्छामि भो मुने ।
देवीभागवतं नाम पुराणं पुत्रलिप्सया ॥ ७६॥
श्रुत्वा वाचं प्रजाभर्तुः प्रीतः प्रोवाच लोमशः ।
धन्योऽसि राजंस्ते भक्तिर्जाता त्रैलोक्यमातरि ॥ ७७॥
सुरासुरनराराध्या या परा जगदम्बिका ।
तस्यां चेद्भक्तिरुत्पन्ना कार्यसिद्धिर्भविष्यति ॥ ७८॥
अतस्त्वां श्रावयिष्यामि श्रीमद्भागवतं नृप ।
यस्य श्रवणमात्रेण न किञ्चिदपि दुर्लभम् ॥ ७९॥
इत्युक्त्या सुदिने ब्रह्मन् कथारम्भमथाकरोत् ।
पञ्चकृत्वः स शुश्राव विधिवद्भार्यया सह ॥ ८०॥
समाप्तिदिवसे राजा पुराणञ्च मुनिं तथा ।
पूजयामास धर्मात्मा मुदा परमया युतः ॥ ८१॥
हुत्वा नवार्णमन्त्रेण भोजयित्वा कुमारिकाः ।
वाडवांश्च सपत्नीकान्दक्षिणाभिरतोषयत् ॥ ८२॥
अथ कालेन कियता भगवत्याः प्रसादतः ।
गर्भं दधार सा राज्ञी लोककल्याणकारकम् ॥ ८३
पुण्येऽथ समये प्राप्ते ग्रहैः सुस्थानसङ्गतैः ।
सर्वमङ्गलसम्पन्ने रेवती सुषुवे सुतम् ॥ ८४
श्रुत्वा पुत्रस्य जननं स्नात्वा राजा मुदान्वितः ।
स सुवर्णाम्भसा चक्रे जातकर्मादिकाः क्रियाः ॥ ८५
यथाविधि च दानानि दत्त्वा विप्रानतोषयत् ।
कृतोपनयनं राजा साङ्गान्वेदानपाठयत् ॥ ८६॥
सर्वविद्यानिधिर्जातो धर्मिष्ठोऽस्त्रविदां वरः ।
धर्मस्य वक्ता कर्ता च रैवतो नाम वीर्यवान् ॥ ८७॥
नियुक्तवानथ ब्रह्मा रैवतं मानवे पदे ।
मन्वन्तराधिपः श्रीमान् गां शशास स धर्मतः ॥ ८८॥
इत्थं देव्याः प्रभावोऽयं सङ्क्षेपेणोपवर्णितः ।
पुराणस्य च माहात्म्यं को वक्तुं विस्तरात्क्षमः ॥ ८९॥
सूत उवाच ।
कुम्भयोनिस्तु माहात्म्यं विधिं भागवतस्य च ।
श्रुत्वा कुमारं चाभ्यर्च्य स्वाश्रमं पुनराययौ ॥ ९०॥
इदं मया भागवतस्य विप्रा
माहाम्यमुक्तं भवतां समक्षम् ।
शृणोति भक्त्या पठतीह भोगान्
भुक्त्याखिलान्मुक्तिमुपैति चान्ते ॥ ९१॥
इति श्रीस्कन्दपुराणे मानसखण्डे श्रीमद्देवीभागवतमाहात्म्ये
रैवतनामकमनुपुत्रोत्पत्तिवर्णनं नाम चतुर्थोऽध्यायः ॥ ०.४॥
०.५ देवीभागवतमाहात्म्यम् । पञ्चमोऽध्यायः । देवीभागवत-श्रवणविधिवर्णनम् ।
ऋषय ऊचुः ।
सूत सूत महाभाग श्रुतं माहात्म्यमुत्तमम् ।
अधुना श्रोतुमिच्छामः पुराणश्रवणे विधिम् ॥ १॥
सूत उवाच ।
श्रूयतां मुनयः सर्वे पुराणश्रवणे विधिम् ।
नराणां शृण्वतां येन सिद्धिः स्यात्सार्वकामिकी ॥ २॥
आदौ दैवज्ञमाहूय मुहूर्तं कल्पयेत्सुधीः ।
आरभ्य शुचिमास तु मासषट्कं शुभावहम् ॥ ३॥
हस्ताश्विमूलपुष्यर्क्षे ब्रह्ममैत्रेन्दुवैष्णवे ।
सत्तिथौ शुभवारे च पुराणश्रवणं शुभम् ॥ ४॥
गुरुभाद्वेदवेदाब्जशराङ्गाब्धिगुणैः क्रमात् ।
धर्माप्तिरिन्दिराप्राप्तिः कथासिद्धिः परं सुखम् ॥ ५
पीडाथ भूपतिभयं ज्ञानप्राप्तिः क्रमात्फलम् ।
पुराणश्रवणे चक्रं शोधयेच्छिवभाषितम् ॥ ६
अथवा प्रीतये देव्या नवरात्रचतुष्टये ।
शृणुयादन्यमासेऽपि तिथिवारर्क्षशोधिते ॥ ७
सम्भारं तादृशं कार्यं विवाहादौ च यादृशम् ।
नवाहयज्ञे चाप्यस्मिन्विधेयं यत्नतो बुधैः ॥ ८
सहाया बहवः कार्या दम्भलोभविवर्जिताः ।
चतुराश्च वदान्याश्च देवीभक्तिपरा नराः ॥ ९
प्रेष्या यत्नेन वार्तेयं देशे देशे जने जने ।
आगन्तव्यमिहावश्यं कथा देव्या भविष्यति ॥ १०
सौराश्च गाणपत्याश्च शैवाः शाक्ताश्च वैष्णवाः ।
सर्वेषामपि सेव्येयं यतो देवाः सशक्तयः ॥ ११
श्रीमद्देवीभागवतपीयूषरसलोलुपैः ।
आगन्तव्यं विशेषेण कथार्थं प्रेमतत्परैः ॥ १२
ब्राह्मणाद्याश्च ये वर्णाः स्त्रियश्चाश्रमिणस्तथा ।
सकामाश्चापि निष्कामाः पातव्यं तैः कथामृतम् ॥ १३
नावकाशः कदाचित्स्यान्नवाहश्रवणेऽपि तैः ।
आगन्तव्यं यथाकालं यज्ञे पुण्या क्षणस्थितिः ॥ १४॥
विनयेनैव कर्तव्यमेवमाकारणं नृणाम् ।
आगतानाञ्च कर्तव्यं वासस्थानं यथोचितम् ॥ १५॥
कथास्थानं प्रकर्तव्यं भूमौ मार्जनपूर्वकम् ।
लेपनं गोमयेनाथ विशालायां मनोरमम् ॥ १६॥
कार्यस्तु मण्डपो रम्यो रम्भास्तम्भोपशोभितः ।
वितानमुपरिष्ठात्तु पताकाध्वजराजितः ॥ १७॥
वक्तुश्चैवासनं दिव्यं सुखास्तरणसंयुतम् ।
रचितव्यं प्रयत्नेन प्राङ्मुखं वाप्युदङ्मुखम् ॥ १८॥
यथोचितानि कुर्वीत श्रोतॄणामासनानि च ।
नृणां चैवाथ नारीणां कथाश्रवणहेतवे ॥ १९॥
वाग्मी दान्तश्च शास्त्रज्ञो देव्याराधनतत्परः ।
दयालुर्निस्पृहो दक्षो धीरो वक्तोत्तमो मतः ॥ २०॥
ब्रह्मण्यो देवताभक्तः कथारसपरायणः ।
उदारोऽलोलुपो नम्रः श्रोता हिंसादिवर्जितः ॥ २१॥
पाखण्डनिरतो लुब्धः स्त्रैणो धर्मध्वजस्तथा ।
निष्ठुरः क्रोधनो वक्ता देवीयज्ञे न शस्यते ॥ २२॥
संशयच्छेदनायैकः पण्डितश्च तथागुणः ।
श्रोतृबोधकृदव्यग्रः कार्यो वक्तुः सहायकृत् ॥ २३॥
मुहूर्तदिवसादर्वाग्वक्तृश्रोत्रादिभिर्जनैः ।
कर्तव्यं क्षौरकर्मादि ततो नियमकल्पनम् ॥ २४॥
अरुणोदयवेलायां स्नायाच्छौचं विधाय च ।
सस्थातर्पणकार्यञ्च नित्यं सङ्क्षेपतश्चरेत् ॥ २५॥
कथाश्रवणयोग्यत्वसिद्धये गाश्च दापयेत् ।
समस्तविघ्नहर्तारमादौ गणपतिं यजेत् ॥ २६॥
कलशांश्चापि संस्थाप्य पूजयेत्तत्र दिग्भवान् ।
वटुकं क्षेत्रपालञ्च योगिनीर्मातृकास्तथा ॥ २७॥
तुलसीञ्चापि सम्पूज्य ग्रहान्विष्णञ्च शङ्करम् ।
नवाक्षरेण मनुना पूजयेज्जगदम्बिकाम् ॥ २८॥
सर्वोपचारैः सम्पूज्य श्रीभागवतपुस्तकम् ।
श्रीदेव्या वाङ्मयी मूर्तिं यथावच्छोभनाक्षरम् ॥ २९॥
कथाविघ्नोपशान्त्यर्थं वृणुयात्पञ्च वाडवान् ।
जाप्यो नवार्णमन्त्रस्तैः पाठ्यः सप्तशतीस्तवः ॥ ३०॥
प्रदक्षिणनमस्कारान्कृत्वान्ते स्तुतिमाचरेत् ।
कात्यायनि महामाये भवानि भुवनेश्वरि ॥ ३१॥
संसारसागरे मग्नं मामुद्धर कृपामये ।
ब्रह्मविष्णुशिवाराध्ये प्रसीद जगदम्बिके ॥ ३२॥
मनोऽभिलषितं देवि वरं देहि नमोऽस्तु ते ।
इति सम्प्रार्थ्य शृणुयात्कथां नियतमानसः ॥ ३३॥
वक्तारञ्चापि सम्पूज्य व्यासबुध्या यतात्मवान् ।
माल्यालङ्कारवस्त्राद्यैः सम्भूष्य प्रार्थयेच्च तम् ॥ ३४॥
सर्वशास्त्रेतिहासज्ञ व्यासरूप नमोऽस्तु ते ।
कथाचन्द्रोदयेनान्तस्तमःस्तोमं निराकुरु ॥ ३५॥
तदग्रे तु नवाहान्तं कर्तव्या नियमास्तदा ।
विप्रादीनुपवेश्यादौ सम्पूज्योपविशेत्स्वयम् ॥ ३६॥
श्रोतव्यं सावधानेन चतुर्वर्गफलाप्तये ।
गृहपुत्रकलत्राप्तधनचिन्तामपास्य च ॥ ३७॥
सूर्योदयं समारभ्य किञ्चित्सूर्येऽवशेषिते ।
मुहूर्तमात्रं विश्रम्य मध्याह्ने वाचयेत्सुधीः ॥ ३८॥
मलमूत्रजयायैषां लघु भोजनमिष्यते ।
हविष्यान्नं वरं भोज्यं सकृदेव कथार्थिना ॥ ३९॥
अथवा स्यात्फलाहारी पयोभुग्वा धृताशनः ।
यथा स्यान्न कथाविघ्नस्तथा कार्यं विचक्षणैः ॥ ४०॥
कथाश्रवणनिष्ठानां वक्ष्यामि नियमं द्विजाः ।
ब्रह्मविष्णुमहेशानां मध्ये ये भेददर्शिनः ॥ ४१॥
देवीभक्तिविहीना ये पाखण्डा हिंसकाः खलाः ।
विप्रदुहो नास्तिका ये न ते योग्याः कथाश्रवे ॥ ४२॥
ब्रह्मस्वहरणे लुब्धाः परदारधनेषु च ।
देवस्वहरणे तेषां नाधिकारः कथाश्रवे ॥ ४३॥
ब्रह्मचारी च भूशायी सत्यवक्ता जितेन्द्रियः ।
कथासमाप्तौ भुञ्जीत पत्रावल्यां यतात्मवान् ॥ ४४॥
वृन्ताकञ्च कलिन्दञ्च तैलञ्च द्विदलं मधु ।
दग्धमन्नं पर्युषितं भावदुष्टं त्यजेद् व्रती ॥ ४५॥
आमिषञ्च मसूरान्नमुदक्यादृष्टमेव च ।
रसोनं मूलकं हिङ्गुं पलाण्डुं गृञ्जनं तथा ॥ ४६॥
कूष्माण्डं नलिकाशाकं न भुञ्जीत कथाव्रती ।
कामं क्रोधं मदं लोभं दम्भ मानञ्च वर्जयेत् ॥ ४७॥
विप्रध्रुक्पतितव्रात्यश्वपाकयवनान्त्यजैः ।
उदक्यया वेदबाह्यैर्न वदेद्यः कथाव्रती ॥ ४८॥
वेदगोगुरुविप्राणां स्त्रीराज्ञां महतां तथा ।
देवानां देवभक्तानां न निन्दां शृणुयादपि ॥ ४९॥
विनयं चार्जवं शौचं दयां च मितभाषणम् ।
उदारं मानसञ्चैव कुर्याद्यस्तु कथावती ॥ ५०॥
श्वित्री कुष्ठी क्षयी रुग्णो भाग्यहीनश्च पापकृत् ।
दरिद्रश्चानपत्यश्च भक्त्येमां शृणयात्कथाम् ॥ ५१॥
वन्ध्या वा काकवन्ध्या वा दुर्भगा वा मृतार्भका ।
पतद्गर्भाङ्गना या च ताभिः श्राव्या तथा कथा ॥ ५२॥
धर्मार्थकाममोक्षांश्च यो वाच्छति विना श्रमम् ।
भगवत्या भागवतं श्रोतव्यं तेन यत्नतः ॥ ५३॥
कथादिनानि चैतानि नवयज्ञैः समानि हि ।
तेषु दत्तं हुतं जप्तमनन्तफलदं भवेत् ॥ ५४॥
एवं व्रतं नवाहं तु कृत्वोद्यापनमाचरेत् ।
महाष्टमीव्रतं यद्वत्तथा कार्यं फलेप्सुभिः ॥ ५५॥
निष्कामाः श्रवणेनैव पूता मुक्तिं व्रजन्ति हि ।
भोगमोक्षप्रदा नॄणां यतो भगवती परा ॥ ५६॥
पुस्तकस्य च वक्तुश्च पूजा कार्या तु नित्यशः ।
वक्त्रा दत्तं प्रसादं तु गह्णीयाद्भक्तिपूर्वकम् ॥ ५७॥
कुमारीः पूजयेन्नित्यं भोजयेत्पार्थयेच्च यः ।
सुवासिनीश्च विप्रांश्च तस्य सिद्धिर्न संशयः ॥ ५८॥
गायत्र्या नाम साहस्रं समाप्तावथ वा पठेत् ।
विष्णोर्नामसहस्रञ्च सर्वदोषोपशान्तये ॥ ५९॥
यस्य स्मृत्या च नामोक्त्या तपोयज्ञक्रियादिषु ।
न्यूनं सम्पूर्णतां याति तस्माद्विष्णुञ्च कीर्तयेत् ॥ ६०॥
देव्याः सप्तशतीमन्त्रैः समाप्तौ होममाचरेत् ।
देवीमाहात्म्यमूलेन नवार्णमनुनाथवा ॥ ६१॥
गायत्र्या त्वथवा होमः पायसेन ससर्पिषा ।
यतो भागवतं त्वेतद् गायत्रीमयमीरितम् ॥ ६२॥
वाचकं तोषयेत्सम्यग्वस्त्रभूषाधनादिभिः ।
प्रसन्ने वाचके सर्वाः प्रसनास्तस्य देवताः ॥ ६३॥
ब्राह्मणान्भोजयेद्भक्त्या दक्षिणाभिश्च तोषयेत् ।
पृथिव्यां देवरूपास्ते तुष्टेष्वेष्वीप्सितं फलम् ॥ ६४॥
सुवासिनीः कुमारीश्च देवीभक्त्या च भोजयेत् ।
ताभ्योऽपि दक्षिणां दत्त्वा प्रार्थयेत्सिद्धिमात्मनः ॥ ६५॥
दद्याद्दानानि चान्यानि सुवर्णं गाः पयस्विनीः ।
हयानिभान्मेदिनीञ्च तस्य स्यादक्षयं फलम् ॥ ६६॥
देवीभागवतं चैतल्लिखितं शोभनाक्षरम् ।
हेमसिंहासने स्थाप्य पट्टवस्त्रेण वेष्टितम् ॥ ६७॥
अष्टम्यां वा नवम्याञ्च वाचकायार्चिताय च ।
दद्यात्स भोगान्भुक्त्वेह दुर्लभं मोक्षमाप्नुयात् ॥ ६८॥
दरिद्रो दुर्बलो बालस्तरुणो जरठोऽपि वा ।
पुराणवेत्ता वन्द्यः स्यात्पूज्यो मान्यश्च सर्वदा ॥ ६९॥
सन्ति लोकस्य बहवो गुरवो गुणजन्मतः ।
सर्वेषामपि तेषाञ्च पुराणज्ञः परो गुरुः ॥ ७०॥
पौराणिको ब्राह्मणस्तु व्यासासनसमाश्रितः ।
आसमाप्ते प्रसङ्गे तु नमस्कुर्यान्न कस्यचित् ॥ ७१॥
पौराणिकीं कथां दिव्यां येऽपि शृण्वन्त्यभक्तितः ।
तेषां पुण्यफलं नास्ति दुःखदारिद्र्यभागिनाम् ॥ ७२॥
असम्पूज्य पुराणं तु ताम्बूलकुसुमादिभिः ।
ये शृण्वन्ति कथां देव्यास्ते दरिद्रा भवन्तिहि ॥ ७३॥
कीर्त्यमानां कथां त्यक्त्या ये व्रजन्त्यन्यतो नराः ।
भोगान्तरे प्रणश्यन्ति तेषां दाराश्च सम्पदः ॥ ७४॥
ये च तुङ्गासनारूढाः कथां शृण्वन्ति दाम्भिकाः ।
ते वायसा भवन्त्यत्र भुक्त्वा निरययातनाम् ॥ ७५॥
ये चाढ्यासनसंस्थाश्च ये वीरासनसंस्थिताः ।
शृण्वन्ति च कथां दिव्यां ते स्युरर्जुनशाखिनः ॥ ७६॥
कथायां कीर्त्यमानायां ये वदन्ति दुरुत्तरम् ।
रासभास्ते भवन्तीह कृकलासास्ततः परम् ॥ ७७॥
निन्दन्ति ये पुराणज्ञान् कथां वा पापहारिणीम् ।
ते तु जन्मशतं दुष्टाः शुनकाः स्युर्न संशयः ॥ ७८॥
ये शृण्वन्ति कथां वक्तुः समानासनसंस्थिताः ।
गुरुतल्पसमं पापं लभन्ते नरकालयाः ॥ ७९॥
ये चाप्रणम्य शृण्वन्ति ते भवन्ति विषद्रुमाः ।
शयाना येऽपि शृण्वन्ति भवन्त्यजगराहयः ॥ ८०॥
ये कदाचन पौराणीं न शृण्वन्ति कथां नराः ।
ते घोरं नरकं भुक्त्या भवन्ति वनसूकराः ॥ ८१॥
ये कथां नानुमोदन्ते विघ्नं कुर्वन्ति ये शठाः ।
कोट्यब्दं निरयं भुक्त्वा भवन्ति ग्रामसूकराः ॥ ८२॥
आसनं भाजनं द्रव्यं फलं वस्वाणि कम्बलम् ।
पुराणज्ञाय यच्छन्ति ते व्रजन्ति हरेः पदम् ॥ ८३॥
पुराणपुस्तकस्यापि ये पट्टवसनं नवम् ।
प्रयच्छन्ति शुभं सूत्रं ते नराः सुखभागिनः ॥ ८४॥
पुराणानां तु सर्वेषां श्रवणाद्यत्फलं लभेत् ।
तस्माच्छतगुणं पुण्यं देवीभागवताल्लभेत् ॥ ८५॥
यथा सरित्सु प्रवरा गङ्गा देवेषु शङ्करः ।
काव्ये रामायणं यद्वज्ज्योतिष्मत्सु यथा रविः ॥ ८६॥
आह्लादकानां चन्द्रश्च धनानाञ्च यथा यशः ।
क्षमावतां यथा भूमिर्गाम्भीर्ये सागरो यथा ॥ ८७॥
मन्त्राणां चैव सावित्री पापनाशे हरिस्मृतिः ।
अष्टादशपुराणानां देवीभागवतं तथा ॥ ८८॥
येन केनाप्युपायेन नवकृत्व शृणोति चेत् ।
न शक्यं तत्कलं वक्तुं जीवन्मुक्तः स एव हि ॥ ८९॥
राजशत्रुभये प्राप्ते महामारीभये तथा ।
दुर्भिक्षे राष्ट्रभङ्गे च तच्छान्त्यै शृणयादिदम् ॥ ९०॥
भूतप्रेतविनाशाय राज्यलाभाय शत्रुतः ।
पुत्रलाभाय शृणुयाद्देवीभागवतं द्विजाः ॥ ९१॥
श्रीमद्भागवतं यस्तु पठेद्वा शृणुयादपि ।
श्लोकार्धं श्लोकपादं वा स याति परमां गतिम् ॥ ९२॥
भगवत्या स्वयं देव्या श्लोकार्धेन प्रकाशितम् ।
शिष्यप्रशिष्यद्वारेण तदेव विपुलीकृतम् ॥ ९३॥
न गायत्र्या परो धर्मो न गायत्र्याः परं तपः ।
न गायत्र्या समो देवो न गायत्र्याः परो मनुः ॥ ९४॥
गातारं त्रायते यस्माद् गायत्री तेन सोच्यते ।
सात्र भागवते देवी सरहस्या प्रतिष्ठिता ॥ ९५॥
अतो भागवतस्यास्य देव्याः प्रीतिकरस्य च ।
महान्त्यपि पुराणानि कलां नार्हन्ति षोडशीम् ॥ ९६॥
श्रीमद्भागवतं पुराणममलं यद्ब्राह्मणानां धनं
धर्मो धर्मसुतेन यत्र गदितो नारायणेनामलः ।
गायत्र्याश्च रहस्यमत्र च मणिद्वीपश्च संवर्णितः
श्रीदेव्या हिमभूभृते भगवती गीता च गीता स्वयम् ॥ ९७॥
तस्मान्नास्य पुराणस्य लोकेऽन्यत्सदृशं परम् ।
अतः सदैव संसेव्यं देवीभागवतं द्विजाः ॥ ९८॥
यस्याः प्रभावमखिलं न हि वेद धाता
नो वा हरिर्न गिरिशो न हि चाप्यनन्तः ।
अंशांशका अपि च ते किमुतान्यदेवा-
स्तस्यै नमोऽस्तु सततं जगदम्बिकायै ॥ ९९॥
यत्पादपङ्कजरजः समवाप्य विश्वं
ब्रह्मा सृजत्यनुदिनञ्च बिभर्ति विष्णुः ।
रुद्रश्च संहरति नेतरथा समर्था-
स्तस्यै नमोऽस्तु सततं जगदम्बिकायै ॥ १००॥
सुधाकूपारान्तस्त्रिदशतरुवाटीविलसिते
मणिद्वीपे चिन्तामणिमयगृहे चित्ररुचिरे ।
विराजन्तीमम्बां परशिवहृदि स्मेरवदनां
नरो ध्यात्वा भोगं भजति खलु मोक्षञ्च लभते ॥ १०१॥
ब्रह्मेशाच्युतशक्राद्यैर्महर्षिभिरुपासिता ।
जगतां श्रेयसे सास्तु मणिद्वीपाधिदेवता ॥ १०२॥
इति श्रीस्कन्दपुराणे मानसखण्डे श्रीमद्देवीभागवतमाहात्म्ये
देवीभागवत-श्रवणविधिवर्णनं नाम पञ्चमोऽध्यायः ॥ ०.५॥
॥ समाप्तमिदं श्रीमद्देवीभागवतमाहात्म्यम् ॥
Encoded and proofread by Vishwas Bhide