८ श्रीमद्देवीभागवतमहापुराणे अष्टमः स्कन्धः

८ श्रीमद्देवीभागवतमहापुराणे अष्टमः स्कन्धः

८.१ प्रथमोऽध्यायः । भुवनकोशप्रसङ्गे देव्या मनवे वरदानवर्णनम् ।

जनमेजय उवाच । सूर्यचन्द्रान्वयोत्थानां नृपाणां सत्कथाश्रितम् । चरितं भवता प्रोक्तं श्रुतं तदमृतास्पदम् ॥ १॥ अधुना श्रोतुमिच्छामि सा देवी जगदम्बिका । मन्वन्तरेषु सर्वेषु यद्यद्रूपेण पूज्यते ॥ २॥ यस्मिन्यस्मिंश्च वै स्थाने येन येन च कर्मणा । (शरीरेण च देवेशी पूजनीया फलप्रदा । येनैव मन्त्रबीजेन यत्र यत्र च पूज्यते ॥) देव्या विराट्स्वरूपस्य वर्णनं च यथातथम् ॥ ३॥ येन ध्यानेन तत्सूक्ष्मे स्वरूपे स्यान्मतेर्गतिः । तत्सर्वं वद विप्रर्षे येन श्रेयोऽहमाप्नुयाम् ॥ ४॥ व्यास उवाच । श‍ृणु राजन् प्रवक्ष्यामि देव्याराधनमुत्तमम् । यत्कृतेन श्रुतेनापि नरः श्रेयोऽत्र विन्दते ॥ ५॥ एवमेतन्नारदेन पृष्टो नारायणः पुरा । तस्मै यदुक्तवान्देवो योगचर्याप्रवर्तकः ॥ ६॥ एकदा नारदः श्रीमान्पर्यटन्पृथिवीमिमाम् । नारायणाश्रमं प्राप्तो गतखेदश्च तस्थिवान् ॥ ७॥ तस्मै योगात्मने नत्वा ब्रह्मदेवतनूद्भवः । पर्यपृच्छदिमं चार्थं यत्पृष्टो भवतानघ ॥ ८॥ नारद उवाच । देवदेव महादेव पुराणपुरुषोत्तम । जगदाधार सर्वज्ञ श्लाघनीयोरुसद्गुण ॥ ९॥ जगतस्तत्त्वमाद्यं यत्तन्मे वद यथेप्सितम् । जायते कुत एवेदं कुतश्चेदं प्रतिष्ठितम् ॥ १०॥ कुतोऽन्तं प्राप्नुयात्काले कुत्र सर्वफलोदयः । केन ज्ञातेन मायैषा मोहभूर्नाशमाप्नुयात् ॥ ११॥ कयार्चया किं जपेन किं ध्यानेनात्महृत्कजे । प्रकाशो जायते देव तमस्यर्कोदयो यथा ॥ १२॥ एतत्प्रश्नोत्तरं देव ब्रूहि सर्वमशेषतः । यथा लोकस्तरेदन्धतमसं त्वञ्जसैव हि ॥ १३॥ व्यास उवाच । एवं देवर्षिणा पृष्टः प्राचीनो मुनिसत्तमः । नारायणो महायोगी प्रतिनन्द्य वचोऽब्रवीत् ॥ १४॥ श्रीनारायण उवाच । श‍ृणु देवर्षिवर्यात्र जगतस्तत्त्वमुत्तमम् । येन ज्ञातेन मर्त्यो हि जायते न जगद्भ्रमे ॥ १५॥ जगतस्तत्त्वमित्येव देवी प्रोक्ता मयापि हि । ऋषिभिर्देवगन्धर्वैरन्यैश्चापि मनीषिभिः ॥ १६॥ सा जगत्सृजते देवी तया च प्रतिपाल्यते । तया च नाश्यते सर्वमिति प्रोक्तं गुणत्रयात् ॥ १७॥ तस्याः स्वरूपं वक्ष्यामि देव्याः सिद्धर्षिपूजितम् । स्मरतां सर्वपापघ्नं कामदं मोक्षदं तथा ॥ १८॥ मनुः स्वायम्भुवस्त्वाद्यः पद्मपुत्रः प्रतापवान् । शतरूपापतिः श्रीमान्सर्वमन्वन्तराधिपः ॥ १९॥ स मनुः पितरं देवं प्रजापतिमकल्मषम् । भक्त्या पर्यचरत्पूर्वं तमुवाचात्मभूः सुतम् ॥ २०॥ पुत्र पुत्र त्वया कार्यं देव्याराधनमुत्तमम् । तत्प्रसादेन ते तात प्रजासर्गः प्रसिद्ध्यति ॥ २१॥ एवमुक्तः प्रजास्रष्ट्रा मनुः स्वायम्भुवो विराट् । जगद्योनिं तदा देवीं तपसातर्पयद् विभुः ॥ २२॥ तुष्टाव देवीं देवेशीं समाहितमतिः किल । आद्यां मायां सर्वशक्तिं सर्वकारणकारणाम् ॥ २३॥ मनुरुवाच । नमो नमस्ते देवेशि जगत्कारणकारणे । शङ्खचक्रगदाहस्ते नारायणहृदाश्रिते ॥ २४॥ वेदमूर्त्ते जगन्मातः कारणस्थानरूपिणि । वेदत्रयप्रमाणज्ञे सर्वदेवनुते शिवे ॥ २५॥ माहेश्वरि महाभागे महामाये महोदये । महादेवप्रियावासे महादेवप्रियङ्करि ॥ २६॥ गोपेन्द्रस्य प्रिये ज्येष्ठे महानन्दे महोत्सवे । महामारीभयहरे नमो देवादिपूजिते ॥ २७॥ सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके । शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ॥ २८॥ यतश्चेदं यया विश्वमोतं प्रोतं च सर्वदा । चैतन्यमेकमाद्यन्तरहितं तेजसां निधिम् ॥ २९॥ ब्रह्मा यदीक्षणात्सर्वं करोति च हरिः सदा । पालयत्यपि विश्वेशः संहर्ता यदनुग्रहात् ॥ ३०॥ मधुकैटभसम्भूतभयार्तः पद्मसम्भवः । यस्याः स्तवेन मुमुचे घोरदैत्यभवाम्बुधेः ॥ ३१॥ त्वं ह्रीः कीर्तिः स्मृतिः कान्तिः कमला गिरिजा सती । दाक्षायणी वेदगर्भा सिद्धिदात्री सदाभया ॥ ३२॥ स्तोष्ये त्वां च नमस्यामि पूजयामि जपामि च । ध्यायामि भावये वीक्षे श्रोष्ये देवि प्रसीद मे ॥ ३३॥ ब्रह्मा वेदनिधिः कृष्णो लक्ष्यावासः पुरन्दरः । त्रिलोकाधिपतिः पाशी यादसाम्पतिरुत्तमः ॥ ३४॥ कुबेरो निधिनाथोऽभूद्यमो जातः परेतराट् । नैरृतो रक्षसां नाथः सोमो जातो ह्यपोमयः ॥ ३५॥ त्रिलोकवन्द्ये लोकेशि महामाङ्गल्यरूपिणि । नमस्तेऽस्तु पुनर्भूयो जगन्मातर्नमो नमः ॥ ३६॥ श्रीनारायण उवाच । एवं स्तुता भगवती दुर्गा नारायणी परा । प्रसन्ना प्राह देवर्षे ब्रह्मपुत्रमिदं वचः ॥ ३७॥ देव्युवाच । वरं वरय राजेन्द्र ब्रह्मपुत्र यदिच्छसि । प्रसन्नाहं स्तवेनात्र भक्त्या चाराधनेन च ॥ ३८॥ मनुरुवाच । यदि देवि प्रसन्नासि भक्त्या कारुणिकोत्तमे । तदा निर्विघ्नतः सृष्टिः प्रजायाः स्यात्तवाज्ञया ॥ ३९॥ देव्युवाच । प्रजासर्गः प्रभवतु ममानुग्रहतः किल । निर्विघ्नेन च राजेन्द्र वृद्धिश्चाप्युत्तरोत्तरम् ॥ ४०॥ यः कश्चित्पठते स्तोत्रं मद्भक्त्या त्वत्कृतं सदा । तेषां विद्या प्रजासिद्धिः कीर्तिः कान्त्युदयः खलु ॥ ४१॥ जायन्ते धनधान्यानि शक्तिरप्रहता नृणाम् । सर्वत्र विजयो राजन् सुखं शत्रुपरिक्षयः ॥ ४२॥ श्रीनारायण उवाच । एवं दत्त्वा वरान् देवी मनवे ब्रह्मसूनवे । अन्तर्धानं गता चासीत्पश्यतस्तस्य धीमतः ॥ ४३॥ अथ लब्धवरो राजा ब्रह्मपुत्रः प्रतापवान् । ब्रह्माणमब्रवीत्तात स्थानं मे दीयतां रहः ॥ ४४॥ यत्राहं समधिष्ठाय प्रजाः स्रक्ष्यामि पुष्कलाः । यक्ष्यामि यज्ञैर्देवेशं तत्समादिश माचिरम् ॥ ४५॥ इति पुत्रवचः श्रुत्वा प्रजापतिपतिर्विभुः । चिन्तयामास सुचिरं कथं कार्यं भवेदिदम् ॥ ४६॥ सृजतो मे गतः कालो विपुलोऽनन्तसङ्ख्यकः । धरा वार्भिः स्तुता मग्ना रसं याताखिलाश्रया ॥ ४७॥ इदं मच्चिन्तितं कार्यं भगवानादिपूरुषः । करिष्यति सहायो मे यदादेशेऽहमाश्रितः ॥ ४८॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे भुवनकोशप्रसङ्गे देव्या मनवे वरदानवर्णनं नाम प्रधमोऽध्यायः ॥ ८.१॥

८.२ द्वितीयोऽध्यायः । धरण्युद्धारवर्णनम् ।

श्रीनारायण उवाच । एवं मीमांसतस्तस्य पद्मयोनेः परन्तप । मन्वादिभिर्मुनिवरैर्मरीच्याद्यैः समन्ततः ॥ १॥ ध्यायतस्तस्य नासाग्राद्विरञ्चेः सहसानघ । वराहपोतो निरगादेकाङ्गुलप्रमाणतः ॥ २॥ तस्यैव पश्यतः खस्थः क्षणेन किल नारद । करिमात्रं प्रववृधे तदद्भुततमं ह्यभूत् ॥ ३॥ मरीचिमुख्यैर्विप्रेन्द्रैः सनकाद्यैश्च नारद । तद् दृष्ट्वा सौकरं रूपं तर्कयामास पद्मभूः ॥ ४॥ किमेतत्सौकरव्याजं दिव्यं सत्त्वमवस्थितम् । अत्याश्चर्यमिदं जातं नासिकाया विनिःसृतम् ॥ ५॥ दृष्टोऽङ्गुष्ठशिरोमात्रः क्षणाच्छैलेन्द्रसन्तिभः । आहोस्विद्भगवान्किं वा यज्ञो मे खेदयन्मनः ॥ ६॥ इति तर्कयतस्तस्य ब्रह्मणः परमात्मनः । वराहरूपो भगवाञ्जगर्जाचलसन्निभः ॥ ७॥ विरञ्चिं हर्षयामास संहतांश्च द्विजोत्तमान् । स्वगर्जशब्दमात्रेण दिक्प्रान्तमनुनादयन् ॥ ८॥ ते निशम्य स्वखेदस्य क्षयितुं घुर्घुरस्वनम् । जनस्तपःसत्यलोकवासिनोऽमरवर्यकाः ॥ ९॥ छन्दोमयैः स्तोत्रवरैरृक्सामाथर्वसम्भवैः । वचोभिः पुरुषं त्वाद्यं द्विजेन्द्राः पर्यवाकिरन् ॥ १०॥ तेषां स्तोत्रं निशम्याद्यो भगवान् हरिरीश्वरः । कृपावलोकमात्रेणानुगृहीत्वाऽऽप आविशत् ॥ ११॥ तस्यान्तर्विशतः क्रूरसटाघातप्रपीडितः । समुद्रोऽथाब्रवीद्देव रक्ष मां शरणार्तिहन् ॥ १२॥ इत्याकर्ण्य समुद्रोक्तं वचनं हरिरीश्वरः । विदारयञ्जलचराञ्जगामान्तर्जले विभुः ॥ १३॥ इतस्ततोऽभिधावन्सन् विचिन्वन्पृथिवीं धराम् । आघ्रायाघ्राय सर्वेशो धरामासादयच्छनैः ॥ १४॥ अन्तर्जलगतां भूमिं सर्वसत्त्वाश्रयां तदा । भूमिं स देवदेवेशो दंष्ट्रयोदाजहार ताम् ॥ १५॥ तां समुद्धृत्य दंष्ट्राग्रे यज्ञेशो यज्ञपूरूषः । शुशुभे दिग्गजो यद्वदुद्धृत्याथ सुपद्मीनीम् ॥ १६॥ तं दृष्ट्वा देवदेवेशो विरञ्चिः समनुः स्वराट् । तुष्टाव वाग्भिर्देवेशं दंष्ट्रोद्धतवसुन्धरम् ॥ १७॥ ब्रह्मोवाच । जितं ते पुण्डरीकाक्ष भक्तानामार्तिनाशन । खर्वीकृतसुराधार सर्वकामफलप्रद ॥ १८॥ इयं च धरणी देव शोभते वसुधा तव । पद्मिनीव सुपत्राढ्या मतङ्गजकरोद्धृता ॥ १९॥ इदं च ते शरीरं वै शोभते भूमिसङ्गमात् । उद्धृताम्बुजशुण्डाग्रकरीन्द्रतनुसन्निभम् ॥ २०॥ नमो नमस्ते देवेश सृष्टिसंहारकारक । दानवानां विनाशाय कृतनानाकृते प्रभो ॥ २१॥ अग्रतश्च नमस्तेऽस्तु पृष्ठतश्च नमो नमः । सर्वामराधारभूत बृहद्धाम नमोऽस्तु ते ॥ २२॥ त्वयाहं च प्रजासर्गे नियुक्तः शक्तिबृंहितः । त्वदाज्ञावशतः सर्गं करोमि विकरोमि च ॥ २३॥ त्वत्सहायेन देवेशा अमराश्च पुरा हरे । सुधां विभेजिरे सर्वे यथाकालं यथाबलम् ॥ २४॥ इन्द्रस्त्रिलोकीसाम्राज्यं लब्धवांस्तन्निदेशतः । भुनक्ति लक्ष्मीं बहुलां सुरसङ्घप्रपूजितः ॥ २५॥ वह्निः पावकतां लब्ध्वा जाठरादिविभेदतः । देवासुरमनुष्याणां करोत्याप्यायनं तथा ॥ २६॥ धर्मराजोऽथ पितॄणामधिपः सर्वकर्मदृक् । कर्मणां फलदातासौ त्वन्नियोगादधीश्वरः ॥ २७॥ नैरृतो रक्षसामीशो यक्षो विघ्नविनाशनः । सर्वेषां प्राणिनां कर्मसाक्षी त्वत्तः प्रजायते ॥ २८॥ वरुणो यादसामीशो लोकपालो जलाधिपः । त्वदाज्ञाबलमाश्रित्य लोकपालत्वमागतः ॥ २९॥ वायुर्गन्धवहः सर्वभूतप्राणनकारणम् । जातस्तव निदेशेन लोकपालो जगद्गुरुः ॥ ३०॥ कुबेरः किन्नरादीनां यक्षाणां जीवनाश्रयः । त्वदाज्ञान्तर्गतः सर्वलोकपेषु च मान्यभूः ॥ ३१॥ ईशानः सर्वरुद्राणामीश्वरान्तकरः प्रभुः । जातो लोकेशवन्द्योऽसौ सर्वदेवाधिपालकः ॥ ३२॥ नमस्तुभ्यं भगवते जगदीशाय कुर्महे । यस्यांशभागाः सर्वे हि जाता देवाः सहस्रशः ॥ ३३॥ नारद उवाच । एवं स्तुतो विश्वसृजा भगवानादिपूरुषः । लीलावलोकमात्रेणाप्यनुग्रहमवासृजत् ॥ ३४॥ तत्रैवाभ्यागतं दैत्यं हिरण्याक्षं महासुरम् । रुन्धानमध्वनो भीमं गदयाताडयद्धरिः ॥ ३५॥ तद्रक्तपङ्कदिग्धाङ्गो भगवानादिपूरुषः । उद्धृत्य धरणीं देवो दंष्ट्रया लीलयाप्सु ताम् ॥ ३६॥ निवेश्य लोकनाथेशो जगाम स्थानमात्मनः । एतद्भगवतश्चित्रं धरण्युद्धरणं परम् ॥ ३७॥ श‍ृणुयाद्यः पुमान् यश्च पठेच्चरितमुत्तमम् । सर्वपापविनिर्मुक्तो वैष्णवीं गतिमाप्नुयात् ॥ ३८॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे धरण्युद्धारवर्णनं नाम द्वितीयोऽध्यायः ॥ ८.२॥

८.३ तृतीयोऽध्यायः । भुवनकोशविस्तारे स्वायम्भुवमनुवंशकीर्तनम् ।

श्रीनारायण उवाच । महीं देवः प्रतिष्ठाप्य यथास्थाने च नारद । वैकुण्ठलोकमगमद् ब्रह्मोवाच स्वमात्मजम् ॥ १॥ स्वायम्भूव महाबाहो पुत्र तेजस्विनांवर । स्थाने महीमये तिष्ठ प्रजाः सृज यथोचितम् ॥ २॥ देशकालविभागेन यज्ञेशं पुरुषं यज । उच्चावचपदार्थैश्च यज्ञसाधनकैर्विभो ॥ ३॥ धर्ममाचर शास्त्रोक्तं वर्णाश्रमनिबन्धनम् । एतेन क्रमयोगेन प्रजावृद्धिर्भविष्यति ॥ ४॥ पुत्रानुत्पाद्य गुणतः कीर्त्या कान्त्यात्मरूपिणः । विद्याविनयसम्पन्नान् सदाचारवतां वरान् ॥ ५॥ कन्याश्च दत्त्वा गुणवद्यशोवद्भ्यः समाहितः । मनः सम्यक् समाधाय प्रधानपुरुषे परे ॥ ६॥ भक्तिसाधनयोगेन भगवत्परिचर्यया । गतिमिष्टां सदा वन्द्यां योगिनां गमिता भवान् ॥ ७॥ इत्याश्वास्य मनुं पुत्र पद्मयोनिः प्रजापतिः । प्रजासर्गे नियम्यामुं स्वधाम प्रत्यपद्यत ॥ ८॥ प्रजाः सृजत पुत्रेति पितुराज्ञां समादधत् । स्वायम्भुवः प्रजासर्गमकरोत्पृथिवीपतिः ॥ ९॥ प्रियव्रतोत्तानपादौ मनुपुत्रौ महौजसौ । कन्यास्तिस्रः प्रसूताश्च तासां नामानि मे श‍ृणु ॥ १० आकूतिः प्रथमा कन्या द्वितीया देवहूतिका । तृतीया च प्रसूतिर्हि विख्याता लोकपावनी ॥ ११ आकूतिं रुचये प्रादात्कर्दमाय च मध्यमाम् । दक्षायादात्प्रसूतिं च यासां लोक इमाः प्रजाः ॥ १२ रुचेः प्रजज्ञे भगवान् यज्ञो नामादिपूरुषः । आकूत्यां देवहूत्यां च कपिलोऽसौ च कर्दमात् ॥ १३ साङ्ख्याचार्यः सर्वलोके विख्यातः कपिलो विभुः । दक्षात्प्रसूत्यां कन्याश्च बहुशो जज्ञिरे प्रजाः ॥ १४ यासां सन्तानसम्भूता देवतिर्यङ्नरादयः । प्रसूता लोकविख्याता सर्वे सर्गप्रवर्तकाः ॥ १५ यज्ञश्च भगवान् स्वायम्भुवमन्वन्तरे विभुः । मनुं ररक्ष रक्षोभ्यो यामैर्देवगणैर्वृतः ॥ १६ कपिलोऽपि महायोगी भगवान् स्वाश्रमे स्थितः । देवहूत्यै परं ज्ञानं सर्वाविद्यानिवर्तकम् ॥ १७ सविशेषं ध्यानयोगमध्यात्मज्ञाननिश्चयम् । कापिलं शास्त्रमाख्यातं सर्वाज्ञानविनाशनम् ॥ १८ उपदिश्य महायोगी स ययौ पुलहाश्रमम् । अद्यापि वर्तते देवः साङ्ख्याचार्यो महाशयः ॥ १९ यन्नामस्मरणेनापि साङ्ख्ययोगश्च सिद्ध्यति । तं वन्दे कपिलं योगाचार्यं सर्ववरप्रदम् ॥ २० एवमुक्तं मनोः कन्यावंशवर्णनमुत्तमम् । पठतां श‍ृण्वतां चापि सर्वपापविनाशनम् ॥ २१ अतः परं प्रवक्ष्यामि मनुपुत्रान्वयं शुभम् । यदाकर्णनमात्रेण परं पदमवाप्नुयात् ॥ २२ द्वीपवर्षसमुद्रादिव्यवस्था यत्सुतैः कृता । व्यवहारप्रसिद्ध्यर्थं सर्वभूतसुखाप्तये ॥ २३ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे भुवनकोशविस्तारे स्वायम्भुवमनुवंशकीर्तनं नाम तृतीयोऽध्यायः ॥ ८.३॥

चतुऽर्थोऽध्यायः । भुवनकोशविषये प्रियव्रतवंशवर्णनम् ।

श्रीनारायण उवाच । मनोः स्वायम्भुवस्यासीज्ज्येष्ठः पुत्रः प्रियव्रतः । पितुः सेवापरो नित्यं सत्यधर्मपरायणः ॥ १॥ प्रजापतेर्दुहितरं सुरूपां विश्वकर्मणः । बर्हिष्मतीं चोपयेमे समानां शीलकर्मभिः ॥ २॥ तस्यां पुत्रान्दश गुणैरन्वितान्भावितात्मनः । जनयामास कन्यां चोर्जस्वतीं च यवीयसीम् ॥ ३॥ आग्नीध्रश्चेध्मजिह्वश्च यज्ञबाहुस्तृतीयकः । महावीरश्चतुर्थस्तु पञ्चमो रुक्मशुक्रकः ॥ ४॥ घृतपृष्ठश्च सवनो मेधातिथिरथाष्टमः । वीतिहोत्रः कविश्चेति दशैते वह्निनामकाः ॥ ५॥ एतेषां दशपुत्राणां त्रयोऽप्यासन्विरागिणः । कविश्च सवनश्चैव महावीर इति त्रयः ॥ ६॥ आत्मविद्यापरिष्णाताः सर्वे ते ह्यूर्ध्वरेतसः । आश्रमे परहंसाख्ये निःस्पृहा ह्यभवन्मुदाः ॥ ७॥ अपरस्यां च जायायां त्रयः पुत्राश्च जज्ञिरे । उत्तमस्तामसश्चैव रैवतश्चेति विश्रुताः ॥ ८॥ मन्वन्तराधिपतय एते पुत्रा महौजसः । प्रियव्रतः स राजेन्द्रो बुभुजे जगतीमिमाम् ॥ ९॥ एकादशार्बुदाब्दानामव्याहतबलेन्द्रियः । यदा सूर्यः पृथिव्याश्च विभागे प्रथमेऽतपत् ॥ १०॥ भागे द्वितीये तत्रासीदन्धकारोदयः किल । एवं व्यतिकरं राजा विलोक्य मनसा चिरम् ॥ ११॥ प्रशास्ति मयि भूम्यां च तमः प्रादुर्भवेत्कथम् । एवं निवारयिष्यामि भूमौ योगबलेन च ॥ १२॥ एवं व्यवसितो राजा पुत्रः स्वायम्भुवस्य सः । रथेनादित्यवर्णेन सप्तकृत्वः प्रकाशयन् ॥ १३॥ तस्यापि गच्छतो राज्ञो भूमौ यद्रथनेमयः । पतितास्ते समुद्राख्यां भेजिरे लोकहेतवे ॥ १४॥ जाताः प्रदेशास्ते सप्त द्वीपा भूमौ विभागशः । रथनेमिसमुत्थास्ते परिखाः सप्त सिन्धवः ॥ १५॥ यत आसंस्ततः सप्त भुवो द्वीपा हि ते स्मृताः । जम्बुद्वीपः प्लक्षद्वीपः शाल्मलीद्वीपसंज्ञकः ॥ १६॥ कुशद्वीपः क्रौञ्चद्वीपः शाकद्वीपश्च पुष्करः । तेषां च परिमाणं तु द्विगुणं चोत्तरोत्तरम् ॥ १७॥ समन्ततश्चोपक्लृप्तं बहिर्भागक्रमेण च । क्षारोदेक्षुरसोदौ च सुरोदश्च घृतोदकः ॥ १८॥ क्षीरोदो दधिमण्डोदः शुद्धोदश्चेति ते स्मृताः । सप्तैते प्रतिविख्याताः पृथिव्यां सिन्धवस्तदा ॥ १९॥ प्रथमो जम्बुद्वीपाख्यो यः क्षारोदेन वेष्टितः । तत्पतिं विदधे राजा पुत्रमाग्नीध्रसंज्ञकम् ॥ २०॥ प्लक्षद्वीपे द्वितीयेऽस्मिन्द्वीपेक्षुरससम्प्लुते । जातस्तदधिपः प्रैयव्रत इध्मादिजिह्वकः ॥ २१॥ शाल्मलीद्वीप एतस्मिन्सुरोदधिपरिप्लुते । यज्ञबाहुं तदधिपं करोति स्म प्रियव्रतः ॥ २२॥ कुशद्वीपेऽतिरम्ये च घृतोदेनोपवेष्टिते । हिरण्यरेता राजाभूत्प्रियव्रततनूजनिः ॥ २३॥ क्रौञ्चद्वीपे पञ्चमे तु क्षीरोदपरिसम्प्लुते । प्रैयव्रतो घृतपृष्ठः पतिरासीन्महाबलः ॥ २४॥ शाकद्वीपे चारुतरे दधिमण्डोदसङ्कुले । मेधातिथिरभूद्राजा प्रियव्रतसुतो वरः ॥ २५॥ पुष्करद्वीपके शुद्धोदकसिन्धुसमाकुले । वीतिहोत्रो बभूवासौ राजा जनकसम्मतः ॥ २६॥ कन्यामूर्जस्वतीनाम्नीं ददावुशनसे विभुः । आसीत्तस्यां देवयानी कन्या काव्यस्य विश्रुता ॥ २७॥ एवं विभज्य पुत्रेभ्यः सप्तद्वीपान् प्रियव्रतः । विवेकवशगो भूत्वा योगमार्गाश्रितोऽभवत् ॥ २८॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे भुवनकोशविषये प्रियव्रतवंशवर्णनं नाम चतुर्थेऽध्यायः ॥ ८.४॥

८.५ पञ्चमोऽध्यायः । भुवनलोकवर्णने द्वीपवर्षविभेदवर्णनम् ।

श्रीनारायण उवाच । देवर्षे श‍ृणु विस्तारं द्वीपवर्षविभेदतः । भूमण्डलस्य सर्वस्य यथा देवप्रकल्पितम् ॥ १॥ समासात्सम्प्रवक्ष्यामि नालं विस्तरतः क्वचित् । जम्बुद्वीपः प्रथमतः प्रमाणे लक्षयोजनः ॥ २॥ विशालो वर्तुलाकारो यथाब्जस्य च कर्णिका । नव वर्षाणि यस्मिंश्च नवसाहस्रयोजनैः ॥ ३॥ आयामैः परिसङ्ख्यानि गिरिभिः परितः श्रितैः । अष्टाभिर्दीर्घरूपैश्च सुविभक्तानि सर्वतः ॥ ४॥ धनुर्वत्संस्थिते ज्ञेये द्वे वर्षे दक्षिणोत्तरे । दीर्घाणि तत्र चत्वारि चतुरस्रमिलावृतम् ॥ ५॥ इलावृतं मध्यवर्षं यन्नाभ्यां सुप्रतिष्ठितः । सौवर्णो गिरिराजोऽयं लक्षयोजनमुच्छ्रितः ॥ ६॥ कर्णिकारूप एवायं भूगोलकमलस्य च । मूर्ध्नि द्वात्रिंशत्सहस्रयोजनैर्विततस्त्वयम् ॥ ७॥ मूले षोडशसाहस्रस्तावतान्तर्गतः क्षितौ । इलावृतस्योत्तरतो नीलः श्वेतश्च श‍ृङ्गवान् ॥ ८॥ त्रयो वै गिरयः प्रोक्ता मर्यादावधयस्त्रिषु । रम्यकाख्ये तथा वर्षे द्वितीये च हिरण्मये ॥ ९॥ कुरुवर्षे तृतीये तु मर्यादां व्यञ्जयन्ति ते । प्रागायता उभयतः क्षारोदावधयस्तथा ॥ १०॥ द्विसहस्रपृथुतरास्तथा एकैकशः क्रमात् । पूर्वात्पूर्वाच्चोत्तरस्यां दशांशादधिकांशतः ॥ ११॥ दैर्घ्य एव ह्रसन्तीमे नानानदनदीयुताः । इलावृताद्दक्षिणतो निषधो हेमकूटकः ॥ १२॥ हिमालयश्चेति त्रयः प्राग्विस्तीर्णाः सुशोभनाः । अयुतोत्सेधभाजस्ते योजनैः परिकीर्तिताः ॥ १३॥ हरिवर्षं किम्पुरुषं भारतं च यथातथम् । विभागात्कथयन्त्येते मर्यादागिरयस्त्रयः ॥ १४॥ इलावृतात्पश्चिमतो माल्यवान्नामपर्वतः । पूर्वेण च ततः श्रीमान् गन्धमादनपर्वतः ॥ १५॥ आनीलनिषधं त्वेतौ चायतौ द्विसहस्रतः । योजनैः पृथुतां यातौ मर्यादाकारकौ गिरी ॥ १६॥ केतुमालाख्यभद्राश्ववर्षयोः प्रथितौ च तौ । मन्दरश्च तथा मेरुमन्दरश्च सुपार्श्वकः ॥ १७॥ कुमुदश्चेति विख्याता गिरयो मेरुपादकाः । योजनायुतविस्तारोन्नाहा मेरोश्चतुर्दिशम् ॥ १८॥ अवष्टम्भकरास्ते तु सर्वतोऽभिविराजिताः । एतेषु गिरिषु प्राप्ताः पादपाश्चूतजम्बुनी ॥ १९॥ कदम्बन्यग्रोध इति चत्वारः पर्वताः स्थिताः । केतवो गिरिराजेषु एकादशशतोच्छ्रयाः ॥ २०॥ तावद्विटपविस्ताराः शताख्यपरिणाहिनः । चत्वारश्च ह्रदास्तेषु पयोमध्विक्षुसज्जलाः ॥ २१॥ यदुपस्पर्शिनो देवा योगैश्वर्याणि विन्दते । देवोद्यानानि चत्वारि भवन्ति ललनासुखाः ॥ २२॥ नन्दनं चैत्ररथकं वैभ्राजं सर्वभद्रकम् । येषु स्थित्वामरगणा ललनायूथसंयुताः ॥ २३॥ उपदेवगणैर्गीतमहिमानो महाशयाः । विहरन्ति स्वतन्त्रास्ते यथाकामं यथासुखम् ॥ २४॥ मन्दरोत्सङ्गसंस्थस्य देवचूतस्य मस्तकात् । एकादशशतोच्छ्रायात्फलान्यमृतभाञ्जि च ॥ २५॥ गिरिकूटप्रमाणानि सुस्वादूनि मृदूनि च । तेषां विशीर्यमाणानां फलानां सुरसेन च ॥ २६॥ अरुणोदसवर्णेन अरुणोदा प्रवर्तते । नदी रम्यजला देवदैत्यराजप्रपूजिता ॥ २७॥ अरुणाख्या महाराज वर्तते पापहारिणी । पूजयन्ति च तां देवीं सर्वकामफलप्रदाम् ॥ २८॥ नानोपहारबलिभिः कल्मषघ्न्यभयप्रदाम् । तस्याः कृपावलोकेन क्षेमारोग्यं व्रजन्ति ते ॥ २९॥ आद्या मायातुलानन्ता पुष्टिरीश्वरमालिनी । दुष्टनाशकरी कान्तिदायिनीति स्मृता भुवि ॥ ३०॥ अस्याः पूजाप्रभावेण जाम्बूनदमुदावहत् ॥ ३१॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे भुवनलोकवर्णने द्वीपवर्षविभेदवर्णनं नाम पञ्चमोऽध्यायः ॥ ८.५॥

८.६ षष्ठोऽध्यायः । भुवनकोशवर्णनेऽरुणोदादिनदीनां निसर्गस्थानवर्णनम् ।

श्रीनारायण उवाच । अरुणोदा नदी या तु मया प्रोक्ता च नारद । मन्दरान्निपतन्ती सा पूर्वेणेलावृतं प्लवेत् ॥ १॥ यज्जोषणाद्भवान्याश्चानुचरीणां स्त्रियामपि । यक्षगन्धर्वपत्नीनां देहगन्धवहोऽनिलः ॥ २॥ वासयत्यभितो भूमिं दशयोजनसङ्ख्यया । एवं जम्बूफलानां च तुङ्गदेशनिपातनात् ॥ ३॥ विशीर्यतामनस्थीनां कुञ्जराङ्गप्रमाणिनाम् । रसेन च नदी जम्बूनाम्नी मेर्वाख्यमन्दरात् ॥ ४॥ पतन्ती भूमिभागे च दक्षिणेलावृतं गता । देवी जम्बूफलास्वादतुष्टा जम्ब्वादिनी स्मृता ॥ ५॥ तत्रत्यानां च लोकानां देवनागर्षिरक्षसाम् । पूजनीयपदा मान्या सर्वभूतदयाकरी ॥ ६॥ पावनी पापिनां रोगनाशिनी स्मरतामपि । कीर्तिता विघ्नसंहर्त्री माननीया दिवौकसाम् ॥ ७॥ कोकिलाक्षी कामकला करुणा कामपूजिता । कठोरविग्रहा धन्या नाकिमान्या गभस्तिनी ॥ ८॥ एभिर्नामपदैः कामं जपनीया सदा नृणाम् । जम्बूनदीरोधसोर्या मृत्तिकातीरवर्तिनी ॥ ९॥ जम्बूरसेनानुविद्ध्यमाना वाय्वर्कयोगतः । विद्याधरामरस्त्रीणां भूषणं विविधं महत् ॥ १०॥ जाम्बूनदं सुवर्णं च प्रोक्तं देवविनिर्मितम् । यत्सुवर्णं च विबुधा योषिद्भिः कामुकाः सदा ॥ ११॥ मुकुटं कटिसूत्रं च केयूरादीन्प्रकुर्वते । महाकदम्बः सम्प्रोक्तः सुपार्श्वगिरिसंस्थितः ॥ १२॥ तस्य कोटरदेशेभ्यः पञ्च धाराश्च याः स्मृताः । सुपार्श्वगिरिमूर्ध्नीह पतन्त्येता भुवं गताः ॥ १३॥ मधुधाराः पञ्च तास्तु पश्चिमेलावृतं प्लुताः । याश्चोपभुज्यमानानां देवानां मुखगन्धभृत् ॥ १४॥ वायुः समन्ततोऽगच्छञ्छतयोजनवासनः । धारेश्वरी महादेवी भक्तानां कार्यकारिणी ॥ १५॥ देवपूज्या महोत्साहा कालरूपा महानना । वसते कर्मफलदा कान्तारग्रहणेश्वरी ॥ १६॥ करालदेहा कालाङ्गी कामकोटिप्रवर्तिनी । इत्येतैर्नामभिः पूज्या देवी सर्वसुरेश्वरी ॥ १७॥ एवं कुमुदरूढो यो नाम्ना शतबलो वटः । तत्स्कन्धेभ्योऽधोमुखाश्च नदाः कुमुदमूर्धतः ॥ १८॥ पयोदधिमधुघृतगुडान्नाद्यम्बरादिभिः । शय्यासनाद्याभरणैः सर्वे कामदुघाश्च ते ॥ १९॥ उत्तरेणेलावृतं ते प्लावयन्ति समन्ततः । मीनाक्षी तत्तले देवी देवासुरनिषेविता ॥ २०॥ नीलाम्बरा रौद्रमुखी नीलालकयुता च सा । नाकिनां देवसङ्घानां फलदा वरदा च सा ॥ २१॥ अतिमान्यातिपूज्या च मत्तमातङ्गगामिनी । मदनोन्मादिनी मानप्रिया मानप्रियान्तरा ॥ २२॥ मारवेगधरा मारपूजिता मारमादिनी । मयूरवरशोभाढ्या शिखिवाहनगर्भभूः ॥ २३॥ एभिर्नामपदैर्वन्द्या देवी सा मीनलोचना । जपतां स्मरतां मानदात्री चेश्वरसङ्गिनी ॥ २४॥ तेषां नदानां पानीयपानानुगतचेतसाम् । प्रजानां न कदाचित्स्याद्वलीपलितलक्षणम् ॥ २५॥ क्लमस्वेदादिदौर्गन्ध्यं जरामयमृतिभ्रमाः । शीतोष्णवातवैवर्ण्यमुखोपप्लवसञ्चयाः ॥ २६॥ नापदश्चैव जायन्ते यावज्जीवं सुखं भवेत् । नैरन्तर्येण तत्स्याद्वै सुखं निरतिशायकम् ॥ २७॥ तत ऊर्ध्वं प्रवक्ष्यामि सन्निवेशं च तद्गिरेः । सुवर्णमयनाम्नो वै सुमेरोः पर्वताः पृथक् ॥ २८॥ गिरयो विंशतिपराः कर्णिकाया इवेह ते । केसरीभूय सर्वेऽपि मेरोर्मूलविभागके ॥ २९॥ परितश्चोपक्लृप्तास्ते तेषां नामानि श‍ृण्वतः । कुरङ्गः कुरगश्चैव कुसुम्भोऽथो विकङ्कतः ॥ ३०॥ त्रिकूटः शिशिरश्चैव पतङ्गो रुचकस्तथा । निषधश्च शिनीवासः कपिलः शङ्ख एव च ॥ ३१॥ वैदूर्यश्चारुधिश्चैव हंसो ऋषभ एव च । नागः कालञ्जरश्चैव नारदश्चेति विंशतिः ॥ ३२॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे भुवनकोशवर्णनेऽरुणोदादिनदीनां निसर्गस्थानवर्णनं नाम षष्ठोऽध्यायः ॥ ८.६॥

८.७ सप्तमोऽध्यायः । भुवनकोशवर्णने पर्वतनदीवर्षादिवर्णनम् ।

श्रीनारायण उवाच । गिरी मेरुं च पूर्वेण द्वौ चाष्टादशयोजनैः । सहस्रैरायतौ चोदग्द्विसहस्रं पृथूच्चकौ ॥ १॥ जठरो देवकूटश्च तावेतौ गिरिवर्यकौ । मेरोः पश्चिमतोऽद्री द्वौ पवमानस्तथापरः ॥ २॥ पारियात्रश्च तौ तावद्विख्यातौ तुङ्गविस्तरौ । मेरोर्दक्षिणतः ख्यातौ कैलासकरवीरकौ ॥ ३॥ प्रागायतौ पूर्ववृत्तौ महापर्वतराजकौ । एवं चोत्तरतो मेरोस्त्रिश‍ृङ्गमकरौ गिरी ॥ ४॥ एतैश्चाद्रिवरैरष्टसङ्ख्यैः परिवृतो गिरिः । सुमेरुः काञ्चनगिरिः परिभ्राजन् रविर्यथा ॥ ५॥ मेरोर्मूर्धनि धातुर्हि पुरी पङ्कजजन्मनः । मध्यतश्चोपक्लृप्तेयं दशसाहस्रयोजनैः ॥ ६॥ समानचतुरस्रां च शातकौम्भमयीं पुरीम् । वर्णयन्ति महात्मानः परावरविदो बुधाः ॥ ७॥ तां पुरीमनुलोकानामष्टानामीशिषां पराः । पुर्यः प्रख्यातसौवर्णरूपास्ताश्च यथादिशम् ॥ ८॥ यथारूपं सार्धनेत्रसहस्रप्रमिताः कृताः । मेरोर्नव पुराणि स्युर्मनोवत्यमरावती ॥ ९॥ तेजोवती संयमनी तथा कृष्णाङ्गनापरा । श्रद्धावती गन्धवती तथा चान्या महोदया ॥ १०॥ यशोवती च ब्रह्मेन्द्रवह्न्यादीनां यथाक्रमम् । तत्रैव यज्ञलिङ्गस्य विष्णोर्भगवतो विभोः ॥ ११॥ वामपादाङ्गुष्ठनखनिर्भिन्नस्य च नारद । अण्डोर्ध्वभागरन्ध्रस्य मध्यात्संविशती दिवः ॥ १२॥ मूर्धन्यवततारेयं गङ्गा संविशती विभो । लोकानामखिलानां च पापहारिजलाकुला ॥ १३॥ इयं च साक्षाद्भगवत्पदी लोकेषु विश्रुता । कालेन महता सा तु युगसाहस्रकेण तु ॥ १४॥ दिवो मूर्धानमागत्य देवी देवनदीश्वरी । यत्तद्विष्णुपदं नाम स्थानं त्रैलोक्यविश्रुतम् ॥ १५॥ औत्तानपादिर्यत्रास्ते ध्रुवः परमपावनः । भगवत्पादयुगलं पद्मकोशरजो दधत् ॥ १६॥ अद्याप्यास्ते स राजर्षिः पदवीमचलां श्रितः । तत्र सप्तर्षयस्तस्य प्रभावज्ञा महाशयाः ॥ १७॥ प्रदक्षिणं प्रक्रमन्ति सर्वलोकहितेप्सवः । आत्यन्तिकी सिद्धिरियं तपतां सिद्धिदायिनी ॥ १८॥ आद्रियन्ते च शिरसा जटाजूटोषितेन च । ततो विष्णुपदाद्देवी नैकसाहस्रकोटिभिः ॥ १९॥ विमानैराकुले देवयानेऽवतरती च सा । चन्द्रमण्डलमाप्लाव्य पतन्ती ब्रह्यसद्यनि ॥ २०॥ चतुर्धा भिद्यमाना सा ब्रह्मलोके च नारद । चतुर्भिर्नामभिर्देवी चतुर्दिशमभिसृता ॥ २१॥ सरितां च नदीनां च पतिमेवान्वपद्यत । सीता चालकनन्दा च चतुर्भद्रेति नामभिः ॥ २२॥ सीता च ब्रह्मसदनाच्छिखरेभ्यः क्षमाभृताम् । केसराभिधनाम्ना च प्रस्रवन्ती च स्वर्णदी ॥ २३॥ गन्धमादनमूर्ध्नीह पतिता पापहारिणी । अन्तरेण तु भद्राश्ववर्षं प्राच्यां समागता ॥ २४॥ क्षारोदधिं गता सा तु द्युनदी देवपूजिता । ततो माल्यवतः श‍ृङ्गाद् द्वितीया परिनिर्गता ॥ २५॥ ततो वेगवती भूत्वा केतुमालं समागता । चक्षुर्नाम्नी देवनदी प्रतीच्यां दिश्युपागता ॥ २६॥ सरितां पतिमाविष्टा सा गङ्गा देववन्दिता । ततस्तृतीया धारा तु नाम्ना ख्याता च नारद ॥ २७॥ पुण्या चालकनन्दा वै दक्षिणेनाब्जभूपदात् । वनानि गिरिकूटानि समतिक्रम्य चागता ॥ २८॥ हेमकूटं गिरिवरं प्राप्तातोऽपीह निर्गता । अतिवेगवती भूत्वा भारतं चागतापरा ॥ २९॥ दक्षिणं जलधिं प्राप्ता तृतीया सा सरिद्वरा । यस्याः स्नानाय सरतां मनुजानां पदे पदे ॥ ३०॥ राजसूयाश्वमेधादि फलं तु न हि दुर्लभम् । ततश्चतुर्थी धारा तु भृङ्गवत्पर्वतात्पुनः ॥ ३१॥ भद्राभिधा संस्रवन्ती कुरून्सन्तर्प्य चोत्तरान् । समुद्रं समनुप्राप्ता गङ्गा त्रैलोक्यपावनी ॥ ३२॥ अन्ये नदाश्च नद्यश्च वर्षे वर्षेऽपि सन्ति हि । बहुशो मेरुमन्दारप्रसूताश्चैव नारद ॥ ३३॥ तत्रापि भारतं वर्षं कर्मक्षेत्रमुशन्ति हि । अन्यानि चाष्टवर्षाणि भौमस्वर्गप्रदानि च ॥ ३४॥ स्वर्गिणां पुण्यशेषस्य भोगस्थानानि नारद । पुरुषाणां चायुतायुर्वज्राङ्गा देवसन्निभाः ॥ ३५॥ पुरुषा नागसाहस्रैर्दशभिः परिकल्पिताः । महासौरतसन्तुष्टाः कलत्राढ्याः सुखान्विताः ॥ ३६॥ एकवर्षोनके चायुष्याप्तगर्भाः स्त्रियोऽपि हि । त्रेतायुगसमः कालो वर्तते सर्वदैव हि ॥ ३७॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे भुवनकोशवर्णने पर्वतनदीवर्षादिवर्णनं नाम सप्तमोऽध्यायः ॥ ८.७॥

८.८ अष्टमोऽध्यायः । भुवनकोशवर्णने इलावृतभद्राश्ववर्षवर्णनम् ।

श्रीनारायण उवाच । तेषु वर्षेषु देवेशाः पूर्वोक्तैः स्तवनैः सदा । पूजयन्ति महादेवीं जपध्यानसमाधिभिः ॥ १॥ सर्वर्तुकुसुमश्रेणी शोभिता वनराजयः । फलानां पल्लवानां च यत्र शोभा निरन्तरम् ॥ २॥ तेषु काननवर्षेषु वर्षपर्वतसानुषु । गिरिद्रोणीषु सर्वासु निर्मलोदकराशिषु ॥ ३॥ विकचोत्पलमालासु हंससारससञ्चयैः । विमिश्रितेषु तेष्वेव पक्षिभिः कूजितेषु च ॥ ४॥ जलक्रीडादिभिश्चित्रविनोदैः क्रीडयन्ति च । सुन्दरीललितभ्रूणां विलासायतनेषु च ॥ ५॥ तत्रत्या विहरन्त्यत्र स्वैरं युवतिभिः सह । नवस्वपि च वर्षेषु भगवानादिपूरुषः ॥ ६॥ (नारायणाख्यो लोकानामनुग्रहरसैकदृक् ।) देवीमाराधयन्नास्ते स च सर्वैश्च पूज्यते । आत्मव्यूहेनेज्ययासौ सन्निधत्ते समाहितः ॥ ७॥ इलावृते तु भगवान् पद्मजाक्षिसमुद्भवः । एक एव भवो देवो नित्यं वसति साङ्गनः ॥ ८॥ तत्क्षेत्रे नापरः कश्चित्प्रवेशं वितनोति च । भवान्याः शापतस्तत्र पुमान्स्त्री भवति स्फुटम् ॥ ९॥ भवानीनाथकैः स्त्रीणामसङ्ख्यैर्गणकोटिभिः । संरुध्यमानो देवेशो देवं सङ्कर्षणं भजन् ॥ १०॥ आत्मना ध्यानयोगेन सर्वभूतहितेच्छया । तां तामसीं तुरीयां च मूर्तिं प्रकृतिमात्मनः ॥ ११॥ उपधावते चैकाग्रमनसा भगवानजः । श्रीभगवानुवाच । ओन्नमो भगवते महापुरुषाय सर्वगुणसङ्ख्यानायानन्तायाव्यक्ताय नम इति ॥ १२॥ भजे भजन्यारणपादपङ्कजं भगस्य कृत्स्नस्य परं परायणम् । भक्तेष्वलं भावितभूतभावनं भवापहं त्वा भव भावमीश्वरम् ॥ १३॥ न यस्य मायागुणकर्मवृत्तिभि- र्निरीक्षितो ह्यण्वपि दृष्टिरज्यते । ईशे यथा नो जितमन्युरंहसा कस्तं न मन्येत जिगीषुरात्मनः ॥ १४॥ असद्दृशो यः प्रतिभाति मायया क्षीबेव मध्वासवतागम्रलोचनः । न नागवध्वोऽर्हण ईशिरे ह्रिया यत्पादयोः स्पर्शनधर्षितेन्द्रियाः ॥ १५॥ यमाहुरस्य स्थितिजन्मसंयमं त्रिभिर्विहीनं यमनन्तमॄषयः । न वेद सिद्धार्थमिव क्वचित्स्थितं भूमण्डलं मूर्धसहस्रधामसु ॥ १६॥ यस्याद्य आसीद् गुणविग्रहो महान् विज्ञानधिष्ण्यो भगवानजः किल । यत्संवृतोऽहं त्रिवृता स्वतेजसा वैकारिकं तामसमैन्द्रियं सृजे ॥ १७॥ एते वयं यस्य वशे महात्मनः स्थिताः शकुन्ता इव सूत्रयन्त्रिताः । महानहंवैकृततामसेन्द्रियाः सृजाम सर्वे यदनुग्रहादिदम् ॥ १८॥ यन्निर्मितां कर्ह्यपि कर्मपर्वणीं मायां जनोऽयं गुरुसर्गमोहितः । न वेद निस्तारणयोगमञ्जसा तस्मै नमस्ते विलयोदयात्मने ॥ १९॥ श्रीनारायण उवाच । एवं स भगवान् रुद्रो देवं सङ्कर्षणं प्रभुम् । इलावृतमुपासीत देवीगणसमाहितः ॥ २०॥ तथैव धर्मपुत्रोऽसौ नाम्ना भद्रश्रवा इति । तत्कुलस्यापि पतयः पुरुषा भद्रसेवकाः ॥ २१॥ भद्राश्ववर्षे तां मूर्तिं वासुदेवस्य विश्रुताम् । हयमूर्तिभिदा तां तु हयग्रीवपदाङ्किताम् ॥ २२॥ परमेण समाध्यन्यवारकेण नियन्त्रिताम् । एवमेव च तां मूर्तिं गृणन्त उपयान्ति च ॥ २३॥ भद्रश्रवस ऊचुः । ॐ नमो भगवते धर्मायात्मविशोधनाय नम इति । अहो विचित्रं भगवद्विचेष्टितं घ्नन्तं जनोऽयं हि मिषन्न पश्यति । ध्यायन्न सद्यर्हि विकर्म सेवितुं निर्हृत्य पुत्रं पितरं जिजीविषुः ॥ २४॥ वदन्ति विश्वं कवयः स्म नश्वरं पश्यन्ति चाध्यात्मविदो विपश्चितः । तथापि मुह्यन्ति तवाज मायया सुविस्मितं कृत्यमजं नतोऽस्मि तम् ॥ २५॥ विश्वोद्भवस्थाननिरोधकर्म ते ह्यकर्तुरङ्गीकृतमप्यपावृतः । युक्तं न चित्रं त्वयि कार्यकारणे सर्वात्मनि व्यतिरिक्ते च वस्तुतः ॥ २६॥ वेदान् युगान्ते तमसा तिरस्कृतान् रसातलाद्यो नृतुरङ्गविग्रहः । प्रत्याददे वै कवयेऽभियाचते तस्मै नमस्ते वितथेहिताय ते ॥ २७॥ एवं स्तुवन्ति देवेशं हयशीर्षं हरिं च ते । भद्रश्रवसनामानो वर्णयन्ति च तद्गुणान् ॥ २८॥ एषां चरितमेतद्धि यः पठेच्छ्रावयेच्च यः । पापकञ्चुकमुत्सृज्य देवीलोकं व्रजेच्च सः ॥ २९॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे भुवनकोशवर्णने इलावृतभद्राश्ववर्षवर्णनं नामाष्टमोऽध्यायः ॥ ८.८॥

८.९ नवमोऽध्यायः । भुवनकोशवर्णने हरिवर्षकेतुमालरम्यकवर्षवर्णनम् ।

श्रीनारायण उवाच । हरिवर्षे च भगवान्नृहरिः पापनाशनः । वर्तते योगयुक्तात्मा भक्तानुग्रहकारकः ॥ १॥ तस्य तद्दयितं रूपं महाभागवतोऽसुरः । पश्यन्भक्तिसमायुक्तः स्तौति तद्गुणतत्त्ववित् ॥ २॥ प्रह्लाद उवाच । ॐ नमो भगवते नरसिंहाय नमस्तेजस्तेजसे आविराविर्भव वज्रदंष्ट्र कर्माशयान् रन्धय रन्धय तमो ग्रस ग्रस ॐ स्वाहा । अभयं ममात्मनि भूयिष्ठाः ॥ ॐ क्षौम् ॥ स्वस्त्यस्तु विश्वस्य खलः प्रसीदतां ध्यायन्तु भूतानि शिवं मिथो धिया । मनश्च भद्रं भजतादधोक्षजे आवेश्यतां नो मतिरप्यहैतुकी ॥ ३॥ मागारदारात्मजवित्तबन्धुषु सङ्गो यदि स्याद्भगवत्प्रियेषु नः । यः प्राणवृत्त्या परितुष्ट आत्मवान् सिद्ध्यत्यदूरान्न तथेन्द्रियप्रियः ॥ ४॥ यत्सङ्गलब्धं निजवीर्यवैभवं तीर्थं मुहुः संस्पृशतां हि मानसम् । हरत्यजोऽन्तः श्रुतिभिर्गतोऽङ्गजं को वै न सेवेत मुकुन्दविक्रमम् ॥ ५॥ यस्यास्ति भक्तिर्भगवत्यकिञ्चना सर्वैर्गुणैस्तत्र समासते सुराः । हरावभक्तस्य कुतो महद्गुणा मनोरथेनासति धावतो बहिः ॥ ६॥ हरिर्हि साक्षाद्भगवाञ्छरीरिणा- मात्मा झषाणामिव तोयमीप्सितम् । हित्वा महांस्तं यदि सज्जते गृहे तदा महत्त्वं वयसा दम्पतीनाम् ॥ ७॥ तस्माद्रजोरागविषादमन्यु- मानस्पृहाभयदैन्याधिमूलम् । हित्वा गृहं संसृतिचक्रवालं नृसिंहपादं भजतां कुतो भयम् ॥ ८॥ एवं दैत्यपतिः सोऽपि भक्त्यानुदिनमीडते । नृहरिं पापमातङ्गहरिं हृत्पद्मवासिनम् ॥ ९॥ केतुमाले च वर्षे हि भगवान्स्मररूपधृक् । आस्ते तद्वर्षनाथानां पूजनीयश्च सर्वदा ॥ १०॥ एतेनोपासते स्तोत्रजालेन च रमाब्धिजा । तद्वर्षनाथा सततं महतां मानदायिका ॥ ११॥ रमोवाच । ॐ ह्रां ह्रीं ह्रूं स्म नमो भगवते हृषीकेशाय सर्वगुणविशेषैर्विलक्षितात्मने आकूतीनां चित्तीनां चेतसां विशेषाणां चाधिपतये षोडशकलाय छन्दोमयायान्नमयायामृतमयाय सर्वमयाय महसे ओजसे बलाय कान्ताय कामाय नमस्ते उभयत्र भूयात् । स्त्रियो व्रतैस्त्वां हृषीकेश्वरं स्वतो ह्याराध्य लोके पतिमाशासतेऽन्यम् । तासां न ते वै परिपान्त्यपत्यं प्रियं धनायूंषि यतोऽस्वतन्त्राः ॥ १२॥ स वै पतिः स्यादकुतोभयः स्वतः समन्ततः पाति भयातुरं जनम् । स एक एवेतरथा मिथो भयं नैवात्मलाभादधिमन्यते परम् ॥ १३॥ या तस्य ते पादसरोरुहार्हणं न कामयेत्साखिलकामलम्पटा । तदेव रासीप्सितमीप्सितोऽर्चितो यद्भग्नयाञ्चा भगवन् प्रतप्यते ॥ १४॥ मत्प्राप्तयेऽजेशसुरासुरादय- स्तप्यन्त उग्रं तप ऐन्द्रिये धियः । ऋते भवत्पादपरायणान्न मां विदन्त्यहं त्वद्धृदया यतोऽजित ॥ १५॥ स त्वं ममाप्यच्युत शीर्ष्णि वन्दितं कराम्बुजं यत्त्वदधायि सात्वताम् । बिभर्षि मां लक्ष्य वरेण्य मायया क ईश्वरस्येहितमूहितुं विभुः ॥ १६॥ एवं कामं स्तुवन्त्येव लोकबन्धुस्वरूपिणम् । प्रजापतिमुखा वर्षनाथाः कामस्य सिद्धये ॥ १७॥ रम्यके नामवर्षे च मूर्तिं भगवतः पराम् । मात्स्यां देवासुरैर्वन्द्यां मनुः स्तौति निरन्तरम् ॥ १८॥ मनुरुवाच । ॐ नमो भगवते मुख्यतमाय नमः सत्त्वाय प्राणायौजसे बलाय महामत्स्याय नमः । अन्तर्बहिश्चाखिललोकपालकै- रदृष्टरूपो विचरस्युरुस्वनः । स ईश्वरस्त्वं य इदं वशे नय- न्नाम्ना यथा दारुमयीं नरः स्त्रियम् ॥ १९॥ यं लोकपालाः किल मत्सरज्वरा हित्वा यतन्तोऽपि पृथक् समेत्य च । पातुं न शेकुर्द्विपदश्चतुष्पदः सरीसृपं स्थाणु यदत्र दृश्यते ॥ २०॥ भवान् युगान्तार्णव ऊर्मिमालिनि क्षोणीमिमामोषधिवीरुधां निधिम् । मया सहोरुक्रम तेऽज ओजसा तस्मै जगत्प्राणगणात्मने नमः ॥ २१॥ एवं स्तौति च देवेशं मनुः पार्थिवसत्तमः । मत्स्यावतारं देवेशं संशयच्छेदकारणम् ॥ २२॥ ध्यानयोगेन देवस्य निर्धूताशेषकल्मषः । आस्ते परिचरन्भक्त्या महाभागवतोत्तमः ॥ २३॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे भुवनकोशवर्णने हरिवर्षकेतुमालरम्यकवर्षवर्णनं नाम नवमोऽध्यायः ॥ ८.९॥

८.१० दशमोऽध्यायः । भुवनकोशवर्णने हिरण्मयकिम्पुरुषवर्षवर्णनम् ।

श्रीनारायण उवाच । हिरण्मये नाम वर्षे भगवान्कूर्मरूपधृक् । आस्ते योगपतिः सोऽयमर्यम्णा पूज्य ईड्यते ॥ १॥ अर्यमोवाच । ॐ नमो भगवते अकूपाराय सर्वसत्त्वगुण- विशेषणाय नोपलक्षितस्थानाय नमो वर्ष्मणे नमो भूम्ने नमोऽवस्थानाय नमस्ते । यद्रूपमेतन्निजमाययार्पित- मर्थस्वरूपं बहुरूपरूपितम् । सङ्ख्या न यस्यास्त्ययथोपलम्भना- त्तस्मै नमस्तेऽव्यपदेशरूपिणे ॥ २॥ जरायुजं स्वेदजमण्डजोद्भिदं चराचरं देवर्षिपितृभूतमैन्द्रियम् । द्यौः खं क्षितिः शैलसरित्समुद्रं द्वीपग्रहर्क्षेत्यभिधेय एकः ॥ ३॥ यस्मिन्नसङ्ख्येयविशेषनाम- रूपाकृतौ कविभिः कल्पितेयम् । सङ्ख्या यया तत्त्वदृशापनीयते तस्मै नमः साङ्ख्यनिदर्शनाय ते ॥ ४॥ एवं स्तुवति देवेशमर्यमा सह वर्षपैः । गीयते चापि भजते सर्वभूतभवं प्रभुम् ॥ ५॥ तथोत्तरेषु कुरुषु भगवान्यज्ञपूरुषः । आदिवाराहरूपोऽसौ धरण्या पूज्यते सदा ॥ ६॥ सम्पूज्य विधिवद्देवं तद्भक्त्यार्द्रार्द्रहृत्कजा । भूमिः स्तौति हरिं यज्ञवाराहं दैत्यमर्दनम् ॥ ७॥ भूरुवाच । ॐ नमो भगवते मन्त्रतत्त्वलिङ्गाय यज्ञक्रतवे महाध्वरावयवाय महावराहाय नमः कर्मशुक्लाय त्रियुगाय नमस्ते ॥ ८॥ यस्य स्वरूपं कवयो विपश्चितो गुणेषु दारुष्विव जातवेदसम् । मथ्नन्ति मथ्ना मनसा दिदृक्षवो गूढं क्रियार्थैर्नम ईरितात्मने ॥ ९॥ द्रव्यक्रियाहेत्वयनेशकर्तृभि- र्मायागुणैर्वस्तुभिरीक्षितात्मने । अन्वीक्षयाङ्गातिशयात्मबुद्धिभि- र्निरस्तमायाकृतये नमोऽस्तु ते ॥ १०॥ करोति विश्वस्थितिसंयमोदयं यस्येप्सितं नेप्सितुमीक्षितुर्गुणैः । माया यथाऽयो भ्रमते तदाश्रयं ग्राव्णो नमस्ते गुणकर्मसाक्षिणे ॥ ११॥ प्रमथ्य दैत्यं प्रतिवारणं मृधे यो मां रसाया जगदादिसूकरः । कृत्वाग्रदंष्ट्रं निरगादुदन्वतः क्रीडन्निवेभः प्रणतास्मि तं विभुम् ॥ १२॥ किम्पुरुषे वर्षेऽस्मिन्भगवन्तं दाशरथिं च सर्वेशम् । सीतारामं देवं श्रीहनुमानादिपूरुषं स्तौति ॥ १३॥ ॐ नमो भगवते उत्तमश्लोकाय नम इति । आर्यलक्षणशीलव्रताय नम उपशिक्षितात्मने उपासितलोकाय नमः । साधुवादनिकषणाय नमो ब्रह्मण्यदेवाय महापुरुषाय महाभागाय नम इति । यत्तद्विशुद्धानुभवात्ममेकं स्वतेजसा ध्वस्तगुणव्यवस्थम् । प्रत्यक् प्रशान्तं सुधियोपलम्भनं ह्यनामरूपं निरहं प्रपद्ये ॥ १४॥ मर्त्यावतारस्त्विह मर्त्यशिक्षणं रक्षोवधायैव न केवलं विभो । कुतोऽन्यथा स्याद्ऽऽरमतः स्व आत्मनः सीताकृतानि व्यसनानीश्वरस्य ॥ १५॥ न वै स आत्माऽऽत्मवतां सुहृत्तमः सक्तस्त्रिलोक्यां भगवान्वासुदेवः । न स्त्रीकृतं कश्मलमश्नुवीत न लक्षणं चापि विहातुमर्हति ॥ १६॥ न जन्म नूनं महतो न सौभगं न वाङ् न बुद्धिर्नाकृतिस्तोषहेतुः । तैर्यद्विसृष्टानपि नो वनौकस- श्चकार सख्ये बत लक्ष्मणाग्रजः ॥ १७॥ सुरोऽसुरो वाप्यथवा नरोऽनरः सर्वात्मना यः सुकृतज्ञमुत्तमम् । भजेत रामं मनुजाकृतिं हरिं य उत्तराननयत्कोसलान् दिवम् ॥ १८॥ श्रीनारायण उवाच । एवं किम्पुरुषे वर्षे सत्यसन्धं दृढव्रतम् । रामं राजीवपत्राक्षं हनुमान् वानरोत्तमः ॥ १९॥ स्तौति गायति भक्त्या च सम्पूजयति सर्वशः । य एतच्छृणुयाच्चित्रं रामचन्द्रकथानकम् । सर्वपापविशुद्धात्मा याति रामसलोकताम् ॥ २०॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे भुवनकोशवर्णने हिरण्मयकिम्पुरुषवर्षवर्णनं नाम दशमोऽध्यायः ॥ ८.१०॥

८.११ एकादशोऽध्यायः । भुवनकोशवर्णने भारतवर्षवर्णनम् ।

श्रीनारायण उवाच । भारताख्ये च वर्षेऽस्मिन्नहमादिजपूरुषः । तिष्ठामि भवता चैव स्तवनं क्रियतेऽनिशम् ॥ १॥ नारद उवाच । ॐ नमो भगवते उपशमशीलायोपरतानात्म्याय नमोऽकिञ्चनवित्ताय ऋषिऋषभाय नरनारायणाय परमहंसपरमगुरवे आत्मारामाधिपतये नमो नम इति । कर्तास्य सर्गादिषु यो न बध्यते न हन्यते देहगतोऽपि दैहिकैः । द्रष्टुर्न दृश्यस्य गुणैर्विदूष्यते तस्मै नमोऽसक्तविविक्तसाक्षिणे ॥ २॥ इदं हि योगेश्वरयोगनैपुणं हिरण्यगर्भो भगवाञ्जगाद यत् । यदन्तकाले त्वयि निर्गुणे मनो भक्त्या दधीतोज्झितदुष्कलेवरः ॥ ३॥ यथैहिकामुष्मिककामलम्पटः सुतेषु दारेषु धनेषु चिन्तयन् । शङ्केत विद्वान् कुकलेवरात्यया- द्यस्तस्य यत्नः श्रम एव केवलम् ॥ ४॥ तन्नः प्रभो त्वं कुकलेवरार्पितां त्वं माययाहं ममतामधोक्षज । भिन्द्याम येनाशु वयं सुदुर्भिदां विधेहि योगं त्वयि नः स्वभावजम् ॥ ५॥ एवं स्तौति सदा देवं नारायणमनामयम् । नारदो मुनिशार्दूलः प्रज्ञाताखिलसारदृक् ॥ ६॥ अस्मिन् वै भारते वर्षे सरिच्छैलास्तु सन्ति हि । तान्प्रवक्ष्यामि देवर्षे श‍ृणुष्वैकाग्रमानसः ॥ ७॥ मलयो मङ्गलप्रस्थो मैनाकश्च त्रिकूटकः । ऋषभः कूटकः कोल्लः सह्यो देवगिरिस्तथा ॥ ८॥ ऋष्यमूकश्च श्रीशैलो व्यङ्कटाद्रिर्महेन्द्रकः । वारिधारश्च विन्ध्यश्च मुक्तिमानृक्षपर्वतः ॥ ९॥ पारियात्रस्तथा द्रोणश्चित्रकूटगिरिस्तथा । गोवर्धनो रैवतकः ककुभो नीलपर्वतः ॥ १०॥ गौरमुखश्चेन्द्रकीलो गिरिः कामगिरिस्तथा । एते चान्येऽप्यसङ्ख्याता गिरयो बहुपुण्यदाः ॥ ११॥ एतदुत्पन्नसरितः शतशोऽथ सहस्रशः । पानावगाहनस्नानदर्शनोत्कीर्तनैरपि ॥ १२॥ नाशयन्ति च पापानि त्रिविधानि शरीरिणाम् । ताम्रपर्णी चन्द्रवशा कृतमाला वटोदका ॥ १३॥ वैहायसी च कावेरी वेणा चैव पयस्विनी । तुङ्गभद्रा कृष्णवेणा शर्करावर्तका तथा ॥ १४॥ गोदावरी भीमरथी निर्विन्ध्या च पयोष्णिका । तापी रेवा च सुरसा नर्मदा च सरस्वती ॥ १५॥ चर्मण्वती च सिन्धुश्च अन्धशोणौ महानदौ । ऋषिकुल्या त्रिसामा च वेदस्मृतिर्महानदी ॥ १६॥ कौशिकी यमुना चैव मन्दाकिनी दृषद्वती । गोमती सरयू रोधवती सप्तवती तथा ॥ १७॥ सुषोमा च शतद्रुश्च चन्द्रभागा मरुद्वृधा । वितस्ता च असिक्नी च विश्वा चेति प्रकीर्तिताः ॥ १८॥ अस्मिन्वर्षे लब्धजन्मपुरुषैः स्वस्वकर्मभिः । शुक्ललोहितकृष्णाख्यैर्दिव्यमानुषनारकाः ॥ १९॥ भवन्ति विविधा भोगाः सर्वेषां च निवासिनाम् । यथा वर्णविधानेनापवर्गो भवति स्फुटम् ॥ २०॥ एतदेव च वर्षस्य प्राधान्यं कार्यसिद्धितः । वदन्ति मुनयो वेदवादिनः स्वर्गवासिनः ॥ २१॥ अहो अमीषां किमकारि शोभनं प्रसन्न एषां स्विदुत स्वयं हरिः । यैर्जन्म लब्धं नृषु भारताजिरे मुकुन्दसेवौपयिकं स्पृहा हि नः ॥ २२॥ किं दुष्करैर्नः क्रतुभिस्तपोव्रतै- र्दानादिभिर्वा द्युजयेन फल्गुना । न यत्र नारायणपदपङ्कज- स्मृतिः प्रमुष्टातिशयेन्द्रियोत्सवात् ॥ २३॥ कल्पायुषां स्थानजयात्पुनर्भवा- त्क्षणायुषां भारतभूजयो वरम् । क्षणेन मर्त्येन कृतं मनस्विनः संन्यस्य संयान्त्यभयं पदं हरेः ॥ २४॥ न यत्र वैकुण्ठकथासुधापगा न साधवो भागवतास्तदाश्रयाः । न यत्र यज्ञेशमखा महोत्सवाः सुरेशलोकोऽपि न वै स सेव्यताम् ॥ २५॥ प्राप्ता नृजातिं त्विह ये च जन्तवो ज्ञानक्रियाद्रव्यकलापसम्भृताम् । न वै यतेरन्न पुनर्भवाय ते भूयो वनौका इव यान्ति बन्धनम् ॥ २६॥ यैः श्रद्धया बर्हिषि भागशो हवि- र्निरुप्तमिष्टं विधिमन्त्रवस्तुतः । एकः पृथङ्नामभिराहुतो मुदा गृह्णाति पूर्णः स्वयमाशिषां प्रभुः ॥ २७॥ सत्यं दिशत्यर्थितमर्थितो नृणां नैवार्थदो यत्पुनरर्थिता यतः । स्वयं विधत्ते भजतामनिच्छता- मिच्छापिधानं निजपादपल्लवम् ॥ २८॥ (यद्यत्र नः स्वर्गसुखावशेषितं स्विष्टस्य पूर्तस्य कृतस्य शोभनम् । तेनाब्जनाभे स्मृतिमज्जन्म नः स्या- द्वर्षे हरिर्भजतां शं तनोति ॥) श्रीनारायण उवाच । एवं स्वर्गगता देवाः सिद्धाश्च परमर्षयः । प्रवदन्ति च माहात्म्यं भारतस्य सुशोभनम् ॥ २९॥ जम्बुद्वीपस्य चाष्टौ हि उपद्वीपाः स्मृताः परे । हयमार्गान्विशोधद्भिः सागरैः परिकल्पिताः ॥ ३०॥ स्वर्णप्रस्थश्चन्द्रशुक्र आवर्तनरमाणकौ । मन्दरोपाख्यहरिणः पाञ्चजन्यस्तथैव च ॥ ३१॥ सिंहलश्चैव लङ्केति उपद्वीपाष्टकं स्मृतम् । जम्बुद्वीपस्य मानं हि कीर्तितं विस्तरेण च ॥ ३२॥ अतः परं प्रवक्ष्यामि प्लक्षादिद्वीपषट्ककम् ॥ ३३॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे भुवनकोशवर्णने भारतवर्षवर्णनं नामैकादशोऽध्यायः ॥ ८.११॥

८.१२ द्वादशोऽध्यायः । भुवनकोशवर्णने प्लक्षद्वीपकुशद्वीपवर्णनम् ।

श्रीनारायण उवाच । जम्बुद्वीपो यथा चायं यत्प्रमाणेन कीर्तितः । तावता सर्वतः क्षारोदधिना परिवेष्टितः ॥ १॥ जम्ब्वाख्येन यथा मेरुस्तथा क्षारोदकेन च । क्षारोदधिस्तु द्विगुणः प्लक्षाख्येनोपवेष्टितः ॥ २॥ यथैव परिखा बाह्योपवनेन हि वेष्ट्यते । प्लक्षाख्यश्च स्वयं जम्बुप्रमाणो द्वीपरूपधृक् ॥ ३॥ हिरण्मयोऽग्निस्तत्रैव तिष्ठतीति विनिश्चयः । प्रियव्रतात्मजस्तत्र सप्तजिह्व इति स्मृतः ॥ ४॥ अग्निस्तदधिपस्त्विध्मजिह्वः स्वं द्वीपमेव च । विभज्य सप्तवर्षाणि स्वपुत्रेभ्यो ददौ विभुः ॥ ५॥ स्वयमात्मविदां मान्यां योगचर्यां समाश्रितः । तेनैव चात्मयोगेन भगवन्तमुपागतः ॥ ६॥ शिवं च यवसं भद्रं शान्तं क्षेमामृते तथा । अभयं चेति सप्तैव तद्वर्षाणि सदेक्षताम् ॥ ७॥ तेषु प्रोक्ता नदीः सप्त गिरयः सप्त चैव हि । अरुणा नृम्णाङ्गिरसी सावित्री सुप्रभातिका ॥ ८॥ ऋतम्भरा सत्यम्भरा इति नद्यः प्रकीर्तिताः । मणिकूटो वज्रकूट इन्द्रसेनस्तथैव च ॥ ९॥ ज्योतिष्मान्वै सुपर्णश्च हिरण्यष्ठीव एव च । मेघमाल इति ख्याताः प्लक्षद्वीपस्य पर्वताः ॥ १०॥ नदीनां जलमात्रेण दर्शनस्पर्शनादिभिः । निर्धूताशेषरजसो निस्तमस्काः प्रजास्तथा ॥ ११॥ हंसश्चैव पतङ्गश्च ऊर्ध्वायन इतीव च । सत्याङ्गसंज्ञाश्चत्वारो वर्णाः प्लक्षस्य द्वीपके ॥ १२॥ सहस्रायुप्रमाणाश्च विविधोपमदर्शनाः । स्वर्गद्वारं त्रयीविद्याविधिनार्कं यजन्ति ते ॥ १३॥ प्रत्नस्य विष्णो रूपं च सत्यर्तस्य च ब्रह्मणः । अमृतस्य च मृत्योश्च सूर्यमात्मानमीमहि ॥ १४॥ प्लक्षादिषु च सर्वेषु पञ्चद्वीपेषु नारद । आयुरिन्द्रियमोजश्च बलं बुद्धिः सहोऽपि च ॥ १५॥ विक्रमः सर्वलोकानां सिद्धिरौत्पत्तिकी सदा । प्लक्षद्वीपात्परं चेक्षुरसोदः सरिताम्पतिः ॥ १६॥ प्लक्षद्वीपं समग्रं च परिवार्यावतिष्ठते । शाल्मलाख्यस्ततो द्वीपश्चास्माद् द्विगुणविस्तरः ॥ १७॥ समानेन सुरोदेन सिन्धुना परिवेष्टितः । यत्र वै शाल्मलीवृक्षः प्लक्षायामः प्रकीर्तितः ॥ १८॥ स्थानं तत्पक्षिराजस्य गरुडस्य महात्मनः । तस्य द्वीपस्य नाथो हि यज्ञबाहुः प्रियव्रतात् ॥ १९॥ जातः स एव सप्तभ्यः स्वपुत्रेभ्यो ददौ धराम् । तद्वर्षाणां च नामानि कथितानि निबोधत ॥ २०॥ सुरोचनं सौमनस्यं रमणं देववर्षकम् । पारिभद्रं तथा चाप्यायनं विज्ञातनामकम् ॥ २१॥ तेषु वर्षाद्रयः सप्त सप्तैव सरितः स्मृताः । सरसः शतश‍ृङ्गश्च वामदेवश्च कन्दकः ॥ २२॥ कुमुदः पुष्पवर्षश्च सहस्रश्रुतिरेव च । एते च पर्वताः सप्त नदीनामानि चोच्यते ॥ २३॥ अनुमतिः सिनीवाली सरस्वती कुहूस्तथा । रजनी चैव नन्दा च राकेति परिकीर्तिताः ॥ २४॥ तद्वर्षपुरुषाः सर्वे चातुर्वर्ण्यसमाह्वयाः । श्रुतधरो वीर्यधरो वसुन्धर इषुन्धरः ॥ २५॥ भगवन्तं वेदमयं यजन्ते सोममीश्वरम् । स्वगोभिः पितृदेवेभ्यो विभजन्कृष्णशुक्लयोः ॥ २६॥ सर्वासां च प्रजानां च राजा सोमः प्रसीदतु । एवं सुरोदाद् द्विगुणः स्वमानेन प्रकीर्तितः ॥ २७॥ घृतोदेनावृतः सोऽयं कुशद्वीपः प्रकाशते । यस्मिन्नास्ते कुशस्तम्बो द्वीपाख्याकारणो ज्वलन् ॥ २८॥ स्वशष्परोचिषा काष्ठा भासयन्परितिष्ठते । हिरण्यरेतास्तद्द्वीपपतिः प्रैयव्रत स्वराट् ॥ २९॥ स्वपुत्रेभ्यश्च सप्तभ्यस्तद्द्वीपं सप्तधाभजत् । वसुश्च वसुदानश्च तथा दृढरुचिः परः ॥ ३०॥ नाभिगुप्तस्तुत्यव्रतौ विविक्तनामदेवकौ । तेषां वर्षेषु सप्तैव सीमागिरिवराः स्मृताः ॥ ३१॥ नद्यः सप्तैव सन्तीह तन्नामानि निबोधत । चक्रस्तथा चतुःश‍ृङ्गः कपिलश्चित्रकूटकः ॥ ३२॥ देवानीकश्चोर्ध्वरोमा द्रविणः सप्त पर्वताः । रसकुल्या मधुकुल्या मित्रविन्दा तथैव च ॥ ३३॥ श्रुतविन्दा देवगर्भा घृतच्युन्मन्दमालिके । यत्पयोभिः कुशद्वीपवासिनः सर्व एव ते ॥ ३४॥ कुशलः कोविदश्चैवाप्यभियुक्तस्तथैव च । कुलकश्चेति संज्ञाभिश्चतुर्वर्णाः प्रकीर्तिताः ॥ ३५॥ जातवेदसरूपं तं देवं कर्मजकौशलैः । यजन्ते देववर्याभाः सर्वे सर्वविदो जनाः ॥ ३६॥ परस्यब्रह्मणः साक्षाज्जातवेदोऽसि हव्यवाट् । देवानां पुरुषाङ्गानां यज्ञेन पुरुषं यज । एवं यजन्ते ज्वलनं सर्वे द्वीपाधिवासिनः ॥ ३७॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे भुवनकोशवर्णने प्लक्षद्वीपकुशद्वीपवर्णनं नाम द्वादशोऽध्यायः ॥ ८.१२॥

८.१३ त्रयोदशोऽध्यायः । भुवनकोशवर्णने क्रौञ्चशाकपुष्करद्वीपवर्णनम् ।

नारद उवाच । शिष्टद्वीपप्रमाणं च वद सर्वार्थदर्शन । येन विज्ञातमात्रेण परानन्दमयो भवेत् ॥ १॥ श्रीरानारायण उवाच । कुशद्वीपस्य परितो घृतोदावरणं महत् । ततो बहिः क्रौञ्चद्वीपो द्विगुणः स्यात्स्वमानतः ॥ २॥ क्षीरोदेनावृतो भाति यस्मिन्क्रौञ्चाद्रिरस्ति च । नामनिर्वर्तकः सोऽयं द्वीपस्य परिवर्तते ॥ ३॥ योऽसौ गुहस्य शक्त्या च भिन्नकुक्षिः पुराभवत् । क्षीरोदेनासिच्यमानो वरुणेन च रक्षितः ॥ ४॥ घृतपृष्ठो नाम यस्य विभाति किल नायकः । प्रियव्रतात्मजः श्रीमान् सर्वलोकनमस्कृतः ॥ ५॥ स्वद्वीपं तु विभज्यैव सप्तधा स्वात्मजान्ददौ । पुत्रनामसु वर्षेषु वर्षपान्सन्निवेशयन् ॥ ६॥ स्वयं भगवतस्तस्य शरणं सञ्जगाम ह । आमो मधुरुहश्चैव मेघपृष्ठः सुधामकः ॥ ७॥ भ्राजिष्ठो लोहितार्णश्च वनस्पतिरितीव च । नगा नद्यश्च सप्तैव विख्याता भुवि सर्वतः ॥ ८॥ शुक्लो वै वर्धमानश्च भोजनश्चोपबर्हणः । नन्दश्च नन्दनः सर्वतोभद्र इति कीर्तिताः ॥ ९॥ अभया अमृतौघा चार्यका तीर्थवतीति च । वृत्तिरूपवती शुक्ला पवित्रवतिका तथा ॥ १०॥ एतासामुदकं पुण्यं चातुर्वर्ण्येन पीयते । पुरुषऋषभौ तद्वद् द्रविणाख्यश्च देवकः ॥ ११॥ एते चतुर्वर्णजाताः पुरुषा निवसन्ति हि । तत्रत्याः पुरुषा आपोमयं देवमपां पतिम् ॥ १२॥ पूर्णेनाञ्जलिना भक्त्या यजन्ते विविधक्रियाः । आपः पुरुषवीर्याः स्थ पुनन्तीर्भूर्भुवः स्वरः ॥ १३॥ ता नः पुनीतामीवघ्नीः स्पृशतामात्मना भुवः । इति मन्त्रजपान्ते च स्तुवन्ति विविधैः स्तवैः ॥ १४॥ एवं परस्तात्क्षीरोदात्परितश्चोपवेशितः । द्वात्रिंशल्लक्षसङ्ख्याकयोजनायाममाश्रितः ॥ १५॥ स्वमानेन च द्वीपोऽयं दधिमण्डोदकेन च । शाकद्वीपो विशिष्टोऽयं यस्मिच्छाको महीरुहः ॥ १६॥ स्वक्षेत्रव्यपदेशस्य कारणं स हि नारद । प्रैयव्रतोऽधिपस्तस्य मेधातिथिरिति स्मृतः ॥ १७॥ विभज्य सप्त वर्षाणि पुत्रनामानि तेषु च । सप्त पुत्रान्निजान् स्थाप्य स्वयं योगगतिं गतः ॥ १८॥ पुरोजवो मनःपूर्वजवोऽथ पवमानकः । धूम्रानीकश्चित्ररेफो बहुरूपोऽथ विश्वधृक् ॥ १९॥ मर्यादागिरयः सप्त नद्यः सप्तैव कीर्तिताः । ईशान ऊरुश‍ृङ्गोऽथ बलभद्रः शतकेशरः ॥ २०॥ सहस्रस्रोतको देवपालोऽप्यन्ते महाशनः । एतेऽद्रयः सप्त चोक्ताः सरिन्नामानि सप्त च ॥ २१॥ अनघा प्रथमाऽऽयुर्दा उभयस्पृष्टिरेव च । अपराजिता पञ्चपदी सहस्रश्रुतिरेव च ॥ २२॥ ततो निजधृतिश्चोक्ताः सप्त नद्यो महोज्ज्वलाः । तद्वर्षपुरुषाः सर्वे सत्यव्रतक्रतुव्रतौ ॥ २३॥ दानव्रतानुव्रतौ च चतुर्वर्णा उदीरिताः । भगवन्तं प्राणवायुं प्राणायामेन संयुताः ॥ २४॥ यजन्ति निर्धूतरजस्तमसः परमं हरिम् । अन्तः प्रविश्य भूतानि यो बिभर्त्यात्मकेतुभिः ॥ २५॥ अन्तर्यामीश्वरः साक्षात्पातु नो यद्वशे इदम् । परस्ताद्दधिमण्डोदात्ततस्तु बहुविस्तरः ॥ २६॥ पुष्करद्वीपनामायं शाकद्वीपद्विसङ्गुणः । स्वसमानेन स्वादूदकेनायं परिवेष्टितः ॥ २७॥ यत्रास्ते पुष्करं भ्राजदग्निचूडानिभानि च । पत्राणि विशदानीह स्वर्णपत्रायुतायुतम् ॥ २८॥ श्रीमद्भगवतश्चेदमासनं परमेष्ठिनः । कल्पितं लोकगुरुणा सर्वलोकसिसृक्षया ॥ २९॥ तद्द्वीप एक एवायं मानसोत्तरनामकः । अर्वाचीनपराचीनवर्षयोरवधिर्गिरिः ॥ ३०॥ उच्छ्रायायामयोः सङ्ख्यायुतयोजनसम्मिता । यत्र दिक्षु च चत्वारि चतसृषु पुराणि ह ॥ ३१॥ इन्द्रादिलोकपालानां यदुपर्यर्कनिर्गमः । मेरुं प्रदक्षिणीकुर्वन् भानुः पर्येति यत्र हि ॥ ३२॥ संवत्सरात्मकं चक्रं देवाहोरात्रतो भ्रमन् । प्रैयव्रतोऽधिपो वीतिहोत्रः स्वात्मजकद्वयम् ॥ ३३॥ वर्षद्वये परिस्थाप्य वर्षनामधरं क्रमात् । रमणो धातकिश्चैव तत्तद्वर्षपती उभौ ॥ ३४॥ कृताः स्वयं पूर्वजवद्भगवद्भक्तितत्पराः । तद्वर्षपुरुषा ब्रह्मरूपिणं परमेश्वरम् ॥ ३५॥ सकर्मकेन योगेन यजन्ति परिशीलिताः । यत्तत्कर्ममयं लिङ्ग ब्रह्मलिङ्गं जनोऽर्चयेत् । एकान्तमद्वयं शान्तं तस्मै भगवते नमः ॥ ३६॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे भुवनकोशवर्णनं क्रौञ्चशाकपुष्करद्वीपवर्णनं नाम त्रयोदशोऽध्यायः ॥ ८.१३॥

८.१४ चतुर्दशोऽध्यायः । सूर्यगतिवर्णनम् ।

नारायण उवाच । ततः परस्तादचलो लोकालोकेति नामकः । अन्तराले च लोकालोकयोर्यः परिकल्पितः ॥ १॥ यावदस्ति च देवर्षे ह्यन्तरं मानसोत्तरात् । सुमेरोस्तावती शुद्धा काञ्चनी भूमिरस्ति हि ॥ २॥ दर्पणोदरतुल्या सा सर्वप्राणिविवर्जिता । यस्यां पदार्थः प्रहितो न किञ्चित्प्रत्युदीयते ॥ ३॥ अतः सर्वप्राणिसङ्घरहिता सा च नारद । लोकालोक इति व्याख्या यदत्र परिकल्पिता ॥ ४॥ लोकालोकान्तरे चास्य वर्तते सर्वदा स्थितिः । ईश्वरेण स लोकानां त्रयाणामन्तगः कृतः ॥ ५॥ सूर्यादीनां ध्रुवान्तानां रश्मयो यद्वशादिह । अर्वाचीनाश्च त्रीँल्लोकानातन्वानाः कदापि हि ॥ ६॥ पराचीनत्वभाजो हि न भवन्ति च नारद । तावदुन्नहनायामः पर्वतेन्द्रो महोदयः ॥ ७॥ एतावाँल्लोकविन्यासोऽयं संस्थामानलक्षणैः । कविभिः स तु पञ्चाशत्कोटिभिर्गणितस्य च ॥ ८॥ भूगोलस्य चतुर्थांशो लोकालोकाचलो मुने । तस्योपरि चतुर्दिक्षु ब्रह्मणा चात्मयोनिना ॥ ९॥ निवेशिता दिग्गजा ये तन्नामानि निबोधत । ऋषभः पुष्पचूडोऽथ वामनोऽथापराजितः ॥ १०॥ एते समस्तलोकस्य स्थितिहेतव ईरिताः । तेषां च स्वविभूतीनां बहुवीर्योपबृंहणम् ॥ ११॥ विशुद्धसत्त्वं चैश्वर्यं वर्धयन्भगवान् हरिः । आस्ते सिद्ध्यष्टकोपेतो विष्वक्सेनादिसंवृतः ॥ १२॥ निजायुधैः परिवृतो भुजदण्डैः समन्ततः । आस्ते सकललोकस्य स्वस्तये परमेश्वरः ॥ १३॥ आकल्पमेवं वेषं स गतो विष्णुः सनातनः । स्वमायारचितस्यास्य गोपीथायात्मसाधनः ॥ १४॥ योऽन्तर्विस्तार एतेन ह्यलोकपरिमाणकम् । व्याख्यातं यद्बहिर्लोकालोकाचल इतीरणात् ॥ १५॥ ततः परस्ताद्योगेशगतिं शुद्धा वदन्ति हि । अण्डमध्यगतः सूर्यो द्यावाभूम्योर्यदन्तरम् ॥ १६॥ सूर्याण्डगोलयोर्मध्ये कोट्यः स्युः पञ्चविंशतिः । मृतेऽण्ड एष एतस्मिञ्जातो मार्तण्डशब्दभाक् ॥ १७॥ हिरण्यगर्भ इति यद्धिरण्याण्डसमुद्भवः । सूर्येण हि विभज्यन्ते दिशः खं द्यौर्महीभिदा ॥ १८॥ स्वर्गापवर्गौ नरका रसौकांसि च सर्वशः । देवतिर्यङ्मनुष्याणां सरीसृपसवीरुधाम् ॥ १९॥ सर्वजीवनिकायानां सूर्य आत्मा दृगीश्वरः । एतावान्भूमण्डलस्य सन्निवेश उदाहृतः ॥ २०॥ एतेन हि दिवो मानं वर्णयन्ति च तद्विदः । द्विदलानां च निष्पावादीनां च दलयोर्यथा ॥ २१॥ अन्तरेण तयोरन्तरिक्षं तदुभयसन्धितम् । यन्मध्यगश्च भगवान् भानुर्वै तपतां वरः ॥ २२॥ आतपेन त्रिलोकं च प्रतपत्येव भासयन् । उत्तरायणमासाद्य गतिमान्द्यं वितन्वते ॥ २३॥ आरोहणस्थानमसौ गत्वाहो दैर्ध्यमाचरेत् । दक्षिणायनमासाद्य गतिशैघ्र्यं वितन्वते ॥ २४॥ अवरोहस्थानमसौ गच्छन्ह्रस्वं दिनं चरेत् । विषुवत्संज्ञमासाद्य गतिसाम्यं वितन्वते ॥ २५॥ समस्थानमथासाद्य दिनसाम्यं करोति च । यदा च मेषतुलयोः सञ्चरेद्धि दिवाकरः ॥ २६॥ समानानि त्वहोरात्राण्यातनोति त्रयीमयः । वृषादिपञ्चसु यदा राशिष्वर्को विरोचते ॥ २७॥ तदाहानि च वर्धन्ते रात्रयोऽपि ह्रसन्ति च । वृश्चिकादिषु सूर्यो हि यदा सञ्चरते रविः ॥ २८॥ तदापीमान्यहोरात्राणि भवन्ति विपर्ययात् ॥ २९॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे सूर्यगतिवर्णनं नाम चतुर्दशोऽध्यायः ॥ ८.१४॥

८.१५ पञ्चदशोऽध्यायः । भुवनकोशवर्णने सूर्यगतिवर्णनम् ।

श्रीनारायण उवाच । अतः परं प्रवक्ष्यामि भानोर्गमनमुत्तमम् । शीघ्रमन्दादिगतिभिस्त्रिविधं गमनं रवेः ॥ १॥ सर्वग्रहाणां त्रीण्येव स्थानानि सुरसत्तम । स्थानं जारद्गवं मध्यं तथैरावतमुत्तरम् ॥ २॥ वैश्वानरं दक्षिणतो निर्दिष्टमिति तत्त्वतः । अश्विनी कृत्तिका याम्या नागवीथीति शब्दिता ॥ ३॥ रोहिण्यार्द्रा मृगशिरो गजवीथ्यभिधीयते । पुष्याश्लेषा तथाऽऽदित्या वीथी चैरावती स्मृता ॥ ४॥ एतास्तु वीथयस्तिस्र उत्तरो मार्ग उच्यते । तथा द्वे चापि फल्गुन्यौ मघा चैवार्षभी मता ॥ ५॥ हस्तश्चित्रा तथा स्वाती गोवीथीति तु शब्दिता । ज्येष्ठा विशाखानुराधा वीथी जारद्गवी मता ॥ ६॥ एतास्तु वीथयस्तिस्रो मध्यमो मार्ग उच्यते । मूलाषाढोत्तराषाढा अजवीथ्यभिशब्दिता ॥ ७॥ श्रवणं च धनिष्ठा च मार्गी शतभिषक् तथा । वैश्वानरी भाद्रपदे रेवती चैव कीर्तिता ॥ ८॥ एतास्तु वीथयस्तिस्रो दक्षिणो मार्ग उच्यते । उत्तरायणमासाद्य युगाक्षान्तर्निबद्धयोः ॥ ९॥ कर्षणं पाशयोर्वायुबद्धयो रोहणं स्मृतम् । तदाभ्यन्तरगान्मण्डलाद्रथस्य गतेर्भवेत् ॥ १०॥ मान्द्यं दिवसवृद्धिश्च जायते सुरसत्तम । रात्रिह्रासश्च भवति सौम्यायनक्रमो ह्ययम् ॥ ११॥ दक्षिणायनके पाशे प्रेरणादवरोहणम् । बहिर्मण्डलवेशेन गतिशैघ्र्यं तदा भवेत् ॥ १२॥ तदा दिनाल्पता रात्रिवृद्धिश्च परिकीर्तिता । वैषुवे पाशसाम्यात्तु समावस्थानतो रवेः ॥ १३॥ मध्यमण्डलवेशश्च साम्यं रात्रिदिनादिके । आकृष्येते यदा तौ तु ध्रुवेण समधिष्ठितौ ॥ १४॥ तदाभ्यन्तरतः सूर्यो भ्रमते मण्डलानि च । ध्रुवेण मुच्यमानेन पुना रश्मियुगेन तु ॥ १५॥ तथैव बाह्यतः सूर्यो भ्रमते मण्डलानि च । तस्मिन्मेरौ पूर्वभागे पुर्यैन्द्री देवधानिका ॥ १६॥ दक्षिणे वै संयमनी नाम याम्या महापुरी । पश्चान्निम्लोचनी नाम वारुणी वै महापुरी ॥ १७॥ तदुत्तरे पुरी सौम्या प्रोक्ता नाम विभावरी । ऐन्द्रपुर्यां रवेः प्रोक्त उदयो ब्रह्मवादिभिः ॥ १८॥ संयमन्यां च मध्याह्ने निम्लोचन्यां निमीलनम् । विभावर्यां निशीथः स्यात्तिग्मांशोः सुरपूजितः ॥ १९॥ प्रवृत्तेश्च निमित्तानि भूतानां तानि सर्वशः । मेरोश्चतुर्दिशं भानोः कीर्तितानि मया मुने ॥ २०॥ मेरुस्थानां सदा मध्यं गत एव विभाति हि । सव्यं गच्छन्दक्षिणेन करोति स्वर्णपर्वतम् ॥ २१॥ उदयास्तमये चैव सर्वकालं तु सम्मुखे । दिशास्वशेषासु तथा सुरर्षे विदिशासु च ॥ २२॥ यैर्यत्र दृश्यते भास्वान्स तेषामुदयः स्मृतः । तिरोभावं च यत्रैति तत्रैवास्तमनं रवेः ॥ २३॥ नैवास्तमनमर्कस्य नोदयः सर्वदा सतः । उदयास्तमनाख्यं हि दर्शनादर्शनं रवेः ॥ २४॥ शक्रादीनां पुरे तिष्ठन्स्पृशत्येष पुरत्रयम् । विकर्णौ द्वौ विकर्णस्थस्त्रीन्कोणान्द्वे पुरे तथा ॥ २५॥ सर्वेषां द्वीपवर्षाणां मेरुरुत्तरतः स्थितः । यैर्यत्र दृश्यते भानुः सैव प्राचीति चोच्यते ॥ २६॥ तद्वामभागतो मेरुर्वर्ततेति विनिर्णयः । यदि चैन्द्र्याः प्रचलते घटिका दशपञ्चभिः ॥ २७॥ याम्यां तदा योजनानां सपादं कोटियुग्मकम् । सार्धद्वादशलक्षाणि पञ्चनेत्रसहस्रकम् ॥ २८॥ प्रक्रामति सहस्रांशुः कालमार्गप्रदर्शकः । एवं ततो वारुणीं च सौम्यामैन्द्रीं सहस्रदृक् ॥ २९॥ पर्येति कालचक्रात्मा द्युमणिः कालबुद्धये । तथा चान्ये ग्रहाः सोमादयो ये दिग्विचारिणः ॥ ३०॥ नक्षत्रैः सह चोद्यन्ति सह चास्तं व्रजन्ति ते । एवं मुहूर्तेन रथो भानोरष्टशताधिकम् ॥ ३१॥ योजनानां चतुस्त्रिंशल्लक्षाणि भ्रमति प्रभुः । त्रयीमयश्चतुर्दिक्षु पुरीषु च समीरणात् ॥ ३२॥ प्रवहाख्यात्सदा कालचक्रं पर्येति भानुमान् । यस्य चक्रं रथस्यैकं द्वादशारं त्रिनाभिकम् ॥ ३३॥ षण्नेमि कवयस्तं च वत्सरात्मकमूचिरे । मेरुमूर्धनि तस्याक्षो मानसोत्तरपर्वते ॥ ३४॥ कृतेतरविभागो यः प्रोतं तत्र रथाङ्गकम् । तैलकारकयन्त्रेण चक्रसाम्यं परिभ्रमन् । ३५॥ मानसोत्तरनाम्नीह गिरौ पर्येति चांशुमान् । तस्मिन्नक्षे कृतं मूलं द्वितीयोऽक्षो ध्रुवे कृतः ॥ ३६॥ तुर्यमानेन तैलस्य यन्त्राक्षवदितीरितः । कृतोपरितनो भागः सूर्यस्य जगतां पतेः ॥ ३७॥ रथनीडस्तु षट्त्रिंशल्लक्षयोजनमायतः । तत्तुर्यभागतः सोऽयं परिणाहेन कीर्तितः ॥ ३८॥ तावानर्करथस्यात्र युगस्तस्मिन्हयाः शुभाः । सप्तच्छन्दोऽभिधानाश्च सूरसूतेन योजिताः ॥ ३९॥ वहन्ति देवमादित्यं लोकानां सुखहेतवे । पुरस्तात्सवितुः सूतोऽरुणः पश्चान्नियोजितः ॥ ४०॥ सौत्ये कर्मणि संयुक्तो वर्तते गरुडाग्रजः । तथैव बालखिल्याख्या ऋषयोऽङ्गुष्ठपर्वकाः ॥ ४१॥ प्रमाणेन परिख्याताः षष्टिसाहस्रसङ्ख्यकाः । स्तुवन्ति पुरतः सूर्यं सूक्तवाक्यैः सुशोभनैः ॥ ४२॥ तथा चान्ये च ऋषयो गन्धर्वा अप्सरोरगाः । ग्रामण्यो यातुधानाश्च देवाः सर्वे परेश्वरम् ॥ ४३॥ एकैकशः सप्त सप्त मासि मासि विरोचनम् । सार्धलक्षोत्तरं कोटिनवकं भूमिमण्डलम् ॥ ४४॥ द्विसहस्रं योजनानां स गव्यूत्युत्तरं क्षणात् । पर्येति देवदेवेशो विश्वव्यापी निरन्तरम् ॥ ४५॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे भुवनकोशवर्णने सूर्यगतिवर्णनं नाम पञ्चदशोऽध्यायः ॥ ८.१५॥

८.१६ षोडशोऽध्यायः । सोमादिगतिवर्णनम् ।

श्रीनारायण उवाच । अथातः श्रूयतां चित्रं सोमादीनां गमादिकम् । तद्गत्यनुसृता नॄणां शुभाशुभनिदर्शना ॥ १॥ यथा कुलालचक्रेण भ्रमता भ्रमतां सह । तदाश्रयाणां च गतिरन्या कीटादिनां भवेत् ॥ २॥ एवं हि राशिवृन्देन कालचक्रेण तेन च । मेरुं धुरं च सरतां प्रादक्षिण्येन सर्वदा ॥ ३॥ ग्रहाणां भानुमुख्यानां गतिरन्यैव दृश्यते । नक्षत्रान्तरगामित्वाद्भान्तरे गमनं तथा ॥ ४॥ गतिद्वयं चाविरुद्धं सर्वत्रैष विनिर्णयः । स एव भगवानादिपुरुषो लोकभावनः ॥ ५॥ नारायणोऽखिलाधारो लोकानां स्वस्तये भ्रमन् । कर्मशुद्धिनिमित्तं तु आत्मानं वै त्रयीमयम् ॥ ६॥ कविभिश्चैव वेदेन विजिज्ञास्योऽर्कधाभवत् । षट्सु क्रमेण ऋतुषु वसन्तादिषु च स्वयम् ॥ ७॥ यथोपजोषमृतुजान् गुणान् वै विदधाति च । तमेनं पुरुषाः सर्वे त्रय्या च विद्यया सदा ॥ ८॥ वर्णाश्रमाचारपथा तथाम्नातैश्च कर्मभिः । उच्चावचैः श्रद्धया च योगानां च वितानकैः ॥ ९॥ अञ्जसा च यजन्ते ये श्रेयो विन्दन्ति ते मतम् । अथैष आत्मा लोकानां द्यावाभूम्यन्तरेण च ॥ १०॥ कालचक्रगतो भुङ्क्ते मासान्द्वादशराशिभिः । संवत्सरस्यावयवान्मासः पक्षद्वयं दिवा ॥ ११॥ नक्तं चेति स पादर्क्षद्वयमित्युपदिश्यते । यावता षष्ठमंशं स भुञ्जीत ऋतुरुच्यते ॥ १२॥ संवत्सरस्यावयवः कविभिश्चोपवर्णितः । यावतार्धेन चाकाशवीथ्यां प्रचरते रविः ॥ १३॥ तं प्राक्तना वर्णयन्ति अयनं मुनिपूजिताः । अथ यावन्नभोमण्डलं सह प्रतिगच्छति ॥ १४॥ कार्त्स्न्येन सह भुञ्जीत कालं तं वत्सरं विदुः । संवत्सरं परिवत्सरमिडावत्सरमेव च ॥ १५॥ अनुवत्सरमिद्वत्सरमिति पञ्चकमीरितम् । भानोर्मान्द्यशैघ्र्यसमगतिभिः कालवित्तमैः ॥ १६॥ एवं भानोर्गतिः प्रोक्ता चन्द्रादीनां निबोधत । एवं चन्द्रोऽर्करश्मिभ्यो लक्षयोजनमूर्ध्वतः ॥ १७॥ उपलभ्यमानो मित्रस्य संवत्सरभुजिं च सः । पक्षाभ्यां चौषधीनाथो भुङ्क्ते मासभुजिं च सः ॥ १८॥ सपादमाभ्यां दिवसभुक्तिं पक्षभुजिं चरेत् । एवं शीघ्रगतिः सोमो भुङ्क्ते नूनं भचक्रकम् ॥ १९॥ पूर्यमाणकलाभिश्चामराणां प्रीतिमावहन् । क्षीयमाणकलाभिश्च पितॄणां चित्तरञ्जकः ॥ २०॥ अहोरात्राणि तन्वानः पूर्वापरसुघस्रकैः । सर्वजीवनिकायस्य प्राणो जीवः स एव हि ॥ २१॥ भुङ्क्ते चैकैकनक्षत्रं मुहूर्तत्रिंशता विभुः । स एव षोडशकलः पुरुषोऽनादिसत्तमः ॥ २२॥ मनोमयोऽप्यन्नमयोऽमृतधामा सुधाकरः । देवपितृमनुष्यादिसरीसृपसवीरुधाम् ॥ २३॥ प्राणाप्यायनशीलत्वात्स सर्वमय उच्यते । ततो भचक्रं भ्रमति योजनानां त्रिलक्षतः ॥ २४॥ मेरुप्रदक्षिणेनैव योजितं चेश्वरेण तु । अष्टाविंशतिसङ्ख्यानि गणितानि सहाभिजित् ॥ २५॥ ततः शुक्रो द्विलक्षेण योजनानामथोपरि । पुरः पश्चात्सहैवासावर्कस्य परिवर्तते ॥ २६॥ शीघ्रमन्दसमानाभिर्गतिभिर्विचरन्विभुः । लोकानामनुकूलोऽयं प्रायः प्रोक्तः शुभावहः ॥ २७॥ वृष्टिविष्टम्भशमनो भार्गवः सर्वदा मुने । शुक्राद् बुधः समाख्यातो योजनानां द्विलक्षतः ॥ २८॥ शीघ्रमन्दसमानाभिर्गतिभिः शुक्रवत्सदा । यदार्काद्व्यतिरिच्येत सौम्यः प्रायेण तत्र तु ॥ २९॥ अतिवाताभ्रपातानां वृष्ट्यादिभयसूचकः । उपरिष्ठात्ततो भौमो योजनानां द्विलक्षतः ॥ ३०॥ पक्षैस्त्रिभिस्त्रिभिः सोऽयं भुङ्क्ते राशीनथैकशः । द्वादशापि च देवर्षे यदि वक्रो न जायते ॥ ३१॥ प्रायेणाशुभकृत्सोऽयं ग्रहौघानां च सूचकः । नतो द्विलक्षमानेन योजनानां च गीष्पतिः ॥ ३२॥ एकैकस्मिन्नथो राशौ भुङ्गे संवत्सरं चरन् । यदि वक्रो भवेन्नैवानुकूलो ब्रह्मवादिनाम् ॥ ३३॥ ततः शनैश्चरो घोरो लक्षद्वयपरो मितः । योजनैः सूर्यपुत्रोऽयं त्रिंशन्मासैः परिभ्रमन् ॥ ३४॥ एकैकराशौ पर्येति सर्वान् राशीन्महाग्रहः । सर्वेषामशुभो मन्दः प्रोक्तः कालविदां वरैः ॥ ३५॥ तत उत्तरतः प्रोक्तमेकादशसुलक्षकैः । योजनैः परिसङ्ख्यातं सप्तर्षीणां च मण्डलम् ॥ ३६॥ लोकानां शं भावयन्तो मुनयः सप्त ते मुने । यत्तद्विष्णुपदं स्थानं दक्षिणं प्रक्रमन्ति ते ॥ ३७ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे सोमादिगतिवर्णनं नाम षोडशोऽध्यायः ॥ ८.१६॥

८.१७ सप्तदशोऽध्यायः । ध्रुवमण्डलसंस्थानवर्णनम् ।

श्रीनारायण उवाच । अथर्षिमण्डलादूर्ध्वं योजनानां प्रमाणतः । लक्षैस्त्रयोदशमितैः परमं वैष्णवं पदम् ॥ १॥ महाभागवतः श्रीमान् वर्तते लोकवन्दितः । औत्तानपादिरिन्द्रेण वह्निना कश्यपेन च ॥ २॥ धर्मेण सह चैवास्ते समकालयुजा ध्रुवः । बहुमानं दक्षिणतः कुर्वद्भिः प्रेक्षकैः सदा ॥ ३॥ आजीव्यः कल्पजीविनामुपास्ते भगवत्पदम् । ज्योतिर्गणानां सर्वेषां ग्रहनक्षत्रभादिनाम् ॥ ४॥ कालेनानिमिषेणायं भ्राम्यतां व्यक्तरंहसा । अवष्टम्भस्थाणुरिव विहितश्चेश्वरेण सः ॥ ५॥ भासते भासयन्भासा स्वीयया देवपूजितः । मेढिस्तम्भे यथा युक्ताः पशवः कर्षणार्थकाः ॥ ६॥ मण्डलानि चरन्तीमे सवनत्रितयेन च । एवं ग्रहादयः सर्वे भगणाद्या यथाक्रमम् ॥ ७॥ अन्तर्बहिर्विभागेन कालचक्रे नियोजिताः । ध्रुवमेवावलम्ब्याशु वायुनोदीरिताश्च ते ॥ ८॥ आकल्पान्तं च क्रमन्ति खे श्येनाद्याः खगा इव । कर्मसारथयो वायुवशगाः सर्व एव ते ॥ ९॥ एवं ज्योतिर्गणाः सर्वे प्रकृतेः पुरुषस्य च । संयोगानुगृहीतास्ते भूमौ न निपतन्ति च ॥ १०॥ ज्योतिश्चक्रं केचिदेतच्छिशुमारस्वरूपकम् । सोपयोगं भगवतो योगधारणकर्मणि ॥ ११॥ यस्यार्वाक्शिरसः कुण्डलीभूतवपुषो मुने । पुच्छाग्रे कल्पितो योऽयं ध्रुव उत्तानपादजः ॥ १२॥ लाङ्गूलेऽस्य च सम्प्रोक्तः प्रजापतिरकल्मषः । अग्निरिन्द्रश्च धर्मश्च तिष्ठन्ते सुरपूजिताः ॥ १३॥ धाता विधाता पुच्छान्ते कट्यां सप्तर्षयस्ततः । दक्षिणावर्तभोगेन कुण्डलाकारमीयुषः ॥ १४॥ उत्तरायणभानीह दक्षपार्श्वेऽर्पितानि च । दक्षिणायनभानीह सव्ये पार्श्वेऽर्पितानि च ॥ १५॥ कुण्डलाभोगवेशस्य पार्श्वयोरुभयोरपि । समसङ्ख्याश्चावयवा भवन्ति कजनन्दन ॥ १६॥ अजवीथी पृष्ठभागे आकाशसरिदौदरे । पुनर्वसुश्च पुष्यश्च श्रोण्यौ दक्षिणवामयोः ॥ १७॥ आर्द्राश्लेषे पश्चिमयोः पादयोर्दक्षवामयोः । अभिजिच्चोत्तराषाढा नासयोर्दक्षवामयोः ॥ १८॥ यथासङ्ख्यं च देवर्षे श्रुतिश्च जलभं तथा । कल्पिते कल्पनाविद्भिर्नेत्रयोर्दक्षवामयोः ॥ १९॥ धनिष्ठा चैव मूलं च कर्णयोर्दक्षवामयोः । मघादीन्यष्टभानीह दक्षिणायनगानि च ॥ २०॥ युञ्जीत वामपार्श्वीयवङ्क्रिषु क्रमतो मुने । तथैव मृगशीर्षादीन्युदग्भानि च यानि हि ॥ २१॥ दक्षपार्श्वे वङ्क्रिकेषु प्रातिलोम्येन योजयेत् । शततारा तथा ज्येष्ठा स्कन्धयोर्दक्षवामयोः ॥ २२॥ अगस्तिश्चोत्तरहनावधरायां हनौ यमः । मुखेष्वङ्गारकः प्रोक्तो मन्दः प्रोक्त उपस्थके ॥ २३॥ बृहस्पतिश्च ककुदि वक्षस्यर्को ग्रहाधिपः । नारायणश्च हृदये चन्द्रो मनसि तिष्ठति ॥ २४॥ स्तनयोरश्विनौ नाभ्यामुशनाः परिकीर्तितः । बुधः प्राणापानयोश्च गले राहुश्च केतवः ॥ २५॥ सर्वाङ्गेषु तथा रोमकूपे तारागणाः स्मृताः । एतद्भगवतो विष्णोः सर्वदेवमयं वपुः ॥ २६॥ सन्ध्यायां प्रत्यहं ध्यायेत्प्रयतो वाग्यतो मुनिः । निरीक्षमाणश्चोत्तिष्ठेन्मन्त्रेणानेन धीश्वरः ॥ २७॥ नमो ज्योतिर्लोकाय कालायानिमिषां पतये महापुरुषायाभिधीमहीति ॥ २८॥ ग्रहर्क्षतारामयमाधिदैविकं पापापहं मन्त्रकृतां त्रिकालम् । नमस्यतः स्मरतो वा त्रिकालं नश्येत तत्कालजमाशु पापम् ॥ २९॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे ध्रुवमण्डलसंस्थानवर्णनं नाम सप्तदशोऽध्यायः ॥ ८.१७॥

८.१८ अष्टादशोऽध्यायः । राहुमण्डलाद्यवस्थानवर्णनम् ।

श्रीनारायण उवाच । अधस्तात्सवितुः प्रोक्तमयुतं राहुमण्डलम् । नक्षत्रवच्चरति च सैंहिकेयोऽतदर्हणः ॥ १॥ सूर्याचन्द्रमसोरेव मर्दनः सिंहिकासुतः । अमरत्वं च खेटत्वं लेभे यो विष्ण्वनुग्रहात् ॥ २॥ यददस्तरणेर्बिम्बं तपतो योजनायुतम् । तच्छादकोऽसुरो ज्ञेयोऽप्यर्कसाहस्रविस्तरम् ॥ ३॥ त्रयोदशसहस्रं तु सोमस्याच्छादको ग्रहः । यः पर्वसमये वैरानुबन्धी छादकोऽभवत् ॥ ४॥ सूर्याचन्द्रमसोर्दूराद्भवेच्छादनकारकः । तन्निशम्योभयत्रापि विष्णुना प्रेरितं स्वकम् ॥ ५॥ चक्रं सुदर्शनं नाम ज्वालामालातिभीषणम् । तत्तेजसा दुःसहेन समन्तात्परिवारितम् ॥ ६॥ मुहूर्तो द्विजमानस्तु दूराच्चकितमानसः । आरान्निवर्तते सोऽयमुपराग इतीव ह ॥ ७॥ उच्यते लोकमध्ये तु देवर्षे अवबुध्यताम् । ततोऽधस्तात्समाख्याता लोकाः परमपावनाः ॥ ८॥ सिद्धानां चारणानां च विद्याध्राणां च सत्तम । योजनायुतविख्याता लोकाः पुण्यनिषेविताः ॥ ९॥ ततोऽप्यधस्ताद्देवर्षे यक्षाणां च सरक्षसाम् । पिशाचप्रेतभूतानां विहाराजिरमुत्तमम् ॥ १०॥ अन्तरिक्षं च तत्प्रोक्तं यावद्वायुः प्रवाति हि । यावन्मेघास्ततोद्यन्ति तत्प्रोक्तं ज्ञानकोविदैः ॥ ११॥ ततोऽधस्ताद्योजनानां शतं यावद् द्विजोत्तम । पृथिवी परिसङ्ख्याता सुपर्णश्येनसारसाः ॥ १२॥ हंसादयः प्रोत्पतन्ति पार्थिवाः पृथिवीभवाः । भूसन्निवेशावस्थानं यथावदुपवर्णितम् ॥ १३॥ अधस्तादवनेः सप्त देवर्षे विवराः स्मृताः । एकैकशो योजनानामायामोच्छ्रायतः पुनः ॥ १४॥ अयुतान्तरविख्याताः सर्वर्तुसुखदायकाः । अतलं प्रथमं प्रोक्तं द्वितीयं वितलं तथा ॥ १५॥ तृतीयं सुतलं प्रोक्तं चतुर्थं वै तलातलम् । महातलं पञ्चमं च षष्ठं प्रोक्तं रसातलम् ॥ १६॥ सप्तमं विप्र पातालं सप्तैते विवराः स्मृताः । एतेषु बिलस्वर्गेषु दिवोऽप्यधिकमेव च ॥ १७॥ कामभोगैश्वर्यसुखसमृद्धभुवनेषु च । नित्योद्यानविहारेषु सुखास्वादः प्रवर्तते ॥ १८॥ दैत्याश्च काद्रवेयाश्च दानवा बलशालिनः । नित्यप्रमुदिता रक्ताः कलत्रापत्यबन्धुभिः ॥ १९॥ सुहृद्भिरनुजीवाद्यैः संयुताश्च गृहेश्वराः । ईश्वरादप्रतिहतकामा मायाविनश्च ते ॥ २०॥ निवसन्ति सदा हृष्टाः सर्वर्तुसुखसंयुताः । मयेन मायाविभुना येषु येषु च निर्मिताः ॥ २१॥ पुरः प्रकामशो भक्ता मणिप्रवरशालिनः । विचित्रभवनाट्टालगोपुराद्याः सहस्रशः ॥ २२॥ सभाचत्वरचैत्यादिशोभाढ्याः सुरदुर्लभाः । नागासुराणां मिथुनैः सपारावतसारिकैः ॥ २३॥ कीर्णकृत्रिमभूमिश्च विवरेशगृहोत्तमैः । अलङ्कृताश्चकासन्ति उद्यानानि महान्ति च ॥ २४॥ मनःप्रसन्नकारीणि फलपुष्पविशालिभिः । ललनानां विलासार्हस्थानैः शोभितभाञ्जि च ॥ २५॥ नानाविहङ्गमव्रातसंयुक्तजलराशिभिः । स्वच्छार्णपूरितह्रदैः पाठीनसमलङ्कृतैः ॥ २६॥ जलजन्तुक्षुब्धनीरनीरजातैरनेकशः । कुमुदोत्पलकह्लारनीलरक्तोत्पलैस्तथा ॥ २७॥ तेषु कृतनिकेतानां विहारैः सङ्कुलानि च । इन्द्रियोत्सवकारैश्च तथैव विविधैः स्वरैः ॥ २८॥ अमराणां च परमां श्रियं चातिशयन्ति च । यत्र नैव भयं क्वापि कालाङ्गैर्दिनरात्रिभिः ॥ २९॥ यत्राहिप्रवराणां च शिरःस्थैर्मणिरश्मिभिः । नित्यं तमः प्रबाध्येत सदा प्रस्फुटकान्तिभिः ॥ ३०॥ न वा एतेषु वसतां दिव्यौषधिरसायनैः । रसान्नपानस्नानाद्यैर्नाधयो न च व्याधयः ॥ ३१॥ वलीपलितजीर्णत्ववैवर्ण्यस्वेदगन्धताः । अनुत्साहवयोऽवस्था न बाधन्ते कदाचन ॥ ३२॥ कल्याणानां सदा तेषां न च मृत्युभयं कुतः । भगवत्तेजसोऽन्यत्र चक्राच्चैव सुदर्शनात् ॥ ३३॥ यस्मिन्प्रविष्टे दैतेयवधूनां गर्भराशयः । प्रायो भयात्पतन्त्येव स्रवन्ति ब्रह्मपुत्रक ॥ ३४॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे राहुमण्डलाद्यवस्थानवर्णनं नामाष्टादशोऽध्यायः ॥ ८.१८॥

८.१९ एकोनविंशोऽध्यायः । अतलवितलसुतललोकवर्णनम् ।

श्रीनारायण उवाच । प्रथमे विवरे विप्र अतलाख्ये मनोरमे । मयपुत्रो बलो नाम वर्ततेऽखर्वगर्वकृत् ॥ १॥ षण्णवत्यो येन सृष्टा मायाः सर्वार्थसाधिकाः । मायाविनो याश्च सद्यो धारयन्ति च काश्चन ॥ २॥ जृम्भमाणस्य यस्यैव बलस्य बलशालिनः । स्त्रीगणा उपपद्यन्ते त्रयोलोकविमोहनाः ॥ ३॥ पुंश्चल्यश्चैव स्वैरिण्यः कामिन्यश्चेति विश्रुताः । या वै बिलायनं प्रेष्ठं प्रविष्टं पुरुषं रहः ॥ ४॥ रसेन हाटकाख्येन साधयित्वा प्रयत्नतः । स्वविलासावलोकानुरागस्मितविगूहनैः ॥ ५॥ संलापविभ्रमाद्यैश्च रमयन्त्यपि ताः स्त्रियः । यस्मिन्नुपयुक्ते जनो मनुते बहुधा स्वयम् ॥ ६॥ ईश्वरोऽहमहं सिद्धो नागायुतबलो महान् । आत्मानं मन्यमानः सन्मदान्ध इव कथ्यते ॥ ७॥ एवं प्रोक्ता स्थितिश्चात्र अतलस्य च नारद । द्वितीयविवरस्यात्र वितलस्य निबोधत ॥ ८॥ भूतलाधस्तले चैव वितले भगवान्भवः । हाटकेश्वरनामायं स्वपार्षदगणैर्वृतः ॥ ९॥ प्रजापतिकृतस्यापि सर्गस्य बृंहणाय च । भवान्या मिथुनीभूय आस्ते देवाधिपूजितः ॥ १०॥ भवयोर्वीर्यसम्भूता हाटकी सरिदुत्तमा । समिद्धो मरुता वह्निरोजसा पिबतीव हि ॥ ११॥ तन्निष्ठ्यूतं हाटकाख्यं सुवर्णं दैत्यवल्लभम् । दैत्याङ्गना भूषणार्हं सदा तं धारयन्ति हि ॥ १२॥ तद्बिलाधस्तलात्प्रोक्तं सुतलाख्यं बिलेश्वरम् । पुण्यश्लोको बलिर्नामा आस्ते वैरोचनिर्मुने ॥ १३॥ महेन्द्रस्य च देवस्य चिकीर्षुः प्रियमुत्तमम् । त्रिविक्रमोऽपि भगवान् सुतले बलिमानयत् ॥ १४॥ त्रैलोक्यलक्ष्मीमाक्षिप्य स्थापितः किल दैत्यराट् । इन्द्रादिष्वप्यलब्धा या सा श्रीस्तमनुवर्तते ॥ १५॥ तमेव देवदेवेशमाराधयति भक्तितः । व्यपेतसाध्वसोऽद्यापि वर्तते सुतलाधिपः ॥ १६॥ भूमिदानफलं ह्येतत्पात्रभूतेऽखिलेश्वरे । वर्णयन्ति महात्मानो नैतद्युक्तं च नारद ॥ १७॥ वासुदेवे भगवति पुरुषार्थप्रदे हरौ । एतद्दानफलं विप्र सर्वथा नहि युज्यते ॥ १८॥ यस्यैव देवदेवस्य नामापि विवशो गृणन् । स्वकीयकर्मबन्धीयगुणान्विधुनुतेऽञ्जसा ॥ १९॥ यत्क्लेशबन्धहानाय साङ्ख्ययोगादिसाधनम् । कुर्वते यतयो नित्यं भगवत्यखिलेश्वरे ॥ २०॥ न चायं भगवानस्माननुजग्राह नारद । मायामयं च भोगानामैश्वर्यं व्यतनोत्परम् ॥ २१॥ सर्वक्लेशाधिहेतुं तदात्मानुस्मृतिमोषणम् । यं साक्षाद्भगवान् विष्णुः सर्वोपायविदीश्वरः ॥ २२॥ याञ्जाछलेनापहृतं सर्वस्वं देहशेषकम् । अप्राप्तान्योपाय ईशः पाशैर्वारुणसम्भवैः ॥ २३॥ बन्धयित्वावमुच्यापि गिरिदर्यामिवाब्रवीत् । असाविन्द्रो महामूढो यस्य मन्त्री बृहस्पतिः ॥ २४॥ प्रसन्नमिममत्यर्थमयाचल्लोकसम्पदम् । त्रैलोक्यमिदमैश्वर्यं कियदेवातितुच्छकम् ॥ २५॥ आशिषां प्रभवं मुक्त्वा यो मूढो लोकसम्पदि । अस्मत्पितामहः श्रीमान् प्रह्लादो भगवत्प्रियः ॥ २६॥ दास्यं वव्रे विभोस्तस्य सर्वलोकोपकारकः । पित्र्यमैश्वर्यमतुलं दीयमानं च विष्णुना ॥ २७॥ पितर्युपरते वीरे नैवैच्छद्भगवत्प्रियः । तस्यातुलानुभावस्य सर्वलोकोपधीमतः ॥ २८॥ अस्मद्विधो नाल्पपक्वेतरदोषोऽवगच्छति । एवं दैत्यपतिः सोऽयं बलिः परमपूजितः ॥ २९॥ सुतले वर्तते यस्य द्वारपालो हरिः स्वयम् । एकदा दिग्विजये राजा रावणो लोकरावणः ॥ ३०॥ प्रविशन्सुतले येन भक्तानुग्रहकारिणा । पादाङ्गुष्ठेन प्रक्षिप्तो योजनायुतमत्र हि ॥ ३१॥ एवम्भूतानुभावोऽयं बलिः सर्वसुखैकभुक् । आस्ते सुतलराजस्थो देवदेवप्रसादतः ॥ ३२॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे अतलवितलसुतललोकवर्णनं नामैकोनविंशोऽध्यायः ॥ ८.१९॥

८.२० विंशोऽध्यायः । तलातलादिलोकवर्णनेऽनन्तवर्णनम् ।

श्रीनारायण उवाच । ततोऽधस्ताद्विवरकं तलातलमुदीरितम् । दानवेन्द्रो मयो नाम त्रिपुराधिपतिर्महान् ॥ १॥ त्रिलोक्याः शङ्करेणायं पालितो दग्धपूस्त्रयः । देवदेवप्रसादात्तु लब्धराज्यसुखास्पदः ॥ २॥ आचार्यो मायिनां सोऽयं नानामायाविशारदः । पूज्यते राक्षसैर्घोरैः सर्वकार्यसमृद्धये ॥ ३॥ ततोऽधस्तास्तुविख्यातं महातलमिति स्फुटम् । सर्पाणां काद्रवेयाणां गणः क्रोधवशो महान् ॥ ४॥ अनेकशिरसां विप्र प्रधानान्कीर्तयामि ते । कुहकस्तक्षकश्चैव सुषेणः कालियस्तथा ॥ ५॥ महाभोगा महासत्त्वाः क्रूराः क्रूरस्वजातयः । पतत्रिराजाधिपतेरुद्विग्नाः सर्व एव ते ॥ ६॥ स्वकलत्रापत्यसुहृत्कुटुम्बस्य च सङ्गताः । प्रमत्ता विहरन्त्येव नानाक्रीडाविशारदाः ॥ ७॥ ततोऽधस्ताच्च विवरे रसातलसमाह्वये । दैतेया निवसन्त्येव पणयो दानवाश्च ये ॥ ८॥ निवातकवचा नाम हिरण्यपुरवासिनः । कालेया इति च प्रोक्ताः प्रत्यनीका हविर्भुजाम् ॥ ९॥ महौजसश्चोत्पत्त्यैव महासाहसिनस्तथा । सकलेशस्य च हरेस्तेजसा हतविक्रमाः ॥ १०॥ बिलेशया इव सदा विवरे निवसन्ति हि । ये वै वाग्भिः सरमया शक्रदूत्या निरन्तरम् ॥ ११॥ मन्त्रवर्णाभिरसुरास्ताडिता बिभ्यति स्म ह । ततोऽप्यधस्तात्पाताले नागलोकाधिपालकाः ॥ १२॥ वासुकिप्रमुखाः शङ्खः कुलिकः श्वेत एव च । धनञ्जयो महाशङ्खो धृतराष्ट्रस्तथैव च ॥ १३॥ शङ्खचूडः कम्बलाश्वतरो देवोपदत्तकः । महामर्षा महाभोगा निवसन्ति विषोल्बणाः ॥ १४॥ पञ्चमस्तकवन्तश्च फणासप्तकभूषिताः । केचिद्दशफणाः केचिच्छतशीर्षास्तथापरे ॥ १५॥ सहस्रशिरसः केऽपि रोचिष्णुमणिधारकाः । पातालरन्ध्रतिमिरनिकरं स्वमरीचिभिः ॥ १६॥ विधमन्ति च देवर्षे सदा सञ्जातमन्यवः । अस्य मूलप्रदेशे हि त्रिंशत्साहस्रकेऽन्तरे ॥ १७॥ योजनैः परिसङ्ख्याते तामसी भगवत्कला । अनन्ताख्या समास्ते हि सर्वदेवप्रपूजिता ॥ १८॥ अहमित्यभिमानस्य लक्षणं यं प्रचक्षते । सङ्कर्षणं सात्वतीयाः कर्षणं द्रष्ट्टदृश्ययोः ॥ १९॥ इदं भूमण्डलं यस्य सहस्रशिरसः प्रभोः । अनन्तमूर्तेः शेषस्य ध्रियमाणं च शीर्षके ॥ २०॥ पृध्वीगोलमशेषं हि सिद्धार्थ इव लक्ष्यते । यस्य कालेन देवस्य सञ्जिहीर्षोः समं विभोः ॥ २१॥ चराचरं भ्रुवोरन्तर्विवरादुदपद्यत । साङ्कर्षणो नाम रुद्रो व्यूहैकादशशोभितः ॥ २२॥ त्रिलोचनश्च त्रिशिखं शूलमुत्तम्भयन्स्वयम् । उदतिष्ठन्महासत्त्वो महाभूतक्षयङ्करः ॥ २३॥ यस्याङ्घ्रिकमलद्वन्द्वशोणाच्छनखमण्डले । विराजन्मणिबिम्बेषु महाहिपतयोऽनिशम् ॥ २४॥ एकान्तभक्तियोगेन सह सात्त्वतपुङ्गवैः । प्रणमन्तः स्वमूर्ध्ना ते स्वमुखानि समीक्षते ॥ २५॥ स्फुरत्कुण्डलमाणिक्यप्रभामण्डलभाञ्ज्यपि । सुकपोलानि चारूणि गण्डस्थलद्युमन्ति च ॥ २६॥ नागराजकुमार्योऽपि चार्वङ्गविलसत्त्विषः । विशदैर्विपुलैस्तद्वद्धवलैः सुभगैस्तथा ॥ २७॥ रुचिरैर्भुजदण्डैश्च शोभमाना इतस्ततः । चन्दनागुरुकाश्मीरपङ्कलेपेन भूषिताः ॥ २८॥ तदभिमर्षसञ्जातकामावेशसमायुताः । ललितस्मितसंयुक्ताः सव्रीडं लोकयन्ति च ॥ २९॥ अनुरागमदोन्मत्तविघूर्णारुणलोचनम् । करुणावलोकनेत्रं च आशासानास्तथाशिषः ॥ ३०॥ सोऽनन्तो भगवान्देवोऽनन्तसत्त्वो महाशयः । अनन्तगुणवार्धिश्च आदिदेवो महाद्युतिः ॥ ३१॥ संहृतामर्षरोषादिवेगो लोकशुभाय च । आस्ते महासत्त्वनिधिः सर्वदेवप्रपूजितः ॥ ३२॥ ध्यायमानः सुरैः सिद्धैरसुरैश्चोरगैस्तथा । विद्याधरैश्च गन्धर्वैर्मुनिसङ्घैश्च नित्यशः ॥ ३३॥ अनारतमदोन्मत्तलोकविह्वललोचनः । वाक्यामृतेन विबुधान्स्वपार्षदगणानपि ॥ ३४॥ आप्यायमानः स विभुर्वेजयन्तीं स्रजं दधत् । अम्लानाभिनवैः स्वच्छैस्तुलसीदलसञ्चयैः ॥ ३५॥ माद्यन्मधुकरव्रातघोषश्रीसंयुतां सदा । नीलवासा देवदेव एककुण्डलभूषितः ॥ ३६॥ हलस्य ककुदि न्यस्तसुपीवरभुजोऽव्ययः । महेन्द्रः काञ्चनीं यद्वद्वरत्रां च मतङ्गमः । उदारलीलो देवेशो वर्णितः सात्त्वतर्षभैः ॥ ३७॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे तलातलादिलोकवर्णनेऽनन्तवर्णनं नाम विंशोऽध्यायः ॥ ८.२०॥

८.२१ एकविंशोऽध्यायः । नरकस्वरूपवर्णनम् ।

श्रीनारायण उवाच । तस्यानुभावं भगवान् ब्रह्मपुत्रः सनातनः । सभायां ब्रह्मदेवस्य गायमान उपासते ॥ १॥ उत्पत्तिस्थितिलयहेतवोऽस्य कल्पाः सत्त्वाद्याः प्रकृतिगुणा यदीक्षयाऽऽसन् । यद्रूपं ध्रुवमकृतं यदेकमात्मन्- नानाधात्कथमुह वेद तस्य वर्त्म ॥ २॥ मूर्तिं नः पुरुकृपया बभार सत्त्वं संशुद्धं सदसदिदं विभाति यत्र । यल्लीलां मृगपतिराददेऽनवद्या- मादातुं स्वजनमनांस्युदारवीर्यः ॥ ३॥ यन्नाम श्रुतमनुकीर्तयेदकस्मा- दार्तो वा यदि पतितः प्रलम्भनाद्वा । हन्त्यंहः सपदि नृणामशेषमन्यं कं शेषाद्भगवत आश्रयेत्युमुक्षुः ॥ ४॥ मूर्धन्यर्पितमणुवत्सहस्रमूर्ध्नो भूगोलं सगिरिसरित्समुद्रसत्त्वम् । आनन्त्यादनमितविक्रमस्य भूम्नः को वीर्याण्यधिगणयेत्सहस्रजिह्वः ॥ ५॥ एवम्प्रभावो भगवाननन्तो दुरन्तवीर्योरुगुणानुभावः । मूले रसायाः स्थित आत्मतन्त्रो यो लीलया क्ष्मां स्थितये बिभर्ति ॥ ६॥ एता ह्येवेह तु नृभिर्गतयो मुनिसत्तम । गन्तव्या बहुशो यद्वद्यथाकर्मविनिर्मिताः ॥ ७॥ यथोपदेशं च कामान्सदा कामयमानकैः । एतावतीर्हि राजेन्द्र मनुष्यमृगपक्षिषु ॥ ८॥ विपाकगतयः प्रोक्ता धर्मस्य वशगास्तथा । उच्चावचा विसदृशा यथाप्रश्नं निबोधत ॥ ९॥ नारद उवाच । वैचित्र्यमेतल्लोकस्य कथं भगवता कृतम् । समानत्वे कर्मणां च तन्नो ब्रूहि यथातथम् ॥ १०॥ श्रीनारायण उवाच । कर्तुः श्रद्धावशादेव गतयोऽपि पृथग्विधाः । त्रिगुणत्वात्सदा तासां फलं विसदृशं त्विह ॥ ११॥ सात्त्विक्या श्रद्धया कर्तुः सुखित्वं जायते सदा । दुःखित्वं च तथा कर्तू राजस्या श्रद्धया भवेत् ॥ १२॥ दुःखित्वं चैव मूढत्वं तामस्या श्रद्धयोदितम् । तारतम्यात्तु श्रद्धानां फलवैचित्र्यमीरितम् ॥ १३॥ अनाद्यविद्याविहितकर्मणां परिणामजाः । सहस्रशः प्रवृत्तास्तु गतयो द्विजपुङ्गव ॥ १४॥ तद्भेदान्वर्णयिष्यामि प्राचुर्येण द्विजोत्तम । त्रिजगत्या अन्तराले दक्षिणस्यां दिशीह वै ॥ १५॥ भूमेरधस्तादुपरि त्वतलस्य च नारद । अग्निष्वात्ताः पितृगणा वर्तन्ते पितरश्च ह ॥ १६॥ वसन्ति यस्यां स्वीयानां गोत्राणां परमाशिषः । सत्याः समाधिना शीघ्रं त्वाशासानाः परेण वै ॥ १७॥ पितृराजोऽपि भगवान् सम्परेतेषु जन्तुषु । विषयं प्रापितेष्वेषु स्वकीयैः पुरुषैरिह ॥ १८॥ सगणो भगवत्प्रोक्ताज्ञापरो दमधारकः । यथाकर्म यथादोषं विदधाति विचारदृक् ॥ १९॥ स्वान्गणान्धर्मतत्त्वज्ञान्सर्वानाज्ञाप्रवर्तकान् । सदा प्रेरयति प्राज्ञो यथादेशनियोजितान् ॥ २०॥ नरकानेकविंशत्या सङ्ख्यया वर्णयन्ति हि । अष्टाविंशमितान्केचित्ताननुक्रमतो ब्रुवे ॥ २१॥ तामिस्र अन्धतामिस्रो रौरवोऽपि तृतीयकः । महारौरवनामा च कुम्भीपाकोऽपरो मतः ॥ २२॥ कालसूत्रं तथा चासिपत्रारण्यमुदाहृतम् । सूकरस्य मुखं चान्धकूपोऽथ कृमिभोजनः ॥ २३॥ सन्दंशस्तप्तमूर्तिश्च वज्रकण्टक एव च । शाल्मली चाथ देवर्षे नाम्ना वैरतणी तथा ॥ २४॥ पूयोदः प्राणरोधश्च तथा विशसनं मतम् । लालाभक्षः सारमेयादनमुक्तमतः परम् ॥ २५॥ अवीचिरप्ययः पानं क्षारकर्दम एव च । रक्षोगणाख्यसम्भोजः शूलप्रोतोऽप्यतः परम् ॥ २६॥ दन्दशूकोऽवटारोधः पर्यावर्तनकः परम् । सूचीमुखमिति प्रोक्ता अष्टाविंशतिनारकाः ॥ २७॥ इत्येते नारका नाम यातनाभूमयः पराः । कर्मभिश्चापि भूतानां गम्याः पद्मजसम्भव ॥ २८॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे नरकस्वरूपवर्णनं नामैकविंशोऽध्यायः ॥ ८.२१॥

८.२२ द्वाविंशोऽध्यायः । नरकप्रदपातकवर्णनम् ।

नारद उवाच । कर्मभेदाः कतिविधाः सनातनमुने मम । श्रोतव्याः सर्वथैवैते यातनाप्राप्तिभूमयः ॥ १॥ श्रीनारायण उवाच । यो वै परस्य वित्तानि दारापत्यानि चैव हि । हरते स हि दुष्टात्मा यमानुचरगोचरः ॥ २॥ कालपाशेन सम्बद्धो याम्यैरतिभयानकैः । तामिस्रनामनरके पात्यते यातनास्पदे ॥ ३॥ ताडनं दण्डनं चैव सन्तर्जनमतः परम् । याम्याः कुर्वन्ति पाशाढ्याः कश्मलं याति चैव हि ॥ ४॥ मूर्च्छामायाति विवशो नारकी पद्मभूसुत । यः पतिं वञ्चयित्वा तु दारादीनुपभुज्यति ॥ ५॥ अन्धतामिस्रनरके पात्यते यमकिङ्करैः । पात्यमानो यत्र जन्तुर्वेदनापरवान्भवेत् ॥ ६॥ नष्टदृष्टिर्नष्टमतिर्भवत्येवाविलम्बतः । वनस्पतिर्भज्यमानमूलो यद्वद्भवेदिह ॥ ७॥ तस्मादप्यन्धतामिस्रनाम्ना प्रोक्तः पुरातनैः । एतन्ममाहमिति यो भूतद्रोहेण केवलम् ॥ ८॥ पुष्णाति प्रत्यहं स्वीयं कुटुम्बं कार्यलम्पटः । एतद्विहाय चात्रैव स्वाशुभेन पतेदिह ॥ ९॥ रौरवे नाम नरके सर्वसत्त्वभयावहे । इह लोकेऽमुना ये तु हिंसिता जन्तवः पुरा ॥ १०॥ त एव रुरवो भूत्वा परत्र पीडयन्ति तम् । तस्माद्रौरवमित्याहुः पुराणज्ञा मनीषिणः ॥ ११॥ रुरुः सर्पादतिक्रूरो जन्तुरुक्तः पुरातनैः । एवं महारौरवाख्यो नरको यत्र पूरुषः ॥ १२॥ यातनां प्राप्यमाणो हि यः परं देहसम्भवः । क्रव्यादा नाम रुरवस्तं क्रव्ये घातयन्ति च ॥ १३॥ य उग्रः पुरुषः क्रूरः पशुपक्षिगणानपि । उपरन्धयते मूढो याम्यास्तं रन्धयन्ति च ॥ १४॥ कुम्भीपाके तप्ततैले उपर्यपि च नारद । यावन्ति पशुरोमाणि तावद्वर्षसहस्रकम् ॥ १५॥ पितृविप्रब्राह्मणध्रुक्कालसूत्रे स नारके । अग्न्यर्काभ्यां तप्यमाने नारकी विनिवेशितः ॥ १६॥ क्षुत्पिपासादह्यमानोऽन्तःशरीरस्तथा बहिः । आस्ते शेते चेष्टते चावतिष्ठति च धावति ॥ १७॥ निजवेदपथाद्यो वै पाखण्डं चोपयाति च । अनापद्यपि देवर्षे तं पापं पुरुषं भटाः ॥ १८॥ असिपत्रवनं नाम नरकं वेशयन्ति च । कशया प्रहरन्त्येव नारकी तद्गतस्तदा ॥ १९॥ इतस्ततो धावमान उत्तालमतिवेगतः । असिपत्रैश्छिद्यमान उभयत्र च धारभिः ॥ २०॥ सञ्छिद्यमानसर्वाङ्गो हाहतोऽस्मीति मूर्च्छितः । वेदनां परमां प्राप्तः पतत्येव पदे पदे ॥ २१॥ स्वधर्मानुगतं भुङ्क्ते पाखण्डफलमल्पधीः । यो राजा राजपुरुषो दण्डयेद्वै त्वधर्मतः ॥ २२॥ द्विजे शरीरदण्डं च पापीयान्नारकी च सः । नरके सूकरमुखे पात्यते यमकिङ्करैः ॥ २३॥ विनिष्यिष्टावयवको बलवद्भिस्तथेक्षुवत् । आर्तस्वरेण स्वनयन्मूर्च्छितः कश्मलङ्गतः ॥ २४॥ स पीड्यमानो बहुधा वेदनां यात्यतीव हि । विविक्तपरपीडो योऽप्यविविक्तपरव्यथाम् ॥ २५॥ ईश्वराङ्कितवृत्तीनां व्यथामाचरते स्वयम् । स चान्धकूपे पतति तदभिद्रोहयन्त्रिते ॥ २६॥ तत्रासौ जन्तुभिः क्रूरैः पशुभिर्मृगपक्षिभिः । सरीसृपैश्च मशकैर्यूकामत्कुणजातिभिः ॥ २७॥ मक्षिकाभिश्च तमसि दन्दशूकैश्च पीड्यते । परिक्रामति चैवात्र कुशरीरे च जन्तुवत् ॥ २८॥ यस्तु संविहितैः पञ्चयज्ञैः काकैश्च संस्तुतः । अश्नाति चासंविभज्य यत्किंञ्चिदुपपद्यते ॥ २९॥ स पापपुरुषः क्रूरैर्याम्यैश्च कृमिभोजने । नरकाधमके दुष्टकर्मणा परिपात्यते ॥ ३०॥ लक्षयोजनविस्तीर्णे कृमिकुण्डे भयङ्करे । कृमिरूपं समासाद्य भक्ष्यमाणश्च तैः स्वयम् ॥ ३१॥ अप्रत्ताप्रहुतादो यः पातमाप्नोति तत्र वै । यस्तु स्तेयेन च बलाद्धिरण्यं रत्नमेव च ॥ ३२॥ ब्राह्मणस्यापहरति अन्यस्यापि च कस्यचित् । अनापदि च देवर्षे तममुत्र यमानुगाः ॥ ३३॥ अयस्मयैरग्निपिण्डैः सदृशैर्नित्कुषन्ति च । योऽगम्यां योषितं गच्छेदगम्यं पुरुषं च या ॥ ३४॥ तावमुत्रापि कशया ताडयन्तो यमानुगाः । तिग्मया लोहमय्या च सूर्म्याप्यालिङ्गयन्ति तम् ॥ ३५॥ तां चापि योषितं सूर्म्यालिङ्गयन्ति यमानुगाः । यस्तु सर्वाभिगमनः पुरुषः पापसञ्चयी ॥ ३६॥ निरयेऽमुत्र तं याम्याः शाल्मलीं रोपयन्ति तम् । वज्रकण्टकसंयुक्तां शाल्मलीं तामयस्मयीम् ॥ ३७॥ राजन्या राजपुरुषा ये वा पाखण्डवर्तिनः । धर्मसेतुं विभिन्दन्ति ते परेत्य गता नराः ॥ ३८॥ वैतरण्यां पतन्त्येव भिन्नमर्यादपातकाः । नद्यां निरयदुर्गस्य परिखायां च नारद ॥ ३९॥ यादोगणैः समन्तात्तु भक्ष्यमाणा इतस्ततः । नात्मना वियुजन्त्येव नासुभिश्चापि नारद ॥ ४०॥ स्वीयेन कर्मपाकेनोपतपन्ति च सर्वतः । विण्मूत्रपूयरक्तैश्च केशास्थिनखमांसकैः ॥ ४१॥ मेदोवसासंयुतायां नद्यामुपपतन्ति ते । वृषलीपतयो ये च नष्टशौचा गतत्रपाः ॥ ४२॥ आचारनियमैस्त्यक्ताः पशुचर्यापरायणाः । तेऽत्रानुकष्टगतयो विण्मूत्रश्लेष्मरक्तकैः ॥ ४३॥ श्लेष्ममलसमापूर्णे निपतन्ति दुराग्रहाः । तदेव खादयन्त्येतान्यमानुचरवर्गकाः ॥ ४४॥ ये श्वानगर्दभादीनां पतयो वै द्विजातयः । मृगयारसिका नित्यमतीर्थे मृगघातकाः ॥ ४५॥ परेतांस्तान्यमभटा लक्षीभूतान्नराधमान् । इषुभिश्च विभिन्दन्ति तांस्तान्दुर्नयमागतान् ॥ ४६॥ ये दम्भा दम्भयज्ञेषु पशून्घ्नन्ति नराधमाः । तानमुष्मिन्यमभटा नरके वैशसे तदा ॥ ४७॥ निपात्य पीडयन्त्येव कशाघातैर्दुरासदैः । यो भार्यां च सवर्णां वै द्विजो मदनमोहितः ॥ ४८॥ रेतः पाययति मूढोऽमुत्र तं यमकिङ्कराः । रेतःकुण्डे पातयन्ति रेतः सम्पाययन्ति च ॥ ४९॥ ये दस्यवोऽग्निदाश्चैव गरदा सार्थघातकाः । ग्रामान्सार्थान्विलुम्पन्ति राजानो राजपूरुषाः ॥ ५०॥ तान्परेतान्यमभटा नयन्ति श्वानकादनम् । विंशत्यथिकसङ्ख्याताः सारमेया महाद्भुताः ॥ ५१॥ सप्तशत्या समाख्याता रभसं खादयन्ति ते । सारमेयादनं नाम नरकं दारुणं मुने । अतः परं प्रवक्ष्यामि अवीचिप्रभुखान्मुने ॥ ५२॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे नरकप्रदपातकवर्णनं नाम द्वाविंशोऽध्यायः ॥ ८.२२॥

८.२३ त्रयोविंशोऽध्यायः । अवशिष्टनरकवर्णनम् ।

श्रीनारायण उवाच । ये नराः सर्वदा साक्ष्ये अनृतं भाषयन्ति च । दाने विनिमयेऽर्थस्य देवर्षे पापबुद्धयः ॥ १॥ ते प्रेत्यामुत्र नरके अवीच्याख्येऽतिदारुणे । योजनानां शतोच्छ्रायाद्गिरिमूर्ध्नः पतन्ति हि ॥ २॥ अनाकाशेऽधःशिरसस्तदवीचीतिनामके । यत्र स्थलं दृश्यते च जलवद्वीचिसंयुतम् ॥ ३॥ अवीचिमत्ततस्तत्र तिलशश्छिन्नविग्रहः । म्रियते नैव देवर्षे पुनरेवाऽवरोप्यते ॥ ४॥ यो वा द्विजो वा राजन्यो वैश्यो वा ब्रह्मसम्भव । सोमपीथस्तत्कलत्रं सुरां वा पिबतीव हि ॥ ५॥ प्रमादतस्तु तेषां वै निरये परिपातनम् । कुर्वन्ति यमदूतास्ते पानं कार्ष्णायसो मुने ॥ ६॥ वह्निना द्रवमाणस्य नितरां ब्रह्मसम्भव । सम्भावनेन स्वस्यैव योऽधमोऽपि नराधमः ॥ ७॥ विद्याजन्मतपोवर्णाश्रमाचारवतो नरान् । वरीयसोऽपि न बहु मन्यते पुरुषाधमः ॥ ८॥ स नीयते यमभटैः क्षारकर्दमनामके । निरयेऽर्वाक्शिरा घोरा दुरन्तयातनाश्नुते ॥ ९॥ ये वै नरा यजन्त्यन्यं नरमेधेन मोहिताः । स्त्रियोऽपि वा नरपशुं खादन्त्यत्र महामुने ॥ १०॥ पशवो निहितास्ते तु यमसद्यनि सङ्गताः । सौनिका इव ते सर्वे विदार्य शितधारया ॥ ११॥ असृक्पिबन्ति नृत्यन्ति गायन्ति बहुधा मुने । यथेह मांसभोक्तारः पुरुषादा दुरासदाः ॥ १२॥ अनागसोऽपि येऽरण्ये ग्रामे वा ब्रह्मपुत्रक । वैश्रम्भकैरुपसृतान्विश्रम्भय्यजिजीविषून् ॥ १३॥ शूलसूत्रादिषु प्रोतान्क्रीडनोत्कारकानिव । पातयन्ति च ते प्रेत्य शूलपाते पतन्ति ह ॥ १४॥ शूलादिषु प्रोतदेहाः क्षुत्तृड्भ्यां चातिपीडिताः । तिग्मतुण्डैः कङ्कबकैरितश्चेतश्च ताडिताः ॥ १५॥ पीडिता आत्मशमलं बहुधा संस्मरन्ति हि । ये भूतानुद्वेजयन्ति नरा उल्बणवृत्तयः ॥ १६॥ यथा सर्पादिकास्तेऽपि नरके निपतन्ति हि । दन्दशूकाभिधाने च यत्रोत्तिष्ठन्ति सर्वतः ॥ १७॥ पञ्चाननः सप्तमुखा ग्रसन्ति नरकागतान् । यथा बिलेशया विप्र क्रूरबुद्धिसमन्विताः ॥ १८॥ येऽवटेषु कुसूलादिगुहादिषु निरुन्धते । तानमुत्रोद्यतकराः कीनाशपरिसेवकाः ॥ १९ तेष्वेवोपविशित्वा च सगरेण च वह्निना । धूमेन च निरुन्धन्ति पापकर्मरतान्नरान् ॥ २०॥ योऽतिथीन्समयप्राप्तान्दिधक्षुरिव चक्षुषा । पापेनेहालोकयेच्च स्वयं गृहपतिर्द्विजः ॥ २१॥ तस्यापि पापदृष्टेर्हि निरये यमकिङ्कराः । अक्षिणी वज्रतुण्डा ये कङ्काः काकवटादयः ॥ २२॥ गृध्राः क्रूरतराश्चापि प्रसह्योत्पाटयन्ति हि । य आढ्याभिमतिर्याति अहङ्कृत्यातिगर्वितः ॥ २३॥ तिर्यक्प्रेक्षण एवात्राभिविशङ्की नराधमः । चिन्तयार्थस्य सर्वत्रायतिव्ययस्वरूपया ॥ २४॥ शुष्यद्धृदयवक्त्रश्च निर्वृतिं नैव गच्छति । ग्रहवद्रक्षते चार्थं स प्रेतो यमकिङ्करैः ॥ २५॥ सूचीमुखे च नरके पात्यते निजकर्मणा । वित्तग्रहं च पुरुषं वायका इव याम्यकाः ॥ २६॥ किङ्कराः सर्वतोऽङ्गेषु सूत्रैः परिवयन्ति हि । एते बहुविधा विप्र नरकाः पापकर्मणाम् ॥ २७॥ नराणां शतशः सन्ति यातनास्थानभूमयः । सहस्रशोऽपि देवर्षे उक्तानुक्तांस्तथापि हि ॥ २८॥ विशन्ति नरकानेतान्यातनाबहुलान्मुने । तथा धर्मपराश्चापि लोकान्यान्ति सुखोद्गतान् ॥ २९॥ स्वधर्मो बहुधा गीतो यथा तव महामुने । देवीपूजनरूपो हि देव्याराधनलक्षणः ॥ ३०॥ येनानुष्ठितमात्रेण नरो न नरकं व्रजेत् । सा देवी भवपाथोधेरुद्धर्त्री पूजिता नृणाम् ॥ ३१॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे ऽवशिष्टनरकवर्णनं नाम त्रयोविंशोऽध्यायः ॥ ८.२३॥

८.२४ चतुर्विंशोऽध्यायः । देवीपूजनविधिनिरूपणम् ।

नारद उवाच । धर्मश्च कीदृशस्तात देव्याराधनलक्षणः । कथमाराधिता देवी सा ददाति परं पदम् ॥ १॥ आराधनविधिः को वा कथमाराधिता कदा । केन सा दुर्गनरकाद्दुर्गा त्राणप्रदा भवेत् ॥ २॥ श्रीनारायण उवाच । देवर्षे श‍ृणु चित्तैकाग्र्येण मे विदुषां वर । यथा प्रसीदते देवी धर्माराधनतः स्वयम् ॥ ३॥ स्वधर्मो यादृशः प्रोक्तस्तं च मे श‍ृणु नारद । अनादाविह संसारे देवी सश‍ृजिता स्वयम् ॥ ४॥ परिपालयते घोरसङ्कटादिषु सा मुने । सा देवी पूज्यते लोकैर्यथावत्तद्विधिं श‍ृणु ॥ ५॥ प्रतिपत्तिथिमासाद्य देवीमाज्येन पूजयेत् । घृतं दद्याद् ब्राह्मणाय रोगहीनो भवेत्सदा ॥ ६॥ द्वितीयायां शर्करया पूजयेज्जगदम्बिकाम् । शर्करां प्रददेद्विप्रे दीर्घायुर्जायते नरः ॥ ७॥ तृतीयादिवसे देव्यै दुग्धं पूजनकर्मणि । क्षीरं दत्त्वा द्विजाग्र्याय सर्वदुःखातिगो भवेत् ॥ ८॥ चतुर्थ्यां पूजनेऽपूपा देया देव्यै द्विजाय च । अपूपा एव दातव्या न विघ्नैरभिभूयते ॥ ९॥ पञ्चम्यां कदलीजातं फलं देव्यै निवेदयेत् । तदेव ब्राह्मणे देयं मेधावान्पुरुषो भवेत् ॥ १०॥ षष्ठीतिथौ मधु प्रोक्तं देवीपूजनकर्मणि । ब्राह्मणाय च दातव्यं मधु कान्तिर्यतो भवेत् ॥ ११॥ सप्तम्यां गुडनैवेद्यं देव्यै दत्त्वा द्विजाय च । गुडं दत्त्वा शोकहीनो जायते द्विजसत्तम ॥ १२॥ नारिकेलमथाष्टम्यां देव्यै नैवेद्यमर्पयेत् । ब्राह्मणाय प्रदातव्यं तापहीनो भवेन्नरः ॥ १३॥ नवम्यां लाजमम्बायै चार्पयित्वा द्विजाय च । दत्त्वा सुखाधिको भूयादिह लोके परत्र च ॥ १४॥ दशम्यामर्पयित्वा तु देव्यै कृष्णतिलान्मुने । ब्राह्मणाय प्रदत्त्वा तु यमलोकाद्भयं न हि ॥ १५॥ एकादश्यां दधि तथा देव्यै चार्पयते तु यः । ददाति ब्राह्मणायैतद्देवीप्रियतमो भवेत् ॥ १६॥ द्वादश्यां पृथुकान्देव्यै दत्त्वाचार्याय यो ददेत् । तानेव च मुनिश्रेष्ठ स देवीप्रियतां व्रजेत् ॥ १७॥ त्रयोदश्यां च दुर्गायै चणकान्प्रददाति च । तानेव दत्त्वा विप्राय प्रजासन्ततिमान्भवेत् ॥ १८॥ चतुर्दश्यां च देवर्षे देव्यै सक्तून्प्रयच्छति । तानेव दद्याद्विप्राय शिवस्य दयितो भवेत् ॥ १९॥ पायसं पूर्णिमातिथ्यामपर्णायै प्रयच्छति । ददाति च द्विजाग्र्याय पितृनुद्धरतेऽखिलान् ॥ २०॥ तत्तिथौ हवनं प्रोक्तं देवीप्रीत्यै महामुने । तत्तत्तिथ्युक्तवस्तूनामशेषारिष्टनाशनम् ॥ २१॥ रविवारे पायसं च नैवेद्यं परिकीर्तितम् । सोमवारे पयः प्रोक्तं भौमे च कदलीफलम् ॥ २२॥ बुधवारे च सम्प्रोक्तं नवनीतं नवं द्विज । गुरुवारे शर्करां च सितां भार्गववासरे ॥ २३॥ शनिवारे घृतं गव्यं नैवेद्यं परिकीर्तितम् । सप्तविंशतिनक्षत्रनैवेद्यं श्रूयतां मुने ॥ २४॥ घृतं तिलं शर्करां च दधि दुग्धं किलाटकम् । दथिकूर्ची मोदकं च फेणिकां घृतमण्डकम् ॥ २५॥ कंसारं वटपत्रं च घृतपूरमतः परम् । वटकं कोकरसकं पूरणं मधु सूरणम् ॥ २६॥ गुडं पृथुकद्राक्षे च खर्जूरं चैव चारकम् । अपूपं नवनीतं च मुद्गं मोदक एव च ॥ २७॥ मातुलिङ्गमिति प्रोक्तं भनैवेद्यं च नारद । विष्कम्भादिषु योगेषु प्रवक्ष्यामि निवेदनम् ॥ २८॥ पदार्थानां कृतेष्वेषु प्रीणाति जगदम्बिका । गुडं मधु घृतं दुग्धं दधि तक्रं त्वपूपकम् ॥ २९॥ नवनीतं कर्कटीं च कूष्माण्डं चापि मोदकम् । पनसं कदलं जम्बुफलमाम्रफलं तिलम् ॥ ३०॥ नारङ्गं दाडिमं चैव बदरीफलमेव च । धात्रीफलं पायसञ्च पृथुकं चणकं तथा ॥ ३१॥ नारिकेलं जम्भफलं कसेरुं सूरणं तथा । एतानि क्रमशो विप्र नैवेद्यानि शुभानि च ॥ ३२॥ विष्कम्भादिषु योगेषु निर्णीतानि मनीषिभिः । अथ नैवेद्यमाख्यास्ये करणानां पृथङ्मुने ॥ ३३॥ कंसारं मण्डकं फेणी मोदकं वटपत्रकम् । लड्डुकं घृतपूरं च तिलं दधि घृतं मधु ॥ ३४॥ करणानामिदं प्रोक्तं देवीनैवेद्यमादरात् । अथान्यत्सम्प्रवक्ष्यामि देवीप्रीतिकरं परम् ॥ ३५॥ विधानं नारदमुने श‍ृणु तत्सर्वमादृतः । चैत्रशुद्धतृतीयायां नरो मधुकवृक्षकम् ॥ ३६॥ पूजयेत्पञ्च खाद्यं च नैवेद्यमुपकल्पयेत् । एवं द्वादशमासेषु तृतीयातिथिषु क्रमात् ॥ ३७॥ शुक्लपक्षे विधानेन नैवेद्यमभिदध्महे । वैशाखमासे नैवेद्यं गुडयुक्तं च नारद ॥ ३८॥ ज्येष्ठमासे मधु प्रोक्तं देवीप्रीत्यर्थमेव तु । आषाढे नवनीतं च मधुकस्य निवेदनम् ॥ ३९॥ श्रावणे दधि नैवेद्यं भाद्रमासे च शर्करा । आश्विने पायसं प्रोक्तं कार्तिके पय उत्तमम् ॥ ४०॥ मार्गे फेण्युत्तमा प्रोक्ता पौषे च दधिकूर्चिका । माघे मासि च नैवेद्यं मृतं गव्यं समाहरेत् ॥ ४१॥ नारिकेलं च नैवेद्यं फाल्गुने परिकीर्तितम् । एवं द्वादशनैवेद्यैर्मासे च क्रमतोऽर्चयेत् ॥ ४२॥ मङ्गला वैष्णवी माया कालरात्रिर्दुरत्यया । महामाया मतङ्गी च काली कमलवासिनी ॥ ४३॥ शिवा सहस्रचरणा सर्वमङ्गलरूपिणी । एभिर्नामपदैर्देवीं मधूके परिपूजयेत् ॥ ४४॥ ततः स्तुवीत देवेशीं मधूकस्थां महेश्वरीम् । सर्वकामसमृद्ध्यर्थं व्रतपूर्णत्वसिद्धये ॥ ४५॥ नमः पुष्करनेत्रायै जगद्धात्र्यै नमोऽस्तु ते । माहेश्वर्यं महादेव्यै महामङ्गलमूर्तये ॥ ४६॥ परमा पापहन्त्री च परमार्गप्रदायिनी । परमेश्वरी प्रजोत्पत्तिः परब्रह्मस्वरूपिणी ॥ ४७॥ मददात्री मदोन्मत्ता मानगम्या महोन्नता । मनस्विनी मुनिध्येया मार्तण्डसहचारिणी ॥ ४८॥ जय लोकेश्वरि प्राज्ञे प्रलयाम्बुदसन्निभे । महामोहविनाशार्थं पूजितासि सुरासुरैः ॥ ४९॥ यमलोकाभावकर्त्री यमपूज्या यमाग्रजा । यमनिग्रहरूपा च यजनीये नमो नमः ॥ ५०॥ समस्वभावा सर्वेशी सर्वसङ्गविवर्जिता । सङ्गनाशकरी काम्यरूपा कारुण्यविग्रहा ॥ ५१॥ कङ्कालक्रूरा कामाक्षी मीनाक्षी मर्मभेदिनी । माधुर्यरूपशीला च मधुरस्वरपूजिता ॥ ५२॥ महामन्त्रवती मन्त्रगम्या मन्त्रप्रियङ्करी । मनुष्यमानसगमा मन्मथारिप्रियङ्करी ॥ ५३॥ अश्वत्थवटनिम्बाम्रकपित्थबदरीगते । पनसार्ककरीरादिक्षीरवृक्षस्वरूपिणी ॥ ५४॥ दुग्धवल्लीनिवासार्हे दयनीये दयाधिके । दाक्षिण्यकरुणारूपे जय सर्वज्ञवल्लभे ॥ ५५॥ एवं स्तवेन देवेशीं पूजनान्ते स्तुवीत ताम् । व्रतस्य सकलं पुण्यं लभते सर्वदा नरः ॥ ५६॥ नित्यं यः पठते स्तोत्रं देवीप्रीतिकरं नरः । आधिव्याधिभयं नास्ति रिपुभीतिर्न तस्य हि ॥ ५७॥ अर्थार्थी चार्थमाप्नोति धर्मार्थी धर्ममाप्नुयात् । कामानवाप्नुयात्कामी मोक्षार्थी मोक्षमाजप्नुयात् ॥ ५८॥ ब्राह्मणो वेदसम्पनो विजयी क्षत्रियो भवेत् । वैश्यश्च धनधान्याढ्यो भवेच्छूद्रः सुखाधिकः ॥ ५९॥ स्तोत्रमेतच्छ्राद्धकाले यः पठेत्प्रयतो नरः । पितॄणामक्षया तृप्तिर्जायते कल्पवर्तिनी ॥ ६०॥ एवमाराधनं देव्याः समुक्तं सुरपूजितम् । यः करोति नरो भक्त्या स देवीलोकभाग्भवेत् ॥ ६१॥ देवीपूजनतो विप्र सर्वे कामा भवन्ति हि । सर्वपापहतिः शुद्धा मतिरन्ते प्रजायते ॥ ६२॥ यत्र तत्र भवेत्पूज्यो मान्यो मानधनेषु च । जायते जगदम्बायाः प्रसादेन विरञ्चिज ॥ ६३॥ नरकाणां न तस्यास्ति भयं स्वप्नेऽपि कुत्रचित् । महामायाप्रसादेन पुत्रपौत्रादिवर्धनः ॥ ६४॥ देवीभक्तो भवत्येव नात्र कार्या विचारणा । इत्येवं ते समाख्यातं नरकोद्धारलक्षणम् ॥ ६५॥ पूजनं हि महादेव्याः सर्वमङ्गलकारकम् । मधूकपूजनं तद्वन्मासानां क्रमतो मुने ॥ ६६॥ सर्वं समाचरेद्यस्तु पूजनं मधुकाह्वयम् । न तस्य रोगबाधादिभयमुद्भवतेऽनघ ॥ ६७॥ अथान्यदपि वक्ष्यामि प्रकृतेः पञ्चकं परम् । नाम्ना रूपेण चोत्पत्त्या जगदानन्ददायकम् ॥ ६८॥ साख्यानं च समाहात्म्यं प्रकृतेः पञ्चकं मुने । कुतूहलकर चैव श‍ृणु मुक्तिविधायकम् ॥ ६९॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे देवीपूजनविधिनिरूपणं नाम चतुर्विंशोऽध्यायः ॥ ८.२४॥ ॥ इति श्रीमद्देवीभागवते महापुराणे अष्टमस्कन्धः समाप्तः ॥ Encoded and proofread by Vishwas Bhide
% Text title            : Devi Bhagavata Mahapurana Skandha 08
% File name             : devIbhAgavatam08.itx
% itxtitle              : devIbhAgavatamahApurANam skandhaH 08
% engtitle              : devIbhAgavatamahApurANam skandhaH 08
% Category              : purana, devI, devii, devibhagavatam
% Location              : doc_purana
% Sublocation           : purana
% SubDeity              : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Vishwas Bhide, satsangdhara.net
% Proofread by          : Vishwas Bhide, satsangdhara.net
% Indexextra            : (Scans 1, 2, 3, vyAkhyA 1, 2, 3, Hindi 1, 2, 3, 4, 4, Marathi, Marathi audio, English 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, Tamil, Telugu 1, Bengali, Audio, Info)
% Latest update         : March 30, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org