४ श्रीमद्देवीभागवतमहापुराणे चतुर्थः स्कन्धः

४ श्रीमद्देवीभागवतमहापुराणे चतुर्थः स्कन्धः

४.१ प्रथमोऽध्यायः । जनमेजयप्रश्नाः ।

जनमेजय उवाच । वासवेय मुनिश्रेष्ठ सर्वज्ञाननिधेऽनघ । प्रष्टुमिच्छाम्यहं स्वामिन्नस्माकं कुलवर्धन ॥ १॥ शूरसेनसुतः श्रीमान्वसुदेवः प्रतापवान् । श्रुतं मया हरिर्यस्य पुत्रभावमवाप्तवान् ॥ २॥ देवानामपि पूज्योऽभून्नाम्ना चानकदुन्दुभिः । कारागारे कथं बद्धः कंसस्य धर्मतत्परः ॥ ३॥ देवक्या भार्यया सार्धं किमागः कृतवानसौ । देवक्या बालषट्कस्य विनाशश्च कृतः पुनः ॥ ४॥ तेन कंसेन कस्माद्वै ययातिकुलजेन च । कारागारे कथं जन्म वासुदेवस्य वै हरेः ॥ ५॥ गोकुले च कथं नीतो भगवान्सात्वतां पतिः । गतो जन्मान्तरं कस्मात्पितरौ निगडे स्थितौ ॥ ६॥ देवकीवसुदेवौ च कृष्णस्यामिततेजसः । कथं न मोचितौ वृद्धौ पितरौ हरिणामुना ॥ ७॥ जगत्कर्तुं समर्थेन स्थितेन जनकोदरे । प्राक्तनं किं तयोः कर्म दुर्विज्ञेयं महात्मभिः ॥ ८॥ जन्म वै वासुदेवस्य यत्रासीत्परमात्मनः । के ते पुत्राश्च का बाला या कंसेन विपोथिता ॥ ९॥ शिलायां निर्गता व्योम्नि जाता त्वष्टभुजा पुनः । गार्हस्थ्यञ्च हरेर्ब्रूहि बहुभार्यस्य चानघ ॥ १०॥ कार्याणि तत्र तान्येव देहत्यागं च तस्य वै । किंवदन्त्या श्रुतं यत्तन्मनो मोहयतीव मे ॥ ११॥ चरितं वासुदेवस्य त्वमाख्याहि यथातथम् । नरनारायणौ देवौ पुराणावृषिसत्तमौ ॥ १२॥ धर्मपुत्रौ महात्मानौ तपश्चेरतुरुत्तमम् । यौ मुनी बहुवर्षाणि पुण्ये बदरिकाश्रमे ॥ १३॥ निराहारौ जितात्मानौ निःस्पृहौ जितषड्गुणौ । विष्णोरंशौ जगत्स्थेम्ने तपश्चेरतुरुत्तमम् ॥ १४॥ तयोरंशावतारौ हि जिष्णुकृष्णौ महाबलौ । प्रसिद्धौ मुनिभिः प्रोक्तौ सर्वज्ञैर्नारदादिभिः ॥ १५॥ विद्यमानशरीरौ तौ कथं देहान्तरं गतौ । नरनारायणौ देवौ पुनः कृष्णार्जुनौ कथम् ॥ १६॥ यौ चक्रतुस्तपश्चोग्रं मुक्त्यर्थं मुनिसत्तमौ । तौ कथं प्रापतुर्देहौ प्राप्तयोगौ महातपौ ॥ १७॥ शूद्रः स्वधर्मनिष्ठस्तु देहान्ते क्षत्रियस्तु सः । शुभाचारो मृतो यो वै स शूद्रो ब्राह्मणो भवेत् ॥ १८॥ ब्राह्मणो निःस्पृहः शान्तो भवरोगाद्विमुच्यते । विपरीतमिदं भाति नरनारायणौ च तौ ॥ १९॥ तपसा शोषितात्मानौ क्षत्रियौ तौ बभूवतुः । केन तौ कर्मणा शान्तौ जातौ शापेन वा पुनः ॥ २०॥ ब्राह्मणौ क्षत्रियौ जातौ कारणं तन्मुने वद । यादवानां विनाशश्च ब्रह्मशापादिति श्रुतः ॥ २१॥ कृष्णस्यापि हि गान्धार्याः शापेनैव कुलक्षयः । प्रद्युम्नहरणं चैव शम्बरेण कथं कृतम् ॥ २२॥ वर्तमाने वासुदेवे देवदेवे जनार्दने । पुत्रस्य सूतिकागेहाद्धरणं चातिदुर्घटम् ॥ २३॥ द्वारकादुर्गमध्याद्वै हरिवेश्माद्दुरत्ययात् । न ज्ञातं वासुदेवेन तत्कथं दिव्यचक्षुषा ॥ २४॥ सन्देहोऽयं महान्ब्रह्मन्निसन्देहं कुरु प्रभो । यत्पत्न्यो वासुदेवस्य दस्युभिर्लुण्ठिता हृताः ॥ २५॥ स्वर्गते देवदेवे तु तत्कथं मुनिसत्तम । संशयो जायते ब्रह्मंश्चित्तान्दोलनकारकः ॥ २६॥ विष्णोरंशः समुद्भूतः शौरिर्भूभारहारकृत् । स कथं मथुराराज्यं भयात्त्यक्त्वा जनार्दनः ॥ २७॥ द्वारवत्यां गतः साधो ससैन्यः ससुहृद्गणः । अवतारो हरेः प्रोक्तो भूभारहरणाय वै ॥ २८॥ पापात्मनां विनाशाय धर्मसंस्थापनाय च । तत्कथं वासुदेवेन चौरास्ते न निपातिताः ॥ २९॥ यैर्हृता वासुदेवस्य पत्न्यः संलुण्ठिताश्च ताः । स्तेनास्ते किं न विज्ञाताः सर्वज्ञेन सता पुनः ॥ ३०॥ भीष्मद्रोणवधः कामं भूभारहरणे मतः । अर्चिताश्च महात्मानः पाण्डवा धर्मतत्पराः ॥ ३१॥ कृष्णभक्ताः सदाचारा युधिष्ठिरपुरोगमाः । ते कृत्वा राजसूयञ्च यज्ञराजं विधानतः ॥ ३२॥ दक्षिणा विविधा दत्त्वा ब्राह्मणेभ्योऽतिभावतः । पाण्डुपुत्रास्तु देवांशा वासुदेवाश्रिता मुने ॥ ३३॥ घोरं दुःखं कथं प्राप्ताः क्व गतं सुकृतञ्च तत् । किं तत्पापं महारौद्रं येन ते पीडिताः सदा ॥ ३४॥ द्रौपदी च महाभागा वेदीमध्यात्समुत्थिता । रमांशजा च साध्वी च कृष्णभक्तियुता तथा ॥ ३५॥ सा कथं दुःखमतुलं प्राप घोरं पुनः पुनः । दुःशासनेन सा केशे गृहीता पीडिता भृशम् ॥ ३६॥ रजस्वला सभायां तु नीता भीतैकवाससा । विराटनगरे दासी जाता मत्स्यस्य सा पुनः ॥ ३७॥ धर्षिता कीचकेनाथ रुदती कुररी यथा । हृता जयद्रथेनाथ क्रन्दमानातिदुःखिता ॥ ३८॥ मोचिता पाण्डवैः पश्चाद्बलवद्भिर्महात्मभिः । पूर्वजन्मकृतं पापं किं तद्येन च पीडिताः ॥ ३९॥ दुःखान्यनेकान्याप्तास्ते कथयाद्य महामते । राजसूयं क्रतुवरं कृत्वा ते मम पूर्वजाः ॥ ४०॥ दुःखं महत्तरं प्राप्ताः पूर्वजन्मकृतेन वै । देवांशानां कथं तेषां संशयोऽयं महान्हि मे ॥ ४१॥ सदाचारैस्तु कौन्तेयैर्भीष्मद्रोणादयो हताः । छलेन धनलाभार्थं जानानैर्नश्वरं जगत् ॥ ४२॥ प्रेरिता वासुदेवेन पापे घोरे महात्मना । कुलं क्षयितवन्तस्ते हरिणा परमात्मना ॥ ४३॥ वरं भिक्षाटनं साधोर्नीवारैर्जीवनं वरम् । योधान्न हत्वा लोभेन शिल्पेन जीवनं वरम् ॥ ४४॥ विच्छिन्नस्तु त्वया वंशो रक्षितो मुनिसत्तम । समुत्पाद्य सुतानाशु गोलकाच्छत्रुनाशनान् ॥ ४५॥ सोऽल्पेनैव तु कालेन विराटतनयासुतः । तापसस्य गले सर्पं न्यस्तवान्कथमद्भुतम् ॥ ४६॥ नकोऽपि ब्राह्मणं द्वेष्टि क्षत्रियस्य कुलोद्भवः । तापसं मौनसंयुक्तं पित्रा किं तत्कृतं मुने ॥ ४७॥ एतैरन्यैश्च सन्देहैर्विकलं मे मनोऽधुना । स्थिरं कुरु पितः साधो सर्वज्ञोऽसि दयानिधे ॥ ४८॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे जनमेजयप्रश्नाः प्रथमोऽध्यायः ॥ ४.१॥

४.२ द्वितीयोऽध्यायः । कर्मणो जन्मादिकारणत्वनिरूपणम् ।

सूत उवाच । एवं पृष्टः पुराणज्ञो व्यासः सत्यवतीसुतः । परीक्षितसुतं शान्तं ततो वै जनमेजयम् ॥ १॥ उवाच संशयच्छेत्तृ वाक्यं वाक्यविशारदः । व्यास उवाच । राजन् किमेतद्वक्तव्यं कर्मणां गहना गतिः ॥ २॥ दुर्ज्ञेया किल देवानां मानवानां च का कथा । यदा समुत्थितं चैतद्ब्रह्माण्डं त्रिगुणात्मकम् ॥ ३॥ कर्मणैव समुत्पत्तिः सर्वेषां नात्र संशयः । अनादिनिधना जीवाः कर्मबीजसमुद्भवाः ॥ ४॥ नानायोनिषु जायन्ते म्रियन्ते च पुनः पुनः । कर्मणा रहितो देहसंयोगो न कदाचन ॥ ५॥ शुभाशुभैस्तथा मिश्रैः कर्मभिर्वेष्टितं त्विदम् । त्रिविधानि हि तान्याहुर्बुधास्तत्त्वविदश्च ये ॥ ६॥ सञ्चितानि भविष्यन्ति प्रारब्धानि तथा पुनः । वर्तमानानि देहेऽस्मिंस्त्रैविध्यं कर्मणां किल ॥ ७॥ ब्रह्मादीनां च सर्वेषां तद्वशत्वं नराधिप । सुखं दुःखं जरामृत्युहर्षशोकादयस्तथा ॥ ८॥ कामक्रोधौ च लोभश्च सर्वे देहगता गुणाः । दैवाधीनाश्च सर्वेषां प्रभवन्ति नराधिप ॥ ९॥ रागद्वेषादयो भावाः स्वर्गेऽपि प्रभवन्ति हि । देवानां मानवानाञ्च तिरश्चां च तथा पुनः ॥ १०॥ विकाराः सर्व एवैते देहेन सह सङ्गताः । पूर्ववैरानुयोगेन स्नेहयोगेन वै पुनः ॥ ११॥ उत्पत्तिः सर्वजन्तूनां विना कर्म न विद्यते । कर्मणा भ्रमते सूर्यः शशाङ्कः क्षयरोगवान् ॥ १२॥ कपाली च तथा रुद्रः कर्मणैव न संशयः । अनादिनिधनं चैतत्कारणं कर्म विद्यते ॥ १३॥ तेनेह शाश्वतं सर्वं जगत्स्थावरजङ्गमम् । नित्यानित्यविचारेऽत्र निमग्ना मुनयः सदा ॥ १४॥ न जानन्ति किमेतद्वै नित्यं वानित्यमेव च । मायायां विद्यमानायां जगन्नित्यं प्रतीयते ॥ १५॥ कार्याभावः कथं वाच्यः कारणे सति सर्वथा । माया नित्या कारणञ्च सर्वेषां सर्वदा किल ॥ १६॥ कर्मबीजं ततोऽनित्यं चिन्तनीयं सदा बुधैः । भ्रमत्येव जगत्सर्वं राजन्कर्मनियन्त्रितम् ॥ १७॥ नानायोनिषु राजेन्द्र नानाधर्ममयेषु च । इच्छया च भवेञ्चन्म विष्णोरमिततेजसः ॥ १८॥ युगे युगेष्वनेकासु नीचयोनिषु तत्कथम् । त्यक्त्वा वैकुण्ठसंवासं सुखभोगाननेकशः ॥ १९॥ विण्मूत्रमन्दिरे वासं सन्त्रस्तः कोऽभिवाञ्छति । पुष्पावचयलीलां च जलकेलिं सुखासनम् ॥ २०॥ त्यक्त्वा गर्भगृहे वासं कोऽभिवाच्छति बुद्धिमान् । तूलिकां मृदुसंयुक्तां दिव्यां शय्यां विनिर्मिताम् ॥ २१॥ त्यक्त्वाधोमुखवासं च कोऽभिवाञ्छति पण्डितः । गीतं नृत्यञ्च वाद्यञ्च नानाभावसमन्वितम् ॥ २२॥ मुक्त्वा को नरके वासं मनसापि विचिन्तयेत् । सिन्धुजाद्भुतभावानां रसं त्यक्त्वा सुदुस्त्वजम् ॥ २३॥ विण्मूत्ररसपानञ्ज क इच्छेन्मतिमान्नरः । गर्भवासात्परो नास्ति नरको भुवनत्रये ॥ २४॥ तद्भीताश्च प्रकुर्वन्ति मुनयो दुस्तरं तपः । हित्वा भोगञ्च राज्यञ्च वने यान्ति मनस्विनः ॥ २५॥ यद्भीतास्तु विमूढात्मा कस्तं सेवितुमिच्छति । गर्भे तुदन्ति कृमयो जठराग्निस्तपत्यधः ॥ २६॥ वपासंवेष्टनं कूरं किं सुखं तत्र भूपते । वरं कारागृहे वासो बन्धनं निगडैर्वरम् ॥ २७॥ अल्पमात्रं क्षणं नैव गर्भवासः क्वचिच्छुभः । गर्भवासे महद्दुःखं दशमासनिवासनम् ॥ २८॥ तथा निःसरणे दुःखं योनियन्त्रेऽतिदारुणे । बालभावे तदा दुःखं मूकाज्ञभावसंयुतम् ॥ २९॥ क्षुतृष्णावेदनाशक्तः परतन्त्रोऽतिकातरः । क्षुधिते रुदिते बाले माता चिन्तातुरा तदा ॥ ३०॥ भेषजं पातुमिच्छन्ती ज्ञात्वा व्याधिव्यथां दृढाम् । नानाविधानि दुःखानि बालभावे भवन्ति वै ॥ ३१॥ किं सुखं विबुधा दृष्ट्वा जन्म वाञ्छन्ति चेच्छया । सङ्ग्रामममरैः सार्धं सुखं त्यक्त्वा निरन्तरम् ॥ ३२॥ कर्तुमिच्छेच्च को मूढः श्रमदं सुखनाशनम् । सर्वथैव नृपश्रेष्ठ सर्वे ब्रह्मादयः सुराः ॥ ३३॥ कृतकर्मविपाकेन प्राप्नुवन्ति सुखासुखे । अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् । देहवद्भिर्नृभिर्देवैस्तिर्यग्भिश्च नृपोत्तम ॥ ३४॥ तपसा दानयज्ञैश्च मानवश्चेन्द्रतां व्रजेत् । क्षीणे पुण्येऽथ शक्रोऽपि पतत्येव न संशयः ॥ ३५॥ रामावतारयोगेन देवा वानरतां गताः । तथा कृष्णसहायार्थं देवा यादवतां गताः ॥ ३६॥ एवं युगे युगे विष्णुरवताराननेकशः । करोति धर्मरक्षार्थं ब्रह्मणा प्रेरितो भृशम् ॥ ३७॥ पुनः पुनर्हरेरेवं नानायोनिषु पार्थिव । अवतारा भवन्त्यन्ये रथचक्रवदद्भुताः ॥ ३८॥ दैत्यानां हननं कर्म कर्तव्यं हरिणा स्वयम् । अंशांशेन पृथिव्यां वै कृत्वा जन्म महात्मना ॥ ३९॥ तदहं सम्प्रवक्ष्यामि कृष्णजन्मकथां शुभाम् । स एव भगवान्विष्णुरवतीर्णो यदोः कुले ॥ ४०॥ कश्यपस्य मुनेरंशो वसुदेवः प्रतापवान् । गोवृत्तिरभवद्राजन् पूर्वशापानुभावतः ॥ ४१॥ कश्यपस्य च द्वे पत्न्यौ शापादत्र महीपते । अदितिः सुरसा चैवमासतुः पृथिवीपते ॥ ४२॥ देवकी रोहिणी चोभे भगिन्यौ भरतर्षभ । वरुणेन महाञ्छापो दत्तः कोपादिति श्रुतम् ॥ ४३॥ राजोवाच । किं कृतं कश्यपेनागो येन शप्तो महानृषिः । सभार्यः स कथं जातस्तद्वदस्व महामते ॥ ४४॥ कथञ्च भगवान्विष्णुस्तत्र जातोऽस्ति गोकुले । वासी वैकुण्ठनिलये रमापतिरखण्डितः ॥ ४५॥ निदेशात्कस्य भगवान्वर्तते प्रभुरव्ययः । नारायणः सुरश्रेष्ठो युगादिः सर्वधारकः ॥ ४६॥ स कथं सदनं त्यक्त्वा कर्मवानिव मानुषे । करोति जननं कस्मादत्र मे संशयो महान् ॥ ४७॥ प्राप्य मानुषदेहं तु करोति च विडम्बनम् । भावान्नानाविधांस्तत्र मानुषे दुष्टजन्मनि ॥ ४८॥ कामः क्रोधोऽमर्षशोकौ वैरं प्रीतिश्च कर्हिचित् । सुखं दुःखं भयं नॄणां दैन्यमार्जवमेव च ॥ ४९॥ दुष्कृतं सुकृतं चैव वचनं हननं तथा । पोषणं चलनं तापो विमर्शश्च विकत्थनम् ॥ ५०॥ लोभो दम्भस्तथा मोहः कपटः शोचनं तथा । एते चान्ये तथा भावा मानुष्ये सम्भवन्ति हि ॥ ५१॥ स कथं भगवान्विष्णुस्त्वक्त्या सुखमनश्वरम् । करोति मानुषं जन्म भावैस्तैस्तैरभिद्रुतम् ॥ ५२॥ किं सुखं मानुषं प्राप्य भुवि जन्म मुनीश्वर । किं निमित्तं हरिः साक्षाद्गर्भवासं करोति वै ॥ ५३॥ गर्भदुःखं जन्मदुःखं बालभावे तथा पुनः । यौवने कामजं दुःखं गार्हस्त्येऽतिमहत्तरम् ॥ ५४॥ दुःखान्येतान्यवाप्नोति मानुषे द्विजसत्तम । कथं स भगवान्विष्णुरवतारान्पुनः पुनः ॥ ५५॥ प्राप्य रामावतारं हि हरिणा ब्रह्मयोनिना । दुःखं महत्तरं प्राप्तं वनवासेऽतिदारुणे ॥ ५६॥ सीताविरहजं दुःखं सङ्ग्रामश्च पुनः पुनः । कान्तात्यागोऽप्यनेनैवमनुभूतो महात्मना ॥ ५७॥ तथा कृष्णावतारेऽपि जन्म रक्षागृहे पुनः । गोकुले गमनं चैव गवां चारणमित्युत ॥ ५८॥ कंसस्य हननं कष्टाद् द्वारकागमनं पुनः । नानासंसारदुःखानि भुक्तवान्भगवान् कथम् ॥ ५९॥ स्वेच्छया कः प्रतीक्षेत मुक्तो दुःखानि ज्ञानवान् । संशयं छिन्धि सर्वज्ञ मम चित्तप्रशान्तये ॥ ६०॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे कर्मणो जन्मादिकारणत्वनिरूपणं नाम द्वितीयोऽध्यायः ॥ ४.२॥

४.३ तृतीयोऽध्यायः । दित्या अदित्यै शापदानम् ।

व्यास उवाच । कारणानि बहून्यत्राप्यवतारे हरेः किल । सर्वेषां चैव देवानामंशावतरणेष्वपि ॥ १॥ वसुदेवावतारस्य कारणं श‍ृणु तत्त्वतः । देवक्याश्चैव रोहिण्या अवतारस्य कारणम् ॥ २॥ एकदा कश्यपः श्रीमान्यज्ञार्थं धेनुमाहरत् । याचितोऽयं बहुविधं न ददौ धेनुमुत्तमाम् ॥ ३॥ वरुणस्तु ततो गत्वा ब्रह्माणं जगतः प्रभुम् । प्रणम्योवाच दीनात्मा स्वदुःखं विनयान्वितः ॥ ४॥ किं करोमि महाभाग मत्तोऽसौ न ददाति गाम् । शापो मया विसृष्टोऽस्मै गोपालो भव मानुषे ॥ ५॥ भार्ये द्वे अपि तत्रैव भवेतां चातिदुःखिते । यतो वत्सा रुदन्त्यत्र मातृहीनाः सुदुःखिताः ॥ ६॥ मृतवत्सादितिस्तस्माद्भविष्यति धरातले । कारागारनिवासा च तेनापि बहुदुःखिता ॥ ७॥ व्यास उवाच । तच्छ्रुत्वा वचनं तस्य यादोनाथस्य पद्मभूः । समाहूय मुनिं तत्र तमुवाच प्रजापतिः ॥ ८॥ कस्मात्त्वया महाभाग लोकपालस्य धेनवः । हृताः पुनर्न दत्ताश्च किमन्यायं करोषि च ॥ ९॥ जानन् न्यायं महाभाग परवित्तापहारणम् । कृतवान्कथमन्यायं सर्वज्ञोऽसि महामते ॥ १०॥ अहो लोभस्य महिमा महतोऽपि न मुञ्चति । लोभं नरकदं नूनं पापाकरमसम्मतम् ॥ ११॥ कश्यपोऽपि न तं त्यक्तुं समर्थः किं करोम्यहम् । सर्वदैवाधिकस्तस्माल्लोभो वै कलितो मया ॥ १२॥ धन्यास्ते मुनयः शान्ता जितो यैर्लोभ एव च । वैखानसैः शमपरैः प्रतिग्रहपराङ्मुखैः ॥ १३॥ संसारे बलवाञ्छत्रुर्लोभोऽमेध्योऽवरः सदा । कश्यपोऽपि दुराचारः कृतस्नेहो दुरात्मना ॥ १४॥ ब्रह्मापि तं शशापाथ कश्यपं मुनिसत्तमम् । मर्यादारक्षणार्थं हि पौत्रं परमवल्लभम् ॥ १५॥ अंशेन त्वं पृथिव्यां वै प्राप्य जन्म यदोः कुले । भार्याभ्यां संयुतस्तत्र गोपालत्वं करिष्यसि ॥ १६॥ व्यास उवाच । एवं शप्तः कश्यपोऽसौ वरुणेन च ब्रह्मणा । अंशावतरणार्थाय भूभारहरणाय च ॥ १७॥ तथा दित्यादितिः शप्ता शोकसन्तप्तया भृशम् । जाता जाता विनश्येरंस्तव पुत्रास्तु सप्त वै ॥ १८॥ जनमेजय उवाच । कस्माद्दित्या च भगिनी शप्तेन्द्रजननी मुने । कारणं वद शापे च शोकस्तु मुनिसत्तम ॥ १९॥ सूत उवाच । पारीक्षितेन पृष्टस्तु व्यासः सत्यवतीसुतः । राजानं प्रत्युवाचेदं कारणं सुसमाहितः ॥ २०॥ व्यास उवाच । राजन् दक्षसुते द्वे तु दितिश्चादितिरुत्तमे । कश्यपस्य प्रिये भार्ये बभूवतुरुरुक्रमे ॥ २१॥ अदित्यां मघवा पुत्रो यदाभूदतिवीर्यवान् । तदा तु तादृशं पुत्रं चकमे दितिरोजसा ॥ २२॥ पतिमाहासितापाङ्गी पुत्रं मे देहि मानद । इन्द्रख्यबलं वीरं धर्मिष्ठं वीर्यवत्तमम् ॥ २३॥ तामुवाच मुनिः कान्ते स्वस्था भव मयोदिते । व्रतान्ते भविता तुभ्यं शतक्रतुसमः सुतः ॥ २४॥ सा तथेति प्रतिश्रुत्य चकार व्रतमुत्तमम् । निषिक्तं मुनिना गर्भं बिभ्राणा सुमनोहरम् ॥ २५॥ भूमौ चकार शयनं पयोव्रतपरायणा । पवित्रा धारणायुक्ता बभूव वरवर्णिनी ॥ २६॥ एवं जातः सुसम्पूर्णो यदा गर्भोऽतिवीर्यवान् । शुभ्रांशुमतिदीप्ताङ्गीं दितिं दृष्ट्वा तु दुःखिता ॥ २७॥ मघवत्सदृशः पुत्रो भविष्यति महाबलः । दित्यास्तदा मम सुतस्तेजोहीनो भवेत्किल ॥ २८॥ इति चिन्तापरा पुत्रमिन्द्रं चोवाच मानिनी । शत्रुस्तेऽद्य समुत्पन्नो दितिगर्भेऽतिवीर्यवान् ॥ २९॥ उपायं कुरु नाशाय शत्रोरद्य विचिन्त्य च । उत्पत्तिरेव हन्तव्या दित्या गर्भस्य शोभन ॥ ३०॥ वीक्ष्य तामसितापाङ्गीं सपत्नीभावमास्थिताम् । दुनोति हृदये चिन्ता सुखमर्मविनाशिनी ॥ ३१॥ राजयक्ष्मेव संवृद्धो नष्टो नैव भवेद्रिपुः । तस्मादङ्कुरितं हन्याद्बुद्धिमानहितं किल ॥ ३२॥ लोहशङ्कुरिव क्षिप्तो गर्भो वै हृदये मम । येन केनाप्युपायेन पातयाद्य शतक्रतो ॥ ३३॥ सामदानबलेनापि हिंसनीयस्त्वया सुतः । दित्या गर्भो महाभाग मम चेदिच्छसि प्रियम् ॥ ३४॥ व्यास उवाच । श्रुत्वा मातृवचः शक्रो विचिन्त्य मनसा ततः । जगामापरमातुः स समीपममराधिपः ॥ ३५॥ ववन्दे विनयात्पादौ दित्याः पापमतिर्नृप । प्रोवाच विनयेनासौ मधुरं विषगर्भितम् ॥ ३६॥ इन्द्र उवाच । मातस्त्वं व्रतयुक्तासि क्षीणदेहातिदुर्बला । सेवार्थमिह सम्प्राप्तः किं कर्तव्यं वदस्व मे ॥ ३७॥ पादसंवाहनं तेऽहं करिष्यामि पतिव्रते । गुरुशुश्रूषणात्पुण्यं लभते गतिमक्षयाम् ॥ ३८॥ न मे किमपि भेदोऽस्ति तथादित्या शपे किल । इत्युक्त्वा चरणौ स्पृष्टा संवाहनपरोऽभवत् ॥ ३९॥ संवाहनसुखं प्राप्य निद्रामाप सुलोचना । श्रान्ता व्रतकृशा सुप्ता विश्वस्ता परमा सती ॥ ४०॥ तां निद्रावशमापन्नां विलोक्य प्राविशत्तनुम् । रूपं कृत्वातिसूक्ष्मञ्च शस्त्रपाणिः समाहितः ॥ ४१॥ उदरं प्रविवेशाशु तस्या योगबलेन वै । गर्भं चकर्त वज्रेण सप्तधा पविनायकः ॥ ४२॥ रुरोद च तदा बालो वज्रेणाभिहतस्तथा । मा रुदेति शनैर्वाक्यमुवाच मघवानमुम् ॥ ४३॥ शकलानि पुनः सप्त सप्तधा कर्तितानि च । तदा चैकोनपञ्चाशन्मरुतश्चाभवन्नृप ॥ ४४॥ तदा प्रबुद्धा सुदती ज्ञात्वा गर्भं तथाकृतम् । इन्द्रेण छलरूपेण चुकोप भृशदुःखिता ॥ ४५॥ भगिनीकृतं तु सा बुद्ध्वा शशाप कुपिता तदा । अदितिं मघवन्तञ्च सत्यव्रतपरायणा ॥ ४६॥ यथा मे कर्तितो गर्भस्तव पुत्रेण छद्मना । तथा तन्नाशमायातु राज्यं त्रिभुवनस्य तु ॥ ४७॥ यथा गुप्तेन पापेन मम गर्भो निपातितः । अदित्या पापचारिण्या यथा मे घातितः सुतः ॥ ४८॥ तस्याः पुत्रास्तु नश्यन्तु जाता जाताः पुनः पुनः । कारागारे वसत्वेषा पुत्रशोकातुरा भृशम् ॥ ४९॥ अन्यजन्मनि चाप्येव मृतापत्या भविष्यति । व्यास उवाच । इत्युत्सृष्टं तदा श्रुत्वा शापं मरीचिनन्दनः ॥ ५०॥ उवाच प्रणयोपेतो वचनं शमयन्निव । मा कोपं कुरु कल्याणि पुत्रास्ते बलवत्तराः ॥ ५१॥ भविष्यन्ति सुराः सर्वे मरुतो मघवत्सखाः । शापोऽयं तव वामोरु त्वष्टाविंशेऽथ द्वापरे ॥ ५२॥ अंशेन मानुषं जन्म प्राप्य भोक्ष्यति भामिनी । वरुणेनापि दत्तोऽस्ति शापः सन्तापितेन च ॥ ५३॥ उभयोः शापयोगेन मानुषीयं भविष्यति । व्यास उवाच । पतिनाश्वासिता देवी सन्तुष्टा साभवत्तदा ॥ ५४॥ नोवाच विप्रियं किञ्चित्ततः सा वरवर्णिनी । इति ते कथितं राजन् पूर्वशापस्य कारणम् ॥ ५५॥ अदितिर्देवकी जाता स्वांशेन नृपसत्तम ॥ ५६॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे दित्या अदित्यै शापदानं नाम तृतीयोऽध्यायः ॥ ४.३॥

४.४ चतुर्थोऽध्यायः । अधमजगतः स्थितिवर्णनम् ।

राजोवाच । विस्मितोऽस्मि महाभाग श्रुत्वाख्यानं महामते । संसारोऽयं पापरूपः कथं मुच्येत बन्धनात् ॥ १॥ कश्यपस्यापि दायादस्त्रिलोकीविभवे सति । कृतवानीदृशं कर्म को न कुर्याज्जुगुप्सितम् ॥ २॥ गर्भे प्रविश्य बालस्य हननं दारुणं किल । सेवामिषेण मातुश्च कृत्वा शपथमद्भुतम् ॥ ३॥ शास्ता धर्मस्य गोप्ता च त्रिलोक्याः पतिरप्युत । कृतवानीदृशं कर्म को न कुर्यादसाम्प्रतम् ॥ ४॥ पितामहा मे सङ्ग्रामे कुरुक्षेत्रेऽतिदारुणम् । कृतवन्तस्तथाश्चर्यं दुष्टं कर्म जगद्गुरो ॥ ५॥ भीष्मोद्रोणः कृपः कर्णो धर्माशोऽपि युधिष्ठिरः । सर्वे विरुद्धधर्मेण वासुदेवेन नोदिताः ॥ ६॥ असारतां विजानन्तः संसारस्य सुमेधसः । देवांशाश्च कथं चक्रुर्निन्दितं धर्मतत्पराः ॥ ७॥ कास्था धर्मस्य विप्रेन्द्र प्रमाणं किं विनिश्चितम् । चलचित्तोऽस्मि सञ्जातः श्रुत्वा चैतत्कथानकम् ॥ ८॥ आप्तवाक्यं प्रमाणं चेदाप्तः कः परदेहवान् । पुरुषो विषयासक्तो रागी भवति सर्वथा ॥ ९॥ रागो द्वेषो भवेन्नूनमर्थनाशादसंशयम् । द्वेषादसत्यवचनं वक्तव्यं स्वार्थसिद्धये ॥ १०॥ जरासन्धविघातार्थं हरिणा सत्त्वमूर्तिना । छलेन रचितं रूपं ब्राह्मणस्य विजानता ॥ ११॥ तदाप्तः कः प्रमाणं किं सत्त्वमूर्तिरपीदृशः । अर्जुनोऽपि तथैवात्र कार्ये यज्ञविनिर्मिते ॥ १२॥ कीदृशोऽयं कृतो यज्ञः किमर्थं शमवर्जितः । परलोकपदार्थं वा यशसे वान्यथा किल ॥ १३॥ धर्मस्य प्रथमः पादः सत्यमेतच्छ्रुतेर्वचः । द्वितीयस्तु तथा शौचं दया पादस्तृतीयकः ॥ १४॥ दानं पादश्चतुर्थश्च पुराणज्ञा वदन्ति वै । तैर्विहीनः कथं धर्मस्तिष्ठेदिह सुसम्मतः ॥ १५॥ धर्महीनं कृतं कर्म कथं तत्फलदं भवेत् । धर्मे स्थिरा मतिः क्वापि न कस्यापि प्रतीयते ॥ १६॥ छलार्थञ्च यदा विष्णुर्वामनोऽभूज्जगत्प्रभुः । येन वामनरूपेण वञ्चितोऽसौ बलिर्नृपः ॥ १७॥ विहर्ता शतयज्ञस्य वेदाज्ञापरिपालकः । धर्मिष्ठो दानशीलश्च सत्यवादी जितेन्द्रियः ॥ १८॥ स्थानात्प्रभ्रंशितोऽकस्माद्विष्णुना प्रभविष्णुना । जितं केन तयोः कृष्ण बलिना वामनेन वा ॥ १९॥ छलकर्मविदा चायं सन्देहोऽत्र महान्मम । वञ्चयित्वा वञ्चितेन सत्यं वद द्विजोत्तम ॥ २०॥ पुराणकर्ता त्वमसि धर्मज्ञश्च महामतिः । व्यास उवाच । जितं वै बलिना राजन् दत्ता येन च मेदिनी ॥ २१॥ त्रिविक्रमोऽपि नाम्ना यः प्रथितो वामनोऽभवत् । छलनार्थमिदं राजन्वामनत्वं नराधिप ॥ २२॥ सम्प्राप्तं हरिणा भूयो द्वारपालत्वमेव च । सत्यादन्यतरन्नास्ति मूलं धर्मस्य पार्थिव ॥ २३॥ दुःसाध्यं देहिनां राजन्सत्यं सर्वात्मना किल । माया बलवती भूप त्रिगुणा बहुरूपिणी ॥ २४॥ ययेदं निर्मितं विश्वं गुणैः शबलितं त्रिभिः । तस्माच्छलवता सत्यं कुतोऽविद्धं भवेन्नृप ॥ २५॥ मिश्रेण जनिता चैव स्थितिरेषा सनातनी । वैखानसाश्च मुनयो निःसङ्गा निष्प्रतिग्रहाः ॥ २६॥ सत्ययुक्ता भवन्त्यत्र वीतरागा गतस्पृहाः । दृष्टान्तदर्शनार्थाय निर्मितास्ते च तादृशाः ॥ २७॥ अन्यत्सर्वं शबलितं गुणैरेभिस्त्रिभिनृप । नैकं वाक्यं पुराणेषु वेदेषु नृपसत्तम ॥ २८॥ धर्मशास्त्रेषु चाङ्गेषु सगुणै रचितेष्विह । सगुणः सगुणं कुर्यान्निर्गुणो न करोति वै ॥ २९॥ गुणास्ते मिश्रिताः सर्वे न पृथग्भावसङ्गताः । निर्व्यलीके स्थिरे धर्मे मतिः कस्यापि न स्थिरा ॥ ३०॥ भवोद्भवे महाराज मायया मोहितस्य वै । इन्द्रियाणि प्रमाथीनि तदासक्तं मनस्तथा ॥ ३१॥ करोति विविधान्भावान्गुणैस्तैः प्रेरितो भृशम् । ब्रह्मादिस्तम्बपर्यन्ताः प्राणिनः स्थिरजङ्गमाः ॥ ३२॥ सर्वे मायावशा राजन् सानुक्रीडति तैरिह । सर्वान्वै मोहयत्येषा विकुर्वत्यनिशं जगत् ॥ ३३॥ असत्यो जायते राजन्कार्यवान्प्रथमं नरः । इन्द्रियार्थांश्चिन्तयानो न प्राप्नोति यदा नरः ॥ ३४॥ तदर्थं छलमादत्ते छलात्पापे प्रवर्तते । कामः क्रोधश्च लोभश्च वैरिणो बलवत्तराः ॥ ३५॥ कृताकृतं न जानन्ति प्राणिनस्तद्वशं गताः । विभवे सत्यहङ्कारः प्रबलः प्रभवत्यपि ॥ ३६॥ अहङ्काराद्भवेन्मोहो मोहान्मरणमेव च । सङ्कल्पा बहवस्तत्र विकल्पाः प्रभवन्ति च ॥ ३७॥ ईर्ष्यासूया तथा द्वेषः प्रादुर्भवति चेतसि । आशा तृष्णा तथा दैन्यं दम्भोऽधर्ममतिस्तथा ॥ ३८॥ प्राणिनां प्रभवन्त्येते भावा मोहसमुद्भवाः । यज्ञदानानि तीर्थानि व्रतानि नियमास्तथा ॥ ३९॥ अहङ्काराभिभूतस्तु करोति पुरुषोऽन्वहम् । अहम्भावकृतं सर्वं प्रभवेद्वै न शौचवत् ॥ ४०॥ रागलोभात्कृतं कर्म सर्वाङ्गं शुद्धिवर्जितम् । प्रथमं द्रव्यशुद्धिश्च द्रष्टव्या विबुधैः किल ॥ ४१॥ अद्रोहेणार्जितं द्रव्यं प्रशस्तं धर्मकर्मणि । द्रोहार्जितेन द्रव्येण यत्करोति शुभं नरः ॥ ४२॥ विपरीतं भवेत्तत्तु फलकाले नृपोत्तम । मनोऽतिनिर्मलं यस्य स सम्यक्फलभाग्भवेत् ॥ ४३॥ तस्मिन्विकारयुक्ते तु न यथार्थफलं लभेत् । कर्तारः कर्मणां सर्वे आचार्यऋत्विजादयः ॥ ४४॥ स्युस्ते विशुद्धमनसस्तदा पूर्णं भवेत्फलम् । देशकालक्रियाद्रव्यकर्तॄणां शुद्धता यदि ॥ ४५॥ मन्त्राणां च तदा पूर्णं कर्मणां फलमश्नुते । शत्रूणां नाशमुद्दिश्य स्ववृद्धिं परमां तथा ॥ ४६॥ करोति सुकृतं तद्वद्विपरीतं भवेत्किल । स्वार्थासक्तः पुमान्नित्यं न जानाति शुभाशुभम् ॥ ४७॥ दैवाधीनः सदा कुर्यात्पापमेव न सत्कृतम् । प्राजापत्याः सुराः सर्वे ह्यसुराश्च तदुद्भवाः ॥ ४८॥ सर्वे ते स्वार्थनिरताः परस्परविरोधिनः । सत्त्वोद्भवाः सुराः सर्वेऽप्युक्ता वेदेषु मानुषाः ॥ ४९॥ रजोद्भवास्तामसास्तु तिर्यञ्चः परिकीर्तिताः । सत्त्वोद्भवानां तैर्वैरं परस्परमनारतम् ॥ ५०॥ तिरश्चामत्र किं चित्रं जातिवैरसमुद्भवे । सदा द्रोहपरा देवास्तपोविघ्नकरास्तथा ॥ ५१॥ असन्तुष्टा द्वेषपराः परस्परविरोधिनः । अहङ्कारसमुद्भूतः संसारोऽयं यतो नृप ॥ ५२॥ रागद्वेषविहीनस्तु स कथं जायते नृप ॥ ५३॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे अधमजगतः स्थितिवर्णनं नाम चतुर्थोऽध्यायः ॥ ४.४॥

४.५ पञ्चमोऽध्यायः । नरनारायणकथावर्णनम् ।

व्यास उवाच । अथ किं बहुनोक्तेन संसारेऽस्मिन्नृपोत्तम । धर्मात्माद्रोहबुद्धिस्तु कश्चिद्भवति कर्हिचित् ॥ १॥ रागद्वेषावृतं विश्वं सर्वं स्थावरजङ्गमम् । आद्ये युगेऽपि राजेन्द्र किमद्य कलिदूषिते ॥ २॥ देवाः सेर्ष्याश्च सद्रोहाश्छलकर्मरताः सदा । मानुषाणां तिरश्चां च का वार्ता नृप गण्यते ॥ ३॥ द्रोहपरे द्रोहपरो भवेदिति समानता । अद्रोहिणि तथा शान्ते विद्वेषः खलता स्मृता ॥ ४॥ यः कश्चित्तापसः शान्तो जपध्यानपरायणः । भवेत्तस्य जपे विघ्नकर्ता वै मघवा परम् ॥ ५॥ सतां सत्ययुगं साक्षात्सर्वदैवासतां कलिः । मध्यमो मध्यमानां तु क्रियायोगौ युगे स्मृतौ ॥ ६॥ कश्चित्कदाचिद्भवति सत्यधर्मानुवर्तकः । अन्यथान्ययुगानां वै सर्वे धर्मपरायणाः ॥ ७॥ वासना कारणं राजन् सर्वत्र धर्मसंस्थितौ । तस्यां वै मलिनायां तु धर्मोऽपि मलिनो भवेत् ॥ ८॥ मलिना वासना सत्यं विनाशायेति सर्वथा । ब्रह्मणो हृदयाज्जातः पुत्रो धर्म इति स्मृतः ॥ ९॥ ब्राह्मणः सत्यसम्पन्नो वेदधर्मरतः सदा । दक्षस्य दुहितारो हि वृता दश महात्मना ॥ १०॥ विवाहविधिना सम्यङ्मुनिना गृहधर्मिणा । तास्वजीजनयत्पुत्रान्धर्मः सत्यवतां वरः ॥ ११॥ हरिं कृष्णं नरं चैव तथा नारायणं नृप । योगाभ्यासरतो नित्यं हरिः कृष्णो बभूव ह ॥ १२॥ नरनारायणौ चैव चेरतुस्तप उत्तमम् । प्रालेयाद्रिं समागत्य तीर्थे बदरिकाश्रमे ॥ १३॥ तपस्विषु धुरीणौ तौ पुराणौ मुनिसत्तमौ । गृणन्तौ तत्परं ब्रह्म गङ्गाया विपुले तटे ॥ १४॥ हरेरंशौ स्थितौ तत्र नरनारायणावृषी । पूर्णं वर्षसहस्रं तु चक्राते तप उत्तमम् ॥ १५॥ तापितं च जगत्सर्वं तपसा सचराचरम् । नरनारायणाभ्यां च शक्रः क्षोभं तदा ययौ ॥ १६॥ चिन्ताविष्टः सहस्राक्षो मनसा समकल्पयत् । किं कर्तव्यं धर्मपुत्रौ तापसौ ध्यानसंयुतौ ॥ १७॥ सिद्धार्थां सुभृशं श्रेष्ठमासनं मे ग्रहीष्यतः । विघ्नः कथं प्रकर्तव्यस्तपो येन भवेन्न हि ॥ १८॥ उत्पाद्य कामं क्रोधञ्च लोभं वाप्यतिदारुणम् । इत्युद्दिश्य सहस्राक्षः समारुह्य गजोत्तमम् ॥ १९॥ विघ्नकामस्तु तरसा जगाम गन्धमादनम् । गत्वा तत्राश्रमे पुण्ये तावपश्यच्छतक्रतुः ॥ २०॥ तपसा दीप्तदेहौ तु भास्कराविव चोदितौ । ब्रह्मविष्णू किमेतौ वै प्रकटौ वा विभावसू ॥ २१॥ धर्मपुत्रावृषी एतौ तपसा किं करिष्यतः । इति सञ्चिन्त्य तौ दृष्ट्वा तदोवाच शचीपतिः ॥ २२॥ किं वा कार्यं महाभागौ ब्रूतं धर्मसुतौ किल । ददामि वां वरं श्रेष्ठं दातुं यातोऽस्म्यहमृषी ॥ २३॥ अदेयमपि दास्यामि तुष्टोऽस्मि तपसा किल । व्यास उवाच । एवं पुनः पुनः शक्रस्तावुवाच पुरः स्थितः ॥ २४॥ नोचतुस्तावृषी ध्यानसंस्थितौ दृढचेतसौ । ततो वै मोहिनीं मायां चकार भयदां वृषः ॥ २५॥ वृकान्सिंहांश्च व्याघ्रांश्च समुत्पाद्याबिभीषयत् । वर्षं वातं तथा वह्निं समुत्पाद्य पुनः पुनः ॥ २६॥ भीषयामास तौ शक्रो मायां कृत्वा विमोहिनीम् । भयतोऽपि वशं नीतौ न तौ धर्मसुतौ मुनी ॥ २७॥ नरनारायणौ दृष्ट्वा शक्रः स्वभवनं गतः । वरदाने प्रलुब्धौ न न भीतौ वह्निवायुतः ॥ २८॥ व्याघ्रसिंहादिभिः कान्तौ चलितौ नाश्रमात्स्वकात् । न तयोर्ध्यानभङ्गं वै कर्तुं कोऽपि क्षमोऽभवत् ॥ २९॥ इन्द्रोऽपि सदनं गत्वा चिन्तयामास दुःखितः । चलितौ भयलोभाभ्यां नेमौ मुनिवरोत्तमौ ॥ ३०॥ चिन्तयन्तौ महाविद्यामादिशक्तिं सनातनीम् । ईश्वरीं सर्वलोकानां परां प्रकृतिमद्भुताम् ॥ ३१॥ ध्यायतां कः क्षमो लोके बहुमायाविदप्युत । यन्मूलाः सकला माया देवासुरकृताः किल ॥ ३२॥ ते कथं बाधितुं शक्ता ध्यायन्ति गतकल्मषाः । वाग्बीजं कामबीजञ्च मायाबीजं तथैव च ॥ ३३॥ चित्ते यस्य भवेत्तं तु बाधितुं कोऽपि न क्षमः । मायया मोहितः शक्रो भूयस्तस्य प्रतिक्रियाम् ॥ ३४॥ कर्तुं कामवसन्तौ तु समाहूयाब्रवीद्वचः । मनोभव वसन्तेन रत्या युक्तो व्रजाधुना ॥ ३५॥ अप्सरोभिः समायुक्तस्तरसा गन्धमादनम् । नरनारायणौ तत्र पुराणावृषिसत्तमौ ॥ ३६॥ कुरुतस्तप एकान्ते स्थितौ बदरिकाश्रमे । गत्वा तत्र समीपे तु तयोर्मन्मथ मार्गणैः ॥ ३७॥ चित्तं कामातुरं कार्यं कुरु कार्यं ममाधुना । मोहयित्वोच्चाटयित्वा विशिखैस्ताडयाशु च ॥ ३८॥ वशीकुरु महाभाग मुनी धर्मसुतावपि । को ह्यस्मिन् सर्वसंसारे देवो दैत्योऽथ मानवः ॥ ३९॥ यस्ते बाणवशं प्राप्तो न याति भृशताडितः । ब्रह्माहं गिरिजानाथश्चन्द्रो वह्निर्विमोहितः ॥ ४०॥ गणना कानयोः काम त्वद्बाणानां पराक्रमे । वाराङ्गनागणोऽयं ते सहायार्थं मयेरितः ॥ ४१॥ आगमिष्यति तत्रैव रम्भादीनां मनोरमः । एका तिलोत्तमा रम्भा कार्यं साधयितुं क्षमा ॥ ४२॥ त्वमेवैकः क्षमः कामं मिलितैः कस्तु संशयः । कुरु कार्यं महाभाग ददामि तव वाञ्छितम् ॥ ४३॥ प्रलोभितौ मयात्यर्थं वरदानैस्तपस्विनौ । स्थानान्न चलितौ शान्तौ वृथायं मे गतः श्रमः ॥ ४४॥ तथा वै मायया कृत्वा भीषितौ तापसौ भृशम् । तथापि नोत्थितौ स्थानाद्देहरक्षापरौ न तौ ॥ ४५॥ व्यास उवाच । इति तस्य वचः श्रुत्वा शक्रं प्राह मनोभवः । वासवाद्य करिष्यामि कार्यं ते मनसेप्सितम् ॥ ४६॥ यदि विष्णुं महेशं वा ब्रह्माणं वा दिवाकरम् । ध्यायन्तौ तौ तदास्माकं भवितारौ वशौ मुनी ॥ ४७॥ देवीभक्तं वशीकर्तुं नाहं शक्तः कथञ्चन । कामराज महाबीजं चिन्तयन्तं मनस्यलम् ॥ ४८॥ तां देवीं चेन्महाशक्तिं संश्रितौ भक्तिभावतः । न तदा मम बाणानां गोचरौ तापसौ किल ॥ ४९॥ इन्द्र उवाच । गच्छ त्वं च महाभाग सर्वैस्तत्र समुद्यतैः । कार्यं ममातिदुःसाध्यं कर्ता हितमनुत्तमम् ॥ ५०॥ व्यास उवाच । इति तेन समादिष्टा ययुः सर्वे समुद्यताः । यत्र तौ धर्मपुत्रौ द्वौ तेपाते दुष्करं तपः ॥ ५१॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे नरनारायणकथावर्णनं नाम पञ्चमोऽध्यायः ॥ ४.५॥

४.६ षष्ठोऽध्यायः । अप्सरां नारायणसमीपे प्रार्थनाकरणम् ।

व्यास उवाच । प्रथमं तत्र सम्प्राप्तो वसन्तः पर्वतोत्तमे । पुष्पिताः पादपाः सर्वे द्विरेफालिविराजिताः ॥ १॥ आम्राश्च बकुला रम्यास्तिलकाः किंशुकाः शुभा । सालास्तालास्तमालाश्च मधूकाः पुष्पिता बभुः ॥ २॥ बभूवुः कोकिलालापा वृक्षाग्रेषु मनोहराः । वल्ल्योऽपि पुष्पिताः सर्वा आलिलिङ्गुर्नगोत्तमान् ॥ ३॥ प्राणिनः स्वासु भार्यासु प्रेमयुक्ताः स्मरातुराः । बभूवुश्चातिमत्ताश्च क्रीडासक्ताः परस्परम् ॥ ४॥ ववुर्मन्दाः सुगन्धाश्च सुस्पर्शा दक्षिणानिलाः । इन्द्रियाणि प्रमाथीनि मुनीनामपि चाभवन् ॥ ५॥ रतियुक्तस्ततः कामः पूरयन्पञ्चमार्गणान् । चकार त्वरितस्तत्र वासं बदरिकाश्रमे ॥ ६॥ रम्भा तिलोत्तमाद्याश्च गत्वा तत्र वराश्रमे । गानं चकुः सुगीतज्ञाः स्वरतानसमन्वितम् ॥ ७॥ तच्छ्रुत्वा मधुरोद्गीतं कोकिलानाञ्च कूजितम् । भ्रमरालिविरावञ्च प्रबुद्धौ तौ मुनीश्वरौ ॥ ८॥ ऋतुराजमकाले तु दृष्ट्वा तौ पुष्पितं वनम् । जातौ चिन्तापरौ तत्र नरनारायणावृषी ॥ ९॥ किमद्य शिशिरापायः सम्भृतः समयं विना । प्राणिनो विह्वलाः सर्वे लक्ष्यन्तेऽतिस्मरातुराः ॥ १०॥ कालधर्मविपर्यासः कथमद्य दुरासदः । नरं नारायणः प्राह विस्मयोत्कुल्ललोचनः ॥ ११॥ नारायण उवाच । पश्य भ्रातरिमे वृक्षाः पुष्पिताः प्रतिभान्ति वै । कोकिलालापसङ्घुष्टा भ्रमरालिविराजिताः ॥ १२॥ शिशिरं भीममातङ्गं दारयन्स्वखरैर्नखैः । वसन्तकेसरी प्राप्तः पलाशकुसुमैर्मुने ॥ १३॥ रक्ताशोककरा तन्वी देवर्षे किंशुकाङ्घ्रिका । नीलाशोककचा श्यामा विकासिकमलानना ॥ १४॥ नीलेन्दीवरनेत्रा सा बिल्ववृक्षफलस्तनी । प्रोस्फुल्लकुन्दरदना मञ्जरीकर्णशोभिता ॥ १५॥ बन्धुजीवाधरा शुभ्रा सिन्धुवारनखोद्भवा । पुंस्कोकिलस्वरा पुण्या कदम्बवसना शुभा ॥ १६॥ बर्हिवृन्दकलापा च सारसस्वननूपुरा । वासन्ती बद्धरशना मत्तहंसगतिस्तथा ॥ १७॥ पुत्रजीवांशुकन्यस्तरोमराजिविराजिता । वसन्तलक्ष्मीः सम्प्राप्ता ब्रह्मन् बदरिकाश्रमे ॥ १८॥ अकाले किमियं प्राप्ता विस्मयोऽयं ममाधुना । तपोविघ्नकरा नूनं देवर्षे परिचिन्तय ॥ १९॥ श्रूयते सुरनारीणां गानं ध्यानविनाशनम् । आवयोस्तपिभङ्गाय कृतं मघवता किल ॥ २०॥ ऋतुराडन्यथाकाले प्रीतिं सञ्जनयेत्कथम् । विघ्नोऽयं विहितो भाति भीतेनासुरशत्रुणा ॥ २१॥ वाताः सुगन्धाः शीताश्च समायान्ति मनोहराः । नान्यत्कारणमस्तीह शतक्रतुकृतिं विना ॥ २२॥ इति ब्रुवति विप्राग्र्ये देवे नारायणे विभौ । सर्वे दृष्टिपथं प्राप्ता मन्मथप्रमुखास्तदा ॥ २३॥ ददर्श भगवान्सर्वान्नरो नारायणस्तथा । विस्मयाविष्टमनसौ बभूवतुरुभावपि ॥ २४॥ मन्मथं मेनकां चैव रम्भां चैव तिलोत्तमाम् । पुष्पगन्धां सुकेशीं च महाश्वेतां मनोरमाम् ॥ २५॥ प्रमद्वरां धृताचीञ्च गीतज्ञां चारुहासिनीम् । चन्द्रप्रभां च सोमां च कोकिलालापमण्डिताम् ॥ २६॥ विद्युन्मालाम्बुजाक्ष्यौ च तथा काञ्चनमालिनीम् । एताश्चान्या वरारोहा दृष्टास्ताभ्यां तदान्तिके ॥ २७॥ तासां द्व्यष्टसहस्राणि पञ्चाशदधिकानि च । वीक्ष्य तौ विस्मितौ जातौ कामसैन्यं सुविस्तरम् ॥ २८॥ प्रणम्याग्रे स्थिताः सर्वा देववाराङ्गनास्तदा । दिव्याभरणभूषाढ्या दिव्यमालोपशोभिताः ॥ २९॥ जगुश्छलेन ताः सर्वाः पृथिव्यामतिदुर्लभम् । तत्तथावस्थितं दिव्यं मन्मथादिविवर्धनम् ॥ ३०॥ शुश्राव भगवान्विष्णुर्नरो नारायणस्तदा । श्रुत्वा प्रोवाच तास्तत्र प्रीत्या नारायणो मुनिः ॥ ३१॥ आस्यतां सुखमत्रैव करोम्यातिथ्यमद्भुतम् । भवत्योऽतिथिधर्मेण प्राप्ताःस्वर्गात्सुमध्यमाः ॥ ३२॥ व्यास उवाच । साभिमानस्तु सञ्चातस्तदा नारायणो मुनिः । इन्द्रेण प्रेषिता नूनं तथा विघ्नचिकीर्षया ॥ ३३॥ वराक्यः का इमाः सर्वाः सृजाम्यद्य नवाः किल । एताभ्यो दिव्यरूपाश्च दर्शयामि तपोबलम् ॥ ३४॥ इति सञ्चिन्त्य मनसा करेणोरुं प्रताड्य वै । तरसोत्पादयामास नारीं सर्वाङ्गसुन्दरीम् ॥ ३५॥ नारायणोरुसम्भूता ह्युर्वशीति ततः शुभा । ददृशुस्ताः स्थितास्तत्र विस्मयं परमं ययुः ॥ ३६॥ तासां च परिचर्यार्थं तावतीश्चातिसुन्दरीः । प्रादुश्चकार तरसा तदा मुनिरसम्भ्रमः ॥ ३७॥ गायन्त्यश्च हसन्त्यश्च नानोपायनपाणयः । प्रणेमुस्ता मुनी सर्वाः स्थिताः कृत्वाञ्जलिं पुरः ॥ ३८॥ तां वीक्ष्य विभ्रमकरीं तपसो विभूतिम् ॥ देवाङ्गना हि मुमुहुः प्रविमोहयन्त्यः । ऊचुश्च तौ प्रमुदिताननपद्यशोभा रोमोद्गमोल्लसितचारुनिजाङ्गवल्ल्यः ॥ ३९॥ कुर्युः कथं स्तुतिमहो तपसो महत्त्वं धैर्यं तथैव भवतामभिवीक्ष्य बालाः । अस्मत्कटाक्षविषदिग्धशरेण दग्धः को वा न तत्र भवतां मनसो व्यथा न ॥ ४०॥ ज्ञातौ युवां नरहरेः परमांशभूतौ देवौ मुनी शमदमादिनिधी सदैव । सेवानिमित्तमिह नो गमनं न कामं कार्यं हरेः शतमखस्य विधातुमेव ॥ ४१॥ भाग्येन केन युवयोः किल दर्शनं नः सम्पादितं न विदितं खलु सञ्चितं तत् । चित्तं क्षमं निजजने विहितं युवाभ्या- मस्मद्विधे किल कृतागसि तापमुक्तम् ॥ ४२॥ कुर्वन्ति नैव विबुधास्तपसो व्ययं वै शापेन तुच्छफलदेन महानुभावाः । व्यास उवाच । इत्थं निशम्य वचनं सुरकामिनीनां तावूचतुर्मुनिवरौ विनयानतानाम् ॥ ४३॥ प्रीतौ प्रसन्नवदनौ जितकामलोभौ धर्मात्मजौ निजतपोरुचिशोभिताङ्गौ । नरनारायणावूचतुः ब्रुवन्तु वाञ्छितान् कामान्ददावस्तुष्टमानसौ ॥ ४४॥ यान्तु स्वर्गं गहीत्वेमामुर्वशीं चारुलोचनाम् । उपायनमियं बाला गच्छत्वद्य मनोहरा ॥ ४५॥ दत्तावाभ्यां मघवतः प्रीणनायोरुसम्भवा । स्वस्त्यस्तु सर्वदेवेभ्यो यथेष्टं प्रव्रजन्तु च ॥ ४६॥ (न कस्यापि तपोविघ्नं प्रकर्तव्यमतः परं ।)॥ देव्य ऊचुः । क्व गच्छामो महाभाग प्राप्तास्ते पादपङ्कजम् । नारायण सुरश्रेष्ठ भक्त्या परमया मुदा ॥ ४७॥ वाञ्छितं चेद्वरं नाथ ददासि मधुसूदन । तुष्टः कमलपत्राक्ष ब्रवीमो मनसेप्सितम् ॥ ४८॥ पतिस्त्वं भव देवेश वरमेनं परन्तप । भवामः प्रीतियुक्तास्त्वां सेवितुं जगदीश्वर ॥ ४९॥ त्वया चोत्पादिता नार्यः सन्त्यन्याश्चारुलोचनाः । उर्वश्याद्यास्तथा यान्तु स्वर्गं वै भवदाज्ञया ॥ ५०॥ स्त्रीणां षोडशसाहस्रं तिष्ठत्वत्र शतार्धकम् । सेवां तेऽत्र करिष्यामो युवयोस्तापसोत्तमौ ॥ ५१॥ वाञ्छितं देहि देवेश सत्यवाग्भव माधव । आशाभङ्गो हि नारीणां हिंसनं परिकीर्तितम् ॥ ५२॥ कामार्तानाञ्च मुनिभिर्धर्मज्ञैस्तत्त्वदर्शिभिः । भाग्ययोगादिह प्राप्ताः स्वर्गात्प्रेमपरिप्लुताः ॥ ५३॥ त्यक्तुं नार्हसि देवेश समर्थोऽसि जगत्पते । नारायण उवाच । पूर्णं वर्षसहस्रं तु तपस्तप्तं मयात्र वै ॥ ५४॥ जितेन्द्रियेण चार्वङ्ग्यः कथं भङ्गं करोम्यतः । नेच्छा कामे सुखे काचित्सुखधर्मविनाशके ॥ ५५॥ पशूनामपि साधर्म्ये रमेत मतिमान्कथम् । अप्सरस ऊचुः । शब्दादीनां च पञ्चानां मध्ये स्पर्शसुखं वरम् ॥ ५६॥ आनन्दरसमूलं वै नान्यदस्ति सुखं किल । अतोऽस्माकं महाराज वचनं कुरु सर्वथा ॥ ५७॥ निर्भरं सुखमासाद्य चरस्व गन्धमादने । यदि वाञ्छसि नाकत्वं नाधिको गन्धमादनात् ॥ ५८॥ रमस्वात्र शुभे स्थाने प्राप्य सर्वाः सुराङ्गनाः ॥ ५९॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे अप्सरसां नारायणसमीपे प्रार्थनाकरणं नाम षष्ठोऽध्यायः ॥ ४.६॥

४.७ सप्तमोऽध्यायः । अहङ्कारावर्तनवर्णनम् ।

व्यास उवाच । इत्याकर्ण्य वचस्तासां धर्मपुत्रः प्रतापवान् । विमर्शमकरोच्चित्ते किं कर्तव्यं मयाधुना ॥ १॥ हास्योऽहं मुनिवृन्देषु भविष्याम्यद्य सङ्गमात् । अहङ्कारादिदं प्राप्तं दुःखं नात्र विचारणा । मूलं धर्मविनाशस्य प्रथमं यदहङ्कृतिः ॥ २॥ मूलं संसारवृक्षस्य यतः प्रोक्तो महात्मभिः । दृष्ट्वा मौनं समाधाय न स्थितोऽहं समागतम् ॥ ३॥ वाराङ्गनागणं जुष्टं तेनासं दुःखभाजनम् । उत्पादितास्तथा नार्यो मया धर्मव्ययेन वै ॥ ४॥ तास्तु मां बाधितुं वृत्ताः कामार्ताः प्रमदोत्तमाः । ऊर्णनाभिरिवाद्याहं जालेन स्वकृतेन वै ॥ ५॥ बद्धोऽस्मि सुदृढेनात्र किं कर्तव्यमतः परम् । यदि चिन्तां समुत्सृज्य सन्त्यजाम्यबला इमाः ॥ ६॥ शप्त्वा भ्रष्टा व्रजिष्यन्ति सर्वा भग्नमनोरथाः । मुक्तोऽहं सञ्चरिष्यामि विजने परमं तपः ॥ ७॥ तस्मात्क्रोधं समुत्पाद्य त्यक्ष्यामि सुन्दरीगणम् । व्यास उवाच । इति सञ्चिन्त्य मनसा मुनिर्नारायणस्तदा ॥ ८॥ विमर्शमकरोच्चित्ते सुखोत्पादनसाधने । द्वितीयोऽयं महाशत्रुः क्रोधः सन्तापकारकः ॥ ९॥ कामादप्यधिको लोके लोभादपि च दारुणः । क्रोधाभिभूतः कुरुते हिंसां प्राणविघातिनीम् ॥ १०॥ दुःखदां सर्वभूतानां नरकारामदीर्घिकाम् । यथाग्निर्घर्षणाज्जातः पादपं प्रदहेत्तथा ॥ ११॥ देहोत्पन्नस्तथा क्रोधो देहं दहति दारुणः । व्यास उवाच । इति सञ्चिन्त्यमानं तं भ्रातरं दीनमानसम् ॥ १२॥ उवाच वचनं तथ्यं नरो धर्मसुतोऽनुजः । नर उवाच । नारायण महाभाग कोपं यच्छ महामते ॥ १३॥ शान्तं भावं समाश्रित्य नाशयाहङ्कृतिं पराम् । पुराहङ्कारदोषेण तपो नष्टं किलावयोः ॥ १४॥ सङ्ग्रामश्चाभवत्ताभ्यां भावाभ्यामसुरेण ह । दिव्यवर्षसहस्रं तु प्रह्लादेन महाद्भुतम् ॥ १५॥ दुःखं बहुतरं प्राप्तं तत्रावाभ्यां सुरोत्तम । तस्मात्क्रोधं परित्यज्य शान्तो भव मुनीश्वर ॥ १६॥ (शान्तत्वं तपसो मूलं मुनिभिः परिकीर्तितं ।)॥ व्यास उवाच । इति तस्य वचः श्रुत्वा शान्तोऽभूद्धर्मनन्दनः । जनमेजय उवाच । संशयोऽयं मुनिश्रेष्ठ प्रह्लादेन महात्मना ॥ १७॥ विष्णुभक्तेन शान्तेन कथं युद्धं कृतं पुरा । कृतवन्तौ कथं युद्धं नरनारायणावृषी ॥ १८॥ तापसौ धर्मपुत्रौ द्वौ सुशान्तमानसावुभौ । समागमः कथं जातस्तयोर्दैत्यसुतस्य च ॥ १९॥ सङ्ग्रामस्तु कथं ताभ्यां कृतस्तेन महात्मना । प्रह्लादोऽप्यतिधर्मात्मा ज्ञानवान्विष्णुतत्परः ॥ २०॥ नरनारायणौ तद्वत्तापसौ सत्त्वसंस्थितौ । तेन ताभ्यां समुद्भूतं वैरं यदि परस्परम् ॥ २१॥ तदा तपसि धर्मे च श्रम एव हि केवलम् । क्व जपः क्व तपश्चर्या पुरा सत्ययुगेऽपि च ॥ २२॥ तादृशैर्न जितं चित्तं क्रोधाहङ्कारसंवृतम् । न क्रोधो न च मात्सर्यमहङ्काराङ्कुरं विना ॥ २३॥ अहङ्कारात्समुत्पन्नाः कामक्रोधादयः किल । वर्षकोटिसहस्रं तु तपः कृत्वातिदारुणम् ॥ २४॥ अहङ्काराङ्कुरे जाते व्यर्थं भवति सर्वथा । यथा सूर्योदये जाते तमोरूपं न तिष्ठति ॥ २५॥ अहङ्काराङ्कुरस्याग्रे तथा पुण्यं न तिष्ठति । प्रह्लादोऽपि महाभाग हरिणा समयुध्यत ॥ २६॥ तदा व्यर्थं कृतं सर्वं सुकृतं किल भूतले । नरनारायणौ शान्तौ विहाय परमं तपः ॥ २७॥ कृतवन्तौ यदा युद्धं क्व शमः सुकृतं पुनः । ईदृग्भ्यां सत्त्वयुक्ताभ्यामजेया यद्यहङ्कृतिः ॥ २८॥ मादृशानाञ्ज का वार्ता मुनेऽहङ्कारसङ्क्षये । अहङ्कारपरित्यक्तो न कोऽप्यस्ति जगत्त्रये ॥ २९॥ न भूतो भविता नैव यस्त्यक्तस्तेन सर्वथा । मुच्यते लोहनिगडैर्बद्धः काष्ठमयैस्तथा ॥ ३०॥ अहङ्कारनिबद्धस्तु न कदाचिद्विमुच्यते । अहङ्कारावृतं सर्वं जगत्स्थावरजङ्गमम् ॥ ३१॥ भ्रमत्येव हि संसारे विष्ठामूत्रप्रदूषिते । ब्रह्मज्ञानं कुतस्तावत्संसारे मोहसंवृते ॥ ३२॥ मतं मीमांसकानां वै सम्मतं भाति सुव्रत । महान्तोऽपि सदा युक्ताः कामक्रोधादिभिर्मुने ॥ ३३॥ मादृशानां कलावस्मिन्का कथा मुनिसत्तम । व्यास उवाच । कार्यं वै कारणाद्भिन्नं कथं भवति भारत ॥ ३४॥ कटकं कुण्डलञ्चैव सुवर्णसदृशं भवेत् । अहङ्कारोद्भवं सर्वं ब्रह्माण्डं सचराचरम् ॥ ३५॥ पटस्तन्तुवशः प्रोक्तस्तद्वियुक्तः कथं भवेत् । मायागुणैस्त्रिभिः सर्वं रचितं स्थिरजङ्गमम् ॥ ३६॥ सतृणस्तम्बपर्यन्तं का तत्र परिदेवना । ब्रह्मा विष्णुस्तथा रुद्रस्ते चाहङ्कारमोहिताः ॥ ३७॥ भ्रमन्त्यस्मिन्महागाधे संसारे नृपसत्तम । वसिष्ठनारदाद्याश्च मुनयो ज्ञानिनः परम् ॥ ३८॥ तेऽभिभूताः संसरन्ति संसारेऽस्मिन्पुनः पुनः । न कोऽप्यस्ति नृपश्रेष्ठ त्रिषु लोकेषु देहभृत् ॥ ३९॥ एभिर्मायागुणैर्मुक्तः शान्त आत्मसुखे स्थितः । कामक्रोधौ तथा लोभो मोहोऽहङ्कारसम्भवः ॥ ४०॥ न मुञ्चन्ति नरं सर्वं देहवन्तं नृपोत्तम । अधीत्य वेदशास्त्राणि पुराणानि विचिन्त्य च ॥ ४१॥ कृत्वा तीर्थाटनं दानं ध्यानञ्चैव सुरार्चनम् । करोति विषयासक्तः सर्वं कर्म च चौरवत् ॥ ४२॥ विचारयति नो पूर्वं काममोहमदान्वितः । कृते युगेऽपि त्रेतायां द्वापरे कुरुनन्दन ॥ ४३॥ विद्धोऽत्रास्ति च धर्मोऽपि का कथाद्य कलौ पुनः । स्पर्धा सदैव सद्रोहा लोभामर्षौ च सर्वदा ॥ ४४॥ एवंविधोऽस्ति संसारो नात्र कार्या विचारणा । साधवो विरला लोके भवन्ति गतमत्सराः ॥ ४५॥ जितक्रोधा जितामर्षा दृष्टान्तार्थं व्यवस्थिताः । राजोवाच । ते धन्याः कृतपुण्यास्ते मदमोहविवर्जिताः ॥ ४६॥ जितेन्द्रियाः सदाचारा जितं तैर्भुवनत्रयम् । दुनोमि पातकं स्मृत्वा पितुर्मम महात्मनः ॥ ४७॥ कृतस्तपस्विनः कण्ठे मृतसर्पो ह्यघं विना । अतस्तस्य मुनिश्रेष्ठ भविता किं ममाग्रतः ॥ ४८॥ न जाने बुद्धिसम्मोहात्किं वा कार्यं भविष्यति । मधु पश्यति मूढात्मा प्रपातं नैव पश्यति ॥ ४९॥ करोति निन्दितं कर्म नरकान्न बिभेति च । कथं युद्धं पुरा वृत्तं विस्तरात्तद्वदस्व मे ॥ ५०॥ प्रह्लादेन यथा चोग्रं नरनारायणस्य वै । प्रह्लादस्तु कथं यातः पातालात्तद्वदस्व मे ॥ ५१॥ सारस्वते महातीर्थे पुण्ये बदरिकाश्रमे । नरनारायणौ शान्तौ तापसौ मुनिसत्तमौ ॥ ५२॥ कृतवन्तौ तथा युद्धं हेतुना केन मानद । वैरं भवति वित्तार्थं दारार्थं वा परस्परम् ॥ ५३॥ एषणारहितौ कस्माच्चक्रतुः प्रधनं महत् । प्रह्लादोऽपि च धर्मात्मा ज्ञात्वा देवौ सनातनौ ॥ ५४॥ कृतवान्स कथं युद्धं नरनारायणौ मुनी । एतद्विस्तरतो ब्रह्मञ्छ्रोतुमिच्छामि कारणम् ॥ ५५॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे अहङ्कारावर्तनवर्णनं नाम सप्तमोऽध्यायः ॥ ४.७॥

४.८ अष्टमोऽध्यायः । प्रह्लादतीर्थयात्रावर्णनम् ।

सूत उवाच । इति पृष्टस्तदा विप्रो राज्ञा पारीक्षितेन वै । उवाच विस्तरात्सर्वं व्यासः सत्यवतीसुतः ॥ १॥ जनमेजयोऽपि धर्मात्मा निर्वेदं परमं गतः । चित्तं दुश्चरितं मत्वा वैराटीतनयस्य वै ॥ २॥ तस्यैवोद्धरणार्थाय चकार सततं मनः । विप्रावमानपापेन यमलोकं गतस्य वै ॥ ३॥ पुन्नामनरकाद्यस्मात्त्रायते पितरं स्वकम् । पुत्रेति नाम सार्थं स्यात्तेन तस्य मुनीश्वराः ॥ ४॥ सर्पदष्टं नृपं श्रुत्वा हर्म्योपरि मृतं तथा । विप्रशापादौत्तरेयं स्नानदानविवर्जितम् ॥ ५॥ पितुर्गतिं निशम्यासौ निर्वेदं गतवान्नृपः । पारीक्षितो महाभागः सन्तप्तो भयविह्वलः ॥ ६॥ पप्रच्छाथ मुनिं व्यासं गृहागतमनिन्दितः । नरनारायणस्येमां कथां परमविस्मृताम् ॥ ७॥ व्यास उवाच । स यदा निहतो रौद्रो हिरण्यकशिपुर्नृप । अभिषिक्तस्तदा राज्ये प्रह्लादो नाम तत्सुतः ॥ ८॥ तस्मिञ्छासति दैत्येन्द्रे देवब्राह्मणपूजके । मखैर्भूमौ नृपतयो यजन्तः श्रद्धयान्विताः ॥ ९॥ ब्राह्मणाश्च तपोधर्मतीर्थयात्राश्च कुर्वते । वैश्याश्च स्वस्ववृत्तिस्थाः शूद्राः शुश्रूषणे रताः ॥ १०॥ नृसिंहेन च पाताले स्थापितः सोऽथ दैत्यराट् । राज्यं चकार तत्रैव प्रजापालनतत्परः ॥ ११॥ कदाचिद् भृगुपुत्रोऽथ च्यवनाख्यो महातपाः । जगाम नर्मदां स्नातुं तीर्थं वै व्याहृतीश्वरम् ॥ १२॥ रेवां महानदीं दृष्ट्वा ततस्तस्यामवातरत् । उत्तरन्तं प्रजग्राह नागो विषभयङ्करः ॥ १३॥ गृहीतो भयभीतस्तु पाताले मुनिसत्तमः । सस्मार मनसा विष्णुं देवदेवं जनार्दनम् ॥ १४॥ संस्मृते पुण्डरीकाक्षे निर्विषोऽभून्महोरगः । न प्राप च्यवनो दुःखं नीयमानो रसातलम् ॥ १५॥ द्विजिह्वेन मुनिस्त्यक्तो निर्विण्णेनातिशङ्किना । मां शपेत मुनिः कुद्धस्तापसोऽयं महानिति ॥ १६॥ चचार नागकन्याभिः पूजितो मुनिसत्तमः । विवेशाप्यथ नागानां दानवानां महत्पुरम् ॥ १७॥ कदाचिद्भृगुपुत्रं तं विचरन्तं पुरोत्तमे । ददर्श दैत्यराजोऽसौ प्रह्लादो धर्मवत्सलः ॥ १८॥ दृष्ट्वा तं पूजयामास मुनिं दैत्यपतिस्तदा । पप्रच्छ कारणं किं ते पातालागमने वद ॥ १९॥ प्रेषितोऽसि किमिन्द्रेण सत्यं ब्रूहि द्विजोत्तम । दैत्यविद्वेषयुक्तेन मम राज्यदिदृक्षया ॥ २०॥ च्यवन उवाच । किं मे मघवता राजन् यदहं प्रेषितः पुनः । दूतकार्यं प्रकुर्वाणः प्राप्तवान्नगरे तव ॥ २१॥ विद्धि मां भृगुपुत्रं तं स्वनेत्रं धर्मतत्परम् । मा शङ्कां कुरु दैत्येन्द्र वासवप्रेषितस्य वै ॥ २२॥ स्नानार्थं नर्मदां प्राप्तः पुण्यतीर्थे नृपोत्तम । नद्यामेवावतीर्णोऽहं गृहीतश्च महाहिना ॥ २३॥ जातोऽसौ निर्विषः सर्पो विष्णोः संस्मरणादिव । मुक्तोऽहं तेन नागेन प्रभावात्स्मरणस्य वै ॥ २४॥ अत्रागतेन राजेन्द्र मयाप्तं तव दर्शनम् । विष्णुभक्तोऽसि दैत्येन्द्र तद्भक्तं मां विचिन्तय ॥ २५॥ व्यास उवाच । तन्निशम्य वचः श्लक्ष्णं हिरण्यकशिपोः सुतः । पप्रच्छ परया प्रीत्या तीर्थानि विविधानि च ॥ २६॥ प्रह्लाद उवाच । पृथिव्यां कानि तीर्थानि पुण्यानि मुनिसत्तम । पाताले च तथाकाशे तानि नो वद विस्तरात् ॥ २७॥ च्यवन उवाच । मनोवाक्कायशुद्धानां राजंस्तीर्थं पदे पदे । तथा मलिनचित्तानां गङ्गापि कीकटाधिका ॥ २८॥ प्रथमं चेन्मनः शुद्धं जातं पापविवर्जितम् । तदा तीर्थानि सर्वाणि पावनानि भवन्ति वै ॥ २९॥ गङ्गातीरे हि सर्वत्र वसन्ति नगराणि च । व्रजाश्चैवाकरा ग्रामाः सर्वे खेटास्तथापरे ॥ ३०॥ निषादानां निवासाश्च कैवर्तानां तथापरे । हूणबङ्गखसानां च म्लेच्छानां दैत्यसत्तम ॥ ३१॥ पिबन्ति सर्वदा गाङ्गं जलं ब्रह्मोपमं सदा । स्नानं कुर्वन्ति दैत्येन्द्र त्रिकालं स्वेच्छया जनाः ॥ ३२॥ तत्रैकोऽपि विशुद्धात्मा न भवत्येव मारिष । किं फलं तर्हि तीर्थस्य विषयोपहतात्मसु ॥ ३३॥ कारणं मन एवात्र नान्यद्राजन्विचिन्तय । मनःशुद्धिं प्रकर्तव्या सततं शुद्धिमिच्छता ॥ ३४॥ तीर्थवासी महापापी भवेत्तत्रात्मवञ्चनात् । तत्रैवाचरितं पापमानन्त्याय प्रकल्पते ॥ ३५॥ यथेन्द्रवारुणं पक्वं मिष्टं नैवोपजायते । भावदुष्टस्तथा तीर्थे कोटिस्तातो न शुध्यति ॥ ३६॥ प्रथमं मनसः शुद्धिः कर्तव्या शुभमिच्छता । शुद्धे मनसि द्रव्यस्य शुद्धिर्भवति नान्यथा ॥ ३७॥ तथैवाचारशुद्धिः स्यात्ततस्तीर्थं प्रसिध्यति । अन्यथा तु कृतं सर्वं व्यर्थं भवति तत्क्षणात् ॥ ३८॥ (हीनवर्णस्य संसर्गं तीर्थे गत्वा सदा त्यजेत् ।)॥ भूतानुकम्पनं चैव कर्तव्यं कर्मणा धिया । यदि पृच्छसि राजेन्द्र तीर्थं वक्ष्याम्यनुत्तमम् ॥ ३९॥ प्रथमं नैमिषं पुण्यं चक्रतीर्थं च पुष्करम् । अन्येषां चैव तीर्थानां सङ्ख्या नास्ति महीतले ॥ ४०॥ पावनानि च स्थानानि बहूनि नृपसत्तम । व्यास उवाच । तच्छ्रुत्वा वचनं राजा नैमिषं गन्तुमुद्यतः ॥ ४१॥ नोदयामास दैत्यान्वै हर्षनिर्भरमानसः । प्रह्लाद उवाच । उत्तिष्ठन्तु महाभागा गमिष्यामोऽद्य नैमिषम् ॥ ४२॥ द्रक्ष्यामः पुण्डरीकाक्षं पीतवाससमच्युतम् । व्यास उवाच । इत्युक्ता विष्णुभक्तेन सर्वे ते दानवास्तदा ॥ ४३॥ तेनैव सह पातालान्निर्ययुः परया मुदा । ते समेत्य च दैतेया दानवाश्च महाबलाः ॥ ४४॥ नैमिषारण्यमासाद्य स्नानं चक्रुर्मुदान्विताः । प्रह्लादस्तत्र तीर्थेषु चरन्दैत्यैः समन्वितः ॥ ४५॥ सरस्वतीं महापुण्यां ददर्श विमलोदकाम् । तीर्थे तत्र नृपश्रेष्ठ प्रह्लादस्य महात्मनः ॥ ४६॥ मनः प्रसन्नं सञ्जातं स्नात्वा सारस्वते जले । विधिवत्तत्र दैत्येन्द्रः स्नानदानादिकं शुभे ॥ ४७॥ चकारातिप्रसन्नात्मा तीर्थे परमपावने ॥ ४८॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे प्रह्लादतीर्थयात्रावर्णनं नामाष्टमोऽध्यायः ॥ ४.८॥

४.९ नवमोऽध्यायः । प्रह्लादनारायणयोर्युद्धे विष्णोरागमनवर्णनम् ।

व्यास उवाच । कुर्वंस्तीर्थविधिं तत्र हिरण्यकशिपोः सुतः । न्यग्रोधं सुमहच्छायमपश्यत्पुरतस्तदा ॥ १॥ ददर्श बाणानपरान्नानाजातीयकांस्तदा । गृध्रपक्षयुतांस्तीव्राच्छिलाधौतान्महोज्वलान् ॥ २॥ चिन्तयामास मनसा कस्येमे विशिखास्त्विह । ऋषीणामाश्रमे पुण्ये तीर्थे परमपावने ॥ ३॥ एवं चिन्तयतानेन कृष्णाजिनधरौ मुनी । समुन्नतजटाभारौ दृष्टौ धर्मसुतौ तदा ॥ ४॥ तयोरग्रे धृते शुभ्रे धनुषी लक्षणान्विते । शार्ङ्गमाजगवञ्चैव तथाक्षय्यौ महेषुधी ॥ ५॥ ध्यानस्थौ तौ महाभागौ नरनारायणावृषी । दृष्ट्वा धर्मसुतौ तत्र दैत्यानामधिपस्तदा ॥ ६॥ क्रोधरक्तेक्षणस्तौ तु प्रोवाचासुरपालकः । किं भवद्भ्यां समारब्धो दम्भो धर्मविनाशनः ॥ ७॥ न श्रुतं नैव दृष्टं हि संसारेऽस्मिन्कदापि हि । तपसश्चरणं तीव्रं तथा चापस्य धारणम् ॥ ८॥ विरोधोऽयं युगे चाद्ये कथं युक्तं कलिप्रियम् । ब्राह्मणस्य तपो युक्तं तत्र किं चापधारणम् ॥ ९॥ क्व जटाधारणं देहे क्वेषुधी च विडम्बनौ । धर्मस्याचरणं युक्तं युवयोर्दिव्यभावयोः ॥ १०॥ व्यास उवाच । इति तस्य वचः श्रुत्वा नरः प्रोवाच भारत । का ते चिन्तात्र दैत्येन्द्र वृथा तपसि चावयोः ॥ ११॥ सामर्थ्ये सति यत्कुर्यात्तत्सम्पद्येत तस्य हि । आवां कार्यद्वये मन्द समर्थौ लोकविश्रुतौ ॥ १२॥ युद्धे तपसि सामर्थ्यं त्वं पुनः किं करिष्यसि । गच्छ मार्गे यथाकामं कस्मादत्र विकत्थसे ॥ १३॥ ब्रह्मतेजो दुराराध्यं न त्वं वेद विमोहितः । विप्रचर्चा न कर्तव्या प्राणिभिः सुखमीप्सुभिः ॥ १४॥ प्रह्लाद उवाच । तापसौ मन्दबुद्धी स्थो मृषा वां गर्वमोहितौ । मयि तिष्ठति दैत्येन्द्रे धर्मसेतुप्रवर्तके ॥ १५॥ न युक्तमेतत्तीर्थेऽस्मिन्नधर्माचरणं पुनः । का शक्तिस्तव युद्धेऽस्ति दर्शयाद्य तपोधन ॥ १६॥ व्यास उवाच । तदाकर्ण्य वचस्तस्य नरस्तं प्रत्युवाच ह । युद्धस्वाद्य मया सार्धं यदि ते मतिरीदृशी ॥ १७॥ अद्य ते स्फोटयिष्यामि मूर्धानमसुराधम । (युद्धे श्रद्धा न ते पश्चाद्भविष्यति कदाचन ।)॥ व्यास उवाच । तन्निशम्य वचस्तस्य दैत्येन्द्रः कुपितस्तदा ॥ १८॥ प्रह्लादो बलवानत्र प्रतिज्ञामारुरोह सः । येन केनाप्युपायेन जेष्यामि तावुभावपि ॥ १९॥ नरनारायणौ दान्तावृषी तपिसमन्वितौ । व्यास उवाच । इत्युक्त्वा वचनं दैत्यः प्रतिगृह्य शरासनम् ॥ २०॥ आकृष्य तरसा चापं ज्याशब्दञ्च चकार ह । नरोऽपि धनुरादाय शरांस्तीव्राञ्छिलाशितान् ॥ २१॥ मुमोच बहुशः कोधात्प्रह्लादोपरि पार्थिव ॥ २२॥ तान्दैत्यराजस्तपनीयपुङ्खै- श्चिच्छेद बाणैस्तरसा समेत्य । समीक्ष्य छिन्नांश्च नरः स्वसृष्टा- नन्यान्मुमोचाशु रुषान्वितो वै ॥ २३॥ दैत्याथिपस्तानपि तीव्रवेगै- श्छित्त्वा जघानोरसि तं मुनीन्द्रम् । नरोऽपि तं पञ्चभिराशुगैश्च कुद्धोऽहनद्दैत्यपतिं बाहुदेशे ॥ २४॥ सेन्द्राः सुरास्तत्र तयोर्हि युद्धं द्रष्टुं विमानैर्गगनस्थिताश्च । नरस्य वीर्यं युधि संस्थितस्य ते तुष्टुवुर्दैत्यपतेश्च भूयः ॥ २५॥ ववर्ष दैत्याधिप आत्तचापः शिलीमुखानम्बुधरो यथापः । आदाय शार्ङ्ग धनुरप्रमेयं मुमोच बाणाञ्छितहेमपुङ्खान् ॥ २६॥ बभूव युद्धं तुमुलं तयोस्तु जयैषिणोः पार्थिव देवदैत्ययोः । ववर्षुराकाशपथे स्थितास्ते पुष्पाणि दिव्यानि प्रहृष्टचित्ताः ॥ २७॥ चुकोप दैत्याधिपतिर्हरौ स मुमोच बाणानतितीव्रवेगान् । चिच्छेद तान्धर्मसुतः सुतीक्ष्णै- र्धनुर्विमुक्तैर्विशिखैस्तदाऽऽशु ॥ २८॥ ततो नारायणं बाणैः प्रह्लादश्चातिकर्षितैः । ववर्ष सुस्थितं वीरं धर्मपुत्रं सनातनम् । नारायणोऽपि तं वेगान्मुक्तैर्बाणैः शिलाशितैः ॥ २९॥ तुतोदातीव पुरतो दैत्यानामधिपं स्थितम् । सन्निपातोऽम्बरे तत्र दिदृक्षूणां बभूव ह ॥ ३०॥ देवानां दानवानाञ्च कुर्वतां जयघोषणम् । उभयोः शरवर्षेण छादिते गगने तदा ॥ ३१॥ दिवापि रात्रिसदृशं बभूव तिमिरं महत् । ऊचुः परस्परं देवा दैत्याश्चातीव विस्मिताः ॥ ३२॥ अदृष्टपूर्वं युद्धं वै वर्ततेऽद्य सुदारुणम् । देवर्षयोऽथ गन्धर्वा यक्षकिन्नरपन्नगाः ॥ ३३॥ विद्याधराश्चारणाश्च विस्मयं परमं ययुः । नारदः पर्वतश्चैव प्रेक्षणार्थं स्थितौ मुनी ॥ ३४॥ नारदः पर्वतं प्राह नेदृशं चाभवत्पुरा । तारकासुरयुद्धञ्च तथा वृत्रासुरस्य च ॥ ३५॥ मधुकैटभयोर्युद्धं हरिणा चेदृशं कृतम् । प्रह्लादः प्रबलः शूरो यस्मान्नारायणेन च ॥ ३६॥ करोति सदृशं युद्धं सिद्धेनाद्भुतकर्मणा । व्यास उवाच । दिने दिने तथा रात्रौ कृत्वा कृत्वा पुनः पुनः ॥ ३७॥ चक्रतुः परमं युद्धं तौ तदा दैत्यतापसौ । नारायणस्तु चिच्छेद प्रह्लादस्य शरासनम् ॥ ३८॥ तरसैकेन बाणेन स चान्यद्धनुराददे । नारायणस्तु तरसा मुक्त्वान्यञ्च शिलीमुखम् ॥ ३९॥ तदैव मध्यतश्चापं चिच्छेद लघुहस्तकः । छिन्नं छिन्नं पुनर्दैत्यो धनुरन्यत्समाददे ॥ ४०॥ नारायणस्तु चिच्छेद विशिखैराशु कोपितः । छिन्ने धनुषि दैत्येन्द्रः परिघं तु समाददे ॥ ४१॥ जघान धर्मजं तूर्णं बाह्वोर्मध्येऽतिकोपनः । तमायान्तं स बलवान्मार्गणैर्नवभिर्मुनिः ॥ ४२॥ चिच्छेद परिघं घोरं दशभिस्तमताडयत् । गदामादाय दैत्येन्द्रः सर्वायसमयीं दृढाम् ॥ ४३॥ जानुदेशे जघानाशु देवं नारायणं रुषा । गदया चापि गिरिवत्संस्थितः स्थिरमानसः ॥ ४४॥ धर्मपुत्रोऽतिबलवान्मुमोचाशु शिलीमुखान् । गदां चिच्छेद भगवांस्तदा दैत्यपतेर्दृढाम् ॥ ४५॥ विस्मयं परमं जग्मुः प्रेक्षका गगने स्थिताः । स तु शक्तिं समादाय प्रह्लादः परवीरहा ॥ ४६॥ चिक्षेप तरसा क्रुद्धो बलान्नारायणोरसि । तामापतन्तीं संवीक्ष्य बाणेनैकेन लीलया ॥ ४७॥ सप्तधा कृतवानाशु सप्तभिस्तं जघान ह । दिव्यवर्षशतं चैव तद्युद्धं परमं तयोः ॥ ४८॥ जातं विस्मयदं राजन् सर्वेषां तत्र चाश्रमे । तदाऽऽजगाम तरसा पीतवासाश्चतुर्भुजः ॥ ४९॥ प्रह्लादस्याश्रमं तत्र जगाम च गदाधरः । चतुर्भुजो रमाकान्तो रथाङ्गदरपद्मभृत् ॥ ५०॥ दृष्ट्वा तमागतं तत्र हिरण्यकशिपोः सुतः । प्रणम्य परया भक्त्या प्राञ्जलिः प्रत्युवाच ह ॥ ५१॥ प्रह्लाद उवाच । देवदेव जगनाथ भक्तवत्सल माधव । कथं न जितवानाजावहमेतौ तपस्विनौ । सङ्ग्रामस्तु मया देव कृतः पूर्णं शतं समाः ॥ ५२॥ सुराणां न जितौ कस्मादिति मे विस्मयो महान् । विष्णुरुवाच । सिद्धाविमौ मदंशौ च विस्मयः कोऽत्र मारिष ॥ ५३॥ तापसौ न जितात्मानौ नरनारायणौ जितौ । गच्छ त्वं वितलं राजन् कुरु भक्तिं ममाचलाम् ॥ ५४॥ नाभ्यां कुरु विरोधं त्वं तापसाभ्यां महामते । व्यास उवाच । इत्याज्ञप्तो दैत्यराजो निर्ययावसुरैः सह ॥ ५५॥ नरनारायणौ भूयस्तपोयुक्तौ बभूवतुः ॥ ५६॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे प्रह्लादनारायणयोर्युद्धे विष्णोरागमनवर्णनं नाम नवमोऽध्यायः ॥ ४.९॥

४.१० दशमोऽध्यायः । भृगुशापकारणवर्णनम् ।

जनमेजय उवाच । सन्देहोऽयं महानत्र पाराशर्य कथानके । नरनारायणौ शान्तौ वैष्णवांशौ तपोधनौ ॥ १॥ तीर्थाश्रयौ सत्त्वयुक्तौ वन्याशनपरौ सदा । धर्मपुत्रौ महात्मानौ तापसौ सत्यसंस्थितौ ॥ २॥ कथं रागसमायुक्तौ जातौ युद्धे परस्परम् । सङ्ग्रामं चक्रतुः कस्मात्त्यक्त्वा तपिमनुत्तमाम् ॥ ३॥ प्रह्लादेन समं पूर्णं दिव्यवर्षशतं किल । हित्वा शान्तिसुखं युद्धं कृतवन्तौ कथं मुनी ॥ ४॥ कथं तौ चक्रतुर्युद्धं प्रह्लादेन समं मुनी । कथयस्व महाभाग कारणं विग्रहस्य वै ॥ ५॥ (कामिनी कनकं कार्यं कारणं विग्रहस्य वै)॥ युद्धबुद्धिः कथं जाता तयोश्च तद्विरक्तयोः । तथाविधं तपस्तप्तं ताभ्याञ्च केन हेतुना ॥ ६॥ मोहार्थं सुखभोगार्थं स्वर्गार्थं वा परन्तप । कृतमत्युत्कटं ताभ्यां तपः सर्वफलप्रदम् ॥ ७॥ मुनिभ्यां शान्तचित्ताभ्यां प्राप्तं किं फलमद्भुतम् । तपसा पीडितो देहः सङ्ग्रामेण पुनः पुनः ॥ ८॥ दिव्यवर्षशतं पूर्णं श्रमेण परिपीडितौ । न राज्यार्थे धने वापि न दारेषु गृहेषु च ॥ ९॥ किमर्थं तु कृतं युद्धं ताभ्यां तेन महात्मना । निरीहः पुरुषः कस्मात्प्रकुर्याद्युद्धमीदृशम् ॥ १०॥ दुःखदं सर्वथा देहे जानन्धर्मं सनातनम् । सुबुद्धिः सुखदानीह कर्माणि कुरुते सदा ॥ ११॥ न दुःखदानि धर्मज्ञ स्थितिरेषा सनातनी । धर्मपुत्रौ हरेरंशौ सर्वज्ञौ सर्वभूषितौ ॥ १२॥ कृतवन्तौ कथं युद्धं दुःखं धर्मविनाशकम् । त्यक्त्वा तपः समाधीतं सुखारामं महत्फलम् ॥ १३॥ संयुगं दारुणं कृष्ण नैव मूर्खोऽपि वाञ्छति । श्रुतो मया ययातिस्तु च्युतः स्वर्गान्महीपतिः ॥ १४॥ अहङ्कारभवात्पापात्पातितः पृथिवीतले । यज्ञकृद्दानकर्ता च धार्मिकः पृथिवीपतिः ॥ १५॥ शब्दोच्चारणमात्रेण पातितो वज्रपाणिना । अहङ्कारमृते युद्धं न भवत्येव निश्चयः ॥ १६॥ किं फलं तस्य युद्धस्य मुनेः पुण्यविनाशनम् । व्यास उवाच । राजन् संसारमूलं हि त्रिविधः परिकीर्तितः ॥ १७॥ अहङ्कारस्तु सर्वज्ञैर्मुनिभिर्धर्मनिश्चये । स कथं मुनिना त्यक्तुं योग्यो देहभृता किल ॥ १८॥ कारणेन विना कार्यं न भवत्येव निश्चयः । तपो दानं तथा यज्ञाः सात्त्विकात्प्रभवन्ति ते ॥ १९॥ राजसाद्वा महाभाग तामसात्कलहस्तथा । क्रिया स्वल्पापि राजेन्द्र नाहङ्कारं विना क्वचित् ॥ २०॥ शुभा वाप्यशुभा वापि प्रभवत्यपि निश्चयः । अहङ्काराद् बन्धकारी नान्योऽस्ति जगतीतले ॥ २१॥ येनेदं रचितं विश्वं कथं तद्रहितं भवेत् । ब्रह्मा रुद्रस्तथा विष्णुरहङ्कारयुतास्त्वमी ॥ २२॥ अन्येषां चैव का वार्ता मुनीनां वसुधाधिप । अहङ्कारावृतं विश्वं भ्रमतीदं चराचरम् ॥ २३॥ पुनर्जन्म पुनर्मृत्युः सर्वं कर्मवशानुगम् । देवतिर्यङ्मनुष्याणां संसारेऽस्मिन्महीपते ॥ २४॥ रथाङ्गवदसर्वार्थं भ्रमणं सर्वदा स्मृतम् । विष्णोरप्यवताराणां सङ्ख्यां जानाति कः पुमान् ॥ २५॥ विततेऽस्मिंस्तु संसारे उत्तमाधमयोनिषु । नारायणो हरिः साक्षान्मात्स्यं वपुरुपाश्रितः ॥ २६॥ कामठं सौकरं चैव नारसिंहञ्च वामनम् । युगे युगे जगन्नाथो वासुदेवो जनार्दनः ॥ २७॥ अवतारानसङ्ख्यातान्करोति विधियन्त्रितः । वैवस्वते महाराज सप्तमे भगवान्हरिः ॥ २८॥ मन्वन्तरेऽवतारान्वै चक्रे ताञ्छ्रुणु तत्त्वतः । भृगुशापान्महाराज विष्णुर्देववरः प्रभुः ॥ २९॥ अवताराननेकांस्तु कृतवानखिलेश्वरः । राजोवाच । सन्देहोऽयं महाभाग हृदये मम जायते ॥ ३०॥ भृगुणा भगवान्विष्णुः कथं शप्तः पितामह । हरिणा च मुनेस्तस्य विप्रियं किं कृतं मुने ॥ ३१॥ यद्रोषाद् भृगुणा शप्तो विष्णुर्देवनमस्कृतः । व्यास उवाच । श‍ृणु राजन्प्रवक्ष्यामि भृगोः शापस्य कारणम् ॥ ३२॥ पुरा कश्यपदायादो हिरण्यकशिपुर्नृपः । यदा तदा सुरैः सार्धं कृतं सङ्ख्यं परस्परम् ॥ ३३॥ कृते सङ्ख्ये जगत्सर्वं व्याकुलं समजायत । हते तस्मिन्नृपे राजा प्रह्लादः समजायत ॥ ३४॥ देवान्स पीडयामास प्रह्लादः शत्रुकर्षणः । सङ्ग्रामो ह्यभवद् घोरः शक्रप्रह्लादयोस्तदा ॥ ३५॥ पूर्णं वर्षशतं राजँल्लोकविस्मयकारकम् । देवैर्युद्धं कृतं चोग्रं प्रह्रादस्तु पराजितः ॥ ३६॥ निर्वेदं परमं प्राप्तो ज्ञात्वा धर्मं सनातनम् । विरोचनसुतं राज्ये प्रतिष्ठाप्य बलिं नृप ॥ ३७॥ जगाम स तपस्तप्तुं पर्वते गन्धमादने । प्राप्य राज्यं बलिः श्रीमान्सुरैर्वैरं चकार ह ॥ ३८॥ यतः परस्परं युद्धं जातं परमदारुणम् । ततः सुरैर्जिता दैत्या इन्द्रेणामिततेजसा ॥ ३९॥ विष्णुना च सहायेन राज्यभ्रष्टाः कृता नृप । ततः पराजिता दैत्याः काव्यस्य शरणं गताः ॥ ४०॥ किं त्वं न कुरुषे ब्रह्मन् साहाय्यं नः प्रतापवान् । स्थातुं न शक्नुमो ह्यत्र प्रविशामो रसातलम् ॥ ४१॥ यदि त्वं न सहायोऽसि त्रातुं मन्त्रविदुत्तम । व्यास उवाच । इत्युक्तः सोऽब्रवीद्दैत्यान्काव्यः कारुणिको मुनिः ॥ ४२॥ मा भैष्ट धारयिष्यामि तेजसा स्वेन भोऽसुराः । मन्त्रैस्तथौषधीभिश्च साहाय्यं वः सदैव हि ॥ ४३॥ करिष्यामि कृतोत्साहा भवन्तु विगतज्वराः । व्यास उवाच । ततस्ते निर्भया जाता दैत्याः काव्यस्य संश्रयात् ॥ ४४॥ देवैः श्रुतस्तु वृत्तान्तः सर्वैश्चारमुखात्किल । तत्र सम्मन्त्र्य ते देवाः शक्रेण च परस्परम् ॥ ४५॥ मन्त्रं चक्रुः सुसंविग्नाः काव्यमन्त्रप्रभावतः । योद्धुं गच्छामहे तूर्णं यावन्न च्यावयन्ति वै ॥ ४६॥ प्रसह्य हत्वा शिष्टांस्तु पातालं प्रापयामहे । दैत्याञ्जग्मुस्ततो देवाः संरुष्टाः शस्त्रपाणयः ॥ ४७॥ जग्मुस्तान्विष्णुसहिता दानवान् हरिणोदिताः । वध्यमानास्तु ते दैत्याः सन्त्रस्ता भयपीडिताः ॥ ४८॥ काव्यस्य शरणं जग्मू रक्ष रक्षेति चाब्रुवन् । ताञ्छुक्रः पीडितान्दृष्ट्वा देवैर्दैत्यान्महाबलान् ॥ ४९॥ मा भैष्टेति वचः प्राह मन्त्रौषधिबलाद्विभुः । दृष्ट्वा काव्यं सुराः सर्वे त्यक्त्वा तान्प्रययुः किल ॥ ५०॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे भृगुशापकारणवर्णनं नाम दशमोऽध्यायः ॥ ४.१०॥

४.११ एकादशोऽध्यायः । शुक्रमातुर्वधवर्णनम् ।

व्यास उवाच । तथा गतेषु देवेषु काव्यस्तान्प्रत्युवाच ह । ब्रह्मणा पूर्वमुक्तं यच्छ्रुणुध्वं दानवोत्तमाः ॥ १॥ विष्णुर्दैत्यवधे युक्तो हनिष्यति जनार्दनः । वाराहरूपं संस्थाय हिरण्याक्षो यथा हतः ॥ २॥ यथा नृसिंहरूपेण हिरण्यकशिपुर्हतः । तथा सर्वान्कृतोत्साहो हनिष्यति न चान्यथा ॥ ३॥ न मे मन्त्रबलं सम्यक्प्रतिभाति यथा हरिम् । जेतुं यूयं समर्थाः स्थ मया त्राताः सुरानथ ॥ ४॥ तस्मात्कालं प्रतीक्षध्वं कियन्तं दानवोत्तमाः । अहमद्य महादेवं मन्त्रार्थं प्रव्रजामि वै ॥ ५॥ प्राप्य मन्त्रान्महादेवादागमिष्यामि साम्प्रतम् । युष्मभ्यं तान्प्रदास्यामि यथार्थं दानवोत्तमाः ॥ ६॥ दैत्या ऊचुः । पराजिताः कथं स्थातुं पृथिव्यां मुनिसत्तम । शक्ता भवामोऽप्यबलास्तावत्कालं प्रतीक्षितुम् ॥ ७॥ निहता बलिनः सर्वे केचिच्छिष्टाश्च दानवाः । नाद्य युक्ताश्च सङ्ग्रामे स्थातुमेवं सुखावहाः ॥ ८॥ शुक्र उवाच । यावदहं मन्त्रविद्यामानयिष्यामि शङ्करात् । तावद्भवद्भिः स्थातव्यं तपोयुक्तैः शमान्वितैः ॥ ९॥ सामदानादयः प्रोक्ता विद्वद्भिः समयोचिताः । देशं कालं बलं वीरैर्ज्ञात्वा शक्तिं बलं बुधैः ॥ १०॥ सेवाथ समये कार्या शत्रूणां शुभकाम्यया । स्वशक्त्युपचये काले हन्तव्यास्ते मनीषिभिः ॥ ११॥ तदद्य विनयं कृत्वा सामपूर्वं छलेन वै । तिष्ठध्वं स्वनिकेतेषु मदागमनकाङ्क्षया ॥ १२॥ प्राप्य मन्त्रान्महादेवादागमिष्यामि दानवाः । युध्यामहे पुनर्देवान्मान्त्रमास्थाय वै बलम् ॥ १३॥ इत्युक्त्वाथ भृगुस्तेभ्यो जगाम कृतनिश्चयः । महादेवं महाराज मन्त्रार्थं मुनिसत्तमः ॥ १४॥ दानवाः प्रेषयामासुः प्रह्लादं सुरसन्निधौ । सत्यवादिनमव्यग्रं सुराणां प्रत्ययप्रदम् ॥ १५॥ प्रह्लादस्तु सुरान्प्राह प्रश्रयावनतो नृपः । असुरैः सहितस्तत्र वचनं नम्रतायुतम् ॥ १६॥ न्यस्तशस्त्रा वयं सर्वे निःसन्नाहास्तथैव च । देवास्तपश्चरिष्यामः संवृता वल्कलैर्युताः ॥ १७॥ प्रह्लादस्य वचः श्रुत्वा सत्याभिव्याहृतं तु तत् । ततो देवा न्यवर्तन्त विज्वरा मुदिताश्च ते ॥ १८॥ न्यस्तशस्त्रेषु दैत्येषु विनिवृत्तास्तदा सुराः । विश्रब्धाः स्वगृहान्गत्वा क्रीडासक्ताः सुसंस्थिताः ॥ १९॥ दैत्या दम्भं समालम्ब्य तापसास्तपिसंयुताः । कश्यपस्याश्रमे वासं चक्रुः काव्यागमेच्छया ॥ २०॥ काव्यो गत्वाथ कैलासं महादेवं प्रणम्य च । उवाच विभुना पृष्टः किं ते कार्यमिति प्रभुः ॥ २१॥ मन्त्रानिच्छाम्यहं देव ये न सन्ति बृहस्पतौ । पराजयाय देवानामसुराणां जयाय च ॥ २२॥ व्यास उवाच । तच्छ्रुत्वा वचनं तस्य सर्वज्ञः शङ्करः शिवः । चिन्तयामास मनसा किं कर्तव्यमतः परम् ॥ २३॥ सुरेषु द्रोहबुद्ध्यासौ मन्त्रार्थमिह साम्प्रतम् । प्राप्तः काव्यो गुरुस्तेषां दैत्यानां विजयाय च ॥ २४॥ रक्षणीया मया देवा इति सञ्चिन्त्य शङ्करः । दुष्करं व्रतमत्युग्रं तमुवाच महेश्वरः ॥ २५॥ पूर्णं वर्षसहस्रं तु कणधूममवाक्छिराः । यदि पास्यसि भद्रं ते ततो मन्त्रानवाप्स्यसि ॥ २६॥ इत्युक्तोऽसौ प्रणम्येशं बाढमित्यब्रवीद्वचः । व्रतं चराम्यहं देव त्वयाज्ञप्तः सुरेश्वर ॥ २७॥ व्यास उवाच । इत्युक्त्वा शङ्करं काव्यश्चकार व्रतमुत्तमम् । धूमपानरतः शान्तो मन्त्रार्थं कृतनिश्चयः ॥ २८॥ ततो देवाः परिज्ञाय काव्यं व्रतरतं तदा । दैत्यान्दम्भरतांश्चैव बभूवुर्मन्त्रतत्पराः ॥ २९॥ विचार्य मनसा सर्वे सङ्ग्रामायोद्यता नृप । ययुर्धृतायुधास्तत्र यत्र ते दानवोत्तमाः ॥ ३०॥ तानागतान्समीक्ष्याथ सायुधान्दंशितांस्तथा । आसंस्ते भयसंविग्ना दैत्या देवान्समन्ततः ॥ ३१॥ उत्पेतुः सहसा ते वै सन्नद्धान्भयकर्शिताः । अब्रुवन्वचनं तथ्यं ते देवान्वलदर्पितान् ॥ ३२॥ न्यस्तशस्त्रे भयवति आचार्ये व्रतमास्थिते । दत्त्वाभयं पुरा देवाः सम्प्राप्ता नो जिघांसया ॥ ३३॥ सत्यं वः क्व गतं देवा धर्मश्च श्रुतिनोदितः । न्यस्तशस्त्रा न हन्तव्या भीताश्च शरणं गताः ॥ ३४॥ देवा ऊचुः । भवद्भिः प्रेषितः काव्यो मन्त्रार्थं कुहकेन च । तपो ज्ञातं हि युष्माकं तेन युध्याम एव हि ॥ ३५॥ सज्जा भवन्तु युद्धाय संरब्धाः शस्त्रपाणयः । शत्रुश्छिद्रेण हन्तव्य एष धर्मः सनातनः ॥ ३६॥ व्यास उवाच । तच्छ्रुत्वा वचनं दैत्या विचार्य च परस्परम् । पलायनपराः सर्वे निर्गता भयविह्वलाः ॥ ३७॥ शरणं दानवा जग्मुर्भीतास्ते काव्यमातरम् । दृष्ट्वा तानतिसन्तप्तानभयं च ददावथ ॥ ३८॥ काव्यमातोवाच । न भेतव्यं न भेतव्यं भयं त्यजत दानवाः । मत्सन्निधौ वर्तमानान्न भीर्भवितुमर्हति ॥ ३९॥ तच्छ्रुत्वा वचनं दैत्याः स्थितास्तत्र गतव्यथाः । निरायुधा ह्यसम्भ्रान्तास्तत्राश्रमवरेऽसुराः ॥ ४०॥ देवास्तान्विद्रुतान्वीक्ष्य दानवास्ते पदानुगाः । अभिजग्मुः प्रसह्यैतानविचार्य बलाबलम् ॥ ४१॥ तत्रागताः सुराः सर्वे हन्तुं दैत्यान्समुद्यताः । वारिताः काव्यमात्रापि जघ्नुस्तानाश्रमस्थितान् ॥ ४२॥ हन्यमानान्सुरैर्दृष्ट्वा काव्यमातातिवेपिता । उवाच सर्वान्सनिद्रांस्तपसा वै करोम्यहम् ॥ ४३॥ इत्युक्त्वा प्रेरिता निद्रा तानागत्य पपात च । सेन्द्रा निद्रावशं याता देवा मूकवदास्थिताः ॥ ४४॥ इन्द्रं निद्राजितं दृष्ट्वा दीनं विष्णुरभाषत । मां त्वं प्रविश भद्रं ते नये त्वां च सुरोत्तम ॥ ४५॥ एवमुक्तस्ततो विष्णुं प्रविवेश पुरन्दरः । निर्भयो गतनिद्रश्च बभूव हरिरक्षितः ॥ ४६॥ रक्षितं हरिणा दृष्ट्वा शक्रं तत्र गतव्यथम् । काव्यमाता ततः क्रुद्धा वचनं चेदमब्रवीत् ॥ ४७॥ मघवंस्त्वां भक्षयामि सविष्णुं वै तपोबलात् । पश्यतां सर्वदेवानामीदृशं मे तपोबलम् ॥ ४८॥ व्यास उवाच । इत्युक्तौ तु तया देवौ विष्ण्विन्द्रौ योगविद्यया । अभिभूतौ महात्मानौ स्तब्धौ तौ सम्बभूवतुः ॥ ४९॥ विस्मितास्तु तदा देवा दृष्ट्वा तावतिबाधितौ । चक्रुः किलकिलाशब्दं ततस्ते दीनमानसाः ॥ ५०॥ क्रोशमानान्सुरान्दृष्ट्वा विष्णुं प्राह शचीपतिः । विशेषेणाभिभूतोऽस्मि त्वत्तोऽहं मधुसूदन ॥ ५१॥ जह्येनां तरसा विष्णो यावन्नौ न दहेत्प्रभो । तपसा दर्पितां दुष्टां मा विचारय माधव ॥ ५२॥ इत्युक्तो भगवान्विष्णुः शक्रेण प्रथितेन च । चक्रं सस्मार तरसा घृणां त्यक्त्वाथ माधवः ॥ ५३॥ स्मृतमात्रं तु सम्प्राप्तं चक्रं विष्णुवशानुगम् । दधार च करे क्रुद्धो वधार्थं शक्रनोदितः ॥ ५४॥ गृहीत्वा तत्करे चक्रं शिरश्चिच्छेद रंहसा । हतां दृष्ट्वा तु तां शक्रो मुदितश्चाभवत्तदा ॥ ५५॥ देवाश्चातीव सन्तुष्टा हरिं जय जयेति च । तुष्टुवुर्मुदिताः सर्वे सञ्जाता विगतज्वराः ॥ ५६॥ इन्द्रविष्णू तु सञ्जातौ तत्क्षणाद्धृदयव्यथौ । स्त्रीवधाच्छङ्कमानौ तु भृगोः शापं दुरत्ययम् ॥ ५७॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे शुक्रमातुर्वधवर्णनं नामेकादशोऽध्यायः ॥ ४.११॥

४.१२ द्वादशोऽध्यायः । जयन्त्या शुक्रसहवासवर्णनम् ।

व्यास उवाच । तं दृष्ट्वा तु वधं घोरं चुक्रोध भगवान्भृगुः । वेपमानोऽतिदुःखार्तः प्रोवाच मधुसूदनम् ॥ १॥ भृगुरुवाच । अकृत्यं ते कृतं विष्णो जानन्पापं महामते । वधोऽयं विप्रजाताया मनसा कर्तुमक्षमः ॥ २॥ आख्यातस्त्वं सत्त्वगुणः स्मृतो ब्रह्मा च राजसः । तथासौ तामसः शम्भुर्विपरीतं कथं स्मृतम् ॥ ३॥ तामसस्त्वं कथं जातः कृतं कर्मातिनिन्दितम् । अवध्या स्त्री त्वया विष्णो हता कस्मान्निरागसा ॥ ४॥ शपामि त्वां दुराचारं किमन्यत्प्रकरोमि ते । विधुरोऽहं कृतः पाप त्वयाहं शक्रकारणात् ॥ ५॥ न शपेऽहं तथा शक्रं शपे त्वां मधुसूदन । सदा छलपरोऽसि त्वं कीटयोनिर्दुराशयः ॥ ६॥ ये च त्वां सात्त्विकं प्राहुस्ते मूर्खा मुनयः किल । तामसस्त्वं दुराचारः प्रत्यक्षं मे जनार्दन ॥ ७॥ अवतारा मृत्युलोके सन्तु मच्छापसम्भवाः । प्रायो गर्भभवं दुःखं भुङ्क्ष्व पापाज्जनार्दन ॥ ८॥ व्यास उवाच । ततस्तेनाथ शापेन नष्टे धर्मे पुनः पुनः । लोकस्य च हितार्थाय जायते मानुषेष्विह ॥ ९॥ राजोवाच । भूगुभार्या हता तत्र चक्रेणामिततेजसा । गार्हस्थ्यञ्च पुनस्तस्य कथं जातं महात्मनः ॥ १०॥ व्यास उवाच । इति शप्त्वा हरिं रोषात्तदादाय शिरस्त्वरन् । काये संयोज्य तरसा भृगुः प्रोवाच कार्यवित् ॥ ११॥ अद्य त्वां विष्णुना देवि हतां सञ्जीवयाम्यहम् । यदि कृत्स्नो मया धर्मो ज्ञायते चरितोऽपि वा ॥ १२॥ तेन सत्येन जीवेत यदि सत्यं ब्रवीम्यहम् । पश्यन्तु देवताः सर्वा मम तेजोबलं महत् ॥ १३॥ अद्भिस्त्वां प्रोक्ष्य शीताभिर्जीवयामि तपोबलात् । सत्यं शौचं तथा वेदा यदि मे तपसो बलम् ॥ १४॥ व्यास उवाच । अद्भिः सम्प्रोक्षिता देवी सद्यः सञ्जीविता तदा । उत्थिता परमप्रीता भृगोर्भार्या शुचिस्मिता ॥ १५॥ ततस्तां सर्वभूतानि दृष्ट्वा सुप्तोत्थितामिव । साधु साध्विति तं तां तु तुष्टुवुः सर्वतो दिशम् ॥ १६॥ एवं सञ्चीविता तेन भृगुणा वरवर्णिनी । विस्मयं परमं जग्मुर्देवाः सेन्द्रा विलोक्य तत् ॥ १७॥ इन्द्रः सुरानथोवाच मुनिना जीविता सती । काव्यस्तप्त्वा तपो घोरं किं करिष्यति मन्त्रवित् ॥ १८॥ व्यास उवाच । गता निद्रा सुरेन्द्रस्य देहेऽक्षेममभून्नृप । स्मृत्वा काव्यस्य वृत्तान्तं मन्त्रार्थमतिदारुणम् ॥ १९॥ विमृश्य मनसा शक्रो जयन्तीं स्वसुतां तदा । उवाच कन्यां चार्वङ्गीं स्मितपूर्वमिदं वचः ॥ २०॥ गच्छ पुत्रि मया दत्ता काव्याय त्वं तपस्विने । समाराधय तन्वङ्गि मत्कृते तं वशं कुरु ॥ २१॥ उपचारैर्मुनिं तैस्तैः समाराध्य मनःप्रियैः । भयं मे तरसा गत्वा हर तत्र वराश्रमे ॥ २२। सा पितुर्वचनं श्रुत्वा तत्रागच्छन्मनोरमा । तमपश्यद्विशालाक्षी पिबन्तं धूममाश्रमे ॥ २३॥ तस्य देहं समालोक्य स्मृत्वा वाक्यं पितुस्तदा । कदलीदलमादाय वीजयामास तं मुनिम् ॥ २४॥ निर्मलं शीतलं वारि समानीय सुवासितम् । पानाय कल्पयामास भक्त्या परमया लघु ॥ २५॥ छायां वस्त्रातपत्रेण भास्करे मध्यगे सति । रचयामास तन्वङ्गी स्वयं धर्मे स्थिता सती ॥ २६॥ फलान्यानीय दिव्यानि पक्वानि मधुराणि च । मुमोचाग्रे मुनेस्तस्य भक्षार्थं विहितानि च ॥ २७॥ कुशाः प्रादेशमात्रा हि हरिताः शुकसन्निभाः । दधाराग्रेऽथ पुष्पाणि नित्यकर्मसमृद्धये ॥ २८॥ निद्रार्थं कल्पयामास संस्तरं पल्लवान्वितम् । तस्मिन्मुनौ चादरस्था चकार व्यजनं शनैः ॥ २९॥ हावभावादिकं किञ्चिद्विकारजननं च तत् । न चकार जयन्ती सा शापभीता मुनेस्तदा ॥ ३०॥ स्तुतिं चकार तन्वङ्गी गीर्भिस्तस्य महात्मनः । सुभाषिण्यनुकूलाभिः प्रीतिकर्त्रीभिरप्युत ॥ ३१॥ प्रबुद्धे जलमादाय दधाराचमनाय च । मनोऽनुकूलं सततं कुर्वन्ती व्यचरत्तदा ॥ ३२॥ इन्द्रोऽपि सेवकांस्तत्र प्रेषयामास चातुरः । प्रवृत्तिं ज्ञातुकामो वै मुनेस्तस्य जितात्मनः ॥ ३३॥ एवं बहूनि वर्षाणि परिचर्यापराभवत् । निर्विकारा जितक्रोधा ब्रह्मचर्यपरा सती ॥ ३४॥ पूर्णे वर्षसहस्रे तु परितुष्टो महेश्वरः । वरेण छन्दयामास काव्यं प्रीतमना हरः ॥ ३५॥ ईश्वर उवाच । यच्च किञ्चिदपि ब्रह्मन्विद्यते भृगुनन्दन । प्रतिपश्यसि यत्सर्वं यच्च वाच्यं न कस्यचित् ॥ ३६॥ सर्वाभिभावकत्वेन भविष्यसि न संशयः । अवध्यः सर्वभूतानां प्रजेशश्च द्विजोत्तमः ॥ ३७॥ व्यास उवाच । एवं दत्त्वा वराञ्छम्भुस्तत्रैवान्तरधीयत । काव्यस्तामथ संवीक्ष्य जयन्तीं वाक्यमब्रवीत् ॥ ३८॥ कासि कस्यासि सुश्रोणि ब्रूहि किं ते चिकीर्षितम् । किमर्थमिह सम्प्राप्ता कार्यं वद वरोरु मे ॥ ३९॥ किं वाञ्छसि करोम्यद्य दुष्करं चेत्सुलोचने । प्रीतोऽस्मि त्वत्कृतेनाद्य वरं वरय सुव्रते ॥ ४०॥ ततः सा तु मुनिं प्राह जयन्ती मुदितानना । चिकीर्षितं मे भगवंस्तपसा ज्ञातुमर्हसि ॥ ४१॥ शुक्र उवाच । ज्ञातं मया तथापि त्वं ब्रूहि यन्मनसेप्सितम् । करोमि सर्वथा भद्रं प्रीतोऽस्मि परिचर्यया ॥ ४२॥ जयन्त्युवाच । शक्रस्याहं सुता ब्रह्मन् पित्रा तुभ्यं समर्पिता । जयन्ती नामतश्चाहं जयन्तावरजा मुने ॥ ४३॥ सकामास्मि त्वयि विभो वाञ्छितं कुरु मेऽधुना । रंस्ये त्वया महाभाग धर्मतः प्रीतिपूर्वकम् ॥ ४४॥ शुक्र उवाच । मया सह त्वं सुश्रोणि दशवर्षाणि भामिनि । सर्वैर्भूतैरदृश्या च रमस्वेह यदृच्छया ॥ ४५॥ व्यास उवाच । एवमुक्त्वा गृहं गत्वा जयन्त्याः पाणिमुद्वहन् । तया सहावसद्देव्या दशवर्षाणि भार्गवः ॥ ४६॥ अदृश्यः सर्वभूतानां मायया संवृतः प्रभुः । दैत्यास्तमागतं श्रुत्वा कृतार्थं मन्त्रसंयुतम् ॥ ४७॥ अभिजग्मुर्गृहे तस्य मुदितास्ते दिदृक्षवः । नापश्यन् रममाणं ते जयन्त्या सह संयुतम् ॥ ४८॥ तदा विमनसः सर्वे जाता भग्नोद्यमाश्च ते । चिन्तापरातिदीनाश्च वीक्षमाणाः पुनः पुनः ॥ ४९॥ अदृष्ट्वा तं तु संवृत्तं प्रतिजग्मुर्यथागतम् । स्वगृहान्दैत्यवर्यास्ते चिन्ताविष्टा भयातुराः ॥ ५०॥ रममाणं तथा ज्ञात्वा शक्रः प्रोवाच तं गुरुम् । बृहस्पतिं महाभाग किं कर्तव्यमितः परम् ॥ ५१॥ गच्छाद्य दानवान्ब्रह्मन्मायया त्वं प्रलोभय । अस्माकं कुरु कार्यं त्वं बुद्ध्या सञ्चिन्त्य मानद ॥ ५२॥ तच्छ्रुत्वा वचनं काव्यं रममाणं सुसंवृतम् । ज्ञात्वा तद्रूपमास्थाय दैत्यान्मति ययौ गुरुः ॥ ५३॥ गत्वा तत्रातिभक्त्यासौ दानवान्समुपाह्वयत् । आगतास्तेऽसुराः सर्वे ददृशुः काव्यमग्रतः ॥ ५४॥ प्रणम्य संस्थिताः सर्वे काव्यं मत्वातिमोहिताः । न विदुस्ते गुरोर्मायां काव्यरूपविभाविनीम् ॥ ५५॥ तानुवाच गुरुः काव्यरूपः प्रच्छन्नमायया । स्वागतं मम याज्यानां प्राप्तोऽहं वो हिताय वै ॥ ५६॥ अहं वो बोधयिष्यामि विद्यां प्राप्ताममायया । तपसा तोषितः शम्भुर्युष्मत्कल्याणहेतवे ॥ ५७॥ तच्छ्रुत्वा प्रीतमनसो जातास्ते दानवोत्तमाः । कृतकार्यं गुरुं मत्वा जहृषुस्ते विमोहिताः ॥ ५८॥ प्रणेमुस्ते मुदा युक्ता निरातङ्का गतव्यथाः । देवेभ्यश्च भयं त्यक्त्वा तस्थुः सर्वे निरामयाः ॥ ५९॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे जयन्त्या शुक्रसहवासवर्णनं नाम द्वादशोऽध्यायः ॥ ४.१२॥

४.१३ त्रयोदशोऽध्यायः । शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम् ।

राजोवाच । किं कृतं गुरुणा पश्चाद्भृगुरूपेण वर्तता । छलेनैव हि दैत्यानां पौरोहित्येन धीमता ॥ १॥ गुरुः सुराणामनिशं सर्वविद्यानिधिस्तथा । सुतोऽङ्गिरस एवासौ स कथं छलकृन्मुनिः ॥ २॥ धर्मशास्त्रेषु सर्वेषु सत्यं धर्मस्य कारणम् । कथितं मुनिभिर्येन परमात्मापि लभ्यते ॥ ३॥ वाचस्पतिस्तथा मिथ्यावक्ता चेद्दानवान्प्रति । कः सत्यवक्ता संसारे भविष्यति गृहाश्रमी ॥ ४॥ आहारादधिकं भोज्यं ज्रह्माण्डविभवेऽपि न । तदर्थं मुनयो मिथ्या प्रवर्तन्ते कथं मुने ॥ ५॥ शब्दप्रमाणमुच्छेदं शिष्टाभावे गतं न किम् । छलकर्मप्रवृत्ते वाविगीतत्वं गुरौ कथम् ॥ ६॥ देवाः सत्त्वसमुद्भूता राजसा मानवाः स्मृताः । तिर्यञ्चस्तामसाः प्रोक्ता उत्पत्तौ मुनिभिः किल ॥ ७॥ अमराणां गुरुः साक्षान्मिथ्यावादी स्वयं यदि । तदा कः सत्यवक्ता स्याद्राजसस्तामसः पुनः ॥ ८॥ क्व स्थितिस्तस्य धर्मस्य सन्देहोऽयं ममात्मनः । का गतिः सर्वजन्तूनां मिथ्याभूते जगत्त्रये ॥ ९॥ हरिर्ब्रह्मा शचीकान्तस्तथान्ये सुरसत्तमाः । सर्वे छलविधौ दक्षा मनुष्याणाञ्च का कथा ॥ १०॥ कामक्रोधाभिसन्तप्ता लोभोपहतचेतसः । छले दक्षाः सुराः सर्वे मुनयश्च तपोधनाः ॥ ११॥ वसिष्ठो वामदेवश्च विश्वामित्रो गुरुस्तथा । एते पापरताः कात्र गतिर्धर्मस्य मानद ॥ १२॥ इन्द्रोऽग्निश्चन्द्रमा वेधाः परदाराभिलम्पटाः । आर्यत्वं भुवनेष्वेषु स्थितं कुत्र मुने वद ॥ १३॥ वचनं कस्य मन्तव्यमुपदेशधियानघ । सर्वे लोभाभिभूतास्ते देवाश्च मुनयस्तदा ॥ १४॥ व्यास उवाच । किं विष्णुः किं शिवो ब्रह्मा मघवा किं बृहस्पतिः । देहवान् प्रभवत्येव विकारैः संयुतस्तदा ॥ १५॥ रागी विष्णुः शिवो रागी ब्रह्मापि रागसंयुतः । (रागवान्किमकृत्यं वै न करोति नराधिप)॥ रागवानपि चातुर्याद्विदेह इव लक्ष्यते ॥ १६॥ सम्प्राप्ते सङ्कटे सोऽपि गुणैः सम्बाध्यते किल । कारणाद्रहितं कार्यं कथं भवितुमर्हति ॥ १७॥ ब्रह्मादीनां च सर्वेषां गुणा एव हि कारणम् । पञ्चविंशत्समुद्भूता देहास्तेषां न चान्यथा ॥ १८॥ काले मरणधर्मास्ते सन्देहः कोऽत्र ते नृप । परोपदेशे विस्पष्टं शिष्टाः सर्वे भवन्ति च ॥ १९॥ विप्लुतिर्ह्यविशेषेण स्वकार्ये समुपस्थिते । कामः क्रोधस्तथा लोभद्रोहाहङ्कारमत्सराः ॥ २०॥ देहवान्कः परित्यक्तुमीशो भवति तान्पुनः । संसारोऽयं महाराज सदैवैवंविधः स्मृतः ॥ २१॥ नान्यथा प्रभवत्येव शुभाशुभमयः किल । कदाचिद्भगवान्विष्णुस्तपश्चरति दारुणम् ॥ २२॥ कदाचिद्विविधान्यज्ञान्वितनोति सुराधिपः । कदाचित्तु रमारङ्गरञ्जितः परमेश्वरः ॥ २३॥ रमते किल वैकुण्ठे तद्वशस्तरुणो विभुः । कदाचिद्दानवैः सार्धं युद्धं परमदारुणम् ॥ २४॥ करोति करुणासिन्धुस्तद्बाणापीडितो भृशम् । कदाचिज्जयमाप्नोति दैवात्सोऽपि पराजयम् ॥ २५॥ सुखदुःखाभिभूतोऽसौ भवत्येव न संशयः । शेषे शेते कदाचिद्वै योगनिद्रासमावृतः ॥ २६॥ काले जागर्ति विश्वात्मा स्वभावप्रतिबोधितः । शर्वो ब्रह्मा हरिश्चेति इन्द्राद्या ये सुरास्तथा ॥ २७॥ मुनयश्च विनिर्माणैः स्वायुषो विचरन्ति हि । निशावसाने सञ्जाते जगत्स्थावरजङ्गमम् ॥ २८॥ म्रियते नात्र सन्देहो नृप किञ्चित्कदापि च । स्वायुषोऽन्ते पद्यजाद्याः क्षयमृच्छन्ति पार्थिव ॥ २९॥ प्रभवन्ति पुनर्विष्णुहरशक्रादयः सुराः । तस्मात्कामादिकान्भावान्देहवान्प्रतिपद्यते ॥ ३०॥ नात्र ते विस्मयः कार्यः कदाचिदपि पार्थिव । संसारोऽयं तु सन्दिग्धः कामक्रोधादिभिर्नृप ॥ ३१॥ दुर्लभस्तद्विनिर्मुक्तः पुरुषः परमार्थवित् । यो बिभेतीह संसारे स दारान्न करोत्यपि ॥ ३२॥ विमुक्तः सर्वसङ्गेभ्यो विचरत्यविशङ्कितः । तस्माद्बृहस्पतेर्भार्या शशिना लम्भिता पुनः ॥ ३३॥ गुरूणा लम्भिता भार्या तथा भ्रातुर्यवीयसः । एवं संसारचक्रेऽस्मिन् रागलोभादिभिर्वृतः ॥ ३४॥ गार्हस्थ्यञ्च समास्थाय कथं मुक्तो भवेन्नरः । तस्मात्सर्वप्रयत्नेन हित्वा संसारसारताम् ॥ ३५॥ आराधयेन्महेशानीं सच्चिदानन्दरूपिणीम् । तन्मायागुणतश्छन्नं जगदेतच्चराचरम् ॥ ३६॥ भ्रमत्युन्मत्तवत्सर्वं मदिरामत्तवन्नृप । तस्या आराधनेनैव गुणान्सर्वान्विमृद्य च ॥ ३७॥ मुक्तिं भजेत मतिमान्नान्यः पन्थास्त्वितः परः । आराधिता महेशानी न यावत्कुरुते कृपाम् ॥ ३८॥ तावद्भवेत्सुखं कस्मात्कोऽन्योऽस्ति दयया युतः । करुणासागरामेतां भजेत्तस्मादमायया ॥ ३९॥ यस्यास्तु भजनेनैव जीवन्मुक्तत्वमश्नुते । मानुष्यं दुर्लभं प्राप्य सेविता न महेश्वरी ॥ ४०॥ निःश्रेणिकाग्रात्पतिता अध इत्येव विद्महे । अहङ्कारावृतं विश्वं गुणत्रयसमन्वितम् ॥ ४१॥ असत्येनापि सम्बद्धं मुच्यते कथमन्यथा । हित्वा सर्वं ततः सर्वेः संसेव्या भुवनेश्वरी ॥ ४२॥ राजोवाच । किं कृतं गुरूणा तत्र काव्यरूपधरेण च । कदा शुक्रः समायातस्तन्मे ब्रूहि पितामह ॥ ४३॥ व्यास उवाच । श‍ृणु राजन् प्रवक्ष्यामि यत्कृतं गुरुणा तदा । कृत्वा काव्यस्वरूपञ्च प्रच्छन्नेन महात्मना ॥ ४४॥ गुरुणा बोधिता दैत्या मत्वा काव्यं स्वकं गुरुम् । विश्वासं परमं कृत्वा बभूवुस्तन्मयास्तदा ॥ ४५॥ विद्यार्थं शरणं प्राप्ता भृगुं मत्वातिमोहिताः । गुरुणा विप्रलब्धास्ते लोभात्को वा न मुह्यति ॥ ४६॥ दशवर्षात्मके काले सम्पूर्णसमये तदा । जयन्त्या सह क्रीडित्वा काव्यो याज्यानचिन्तयत् ॥ ४७॥ आशया मम मार्गं ते पश्यन्तः संस्थिताः किल । गत्वा तान्वै प्रपश्येऽहं याज्यानतिभयातुरान् ॥ ४८॥ मा देवेभ्यो भयं तेषां मद्भक्तानां भवेदिति । सञ्चिन्त्य बुद्धिमास्थाय जयन्तीं प्रत्युवाच ह ॥ ४९॥ देवानेवोपसंयान्ति पुत्रा मे चारुलोचने । समयस्तेऽद्य सम्पूर्णो जातोऽयं दशवार्षिकः ॥ ५०॥ तस्माद् गच्छाम्यहं देवि द्रष्टुं याज्यान्सुमध्यमे । पुनरेवागमिष्यामि तवान्तिकमनुद्रुतः ॥ ५१॥ तथेति तमुवाचाथ जयन्ती धर्मवित्तमा । यथेष्टं गच्छ धर्मज्ञ न ते धर्मं विलोपये ॥ ५२॥ तच्छ्रुत्वा वचनं काव्यो जगाम त्वरितस्ततः । अपश्यद्दानवानां च पार्श्वे वाचस्पतिं तदा ॥ ५३॥ छद्मरूपधरं सौम्यं बोधयन्तं छलेन तान् । जैनं धर्मं कृतं स्वेन यज्ञनिन्दापरं तथा ॥ ५४॥ भो देवरिपवः सत्यं ब्रवीमि भवतां हितम् । अहिंसा परमो धर्मोऽहन्तव्या ह्याततायिनः ॥ ५५॥ द्विजैर्भोगरतैर्वेदे दर्शितं हिंसनं पशोः । जिह्वास्वादपरैः काममहिंसैव परा मता ॥ ५६॥ एवंविधानि वाक्यानि वेदशास्त्रपराणि च । ब्रुवाणं गुरुमाकर्ण्य विस्मितोऽसौ भृगोः सुतः ॥ ५७॥ चिन्तयामास मनसा मम द्वेष्यो गुरुः किल । वञ्चिताः किल धूर्तेन याज्या मे नात्र संशयः ॥ ५८॥ धिग्लोभं पापबीजं वै नरकद्वारमूर्जितम् । गुरुरप्यनृतं ब्रूते प्रेरितो येन पाप्मना ॥ ५९॥ प्रमाणं वचनं यस्य सोऽपि पाखण्डधारकः । गुरुः सुराणां सर्वेषां धर्मशास्त्रप्रवर्तकः ॥ ६०॥ किं किं न लभते लोभान्मलिनीकृतमानसः । अन्योऽपि गुरुरप्येवं जातः पाखण्डपण्डितः ॥ ६१॥ शैलूषचेष्टितं सर्वं परिगृह्य द्विजोत्तमः । वञ्जयत्यतिसम्मूढान्दैत्यान्याज्यान्ममाप्यसौ ॥ ६२॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनं नाम त्रयोदशोऽध्यायः ॥ ४.१३॥

४.१४ चतुर्दशोऽध्यायः । प्रह्लादेन शुक्रकोपसान्त्वनम् ।

व्यास उवाच । इति सञ्चिन्त्य मनसा तानुवाच हसन्निव । वञ्चिता मत्स्वरूपेण दैत्याः किं गुरुणा किल ॥ १॥ अहं काव्यो गुरुश्चायं देवकार्यप्रसाधकः । अनेन वञ्चिता यूयं मद्याज्या नात्र संशयः ॥ २॥ मा श्रद्धध्वं वचोऽस्यार्या दाम्भिकोऽयं मदाकृतिः । अनुगच्छत मां याज्यास्त्यजतैनं बृहस्पतिम् ॥ ३॥ इत्याकर्ण्य वचस्तस्य दृष्ट्वा तौ सदृशौ पुनः । विस्मयं परमं जग्मुः काव्योऽयमिति निश्चिताः ॥ ४॥ स तान्वीक्ष्य सुसम्भ्रान्तान्गुरुर्वाक्यमुवाच ह । गुरुर्वो वञ्चयत्येव मद्रूपोऽयं बृहस्पतिः ॥ ५॥ प्राप्तो वञ्चयितुं युष्मान्देवकार्यार्थसिद्धये । मा विश्वासं वचस्तस्य कुरुध्वं दैत्यसत्तमाः ॥ ६॥ प्राप्ता विद्या मया शम्भोर्युष्मानध्यापयामि ताम् । देवेभ्यो विजयं नूनं करिष्यामि न संशयः ॥ ७॥ इति श्रुत्वा गुरोर्वाक्यं काव्यरूपधरस्य ते । विश्वासं परमं जग्मुः काव्योऽयमिति निश्चयात् ॥ ८॥ काव्येन बहुधा तत्र बोधिताः किल दानवाः । बुबुधुर्न गुरोर्मायामोहिताः कालपर्ययात् ॥ ९॥ एवं ते निश्चयं कृत्वा ततो भार्गवमब्रुवन् । अयं गुरुर्नो धर्मात्मा बुद्धिदश्च हिते रतः ॥ १०॥ दशवर्षाणि सततमयं नः शास्ति भार्गवः । गच्छ त्वं कुहको भासि नास्माकं गुरुरप्युत ॥ ११॥ इत्युक्त्वा भार्गवं मूढा निर्भर्त्स्य च पुनः पुनः । जगृहुस्तं गुरुं प्रीत्या प्रणिपत्याभिवाद्य च ॥ १२॥ काव्यस्तु तन्मयान्दृष्ट्वा चुकोपाथ शशाप च । दैत्यान्विबोधितान्मत्वा गुरुणा चातिवञ्जितान् ॥ १३॥ यस्मान्मया बोधिता वै गृह्णीयुर्न च मे वचः । तस्मात्प्रनष्टसंज्ञा वै पराभवमवाप्स्यथ ॥ १४॥ मदवज्ञाफलं कामं स्वल्पे काले ह्यवाप्स्यथ । तदास्य कपटं सर्वं परिज्ञातं भविष्यति ॥ १५॥ व्यास उवाच । इत्युक्त्वासौ जगामाशु भार्गवः क्रोधसंयुतः । बृहस्पतिर्मुदं प्राप्य तस्थौ तत्र समाहितः ॥ १६॥ ततः शप्तान्गुरुर्ज्ञात्वा दैत्यांस्ताम्भार्गवेण हि । जगाम तरसा त्यक्त्वा स्वरूपं स्वं विधाय च ॥ १७॥ गत्वोवाच तदा शक्रं कृतं कार्यं मया धुवम् । शप्ताः शुक्रेण ते दैत्या मया त्यक्ताः पुनः किल ॥ १८॥ निराधाराः कृता नूनं यतध्वं सुरसत्तमाः । सङ्ग्रामार्थं महाभाग शापदग्धा मया कृताः ॥ १९॥ इति श्रुत्वा गुरोर्वाक्यं मघवा मुदमाप्तवान् । जहृषुश्च सुराः सर्वे प्रतिपूज्य बृहस्पतिम् ॥ २०॥ सङ्ग्रामाय मतिं चक्रुः संविचार्य मिथः पुनः । निर्ययुर्मिलिताः सर्वे दानवाभिमुखाः सुराः ॥ २१॥ सुरान्समुद्यतांज्ञात्वा कृतोद्योगान्महाबलान् । अन्तर्हितं गुरुं चैव बभूवुश्चिन्तयान्विताः ॥ २२॥ परस्परमथोचुस्ते मोहितास्तस्य मायया । सम्प्रसाद्यो महात्मा च यातोऽसौ रुष्टमानसः ॥ २३॥ वञ्चयित्वा गतः पापो गुरुः कपटपण्डितः । भ्रातृस्त्रीलम्भनः प्रायो मलिनोऽन्तर्बहिः शुचिः ॥ २४॥ किं कुर्मः क्व च गच्छामः कथं काव्यं प्रकोपितम् । कुर्वीमहि सहायार्थं प्रसन्नं हृष्टमानसम् ॥ २५॥ इति सञ्चिन्त्य ते सर्वे मिलिता भयकम्पिताः । प्रह्लादं पुरतः कृत्वा जग्मुस्ते भार्गवं पुनः ॥ २६॥ प्रणेमुश्चरणौ तस्य मुनेर्मौनभृतस्तदा । भार्गवस्तानुवाचाथ रोषसंरक्तलोचनः ॥ २७॥ मया प्रबोधिता यूयं मोहिता गुरुमायया । न गृहीतं वचो योग्यं तदा याज्या हितं शुचि ॥ २८॥ तदावगणितश्चाहं भवद्भिस्तद्वशं गतैः । प्राप्तं नूनं मदोन्मत्तैर्ममावमानजं फलम् ॥ २९॥ तत्र गच्छत सत्भ्रष्टा यत्रासौ कपटाकृतिः । वञ्चकः सुरकार्यार्थी नाहं तद्वद्धि वञ्चकः ॥ ३०॥ व्यास उवाच । एवं ब्रुवन्तं शुक्रं तु वाक्यसन्दिग्धया गिरा । प्रह्लादस्तं तदोवाच गहीत्वा चरणौ ततः ॥ ३१॥ प्रह्लाद उवाच । भार्गवाद्य समायातान्याज्यानस्मांस्तथातुरान् । त्यक्तुं नार्हसि सर्वज्ञ त्वद्धितास्तनयान्हि नः ॥ ३२॥ गते त्वयि तु मन्त्रार्थं शैलूषेण दुरात्मना । त्वद्वेषमधुरालापैर्वयं तेन प्रवञ्चिताः ॥ ३३॥ अज्ञानकृतदोषेण नैव कुप्यति शान्तिमान् । सर्वज्ञस्त्वं विजानासि चित्तं नः प्रवणं त्वयि ॥ ३४॥ ज्ञात्वा नस्तपसा भावं त्यज कोपं महामते । ब्रुवन्ति मुनयः सर्वे क्षणकोपा हि साधवः ॥ ३५॥ जलं स्वभावतः शीतं वह्न्यातपसमागमात् । भवत्युष्णं वियोगाच्च शीतत्वमनुगच्छति ॥ ३६॥ क्रोथश्चाण्डालरूपो वै त्यक्तव्यः सर्वथा बुधैः । तस्माद्रोषं परित्यज्य प्रसादं कुरु सुव्रत ॥ ३७॥ यदि न त्यजसि क्रोधं त्यजस्यस्मान्सुदुःखितान् । त्वया त्यक्ता महाभाग गमिष्यामो रसातलम् ॥ ३८॥ व्यास उवाच । प्रह्लादस्य वचः श्रुत्वा भार्गवो ज्ञानचक्षुषा । विलोक्य सुमना भूत्वा तानुवाच हसन्निव ॥ ३९॥ न भेतव्यं न गन्तव्यं दानवा वा रसातलम् । रक्षयिष्यामि वो याज्यान्मन्त्रैरवितथैः किल ॥ ४०॥ हितं सत्यं ब्रवीम्यद्य श‍ृणुध्वं तत्तु निश्चयम् । वचनं मम धर्मज्ञाः श्रुतं यद् ब्रह्मणः पुरा ॥ ४१॥ अवश्यम्भाविनो भावाः प्रभवन्ति शुभाशुभाः । दैवं न चान्यथा कर्तुं क्षमः कोऽपि धरातले ॥ ४२॥ अद्य मन्दबला यूयं कालयोगादसंशयम् । देवैर्जिताः सकृच्चापि पातालं प्रतिपत्स्यथ ॥ ४३॥ प्राप्तः पर्यायकालो व इति ब्रह्माभ्यभाषत । भुक्तं राज्यं भवद्भिश्च पूर्णं सर्वं समृद्धिमत् ॥ ४४॥ युगानि दश पूर्णानि देवानाक्रम्य मूर्धनि । दैवयोगाच्च युष्माभिर्भुक्तं त्रैलोक्यमूर्जितम् ॥ ४५॥ सावर्णिके मनौ राज्यं पुनस्तत्तु भविष्यति । पौत्रस्त्रैलोक्यविजयी राज्यं प्राप्स्यति ते बलिः ॥ ४६॥ यदा वामनरूपेण हृतं देवेन विष्णुना । तदैव च भवत्पौत्रः प्रोक्तो देवेन जिष्णुना ॥ ४७॥ हृतं येन बले राज्यं देववाञ्छार्थसिद्धये । त्वमिन्द्रो भविता चाग्ने स्थिते सावर्णिके मनौ ॥ ४८॥ भार्गव उवाच । इत्युक्तो हरिणा पौत्रस्तव प्रह्लाद साम्प्रतम् । अदृश्यः सर्वभूतानां गुप्तश्चरति भीतवत् ॥ ४९॥ एकदा वासवेनासौ बलिर्गर्दभरूपभाक् । शून्ये गृहे स्थितः कामं भयभीतः शतक्रतोः ॥ ५०॥ पृष्टश्च बहुधा तेन वासवेन बलिस्तदा । किमर्थं गार्दभं रूपं कृतवान्दैत्यपुङ्गव ॥ ५१॥ भोक्ता त्वं सर्वलोकस्य दैत्यानां च प्रशासिता । (न लज्जा खररूपेण तव राक्षससत्तम ।)॥ तस्य तद्वचनं श्रुत्वा दैत्यराजो बलिस्तदा ॥ ५२॥ प्रोवाच वचनं शक्रं कोऽत्र शोकः शतक्रतो । यथा विष्णुर्महातेजा मत्स्यकच्छपतां गतः ॥ ५३॥ तथाहं खररूपेण संस्थितः कालयोगतः । यथा त्वं कमले लीनः संस्थितो ब्रह्महत्यया ॥ ५४॥ पीडितश्च तथा ह्यद्य स्थितोऽहं खररूपधृक् । दैवाधीनस्य किं दुःखं किं सुखं पाकशासन ॥ ५५॥ कालः करोति वै नूनं यदिच्छति यथा तथा । भार्गव उवाच । इति तौ बलिदेवेशौ कृत्वा संविदमुत्तमाम् ॥ ५६॥ प्रबोधं प्रापतुः कामं यथास्थानञ्च जग्मतुः । इत्येतत्ते समाख्याता मया दैवबलिष्ठता ॥ ५७॥ दैवाधीनं जगत्सर्वं सदेवासुरमानुषम् ॥ ५८॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे प्रह्लादेन शुक्रकोपसान्त्वनं नाम चतुर्दशोऽध्यायः ॥ ४.१४॥

४.१५ पञ्चदशोऽध्यायः । देवीकथनेन दानवानां रसातलं प्रति गमनम् ।

व्यास उवाच । इति तस्य वचः श्रुत्वा भार्गवस्य महात्मनः । प्रह्लादस्तु सुसंहृष्टो बभूव नृपनन्दनः ॥ १॥ ज्ञात्वा दैवं बलिष्ठञ्च प्रह्लादस्तानुवाच ह । कृतेऽपि युद्धे न जयो भविष्यति कदाचन ॥ २॥ तदा ते जयिनः प्रोचुर्दानवा मदगर्विताः । सङ्ग्रामस्तु प्रकर्तव्यो दैवं किं न विदामहे ॥ ३॥ निरुद्यमानां दैवं हि प्रधानमसुराधिप । केन दृष्टं क्व वा दृष्टं कीदृशं केन निर्मितम् ॥ ४॥ तस्माद्युद्धं करिष्यामो बलमास्थाय साम्प्रतम् । भवाग्रे दैत्यवर्य त्वं सर्वज्ञोऽसि महामते ॥ ५॥ इत्युक्तस्तैस्तदा राजन् प्रह्लादः प्रबलारिहा । सेनानीश्च तदा भूत्वा देवान्युद्धे समाह्वयत् ॥ ६॥ तेऽपि तत्रासुरान्दृष्ट्वा सङ्ग्रामे समुपस्थितान् । सर्वे सम्भृतसम्भारा देवास्तान्समयोधयन् ॥ ७॥ सङ्ग्रामस्तु तदा घोरः शक्रप्रह्लादयोरभूत् । पूर्णं वर्षशतं तत्र मुनीनां विस्मयावहः ॥ ८॥ वर्तमाने महायुद्धे शुक्रेण प्रतिपालिताः । जयमापुस्तदा दैत्याः प्रह्लादप्रमुखा नृप ॥ ९॥ तदैवेन्द्रो गुरोर्वाक्यात्सर्वदुःखविनाशिनीम् । सस्मार मनसा देवीं मुक्तिदां परमां शिवाम् ॥ १०॥ इन्द्र उवाच । जय देवि महामाये शूलधारिणि चाम्बिके । शङ्खचक्रगदापद्मखड्गहस्तेऽभयप्रदे ॥ ११॥ नमस्ते भुवनेशानि शक्तिदर्शननायिके । दशतत्त्वात्मिके मातर्महाबिन्दुस्वरूपिणि ॥ १२॥ महाकुण्डलिनीरूपे सच्चिदानन्दरूपिणि । प्राणाग्निहोत्रविद्ये ते नमो दीपशिखात्मिके ॥ १३॥ पञ्चकोशान्तरगते पुच्छब्रह्मस्वरूपिणि । आनन्दकलिके मातः सर्वोपनिषदर्चिते ॥ १४॥ मातः प्रसीद सुमुखी भव हीनसत्त्वां- स्त्रायस्व नो जननि दैत्यपराजितान् वै । त्वं देवि नः शरणदा भुवने प्रमाणा शक्तासि दुःखशमनेऽखिलवीर्ययुक्ते ॥ १५॥ ध्यायन्ति येऽपि सुखिनो नितरां भवन्ति दुःखान्विताविगतशोकभयास्तथान्ये । मोक्षार्थिनो विगतमानविमुक्तसङ्गाः संसारवारिधिजलं प्रतरन्ति सन्तः ॥ १६॥ त्वं देवि विश्वजननि प्रथितप्रभावा संरक्षणार्थमुदितार्तिहरप्रतापा । संहर्तुमेतदखिलं किल कालरूपा को वेत्ति तेऽम्ब चरितं ननु मन्दबुद्धिः ॥ १७॥ ब्रह्मा हरश्च हरिदश्वरथो हरिश्च इन्द्रो यमोऽथ वरुणोऽग्निसमीरणौ च । ज्ञातुं क्षमा न मुनयोऽपि महानुभावा यस्याः प्रभावमतुलं निगमागमाश्च ॥ १८॥ धन्यास्त एव तव भक्तिपरा महान्तः संसारदुःखरहिताः सुखसिन्धुमग्नाः । ये भक्तिभावरहिता न कदापि दुःखा- ॥ म्भोधिं जनिक्षयतरङ्गमुमे तरन्ति ॥ १९॥ ये वीज्यमानाः सितचामरैश्च क्रीडन्ति धन्याः शिबिकाधिरूढाः । तैः पूजिता त्वं किल पूर्वदेहे नानोपहारैरिति चिन्तयामि ॥ २०॥ ये पूज्यमाना वरवारणस्था विलासिनीवृन्दविलासयुक्ताः । सामन्तकैश्चोपनतैर्व्रजन्ति मन्ये हि तैस्त्वं किल पूजितासि ॥ २१॥ व्यास उवाच । एवं स्तुता मघवता देवी विश्वेश्वरी तदा । प्रादुर्बभूव तरसा सिंहारूढा चतुर्भुजा ॥ २२॥ शङ्खचक्रगदापद्मान्बिभ्रती चारुलोचना । रक्ताम्बरधरा देवी दिव्यमाल्यविभूषणा ॥ २३॥ तानुवाच सुरान्देवी प्रसन्नवदना गिरा । भयं त्यजन्तु भो देवाः शं विधास्ये किलाधुना ॥ २४॥ इत्युक्त्वा सा तदा देवी सिंहारूढातिसुन्दरी । जगाम तरसा तत्र यत्र दैत्या मदान्विताः ॥ २५॥ प्रह्लादप्रमुखाः सर्वे दृष्ट्वा देवीं पुरःस्थिताम् । ऊचुः परस्परं भीताः किं कर्तव्यमितस्तदा ॥ २६॥ देवं नारायणं चात्र सम्प्राप्ता चण्डिका किल । महिषान्तकरी नूनं चण्डमुण्डविनाशिनी ॥ २७॥ निहनिष्यति नः सर्वानम्बिका नात्र संशयः । वक्रदृष्ट्या यया पूर्वं निहतौ मधुकैटभौ ॥ २८॥ एवं चिन्तातुरान्वीक्ष्य प्रह्लादस्तानुवाच ह । योद्धव्यं नाथ गन्तव्यं पलाय्य दानवोत्तमाः ॥ २९॥ नमुचिस्तानुवाचाथ पलायनपरानिह । हनिष्यति जगन्माता रुषिता किल हेतिभिः ॥ ३०॥ तथा कुरु महाभाग यथा दुःखं न जायते । व्रजामोऽद्यैव पातालं तां स्तुत्वा तदनुज्ञया ॥ ३१॥ प्रह्लाद उवाच । स्तौमि देवीं महामायां सृष्टिस्थित्यन्तकारिणीम् । सर्वेषां जननीं शक्तिं भक्तानामभयङ्करीम् ॥ ३२॥ व्यास उवाच । इत्युक्त्या विष्णुभक्तस्तु प्रह्लादः परमार्थवित् । तुष्टाव जगतां धात्रीं कृताञ्जलिपुटस्तदा ॥ ३३॥ मालासर्पवदाभाति यस्यां सर्वं चराचरम् । सर्वाधिष्ठानरूपायै तस्यै ह्रींमूर्तये नमः ॥ ३४॥ त्वत्तः सर्वमिदं विश्वं स्थावरं जङ्गमं तथा । अन्ये निमित्तमात्रास्ते कर्तारस्तव निर्मिताः ॥ ३५॥ नमो देवि महामाये सर्वेषां जननी स्मृता । को भेदस्तव देवेषु दैत्येषु स्वकृतेषु च ॥ ३६॥ मातुः पुत्रेषु को भेदोऽप्यशुभेषु शुभेषु च । तथैव देवेष्वस्मासु न कर्तव्यस्त्वयाधुना ॥ ३७॥ यादृशास्तादृशा मातः सुतास्ते दानवाः किल । यतस्त्वं विश्वजननी पुराणेषु प्रकीर्तिता ॥ ३८॥ तेऽपि स्वार्थपरा नूनं यथैव वयमप्युत । नान्तरं दैत्यसुरयोर्भेदोऽयं मोहसम्भवः ॥ ३९॥ धनदारादिभोगेषु वयं सक्ता दिवानिशम् । तथैव देवा देवेशि को भेदोऽसुरदेवयोः ॥ ४०॥ तेऽपि कश्यपदायादा वयं तत्सम्भवाः किल । कुतो विरोधसम्भूतिर्जाता मातस्तवाधुना ॥ ४१॥ न तथा विहितं मातस्त्वयि सर्वसमुद्भवे । साम्यतैव त्वया स्थाप्या देवेष्वस्मासु चैव हि ॥ ४२॥ गुणव्यतिकरात्सर्वे समुत्पन्नाः सुरासुराः । गुणान्विता भवेयुस्ते कथं देहभृतोऽमराः ॥ ४३॥ कामः क्रोधश्च लोभश्च सर्वदेहेषु संस्थिताः । वर्तन्ते सर्वदा तस्मात् कोऽविरोधी भवेञ्चनः ॥ ४४॥ त्वया मिथो विरोधोऽयं कल्पितः किल कौतुकात् । मन्यामहे विभेदेन नूनं युद्धदिदृक्षया ॥ ४५॥ अन्यथा खलु भ्रातॄणां विरोधः कीदृशोऽनघे । त्वं चेन्नेच्छसि चामुण्डे वीक्षितुं कलहं किल ॥ ४६॥ जानामि धर्मं धर्मज्ञे वेद्मि चाहं शतक्रतुम् । तथापि कलहोऽस्माकं भोगार्थं देवि सर्वदा ॥ ४७॥ एकः कोऽपि न शास्तास्ति संसारे त्वां विनाम्बिके । स्पृहावतस्तु कः कर्तुं क्षमते वचनं बुधः ॥ ४८॥ देवासुरैरयं सिन्धुर्मथितः समये क्वचित् । विष्णुना विहितो भेदः सुधारत्नच्छलेन वै ॥ ४९॥ त्वयासौ कल्पितः शौरिः पालकत्वे जगद्गुरुः । तेन लक्ष्मीः स्वयं लोभाद् गृहीतामरसुन्दरी ॥ ५०॥ ऐरावतस्तथेन्द्रेण पारिजातोऽथ कामधुक् । उच्चैःश्रवाः सुरैः सर्वं गृहीतं वैष्णवेच्छया ॥ ५१॥ अनयं तादृशं कृत्वा जाता देवास्तु साधवः । (अन्यायिनः सुरा नूनं पश्य त्वं धर्मलक्षणं ।)॥ संस्थापिताः सुरा नूनं विष्णुना बहुमानिना ॥ ५२॥ नूनं दैत्याः पराभूवन्पश्य त्वं धर्मलक्षणम् । क्व धर्मः कीदृशो धर्मः क्व कार्यं क्व च साधुता ॥ ५३॥ कथयामि च कस्याग्रे सिद्धं मैमांसिकं मतम् । तार्किका युक्तिवादज्ञा विधिज्ञा वेदवादकाः ॥ ५४॥ उक्ताः सकर्तृकं विश्वं विवदन्ते जडात्मकाः । कर्ता भवति चेदस्मिन्संसारे वितते किल ॥ ५५॥ विरोधः कीदृशस्तत्र चैककर्मणि वै मिथः । वेदे नैकमतिः कस्माच्छास्त्रेष्वपि तथा पुनः ॥ ५६॥ नैकवाक्यं वचस्तेषामपि वेदविदां पुनः । यतः स्वार्थपरं सर्वं जगत्स्थावरजङ्गमम् ॥ ५७॥ निःस्पृहः कोऽपि संसारे न भवेन्न भविष्यति । शशिनाथ गुरोर्भार्या हृता ज्ञात्वा बलादपि ॥ ५८॥ गौतमस्य तथेन्द्रेण जानता धर्मनिश्चयम् । गुरुणानुजभार्या च भुक्ता गर्भवती बलात् ॥ ५९॥ शप्तो गर्भगतो बालः कृतश्चान्धस्तथा पुनः । विष्णुना च शिरश्छिन्नं राहोश्चक्रेण वै बलात् ॥ ६०॥ अपराधं विना कामं तदा सत्त्ववताम्बिके । पौत्रो धर्मवतां शूरः सत्यव्रतपरायणः ॥ ६१॥ यज्वा दानपतिः शान्तः सर्वज्ञः सर्वपूजकः । कृत्वाथ वामनं रूपं हरिणा छलवेदिना ॥ ६२॥ वञ्चितोऽसौ बलिः सर्वं हृतं राज्यं पुरा किल । तथापि देवान्धर्मस्थान्प्रवदन्ति मनीषिणः ॥ ६३॥ वदन्ति चाटुवादांश्च धर्मवादाज्जयं गताः । एवं ज्ञात्वा जगन्मातर्यथेच्छसि तथा कुरु ॥ ६४॥ शरणा दानवाः सर्वे जहि वा रक्ष वा पुनः । श्रीदेव्युवाच । सर्वे गच्छत पातालं तत्र वासं यथेप्सितम् ॥ ६५॥ कुरुध्वं दानवाः सर्वे निर्भया गतमन्यवः । कालः प्रतीक्ष्यो युष्माभिः कारणं स शुभेऽशुभे ॥ ६६॥ सुनिर्वेदपराणां हि सुखं सर्वत्र सर्वदा । त्रैलोक्यस्य च राज्येऽपि न सुखं लोभचेतसाम् ॥ ६७॥ कृतेऽपि न सुखं पूर्णं सस्पृहाणां फलैरपि । तस्मात्त्यक्त्वा महीमेतां प्रयान्त्वद्य महीतलम् ॥ ६८॥ ममाज्ञां पुरतः कृत्वा सर्वे विगतकल्मषाः । व्यास उवाच । तच्छ्रुत्वा वचनं देव्यास्तथेत्युक्त्वा रसातलम् ॥ ६९॥ प्रणम्य दानवाः सर्वे गताः शक्त्याभिरक्षिताः । अन्तर्दधे ततो देवी देवाः स्वभुवनं गताः ॥ ७०॥ त्यक्त्वा वैरं स्थिताः सर्वे ते तदा देवदानवाः । एतदाख्यानमखिलं यः श‍ृणोति वदत्यथ ॥ ७१॥ सर्वदुःखविनिर्मुक्तः प्रयाति पदमुत्तमम् ॥ ७२॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे देवीकथनेन दानवानां रसातलं प्रति गमनं नाम पञ्चदशोऽध्यायः ॥ ४.१५॥

४.१६ षोडशोऽध्यायः । हरेर्नानावतारवर्णनम् ।

जनमेजय उवाच । भृगुशापान्मुनिश्रेष्ठ हरेरद्भुतकर्मणः । अवताराः कथं जाताः कस्मिन्मन्वन्तरे विभो ॥ १॥ विस्तराद्वद धर्मज्ञ अवतारकथा हरेः । पापनाशकरीं ब्रह्मञ्छ्रुतां सर्वसुखावहाम् ॥ २॥ व्यास उवाच । श‍ृणु राजन् प्रवक्ष्यामि अवतारान् हरेर्यथा । यस्मिन्मन्वन्तरे जाता युगे यस्मिन्नराधिप ॥ ३॥ येन रूपेण यत्कार्यं कृतं नारायणेन वै । तत्सर्वं नृप वक्ष्यामि सङ्क्षेपेण तवाधुना ॥ ४॥ धर्मस्यैवावतारोऽभूच्चाक्षुषे मनुसम्भवे । नरनारायणौ धर्मपुत्रौ ख्यातौ महीतले ॥ ५॥ अथ वैवस्वताख्येऽस्मिन्द्वितीये तु युगे पुनः । दत्तात्रेयावतारोऽत्रेः पुत्रत्वमगमद्धरिः ॥ ६॥ ब्रह्मा विष्णुस्तथा रुद्रस्त्रयोऽमी देवसत्तमाः । पुत्रत्वमगमन्देवास्तस्यात्रेर्भार्यया वृताः ॥ ७॥ अनसूयात्रिपत्नी च सतीनामुत्तमा सती । यया सम्प्रार्थिता देवाः पुत्रत्वमगमंस्त्रयः ॥ ८॥ ब्रह्माभूत्सोमरूपस्तु दत्तात्रेयो हरिः स्वयम् । दुर्वासा रुद्ररूपोऽसौ पुत्रत्वं ते प्रपेदिरे ॥ ९॥ नृसिंहस्यावतारस्तु देवकार्यार्थसिद्धये । चतुर्थे तु युगे जातो द्विधारूपो मनोहरः ॥ १०॥ हिरण्यकशिपोः सम्यग्वधाय भगवान् हरिः । चक्रे रूपं नारसिंहं देवानां विस्मयप्रदम् ॥ ११॥ बलेर्नियमनार्थाय श्रेष्ठे त्रेतायुगे तथा । चकार रूपं भगवान् वामनं कश्यपान्मुनेः ॥ १२॥ छलयित्वा मखे भूपं राज्यं तस्य जहार ह । पाताले स्थापयामास बलिं वामनरूपधृक् ॥ १३॥ युगे चैकोनविंशेऽथ त्रेताख्ये भगवान् हरिः । जमदग्निसुतो जातो रामो नाम महाबलः ॥ १४॥ क्षत्रियान्तकरः श्रीमान्सत्यवादी जितेन्द्रियः । दत्तवान्मेदिनीं कृत्स्नां कश्यपाय महात्मने ॥ १५॥ यो वै परशुरामाख्यो हरेरद्भुतकर्मणः । अवतारस्तु राजेन्द्र कथितः पापनाशनः ॥ १६॥ त्रेतायुगे रघोर्वंशे रामो दशरथात्मजः । नरनारायणांशौ द्वौ जातौ भुवि महाबलौ ॥ १७॥ अष्टाविंशे युगे शस्तौ द्वापरेऽर्जुनशौरिणौ । धराभारावतारार्थं जातौ कृष्णार्जुनौ भुवि ॥ १८॥ कृतवन्तौ महायुद्धं कुरुक्षेत्रेऽतिदारुणम् । एवं युगे युगे राजन्नवतारा हरेः किल ॥ १९॥ भवन्ति बहवः कामं प्रकृतेरनुरूपतः । प्रकृतेरखिलं सर्वं वशमेतज्जगत्त्रयम् ॥ २०॥ यथेच्छति तथैवेयं भ्रामयत्यनिशं जगत् । पुरुषस्य प्रियार्थं सा रचयत्यखिलं जगत् ॥ २१॥ सृष्ट्वा पुरा हि भगवाञ्जगदेतच्चराचरम् । सर्वादिः सर्वगश्चासौ दुर्ज्ञेयः परमोऽव्ययः ॥ २२॥ निरालम्बो निराकारो निःस्पृहश्च परात्परः । उपाधितस्त्रिधा भाति यस्याः सा प्रकृतिः परा ॥ २३॥ उत्पत्तिकालयोगात्सा भिन्ना भाति शिवा तदा । सा विश्वं कुरुते कामं सा पालयति कामदा ॥ २४॥ कल्पान्ते संहरत्येव त्रिरूपा विश्वमोहिनी । तया युक्तोऽसृज द्ब्रह्मा विष्णुः पाति तयान्वितः ॥ २५॥ रुद्रः संहरते कामं तया सम्मिलितः शिवः । सा चैवोत्पाद्य काकुत्स्थं पुरा वै नृपसत्तमम् ॥ २६॥ कुत्रचित्स्थापयामास दानवानां जयाय च । एवमस्मिंश्च संसारे सुखदुःखान्विताः किल ॥ २७॥ भवन्ति प्राणिनः सर्वे विधितन्त्रनियन्त्रिताः ॥ २८॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे हरेर्नानावतारवर्णनं नाम षोडशोऽध्यायः ॥ ४.१६॥

४.१७ सप्तदशोऽध्यायः । नारायणवरदानम् ।

जनमेजय उवाच । वाराङ्गनास्त्वयाख्याता नरनारायणाश्रमे । एकं नारायणं शान्तं कामयाना स्मरातुराः ॥ १॥ शप्तुकामस्तदा जातो मुनिर्नारायणश्च ताः । निवारितो नरेणाथ भ्रात्रा धर्मविदा नृप ॥ २॥ किं कृतं मुनिना तेन व्यसने समुपस्थिते । ताभिः सङ्कल्पितेनाथ कामार्थाभिर्भृशं मुने ॥ ३॥ शक्रेणोत्पादिताभिश्च बहुप्रार्थनया पुनः । याचितेन विवाहार्थं किं कृतं तेन जिष्णुना ॥ ४॥ इत्येतच्छ्रोतुमिच्छामि चरितं तस्य मोक्षदम् । नारायणस्य मे ब्रूहि विस्तरेण पितामह ॥ ५॥ व्यास उवाच । श‍ृणु राजन्प्रवक्ष्यामि यथा तस्य महात्मनः । धर्मपुत्रस्य धर्मज्ञ विस्तरेण वदामि ते ॥ ६॥ शप्तुकामस्तु सन्दृष्टो नरेणाथ यदा हरिः । वारितोऽसौ समाश्वास्य मुनिर्नारायणस्तदा ॥ ७॥ शान्तकोपस्तदोवाच तास्तपस्वी महामुनिः । स्मितपूर्वमिदं वाक्यं मधुरं धर्मनन्दनः ॥ ८॥ अस्मिञ्जन्मनि चार्वङ्ग्यः कृतसङ्कल्पवानहम् । आवाभ्याञ्च न कर्तव्यः सर्वथा दारसङ्ग्रहः ॥ ९॥ तस्माद् गच्छन्तु त्रिदिवं कृपां कृत्वा ममोपरि । धर्मज्ञा न प्रकुर्वन्ति व्रतभङ्गं परस्य वै ॥ १०॥ श‍ृङ्गारेऽस्मिन् रसे नूनं स्थायीभावो रतिः स्मृतः । कथं करोमि सम्बन्धं तदभावे सुलोचनाः ॥ ११॥ कारणेन विना कार्यं न भवेदिति निश्चयः । कविभिः कथितं शास्त्रे स्थायीभावो रसः किल ॥ १२॥ धन्यः सुचारुसर्वाङ्गः सभाग्योऽहं धरातले । प्रीतिपात्रं यतो जातो भवतीनामकृत्रिमम् ॥ १३॥ भवतीभिः कृपां कृत्वा रक्षणीयं व्रतं मम । भविष्यामि महाभागाः पतिरप्यन्यजन्मनि ॥ १४॥ अष्टाविंशे विशालाक्ष्यो द्वापरेऽस्मिन्धरातले । देवानां कार्यसिद्ध्यर्थं प्रभविष्यामि सर्वथा ॥ १५॥ तदा भवत्यो मद्दाराः प्राप्य जन्म पृथक्पृथक् । भूपतीनां सुता भूत्वा पलीभावं गमिष्यथ ॥ १६॥ इत्याश्वास्य हरिस्तास्तु प्रतिश्रुत्य परिग्रहम् । व्यसर्जयत्स भगवाञ्जग्मुश्च विगतज्वराः ॥ १७॥ एवं विसर्जितास्तेन गताः स्वर्गं तदाङ्गनाः । शक्राय कथयामासुः कारणं सकलं पुनः ॥ १८॥ आश्रुत्य मघवांस्ताभ्यो वृत्तान्तं तस्य विस्तरात् । तुष्टाव तं महात्मानं नारीर्दृष्ट्वा तथोर्वशीः ॥ १९॥ इन्द्र उवाच । अहो धैर्यं मुनेः कामं तथैव च तपोबलम् । येनोर्वश्यः स्वतपसा तादृग्रूपाः प्रकल्पिताः ॥ २०॥ इति स्तुत्वा प्रसन्नात्मा बभूव सुरराट् ततः । नारायणोऽपि धर्मात्मा तपस्यभिरतोऽभवत् ॥ २१॥ इत्येतत्सर्वमाख्यातं मुनेर्वृत्तान्तमद्भुतम् । नारायणस्य सकलं नरस्य च महामुनेः ॥ २२॥ तौ हि कृष्णार्जुनौ वीरौ भूभारहरणाय च । जातौ तौ भरतश्रेष्ठ भृगोः शापवशादिह ॥ २३॥ राजोवाच । कृष्णावतारचरितं विस्तरेण वदस्व मे । सन्देहो मम चित्तेऽस्ति तं निवारय मानद ॥ २४॥ ययोः पुत्रत्वमापन्नौ हर्यनन्तौ महाबलौ । देवकीवसुदेवौ तौ दुःखभाजौ कथं मुने ॥ २५॥ कंसेन निगडे बद्धौ पीडितौ बहुवत्सरान् । ययोः पुत्रो हरिः साक्षात्तपसा तोषितोऽभवत् ॥ २६॥ जातोऽसौ मथुरायां तु गोकुले स कथं गतः । कंसं हत्वा द्वारवत्यां निवासं कृतवान्कथम् ॥ २७॥ पित्रादिसेवितं देशं समृद्धं पावनं किल । त्यक्त्वा देशान्तरेऽनार्ये गतवान्स कथं हरिः ॥ २८॥ कुलञ्च द्विजशापेन कथमुत्सादितं हरेः । भारावतारणं कृत्वा वासुदेवः सनातनः ॥ २९॥ देहं मुमोच तरसा जगाम च दिवं हरिः । पापिष्ठानाञ्च भारेण व्याकुलाभूच्च मेदिनी ॥ ३०॥ ते हता वासुदेवेन पार्थेनामितकर्मणा । लुण्ठिता यैर्हरेः पत्न्यस्ते कथं न निपातिताः ॥ ३१॥ भीष्मो द्रोणस्तथा कर्णो बाह्लिकोऽप्यथ पार्थिवः । वैराटोऽथ विकर्णश्च धृष्टद्युम्नश्च पार्थिवः ॥ ३२॥ सोमदत्तादयः सर्वे निहताः समरे नृपाः । तेषामुत्तारितो भारश्चौराणां न हृतः कथम् ॥ ३३॥ कृष्णपत्न्यः कथं दुःखं प्राप्ताः प्रान्ते पतिव्रताः । सन्देहोऽयं मुनिश्रेष्ठ चित्ते मे परिवर्तते ॥ ३४॥ वसुदेवस्तु धर्मात्मा पुत्रदुःखेन तापितः । त्यक्तवान्स कथं प्राणानपमृत्युं जगाम ह ॥ ३५॥ पाण्डवा धर्मसंयुक्ताः कृष्णे च निरताः सदा । ते कथं दुःखभोक्तारो ह्यभवन्मुनिसत्तम ॥ ३६॥ द्रौपदी च महाभागा कथं दुःखस्य भागिनी । वेदीमध्याच्च सञ्जाता लक्ष्म्यंशसम्भवा किल ॥ ३७॥ सभायां सा समानीता रजोदोषसमन्विता । बाला दुःशासनेनाथ केशग्रहणकर्शिता ॥ ३८॥ पीडिता सिन्धुराज्ञाथ वनमध्यगता सती । तथैव कीचकेनापि पीडिता रुदती भृशम् ॥ ३९॥ पुत्राः पञ्चैव तस्यास्तु निहता द्रौणिना गृहे । सुभद्रायाः सुतो युद्धे बाल एव निपातितः ॥ ४०॥ तथा च देवकीपुत्रा षट् कंसेन निषूदिताः । समर्थेनापि हरिणा दैवं न कृतमन्यथा । ४१॥ यादवानां तथा शापः प्रभासे निधनं पुनः । कुलक्षयस्तथा तीव्रस्तत्पत्नीनाञ्च लुण्ठनम् ॥ ४२॥ विष्णुना चेश्वरेणापि साक्षान्नारायणेन च । उग्रसेनस्य सेवा वै दासवत्सततं कृता ॥ ४३॥ सन्देहोऽयं महाभाग तत्र नारायणे मुनौ । सर्वजन्तुसमानत्वं व्यवहारे निरन्तरम् ॥ ४४॥ हर्षशोकादयो भावाः सर्वेषां सदृशाः कथम् । ईश्वरस्य हरेर्जाता कथमप्यन्यथा गतिः ॥ ४५॥ तस्माद्विस्तरतो ब्रूहि कृष्णस्य चरितं महत् । अलौकिकेन हरिणा कृतं कर्म महीतले ॥ ४६॥ हता आयुःक्षये दैत्याः क्लेशेन महता पुनः । क्वैश्वर्यशक्तिः प्रथिता हरिणा मुनिसत्तम ॥ ४७॥ रुक्मिणीहरणे नूनं गृहीत्वाथ पलायनम् । कृतं हि वासुदेवेन चौरवच्चरितं तदा ॥ ४८॥ मथुरामण्डलं त्यक्त्वा समृद्धं कुलसम्मतम् । जरासन्धभयात्तेन द्वारकागमनं कृतम् ॥ ४९॥ तदा केनापि न ज्ञातो भगवान्हरिरीश्वरः । किञ्चित्प्रब्रूहि मे ब्रह्मन् कारणं व्रजगोपनम् ॥ ५०॥ एते चान्ये च बहवः सन्देहा वासवीसुत । नाशयाद्य महाभाग सर्वज्ञोऽसि द्विजोत्तम ॥ ५१॥ गोप्यस्तथैकः सन्देहो हृदयान्न निवर्तते । पाञ्चाल्याः पञ्चभर्तृत्वं लोके किं न जुगुप्सितम् ॥ ५२॥ सदाचारं प्रमाणं हि प्रवदन्ति मनीषिणः । पशुधर्मः कथं तैस्तु समर्थैरपि संश्रितः ॥ ५३॥ भीष्मेणापि कृतं किं वा देवरूपेण भूतले । गोलकौ तौ समुत्पाद्य यत्तु वंशस्य रक्षणम् ॥ ५४॥ धिग्धर्मनिर्णयः कामं मुनिभिः परिदर्शितः । येन केनाप्युपायेन पुत्रोत्पादनलक्षणः ॥ ५५॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे सुराङ्गनानां प्रति नारायणवरदानं नाम सप्तदशोऽध्यायः ॥ ४.१७॥

४.१८ अष्टादशोऽध्यायः । ब्रह्माणं प्रति विष्णुवाक्यम् ।

व्यास उवाच । श‍ृणु राजन्प्रवक्ष्यामि कृष्णस्य चरितं महत् । अवतारकारणं चैव देव्याश्चरितमद्भुतम् ॥ १॥ धरैकदा भराक्रान्ता रुदती चातिकर्शिता । गोरूपधारिणी दीना भीतागच्छत्त्रिविष्टपम् ॥ २॥ पृष्टा शक्रेण किं तेऽद्य वर्तते भयमित्यथ । केन वै पीडितासि त्वं किं ते दुःखं वसुन्धरे ॥ ३॥ तच्छ्रुत्वेला तदोवाच श‍ृणु देवेश मेऽखिलम् । दुःखं पृच्छसि यत्त्वं मे भाराक्रान्तोऽस्मि मानद ॥ ४॥ जरासन्धो महापापी मागधेषु पतिर्मम । शिशुपालस्तथा चैद्यः काशिराजः प्रतापवान् ॥ ५॥ रुक्मी च बलवान्कंसो नरकश्च महाबलः । शाल्वः सौभपतिः क्रूरः केशी धेनुकवत्सकौ ॥ ६॥ सर्वे धर्मविहीनाश्च परस्परविरोधिनः । पापाचारा मदोन्मत्ताः कालरूपाश्च पार्थिवाः ॥ ७॥ तैरहं पीडिता शक्र भाराक्रान्ताक्षमा विभो । किं करोमि क्व गच्छामि चिन्ता मे महती स्थिता ॥ ८॥ पीडिताहं वराहेण विष्णुना प्रभविष्णुना । शक्र जानीहि हरिणा दुःखाद्दुःखतरं गता ॥ ९॥ यतोऽहं दुष्टदैत्येन कश्यपस्यात्मजेन वै । हृताहं हिरण्याक्षेण मग्ना तस्मिन्महार्णवे ॥ १०॥ तदा सूकररूपेण विष्णुना निहतोऽप्यसौ । उद्धृताहं वराहेण स्थापिता हि स्थिरा कृता ॥ ११॥ नोचेद्रसातले स्वस्था स्थिता स्यां सुखशायिनी । न शक्तास्म्यद्य देवेश भारं वोढुं दुरात्मनाम् ॥ १२॥ अग्रे दुष्टः समायाति ह्यष्टाविंशस्तथा कलिः । तदाहं पीडिता शक्र गन्तास्म्याशु रसातलम् ॥ १३॥ तस्मात्त्वं देवदेवेश दुःखरूपार्णवस्य च । पारदो भव भारं मे हर पादौ नमामि ते ॥ १४॥ इन्द्र उवाच । इले किं ते करोम्यद्य ब्रह्माणं शरणं व्रज । अहं तत्रागमिष्यामि स ते दुःखं हरिष्यति ॥ १५॥ तच्छ्रुत्वा त्वरिता पृथ्वी ब्रह्मलोकं गता तदा । शक्रोऽपि पृष्ठतः प्राप्तः सर्वदेवपुरःसरः ॥ १६॥ सुरभीमागतां तत्र दृष्ट्वोवाच प्रजापतिः । महीं ज्ञात्वा महाराज ध्यानेन समुपस्थिताम् ॥ १७॥ कस्माद्रुदसि कल्याणि किं ते दुःखं वदाधुना । पीडितासि च केन त्वं पापाचारेण भूर्वद ॥ १८॥ धरोवाच । कलिरायाति दुष्टोऽयं बिभेमि तद्भयादहम् । पापाचाराः प्रजास्तत्र भविष्यन्ति जगत्पते ॥ १९॥ राजानश्च दुराचाराः परस्परविरोधिनः । चौरकर्मरताः सर्वे राक्षसाः पूर्णवैरिणः ॥ २०॥ तान्हत्वा नृपतीन्भारं हर मेऽद्य पितामह । पीडितास्मि महाराज सैन्यभारेण भूभृताम् ॥ २१॥ ब्रह्योवाच । नाहं शक्तस्तथा देवि भारावतरणे तव । गच्छावः सदनं विष्णोर्देवदेवस्य चक्रिणः ॥ २२॥ स ते भारापनोदं वै करिष्यति जनार्दनः । पूर्वं मयापि ते कार्यं चिन्तितं सुविचार्य च ॥ २३॥ तत्र गच्छ सुरश्रेष्ठ यत्र देवो जनार्दनः । व्यास उवाच । इत्युक्त्वा वेदकर्तासौ पुरस्कृत्य सुरांश्च गाम् ॥ २४॥ जगाम विष्णुसदनं हंसारूढश्चतुर्मुखः । तुष्टाव वेदवाक्यैश्च भक्तिप्रवणमानसः ॥ २५॥ ब्रह्मोवाच । सहस्रशीर्षास्त्वमसि सहस्राक्षः सहस्रपात् । त्वं वेदपुरुषः पूर्वं देवदेवः सनातनः ॥ २६॥ भूतपूर्वं भविष्यच्च वर्तमानं च यद्विभो । अमरत्वं त्वया दत्तमस्माकं च रमापते ॥ २७॥ एतावान्महिमा तेऽस्ति को न वेत्ति जगत्त्रये । त्वं कर्ताप्यविता हन्ता त्वं सर्वगतिरीश्वरः ॥ २८॥ व्यास उवाच । इतीडितः प्रभुर्विष्णुः प्रसन्नो गरुडध्वजः । दर्शनञ्च ददौ तेभ्यो ब्रह्मादिभ्योऽमलाशयः ॥ २९॥ पप्रच्छ स्वागतं देवान्प्रसन्नवदनो हरिः । ततस्त्वागमने तेषां कारणञ्च सविस्तरम् ॥ ३०॥ तमुवाचाब्जजो नत्वा धरादुःखञ्च संस्मरन् । भारावतरणं विष्णो कर्तव्यं ते जनार्दन ॥ ३१॥ भुवि धृत्वावतारं त्वं द्वापरान्ते समागते । हत्वा दुष्टान्नृपानुर्व्या हर भारं दयानिधे ॥ ३२॥ विष्णुरुवाच । नाहं स्वतन्त्र एवात्र न ब्रह्मा न शिवस्तथा । नेन्द्रोऽग्निर्न यमस्त्वष्टा न सूर्यो वरुणस्तथा ॥ ३३॥ योगमायावशे सर्वमिदं स्थावरजङ्गमम् । ब्रह्मादिस्तम्बपर्यन्तं ग्रथितं गुणसूत्रतः ॥ ३४॥ यथा सा स्वेच्छया पूर्वं कर्तुमिच्छति सुव्रत । तथा करोति सुहिता वयं सर्वेऽपि तद्वशाः ॥ ३५॥ यद्यहं स्यां स्वतन्त्रो वै चिन्तयन्तु धिया किल । कुतोऽभवं मत्स्यवपुः कच्छपो वा महार्णवे ॥ ३६॥ तिर्यग्योनिषु को भोगः का कीर्तिः किं सुखं पुनः । किं पुण्यं किं फलं तत्र क्षुद्रयोनिगतस्य मे ॥ ३७॥ कोलो वाथ नृसिंहो वा वामनो वाभवं कुतः । जमदग्निसुतः कस्मात्सम्भवेयं पितामह ॥ ३८॥ नृशंसं वा कथं कर्म कृतवानस्मि भूतले । क्षतजैस्तु ह्रदान्सर्वान्पूरयेयं कथं पुनः ॥ ३९॥ तत्कथं जमदग्नेश्च पुत्रो भूत्वा द्विजोत्तमः । क्षत्रियान्हतवानाजौ निर्दयो गर्भगानपि ॥ ४०॥ रामो भूत्वाथ देवेन्द्र प्राविशद्दण्डकं वनम् । पदातिश्चीरवासाश्च जटावल्कलवान्पुनः ॥ ४१॥ असहायो ह्यपाथेयो भीषणे निर्जने वने । कुर्वन्नाखेटकं तत्र व्यचरं विगतत्रपः ॥ ४२॥ न ज्ञातवान्मृगं हैमं मायया पिहितस्तदा । उटजे जानकीं त्यक्त्वा निर्गतस्तत्पदानुगः ॥ ४३॥ लक्ष्मणोऽपि च तां त्यक्त्वा निर्गतो मत्पदानुगः । वारितोऽपि मयात्यर्थं मोहितः प्राकृतैर्गुणैः ॥ ४४॥ भिक्षुरूपं ततः कृत्वा रावणः कपटाकृतिः । जहार तरसा रक्षो जानकीं शोककर्शिताम् ॥ ४५॥ दुःखार्तेन मया तत्र रुदितञ्च वने वने । सुग्रीवेण च मित्रत्वं कृतं कार्यवशान्मया ॥ ४६॥ अन्यायेन हतो वाली शापाच्चैव निवारितः । सहायान्वानरान् कृत्वा लङ्कायां चलितः पुनः ॥ ४७॥ बद्धोऽहं नागपाशैश्च लक्ष्मणश्च ममानुजः । विसंज्ञौ पतितौ दृष्ट्वा वानरा विस्मयं गताः ॥ ४८॥ गरुडेन तदाऽऽगत्य मोचितौ भ्रातरौ किल । चिन्ता मे महती जाता दैवं किं वा करिष्यति ॥ ४९॥ हृतं राज्यं वने वासो मृतस्तातः प्रिया हृता । युद्धं कष्टं ददात्येवमग्रे किं वा करिष्यति ॥ ५०॥ प्रथमं तु महद्दुःखमराज्यस्य वनाश्रयम् । राजपुत्र्यान्वितस्यैव धनहीनस्य मे सुराः ॥ ५१॥ वराटिकापि पित्रा मे न दत्ता वननिर्गमे । पदातिरसहायोऽहं धनहीनश्च निर्गतः ॥ ५२॥ चतुर्दशैव वर्षाणि नीतानि च तदा मया । क्षात्रं धर्मं परित्यज्य व्याधवृत्त्या महावने ॥ ५३॥ दैवाद्युद्धे जयः प्राप्तो निहतोऽसौ महासुरः । आनीता च पुनः सीता प्राप्तायोध्या मया तथा ॥ ५४॥ वर्षाणि कतिचित्तत्र सुखं संसारसम्भवम् । प्राप्तं राज्यञ्च सम्पूर्णं कोसलानधितिष्ठता ॥ ५५॥ पुरैवं वर्तमानेन प्राप्तराज्येन वै तदा । लोकापवादभीतेन त्यक्ता सीता वने मया ॥ ५६॥ कान्ताविरहजं दुःखं पुनः प्राप्तं दुरासदम् । पातालं सा गता पश्चाद्धरां भित्त्वा धरात्मजा ॥ ५७॥ एवं रामावतारेऽपि दुःखं प्राप्तं निरन्तरम् । परतन्त्रेण मे नूनं स्वतन्त्रः को भवेत्तदा ॥ ५८॥ पश्चात्कालवशात्प्राप्तः स्वर्गो मे भ्रातृभिः सह । परतन्त्रस्य का वार्ता वक्तव्या विबुधेन वै ॥ ५९॥ परतन्त्रोऽत्म्यहं नूनं पद्मयोने निशामय । तथा त्वमपि रुद्रश्च सर्वे चान्ये सुरोत्तमाः ॥ ६०॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे ब्रह्माणं प्रति विष्णुवाक्यं नामाष्टादशोऽध्यायः ॥ ४.१८॥

४.१९ एकोनविंशोऽध्यायः । देवान् प्रति देवीवाक्यवर्णनम् ।

व्यास उवाच । इत्युक्त्वा भगवान्विष्णुः पुनराह प्रजापतिम् । यन्मायामोहितः सर्वस्तत्त्वं जानाति नो जनः ॥ १॥ वयं मायावृताः कामं न स्मरामो जगद्गुरुम् । परमं पुरुषं शान्तं सच्चिदानन्दमव्ययम् ॥ २॥ अहं विष्णुरहं ब्रह्मा शिवोऽहमिति मोहिताः । न जानीमो वयं धातः परं वस्तु सनातनम् ॥ ३॥ यन्मायामोहितश्चाहं सदा वर्ते परात्मनः । परवान्दारुपाञ्चाली मायिकस्य यथा वशे ॥ ४॥ भवतापि तथा दृष्टा विभूतिस्तस्य चाद्भुता । कल्पादौ भवयुक्तेन मयापि च सुधार्णवे ॥ ५॥ मणिद्वीपेऽथ मन्दारविटपे रासमण्डले । समाजे तत्र सा दृष्टा श्रुता न वचसापि च ॥ ६॥ तस्मात्तां परमां शक्तिं स्मरन्त्वद्य सुराः शिवाम् । सर्वकामप्रदां मायामाद्यां शक्तिं परात्मनः ॥ ७॥ व्यास उवाच । इत्युक्ता हरिणा देवा ब्रह्माद्या भुवनेश्वरीम् । सस्मरुर्मनसा देवीं योगमायां सनातनीम् ॥ ८॥ स्मृतमात्रा तदा देवी प्रत्यक्षं दर्शनं ददौ । पाशाङ्कुशवराभीतिधरा देवी जपारुणा । दृष्ट्वा प्रमुदिता देवास्तुष्टुवुस्तां सुदर्शनाम् ॥ ९॥ देवा ऊचुः । ऊर्णनाभाद्यथा तन्तुर्विस्फुलिङ्गा विभावसोः । तथा जगद्यदेतस्या निर्गतं तां नता वयम् ॥ १०॥ यन्मायाशक्तिसङ्कॢप्तं जगत्सर्वं चराचरम् । तां चितं भुवनाधीशां स्मरामः करुणार्णवाम् ॥ ११॥ यदज्ञानाद्भवोत्पत्तिर्यज्ज्ञानाद्भवनाशनम् । संविद्रूपां च तां देवीं स्मरामः सा प्रचोदयात् ॥ १२॥ महालक्ष्यै च विद्महे सर्वशक्त्यै च धीमहि । तन्नो देवी प्रचोदयात् ॥ १३॥ मातर्नताः स्म भुवनार्तिहरे प्रसीद शन्तो विधेहि कुरु कार्यमिदं दयार्द्रे । भारं हरस्व विनिहत्य सुरारिवर्गं मह्या महेश्वरि सतां कुरु शं भवानि ॥ १४॥ यद्यम्बुजाक्षि दयसे न सुरान्कदाचित् किं ते क्षमा रणमुखेऽसिशरैः प्रहर्तुम् । एतत्त्वयैव गदितं ननु यक्षरूपं धृत्वा तृणं दह हुताश पदाभिलाषैः ॥ १५॥ कंसः कुजोऽथ यवनेन्द्रसुतश्च केशी बार्हद्रथो बकबकीखरशाल्वमुख्याः । येऽन्ये तथा नृपतयो भुवि सन्ति तांस्त्वं हत्वा हरस्व जगतो भरमाशु मातः ॥ १६॥ ये विष्णुना न निहताः किल शङ्करेण ये वा विगृह्य जलजाक्षि पुरन्दरेण । ते ते मुखं सुखकरं सुसमीक्षमाणाः सङ्ख्ये शरैर्विनिहता निजलीलया ते ॥ १७॥ शक्तिं विना हरिहरप्रमुखाः सुराश्च ॥ नैवेश्वरा विचलितुं तव देवदेवि । किं धारणाविरहितः प्रभुरप्यनन्तो धर्तुं धराञ्च रजनीशकलावतंसे ॥ १८॥ इन्द्र उवाच । वाचा विना विधिरलं भवतीह विश्वं कर्तुं हरिः किमु रमारहितोऽथ पातुम् । संहर्तुमीश उमयोज्झित ईश्वरः किं ते ताभिरेव सहिताः प्रभवः प्रजेशाः ॥ १९॥ विष्णुरुवाच । कर्तुं प्रभुर्न द्रुहिणो न कदाचनाहं नापीश्वरस्तव कलारहितस्त्रिलोक्याः । कर्तुं प्रभुत्वमनघेऽत्र तथा विहर्तुं त्वं वै समस्तविभवेश्वरि भासि नूनम् ॥ २०॥ व्यास उवाच । एवं स्तुता तदा देवी तानाह विबुधेश्वरान् । किं तत्कार्यं वदन्त्वद्य करोमि विगतज्वराः ॥ २१॥ असाध्यमपि लोकेऽस्मिंस्तत्करोमि सुरेप्सितम् । शंसन्तु भवतां दुःखं धरायाश्च सुरोत्तमाः ॥ २२॥ देवा ऊचुः । वसुधेयं भराक्रान्ता सम्प्राप्ता विबुधान्प्रति । रुदती वेपमाना च पीडिता दुष्टभूभुजैः ॥ २३॥ भारापहरणं चास्याः कर्तव्यं भुवनेश्वरि । देवानामीष्मित कार्यमेतदेवाधुना शिवे ॥ २४॥ घातितस्तु पुरा मातस्त्वया महिषरूपभृत् । दानवोऽतिबलाक्रान्तस्तत्सहायाश्च कोटिशः ॥ २५॥ तथा शुम्भो निशुम्भश्च रक्तबीजस्तथापरः । चण्डमुण्डौ महावीर्यौ तथैव धूम्रलोचनः ॥ २६॥ दुर्मुखो दुःसहश्चैव करालश्चाति वीर्यवान् । अन्ये च बहवः क्रूरास्त्वयैव च निपातिताः ॥ २७॥ तथैव च सुरारींश्च जहि सर्वान्महीश्वरान् । (भारं हर धरायाश्च दुर्धरं दुष्टभूभुजां ।)॥ व्यास उवाच । इत्युक्ता सा तदा देवी देवानाहाम्बिका शिवा ॥ २८॥ सम्प्रहस्यासितापाङ्गी मेघगम्भीरया गिरा । श्रीदेव्युवाच । मयेदं चिन्तितं पूर्वमंशावतरणं सुराः ॥ २९॥ भारावतरणं चैव यथा स्याद्दुष्टभूभुजाम् । मया सर्वे निहन्तव्या दैत्येशा ये महीभुजः ॥ ३०॥ मागधाद्या महाभागाः स्वशक्त्या मन्दतेजसः । भवद्भिरपि स्वैरंशैरवतीर्य धरातले ॥ ३१॥ मच्छक्तियुक्तैः कर्तव्यं भारावतरणं सुराः । कश्यपो भार्यया सार्धं दिविजानां प्रजापतिः ॥ ३२॥ यादवानां कुले पूर्वं भविताऽऽनकदुन्दुभिः । तथैव भृगुशापाद्वै भगवान्विष्णुरव्ययः ॥ ३३॥ अंशेन भविता तत्र वसुदेवसुतो हरिः । तदाहं प्रभविष्यामि यशोदायां च गोकुले ॥ ३४॥ कार्यं सर्वं करिष्यामि सुराणां सुरसत्तमाः । कारागारे गतं विष्णुं प्रापयिष्यामि गोकुले ॥ ३५॥ शेषं च देवकीगर्भात्प्रापयिष्यामि रोहिणीम् । मच्छक्त्योपचितौ तौ च कर्तारौ दुष्टसङ्क्षयम् ॥ ३६॥ दुष्टानां भूभुजां कामं द्वापरान्ते सुनिश्चितम् । इन्द्रांशोऽप्यर्जुनः साक्षात्करिष्यति बलक्षयम् ॥ ३७॥ धर्मांशोऽपि महाराजो भविष्यति युधिष्ठिरः । वाय्वंशो भीमसेनश्चाश्विन्यंशौ च यमावपि ॥ ३८॥ वसोरंशोऽथ गाङ्गेयः करिष्यति बलक्षयम् । व्रजन्तु च भवन्तोऽद्य धरा भवतु सुस्थिरा ॥ ३९॥ भारावतरणं नूनं करिष्यामि सुरोत्तमाः । कृत्वा निमित्तमात्रांस्तान्स्वशक्त्याहं न संशयः ॥ ४०॥ कुरुक्षेत्रे करिष्यामि क्षत्त्रियाणां च सङ्क्षयम् । असूयेर्ष्या मतिस्तृष्णा ममताभिमता स्पृहा ॥ ४१॥ जिगीषा मदनो मोहो दोषैर्नक्ष्यन्ति यादवाः । ब्राह्मणस्य च शापेन वंशनाशो भविष्यति ॥ ४२॥ भगवानपि शापेन त्यक्ष्यत्येतत्कलेवरम् । भवन्तोऽपि निजाङ्गैश्च सहायाः शार्ङ्गधन्वनः ॥ ४३॥ प्रभवन्तु सनारीका मथुरायां च गोकुले । व्यास उवाच । इत्युक्त्वान्तर्दधे देवी योगमाया परात्मनः ॥ ४४॥ सधरा वै सुराः सर्वे जग्मुः स्वान्यालयानि च । धरापि सुस्थिरा जाता तस्या वाक्येन तोषिता ॥ ४५॥ ओषधीवीरुधोपेता बभूव जनमेजय । प्रजाश्च सुखिनो जाता द्विजाश्चापुर्महोदयम् । सन्तुष्टा मुनयः सर्वे बभूबुर्धर्मतत्पराः ॥ ४६॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे देवान् प्रति देवीवाक्यवर्णनं नामकोनविंशोऽध्यायः ॥ ४.१९॥

४.२० विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।

व्यास उवाच । श‍ृण भारत वक्ष्यामि भारावतरणं तथा । कुरुक्षेत्रे प्रभासे च क्षपितं योगमायया ॥ १॥ यदुवंशे समुत्पत्तिर्विष्णोरमिततेजसः । भृगुशापप्रतापेन महामायाबलेन च ॥ २॥ क्षितिभारसमुत्तारनिमित्तमिति मे मतिः । मायया विहितो योगो विष्णोर्जन्म धरातले ॥ ३॥ किं चित्रं नृप देवी सा ब्रह्मविष्णुसुरानपि । नर्तयत्यनिशं माया त्रिगुणानपरान्किमु ॥ ४॥ गर्भवासोद्भवं दुःखं विण्मूत्रस्नायुसंयुतम् । विष्णोरापादितं सम्यग्यया विगतलीलया ॥ ५॥ पुरा रामावतारेऽपि निर्जरा वानराः कृताः । विदितं ते यथा विष्णुर्दुःखपाशेन मोहितः ॥ ६॥ अहं ममेति पाशेन सुदृढेन नराधिप । योगिनो मुक्तसङ्गाश्च भुक्तिकामा मुमुक्षवः ॥ ७॥ तामेव समुपासन्ते देवीं विश्वेश्वरीं शिवाम् । यद्भक्तिलेशलेशांशलेशलेशलवांशकम् ॥ ८॥ लब्ध्वा मुक्तो भवेज्जन्तुस्तां न सेवेत को जनः । भुवनेशीत्येव वक्त्रे ददाति भुवनत्रयम् ॥ ९॥ मां पाहीत्यस्य वचसो देयाभावादृणान्विता । विद्याविद्येति तस्या द्वे रूपे जानीहि पार्थिव ॥ १०॥ विद्यया मुच्यते जन्तुर्बध्यतेऽविद्यया पुनः । ब्रह्मा विष्णुश्च रुद्रश्च सर्वे तस्या वशानुगाः ॥ ११॥ अवताराः सर्व एव यन्त्रिता इव दामभिः । कदाचिच्च सुखं भुङ्क्ते वैकुण्ठे क्षीरसागरे ॥ १२॥ कदाचित्कुरुते युद्धं दानवैर्बलवत्तरैः । हरिः कदाचिद्यज्ञान्वै विततान्प्रकरोति च ॥ १३॥ कदाचिच्च तपस्तीव्रं तीर्थे चरति सुव्रत । कदाचिच्छयने शेते योगनिद्रामुपाश्रितः ॥ १४॥ न स्वतन्त्रः कदाचिच्च भगवान्मधुसूदनः । तथा ब्रह्मा तथा रुद्रस्तथेन्द्रो वरुणो यमः ॥ १५॥ कुबेरोऽग्नी रवीन्दू च तथान्ये सुरसत्तमाः । मुनयः सनकाद्याश्च वसिष्ठाद्यास्तथापरे ॥ १६॥ सर्वेऽम्बावशगा नित्यं पाञ्चालीव नरस्य च । नसि प्रोता यथा गावो विचरन्ति वशानुगाः ॥ १७॥ तथैव देवताः सर्वाः कालपाशनियन्त्रिताः । हर्षशोकादयो भावा निद्रातन्द्रालसादयः ॥ १८॥ सर्वेषां सर्वदा राजन्देहिनां देहसंश्रिताः । अमरा निर्जराः प्रोक्ता देवाश्च ग्रन्थकारकैः ॥ १९॥ अभिधानतश्चार्थतो न ते नूनं तादृशाः क्वचित् । उत्पत्तिस्थितिनाशाख्या भावा येषां निरन्तरम् ॥ २०॥ अमरास्ते कथं वाच्या निर्जराश्च कथं पुनः । कथं दुःखाभिभूता वा जायन्ते विबुधोत्तमाः ॥ २१॥ कथं देवाश्च वक्तव्या व्यसने क्रीडनं कथम् । क्षणादुत्पत्तिनाशश्च दृश्यतेऽस्मिन्न संशयः ॥ २२॥ जलजानां च कीटानां मशकानां तथा पुनः । उपमा न कथं चैषामायुषोऽन्ते मराः स्मृताः ॥ २३॥ ततो वर्षायुषश्चापि शतवर्षायुषस्तथा । मनुष्या ह्यमरा देवास्तस्माद् ब्रह्मापरः स्मृतः ॥ २४॥ रुद्रस्तथा तथा विष्णुः क्रमशश्च भवन्ति हि । नश्यन्ति क्रमशश्चैव वर्धन्ति चोत्तरोत्तरम् ॥ २५॥ नूनं देहवतो नाशो मृतस्योत्पत्तिरेव च । चक्रवद् भ्रमणं राजन् सर्वेषां नात्र संशयः ॥ २६॥ मोहजालावृतो जन्तुर्मुच्यते न कदाचन । मायायां विद्यमानायां मोहजालं न नश्यति ॥ २७॥ उत्पित्सुकाल उत्पत्तिः सर्वेषां नृप जायते । तथैव नाशः कल्पान्ते ब्रह्मादीनां यथाक्रमम् ॥ २८॥ निमित्तं यस्तु यन्नाशे स घातयति तं नृप । नान्यथा तद्भवेन्नूनं विधिना निर्मितं तु यत् ॥ २९॥ जन्ममृत्युजराव्याधिदुःखं वा सुखमेव वा । तत्तथैव भवेत्कामं नान्यथेह विनिर्णयः ॥ ३०॥ सर्वेषां सुखदौ देवौ प्रत्यक्षौ शशिभास्करौ । न नश्यति तयोः पीडा क्यचित्तद्वैरिसम्भवा ॥ ३१॥ भास्करस्य सुतो मन्दः क्षयी चन्द्रः कलङ्कवान् । पश्य राजन् विधेः सूत्रं दुर्वारं महतामपि ॥ ३२॥ वेदकर्ता जगत्स्रष्टा बुद्धिदस्तु चतुर्मुखः । सोऽपि विक्लवतां प्राप्तो दृष्ट्वा पुत्रीं सरस्वतीम् ॥ ३३॥ शिवस्यापि मृता भार्या सती दग्ध्वा कलेवरम् । सोऽभवद्दुःखसन्तप्तः कामार्तश्च जनार्तिहा ॥ ३४॥ कामाग्निदग्धदेहस्तु कालिन्द्यां पतितः शिवः । सापि श्यामजला जाता तन्निदाघवशान्नृप ॥ ३५॥ कामार्तो रममाणस्तु नग्नः सोऽपि भृगोर्वनम् । गतः प्राप्तोऽथ भृगुणा शप्तः कामातुरो भृशम् ॥ ३६॥ पतत्वद्यैव ते लिङ्गं निर्लज्जेति भृशं किल । पपौ चामृतवापीञ्च दानवैर्निर्मितां मुदे ॥ ३७॥ इन्द्रोऽपि च वृषो भूत्वा वाहनत्वं गतः क्षितौ । आद्यस्य सर्वलोकस्य विष्णोरेव विवेकिनः ॥ ३८॥ सर्वज्ञत्वं गतं कुत्र प्रभुशक्तिः कुतो गता । यद्धेममृगविज्ञानं न ज्ञातं हरिणा किल ॥ ३९॥ राजन् मायाबलं पश्य रामो हि काममोहितः । रामो विरहसन्तप्तो रुरोद भृशमातुरः ॥ ४०॥ योऽपृच्छत्पादपान्मूढः क्व गता जनकात्मजा । भक्षिता वा हृता केन रुदन्नुच्चतरं ततः ॥ ४१॥ लक्ष्मणाहं मरिष्यामि कान्ताविरहदुःखितः । त्वं चापि मम दुःखेन मरिष्यसि वनेऽनुज ॥ ४२॥ आवयोर्मरणं ज्ञात्वा माता मम मरिष्यति । शत्रुघ्नोऽप्यतिदुःखार्तः कथं जीवितुमर्हति ॥ ४३॥ सुमित्रा जीवितं जह्यात्पुत्रव्यसनकर्शिता । पूर्णकामाथ कैकेयी भवेत्पुत्रसमन्विता ॥ ४४॥ हा सीते क्व गतासि त्वं मां विहाय स्मरातुरा । एह्येहि मृगशावाक्षि मां जीवय कृशोदरि ॥ ४५॥ किं करोमि क्व गच्छामि त्वदधीनञ्च जीवितम् । समाश्वासय दीनं मां प्रियं जनकनन्दिनि ॥ ४६॥ एवं विलपता तेन रामेणामिततेजसा । वने वने च भ्रमता नेक्षिता जनकात्मजा ॥ ४७॥ शरण्यः सर्वलोकानां रामः कमललोचनः । शरणं वानराणां स गतो मायाविमोहितः ॥ ४८॥ सहायान्वानरान्कृत्वा बबन्ध वरुणालयम् । जघान रावणं वीरं कुम्भकर्णं महोदरम् ॥ ४९॥ आनीय च ततः सीतां रामो दिव्यमकारयत् । सर्वज्ञोऽपि हृतां मत्वा रावणेन दुरात्मना ॥ ५०॥ किं ब्रवीमि महाराज योगमायाबलं महत् । यया विश्वमिदं सर्वं भ्रामितं भ्रमते किल ॥ ५१॥ एवं नानावतारेऽत्र विष्णुः शापवशं गतः । करोति विविधाश्चेष्टा दैवाधीनः सदैव हि ॥ ५२॥ तवाहं कथयिष्यामि कृष्णस्यापि विचेष्टितम् । प्रभवं मानुषे लोके देवकार्यार्थसिद्धये ॥ ५३॥ कालिन्दीपुलिने रम्ये ह्यासीन्मधुवनं पुरा । लवणो मधुपुत्रस्तु तत्रासीद्दानवो बली ॥ ५४॥ द्विजानां दुःखदः पापो वरदानेन गर्वितः । निहतोऽसौ महाभाग लक्ष्मणस्यानुजेन वै ॥ ५५॥ शत्रुघ्नेनाथ सङ्ग्रामे तं निहत्य मदोत्कटम् । वासिता मथुरा नाम पुरी परमशोभना ॥ ५६॥ स तत्र पुष्कराक्षौ द्वौ पुत्रौ शत्रुनिषूदनः । निवेश्य राज्ये मतिमान्काले प्राप्ते दिवं गतः ॥ ५७॥ सूर्यवंशक्षये तां तु यादवाः प्रतिपेदिरे । मथुरां मुक्तिदा राजन् ययातितनयः पुरा ॥ ५८॥ श्ण्सेनाभिधः श्द्वस्तत्राभून्मेदिनीपतिः । माथुराच्छूरसेनांश्च बुभुजे विषयान्नृप ॥ ५९॥ तत्रोत्पन्नः कश्यपांशः शापाच्च वरुणस्य वै । वसुदेवोऽतिविख्यातः शूरसेनसुतस्तदा ॥ ६०॥ वैश्यवृत्तिरतः सोऽभून्मृते पितरि माधवः । उग्रसेनो बभूवाथ कंसस्तस्यात्मजो महान् ॥ ६१॥ अदितिर्देवकी जाता देवकस्य सुता तदा । शापाद्वै वरुणस्याथ कश्यपानुगता किल ॥ ६२॥ दत्ता सा वसुदेवाय देवकेन महात्मना । विवाहे रचिते तत्र वागभूद् गगने तदा ॥ ६३॥ कंस कंस महाभाग देवकीगर्भसम्भवः । अष्टमस्तु सुतः श्रीमांस्तव हन्ता भविष्यति ॥ ६४॥ तच्छ्रुत्वा वचनं कंसो विस्मितोऽभून्महाबलः । देववाचं तु तां मत्वा सत्यां चिन्तामवाप सः ॥ ६५॥ किं करोमीति सञ्चिन्त्य विमर्शमकरोत्तदा । निहत्यैनां न मे मृत्युर्भवेदद्यैव सत्वरम् ॥ ६६॥ उपायो नान्यथा चास्मिन्कार्ये मृत्युभयावहे । इयं पितृष्वसा पूज्या कथं हन्मीत्यचिन्तयत् ॥ ६७॥ पुनर्विचारयामास मरणं मेऽस्त्यहो स्वसा । पापेनापि प्रकर्तव्या देहरक्षा विपश्चिता ॥ ६८॥ प्रायश्चित्तेन पापस्य शुद्धिर्भवति सर्वदा । प्राणरक्षा प्रकर्तव्या बुधैरप्येनसा तथा ॥ ६९॥ विचिन्त्य मनसा कंसः खड्गमादाय सत्वरः । जग्राह तां वरारोहां केशेष्वाकृष्य पापकृत् ॥ ७०॥ कोशात्खड्गमुपाकृष्य हन्तुकामो दुराशयः । पश्यतां सर्वलोकानां नवोढां तां चकर्ष ह ॥ ७१॥ हन्यमानाञ्च तां दृष्ट्वा हाहाकारो महानभूत् । वसुदेवानुगा वीरा युद्धायोद्यतकार्मुकाः ॥ ७२॥ मुञ्च मुञ्चेति प्रोचुस्तं ते तदाद्भुतसाहसाः । कृपया मोचयामासुर्देवकीं देवमातरम् ॥ ७३॥ तद्युद्धमभवद् घोरं वीराणाञ्च परस्परम् । वसुदेवसहायानां कंसेन च महात्मना ॥ ७४॥ वर्तमाने तथा युद्धे दारुणे लोमहर्षणे । कंसं निवारयामासुर्वृद्धा ये यदुसत्तमाः ॥ ७५॥ पितृष्वसेयं ते वीर पूजनीया च बालिशा । न हन्तव्या त्वया वीर विवाहोत्सवसङ्गमे ॥ ७६॥ स्त्रीहत्या दुःसहा वीर कीर्तिघ्नी पापकृत्तमा । भूतभाषितमात्रेण न कर्तव्या विजानता ॥ ७७॥ अन्तर्हितेन केनापि शत्रुणा तव चास्य वा । उदितेति कुतो न स्याद्वागनर्थकरी विभो ॥ ७८॥ यशसस्ते विघाताय वसुदेवगृहस्य च । अरिणा रचिता वाणी गुणमायाविदा नृप ॥ ७९॥ बिभेषि वीरस्त्वं भूत्वा भूतभाषितभाषया । यशोमूलविघातार्थमुपायस्त्वरिणा कृतः ॥ ८०॥ पितृष्वसा न हन्तव्या विवाहसमये पुनः । भवितव्यं महाराज भवेच्च कथमन्यथा ॥ ८१॥ एवं तैर्बोध्यमानोऽसौ निवृत्तो नाभवद्यदा । तदा तं वसुदेवोऽपि नीतिज्ञः प्रत्यभाषत ॥ ८२॥ कंस सत्यं ब्रवीम्यद्य सत्याधारं जगत्त्रयम् । दास्यामि देवकीपुत्रानुत्पन्नांस्तव सर्वशः ॥ ८३॥ जातं जातं सुतं तुभ्यं न दास्यामि यदि प्रभो । कुम्भीपाके तदा घोरे पतन्तु मम पूर्वजाः ॥ ८४॥ श्रुत्वाथ वचनं सत्यं पौरवा ये पुरःस्थिताः । ऊचुस्ते त्वरिताः कंसं साधु साधु पुनः पुनः ॥ ८५॥ न मिथ्या भाषते क्वापि वसुदेवो महामनाः । केशं मुञ्च महाभाग स्त्रीहत्या पातकं तथा ॥ ८६॥ व्यास उवाच । एवं प्रबोधितः कंसो यदुवृद्धैर्महात्मभिः । क्रोधं त्यक्त्वा स्थितस्तत्र सत्यवाक्यानुमोदितः ॥ ८७॥ ततो दुन्दुभयो नेदुर्वादित्राणि च सस्वनुः । जयशब्दस्तु सर्वेषामुत्पन्नस्तत्र संसदि ॥ ८८॥ प्रसाद्य कंसं प्रतिमोच्य देवकीं महायशाः शूरसुतस्तदानीम् । जगाम गेहं स्वजनानुवृत्तो नवोढया वीतभयस्तरस्वी ॥ ८९॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे कृष्णावतारकथोपक्रमवर्णनं नाम विंशोऽध्यायः ॥ ४.२०॥

४.२१ एकविंशोऽध्यायः । कंसेन देवकीप्रथमपुत्रवधवर्णनम् ।

व्यास उवाच । अथ काले तु सम्प्राप्ते देवकी देवरूपिणी । गर्भं दधार विधिवद्वसुदेवेन सङ्गता ॥ १॥ पूर्णेऽथ दशमे मासे सुषुवे सुतमुत्तमम् । रूपावयवसम्पन्नं देवकी प्रथमं यदा ॥ २॥ तदाऽऽह वसुदेवस्तां सत्यवाक्यानुमोदितः । भावित्वाच्च महाभागो देवकीं देवमातरम् ॥ ३॥ वरोरु समयं मे त्वं जानासि स्वसुतार्पणे । मोचिता त्वं महाभागे शपथेन मया तदा ॥ ४॥ इमं पुत्रं सुकेशान्ते दास्यामि भ्रातृसूनवे । (खले कंसे विनाशार्थं दैवे किं वा करिष्यसि ।)॥ विचित्रकर्मणां पाको दुर्ज्ञेयो ह्यकृतात्मभिः ॥ ५॥ सर्वेषां किल जीवानां कालपाशानुवर्तिनाम् । भोक्तव्यं स्वकृतं कर्म शुभ वा यदि वाशुभम् ॥ ६॥ प्रारब्धं सर्वथैवात्र जीवस्य विधिनिर्मितम् । देवक्युवाच । स्वामिन् पूर्वं कृतं कर्म भोक्तव्यं सर्वथा नृभिः ॥ ७॥ तीर्थैस्तपोभिर्दानैर्वा किं न याति क्षयं हि तत् । लिखितो धर्मशास्त्रेषु प्रायश्चित्तविधिर्नृप ॥ ८॥ पूर्वार्जितानां पापानां विनाशाय महात्मभिः । ब्रह्महा हेमहारी च सुरापो गुरुतल्पगः ॥ ९॥ द्वादशाब्दव्रते चीर्णे शुद्धिं याति यतस्ततः । मन्वादिभिर्यथोद्दिष्टं प्रायश्चित्तं विधानतः ॥ १०॥ तथा कृत्वा नरः पापान्मुच्यते वा न वानघ । विगीतवचनास्ते किं मुनयस्तत्त्वदर्शिनः ॥ ११॥ याज्ञवल्क्यादयः सर्वे धर्मशास्त्रप्रवर्तकाः । भवितव्यं भवत्येव यद्येवं निश्चयः प्रभो ॥ १२॥ आयुर्वेदः स मिथ्यैव मन्त्रवादास्तथाखिलाः । उद्यमस्तु वृथा सर्वमेवं चेद्दैवनिर्मितम् ॥ १३॥ भवितव्यं भवत्येव प्रवृत्तिस्तु निरर्थिका । अग्निष्टोमादिकं व्यर्थं नियतं स्वर्गसाधनम् ॥ १४॥ यदा तदा प्रमाणं हि वृथैव परिभाषितम् । वितथे तत्प्रमाणे तु धर्मोच्छेदः कुतो न हि ॥ १५॥ उद्यमे च कृते सिद्धिः प्रत्यक्षेणैव साध्यते । तस्मादत्र प्रकर्तव्यः प्रपञ्चश्चित्तकल्पितः ॥ १६॥ यथायं बालकः क्षेमं प्राप्नोति मम पुत्रकः । मिथ्या यदि प्रकर्तव्यं वचनं शुभमिच्छता ॥ १७॥ न तत्र दूषणं किञ्चित्पवदन्ति मनीषिणः । वसुदेव उवाच । निशामय महाभागे सत्यमेतद् ब्रवीमि ते ॥ १८॥ उद्यमः खलु कर्तव्यः फलं दैववशानुगम् । त्रिविधानीह कर्माणि संसारेऽत्र पुराविदः ॥ १९॥ प्रवदन्तीह जीवानां पुराणेष्वागमेषु च । सञ्चितानि च जीर्णानि प्रारब्धानि सुमध्यमे ॥ २०॥ वर्तमानानि वामोरु विविधानीह देहिनाम् । शुभाशुभानि कर्माणि बीजभूतानि यानि च ॥ २१॥ बहुजन्मसमुत्थानि काले तिष्ठन्ति सर्वथा । पूर्वदेहं परित्यज्य जीवः कर्मवशानुगः ॥ २२॥ स्वर्गं वा नरकं वापि प्राप्नोति स्वकृतेन वै । दिव्यं देहञ्च सम्प्राप्य यातनादेहमर्थजम् ॥ २३॥ भुनक्ति विविधान् भोगान्स्वर्गे वा नरकेऽथवा । भोगान्ते च यदोत्पत्तेः समयस्तस्य जायते ॥ २४॥ लिङ्गदेहेन सहितं जायते जीवसंज्ञितम् । तदैव सञ्चितेभ्यश्च कर्मभ्यः कर्मभिः पुनः ॥ २५॥ योजयत्येव तं कालं कर्माणि प्राक्कृतानि च । देहेनानेन भाव्यानि शुभानि चाशुभानि च ॥ २६॥ प्रारब्धानि च जीवेन भोक्तव्यानि सुलोचने । प्रायश्चित्तेन नश्यन्ति वर्तमानानि भामिनि ॥ २७॥ सञ्चितानि तथैवाशु यथार्थं विहितेन च । प्रारब्धकर्मणां भोगात्सङ्क्षयो नान्यथा भवेत् ॥ २८॥ तेनायं ते कुमारो वै देयः कंसाय सर्वथा । न मिथ्या वचनं मेऽस्ति लोकनिन्दाभिदूषितम् ॥ २९॥ अनित्येऽस्मिंस्तु संसारे धर्मसारे महात्मनाम् । दैवाधीनं हि सर्वेषां मरणं जननं तथा ॥ ३०॥ तस्माच्छोको न कर्तव्यो देहिना हि निरर्थकः । सत्यं यस्य गतं कान्ते वृथा तस्यैव जीवितम् ॥ ३१॥ इहलोको गतो यस्मात्परलोकः कुतस्ततः । अतो देहि सुतं सुभ्रु कंसाय प्रददाम्यहम् ॥ ३२॥ सत्यसंस्तरणाद्देवि शुभमग्रे भविष्यति । कर्तव्यं सुकृतं पुम्भिः सुखे दुःखे सति प्रिये ॥ ३३॥ (सत्यसंरक्षणाद्देवि शुभमेव भविष्यति)॥ व्यास उवाच । इत्युक्तवति कान्ते सा देवकी शोकसंयुता । ददौ पुत्रं प्रसूतं च वेपमाना मनस्विनी ॥ ३४॥ वसुदेवोऽपि धर्मात्मा आदाय स्वसुतं शिशुम् । जगाम कंससदनं मार्गे लोकैरभिष्टुतः ॥ ३५॥ लोका ऊचुः । पश्यन्तु वसुदेवं भो लोका एवं मनस्विनम् । स्ववाक्यमनुरुध्यैव बालमादाय यात्यसौ ॥ ३६॥ मृत्यवे दातुकामोऽद्य सत्यवागनसूयकः । सफलं जीवितं चास्य धर्मं पश्यन्तु चाद्भुतम् ॥ ३७॥ यः पुत्रं याति कंसाय दातुं कालात्मनेऽपि हि । व्यास उवाच । इति संस्तूयमानस्तु प्राप्तः कंसालयं नृप ॥ ३८॥ ददावस्मै कुमारं तं जातमात्रममानुषम् । कंसोऽपि विस्मयं प्राप्तो दृष्ट्वा धैर्यं महात्मनः ॥ ३९॥ गृहीत्वा बालकं प्राह स्मितपूर्वमिदं वचः । धन्यस्त्वं शूरपुत्राद्य ज्ञातः पुत्रसमर्पणात् ॥ ४०॥ मम मृत्युर्न चायं वै गिरा प्रोक्तस्तु चाष्टमः । न हन्तव्यो मया कामं बालोऽयं यातु ते गहम् ॥ ४१॥ अष्टमस्तु प्रदातव्यस्त्वया पुत्रो महामते । इत्युक्त्वा वसुदेवाय ददावाशु खलः शिशुम् ॥ ४२॥ गच्छत्वयं गृहे बालः क्षेमं व्याहृतवान्नृपः । तमादाय तदा शौरिर्जगाम स्वगृहं मुदा ॥ ४३॥ कंसोऽपि सचिवानाह वृथा किं घातये शिशुम् । अष्टमाद्देवकीपुत्रान्मम मृत्युरुदाहृतः ॥ ४४॥ अतः किं प्रथमं बालं हत्वा पापं करोम्यहम् । साधुसाध्विति तेऽप्युक्त्वा संस्थिता मन्त्रिसत्तमाः ॥ ४५॥ विसर्जितास्तु कंसेन जग्मुस्ते स्वगृहान्प्रति । गतेषु तेषु सम्प्राप्तो नारदो मुनिसत्तमः ॥ ४६॥ अभ्युत्थानार्घ्यपाद्यादि चकारोग्रसुतस्तदा । पप्रच्छ कुशलं राजा तत्रागमनकारणम् ॥ ४७॥ नारदस्तं तदोवाच स्मितपूर्वमिदं वचः । कंस कंस महाभाग गतोऽहं हेमपर्वतम् ॥ ४८॥ तत्र ब्रह्मादयो देवा मन्त्रं चक्रुः समाहिताः । देवक्यां वसुदेवस्य भार्यायां सुरसत्तमः ॥ ४९॥ वधार्थं तव विष्णुश्च जन्म चात्र करिष्यति । तत्कथं न हतः पुत्रस्त्वया नीतिं विजानता ॥ ५०॥ कंस उवाच । अष्टमं च हनिष्येऽहं मृत्युं मे देवभाषितम् । नारद उवाच । न जानासि नृपश्रेष्ठ राजनीतिं शुभाशुभा । ५१॥ मायाबलं च देवानां न त्वं वेत्सि वदामि किम् । रिपुरल्पोऽपि शूरेण नोपेक्ष्यः शुभमिच्छता ॥ ५२॥ सम्मेलनक्रियायां तु सर्वे ते ह्यष्टमाः स्मृताः । मूर्खस्त्वमरिसन्त्यागः कृतोऽयं जानता त्वया ॥ ५३॥ इत्युक्त्वाशु गतः श्रीमान्नारदो देवदर्शनः । गतेऽथ नारदे कंसः समाहूयाथ बालकम् । पाषाणे पोथयामास सुखं प्राप च मन्दधीः ॥ ५४॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां कंसेन देवकीप्रथमपुत्रवधवर्णनं नामैकविंशोऽध्यायः ॥ ४.२१॥

४.२२ द्वाविंशोऽध्यायः । देवदानवानामंशावतरणवर्णनम् ।

जनमेजय उवाच । किं कृतं पातकं तेन बालकेन पितामह । यज्जातमात्रो निहतस्तथा तेन दुरात्मना ॥ १॥ नारदोऽपि मुनिश्रेष्ठो ज्ञानवान्धर्मतत्परः । कथमेवंविधं पापं कृतवान्ब्रह्मवित्तमः ॥ २॥ कर्ता कारयिता पापे तुल्यपापौ स्मृतौ बुधैः । स कथं प्रेरयामास मुनिः कंसं खलं तदा ॥ ३॥ संशयोऽयं महान्मेऽत्र ब्रूहि सर्वं सविस्तरम् । येन कर्मविपाकेन बालको निधनं गतः ॥ ४॥ व्यास उवाच । नारदः कौतुकप्रेक्षी सर्वदा कलहप्रियः । देवकार्यार्थमागत्य सर्वमेतच्चकार ह ॥ ५॥ न मिथ्याभाषणे बुद्धिर्मुनेस्तस्य कदाचन । सत्यवक्ता सुराणां स कर्तव्ये निरतः शुचिः ॥ ६॥ एवं षड् बालकास्तेन जाता जाता निपातिताः । षड् गर्भाः शापयोगेन सम्भूय मरणं गताः ॥ ७॥ श‍ृणु राजन्प्रवक्ष्यामि तेषां शापस्य कारणम् । स्वायम्भुवेऽन्तरे पुत्रा मरीचेः षण्महाबलाः ॥ ८॥ ऊर्णायां चैव भार्यायामासन्धर्मविचक्षणाः । ब्रह्माणं जहसुर्वीक्ष्य सुतां यभितुमुद्यतम् ॥ ९॥ शशाप तांस्तदा ब्रह्मा दैत्ययोनिं विशन्त्वधः । कालनेमिसुता जातास्ते षड्गर्भा विशाम्पते ॥ १०॥ अवतारे परे ते तु हिरण्यकशिपोः सुताः । जातास्ते ज्ञानसंयुक्ताः पूर्वशापभयान्नृप ॥ ११॥ तस्मिञ्जन्मनि शान्ताश्च तपश्चक्रुः समाहिताः । तेषां प्रीतोऽभवद् ब्रह्मा षड्गर्भाणां वरान्ददौ ॥ १२॥ ब्रह्मोवाच । शप्ता यूयं मया पूर्वं क्रोधयुक्तेन पुत्रकाः । तुष्टोऽस्मि वो महाभागा ब्रुवन्तु वाञ्छितं वरम् ॥ १३॥ व्यास उवाच । ते तु श्रुत्वा वचस्तस्य ब्रह्मणः प्रीतमानसाः । ब्रह्माणमब्रुवन्कामं सर्वे कार्यार्थतत्पराः ॥ १४॥ गर्भा ऊचुः । पितामहाद्य तुष्टोऽसि देहि नो वाञ्छितं वरम् । अवध्या दैवतैः सर्वैर्मानवैश्च महोरगैः ॥ १५॥ गन्धर्वसिद्धपतिभिर्वधो माभूत्पितामह । व्यास उवाच । तानुवाच ततो ब्रह्मा सर्वमेतद्भविष्यति ॥ १६॥ गच्छन्तु वो महाभागाः सत्यमेव न संशयः । दत्त्वा वरं गतो ब्रह्मा मुदितास्ते तदाभवन् ॥ १७॥ हिरण्यकशिपुः क्रुद्धस्तानुवाच कुरूद्वह । यस्माद्विहाय मां पुत्रास्तोषितो वै पितामहः ॥ १८॥ वरेण प्रार्थितोऽत्यर्थं बलवन्तो यतोऽभवन् । युष्माभिर्हापितः स्नेहस्ततो युष्मांस्त्यजाम्यहम् ॥ १९॥ यूयं व्रजन्तु पाताले षड्गर्भा विश्रुता भुवि । पाताले निद्रयाविष्टास्तिष्ठन्तु बहुवत्सरान् ॥ २०॥ ततस्तु देवकीगर्भे वर्षे वर्षे पुनः पुनः । पिता वः कालनेमिस्तु तत्र कंसो भविष्यति ॥ २१॥ स एव जातमात्रान्वो वधिष्यति सुदारुणः । व्यास उवाच । एवं शप्तांस्तदा तेन गर्भे जातान्पुनः पुनः ॥ २२॥ जघान देवकीपुत्रान्षड्गर्भाञ्छापनोदितः । शेषांशः सप्तमस्तत्र देवकीगर्भसंस्थितः ॥ २३॥ विस्रंसितश्च गर्भोऽसौ योगेन योगमायया । नीतश्च रोहिणीगर्भे कृत्वा सङ्कर्षणं बलात् ॥ २४॥ पतितः पञ्चमे मासि लोकख्यातिं गतस्तदा । कंसोऽपि ज्ञातवांस्तत्र देवकीगर्भपातनम् ॥ २५॥ मुदं प्राप स दुष्टात्मा श्रुत्वा वार्तां सुखावहाम् । अष्टमे देवकीगर्भे भगवान्सात्वतां पतिः ॥ २६॥ उवास देवकार्यार्थं भारावतरणाय च । राजोवाच । वसुदेवः कश्यपांशः शेषांशश्च तदाभवत् ॥ २७॥ हरेरंशस्तथा प्रोक्तो भवता मुनिसत्तम । अन्ये च येंऽशा देवानां तत्र जातास्तु तान्वद ॥ २८॥ भाराववतारणार्थं वै क्षितेः प्रार्थनयानघ । व्यास उवाच । सुराणामसुराणां च ये येंऽशा भुवि विश्रुताः ॥ २९॥ तानहं सम्प्रवक्ष्यामि सङ्क्षेपेण श‍ृणुष्व तान् । वसुदेवः कश्यपांशो देवकी च तथादितिः ॥ ३०॥ बलदेवस्त्वनन्तांशो वर्तमानेषु तेषु च । योऽसौ धर्मसुतः श्रीमान्नारायण इति श्रुतः ॥ ३१॥ तस्यांशो वासुदेवस्तु विद्यमाने मुनौ तदा । नरस्तस्यानुजो यस्तु तस्यांशोऽर्जुन एव च ॥ ३२॥ युधिष्ठिरस्तु धर्मांशो वाय्वंशो भीम इत्युत । अश्विन्यंशौ ततः प्रोक्तौ माद्रीपुत्रौ महाबलौ ॥ ३३॥ सूर्यांशः कर्ण आख्यातो धर्माशो विदुरः स्मृतः । द्रोणो बृहस्पतेरंशस्तत्सतस्तु शिवांशजः ॥ ३४॥ समुद्रः शन्तनुः प्रोक्तो गङ्गा भार्या मता बुधैः । देवकस्तु समाख्यातो गन्धर्वपतिरागमे ॥ ३५॥ वसुर्भीष्मो विराटस्तु मरुद्गण इति स्मृतः । अरिष्टस्य सुतो हंसो धृतराष्ट्रः प्रकीर्तितः ॥ ३६॥ मरुद्गणः कृपः प्रोक्तः कृतवर्मा तथापरः । दुर्योधनः कलेरंशः शकुनिं विद्धि द्वापरम् ॥ ३७॥ सोमपुत्रः सुवर्चाख्यः सोमप्ररुरुदाहृतः । पावकांशो धृष्टद्युम्नः शिखण्डी राक्षसस्तथा ॥ ३८॥ सनत्कुमारस्यांशस्तु प्रद्युम्नः परिकीर्तितः । द्रुपदो वरुणस्यांशो द्रौपदी च रमांशजा ॥ ३९॥ द्रौपदीतनयाः पञ्च विश्वेदेवांशजाः स्मृताः । कुन्तिः सिद्धिर्धृतिर्माद्री मतिर्गान्धारराजजा ॥ ४०॥ कृष्णपत्न्यस्तथा सर्वा देववाराङ्गनाः स्मृताः । राजानश्च तथा सर्वे असुराः शक्रनोदिताः ॥ ४१॥ हिरण्यकशिपोरंशः शिशुपाल उदाहृतः । विप्रचित्तिर्जरासन्धः शल्यः प्रह्लाद इत्यपि ॥ ४२॥ कालनेमिस्तथा कंसः केशी हयशिरास्तथा । अरिष्टो बलिपुत्रस्तु ककुद्मी गोकुले हतः ॥ ४३॥ अनुह्लादो धृष्टकेतुर्भगदत्तोऽथ बाष्कलः । लम्बः प्रलम्बः सञ्चातः खरोऽसौ धेनुकोऽभवत् ॥ ४४॥ वाराहश्च किशोरश्च दैत्यौ परमदारुणौ । मल्लौ तावेव सञ्जातौ ख्यातौ चाणूरमुष्टिकौ ॥ ४५॥ दितिपुत्रस्तथारिष्टो गजः कुवलयाभिधः । बलिपुत्री बकी ख्याता बकस्तदनुजः स्मृतः ॥ ४६॥ यमो रुद्रस्तथा कामः क्रोधश्चैव चतुर्थकः । तेषामंशैस्तु सञ्जातो द्रोणपुत्रो महाबलः ॥ ४७॥ अंशावतरणे पूर्वं दैतेया राक्षसास्तथा । जाताः सर्वे सुरांशास्ते क्षितिभारावतारणे ॥ ४८॥ एतेषां कथितं राजन्नंशावतरणं नृप । सुराणां चासुराणां च पुराणेषु प्रकीर्तितम् ॥ ४९॥ यदा ब्रह्मादयो देवाः प्रार्थनार्थं हरिं गताः । हरिणा च तदा दत्तौ केशौ खलु सितासितौ ॥ ५०॥ श्यामवर्णस्ततः कृष्णः श्वेतः सङ्कर्षणस्तथा । भारावतारणार्थं तौ जातौ देवांशसम्भवौ ॥ ५१॥ अंशावतरणं चैतच्छृणोति भक्तिभावतः । सर्वपापविनिर्मुक्तो मोदते स्वजनैर्वृतः ॥ ५२॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे देवदानवानामंशावतरणवर्णनं नाम द्वाविंशोऽध्यायः ॥ ४.२२॥

४.२३ त्रयोविंशोऽध्यायः । कंसं प्रति योगमायावाक्यम् ।

व्यास उवाच । हतेषु षट्सु पुत्रेषु देवक्या औग्रसेनिना । सप्तमे पतिते गर्भे वचनान्नारदस्य च ॥ १॥ अष्टमस्य च गर्भस्य रक्षणार्थमतन्द्रितः । प्रयत्नमकरोद्राजा मरणं स्वं विचिन्तयन् ॥ २॥ समये देवकीगर्भे प्रवेशमकरोद्धरिः । अंशेन वसुदेवे तु समागत्य यथाक्रमम् ॥ ३॥ तदेयं योगमाया च यशोदायां यथेच्छया । प्रवेशमकरोद्देवी देवकार्यार्थसिद्धये ॥ ४॥ रोहिण्यास्तनयो रामो गोकुले समजायत । यतः कंसभयोद्विग्ना संस्थिता सा च कामिनी ॥ ५॥ कारागारे ततः कंसो देवकीं देवसंस्तुताम् । स्थापयामास रक्षार्थं सेवकान्समकल्पयत् ॥ ६॥ वसुदेवस्तु कामिन्याः प्रेमतन्तुनियन्त्रितः । पुत्रोत्पत्तिं च सञ्चिन्त्य प्रविष्टः सह भार्यया ॥ ७॥ देवकीगर्भगो विष्णुर्देवकार्यार्थसिद्धये । संस्तुतोऽमरसङ्घैश्च व्यवर्धत यथाक्रमम् ॥ ८॥ सञ्जाते दशमे तत्र मासेऽथ श्रावणे शुभे । प्राजापत्यर्क्षसंयुक्ते कृष्णपक्षेऽष्टमीदिने ॥ ९॥ कंसस्तु दानवान्सर्वानुवाच भयविह्वलः । रक्षणीया भवद्भिश्च देवकी गर्भमन्दिरे ॥ १०॥ अष्टमो देवकीगर्भः शत्रुर्मे प्रभविष्यति । रक्षणीयः प्रयत्नेन मृत्युरूपः स बालकः ॥ ११॥ हत्वैनं बालकं दैत्याः सुखं स्वप्स्यामि मन्दिरे । निवृत्तिवर्जिते दुःखे नाशिते चाष्टमे सुते ॥ १२॥ खड्गप्रासधराः सर्वे तिष्ठन्तु धृतकार्मुकाः । निद्रातन्द्राविहीनाश्च सर्वत्र निहितेक्षणाः ॥ १३॥ व्यास उवाच । इत्यादिश्यासुरगणान् कृशोऽतिभयविह्वलः । मन्दिरं स्वं जगामाशु न लेभे दानवः सुखम् ॥ १४॥ निशीथे देवकी तत्र वसुदेवमुवाच ह । किं करोमि महाराज प्रसवावसरो मम ॥ १५॥ बहवो रक्षपालाश्च तिष्ठन्त्यत्र भयानकाः । नन्दपत्न्या मया सार्धं कृतोऽस्ति समयः पुरा ॥ १६॥ प्रेषितव्यस्त्वया पुत्रो मन्दिरे मम मानिनि । पालयिष्याम्यहं तत्र तवातिमनसा किल ॥ १७॥ अपत्यं ते प्रदास्यामि कंसस्य प्रत्ययाय वै । किं कर्तव्यं प्रभो चात्र विषमे समुपस्थिते ॥ १८॥ व्यत्ययः सन्ततेः शौरे कथं कर्तुं क्षमो भवेः । दूरे तिष्ठस्व कान्ताद्य लज्जा मेऽतिदुरत्यया ॥ १९॥ परावृत्य मुखं स्वामिन्नन्यथा किं करोम्यहम् । इत्युक्त्वा तं महाभागं देवकी देवसम्मतम् ॥ २०॥ बालकं सुषुवे तत्र निशीथे परमाद्भुतम् । तं दृष्ट्वा विस्मयं प्राप देवकी बालकं शुभम् ॥ २१॥ पतिं प्राह महाभागा हर्षोत्कुल्लकलेवरा । पश्य पुत्रमुखं कान्त दुर्लभं हि तव प्रभो ॥ २२॥ अद्यैनं कालरूपोऽसौ घातयिष्यति भ्रातृजः । वसुदेवस्तथेत्युक्त्वा तमादाय करे सुतम् ॥ २३॥ अपश्यच्चाननं तस्य सुतस्याद्भुतकर्मणः । वीक्ष्य पुत्रमुखं शौरिश्चिन्ताविष्टो बभूव ह ॥ २४॥ किं करोमि कथं न स्याद्दुःखमस्य कृते मम । एवं चिन्तातुरे तस्मिन्वागुवाचाशरीरिणी ॥ २५॥ वसुदेवं समाभाष्य गगने विशदाक्षरा । वसुदेव गृहीत्वैनं गोकुलं नय सत्वरः ॥ २६॥ रक्षपालास्तथा सर्वे मया निद्राविमोहिताः । विवृतानि कृतान्यष्ट कपाटानि च श‍ृङ्खलाः ॥ २७॥ मुक्त्वैनं नन्दगेहे त्वं योगमायां समानय । श्रुत्वैवं वसुदेवस्तु तस्मिन्कारागृहे गतः ॥ २८॥ विवृतं द्वारमालोक्य बभूव तरसा नृप । तमादाय ययावाशु द्वारपालैरलक्षितः ॥ २९॥ कालिन्दीतटमासाद्य पूरं दृष्ट्वा सुनिश्चितम् । तदैव कटिदघ्नी सा बभूवाशु सरिद्वरा ॥ ३०॥ योगमायाप्रभावेण ततारानकदुन्दुभिः । गत्वा तु गोकुलं शौरिर्निशीथे निर्जने पथि ॥ ३१॥ नन्दद्वारे स्थितः पश्यन्विभूतिं पशुसंज्ञिताम् । तदैव तत्र सञ्जाता यशोदा गर्भसम्भवा ॥ ३२॥ योगमायांशजा देवी त्रिगुणा दिव्यरूपिणी । जातां तां बालिकां दिव्यां गृहीत्वा करपङ्कजे ॥ ३३॥ तत्रागत्य ददौ देवी सैरन्ध्रीरूपधारिणी । वसुदेवः सुतं दत्त्वा सैरन्ध्रीकरपङ्कजे ॥ ३४॥ तामादाय ययौ शीघ्रं बालिकां मुदिताशयः । कारागारे ततो गत्वा देवक्याः शयने सुताम् ॥ ३५॥ निःक्षिप्य संस्थितः पार्श्वे चिन्ताविष्टो भयातुरः । रुरोद सुस्वरं कन्या तदैवागतसंज्ञकाः ॥ ३६॥ उत्तस्थुः सेवका राज्ञः श्रुत्वा तद्रुदितं निशि । तमूचुर्भूपतिं गत्वा त्वरितास्तेऽतिविह्वलाः ॥ ३७॥ देवक्याश्च सुतो जातः शीघ्रमेहि महामते । तदाकर्ण्य वचस्तेषां शीघ्रं भोजपतिर्ययौ ॥ ३८॥ प्रावृतं द्वारमालोक्य वसुदेवमथाह्वयत् । कंस उवाच । सुतमानय देवक्या वसुदेव महामते ॥ ३९॥ मृत्युर्मे चाष्टमो गर्भस्तन्निहन्मि रिपुं हरिम् । व्यास उवाच । श्रुत्वा कंसवचः शौरिर्भयत्रस्तविलोचनः ॥ ४०॥ तामादाय सुतां पाणौ ददौ चाशु रुदन्निव । दृष्ट्वाथ दारिकां राजा विस्मयं परमं गतः ॥ ४१॥ देववाणी वृथा जाता नारदस्य च भाषितम् । वसुदेवः कथं कुर्यादनृतं सङ्कटे स्थितः ॥ ४२॥ रक्षपालाश्च मे सर्वे सावधाना न संशयः । कुतोऽत्र कन्यका कामं क्व गतः स सुतः किल ॥ ४३॥ सन्देहोऽत्र न कर्तव्यः कालस्य विषमा गतिः । इति सञ्चिन्त्य तां बालां गृहीत्वा पादयोः खलः ॥ ४४॥ पोथयामास पाषाणे निर्घृणः कुलपांसनः । सा करान्निःसृता बाला ययावाकाशमण्डलम् ॥ ४५॥ दिव्यरूपा तदा भूत्वा तमुवाच मृदुस्वना । किं मया हतया पाप जातस्ते बलवान् रिपुः ॥ ४६॥ हनिष्यति दुराराध्यः सर्वथा त्वां नराधमम् । इत्युक्त्वा सा गता कन्या गगनं कामगा शिवा ॥ ४७॥ कंसस्तु विस्मयाविष्टो गतो निजगृहं तदा । आनाय्य दानवान्सर्वानिदं वचनमब्रवीत् ॥ ४८॥ बकधेनुकवत्सादीन्क्रोधाविष्टो भयातुरः । गच्छन्तु दानवाः सर्वे मम कार्यार्थसिद्धये ॥ ४९॥ जातमात्राश्च हन्तव्या बालका यत्र कुत्रचित् । पूतनैषा व्रजत्वद्य बालघ्नी नन्दगोकुलम् ॥ ५०॥ जातमात्रान्विनिघ्नन्ती शिशूंस्तत्र ममाज्ञया । धेनुको वत्सकः केशी प्रलम्बो बक एव च ॥ ५१॥ सर्वे तिष्ठन्तु तत्रैव मम कार्यचिकीर्षया । इत्याज्ञाप्यासुरान्कंसो ययौ निजगृहं खलः ॥ ५२॥ चिन्ताविष्टोऽतिदीनात्मा चिन्तयित्वैव तं पुनः ॥ ५३॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे कंसं प्रति योगमायावाक्यं नाम त्रयोविंशोऽध्यायः ॥ ४.२३॥

४.२४ चतुर्विंशोऽध्यायः । देव्या कृष्णशोकायनोदनम् ।

व्यास उवाच । प्रातर्नन्दगृहे जातः पुत्रजन्ममहोत्सवः । किंवदन्त्यथ कंसेन श्रुता चारमुखादपि ॥ १॥ जानाति वसुदेवस्य दारास्तत्र वसन्ति हि । पशवो दासवर्गश्च सर्वे ते नन्दगोकुले ॥ २॥ तेन शङ्कासमाविष्टो गोकुलं प्रति भारत । नारदेनापि तत्सर्वं कथितं कारणं पुरा ॥ ३॥ गोकुले ये च नन्दाद्यास्तत्पत्न्यश्च सुरांशजाः । देवकीवसुदेवाद्याः सर्वे ते शत्रवः किल ॥ ४॥ इति नारदवाक्येन बोधितोऽसौ कुलाधमः । जातः कोपमना राजन् कंसः परमपापकृत् ॥ ५॥ पूतना निहता तत्र कृष्णेनामिततेजसा । बको वत्सासुरश्चापि धेनुकश्च महाबलः ॥ ६॥ प्रलम्बो निहतस्तेन तथा गोवर्धनो धृतः । श्रुत्वैतत्कर्म कंसस्तु मेने मरणमात्मनः ॥ ७॥ तथा विनिहतः केशी ज्ञात्वा कंसोऽतिदुर्मनाः । धनुर्यागमिषेणाशु तावानेतुं प्रचक्रमे ॥ ८॥ अक्रूरं प्रेषयामास क्रूरः पापमतिस्तदा । आनेतुं रामकृष्णौ च वधायामितविक्रमौ ॥ ९॥ रथमारोप्य गोपालौ गोकुलाद् गान्दिनीसुतः । आगतो मथुरायां तु कंसादेशे स्थितः किल ॥ १०॥ तावागत्य तदा तत्र धनुर्भङ्गञ्च चक्रतुः । हत्वाथ रजकं कामं गजं चाणूरमुष्टिकम् ॥ ११॥ शलं च तोशलं चैव निजघान हरिस्तदा । जघान कंसं देवेशः केशेष्वाकृष्य लीलया ॥ १२॥ पितरौ मोचयित्वाथ गतदुःखौ चकार ह । उग्रसेनाय राज्यं तद्ददावरिनिषूदनः ॥ १३॥ वसुदेवस्तयोस्तत्र मौञ्जीबन्धनपूर्वकम् । कारयामास विधिवद् व्रतबन्धं महामनाः ॥ १४॥ उपनीतौ तदा तौ तु गतौ सान्दीपनालयम् । विद्याः सर्वाः समभ्यस्य मथुरामागतौ पुनः ॥ १५॥ जातौ द्वादशवर्षीयौ कृतविद्यौ महाबलौ । मथुरायां स्थितौ वीरौ सुतावानकदुन्दुभेः ॥ १६॥ मागधस्तु जरासन्धो जामातृवधदुःखितः । कृत्वा सैन्यसमाजं स मथुरामागतः पुरीम् ॥ १७॥ स सप्तदशवारं तु कृष्णेन कृतबुद्धिना । जितः सङ्ग्राममासाद्य मधुपुर्यां निवासिना ॥ १८॥ पश्चाच्च प्रेरितस्तेन स कालयवनाभिधः । सर्वम्लेच्छाधिपः शूरो यादवानां भयङ्करः ॥ १९॥ श्रुत्वा यवनमायान्तं कृष्णः सर्वान् यदूत्तमान् । आनाय्य च तथा राममुवाच मधुसूदनः ॥ २०॥ भयं नोऽत्र समुत्पन्नं जरासन्धान्महाबलात् । किं कर्तव्यं महाभाग यवनः समुपैति वै ॥ २१॥ प्राणत्राणं प्रकर्तव्यं त्यक्त्वा गेहं बलं धनम् । सुखेन स्थीयते यत्र स देशः खलु पैतृकः ॥ २२॥ सदोद्वेगकरः कामं किं कर्तव्यः कुलोचितः । शैलसागरसान्निध्ये स्थातव्यं सुखमिच्छता ॥ २३॥ यत्र वैरिभयं न स्यात्स्थातव्यं तत्र पण्डितैः । शेषशय्यां समाश्रित्य हरिः स्वपिति सागरे ॥ २४॥ तथैव च भयाद्भीतः कैलासे त्रिपुरार्दनः । तस्मान्नात्रैव स्थातव्यमस्माभिः शत्रुतापितैः ॥ २५॥ द्वारवत्यां गमिष्यामः सहिताः सर्व एव वै । कथिता गरुडेनाद्य रम्या द्वारवती पुरी ॥ २६॥ रैवताचलसानिध्ये सिन्धुकूले मनोहरा । व्यास उवाच । तच्छ्रुत्वा वचनं तथ्यं सर्वे यादवपुङ्गवाः ॥ २७॥ गमनाय मतिं चक्रुः सकुटुम्बाः सवाहनाः । शकटानि तथोष्ट्राश्च वाम्यश्च महिषास्तथा ॥ २८॥ धनपूर्णानि कृत्वा ते निर्ययुर्नगराद्बहिः । रामकृष्णौ पुरस्कृत्य सर्वे ते सपरिच्छदाः ॥ २९॥ अग्रे कृत्वा प्रजाः सर्वाश्चेलुः सर्वे यदूत्तमाः । कतिचिद्दिवसैः प्रापुः पुरीं द्वारवतीं किल ॥ ३०॥ शिल्पिभिः कारयामास जीर्णोद्धारं हि माधवः । संस्थाप्य यादवांस्तत्र तावेतौ बलकेशवौ ॥ ३१॥ तरसा मथुरामेत्य संस्थितौ निर्जनां पुरीम् । तदा तत्रैव सम्प्राप्तो बलवान् यवनाधिपः ॥ ३२॥ ज्ञात्वैनमागतं कृष्णो निर्ययौ नगराद्बहिः । पदातिरग्रे तस्याभूद्यवनस्य जनार्दनः ॥ ३३॥ पीताम्बरधरः श्रीमान्प्राहसन्मधुसूदनः । तं दृष्ट्वा पुरतो यान्तं कृष्णं कमललोचनम् ॥ ३४॥ यवनोऽपि पदातिः सन्पृष्ठतोऽनुगतः खलः । प्रसुप्तो यत्र राजर्षिर्मुचुकुन्दो महाबलः ॥ ३५॥ प्रययौ भगवांस्तत्र सकालयवनो हरिः । तत्रैवान्तर्दधे विष्णुर्मुचुकुन्दं समीक्ष्य च ॥ ३६॥ तत्रैव यवनः प्राप्तः सुप्तभूतमपश्यत । मत्वा तं वासुदेवं स पादेनाताडयन्नृपम् ॥ ३७॥ प्रबुद्धः क्रोधरक्ताक्षस्तं ददाह महाबलः । तं दग्ध्वा मुचुकुन्दोऽथ ददर्श कमलेक्षणम् ॥ ३८॥ वासुदेवं सुदेवेशं प्रणम्य प्रस्थितो वनम् । जगाम द्वारकां कृष्णो बलदेवसमन्वितः ॥ ३९॥ उग्रसेनं नृपं कृत्वा विजहार यथारुचि । अहरद्रुक्मिणी कामं शिशुपालस्वयंवरात् ॥ ४०॥ राक्षसेन विवाहेन चक्रे दारविधिं हरिः । ततो जाम्बवतीं सत्यां मित्रविन्दाञ्च भामिनीम् ॥ ४१॥ कालिन्दीं लक्षणां भद्रां तथा नाग्नजितीं शुभाम् । पृथक्पृथक्समानीयाप्युपयेमे जनार्दनः ॥ ४२॥ अष्टावेव महीपाल पत्न्यः परमशोभनाः । प्रासूत रुक्मिणी पुत्रं प्रद्युम्नं चारुदर्शनम् ॥ ४३॥ जातकर्मादिकं तस्य चकार मधुसूदनः । हृतोऽसौ सूतिकागेहाच्छम्बरेण बलीयसा ॥ ४४॥ नीतश्च स्वपुरीं बालो मायावत्यै समर्पितः । वासुदेवो हृतं दृष्ट्वा पुत्रं शोकसमन्वितः ॥ ४५॥ जगाम शरणं देवीं भक्तियुक्तेन चेतसा । वृत्रासुरादयो दैत्या लीलयैव यया हताः ॥ ४६॥ ततोऽसौ योगमायायाश्चकार परमां स्मृतिम् । वचोभिः परमोदारैरक्षरैः स्तवनैः शुभैः ॥ ४७॥ श्रीकृष्ण उवाच । मातर्मयातितपसा परितोषिता त्वं प्राग्जन्मनि प्रसुमनादिभिरर्चितासि । धर्मात्मजेन बदरीवनखण्डमध्ये किं विस्मृतो जननि ते त्वयि भक्तिभावः ॥ ४८॥ सूतीगृहादपहृतः किमु बालको मे केनापि दुष्टमनसाप्यथ कौतुकाद्वा । मानापहारकरणाय ममाद्य नूनं लज्जा तवाम्ब खलु भक्तजनस्य युक्ता ॥ ४९॥ दुर्गो महानतितरां नगरी सुगुप्ता तत्रापि मेऽस्ति सदनं किल मध्यभागे । अन्तःपुरे च पिहितं ननु सूतिगेहं बालो हृतः खलु तथापि ममैव दोषात् ॥ ५०॥ नाहं गतः परपुरं न च यादवाश्च रक्षावतीव नगरी किल वीरवर्यैः । माया तवैव जननि प्रकटप्रभावा मे बालकः परिहृतः कुहकेन केन ॥ ५१॥ नो वेद्म्यहं जननि ते चरितं सुगुप्तं को वेद मन्दमतिरल्पविदेव देही । क्वासौ गतो मम भटैर्न च वीक्षितो वा हर्ताम्बिके जवनिका तव कल्पितेयम् ॥ ५२॥ चित्रं न तेऽत्र पुरतो मम मातृगर्भो नीतस्त्वयार्धसमये किल माययासौ । यं रोहिणी हलधरं सुषुवे प्रसिद्धं दूरे स्थिता पतिपरा मिथुनं विनापि ॥ ५३॥ सृष्टिं करोषि जगतामनुपालनं च नाशं तथैव पुनरप्यनिशं गुणैस्त्वम् । को वेद तेऽम्ब चरितं दुरितान्तकारि प्रायेण सर्वमखिलं विहितं त्वयैतत् ॥ ५४॥ उत्पाद्य पुत्रजननप्रभवं प्रमोदं दत्त्वा पुनर्विरहजं किल दुःखभारम् । त्वं क्रीडसे सुललितैः खलु तैर्विहारै- र्नो चेत्कथं मम सुताप्तिरतिर्वृथा स्यात् ॥ ५५॥ मातास्य रोदिति भृशं कुररीव बाला दुःखं तनोति मम सन्निधिगा सदैव । कष्टं न वेत्सि ललितेऽप्रमितप्रभावे मातस्त्वमेव शरणं भवपीडितानाम् ॥ ५६॥ सीमा सुखस्य सुतजन्म तदीयनाशो दुःखस्य देवि भवने विबुधा वदन्ति । तत्किं करोमि जननि प्रथमे प्रनष्टे पुत्रे ममाद्य हृदयं स्फुटतीव मातः ॥ ५७॥ यज्ञं करोमि तव तुष्टिकरं व्रतं वा दैवं च पूजनमथाखिलदुःखहा त्वम् । मातः सुतोऽत्र यदि जीवति दर्शयाशु त्वं वै क्षमा सकलशोकविनाशनाय ॥ ५८॥ व्यास उवाच । एवं स्तुता तदा देवी कृष्णेनाक्लिष्टकर्मणा । प्रत्यक्षदर्शना भूत्वा तमुवाच जगद्गुरुम् ॥ ५९॥ श्रीदेव्युवाच । शोकं मा कुरु देवेश शापोऽयं ते पुरातनः । तस्य योगेन पुत्रस्ते शम्बरेण हृतो बलात् ॥ ६०॥ अतस्ते षोडशे वर्षे हत्वा तं शम्बरं बलात् । आगमिष्यति पुत्रस्ते मत्प्रसादान्न संशयः ॥ ६१॥ व्यास उवाच । इत्युक्त्वान्तर्दधे देवी चण्डिका चण्डविक्रमा । भगवानपि पुत्रस्य शोकं त्यक्त्वाभवत्सुखी ॥ ६२॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे देव्या कृष्णशोकापनोदनं नाम चतुर्विंशोऽध्यायः ॥ ४.२४॥

४.२५ पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।

राजोवाच । सन्देहो मे मुनिश्रेष्ठ जायते वचनात्तव । वैष्णवांशे भगवति दुःखोत्पत्तिं विलोक्य च ॥ १॥ नारायणांशसम्भूतो वासुदेवः प्रतापवान् । कथं स सूतिकागाराद्धृतो बालो हरेरपि ॥ २॥ सुगुप्तनगरे रम्ये गुप्तेऽथ सूतिकागृहे । प्रविश्य तेन दैत्येन गृहीतोऽसौ कथं शिशुः ॥ ३॥ न ज्ञातो वासुदेवेन चित्रमेतन्ममाद्भुतम् । जायते महदाश्चर्यं चित्ते सत्यवतीसुत ॥ ४॥ ब्रूहि तत्कारणं ब्रह्मन्न ज्ञातं केशवेन यत् । हरणं तत्रसंस्थेन शिशोर्वा सूतिकागृहात् ॥ ५॥ व्यास उवाच । माया बलवती राजन्नराणां बुद्धिमोहिनी । शाम्भवी विश्रुता लोके को वा मोहं न गच्छति ॥ ६॥ मानुषं जन्म सम्प्राप्य गुणाः सर्वेऽपि मानुषाः । भवन्ति देहजा कामं न देवा नासुरास्तदा ॥ ७॥ क्षुत्तृण्निद्रा भयं तन्द्रा व्यामोहः शोकसंशयः । हर्षश्चैवाभिमानश्च जरामरणमेव च ॥ ८॥ अज्ञानं ग्लानिरप्रीतिरीर्ष्यासूया मदः श्रमः । एते देहभवा भावाः प्रभवन्ति नराधिप ॥ ९॥ यथा हेममृगं रामो न बुबोध पुरोगतम् । जानक्या हरणञ्चैव जटायुमरणं तथा ॥ १०॥ अभिषेकदिने रामो वनवासं न वेद च । तथा न ज्ञातवान् रामः स्वशोकान्मरणं पितुः ॥ ११॥ अज्ञवद्विचचारासौ पश्यमानो वने वने । जानकीं न विवेदाथ रावणेन हृतां बलात् ॥ १२॥ सहायान् वानरान्कृत्वा हत्वा शक्रसुतं बलात् । सागरे सेतुबन्धञ्च कृत्वोत्तीर्य सरित्पतिम् ॥ १३॥ प्रेषयामास सर्वासु दिक्षु तान्कपिकुञ्जरान् । सङ्ग्रामं कृतवान्घोरं दुःखं प्राप रणाजिरे ॥ १४॥ बन्धनं नागपाशेन प्राप रामो महाबलः । गरुडान्मोक्षणं पश्चादन्वभूद्रघुनन्दनः ॥ १५॥ अहनद्रावणं सङ्ख्ये कुम्भकर्णं महाबलम् । मेघनादं निकुम्भञ्च कुपितो रघुनन्दनः ॥ १६॥ अदूष्यत्वञ्च जानक्या न विवेद जनार्दनः । दिव्यञ्च कारयामास ज्वलितेऽग्नौ प्रवेशनम् ॥ १७॥ लोकापवादाच्च परं ततस्तत्याज तां प्रियाम् । अदूष्यां दूषितां मत्वा सीतां दशरथात्मजः ॥ १८॥ न ज्ञातौ स्वसुतौ तेन रामेण च कुशीलवौ । मुनिना कथितौ तौ तु तस्य पुत्रौ महाबलौ ॥ १९॥ पातालगमनं चैव जानक्या ज्ञातवान्न च । राघवः कोपसंयुक्तो भ्रातरं हन्तुमुद्यतः ॥ २०॥ कालस्यागमनञ्चैव न विवेद खरान्तकः । मानुषं देहमाश्रित्य चक्रे मानुषचेष्टितम् ॥ २१॥ तथैव मानुषान्भावान्नात्र कार्या विचारणा । पूर्वं कंसभयात्प्राप्तो गोकुले यदुनन्दनः ॥ २२॥ जरासन्धभयात्पश्चाद् द्वारवत्यां गतो हरिः । अधर्मं कृतवान्कृष्णो रुक्मिण्या हरणञ्च यत् ॥ २३॥ शिशुपालवृतायाश्च जानन्धर्मं सनातनम् । शुशोच बालकं कृष्णः शम्बरेण हृतं बलात् ॥ २४॥ मुमोद जानन्पुत्रं तं हर्षशोकयुतस्ततः । सत्यभामाज्ञया यत्तु युयुधे स्वर्गतः किल ॥ २५॥ इन्द्रेण पादपार्थं तु स्त्रीजितत्वं प्रकाशयन् । जहार कल्पवृक्षं यः पराभूय शतक्रतुम् ॥ २६॥ मानिनीमानरक्षार्थं हरिश्चित्रधरः प्रभुः । बद्ध्वा वृक्षे हरिं सत्या नारदाय ददौ पतिम् ॥ २७॥ दत्त्वाथ कानकं कृष्णं मोचयामास भामिनी । दृष्ट्वा पुत्रान्पुरुगुणान्प्रद्युम्नप्रमुखानथ ॥ २८॥ कृष्णं जाम्बवती दीना ययाचे सन्ततिं शुभाम् । स ययौ पर्वतं कृष्णस्तपस्याकृतनिश्चयः ॥ २९॥ उपमन्युर्मुनिर्यत्र शिवभक्तः परन्तपः । उपमन्युं गुरु कृत्वा दीक्षां पाशुपतो हरिः ॥ ३०॥ जग्राह पुत्रकामस्तु मुण्डी दण्डी बभूव ह । उग्रं तत्र तपस्तेपे मासमेकं फलाशनः ॥ ३१॥ जजाप शिवमन्त्रं तु शिवध्यानपरो हरिः । द्वितीये तु जलाहारस्तिष्ठन्नेकपदा हरिः ॥ ३२॥ तृतीये वायुभक्षस्तु पादाङ्गुष्ठाग्रसंस्थितः । षष्ठे तु भगवान् रुद्रः प्रसन्नो भक्तिभावतः ॥ ३३॥ दर्शनञ्च ददौ तत्र सोमः सोमकलाधरः । आजगाम वृषारूढः सुरैरिन्द्रादिभिर्भूतः ॥ ३४॥ ब्रह्मविष्णुयुतः साक्षाद्यक्षगन्धर्वसेवितः । सम्बोधयन्वासुदेवं शङ्करस्तमुवाच ह ॥ ३५॥ तुष्टोऽस्मि कृष्ण तपसा तवोग्रेण महामते । ददामि वाच्छितान्कामान्ब्रूहि यादवनन्दन ॥ ३६॥ मयि दृष्टे कामपूरे कामशेषो न सम्भवेत् । व्यास उवाच । तं दृष्ट्वा शङ्करं तुष्टं भगवान्देवकीसुतः ॥ ३७॥ पपात पादयोस्तस्य दण्डवत्प्रेमसंयुतः । स्तुतिं चकार देवेशो मेघगम्भीरया गिरा ॥ ३८॥ स्थितस्तु पुरतः शम्भोर्वासुदेवः सनातनः । श्रीकृष्ण उवाच । देवदेव जगन्ताथ सर्वभूतार्तिनाशन ॥ ३९॥ विश्वयोने सुरारिघ्न नमस्त्रैलोक्यकारक । नीलकण्ठ नमस्तुभ्यं शूलिने ते नमो नमः ॥ ४०॥ शैलजावल्लभायाश्च यज्ञघ्नाय नमोऽस्तु ते । धन्योऽहं कृतकृत्योऽहं दर्शनात्तव सुव्रत ॥ ४१॥ जन्म मे सफलं जातं नत्वा ते पादपङ्कजम् । बद्धोऽहं स्त्रीमयैः पाशैः संसारेऽस्मिञ्जगद्गुरो ॥ ४२॥ शरणं तेऽद्य सम्प्राप्तो रक्षणार्थं त्रिलोचन । सम्प्राप्य मानुषं जन्म खिन्नोऽहं दुःखनाशन ॥ ४३॥ त्राहि मां शरणं प्राप्तं भवभीतं भवाधुना । गर्भवासे महद्दुःखं प्राप्तं मदनदाहक ॥ ४४॥ जन्मतः कंसभयजमनुभूतं च गोकुले । जातोऽहं नन्दगोपालो बल्लवाज्ञाकरस्तथा ॥ ४५॥ गोरजःकीर्णकेशस्तु भ्रमन्वृन्दावने घने । म्लेच्छराजभयत्रस्तो गतो द्वारवतीं पुनः ॥ ४६॥ त्यक्त्वा पित्र्यं शुभं देशं माधुरं दुर्लभं विभो । ययातिशापबद्धेन तस्मै दत्तं भयाद्विभो ॥ ४७॥ राज्यं सुपुष्टमपि च धर्मरक्षापरेण च । उग्रसेनस्य दासत्वं कृतं वै सर्वदा मया ॥ ४८॥ राजासौ यादवानां वै कृतो नः पूर्वजैः किल । गार्हस्थ्यं दुःखदं शम्भो स्त्रीवश्यं धर्मखण्डनम् ॥ ४९॥ पारतन्त्र्यं सदा बन्धमोक्षवार्तात्र दुर्लभा । रुक्यिण्यास्तनयान्दृष्ट्वा भार्या जाम्बवती मम ॥ ५०॥ प्रेरयामास पुत्रार्थं तपसे मदनान्तक । सकामेन मया तप्तं तपः पुत्रार्थमद्य वै ॥ ५१॥ लज्जा भवति देवेश प्रार्थनायां जगद्गुरो । कस्त्वामाराध्य देवेशं मुक्तिदं भक्तवत्सलम् ॥ ५२॥ प्रसन्नं याचते मूढः फलं तुच्छं विनाशि यत् । सोऽयं मायाविमूढात्मा याचे पुत्रसुखं विभो ॥ ५३॥ कामिन्या प्रेरितः शम्भो मुक्तिदं त्वां जगत्पते । जानामि दुःखदं शम्भो संसारं दुःखसाधनम् ॥ ५४॥ अनित्यं नाशधर्माणं तथापि विरतिर्न मे । शापान्नारायणांशोऽहं जातोऽस्मि क्षितिमण्डले ॥ ५५॥ भोक्तुं बहुतरं दुःखं मायापाशेन यन्त्रितः । व्यास उवाच । इत्युक्तवन्तं गोविन्दं प्रत्युवाच महेश्वरः ॥ ५६॥ बहवस्ते भविष्यन्ति पुत्राः शत्रुनिषूदन । स्त्रीणां षोडशसाहस्रं भविष्यति शतार्धकम् ॥ ५७॥ तासु पुत्रा दश दश भविष्यन्ति महाबलाः । इत्युक्त्वोपररामाशु शङ्करः प्रियदर्शनः ॥ ५८॥ उवाच गिरिजा देवी प्रणतं मधुसूदनम् । कृष्ण कृष्ण महाबाहो संसारेऽस्मिन्नराधिप ॥ ५९॥ गृहस्थप्रवरो लोके भविष्यति भवानिह । ततो वर्षशतान्ते तु द्विजशापाज्जनार्दन ॥ ६०॥ गान्धार्याश्च तथा शापाद्भविता ते कुलक्षयः । परस्परं निहत्याजौ पुत्रास्ते शापमोहिताः ॥ ६१॥ गमिष्यन्ति क्षयं सर्वे यादवाश्च तथापरे । सानुजस्त्वं तथा देहं त्यक्त्वा यास्यसि वै दिवम् ॥ ६२॥ शोकस्तत्र न कर्तव्यो भवितव्यं प्रति प्रभो । अवश्यम्भाविभावानां प्रतीकारो न विद्यते ॥ ६३॥ तत्र शोको न कर्तव्यो नूनं मम मतं सदा । अष्टावक्रस्य शापेन भार्यास्ते मधुसूदन ॥ ६४॥ चौरेभ्यो ग्रहणं कृष्ण गमिष्यन्ति मृते त्वयि । व्यास उवाच । इत्युक्त्वान्तर्दधे शम्भुः सोमः ससुरमण्डलः ॥ ६५॥ उपमन्युं प्रणम्याथ कृष्णोऽपि द्वारकां ययौ । यस्माद् ब्रह्मादयो राजन् सन्ति यद्यप्यधीश्वराः ॥ ६६॥ तथापि मायाकल्लोलयोगसङ्क्षुभितान्तराः । तदधीनाः स्थिताः सर्वे काष्ठपुत्तलिकोपमाः ॥ ६७॥ यथा यथा पूर्वभवं कर्म तेषां तथा तथा । प्रेरयत्यनिशं माया परब्रह्मस्वरूपिणी ॥ ६८॥ न वैषम्यं न नैर्घृण्यं भगवत्यां कदाचन । केवलं जीवमोक्षार्थं यतते भुवनेश्वरी ॥ ६९॥ यदि सा नैव सृज्येत जगदेतच्चराचरम् । तदा मायां विना भूतं जडं स्यादेव नित्यशः ॥ ७०॥ तस्मात्कारुण्यमाश्रित्य जगज्जीवादिकं च यत् । करोति सततं देवी प्रेरयत्यनिशं च तत् ॥ ७१॥ तस्माद् ब्रह्मादिमोहेऽस्मिन्कर्तव्यः संशयो न हि । मायान्तःपातिनः सर्वे मायाधीनाः सुरासुराः ॥ ७२॥ स्वतन्त्रा सैव देवेशी स्वेच्छाचारविहारिणी । तस्मात्सर्वात्मना राजन् सेवनीया महेश्वरी ॥ ७३॥ नातः परतरं किञ्चिदधिकं भुवनत्रये । एतद्धि जन्मसाफल्यं पराशक्तेः पदस्मृतिः ॥ ७४॥ माभूत्तत्र कुले जन्म यत्र देवी न दैवतम् । अहं देवी न चान्योऽस्मि ब्रह्मैवाहं न शोकभाक् ॥ ७५॥ इत्यभेदेन तां नित्यां चिन्तयेज्जगदम्बिकाम् । ज्ञात्वा गुरुमुखादेनां वेदान्तश्रवणादिभिः ॥ ७६॥ नित्यमेकाग्रमनसा भावयेदात्मरूपिणीम् । मुक्तो भवति तेनाशु नान्यथा कर्मकोटिभिः ॥ ७७॥ श्वेताश्वतरादयः सर्वे ऋषयो निर्मलाशयाः । आत्मरूपां हृदा ज्ञात्वा विमुक्ता भवबन्धनात् ॥ ७८॥ ब्रह्मविष्ण्वादयस्तद्वद् गौरीलक्ष्म्यादयस्तथा । तामेव समुपासन्ते सच्चिदानन्दरूपिणीम् ॥ ७९॥ इति ते कथितं राजन् यद्यत्पुष्टं त्वयानघ । प्रपञ्चतापत्रस्तेन किं भूयः श्रोतुमिच्छसि ॥ ८०॥ एतत्ते कथितं राजन्मयाख्यानमनुत्तमम् । सर्वपापहरं पुण्यं पुराणं परमाद्भुतम् ॥ ८१॥ य इदं श‍ृणुयान्नित्यं पुराणं वेदसम्मितम् । सर्वपापविनिर्मुक्तो देवीलोके महीयते ॥ ८२॥ सूत उवाच । एतन्मया श्रुतं व्यासात्कथ्यमानं सविस्तरम् । पुराणं पञ्चमं नूनं श्रीमद्भागवताभिधम् ॥ ८३॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे पराशक्तेः सर्वज्ञत्वकथनं नाम पञ्चविंशोऽध्यायः ॥ ४.२५॥ ॥ इति श्रीमद्देवीभागवते महापुराणे चतुर्थस्कन्धः समाप्तः ॥ Encoded and proofread by Vishwas Bhide
% Text title            : Devi Bhagavata Mahapurana Skandha 04
% File name             : devIbhAgavatam04.itx
% itxtitle              : devIbhAgavatamahApurANam skandhaH 04
% engtitle              : devIbhAgavatamahApurANam skandhaH 04
% Category              : purana, devI, devii, devibhagavatam
% Location              : doc_purana
% Sublocation           : purana
% SubDeity              : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Vishwas Bhide, satsangdhara.net
% Proofread by          : Vishwas Bhide, satsangdhara.net
% Indexextra            : (Scans 1, 2, 3, vyAkhyA 1, 2, 3, Hindi 1, 2, 3, 4, 4, Marathi, Marathi audio, English 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, Tamil, Telugu 1, Bengali, Audio, Info)
% Latest update         : March 30, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org