८ श्रीमद्देवीभागवतमहापुराणे अष्टमः स्कन्धः
८.१ प्रथमोऽध्यायः । भुवनकोशप्रसङ्गे देव्या मनवे वरदानवर्णनम् ।
जनमेजय उवाच ।
सूर्यचन्द्रान्वयोत्थानां नृपाणां सत्कथाश्रितम् ।
चरितं भवता प्रोक्तं श्रुतं तदमृतास्पदम् ॥ १॥
अधुना श्रोतुमिच्छामि सा देवी जगदम्बिका ।
मन्वन्तरेषु सर्वेषु यद्यद्रूपेण पूज्यते ॥ २॥
यस्मिन्यस्मिंश्च वै स्थाने येन येन च कर्मणा ।
(शरीरेण च देवेशी पूजनीया फलप्रदा ।
येनैव मन्त्रबीजेन यत्र यत्र च पूज्यते ॥)
देव्या विराट्स्वरूपस्य वर्णनं च यथातथम् ॥ ३॥
येन ध्यानेन तत्सूक्ष्मे स्वरूपे स्यान्मतेर्गतिः ।
तत्सर्वं वद विप्रर्षे येन श्रेयोऽहमाप्नुयाम् ॥ ४॥
व्यास उवाच ।
शृणु राजन् प्रवक्ष्यामि देव्याराधनमुत्तमम् ।
यत्कृतेन श्रुतेनापि नरः श्रेयोऽत्र विन्दते ॥ ५॥
एवमेतन्नारदेन पृष्टो नारायणः पुरा ।
तस्मै यदुक्तवान्देवो योगचर्याप्रवर्तकः ॥ ६॥
एकदा नारदः श्रीमान्पर्यटन्पृथिवीमिमाम् ।
नारायणाश्रमं प्राप्तो गतखेदश्च तस्थिवान् ॥ ७॥
तस्मै योगात्मने नत्वा ब्रह्मदेवतनूद्भवः ।
पर्यपृच्छदिमं चार्थं यत्पृष्टो भवतानघ ॥ ८॥
नारद उवाच ।
देवदेव महादेव पुराणपुरुषोत्तम ।
जगदाधार सर्वज्ञ श्लाघनीयोरुसद्गुण ॥ ९॥
जगतस्तत्त्वमाद्यं यत्तन्मे वद यथेप्सितम् ।
जायते कुत एवेदं कुतश्चेदं प्रतिष्ठितम् ॥ १०॥
कुतोऽन्तं प्राप्नुयात्काले कुत्र सर्वफलोदयः ।
केन ज्ञातेन मायैषा मोहभूर्नाशमाप्नुयात् ॥ ११॥
कयार्चया किं जपेन किं ध्यानेनात्महृत्कजे ।
प्रकाशो जायते देव तमस्यर्कोदयो यथा ॥ १२॥
एतत्प्रश्नोत्तरं देव ब्रूहि सर्वमशेषतः ।
यथा लोकस्तरेदन्धतमसं त्वञ्जसैव हि ॥ १३॥
व्यास उवाच ।
एवं देवर्षिणा पृष्टः प्राचीनो मुनिसत्तमः ।
नारायणो महायोगी प्रतिनन्द्य वचोऽब्रवीत् ॥ १४॥
श्रीनारायण उवाच ।
शृणु देवर्षिवर्यात्र जगतस्तत्त्वमुत्तमम् ।
येन ज्ञातेन मर्त्यो हि जायते न जगद्भ्रमे ॥ १५॥
जगतस्तत्त्वमित्येव देवी प्रोक्ता मयापि हि ।
ऋषिभिर्देवगन्धर्वैरन्यैश्चापि मनीषिभिः ॥ १६॥
सा जगत्सृजते देवी तया च प्रतिपाल्यते ।
तया च नाश्यते सर्वमिति प्रोक्तं गुणत्रयात् ॥ १७॥
तस्याः स्वरूपं वक्ष्यामि देव्याः सिद्धर्षिपूजितम् ।
स्मरतां सर्वपापघ्नं कामदं मोक्षदं तथा ॥ १८॥
मनुः स्वायम्भुवस्त्वाद्यः पद्मपुत्रः प्रतापवान् ।
शतरूपापतिः श्रीमान्सर्वमन्वन्तराधिपः ॥ १९॥
स मनुः पितरं देवं प्रजापतिमकल्मषम् ।
भक्त्या पर्यचरत्पूर्वं तमुवाचात्मभूः सुतम् ॥ २०॥
पुत्र पुत्र त्वया कार्यं देव्याराधनमुत्तमम् ।
तत्प्रसादेन ते तात प्रजासर्गः प्रसिद्ध्यति ॥ २१॥
एवमुक्तः प्रजास्रष्ट्रा मनुः स्वायम्भुवो विराट् ।
जगद्योनिं तदा देवीं तपसातर्पयद् विभुः ॥ २२॥
तुष्टाव देवीं देवेशीं समाहितमतिः किल ।
आद्यां मायां सर्वशक्तिं सर्वकारणकारणाम् ॥ २३॥
मनुरुवाच ।
नमो नमस्ते देवेशि जगत्कारणकारणे ।
शङ्खचक्रगदाहस्ते नारायणहृदाश्रिते ॥ २४॥
वेदमूर्त्ते जगन्मातः कारणस्थानरूपिणि ।
वेदत्रयप्रमाणज्ञे सर्वदेवनुते शिवे ॥ २५॥
माहेश्वरि महाभागे महामाये महोदये ।
महादेवप्रियावासे महादेवप्रियङ्करि ॥ २६॥
गोपेन्द्रस्य प्रिये ज्येष्ठे महानन्दे महोत्सवे ।
महामारीभयहरे नमो देवादिपूजिते ॥ २७॥
सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके ।
शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ॥ २८॥
यतश्चेदं यया विश्वमोतं प्रोतं च सर्वदा ।
चैतन्यमेकमाद्यन्तरहितं तेजसां निधिम् ॥ २९॥
ब्रह्मा यदीक्षणात्सर्वं करोति च हरिः सदा ।
पालयत्यपि विश्वेशः संहर्ता यदनुग्रहात् ॥ ३०॥
मधुकैटभसम्भूतभयार्तः पद्मसम्भवः ।
यस्याः स्तवेन मुमुचे घोरदैत्यभवाम्बुधेः ॥ ३१॥
त्वं ह्रीः कीर्तिः स्मृतिः कान्तिः कमला गिरिजा सती ।
दाक्षायणी वेदगर्भा सिद्धिदात्री सदाभया ॥ ३२॥
स्तोष्ये त्वां च नमस्यामि पूजयामि जपामि च ।
ध्यायामि भावये वीक्षे श्रोष्ये देवि प्रसीद मे ॥ ३३॥
ब्रह्मा वेदनिधिः कृष्णो लक्ष्यावासः पुरन्दरः ।
त्रिलोकाधिपतिः पाशी यादसाम्पतिरुत्तमः ॥ ३४॥
कुबेरो निधिनाथोऽभूद्यमो जातः परेतराट् ।
नैरृतो रक्षसां नाथः सोमो जातो ह्यपोमयः ॥ ३५॥
त्रिलोकवन्द्ये लोकेशि महामाङ्गल्यरूपिणि ।
नमस्तेऽस्तु पुनर्भूयो जगन्मातर्नमो नमः ॥ ३६॥
श्रीनारायण उवाच ।
एवं स्तुता भगवती दुर्गा नारायणी परा ।
प्रसन्ना प्राह देवर्षे ब्रह्मपुत्रमिदं वचः ॥ ३७॥
देव्युवाच ।
वरं वरय राजेन्द्र ब्रह्मपुत्र यदिच्छसि ।
प्रसन्नाहं स्तवेनात्र भक्त्या चाराधनेन च ॥ ३८॥
मनुरुवाच ।
यदि देवि प्रसन्नासि भक्त्या कारुणिकोत्तमे ।
तदा निर्विघ्नतः सृष्टिः प्रजायाः स्यात्तवाज्ञया ॥ ३९॥
देव्युवाच ।
प्रजासर्गः प्रभवतु ममानुग्रहतः किल ।
निर्विघ्नेन च राजेन्द्र वृद्धिश्चाप्युत्तरोत्तरम् ॥ ४०॥
यः कश्चित्पठते स्तोत्रं मद्भक्त्या त्वत्कृतं सदा ।
तेषां विद्या प्रजासिद्धिः कीर्तिः कान्त्युदयः खलु ॥ ४१॥
जायन्ते धनधान्यानि शक्तिरप्रहता नृणाम् ।
सर्वत्र विजयो राजन् सुखं शत्रुपरिक्षयः ॥ ४२॥
श्रीनारायण उवाच ।
एवं दत्त्वा वरान् देवी मनवे ब्रह्मसूनवे ।
अन्तर्धानं गता चासीत्पश्यतस्तस्य धीमतः ॥ ४३॥
अथ लब्धवरो राजा ब्रह्मपुत्रः प्रतापवान् ।
ब्रह्माणमब्रवीत्तात स्थानं मे दीयतां रहः ॥ ४४॥
यत्राहं समधिष्ठाय प्रजाः स्रक्ष्यामि पुष्कलाः ।
यक्ष्यामि यज्ञैर्देवेशं तत्समादिश माचिरम् ॥ ४५॥
इति पुत्रवचः श्रुत्वा प्रजापतिपतिर्विभुः ।
चिन्तयामास सुचिरं कथं कार्यं भवेदिदम् ॥ ४६॥
सृजतो मे गतः कालो विपुलोऽनन्तसङ्ख्यकः ।
धरा वार्भिः स्तुता मग्ना रसं याताखिलाश्रया ॥ ४७॥
इदं मच्चिन्तितं कार्यं भगवानादिपूरुषः ।
करिष्यति सहायो मे यदादेशेऽहमाश्रितः ॥ ४८॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायामष्टमस्कन्धे भुवनकोशप्रसङ्गे
देव्या मनवे वरदानवर्णनं नाम प्रधमोऽध्यायः ॥ ८.१॥
८.२ द्वितीयोऽध्यायः । धरण्युद्धारवर्णनम् ।
श्रीनारायण उवाच ।
एवं मीमांसतस्तस्य पद्मयोनेः परन्तप ।
मन्वादिभिर्मुनिवरैर्मरीच्याद्यैः समन्ततः ॥ १॥
ध्यायतस्तस्य नासाग्राद्विरञ्चेः सहसानघ ।
वराहपोतो निरगादेकाङ्गुलप्रमाणतः ॥ २॥
तस्यैव पश्यतः खस्थः क्षणेन किल नारद ।
करिमात्रं प्रववृधे तदद्भुततमं ह्यभूत् ॥ ३॥
मरीचिमुख्यैर्विप्रेन्द्रैः सनकाद्यैश्च नारद ।
तद् दृष्ट्वा सौकरं रूपं तर्कयामास पद्मभूः ॥ ४॥
किमेतत्सौकरव्याजं दिव्यं सत्त्वमवस्थितम् ।
अत्याश्चर्यमिदं जातं नासिकाया विनिःसृतम् ॥ ५॥
दृष्टोऽङ्गुष्ठशिरोमात्रः क्षणाच्छैलेन्द्रसन्तिभः ।
आहोस्विद्भगवान्किं वा यज्ञो मे खेदयन्मनः ॥ ६॥
इति तर्कयतस्तस्य ब्रह्मणः परमात्मनः ।
वराहरूपो भगवाञ्जगर्जाचलसन्निभः ॥ ७॥
विरञ्चिं हर्षयामास संहतांश्च द्विजोत्तमान् ।
स्वगर्जशब्दमात्रेण दिक्प्रान्तमनुनादयन् ॥ ८॥
ते निशम्य स्वखेदस्य क्षयितुं घुर्घुरस्वनम् ।
जनस्तपःसत्यलोकवासिनोऽमरवर्यकाः ॥ ९॥
छन्दोमयैः स्तोत्रवरैरृक्सामाथर्वसम्भवैः ।
वचोभिः पुरुषं त्वाद्यं द्विजेन्द्राः पर्यवाकिरन् ॥ १०॥
तेषां स्तोत्रं निशम्याद्यो भगवान् हरिरीश्वरः ।
कृपावलोकमात्रेणानुगृहीत्वाऽऽप आविशत् ॥ ११॥
तस्यान्तर्विशतः क्रूरसटाघातप्रपीडितः ।
समुद्रोऽथाब्रवीद्देव रक्ष मां शरणार्तिहन् ॥ १२॥
इत्याकर्ण्य समुद्रोक्तं वचनं हरिरीश्वरः ।
विदारयञ्जलचराञ्जगामान्तर्जले विभुः ॥ १३॥
इतस्ततोऽभिधावन्सन् विचिन्वन्पृथिवीं धराम् ।
आघ्रायाघ्राय सर्वेशो धरामासादयच्छनैः ॥ १४॥
अन्तर्जलगतां भूमिं सर्वसत्त्वाश्रयां तदा ।
भूमिं स देवदेवेशो दंष्ट्रयोदाजहार ताम् ॥ १५॥
तां समुद्धृत्य दंष्ट्राग्रे यज्ञेशो यज्ञपूरूषः ।
शुशुभे दिग्गजो यद्वदुद्धृत्याथ सुपद्मीनीम् ॥ १६॥
तं दृष्ट्वा देवदेवेशो विरञ्चिः समनुः स्वराट् ।
तुष्टाव वाग्भिर्देवेशं दंष्ट्रोद्धतवसुन्धरम् ॥ १७॥
ब्रह्मोवाच ।
जितं ते पुण्डरीकाक्ष भक्तानामार्तिनाशन ।
खर्वीकृतसुराधार सर्वकामफलप्रद ॥ १८॥
इयं च धरणी देव शोभते वसुधा तव ।
पद्मिनीव सुपत्राढ्या मतङ्गजकरोद्धृता ॥ १९॥
इदं च ते शरीरं वै शोभते भूमिसङ्गमात् ।
उद्धृताम्बुजशुण्डाग्रकरीन्द्रतनुसन्निभम् ॥ २०॥
नमो नमस्ते देवेश सृष्टिसंहारकारक ।
दानवानां विनाशाय कृतनानाकृते प्रभो ॥ २१॥
अग्रतश्च नमस्तेऽस्तु पृष्ठतश्च नमो नमः ।
सर्वामराधारभूत बृहद्धाम नमोऽस्तु ते ॥ २२॥
त्वयाहं च प्रजासर्गे नियुक्तः शक्तिबृंहितः ।
त्वदाज्ञावशतः सर्गं करोमि विकरोमि च ॥ २३॥
त्वत्सहायेन देवेशा अमराश्च पुरा हरे ।
सुधां विभेजिरे सर्वे यथाकालं यथाबलम् ॥ २४॥
इन्द्रस्त्रिलोकीसाम्राज्यं लब्धवांस्तन्निदेशतः ।
भुनक्ति लक्ष्मीं बहुलां सुरसङ्घप्रपूजितः ॥ २५॥
वह्निः पावकतां लब्ध्वा जाठरादिविभेदतः ।
देवासुरमनुष्याणां करोत्याप्यायनं तथा ॥ २६॥
धर्मराजोऽथ पितॄणामधिपः सर्वकर्मदृक् ।
कर्मणां फलदातासौ त्वन्नियोगादधीश्वरः ॥ २७॥
नैरृतो रक्षसामीशो यक्षो विघ्नविनाशनः ।
सर्वेषां प्राणिनां कर्मसाक्षी त्वत्तः प्रजायते ॥ २८॥
वरुणो यादसामीशो लोकपालो जलाधिपः ।
त्वदाज्ञाबलमाश्रित्य लोकपालत्वमागतः ॥ २९॥
वायुर्गन्धवहः सर्वभूतप्राणनकारणम् ।
जातस्तव निदेशेन लोकपालो जगद्गुरुः ॥ ३०॥
कुबेरः किन्नरादीनां यक्षाणां जीवनाश्रयः ।
त्वदाज्ञान्तर्गतः सर्वलोकपेषु च मान्यभूः ॥ ३१॥
ईशानः सर्वरुद्राणामीश्वरान्तकरः प्रभुः ।
जातो लोकेशवन्द्योऽसौ सर्वदेवाधिपालकः ॥ ३२॥
नमस्तुभ्यं भगवते जगदीशाय कुर्महे ।
यस्यांशभागाः सर्वे हि जाता देवाः सहस्रशः ॥ ३३॥
नारद उवाच ।
एवं स्तुतो विश्वसृजा भगवानादिपूरुषः ।
लीलावलोकमात्रेणाप्यनुग्रहमवासृजत् ॥ ३४॥
तत्रैवाभ्यागतं दैत्यं हिरण्याक्षं महासुरम् ।
रुन्धानमध्वनो भीमं गदयाताडयद्धरिः ॥ ३५॥
तद्रक्तपङ्कदिग्धाङ्गो भगवानादिपूरुषः ।
उद्धृत्य धरणीं देवो दंष्ट्रया लीलयाप्सु ताम् ॥ ३६॥
निवेश्य लोकनाथेशो जगाम स्थानमात्मनः ।
एतद्भगवतश्चित्रं धरण्युद्धरणं परम् ॥ ३७॥
शृणुयाद्यः पुमान् यश्च पठेच्चरितमुत्तमम् ।
सर्वपापविनिर्मुक्तो वैष्णवीं गतिमाप्नुयात् ॥ ३८॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायामष्टमस्कन्धे धरण्युद्धारवर्णनं नाम द्वितीयोऽध्यायः ॥ ८.२॥
८.३ तृतीयोऽध्यायः । भुवनकोशविस्तारे स्वायम्भुवमनुवंशकीर्तनम् ।
श्रीनारायण उवाच ।
महीं देवः प्रतिष्ठाप्य यथास्थाने च नारद ।
वैकुण्ठलोकमगमद् ब्रह्मोवाच स्वमात्मजम् ॥ १॥
स्वायम्भूव महाबाहो पुत्र तेजस्विनांवर ।
स्थाने महीमये तिष्ठ प्रजाः सृज यथोचितम् ॥ २॥
देशकालविभागेन यज्ञेशं पुरुषं यज ।
उच्चावचपदार्थैश्च यज्ञसाधनकैर्विभो ॥ ३॥
धर्ममाचर शास्त्रोक्तं वर्णाश्रमनिबन्धनम् ।
एतेन क्रमयोगेन प्रजावृद्धिर्भविष्यति ॥ ४॥
पुत्रानुत्पाद्य गुणतः कीर्त्या कान्त्यात्मरूपिणः ।
विद्याविनयसम्पन्नान् सदाचारवतां वरान् ॥ ५॥
कन्याश्च दत्त्वा गुणवद्यशोवद्भ्यः समाहितः ।
मनः सम्यक् समाधाय प्रधानपुरुषे परे ॥ ६॥
भक्तिसाधनयोगेन भगवत्परिचर्यया ।
गतिमिष्टां सदा वन्द्यां योगिनां गमिता भवान् ॥ ७॥
इत्याश्वास्य मनुं पुत्र पद्मयोनिः प्रजापतिः ।
प्रजासर्गे नियम्यामुं स्वधाम प्रत्यपद्यत ॥ ८॥
प्रजाः सृजत पुत्रेति पितुराज्ञां समादधत् ।
स्वायम्भुवः प्रजासर्गमकरोत्पृथिवीपतिः ॥ ९॥
प्रियव्रतोत्तानपादौ मनुपुत्रौ महौजसौ ।
कन्यास्तिस्रः प्रसूताश्च तासां नामानि मे शृणु ॥ १०
आकूतिः प्रथमा कन्या द्वितीया देवहूतिका ।
तृतीया च प्रसूतिर्हि विख्याता लोकपावनी ॥ ११
आकूतिं रुचये प्रादात्कर्दमाय च मध्यमाम् ।
दक्षायादात्प्रसूतिं च यासां लोक इमाः प्रजाः ॥ १२
रुचेः प्रजज्ञे भगवान् यज्ञो नामादिपूरुषः ।
आकूत्यां देवहूत्यां च कपिलोऽसौ च कर्दमात् ॥ १३
साङ्ख्याचार्यः सर्वलोके विख्यातः कपिलो विभुः ।
दक्षात्प्रसूत्यां कन्याश्च बहुशो जज्ञिरे प्रजाः ॥ १४
यासां सन्तानसम्भूता देवतिर्यङ्नरादयः ।
प्रसूता लोकविख्याता सर्वे सर्गप्रवर्तकाः ॥ १५
यज्ञश्च भगवान् स्वायम्भुवमन्वन्तरे विभुः ।
मनुं ररक्ष रक्षोभ्यो यामैर्देवगणैर्वृतः ॥ १६
कपिलोऽपि महायोगी भगवान् स्वाश्रमे स्थितः ।
देवहूत्यै परं ज्ञानं सर्वाविद्यानिवर्तकम् ॥ १७
सविशेषं ध्यानयोगमध्यात्मज्ञाननिश्चयम् ।
कापिलं शास्त्रमाख्यातं सर्वाज्ञानविनाशनम् ॥ १८
उपदिश्य महायोगी स ययौ पुलहाश्रमम् ।
अद्यापि वर्तते देवः साङ्ख्याचार्यो महाशयः ॥ १९
यन्नामस्मरणेनापि साङ्ख्ययोगश्च सिद्ध्यति ।
तं वन्दे कपिलं योगाचार्यं सर्ववरप्रदम् ॥ २०
एवमुक्तं मनोः कन्यावंशवर्णनमुत्तमम् ।
पठतां शृण्वतां चापि सर्वपापविनाशनम् ॥ २१
अतः परं प्रवक्ष्यामि मनुपुत्रान्वयं शुभम् ।
यदाकर्णनमात्रेण परं पदमवाप्नुयात् ॥ २२
द्वीपवर्षसमुद्रादिव्यवस्था यत्सुतैः कृता ।
व्यवहारप्रसिद्ध्यर्थं सर्वभूतसुखाप्तये ॥ २३
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे
भुवनकोशविस्तारे स्वायम्भुवमनुवंशकीर्तनं नाम तृतीयोऽध्यायः ॥ ८.३॥
चतुऽर्थोऽध्यायः । भुवनकोशविषये प्रियव्रतवंशवर्णनम् ।
श्रीनारायण उवाच ।
मनोः स्वायम्भुवस्यासीज्ज्येष्ठः पुत्रः प्रियव्रतः ।
पितुः सेवापरो नित्यं सत्यधर्मपरायणः ॥ १॥
प्रजापतेर्दुहितरं सुरूपां विश्वकर्मणः ।
बर्हिष्मतीं चोपयेमे समानां शीलकर्मभिः ॥ २॥
तस्यां पुत्रान्दश गुणैरन्वितान्भावितात्मनः ।
जनयामास कन्यां चोर्जस्वतीं च यवीयसीम् ॥ ३॥
आग्नीध्रश्चेध्मजिह्वश्च यज्ञबाहुस्तृतीयकः ।
महावीरश्चतुर्थस्तु पञ्चमो रुक्मशुक्रकः ॥ ४॥
घृतपृष्ठश्च सवनो मेधातिथिरथाष्टमः ।
वीतिहोत्रः कविश्चेति दशैते वह्निनामकाः ॥ ५॥
एतेषां दशपुत्राणां त्रयोऽप्यासन्विरागिणः ।
कविश्च सवनश्चैव महावीर इति त्रयः ॥ ६॥
आत्मविद्यापरिष्णाताः सर्वे ते ह्यूर्ध्वरेतसः ।
आश्रमे परहंसाख्ये निःस्पृहा ह्यभवन्मुदाः ॥ ७॥
अपरस्यां च जायायां त्रयः पुत्राश्च जज्ञिरे ।
उत्तमस्तामसश्चैव रैवतश्चेति विश्रुताः ॥ ८॥
मन्वन्तराधिपतय एते पुत्रा महौजसः ।
प्रियव्रतः स राजेन्द्रो बुभुजे जगतीमिमाम् ॥ ९॥
एकादशार्बुदाब्दानामव्याहतबलेन्द्रियः ।
यदा सूर्यः पृथिव्याश्च विभागे प्रथमेऽतपत् ॥ १०॥
भागे द्वितीये तत्रासीदन्धकारोदयः किल ।
एवं व्यतिकरं राजा विलोक्य मनसा चिरम् ॥ ११॥
प्रशास्ति मयि भूम्यां च तमः प्रादुर्भवेत्कथम् ।
एवं निवारयिष्यामि भूमौ योगबलेन च ॥ १२॥
एवं व्यवसितो राजा पुत्रः स्वायम्भुवस्य सः ।
रथेनादित्यवर्णेन सप्तकृत्वः प्रकाशयन् ॥ १३॥
तस्यापि गच्छतो राज्ञो भूमौ यद्रथनेमयः ।
पतितास्ते समुद्राख्यां भेजिरे लोकहेतवे ॥ १४॥
जाताः प्रदेशास्ते सप्त द्वीपा भूमौ विभागशः ।
रथनेमिसमुत्थास्ते परिखाः सप्त सिन्धवः ॥ १५॥
यत आसंस्ततः सप्त भुवो द्वीपा हि ते स्मृताः ।
जम्बुद्वीपः प्लक्षद्वीपः शाल्मलीद्वीपसंज्ञकः ॥ १६॥
कुशद्वीपः क्रौञ्चद्वीपः शाकद्वीपश्च पुष्करः ।
तेषां च परिमाणं तु द्विगुणं चोत्तरोत्तरम् ॥ १७॥
समन्ततश्चोपक्लृप्तं बहिर्भागक्रमेण च ।
क्षारोदेक्षुरसोदौ च सुरोदश्च घृतोदकः ॥ १८॥
क्षीरोदो दधिमण्डोदः शुद्धोदश्चेति ते स्मृताः ।
सप्तैते प्रतिविख्याताः पृथिव्यां सिन्धवस्तदा ॥ १९॥
प्रथमो जम्बुद्वीपाख्यो यः क्षारोदेन वेष्टितः ।
तत्पतिं विदधे राजा पुत्रमाग्नीध्रसंज्ञकम् ॥ २०॥
प्लक्षद्वीपे द्वितीयेऽस्मिन्द्वीपेक्षुरससम्प्लुते ।
जातस्तदधिपः प्रैयव्रत इध्मादिजिह्वकः ॥ २१॥
शाल्मलीद्वीप एतस्मिन्सुरोदधिपरिप्लुते ।
यज्ञबाहुं तदधिपं करोति स्म प्रियव्रतः ॥ २२॥
कुशद्वीपेऽतिरम्ये च घृतोदेनोपवेष्टिते ।
हिरण्यरेता राजाभूत्प्रियव्रततनूजनिः ॥ २३॥
क्रौञ्चद्वीपे पञ्चमे तु क्षीरोदपरिसम्प्लुते ।
प्रैयव्रतो घृतपृष्ठः पतिरासीन्महाबलः ॥ २४॥
शाकद्वीपे चारुतरे दधिमण्डोदसङ्कुले ।
मेधातिथिरभूद्राजा प्रियव्रतसुतो वरः ॥ २५॥
पुष्करद्वीपके शुद्धोदकसिन्धुसमाकुले ।
वीतिहोत्रो बभूवासौ राजा जनकसम्मतः ॥ २६॥
कन्यामूर्जस्वतीनाम्नीं ददावुशनसे विभुः ।
आसीत्तस्यां देवयानी कन्या काव्यस्य विश्रुता ॥ २७॥
एवं विभज्य पुत्रेभ्यः सप्तद्वीपान् प्रियव्रतः ।
विवेकवशगो भूत्वा योगमार्गाश्रितोऽभवत् ॥ २८॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे
भुवनकोशविषये प्रियव्रतवंशवर्णनं नाम चतुर्थेऽध्यायः ॥ ८.४॥
८.५ पञ्चमोऽध्यायः । भुवनलोकवर्णने द्वीपवर्षविभेदवर्णनम् ।
श्रीनारायण उवाच ।
देवर्षे शृणु विस्तारं द्वीपवर्षविभेदतः ।
भूमण्डलस्य सर्वस्य यथा देवप्रकल्पितम् ॥ १॥
समासात्सम्प्रवक्ष्यामि नालं विस्तरतः क्वचित् ।
जम्बुद्वीपः प्रथमतः प्रमाणे लक्षयोजनः ॥ २॥
विशालो वर्तुलाकारो यथाब्जस्य च कर्णिका ।
नव वर्षाणि यस्मिंश्च नवसाहस्रयोजनैः ॥ ३॥
आयामैः परिसङ्ख्यानि गिरिभिः परितः श्रितैः ।
अष्टाभिर्दीर्घरूपैश्च सुविभक्तानि सर्वतः ॥ ४॥
धनुर्वत्संस्थिते ज्ञेये द्वे वर्षे दक्षिणोत्तरे ।
दीर्घाणि तत्र चत्वारि चतुरस्रमिलावृतम् ॥ ५॥
इलावृतं मध्यवर्षं यन्नाभ्यां सुप्रतिष्ठितः ।
सौवर्णो गिरिराजोऽयं लक्षयोजनमुच्छ्रितः ॥ ६॥
कर्णिकारूप एवायं भूगोलकमलस्य च ।
मूर्ध्नि द्वात्रिंशत्सहस्रयोजनैर्विततस्त्वयम् ॥ ७॥
मूले षोडशसाहस्रस्तावतान्तर्गतः क्षितौ ।
इलावृतस्योत्तरतो नीलः श्वेतश्च शृङ्गवान् ॥ ८॥
त्रयो वै गिरयः प्रोक्ता मर्यादावधयस्त्रिषु ।
रम्यकाख्ये तथा वर्षे द्वितीये च हिरण्मये ॥ ९॥
कुरुवर्षे तृतीये तु मर्यादां व्यञ्जयन्ति ते ।
प्रागायता उभयतः क्षारोदावधयस्तथा ॥ १०॥
द्विसहस्रपृथुतरास्तथा एकैकशः क्रमात् ।
पूर्वात्पूर्वाच्चोत्तरस्यां दशांशादधिकांशतः ॥ ११॥
दैर्घ्य एव ह्रसन्तीमे नानानदनदीयुताः ।
इलावृताद्दक्षिणतो निषधो हेमकूटकः ॥ १२॥
हिमालयश्चेति त्रयः प्राग्विस्तीर्णाः सुशोभनाः ।
अयुतोत्सेधभाजस्ते योजनैः परिकीर्तिताः ॥ १३॥
हरिवर्षं किम्पुरुषं भारतं च यथातथम् ।
विभागात्कथयन्त्येते मर्यादागिरयस्त्रयः ॥ १४॥
इलावृतात्पश्चिमतो माल्यवान्नामपर्वतः ।
पूर्वेण च ततः श्रीमान् गन्धमादनपर्वतः ॥ १५॥
आनीलनिषधं त्वेतौ चायतौ द्विसहस्रतः ।
योजनैः पृथुतां यातौ मर्यादाकारकौ गिरी ॥ १६॥
केतुमालाख्यभद्राश्ववर्षयोः प्रथितौ च तौ ।
मन्दरश्च तथा मेरुमन्दरश्च सुपार्श्वकः ॥ १७॥
कुमुदश्चेति विख्याता गिरयो मेरुपादकाः ।
योजनायुतविस्तारोन्नाहा मेरोश्चतुर्दिशम् ॥ १८॥
अवष्टम्भकरास्ते तु सर्वतोऽभिविराजिताः ।
एतेषु गिरिषु प्राप्ताः पादपाश्चूतजम्बुनी ॥ १९॥
कदम्बन्यग्रोध इति चत्वारः पर्वताः स्थिताः ।
केतवो गिरिराजेषु एकादशशतोच्छ्रयाः ॥ २०॥
तावद्विटपविस्ताराः शताख्यपरिणाहिनः ।
चत्वारश्च ह्रदास्तेषु पयोमध्विक्षुसज्जलाः ॥ २१॥
यदुपस्पर्शिनो देवा योगैश्वर्याणि विन्दते ।
देवोद्यानानि चत्वारि भवन्ति ललनासुखाः ॥ २२॥
नन्दनं चैत्ररथकं वैभ्राजं सर्वभद्रकम् ।
येषु स्थित्वामरगणा ललनायूथसंयुताः ॥ २३॥
उपदेवगणैर्गीतमहिमानो महाशयाः ।
विहरन्ति स्वतन्त्रास्ते यथाकामं यथासुखम् ॥ २४॥
मन्दरोत्सङ्गसंस्थस्य देवचूतस्य मस्तकात् ।
एकादशशतोच्छ्रायात्फलान्यमृतभाञ्जि च ॥ २५॥
गिरिकूटप्रमाणानि सुस्वादूनि मृदूनि च ।
तेषां विशीर्यमाणानां फलानां सुरसेन च ॥ २६॥
अरुणोदसवर्णेन अरुणोदा प्रवर्तते ।
नदी रम्यजला देवदैत्यराजप्रपूजिता ॥ २७॥
अरुणाख्या महाराज वर्तते पापहारिणी ।
पूजयन्ति च तां देवीं सर्वकामफलप्रदाम् ॥ २८॥
नानोपहारबलिभिः कल्मषघ्न्यभयप्रदाम् ।
तस्याः कृपावलोकेन क्षेमारोग्यं व्रजन्ति ते ॥ २९॥
आद्या मायातुलानन्ता पुष्टिरीश्वरमालिनी ।
दुष्टनाशकरी कान्तिदायिनीति स्मृता भुवि ॥ ३०॥
अस्याः पूजाप्रभावेण जाम्बूनदमुदावहत् ॥ ३१॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे
भुवनलोकवर्णने द्वीपवर्षविभेदवर्णनं नाम पञ्चमोऽध्यायः ॥ ८.५॥
८.६ षष्ठोऽध्यायः । भुवनकोशवर्णनेऽरुणोदादिनदीनां निसर्गस्थानवर्णनम् ।
श्रीनारायण उवाच ।
अरुणोदा नदी या तु मया प्रोक्ता च नारद ।
मन्दरान्निपतन्ती सा पूर्वेणेलावृतं प्लवेत् ॥ १॥
यज्जोषणाद्भवान्याश्चानुचरीणां स्त्रियामपि ।
यक्षगन्धर्वपत्नीनां देहगन्धवहोऽनिलः ॥ २॥
वासयत्यभितो भूमिं दशयोजनसङ्ख्यया ।
एवं जम्बूफलानां च तुङ्गदेशनिपातनात् ॥ ३॥
विशीर्यतामनस्थीनां कुञ्जराङ्गप्रमाणिनाम् ।
रसेन च नदी जम्बूनाम्नी मेर्वाख्यमन्दरात् ॥ ४॥
पतन्ती भूमिभागे च दक्षिणेलावृतं गता ।
देवी जम्बूफलास्वादतुष्टा जम्ब्वादिनी स्मृता ॥ ५॥
तत्रत्यानां च लोकानां देवनागर्षिरक्षसाम् ।
पूजनीयपदा मान्या सर्वभूतदयाकरी ॥ ६॥
पावनी पापिनां रोगनाशिनी स्मरतामपि ।
कीर्तिता विघ्नसंहर्त्री माननीया दिवौकसाम् ॥ ७॥
कोकिलाक्षी कामकला करुणा कामपूजिता ।
कठोरविग्रहा धन्या नाकिमान्या गभस्तिनी ॥ ८॥
एभिर्नामपदैः कामं जपनीया सदा नृणाम् ।
जम्बूनदीरोधसोर्या मृत्तिकातीरवर्तिनी ॥ ९॥
जम्बूरसेनानुविद्ध्यमाना वाय्वर्कयोगतः ।
विद्याधरामरस्त्रीणां भूषणं विविधं महत् ॥ १०॥
जाम्बूनदं सुवर्णं च प्रोक्तं देवविनिर्मितम् ।
यत्सुवर्णं च विबुधा योषिद्भिः कामुकाः सदा ॥ ११॥
मुकुटं कटिसूत्रं च केयूरादीन्प्रकुर्वते ।
महाकदम्बः सम्प्रोक्तः सुपार्श्वगिरिसंस्थितः ॥ १२॥
तस्य कोटरदेशेभ्यः पञ्च धाराश्च याः स्मृताः ।
सुपार्श्वगिरिमूर्ध्नीह पतन्त्येता भुवं गताः ॥ १३॥
मधुधाराः पञ्च तास्तु पश्चिमेलावृतं प्लुताः ।
याश्चोपभुज्यमानानां देवानां मुखगन्धभृत् ॥ १४॥
वायुः समन्ततोऽगच्छञ्छतयोजनवासनः ।
धारेश्वरी महादेवी भक्तानां कार्यकारिणी ॥ १५॥
देवपूज्या महोत्साहा कालरूपा महानना ।
वसते कर्मफलदा कान्तारग्रहणेश्वरी ॥ १६॥
करालदेहा कालाङ्गी कामकोटिप्रवर्तिनी ।
इत्येतैर्नामभिः पूज्या देवी सर्वसुरेश्वरी ॥ १७॥
एवं कुमुदरूढो यो नाम्ना शतबलो वटः ।
तत्स्कन्धेभ्योऽधोमुखाश्च नदाः कुमुदमूर्धतः ॥ १८॥
पयोदधिमधुघृतगुडान्नाद्यम्बरादिभिः ।
शय्यासनाद्याभरणैः सर्वे कामदुघाश्च ते ॥ १९॥
उत्तरेणेलावृतं ते प्लावयन्ति समन्ततः ।
मीनाक्षी तत्तले देवी देवासुरनिषेविता ॥ २०॥
नीलाम्बरा रौद्रमुखी नीलालकयुता च सा ।
नाकिनां देवसङ्घानां फलदा वरदा च सा ॥ २१॥
अतिमान्यातिपूज्या च मत्तमातङ्गगामिनी ।
मदनोन्मादिनी मानप्रिया मानप्रियान्तरा ॥ २२॥
मारवेगधरा मारपूजिता मारमादिनी ।
मयूरवरशोभाढ्या शिखिवाहनगर्भभूः ॥ २३॥
एभिर्नामपदैर्वन्द्या देवी सा मीनलोचना ।
जपतां स्मरतां मानदात्री चेश्वरसङ्गिनी ॥ २४॥
तेषां नदानां पानीयपानानुगतचेतसाम् ।
प्रजानां न कदाचित्स्याद्वलीपलितलक्षणम् ॥ २५॥
क्लमस्वेदादिदौर्गन्ध्यं जरामयमृतिभ्रमाः ।
शीतोष्णवातवैवर्ण्यमुखोपप्लवसञ्चयाः ॥ २६॥
नापदश्चैव जायन्ते यावज्जीवं सुखं भवेत् ।
नैरन्तर्येण तत्स्याद्वै सुखं निरतिशायकम् ॥ २७॥
तत ऊर्ध्वं प्रवक्ष्यामि सन्निवेशं च तद्गिरेः ।
सुवर्णमयनाम्नो वै सुमेरोः पर्वताः पृथक् ॥ २८॥
गिरयो विंशतिपराः कर्णिकाया इवेह ते ।
केसरीभूय सर्वेऽपि मेरोर्मूलविभागके ॥ २९॥
परितश्चोपक्लृप्तास्ते तेषां नामानि शृण्वतः ।
कुरङ्गः कुरगश्चैव कुसुम्भोऽथो विकङ्कतः ॥ ३०॥
त्रिकूटः शिशिरश्चैव पतङ्गो रुचकस्तथा ।
निषधश्च शिनीवासः कपिलः शङ्ख एव च ॥ ३१॥
वैदूर्यश्चारुधिश्चैव हंसो ऋषभ एव च ।
नागः कालञ्जरश्चैव नारदश्चेति विंशतिः ॥ ३२॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे
भुवनकोशवर्णनेऽरुणोदादिनदीनां निसर्गस्थानवर्णनं नाम षष्ठोऽध्यायः ॥ ८.६॥
८.७ सप्तमोऽध्यायः । भुवनकोशवर्णने पर्वतनदीवर्षादिवर्णनम् ।
श्रीनारायण उवाच ।
गिरी मेरुं च पूर्वेण द्वौ चाष्टादशयोजनैः ।
सहस्रैरायतौ चोदग्द्विसहस्रं पृथूच्चकौ ॥ १॥
जठरो देवकूटश्च तावेतौ गिरिवर्यकौ ।
मेरोः पश्चिमतोऽद्री द्वौ पवमानस्तथापरः ॥ २॥
पारियात्रश्च तौ तावद्विख्यातौ तुङ्गविस्तरौ ।
मेरोर्दक्षिणतः ख्यातौ कैलासकरवीरकौ ॥ ३॥
प्रागायतौ पूर्ववृत्तौ महापर्वतराजकौ ।
एवं चोत्तरतो मेरोस्त्रिशृङ्गमकरौ गिरी ॥ ४॥
एतैश्चाद्रिवरैरष्टसङ्ख्यैः परिवृतो गिरिः ।
सुमेरुः काञ्चनगिरिः परिभ्राजन् रविर्यथा ॥ ५॥
मेरोर्मूर्धनि धातुर्हि पुरी पङ्कजजन्मनः ।
मध्यतश्चोपक्लृप्तेयं दशसाहस्रयोजनैः ॥ ६॥
समानचतुरस्रां च शातकौम्भमयीं पुरीम् ।
वर्णयन्ति महात्मानः परावरविदो बुधाः ॥ ७॥
तां पुरीमनुलोकानामष्टानामीशिषां पराः ।
पुर्यः प्रख्यातसौवर्णरूपास्ताश्च यथादिशम् ॥ ८॥
यथारूपं सार्धनेत्रसहस्रप्रमिताः कृताः ।
मेरोर्नव पुराणि स्युर्मनोवत्यमरावती ॥ ९॥
तेजोवती संयमनी तथा कृष्णाङ्गनापरा ।
श्रद्धावती गन्धवती तथा चान्या महोदया ॥ १०॥
यशोवती च ब्रह्मेन्द्रवह्न्यादीनां यथाक्रमम् ।
तत्रैव यज्ञलिङ्गस्य विष्णोर्भगवतो विभोः ॥ ११॥
वामपादाङ्गुष्ठनखनिर्भिन्नस्य च नारद ।
अण्डोर्ध्वभागरन्ध्रस्य मध्यात्संविशती दिवः ॥ १२॥
मूर्धन्यवततारेयं गङ्गा संविशती विभो ।
लोकानामखिलानां च पापहारिजलाकुला ॥ १३॥
इयं च साक्षाद्भगवत्पदी लोकेषु विश्रुता ।
कालेन महता सा तु युगसाहस्रकेण तु ॥ १४॥
दिवो मूर्धानमागत्य देवी देवनदीश्वरी ।
यत्तद्विष्णुपदं नाम स्थानं त्रैलोक्यविश्रुतम् ॥ १५॥
औत्तानपादिर्यत्रास्ते ध्रुवः परमपावनः ।
भगवत्पादयुगलं पद्मकोशरजो दधत् ॥ १६॥
अद्याप्यास्ते स राजर्षिः पदवीमचलां श्रितः ।
तत्र सप्तर्षयस्तस्य प्रभावज्ञा महाशयाः ॥ १७॥
प्रदक्षिणं प्रक्रमन्ति सर्वलोकहितेप्सवः ।
आत्यन्तिकी सिद्धिरियं तपतां सिद्धिदायिनी ॥ १८॥
आद्रियन्ते च शिरसा जटाजूटोषितेन च ।
ततो विष्णुपदाद्देवी नैकसाहस्रकोटिभिः ॥ १९॥
विमानैराकुले देवयानेऽवतरती च सा ।
चन्द्रमण्डलमाप्लाव्य पतन्ती ब्रह्यसद्यनि ॥ २०॥
चतुर्धा भिद्यमाना सा ब्रह्मलोके च नारद ।
चतुर्भिर्नामभिर्देवी चतुर्दिशमभिसृता ॥ २१॥
सरितां च नदीनां च पतिमेवान्वपद्यत ।
सीता चालकनन्दा च चतुर्भद्रेति नामभिः ॥ २२॥
सीता च ब्रह्मसदनाच्छिखरेभ्यः क्षमाभृताम् ।
केसराभिधनाम्ना च प्रस्रवन्ती च स्वर्णदी ॥ २३॥
गन्धमादनमूर्ध्नीह पतिता पापहारिणी ।
अन्तरेण तु भद्राश्ववर्षं प्राच्यां समागता ॥ २४॥
क्षारोदधिं गता सा तु द्युनदी देवपूजिता ।
ततो माल्यवतः शृङ्गाद् द्वितीया परिनिर्गता ॥ २५॥
ततो वेगवती भूत्वा केतुमालं समागता ।
चक्षुर्नाम्नी देवनदी प्रतीच्यां दिश्युपागता ॥ २६॥
सरितां पतिमाविष्टा सा गङ्गा देववन्दिता ।
ततस्तृतीया धारा तु नाम्ना ख्याता च नारद ॥ २७॥
पुण्या चालकनन्दा वै दक्षिणेनाब्जभूपदात् ।
वनानि गिरिकूटानि समतिक्रम्य चागता ॥ २८॥
हेमकूटं गिरिवरं प्राप्तातोऽपीह निर्गता ।
अतिवेगवती भूत्वा भारतं चागतापरा ॥ २९॥
दक्षिणं जलधिं प्राप्ता तृतीया सा सरिद्वरा ।
यस्याः स्नानाय सरतां मनुजानां पदे पदे ॥ ३०॥
राजसूयाश्वमेधादि फलं तु न हि दुर्लभम् ।
ततश्चतुर्थी धारा तु भृङ्गवत्पर्वतात्पुनः ॥ ३१॥
भद्राभिधा संस्रवन्ती कुरून्सन्तर्प्य चोत्तरान् ।
समुद्रं समनुप्राप्ता गङ्गा त्रैलोक्यपावनी ॥ ३२॥
अन्ये नदाश्च नद्यश्च वर्षे वर्षेऽपि सन्ति हि ।
बहुशो मेरुमन्दारप्रसूताश्चैव नारद ॥ ३३॥
तत्रापि भारतं वर्षं कर्मक्षेत्रमुशन्ति हि ।
अन्यानि चाष्टवर्षाणि भौमस्वर्गप्रदानि च ॥ ३४॥
स्वर्गिणां पुण्यशेषस्य भोगस्थानानि नारद ।
पुरुषाणां चायुतायुर्वज्राङ्गा देवसन्निभाः ॥ ३५॥
पुरुषा नागसाहस्रैर्दशभिः परिकल्पिताः ।
महासौरतसन्तुष्टाः कलत्राढ्याः सुखान्विताः ॥ ३६॥
एकवर्षोनके चायुष्याप्तगर्भाः स्त्रियोऽपि हि ।
त्रेतायुगसमः कालो वर्तते सर्वदैव हि ॥ ३७॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे
भुवनकोशवर्णने पर्वतनदीवर्षादिवर्णनं नाम सप्तमोऽध्यायः ॥ ८.७॥
८.८ अष्टमोऽध्यायः । भुवनकोशवर्णने इलावृतभद्राश्ववर्षवर्णनम् ।
श्रीनारायण उवाच ।
तेषु वर्षेषु देवेशाः पूर्वोक्तैः स्तवनैः सदा ।
पूजयन्ति महादेवीं जपध्यानसमाधिभिः ॥ १॥
सर्वर्तुकुसुमश्रेणी शोभिता वनराजयः ।
फलानां पल्लवानां च यत्र शोभा निरन्तरम् ॥ २॥
तेषु काननवर्षेषु वर्षपर्वतसानुषु ।
गिरिद्रोणीषु सर्वासु निर्मलोदकराशिषु ॥ ३॥
विकचोत्पलमालासु हंससारससञ्चयैः ।
विमिश्रितेषु तेष्वेव पक्षिभिः कूजितेषु च ॥ ४॥
जलक्रीडादिभिश्चित्रविनोदैः क्रीडयन्ति च ।
सुन्दरीललितभ्रूणां विलासायतनेषु च ॥ ५॥
तत्रत्या विहरन्त्यत्र स्वैरं युवतिभिः सह ।
नवस्वपि च वर्षेषु भगवानादिपूरुषः ॥ ६॥
(नारायणाख्यो लोकानामनुग्रहरसैकदृक् ।)
देवीमाराधयन्नास्ते स च सर्वैश्च पूज्यते ।
आत्मव्यूहेनेज्ययासौ सन्निधत्ते समाहितः ॥ ७॥
इलावृते तु भगवान् पद्मजाक्षिसमुद्भवः ।
एक एव भवो देवो नित्यं वसति साङ्गनः ॥ ८॥
तत्क्षेत्रे नापरः कश्चित्प्रवेशं वितनोति च ।
भवान्याः शापतस्तत्र पुमान्स्त्री भवति स्फुटम् ॥ ९॥
भवानीनाथकैः स्त्रीणामसङ्ख्यैर्गणकोटिभिः ।
संरुध्यमानो देवेशो देवं सङ्कर्षणं भजन् ॥ १०॥
आत्मना ध्यानयोगेन सर्वभूतहितेच्छया ।
तां तामसीं तुरीयां च मूर्तिं प्रकृतिमात्मनः ॥ ११॥
उपधावते चैकाग्रमनसा भगवानजः ।
श्रीभगवानुवाच ।
ओन्नमो भगवते महापुरुषाय
सर्वगुणसङ्ख्यानायानन्तायाव्यक्ताय नम इति ॥ १२॥
भजे भजन्यारणपादपङ्कजं
भगस्य कृत्स्नस्य परं परायणम् ।
भक्तेष्वलं भावितभूतभावनं
भवापहं त्वा भव भावमीश्वरम् ॥ १३॥
न यस्य मायागुणकर्मवृत्तिभि-
र्निरीक्षितो ह्यण्वपि दृष्टिरज्यते ।
ईशे यथा नो जितमन्युरंहसा
कस्तं न मन्येत जिगीषुरात्मनः ॥ १४॥
असद्दृशो यः प्रतिभाति मायया
क्षीबेव मध्वासवतागम्रलोचनः ।
न नागवध्वोऽर्हण ईशिरे ह्रिया
यत्पादयोः स्पर्शनधर्षितेन्द्रियाः ॥ १५॥
यमाहुरस्य स्थितिजन्मसंयमं
त्रिभिर्विहीनं यमनन्तमॄषयः ।
न वेद सिद्धार्थमिव क्वचित्स्थितं
भूमण्डलं मूर्धसहस्रधामसु ॥ १६॥
यस्याद्य आसीद् गुणविग्रहो महान्
विज्ञानधिष्ण्यो भगवानजः किल ।
यत्संवृतोऽहं त्रिवृता स्वतेजसा
वैकारिकं तामसमैन्द्रियं सृजे ॥ १७॥
एते वयं यस्य वशे महात्मनः
स्थिताः शकुन्ता इव सूत्रयन्त्रिताः ।
महानहंवैकृततामसेन्द्रियाः
सृजाम सर्वे यदनुग्रहादिदम् ॥ १८॥
यन्निर्मितां कर्ह्यपि कर्मपर्वणीं
मायां जनोऽयं गुरुसर्गमोहितः ।
न वेद निस्तारणयोगमञ्जसा
तस्मै नमस्ते विलयोदयात्मने ॥ १९॥
श्रीनारायण उवाच ।
एवं स भगवान् रुद्रो देवं सङ्कर्षणं प्रभुम् ।
इलावृतमुपासीत देवीगणसमाहितः ॥ २०॥
तथैव धर्मपुत्रोऽसौ नाम्ना भद्रश्रवा इति ।
तत्कुलस्यापि पतयः पुरुषा भद्रसेवकाः ॥ २१॥
भद्राश्ववर्षे तां मूर्तिं वासुदेवस्य विश्रुताम् ।
हयमूर्तिभिदा तां तु हयग्रीवपदाङ्किताम् ॥ २२॥
परमेण समाध्यन्यवारकेण नियन्त्रिताम् ।
एवमेव च तां मूर्तिं गृणन्त उपयान्ति च ॥ २३॥
भद्रश्रवस ऊचुः ।
ॐ नमो भगवते धर्मायात्मविशोधनाय नम इति ।
अहो विचित्रं भगवद्विचेष्टितं
घ्नन्तं जनोऽयं हि मिषन्न पश्यति ।
ध्यायन्न सद्यर्हि विकर्म सेवितुं
निर्हृत्य पुत्रं पितरं जिजीविषुः ॥ २४॥
वदन्ति विश्वं कवयः स्म नश्वरं
पश्यन्ति चाध्यात्मविदो विपश्चितः ।
तथापि मुह्यन्ति तवाज मायया
सुविस्मितं कृत्यमजं नतोऽस्मि तम् ॥ २५॥
विश्वोद्भवस्थाननिरोधकर्म ते
ह्यकर्तुरङ्गीकृतमप्यपावृतः ।
युक्तं न चित्रं त्वयि कार्यकारणे
सर्वात्मनि व्यतिरिक्ते च वस्तुतः ॥ २६॥
वेदान् युगान्ते तमसा तिरस्कृतान्
रसातलाद्यो नृतुरङ्गविग्रहः ।
प्रत्याददे वै कवयेऽभियाचते
तस्मै नमस्ते वितथेहिताय ते ॥ २७॥
एवं स्तुवन्ति देवेशं हयशीर्षं हरिं च ते ।
भद्रश्रवसनामानो वर्णयन्ति च तद्गुणान् ॥ २८॥
एषां चरितमेतद्धि यः पठेच्छ्रावयेच्च यः ।
पापकञ्चुकमुत्सृज्य देवीलोकं व्रजेच्च सः ॥ २९॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे
भुवनकोशवर्णने इलावृतभद्राश्ववर्षवर्णनं नामाष्टमोऽध्यायः ॥ ८.८॥
८.९ नवमोऽध्यायः । भुवनकोशवर्णने हरिवर्षकेतुमालरम्यकवर्षवर्णनम् ।
श्रीनारायण उवाच ।
हरिवर्षे च भगवान्नृहरिः पापनाशनः ।
वर्तते योगयुक्तात्मा भक्तानुग्रहकारकः ॥ १॥
तस्य तद्दयितं रूपं महाभागवतोऽसुरः ।
पश्यन्भक्तिसमायुक्तः स्तौति तद्गुणतत्त्ववित् ॥ २॥
प्रह्लाद उवाच ।
ॐ नमो भगवते नरसिंहाय नमस्तेजस्तेजसे
आविराविर्भव वज्रदंष्ट्र कर्माशयान् रन्धय रन्धय
तमो ग्रस ग्रस ॐ स्वाहा । अभयं ममात्मनि
भूयिष्ठाः ॥ ॐ क्षौम् ॥
स्वस्त्यस्तु विश्वस्य खलः प्रसीदतां
ध्यायन्तु भूतानि शिवं मिथो धिया ।
मनश्च भद्रं भजतादधोक्षजे
आवेश्यतां नो मतिरप्यहैतुकी ॥ ३॥
मागारदारात्मजवित्तबन्धुषु
सङ्गो यदि स्याद्भगवत्प्रियेषु नः ।
यः प्राणवृत्त्या परितुष्ट आत्मवान्
सिद्ध्यत्यदूरान्न तथेन्द्रियप्रियः ॥ ४॥
यत्सङ्गलब्धं निजवीर्यवैभवं
तीर्थं मुहुः संस्पृशतां हि मानसम् ।
हरत्यजोऽन्तः श्रुतिभिर्गतोऽङ्गजं
को वै न सेवेत मुकुन्दविक्रमम् ॥ ५॥
यस्यास्ति भक्तिर्भगवत्यकिञ्चना
सर्वैर्गुणैस्तत्र समासते सुराः ।
हरावभक्तस्य कुतो महद्गुणा
मनोरथेनासति धावतो बहिः ॥ ६॥
हरिर्हि साक्षाद्भगवाञ्छरीरिणा-
मात्मा झषाणामिव तोयमीप्सितम् ।
हित्वा महांस्तं यदि सज्जते गृहे
तदा महत्त्वं वयसा दम्पतीनाम् ॥ ७॥
तस्माद्रजोरागविषादमन्यु-
मानस्पृहाभयदैन्याधिमूलम् ।
हित्वा गृहं संसृतिचक्रवालं
नृसिंहपादं भजतां कुतो भयम् ॥ ८॥
एवं दैत्यपतिः सोऽपि भक्त्यानुदिनमीडते ।
नृहरिं पापमातङ्गहरिं हृत्पद्मवासिनम् ॥ ९॥
केतुमाले च वर्षे हि भगवान्स्मररूपधृक् ।
आस्ते तद्वर्षनाथानां पूजनीयश्च सर्वदा ॥ १०॥
एतेनोपासते स्तोत्रजालेन च रमाब्धिजा ।
तद्वर्षनाथा सततं महतां मानदायिका ॥ ११॥
रमोवाच ।
ॐ ह्रां ह्रीं ह्रूं स्म नमो भगवते
हृषीकेशाय सर्वगुणविशेषैर्विलक्षितात्मने
आकूतीनां चित्तीनां चेतसां विशेषाणां चाधिपतये
षोडशकलाय छन्दोमयायान्नमयायामृतमयाय
सर्वमयाय महसे ओजसे बलाय कान्ताय
कामाय नमस्ते उभयत्र भूयात् ।
स्त्रियो व्रतैस्त्वां हृषीकेश्वरं स्वतो
ह्याराध्य लोके पतिमाशासतेऽन्यम् ।
तासां न ते वै परिपान्त्यपत्यं
प्रियं धनायूंषि यतोऽस्वतन्त्राः ॥ १२॥
स वै पतिः स्यादकुतोभयः स्वतः
समन्ततः पाति भयातुरं जनम् ।
स एक एवेतरथा मिथो भयं
नैवात्मलाभादधिमन्यते परम् ॥ १३॥
या तस्य ते पादसरोरुहार्हणं
न कामयेत्साखिलकामलम्पटा ।
तदेव रासीप्सितमीप्सितोऽर्चितो
यद्भग्नयाञ्चा भगवन् प्रतप्यते ॥ १४॥
मत्प्राप्तयेऽजेशसुरासुरादय-
स्तप्यन्त उग्रं तप ऐन्द्रिये धियः ।
ऋते भवत्पादपरायणान्न मां
विदन्त्यहं त्वद्धृदया यतोऽजित ॥ १५॥
स त्वं ममाप्यच्युत शीर्ष्णि वन्दितं
कराम्बुजं यत्त्वदधायि सात्वताम् ।
बिभर्षि मां लक्ष्य वरेण्य मायया
क ईश्वरस्येहितमूहितुं विभुः ॥ १६॥
एवं कामं स्तुवन्त्येव लोकबन्धुस्वरूपिणम् ।
प्रजापतिमुखा वर्षनाथाः कामस्य सिद्धये ॥ १७॥
रम्यके नामवर्षे च मूर्तिं भगवतः पराम् ।
मात्स्यां देवासुरैर्वन्द्यां मनुः स्तौति निरन्तरम् ॥ १८॥
मनुरुवाच ।
ॐ नमो भगवते मुख्यतमाय नमः सत्त्वाय
प्राणायौजसे बलाय महामत्स्याय नमः ।
अन्तर्बहिश्चाखिललोकपालकै-
रदृष्टरूपो विचरस्युरुस्वनः ।
स ईश्वरस्त्वं य इदं वशे नय-
न्नाम्ना यथा दारुमयीं नरः स्त्रियम् ॥ १९॥
यं लोकपालाः किल मत्सरज्वरा
हित्वा यतन्तोऽपि पृथक् समेत्य च ।
पातुं न शेकुर्द्विपदश्चतुष्पदः
सरीसृपं स्थाणु यदत्र दृश्यते ॥ २०॥
भवान् युगान्तार्णव ऊर्मिमालिनि
क्षोणीमिमामोषधिवीरुधां निधिम् ।
मया सहोरुक्रम तेऽज ओजसा
तस्मै जगत्प्राणगणात्मने नमः ॥ २१॥
एवं स्तौति च देवेशं मनुः पार्थिवसत्तमः ।
मत्स्यावतारं देवेशं संशयच्छेदकारणम् ॥ २२॥
ध्यानयोगेन देवस्य निर्धूताशेषकल्मषः ।
आस्ते परिचरन्भक्त्या महाभागवतोत्तमः ॥ २३॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे
भुवनकोशवर्णने हरिवर्षकेतुमालरम्यकवर्षवर्णनं नाम नवमोऽध्यायः ॥ ८.९॥
८.१० दशमोऽध्यायः । भुवनकोशवर्णने हिरण्मयकिम्पुरुषवर्षवर्णनम् ।
श्रीनारायण उवाच ।
हिरण्मये नाम वर्षे भगवान्कूर्मरूपधृक् ।
आस्ते योगपतिः सोऽयमर्यम्णा पूज्य ईड्यते ॥ १॥
अर्यमोवाच ।
ॐ नमो भगवते अकूपाराय सर्वसत्त्वगुण-
विशेषणाय नोपलक्षितस्थानाय नमो वर्ष्मणे
नमो भूम्ने नमोऽवस्थानाय नमस्ते ।
यद्रूपमेतन्निजमाययार्पित-
मर्थस्वरूपं बहुरूपरूपितम् ।
सङ्ख्या न यस्यास्त्ययथोपलम्भना-
त्तस्मै नमस्तेऽव्यपदेशरूपिणे ॥ २॥
जरायुजं स्वेदजमण्डजोद्भिदं
चराचरं देवर्षिपितृभूतमैन्द्रियम् ।
द्यौः खं क्षितिः शैलसरित्समुद्रं
द्वीपग्रहर्क्षेत्यभिधेय एकः ॥ ३॥
यस्मिन्नसङ्ख्येयविशेषनाम-
रूपाकृतौ कविभिः कल्पितेयम् ।
सङ्ख्या यया तत्त्वदृशापनीयते
तस्मै नमः साङ्ख्यनिदर्शनाय ते ॥ ४॥
एवं स्तुवति देवेशमर्यमा सह वर्षपैः ।
गीयते चापि भजते सर्वभूतभवं प्रभुम् ॥ ५॥
तथोत्तरेषु कुरुषु भगवान्यज्ञपूरुषः ।
आदिवाराहरूपोऽसौ धरण्या पूज्यते सदा ॥ ६॥
सम्पूज्य विधिवद्देवं तद्भक्त्यार्द्रार्द्रहृत्कजा ।
भूमिः स्तौति हरिं यज्ञवाराहं दैत्यमर्दनम् ॥ ७॥
भूरुवाच ।
ॐ नमो भगवते मन्त्रतत्त्वलिङ्गाय यज्ञक्रतवे
महाध्वरावयवाय महावराहाय नमः कर्मशुक्लाय
त्रियुगाय नमस्ते ॥ ८॥
यस्य स्वरूपं कवयो विपश्चितो
गुणेषु दारुष्विव जातवेदसम् ।
मथ्नन्ति मथ्ना मनसा दिदृक्षवो
गूढं क्रियार्थैर्नम ईरितात्मने ॥ ९॥
द्रव्यक्रियाहेत्वयनेशकर्तृभि-
र्मायागुणैर्वस्तुभिरीक्षितात्मने ।
अन्वीक्षयाङ्गातिशयात्मबुद्धिभि-
र्निरस्तमायाकृतये नमोऽस्तु ते ॥ १०॥
करोति विश्वस्थितिसंयमोदयं
यस्येप्सितं नेप्सितुमीक्षितुर्गुणैः ।
माया यथाऽयो भ्रमते तदाश्रयं
ग्राव्णो नमस्ते गुणकर्मसाक्षिणे ॥ ११॥
प्रमथ्य दैत्यं प्रतिवारणं मृधे
यो मां रसाया जगदादिसूकरः ।
कृत्वाग्रदंष्ट्रं निरगादुदन्वतः
क्रीडन्निवेभः प्रणतास्मि तं विभुम् ॥ १२॥
किम्पुरुषे वर्षेऽस्मिन्भगवन्तं दाशरथिं च सर्वेशम् ।
सीतारामं देवं श्रीहनुमानादिपूरुषं स्तौति ॥ १३॥
ॐ नमो भगवते उत्तमश्लोकाय नम इति ।
आर्यलक्षणशीलव्रताय नम उपशिक्षितात्मने
उपासितलोकाय नमः । साधुवादनिकषणाय नमो
ब्रह्मण्यदेवाय महापुरुषाय महाभागाय नम इति ।
यत्तद्विशुद्धानुभवात्ममेकं
स्वतेजसा ध्वस्तगुणव्यवस्थम् ।
प्रत्यक् प्रशान्तं सुधियोपलम्भनं
ह्यनामरूपं निरहं प्रपद्ये ॥ १४॥
मर्त्यावतारस्त्विह मर्त्यशिक्षणं
रक्षोवधायैव न केवलं विभो ।
कुतोऽन्यथा स्याद्ऽऽरमतः स्व आत्मनः
सीताकृतानि व्यसनानीश्वरस्य ॥ १५॥
न वै स आत्माऽऽत्मवतां सुहृत्तमः
सक्तस्त्रिलोक्यां भगवान्वासुदेवः ।
न स्त्रीकृतं कश्मलमश्नुवीत
न लक्षणं चापि विहातुमर्हति ॥ १६॥
न जन्म नूनं महतो न सौभगं
न वाङ् न बुद्धिर्नाकृतिस्तोषहेतुः ।
तैर्यद्विसृष्टानपि नो वनौकस-
श्चकार सख्ये बत लक्ष्मणाग्रजः ॥ १७॥
सुरोऽसुरो वाप्यथवा नरोऽनरः
सर्वात्मना यः सुकृतज्ञमुत्तमम् ।
भजेत रामं मनुजाकृतिं हरिं
य उत्तराननयत्कोसलान् दिवम् ॥ १८॥
श्रीनारायण उवाच ।
एवं किम्पुरुषे वर्षे सत्यसन्धं दृढव्रतम् ।
रामं राजीवपत्राक्षं हनुमान् वानरोत्तमः ॥ १९॥
स्तौति गायति भक्त्या च सम्पूजयति सर्वशः ।
य एतच्छृणुयाच्चित्रं रामचन्द्रकथानकम् ।
सर्वपापविशुद्धात्मा याति रामसलोकताम् ॥ २०॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे
भुवनकोशवर्णने हिरण्मयकिम्पुरुषवर्षवर्णनं नाम दशमोऽध्यायः ॥ ८.१०॥
८.११ एकादशोऽध्यायः । भुवनकोशवर्णने भारतवर्षवर्णनम् ।
श्रीनारायण उवाच ।
भारताख्ये च वर्षेऽस्मिन्नहमादिजपूरुषः ।
तिष्ठामि भवता चैव स्तवनं क्रियतेऽनिशम् ॥ १॥
नारद उवाच ।
ॐ नमो भगवते उपशमशीलायोपरतानात्म्याय
नमोऽकिञ्चनवित्ताय ऋषिऋषभाय नरनारायणाय
परमहंसपरमगुरवे आत्मारामाधिपतये नमो नम इति ।
कर्तास्य सर्गादिषु यो न बध्यते
न हन्यते देहगतोऽपि दैहिकैः ।
द्रष्टुर्न दृश्यस्य गुणैर्विदूष्यते
तस्मै नमोऽसक्तविविक्तसाक्षिणे ॥ २॥
इदं हि योगेश्वरयोगनैपुणं
हिरण्यगर्भो भगवाञ्जगाद यत् ।
यदन्तकाले त्वयि निर्गुणे मनो
भक्त्या दधीतोज्झितदुष्कलेवरः ॥ ३॥
यथैहिकामुष्मिककामलम्पटः
सुतेषु दारेषु धनेषु चिन्तयन् ।
शङ्केत विद्वान् कुकलेवरात्यया-
द्यस्तस्य यत्नः श्रम एव केवलम् ॥ ४॥
तन्नः प्रभो त्वं कुकलेवरार्पितां
त्वं माययाहं ममतामधोक्षज ।
भिन्द्याम येनाशु वयं सुदुर्भिदां
विधेहि योगं त्वयि नः स्वभावजम् ॥ ५॥
एवं स्तौति सदा देवं नारायणमनामयम् ।
नारदो मुनिशार्दूलः प्रज्ञाताखिलसारदृक् ॥ ६॥
अस्मिन् वै भारते वर्षे सरिच्छैलास्तु सन्ति हि ।
तान्प्रवक्ष्यामि देवर्षे शृणुष्वैकाग्रमानसः ॥ ७॥
मलयो मङ्गलप्रस्थो मैनाकश्च त्रिकूटकः ।
ऋषभः कूटकः कोल्लः सह्यो देवगिरिस्तथा ॥ ८॥
ऋष्यमूकश्च श्रीशैलो व्यङ्कटाद्रिर्महेन्द्रकः ।
वारिधारश्च विन्ध्यश्च मुक्तिमानृक्षपर्वतः ॥ ९॥
पारियात्रस्तथा द्रोणश्चित्रकूटगिरिस्तथा ।
गोवर्धनो रैवतकः ककुभो नीलपर्वतः ॥ १०॥
गौरमुखश्चेन्द्रकीलो गिरिः कामगिरिस्तथा ।
एते चान्येऽप्यसङ्ख्याता गिरयो बहुपुण्यदाः ॥ ११॥
एतदुत्पन्नसरितः शतशोऽथ सहस्रशः ।
पानावगाहनस्नानदर्शनोत्कीर्तनैरपि ॥ १२॥
नाशयन्ति च पापानि त्रिविधानि शरीरिणाम् ।
ताम्रपर्णी चन्द्रवशा कृतमाला वटोदका ॥ १३॥
वैहायसी च कावेरी वेणा चैव पयस्विनी ।
तुङ्गभद्रा कृष्णवेणा शर्करावर्तका तथा ॥ १४॥
गोदावरी भीमरथी निर्विन्ध्या च पयोष्णिका ।
तापी रेवा च सुरसा नर्मदा च सरस्वती ॥ १५॥
चर्मण्वती च सिन्धुश्च अन्धशोणौ महानदौ ।
ऋषिकुल्या त्रिसामा च वेदस्मृतिर्महानदी ॥ १६॥
कौशिकी यमुना चैव मन्दाकिनी दृषद्वती ।
गोमती सरयू रोधवती सप्तवती तथा ॥ १७॥
सुषोमा च शतद्रुश्च चन्द्रभागा मरुद्वृधा ।
वितस्ता च असिक्नी च विश्वा चेति प्रकीर्तिताः ॥ १८॥
अस्मिन्वर्षे लब्धजन्मपुरुषैः स्वस्वकर्मभिः ।
शुक्ललोहितकृष्णाख्यैर्दिव्यमानुषनारकाः ॥ १९॥
भवन्ति विविधा भोगाः सर्वेषां च निवासिनाम् ।
यथा वर्णविधानेनापवर्गो भवति स्फुटम् ॥ २०॥
एतदेव च वर्षस्य प्राधान्यं कार्यसिद्धितः ।
वदन्ति मुनयो वेदवादिनः स्वर्गवासिनः ॥ २१॥
अहो अमीषां किमकारि शोभनं
प्रसन्न एषां स्विदुत स्वयं हरिः ।
यैर्जन्म लब्धं नृषु भारताजिरे
मुकुन्दसेवौपयिकं स्पृहा हि नः ॥ २२॥
किं दुष्करैर्नः क्रतुभिस्तपोव्रतै-
र्दानादिभिर्वा द्युजयेन फल्गुना ।
न यत्र नारायणपदपङ्कज-
स्मृतिः प्रमुष्टातिशयेन्द्रियोत्सवात् ॥ २३॥
कल्पायुषां स्थानजयात्पुनर्भवा-
त्क्षणायुषां भारतभूजयो वरम् ।
क्षणेन मर्त्येन कृतं मनस्विनः
संन्यस्य संयान्त्यभयं पदं हरेः ॥ २४॥
न यत्र वैकुण्ठकथासुधापगा
न साधवो भागवतास्तदाश्रयाः ।
न यत्र यज्ञेशमखा महोत्सवाः
सुरेशलोकोऽपि न वै स सेव्यताम् ॥ २५॥
प्राप्ता नृजातिं त्विह ये च जन्तवो
ज्ञानक्रियाद्रव्यकलापसम्भृताम् ।
न वै यतेरन्न पुनर्भवाय ते
भूयो वनौका इव यान्ति बन्धनम् ॥ २६॥
यैः श्रद्धया बर्हिषि भागशो हवि-
र्निरुप्तमिष्टं विधिमन्त्रवस्तुतः ।
एकः पृथङ्नामभिराहुतो मुदा
गृह्णाति पूर्णः स्वयमाशिषां प्रभुः ॥ २७॥
सत्यं दिशत्यर्थितमर्थितो नृणां
नैवार्थदो यत्पुनरर्थिता यतः ।
स्वयं विधत्ते भजतामनिच्छता-
मिच्छापिधानं निजपादपल्लवम् ॥ २८॥
(यद्यत्र नः स्वर्गसुखावशेषितं
स्विष्टस्य पूर्तस्य कृतस्य शोभनम् ।
तेनाब्जनाभे स्मृतिमज्जन्म नः स्या-
द्वर्षे हरिर्भजतां शं तनोति ॥)
श्रीनारायण उवाच ।
एवं स्वर्गगता देवाः सिद्धाश्च परमर्षयः ।
प्रवदन्ति च माहात्म्यं भारतस्य सुशोभनम् ॥ २९॥
जम्बुद्वीपस्य चाष्टौ हि उपद्वीपाः स्मृताः परे ।
हयमार्गान्विशोधद्भिः सागरैः परिकल्पिताः ॥ ३०॥
स्वर्णप्रस्थश्चन्द्रशुक्र आवर्तनरमाणकौ ।
मन्दरोपाख्यहरिणः पाञ्चजन्यस्तथैव च ॥ ३१॥
सिंहलश्चैव लङ्केति उपद्वीपाष्टकं स्मृतम् ।
जम्बुद्वीपस्य मानं हि कीर्तितं विस्तरेण च ॥ ३२॥
अतः परं प्रवक्ष्यामि प्लक्षादिद्वीपषट्ककम् ॥ ३३॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे
भुवनकोशवर्णने भारतवर्षवर्णनं नामैकादशोऽध्यायः ॥ ८.११॥
८.१२ द्वादशोऽध्यायः । भुवनकोशवर्णने प्लक्षद्वीपकुशद्वीपवर्णनम् ।
श्रीनारायण उवाच ।
जम्बुद्वीपो यथा चायं यत्प्रमाणेन कीर्तितः ।
तावता सर्वतः क्षारोदधिना परिवेष्टितः ॥ १॥
जम्ब्वाख्येन यथा मेरुस्तथा क्षारोदकेन च ।
क्षारोदधिस्तु द्विगुणः प्लक्षाख्येनोपवेष्टितः ॥ २॥
यथैव परिखा बाह्योपवनेन हि वेष्ट्यते ।
प्लक्षाख्यश्च स्वयं जम्बुप्रमाणो द्वीपरूपधृक् ॥ ३॥
हिरण्मयोऽग्निस्तत्रैव तिष्ठतीति विनिश्चयः ।
प्रियव्रतात्मजस्तत्र सप्तजिह्व इति स्मृतः ॥ ४॥
अग्निस्तदधिपस्त्विध्मजिह्वः स्वं द्वीपमेव च ।
विभज्य सप्तवर्षाणि स्वपुत्रेभ्यो ददौ विभुः ॥ ५॥
स्वयमात्मविदां मान्यां योगचर्यां समाश्रितः ।
तेनैव चात्मयोगेन भगवन्तमुपागतः ॥ ६॥
शिवं च यवसं भद्रं शान्तं क्षेमामृते तथा ।
अभयं चेति सप्तैव तद्वर्षाणि सदेक्षताम् ॥ ७॥
तेषु प्रोक्ता नदीः सप्त गिरयः सप्त चैव हि ।
अरुणा नृम्णाङ्गिरसी सावित्री सुप्रभातिका ॥ ८॥
ऋतम्भरा सत्यम्भरा इति नद्यः प्रकीर्तिताः ।
मणिकूटो वज्रकूट इन्द्रसेनस्तथैव च ॥ ९॥
ज्योतिष्मान्वै सुपर्णश्च हिरण्यष्ठीव एव च ।
मेघमाल इति ख्याताः प्लक्षद्वीपस्य पर्वताः ॥ १०॥
नदीनां जलमात्रेण दर्शनस्पर्शनादिभिः ।
निर्धूताशेषरजसो निस्तमस्काः प्रजास्तथा ॥ ११॥
हंसश्चैव पतङ्गश्च ऊर्ध्वायन इतीव च ।
सत्याङ्गसंज्ञाश्चत्वारो वर्णाः प्लक्षस्य द्वीपके ॥ १२॥
सहस्रायुप्रमाणाश्च विविधोपमदर्शनाः ।
स्वर्गद्वारं त्रयीविद्याविधिनार्कं यजन्ति ते ॥ १३॥
प्रत्नस्य विष्णो रूपं च सत्यर्तस्य च ब्रह्मणः ।
अमृतस्य च मृत्योश्च सूर्यमात्मानमीमहि ॥ १४॥
प्लक्षादिषु च सर्वेषु पञ्चद्वीपेषु नारद ।
आयुरिन्द्रियमोजश्च बलं बुद्धिः सहोऽपि च ॥ १५॥
विक्रमः सर्वलोकानां सिद्धिरौत्पत्तिकी सदा ।
प्लक्षद्वीपात्परं चेक्षुरसोदः सरिताम्पतिः ॥ १६॥
प्लक्षद्वीपं समग्रं च परिवार्यावतिष्ठते ।
शाल्मलाख्यस्ततो द्वीपश्चास्माद् द्विगुणविस्तरः ॥ १७॥
समानेन सुरोदेन सिन्धुना परिवेष्टितः ।
यत्र वै शाल्मलीवृक्षः प्लक्षायामः प्रकीर्तितः ॥ १८॥
स्थानं तत्पक्षिराजस्य गरुडस्य महात्मनः ।
तस्य द्वीपस्य नाथो हि यज्ञबाहुः प्रियव्रतात् ॥ १९॥
जातः स एव सप्तभ्यः स्वपुत्रेभ्यो ददौ धराम् ।
तद्वर्षाणां च नामानि कथितानि निबोधत ॥ २०॥
सुरोचनं सौमनस्यं रमणं देववर्षकम् ।
पारिभद्रं तथा चाप्यायनं विज्ञातनामकम् ॥ २१॥
तेषु वर्षाद्रयः सप्त सप्तैव सरितः स्मृताः ।
सरसः शतशृङ्गश्च वामदेवश्च कन्दकः ॥ २२॥
कुमुदः पुष्पवर्षश्च सहस्रश्रुतिरेव च ।
एते च पर्वताः सप्त नदीनामानि चोच्यते ॥ २३॥
अनुमतिः सिनीवाली सरस्वती कुहूस्तथा ।
रजनी चैव नन्दा च राकेति परिकीर्तिताः ॥ २४॥
तद्वर्षपुरुषाः सर्वे चातुर्वर्ण्यसमाह्वयाः ।
श्रुतधरो वीर्यधरो वसुन्धर इषुन्धरः ॥ २५॥
भगवन्तं वेदमयं यजन्ते सोममीश्वरम् ।
स्वगोभिः पितृदेवेभ्यो विभजन्कृष्णशुक्लयोः ॥ २६॥
सर्वासां च प्रजानां च राजा सोमः प्रसीदतु ।
एवं सुरोदाद् द्विगुणः स्वमानेन प्रकीर्तितः ॥ २७॥
घृतोदेनावृतः सोऽयं कुशद्वीपः प्रकाशते ।
यस्मिन्नास्ते कुशस्तम्बो द्वीपाख्याकारणो ज्वलन् ॥ २८॥
स्वशष्परोचिषा काष्ठा भासयन्परितिष्ठते ।
हिरण्यरेतास्तद्द्वीपपतिः प्रैयव्रत स्वराट् ॥ २९॥
स्वपुत्रेभ्यश्च सप्तभ्यस्तद्द्वीपं सप्तधाभजत् ।
वसुश्च वसुदानश्च तथा दृढरुचिः परः ॥ ३०॥
नाभिगुप्तस्तुत्यव्रतौ विविक्तनामदेवकौ ।
तेषां वर्षेषु सप्तैव सीमागिरिवराः स्मृताः ॥ ३१॥
नद्यः सप्तैव सन्तीह तन्नामानि निबोधत ।
चक्रस्तथा चतुःशृङ्गः कपिलश्चित्रकूटकः ॥ ३२॥
देवानीकश्चोर्ध्वरोमा द्रविणः सप्त पर्वताः ।
रसकुल्या मधुकुल्या मित्रविन्दा तथैव च ॥ ३३॥
श्रुतविन्दा देवगर्भा घृतच्युन्मन्दमालिके ।
यत्पयोभिः कुशद्वीपवासिनः सर्व एव ते ॥ ३४॥
कुशलः कोविदश्चैवाप्यभियुक्तस्तथैव च ।
कुलकश्चेति संज्ञाभिश्चतुर्वर्णाः प्रकीर्तिताः ॥ ३५॥
जातवेदसरूपं तं देवं कर्मजकौशलैः ।
यजन्ते देववर्याभाः सर्वे सर्वविदो जनाः ॥ ३६॥
परस्यब्रह्मणः साक्षाज्जातवेदोऽसि हव्यवाट् ।
देवानां पुरुषाङ्गानां यज्ञेन पुरुषं यज ।
एवं यजन्ते ज्वलनं सर्वे द्वीपाधिवासिनः ॥ ३७॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे
भुवनकोशवर्णने प्लक्षद्वीपकुशद्वीपवर्णनं नाम द्वादशोऽध्यायः ॥ ८.१२॥
८.१३ त्रयोदशोऽध्यायः । भुवनकोशवर्णने क्रौञ्चशाकपुष्करद्वीपवर्णनम् ।
नारद उवाच ।
शिष्टद्वीपप्रमाणं च वद सर्वार्थदर्शन ।
येन विज्ञातमात्रेण परानन्दमयो भवेत् ॥ १॥
श्रीरानारायण उवाच ।
कुशद्वीपस्य परितो घृतोदावरणं महत् ।
ततो बहिः क्रौञ्चद्वीपो द्विगुणः स्यात्स्वमानतः ॥ २॥
क्षीरोदेनावृतो भाति यस्मिन्क्रौञ्चाद्रिरस्ति च ।
नामनिर्वर्तकः सोऽयं द्वीपस्य परिवर्तते ॥ ३॥
योऽसौ गुहस्य शक्त्या च भिन्नकुक्षिः पुराभवत् ।
क्षीरोदेनासिच्यमानो वरुणेन च रक्षितः ॥ ४॥
घृतपृष्ठो नाम यस्य विभाति किल नायकः ।
प्रियव्रतात्मजः श्रीमान् सर्वलोकनमस्कृतः ॥ ५॥
स्वद्वीपं तु विभज्यैव सप्तधा स्वात्मजान्ददौ ।
पुत्रनामसु वर्षेषु वर्षपान्सन्निवेशयन् ॥ ६॥
स्वयं भगवतस्तस्य शरणं सञ्जगाम ह ।
आमो मधुरुहश्चैव मेघपृष्ठः सुधामकः ॥ ७॥
भ्राजिष्ठो लोहितार्णश्च वनस्पतिरितीव च ।
नगा नद्यश्च सप्तैव विख्याता भुवि सर्वतः ॥ ८॥
शुक्लो वै वर्धमानश्च भोजनश्चोपबर्हणः ।
नन्दश्च नन्दनः सर्वतोभद्र इति कीर्तिताः ॥ ९॥
अभया अमृतौघा चार्यका तीर्थवतीति च ।
वृत्तिरूपवती शुक्ला पवित्रवतिका तथा ॥ १०॥
एतासामुदकं पुण्यं चातुर्वर्ण्येन पीयते ।
पुरुषऋषभौ तद्वद् द्रविणाख्यश्च देवकः ॥ ११॥
एते चतुर्वर्णजाताः पुरुषा निवसन्ति हि ।
तत्रत्याः पुरुषा आपोमयं देवमपां पतिम् ॥ १२॥
पूर्णेनाञ्जलिना भक्त्या यजन्ते विविधक्रियाः ।
आपः पुरुषवीर्याः स्थ पुनन्तीर्भूर्भुवः स्वरः ॥ १३॥
ता नः पुनीतामीवघ्नीः स्पृशतामात्मना भुवः ।
इति मन्त्रजपान्ते च स्तुवन्ति विविधैः स्तवैः ॥ १४॥
एवं परस्तात्क्षीरोदात्परितश्चोपवेशितः ।
द्वात्रिंशल्लक्षसङ्ख्याकयोजनायाममाश्रितः ॥ १५॥
स्वमानेन च द्वीपोऽयं दधिमण्डोदकेन च ।
शाकद्वीपो विशिष्टोऽयं यस्मिच्छाको महीरुहः ॥ १६॥
स्वक्षेत्रव्यपदेशस्य कारणं स हि नारद ।
प्रैयव्रतोऽधिपस्तस्य मेधातिथिरिति स्मृतः ॥ १७॥
विभज्य सप्त वर्षाणि पुत्रनामानि तेषु च ।
सप्त पुत्रान्निजान् स्थाप्य स्वयं योगगतिं गतः ॥ १८॥
पुरोजवो मनःपूर्वजवोऽथ पवमानकः ।
धूम्रानीकश्चित्ररेफो बहुरूपोऽथ विश्वधृक् ॥ १९॥
मर्यादागिरयः सप्त नद्यः सप्तैव कीर्तिताः ।
ईशान ऊरुशृङ्गोऽथ बलभद्रः शतकेशरः ॥ २०॥
सहस्रस्रोतको देवपालोऽप्यन्ते महाशनः ।
एतेऽद्रयः सप्त चोक्ताः सरिन्नामानि सप्त च ॥ २१॥
अनघा प्रथमाऽऽयुर्दा उभयस्पृष्टिरेव च ।
अपराजिता पञ्चपदी सहस्रश्रुतिरेव च ॥ २२॥
ततो निजधृतिश्चोक्ताः सप्त नद्यो महोज्ज्वलाः ।
तद्वर्षपुरुषाः सर्वे सत्यव्रतक्रतुव्रतौ ॥ २३॥
दानव्रतानुव्रतौ च चतुर्वर्णा उदीरिताः ।
भगवन्तं प्राणवायुं प्राणायामेन संयुताः ॥ २४॥
यजन्ति निर्धूतरजस्तमसः परमं हरिम् ।
अन्तः प्रविश्य भूतानि यो बिभर्त्यात्मकेतुभिः ॥ २५॥
अन्तर्यामीश्वरः साक्षात्पातु नो यद्वशे इदम् ।
परस्ताद्दधिमण्डोदात्ततस्तु बहुविस्तरः ॥ २६॥
पुष्करद्वीपनामायं शाकद्वीपद्विसङ्गुणः ।
स्वसमानेन स्वादूदकेनायं परिवेष्टितः ॥ २७॥
यत्रास्ते पुष्करं भ्राजदग्निचूडानिभानि च ।
पत्राणि विशदानीह स्वर्णपत्रायुतायुतम् ॥ २८॥
श्रीमद्भगवतश्चेदमासनं परमेष्ठिनः ।
कल्पितं लोकगुरुणा सर्वलोकसिसृक्षया ॥ २९॥
तद्द्वीप एक एवायं मानसोत्तरनामकः ।
अर्वाचीनपराचीनवर्षयोरवधिर्गिरिः ॥ ३०॥
उच्छ्रायायामयोः सङ्ख्यायुतयोजनसम्मिता ।
यत्र दिक्षु च चत्वारि चतसृषु पुराणि ह ॥ ३१॥
इन्द्रादिलोकपालानां यदुपर्यर्कनिर्गमः ।
मेरुं प्रदक्षिणीकुर्वन् भानुः पर्येति यत्र हि ॥ ३२॥
संवत्सरात्मकं चक्रं देवाहोरात्रतो भ्रमन् ।
प्रैयव्रतोऽधिपो वीतिहोत्रः स्वात्मजकद्वयम् ॥ ३३॥
वर्षद्वये परिस्थाप्य वर्षनामधरं क्रमात् ।
रमणो धातकिश्चैव तत्तद्वर्षपती उभौ ॥ ३४॥
कृताः स्वयं पूर्वजवद्भगवद्भक्तितत्पराः ।
तद्वर्षपुरुषा ब्रह्मरूपिणं परमेश्वरम् ॥ ३५॥
सकर्मकेन योगेन यजन्ति परिशीलिताः ।
यत्तत्कर्ममयं लिङ्ग ब्रह्मलिङ्गं जनोऽर्चयेत् ।
एकान्तमद्वयं शान्तं तस्मै भगवते नमः ॥ ३६॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे
भुवनकोशवर्णनं क्रौञ्चशाकपुष्करद्वीपवर्णनं नाम त्रयोदशोऽध्यायः ॥ ८.१३॥
८.१४ चतुर्दशोऽध्यायः । सूर्यगतिवर्णनम् ।
नारायण उवाच ।
ततः परस्तादचलो लोकालोकेति नामकः ।
अन्तराले च लोकालोकयोर्यः परिकल्पितः ॥ १॥
यावदस्ति च देवर्षे ह्यन्तरं मानसोत्तरात् ।
सुमेरोस्तावती शुद्धा काञ्चनी भूमिरस्ति हि ॥ २॥
दर्पणोदरतुल्या सा सर्वप्राणिविवर्जिता ।
यस्यां पदार्थः प्रहितो न किञ्चित्प्रत्युदीयते ॥ ३॥
अतः सर्वप्राणिसङ्घरहिता सा च नारद ।
लोकालोक इति व्याख्या यदत्र परिकल्पिता ॥ ४॥
लोकालोकान्तरे चास्य वर्तते सर्वदा स्थितिः ।
ईश्वरेण स लोकानां त्रयाणामन्तगः कृतः ॥ ५॥
सूर्यादीनां ध्रुवान्तानां रश्मयो यद्वशादिह ।
अर्वाचीनाश्च त्रीँल्लोकानातन्वानाः कदापि हि ॥ ६॥
पराचीनत्वभाजो हि न भवन्ति च नारद ।
तावदुन्नहनायामः पर्वतेन्द्रो महोदयः ॥ ७॥
एतावाँल्लोकविन्यासोऽयं संस्थामानलक्षणैः ।
कविभिः स तु पञ्चाशत्कोटिभिर्गणितस्य च ॥ ८॥
भूगोलस्य चतुर्थांशो लोकालोकाचलो मुने ।
तस्योपरि चतुर्दिक्षु ब्रह्मणा चात्मयोनिना ॥ ९॥
निवेशिता दिग्गजा ये तन्नामानि निबोधत ।
ऋषभः पुष्पचूडोऽथ वामनोऽथापराजितः ॥ १०॥
एते समस्तलोकस्य स्थितिहेतव ईरिताः ।
तेषां च स्वविभूतीनां बहुवीर्योपबृंहणम् ॥ ११॥
विशुद्धसत्त्वं चैश्वर्यं वर्धयन्भगवान् हरिः ।
आस्ते सिद्ध्यष्टकोपेतो विष्वक्सेनादिसंवृतः ॥ १२॥
निजायुधैः परिवृतो भुजदण्डैः समन्ततः ।
आस्ते सकललोकस्य स्वस्तये परमेश्वरः ॥ १३॥
आकल्पमेवं वेषं स गतो विष्णुः सनातनः ।
स्वमायारचितस्यास्य गोपीथायात्मसाधनः ॥ १४॥
योऽन्तर्विस्तार एतेन ह्यलोकपरिमाणकम् ।
व्याख्यातं यद्बहिर्लोकालोकाचल इतीरणात् ॥ १५॥
ततः परस्ताद्योगेशगतिं शुद्धा वदन्ति हि ।
अण्डमध्यगतः सूर्यो द्यावाभूम्योर्यदन्तरम् ॥ १६॥
सूर्याण्डगोलयोर्मध्ये कोट्यः स्युः पञ्चविंशतिः ।
मृतेऽण्ड एष एतस्मिञ्जातो मार्तण्डशब्दभाक् ॥ १७॥
हिरण्यगर्भ इति यद्धिरण्याण्डसमुद्भवः ।
सूर्येण हि विभज्यन्ते दिशः खं द्यौर्महीभिदा ॥ १८॥
स्वर्गापवर्गौ नरका रसौकांसि च सर्वशः ।
देवतिर्यङ्मनुष्याणां सरीसृपसवीरुधाम् ॥ १९॥
सर्वजीवनिकायानां सूर्य आत्मा दृगीश्वरः ।
एतावान्भूमण्डलस्य सन्निवेश उदाहृतः ॥ २०॥
एतेन हि दिवो मानं वर्णयन्ति च तद्विदः ।
द्विदलानां च निष्पावादीनां च दलयोर्यथा ॥ २१॥
अन्तरेण तयोरन्तरिक्षं तदुभयसन्धितम् ।
यन्मध्यगश्च भगवान् भानुर्वै तपतां वरः ॥ २२॥
आतपेन त्रिलोकं च प्रतपत्येव भासयन् ।
उत्तरायणमासाद्य गतिमान्द्यं वितन्वते ॥ २३॥
आरोहणस्थानमसौ गत्वाहो दैर्ध्यमाचरेत् ।
दक्षिणायनमासाद्य गतिशैघ्र्यं वितन्वते ॥ २४॥
अवरोहस्थानमसौ गच्छन्ह्रस्वं दिनं चरेत् ।
विषुवत्संज्ञमासाद्य गतिसाम्यं वितन्वते ॥ २५॥
समस्थानमथासाद्य दिनसाम्यं करोति च ।
यदा च मेषतुलयोः सञ्चरेद्धि दिवाकरः ॥ २६॥
समानानि त्वहोरात्राण्यातनोति त्रयीमयः ।
वृषादिपञ्चसु यदा राशिष्वर्को विरोचते ॥ २७॥
तदाहानि च वर्धन्ते रात्रयोऽपि ह्रसन्ति च ।
वृश्चिकादिषु सूर्यो हि यदा सञ्चरते रविः ॥ २८॥
तदापीमान्यहोरात्राणि भवन्ति विपर्ययात् ॥ २९॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे
सूर्यगतिवर्णनं नाम चतुर्दशोऽध्यायः ॥ ८.१४॥
८.१५ पञ्चदशोऽध्यायः । भुवनकोशवर्णने सूर्यगतिवर्णनम् ।
श्रीनारायण उवाच ।
अतः परं प्रवक्ष्यामि भानोर्गमनमुत्तमम् ।
शीघ्रमन्दादिगतिभिस्त्रिविधं गमनं रवेः ॥ १॥
सर्वग्रहाणां त्रीण्येव स्थानानि सुरसत्तम ।
स्थानं जारद्गवं मध्यं तथैरावतमुत्तरम् ॥ २॥
वैश्वानरं दक्षिणतो निर्दिष्टमिति तत्त्वतः ।
अश्विनी कृत्तिका याम्या नागवीथीति शब्दिता ॥ ३॥
रोहिण्यार्द्रा मृगशिरो गजवीथ्यभिधीयते ।
पुष्याश्लेषा तथाऽऽदित्या वीथी चैरावती स्मृता ॥ ४॥
एतास्तु वीथयस्तिस्र उत्तरो मार्ग उच्यते ।
तथा द्वे चापि फल्गुन्यौ मघा चैवार्षभी मता ॥ ५॥
हस्तश्चित्रा तथा स्वाती गोवीथीति तु शब्दिता ।
ज्येष्ठा विशाखानुराधा वीथी जारद्गवी मता ॥ ६॥
एतास्तु वीथयस्तिस्रो मध्यमो मार्ग उच्यते ।
मूलाषाढोत्तराषाढा अजवीथ्यभिशब्दिता ॥ ७॥
श्रवणं च धनिष्ठा च मार्गी शतभिषक् तथा ।
वैश्वानरी भाद्रपदे रेवती चैव कीर्तिता ॥ ८॥
एतास्तु वीथयस्तिस्रो दक्षिणो मार्ग उच्यते ।
उत्तरायणमासाद्य युगाक्षान्तर्निबद्धयोः ॥ ९॥
कर्षणं पाशयोर्वायुबद्धयो रोहणं स्मृतम् ।
तदाभ्यन्तरगान्मण्डलाद्रथस्य गतेर्भवेत् ॥ १०॥
मान्द्यं दिवसवृद्धिश्च जायते सुरसत्तम ।
रात्रिह्रासश्च भवति सौम्यायनक्रमो ह्ययम् ॥ ११॥
दक्षिणायनके पाशे प्रेरणादवरोहणम् ।
बहिर्मण्डलवेशेन गतिशैघ्र्यं तदा भवेत् ॥ १२॥
तदा दिनाल्पता रात्रिवृद्धिश्च परिकीर्तिता ।
वैषुवे पाशसाम्यात्तु समावस्थानतो रवेः ॥ १३॥
मध्यमण्डलवेशश्च साम्यं रात्रिदिनादिके ।
आकृष्येते यदा तौ तु ध्रुवेण समधिष्ठितौ ॥ १४॥
तदाभ्यन्तरतः सूर्यो भ्रमते मण्डलानि च ।
ध्रुवेण मुच्यमानेन पुना रश्मियुगेन तु ॥ १५॥
तथैव बाह्यतः सूर्यो भ्रमते मण्डलानि च ।
तस्मिन्मेरौ पूर्वभागे पुर्यैन्द्री देवधानिका ॥ १६॥
दक्षिणे वै संयमनी नाम याम्या महापुरी ।
पश्चान्निम्लोचनी नाम वारुणी वै महापुरी ॥ १७॥
तदुत्तरे पुरी सौम्या प्रोक्ता नाम विभावरी ।
ऐन्द्रपुर्यां रवेः प्रोक्त उदयो ब्रह्मवादिभिः ॥ १८॥
संयमन्यां च मध्याह्ने निम्लोचन्यां निमीलनम् ।
विभावर्यां निशीथः स्यात्तिग्मांशोः सुरपूजितः ॥ १९॥
प्रवृत्तेश्च निमित्तानि भूतानां तानि सर्वशः ।
मेरोश्चतुर्दिशं भानोः कीर्तितानि मया मुने ॥ २०॥
मेरुस्थानां सदा मध्यं गत एव विभाति हि ।
सव्यं गच्छन्दक्षिणेन करोति स्वर्णपर्वतम् ॥ २१॥
उदयास्तमये चैव सर्वकालं तु सम्मुखे ।
दिशास्वशेषासु तथा सुरर्षे विदिशासु च ॥ २२॥
यैर्यत्र दृश्यते भास्वान्स तेषामुदयः स्मृतः ।
तिरोभावं च यत्रैति तत्रैवास्तमनं रवेः ॥ २३॥
नैवास्तमनमर्कस्य नोदयः सर्वदा सतः ।
उदयास्तमनाख्यं हि दर्शनादर्शनं रवेः ॥ २४॥
शक्रादीनां पुरे तिष्ठन्स्पृशत्येष पुरत्रयम् ।
विकर्णौ द्वौ विकर्णस्थस्त्रीन्कोणान्द्वे पुरे तथा ॥ २५॥
सर्वेषां द्वीपवर्षाणां मेरुरुत्तरतः स्थितः ।
यैर्यत्र दृश्यते भानुः सैव प्राचीति चोच्यते ॥ २६॥
तद्वामभागतो मेरुर्वर्ततेति विनिर्णयः ।
यदि चैन्द्र्याः प्रचलते घटिका दशपञ्चभिः ॥ २७॥
याम्यां तदा योजनानां सपादं कोटियुग्मकम् ।
सार्धद्वादशलक्षाणि पञ्चनेत्रसहस्रकम् ॥ २८॥
प्रक्रामति सहस्रांशुः कालमार्गप्रदर्शकः ।
एवं ततो वारुणीं च सौम्यामैन्द्रीं सहस्रदृक् ॥ २९॥
पर्येति कालचक्रात्मा द्युमणिः कालबुद्धये ।
तथा चान्ये ग्रहाः सोमादयो ये दिग्विचारिणः ॥ ३०॥
नक्षत्रैः सह चोद्यन्ति सह चास्तं व्रजन्ति ते ।
एवं मुहूर्तेन रथो भानोरष्टशताधिकम् ॥ ३१॥
योजनानां चतुस्त्रिंशल्लक्षाणि भ्रमति प्रभुः ।
त्रयीमयश्चतुर्दिक्षु पुरीषु च समीरणात् ॥ ३२॥
प्रवहाख्यात्सदा कालचक्रं पर्येति भानुमान् ।
यस्य चक्रं रथस्यैकं द्वादशारं त्रिनाभिकम् ॥ ३३॥
षण्नेमि कवयस्तं च वत्सरात्मकमूचिरे ।
मेरुमूर्धनि तस्याक्षो मानसोत्तरपर्वते ॥ ३४॥
कृतेतरविभागो यः प्रोतं तत्र रथाङ्गकम् ।
तैलकारकयन्त्रेण चक्रसाम्यं परिभ्रमन् । ३५॥
मानसोत्तरनाम्नीह गिरौ पर्येति चांशुमान् ।
तस्मिन्नक्षे कृतं मूलं द्वितीयोऽक्षो ध्रुवे कृतः ॥ ३६॥
तुर्यमानेन तैलस्य यन्त्राक्षवदितीरितः ।
कृतोपरितनो भागः सूर्यस्य जगतां पतेः ॥ ३७॥
रथनीडस्तु षट्त्रिंशल्लक्षयोजनमायतः ।
तत्तुर्यभागतः सोऽयं परिणाहेन कीर्तितः ॥ ३८॥
तावानर्करथस्यात्र युगस्तस्मिन्हयाः शुभाः ।
सप्तच्छन्दोऽभिधानाश्च सूरसूतेन योजिताः ॥ ३९॥
वहन्ति देवमादित्यं लोकानां सुखहेतवे ।
पुरस्तात्सवितुः सूतोऽरुणः पश्चान्नियोजितः ॥ ४०॥
सौत्ये कर्मणि संयुक्तो वर्तते गरुडाग्रजः ।
तथैव बालखिल्याख्या ऋषयोऽङ्गुष्ठपर्वकाः ॥ ४१॥
प्रमाणेन परिख्याताः षष्टिसाहस्रसङ्ख्यकाः ।
स्तुवन्ति पुरतः सूर्यं सूक्तवाक्यैः सुशोभनैः ॥ ४२॥
तथा चान्ये च ऋषयो गन्धर्वा अप्सरोरगाः ।
ग्रामण्यो यातुधानाश्च देवाः सर्वे परेश्वरम् ॥ ४३॥
एकैकशः सप्त सप्त मासि मासि विरोचनम् ।
सार्धलक्षोत्तरं कोटिनवकं भूमिमण्डलम् ॥ ४४॥
द्विसहस्रं योजनानां स गव्यूत्युत्तरं क्षणात् ।
पर्येति देवदेवेशो विश्वव्यापी निरन्तरम् ॥ ४५॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे
भुवनकोशवर्णने सूर्यगतिवर्णनं नाम पञ्चदशोऽध्यायः ॥ ८.१५॥
८.१६ षोडशोऽध्यायः । सोमादिगतिवर्णनम् ।
श्रीनारायण उवाच ।
अथातः श्रूयतां चित्रं सोमादीनां गमादिकम् ।
तद्गत्यनुसृता नॄणां शुभाशुभनिदर्शना ॥ १॥
यथा कुलालचक्रेण भ्रमता भ्रमतां सह ।
तदाश्रयाणां च गतिरन्या कीटादिनां भवेत् ॥ २॥
एवं हि राशिवृन्देन कालचक्रेण तेन च ।
मेरुं धुरं च सरतां प्रादक्षिण्येन सर्वदा ॥ ३॥
ग्रहाणां भानुमुख्यानां गतिरन्यैव दृश्यते ।
नक्षत्रान्तरगामित्वाद्भान्तरे गमनं तथा ॥ ४॥
गतिद्वयं चाविरुद्धं सर्वत्रैष विनिर्णयः ।
स एव भगवानादिपुरुषो लोकभावनः ॥ ५॥
नारायणोऽखिलाधारो लोकानां स्वस्तये भ्रमन् ।
कर्मशुद्धिनिमित्तं तु आत्मानं वै त्रयीमयम् ॥ ६॥
कविभिश्चैव वेदेन विजिज्ञास्योऽर्कधाभवत् ।
षट्सु क्रमेण ऋतुषु वसन्तादिषु च स्वयम् ॥ ७॥
यथोपजोषमृतुजान् गुणान् वै विदधाति च ।
तमेनं पुरुषाः सर्वे त्रय्या च विद्यया सदा ॥ ८॥
वर्णाश्रमाचारपथा तथाम्नातैश्च कर्मभिः ।
उच्चावचैः श्रद्धया च योगानां च वितानकैः ॥ ९॥
अञ्जसा च यजन्ते ये श्रेयो विन्दन्ति ते मतम् ।
अथैष आत्मा लोकानां द्यावाभूम्यन्तरेण च ॥ १०॥
कालचक्रगतो भुङ्क्ते मासान्द्वादशराशिभिः ।
संवत्सरस्यावयवान्मासः पक्षद्वयं दिवा ॥ ११॥
नक्तं चेति स पादर्क्षद्वयमित्युपदिश्यते ।
यावता षष्ठमंशं स भुञ्जीत ऋतुरुच्यते ॥ १२॥
संवत्सरस्यावयवः कविभिश्चोपवर्णितः ।
यावतार्धेन चाकाशवीथ्यां प्रचरते रविः ॥ १३॥
तं प्राक्तना वर्णयन्ति अयनं मुनिपूजिताः ।
अथ यावन्नभोमण्डलं सह प्रतिगच्छति ॥ १४॥
कार्त्स्न्येन सह भुञ्जीत कालं तं वत्सरं विदुः ।
संवत्सरं परिवत्सरमिडावत्सरमेव च ॥ १५॥
अनुवत्सरमिद्वत्सरमिति पञ्चकमीरितम् ।
भानोर्मान्द्यशैघ्र्यसमगतिभिः कालवित्तमैः ॥ १६॥
एवं भानोर्गतिः प्रोक्ता चन्द्रादीनां निबोधत ।
एवं चन्द्रोऽर्करश्मिभ्यो लक्षयोजनमूर्ध्वतः ॥ १७॥
उपलभ्यमानो मित्रस्य संवत्सरभुजिं च सः ।
पक्षाभ्यां चौषधीनाथो भुङ्क्ते मासभुजिं च सः ॥ १८॥
सपादमाभ्यां दिवसभुक्तिं पक्षभुजिं चरेत् ।
एवं शीघ्रगतिः सोमो भुङ्क्ते नूनं भचक्रकम् ॥ १९॥
पूर्यमाणकलाभिश्चामराणां प्रीतिमावहन् ।
क्षीयमाणकलाभिश्च पितॄणां चित्तरञ्जकः ॥ २०॥
अहोरात्राणि तन्वानः पूर्वापरसुघस्रकैः ।
सर्वजीवनिकायस्य प्राणो जीवः स एव हि ॥ २१॥
भुङ्क्ते चैकैकनक्षत्रं मुहूर्तत्रिंशता विभुः ।
स एव षोडशकलः पुरुषोऽनादिसत्तमः ॥ २२॥
मनोमयोऽप्यन्नमयोऽमृतधामा सुधाकरः ।
देवपितृमनुष्यादिसरीसृपसवीरुधाम् ॥ २३॥
प्राणाप्यायनशीलत्वात्स सर्वमय उच्यते ।
ततो भचक्रं भ्रमति योजनानां त्रिलक्षतः ॥ २४॥
मेरुप्रदक्षिणेनैव योजितं चेश्वरेण तु ।
अष्टाविंशतिसङ्ख्यानि गणितानि सहाभिजित् ॥ २५॥
ततः शुक्रो द्विलक्षेण योजनानामथोपरि ।
पुरः पश्चात्सहैवासावर्कस्य परिवर्तते ॥ २६॥
शीघ्रमन्दसमानाभिर्गतिभिर्विचरन्विभुः ।
लोकानामनुकूलोऽयं प्रायः प्रोक्तः शुभावहः ॥ २७॥
वृष्टिविष्टम्भशमनो भार्गवः सर्वदा मुने ।
शुक्राद् बुधः समाख्यातो योजनानां द्विलक्षतः ॥ २८॥
शीघ्रमन्दसमानाभिर्गतिभिः शुक्रवत्सदा ।
यदार्काद्व्यतिरिच्येत सौम्यः प्रायेण तत्र तु ॥ २९॥
अतिवाताभ्रपातानां वृष्ट्यादिभयसूचकः ।
उपरिष्ठात्ततो भौमो योजनानां द्विलक्षतः ॥ ३०॥
पक्षैस्त्रिभिस्त्रिभिः सोऽयं भुङ्क्ते राशीनथैकशः ।
द्वादशापि च देवर्षे यदि वक्रो न जायते ॥ ३१॥
प्रायेणाशुभकृत्सोऽयं ग्रहौघानां च सूचकः ।
नतो द्विलक्षमानेन योजनानां च गीष्पतिः ॥ ३२॥
एकैकस्मिन्नथो राशौ भुङ्गे संवत्सरं चरन् ।
यदि वक्रो भवेन्नैवानुकूलो ब्रह्मवादिनाम् ॥ ३३॥
ततः शनैश्चरो घोरो लक्षद्वयपरो मितः ।
योजनैः सूर्यपुत्रोऽयं त्रिंशन्मासैः परिभ्रमन् ॥ ३४॥
एकैकराशौ पर्येति सर्वान् राशीन्महाग्रहः ।
सर्वेषामशुभो मन्दः प्रोक्तः कालविदां वरैः ॥ ३५॥
तत उत्तरतः प्रोक्तमेकादशसुलक्षकैः ।
योजनैः परिसङ्ख्यातं सप्तर्षीणां च मण्डलम् ॥ ३६॥
लोकानां शं भावयन्तो मुनयः सप्त ते मुने ।
यत्तद्विष्णुपदं स्थानं दक्षिणं प्रक्रमन्ति ते ॥ ३७
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे
सोमादिगतिवर्णनं नाम षोडशोऽध्यायः ॥ ८.१६॥
८.१७ सप्तदशोऽध्यायः । ध्रुवमण्डलसंस्थानवर्णनम् ।
श्रीनारायण उवाच ।
अथर्षिमण्डलादूर्ध्वं योजनानां प्रमाणतः ।
लक्षैस्त्रयोदशमितैः परमं वैष्णवं पदम् ॥ १॥
महाभागवतः श्रीमान् वर्तते लोकवन्दितः ।
औत्तानपादिरिन्द्रेण वह्निना कश्यपेन च ॥ २॥
धर्मेण सह चैवास्ते समकालयुजा ध्रुवः ।
बहुमानं दक्षिणतः कुर्वद्भिः प्रेक्षकैः सदा ॥ ३॥
आजीव्यः कल्पजीविनामुपास्ते भगवत्पदम् ।
ज्योतिर्गणानां सर्वेषां ग्रहनक्षत्रभादिनाम् ॥ ४॥
कालेनानिमिषेणायं भ्राम्यतां व्यक्तरंहसा ।
अवष्टम्भस्थाणुरिव विहितश्चेश्वरेण सः ॥ ५॥
भासते भासयन्भासा स्वीयया देवपूजितः ।
मेढिस्तम्भे यथा युक्ताः पशवः कर्षणार्थकाः ॥ ६॥
मण्डलानि चरन्तीमे सवनत्रितयेन च ।
एवं ग्रहादयः सर्वे भगणाद्या यथाक्रमम् ॥ ७॥
अन्तर्बहिर्विभागेन कालचक्रे नियोजिताः ।
ध्रुवमेवावलम्ब्याशु वायुनोदीरिताश्च ते ॥ ८॥
आकल्पान्तं च क्रमन्ति खे श्येनाद्याः खगा इव ।
कर्मसारथयो वायुवशगाः सर्व एव ते ॥ ९॥
एवं ज्योतिर्गणाः सर्वे प्रकृतेः पुरुषस्य च ।
संयोगानुगृहीतास्ते भूमौ न निपतन्ति च ॥ १०॥
ज्योतिश्चक्रं केचिदेतच्छिशुमारस्वरूपकम् ।
सोपयोगं भगवतो योगधारणकर्मणि ॥ ११॥
यस्यार्वाक्शिरसः कुण्डलीभूतवपुषो मुने ।
पुच्छाग्रे कल्पितो योऽयं ध्रुव उत्तानपादजः ॥ १२॥
लाङ्गूलेऽस्य च सम्प्रोक्तः प्रजापतिरकल्मषः ।
अग्निरिन्द्रश्च धर्मश्च तिष्ठन्ते सुरपूजिताः ॥ १३॥
धाता विधाता पुच्छान्ते कट्यां सप्तर्षयस्ततः ।
दक्षिणावर्तभोगेन कुण्डलाकारमीयुषः ॥ १४॥
उत्तरायणभानीह दक्षपार्श्वेऽर्पितानि च ।
दक्षिणायनभानीह सव्ये पार्श्वेऽर्पितानि च ॥ १५॥
कुण्डलाभोगवेशस्य पार्श्वयोरुभयोरपि ।
समसङ्ख्याश्चावयवा भवन्ति कजनन्दन ॥ १६॥
अजवीथी पृष्ठभागे आकाशसरिदौदरे ।
पुनर्वसुश्च पुष्यश्च श्रोण्यौ दक्षिणवामयोः ॥ १७॥
आर्द्राश्लेषे पश्चिमयोः पादयोर्दक्षवामयोः ।
अभिजिच्चोत्तराषाढा नासयोर्दक्षवामयोः ॥ १८॥
यथासङ्ख्यं च देवर्षे श्रुतिश्च जलभं तथा ।
कल्पिते कल्पनाविद्भिर्नेत्रयोर्दक्षवामयोः ॥ १९॥
धनिष्ठा चैव मूलं च कर्णयोर्दक्षवामयोः ।
मघादीन्यष्टभानीह दक्षिणायनगानि च ॥ २०॥
युञ्जीत वामपार्श्वीयवङ्क्रिषु क्रमतो मुने ।
तथैव मृगशीर्षादीन्युदग्भानि च यानि हि ॥ २१॥
दक्षपार्श्वे वङ्क्रिकेषु प्रातिलोम्येन योजयेत् ।
शततारा तथा ज्येष्ठा स्कन्धयोर्दक्षवामयोः ॥ २२॥
अगस्तिश्चोत्तरहनावधरायां हनौ यमः ।
मुखेष्वङ्गारकः प्रोक्तो मन्दः प्रोक्त उपस्थके ॥ २३॥
बृहस्पतिश्च ककुदि वक्षस्यर्को ग्रहाधिपः ।
नारायणश्च हृदये चन्द्रो मनसि तिष्ठति ॥ २४॥
स्तनयोरश्विनौ नाभ्यामुशनाः परिकीर्तितः ।
बुधः प्राणापानयोश्च गले राहुश्च केतवः ॥ २५॥
सर्वाङ्गेषु तथा रोमकूपे तारागणाः स्मृताः ।
एतद्भगवतो विष्णोः सर्वदेवमयं वपुः ॥ २६॥
सन्ध्यायां प्रत्यहं ध्यायेत्प्रयतो वाग्यतो मुनिः ।
निरीक्षमाणश्चोत्तिष्ठेन्मन्त्रेणानेन धीश्वरः ॥ २७॥
नमो ज्योतिर्लोकाय कालायानिमिषां
पतये महापुरुषायाभिधीमहीति ॥ २८॥
ग्रहर्क्षतारामयमाधिदैविकं
पापापहं मन्त्रकृतां त्रिकालम् ।
नमस्यतः स्मरतो वा त्रिकालं
नश्येत तत्कालजमाशु पापम् ॥ २९॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे
ध्रुवमण्डलसंस्थानवर्णनं नाम सप्तदशोऽध्यायः ॥ ८.१७॥
८.१८ अष्टादशोऽध्यायः । राहुमण्डलाद्यवस्थानवर्णनम् ।
श्रीनारायण उवाच ।
अधस्तात्सवितुः प्रोक्तमयुतं राहुमण्डलम् ।
नक्षत्रवच्चरति च सैंहिकेयोऽतदर्हणः ॥ १॥
सूर्याचन्द्रमसोरेव मर्दनः सिंहिकासुतः ।
अमरत्वं च खेटत्वं लेभे यो विष्ण्वनुग्रहात् ॥ २॥
यददस्तरणेर्बिम्बं तपतो योजनायुतम् ।
तच्छादकोऽसुरो ज्ञेयोऽप्यर्कसाहस्रविस्तरम् ॥ ३॥
त्रयोदशसहस्रं तु सोमस्याच्छादको ग्रहः ।
यः पर्वसमये वैरानुबन्धी छादकोऽभवत् ॥ ४॥
सूर्याचन्द्रमसोर्दूराद्भवेच्छादनकारकः ।
तन्निशम्योभयत्रापि विष्णुना प्रेरितं स्वकम् ॥ ५॥
चक्रं सुदर्शनं नाम ज्वालामालातिभीषणम् ।
तत्तेजसा दुःसहेन समन्तात्परिवारितम् ॥ ६॥
मुहूर्तो द्विजमानस्तु दूराच्चकितमानसः ।
आरान्निवर्तते सोऽयमुपराग इतीव ह ॥ ७॥
उच्यते लोकमध्ये तु देवर्षे अवबुध्यताम् ।
ततोऽधस्तात्समाख्याता लोकाः परमपावनाः ॥ ८॥
सिद्धानां चारणानां च विद्याध्राणां च सत्तम ।
योजनायुतविख्याता लोकाः पुण्यनिषेविताः ॥ ९॥
ततोऽप्यधस्ताद्देवर्षे यक्षाणां च सरक्षसाम् ।
पिशाचप्रेतभूतानां विहाराजिरमुत्तमम् ॥ १०॥
अन्तरिक्षं च तत्प्रोक्तं यावद्वायुः प्रवाति हि ।
यावन्मेघास्ततोद्यन्ति तत्प्रोक्तं ज्ञानकोविदैः ॥ ११॥
ततोऽधस्ताद्योजनानां शतं यावद् द्विजोत्तम ।
पृथिवी परिसङ्ख्याता सुपर्णश्येनसारसाः ॥ १२॥
हंसादयः प्रोत्पतन्ति पार्थिवाः पृथिवीभवाः ।
भूसन्निवेशावस्थानं यथावदुपवर्णितम् ॥ १३॥
अधस्तादवनेः सप्त देवर्षे विवराः स्मृताः ।
एकैकशो योजनानामायामोच्छ्रायतः पुनः ॥ १४॥
अयुतान्तरविख्याताः सर्वर्तुसुखदायकाः ।
अतलं प्रथमं प्रोक्तं द्वितीयं वितलं तथा ॥ १५॥
तृतीयं सुतलं प्रोक्तं चतुर्थं वै तलातलम् ।
महातलं पञ्चमं च षष्ठं प्रोक्तं रसातलम् ॥ १६॥
सप्तमं विप्र पातालं सप्तैते विवराः स्मृताः ।
एतेषु बिलस्वर्गेषु दिवोऽप्यधिकमेव च ॥ १७॥
कामभोगैश्वर्यसुखसमृद्धभुवनेषु च ।
नित्योद्यानविहारेषु सुखास्वादः प्रवर्तते ॥ १८॥
दैत्याश्च काद्रवेयाश्च दानवा बलशालिनः ।
नित्यप्रमुदिता रक्ताः कलत्रापत्यबन्धुभिः ॥ १९॥
सुहृद्भिरनुजीवाद्यैः संयुताश्च गृहेश्वराः ।
ईश्वरादप्रतिहतकामा मायाविनश्च ते ॥ २०॥
निवसन्ति सदा हृष्टाः सर्वर्तुसुखसंयुताः ।
मयेन मायाविभुना येषु येषु च निर्मिताः ॥ २१॥
पुरः प्रकामशो भक्ता मणिप्रवरशालिनः ।
विचित्रभवनाट्टालगोपुराद्याः सहस्रशः ॥ २२॥
सभाचत्वरचैत्यादिशोभाढ्याः सुरदुर्लभाः ।
नागासुराणां मिथुनैः सपारावतसारिकैः ॥ २३॥
कीर्णकृत्रिमभूमिश्च विवरेशगृहोत्तमैः ।
अलङ्कृताश्चकासन्ति उद्यानानि महान्ति च ॥ २४॥
मनःप्रसन्नकारीणि फलपुष्पविशालिभिः ।
ललनानां विलासार्हस्थानैः शोभितभाञ्जि च ॥ २५॥
नानाविहङ्गमव्रातसंयुक्तजलराशिभिः ।
स्वच्छार्णपूरितह्रदैः पाठीनसमलङ्कृतैः ॥ २६॥
जलजन्तुक्षुब्धनीरनीरजातैरनेकशः ।
कुमुदोत्पलकह्लारनीलरक्तोत्पलैस्तथा ॥ २७॥
तेषु कृतनिकेतानां विहारैः सङ्कुलानि च ।
इन्द्रियोत्सवकारैश्च तथैव विविधैः स्वरैः ॥ २८॥
अमराणां च परमां श्रियं चातिशयन्ति च ।
यत्र नैव भयं क्वापि कालाङ्गैर्दिनरात्रिभिः ॥ २९॥
यत्राहिप्रवराणां च शिरःस्थैर्मणिरश्मिभिः ।
नित्यं तमः प्रबाध्येत सदा प्रस्फुटकान्तिभिः ॥ ३०॥
न वा एतेषु वसतां दिव्यौषधिरसायनैः ।
रसान्नपानस्नानाद्यैर्नाधयो न च व्याधयः ॥ ३१॥
वलीपलितजीर्णत्ववैवर्ण्यस्वेदगन्धताः ।
अनुत्साहवयोऽवस्था न बाधन्ते कदाचन ॥ ३२॥
कल्याणानां सदा तेषां न च मृत्युभयं कुतः ।
भगवत्तेजसोऽन्यत्र चक्राच्चैव सुदर्शनात् ॥ ३३॥
यस्मिन्प्रविष्टे दैतेयवधूनां गर्भराशयः ।
प्रायो भयात्पतन्त्येव स्रवन्ति ब्रह्मपुत्रक ॥ ३४॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे
राहुमण्डलाद्यवस्थानवर्णनं नामाष्टादशोऽध्यायः ॥ ८.१८॥
८.१९ एकोनविंशोऽध्यायः । अतलवितलसुतललोकवर्णनम् ।
श्रीनारायण उवाच ।
प्रथमे विवरे विप्र अतलाख्ये मनोरमे ।
मयपुत्रो बलो नाम वर्ततेऽखर्वगर्वकृत् ॥ १॥
षण्णवत्यो येन सृष्टा मायाः सर्वार्थसाधिकाः ।
मायाविनो याश्च सद्यो धारयन्ति च काश्चन ॥ २॥
जृम्भमाणस्य यस्यैव बलस्य बलशालिनः ।
स्त्रीगणा उपपद्यन्ते त्रयोलोकविमोहनाः ॥ ३॥
पुंश्चल्यश्चैव स्वैरिण्यः कामिन्यश्चेति विश्रुताः ।
या वै बिलायनं प्रेष्ठं प्रविष्टं पुरुषं रहः ॥ ४॥
रसेन हाटकाख्येन साधयित्वा प्रयत्नतः ।
स्वविलासावलोकानुरागस्मितविगूहनैः ॥ ५॥
संलापविभ्रमाद्यैश्च रमयन्त्यपि ताः स्त्रियः ।
यस्मिन्नुपयुक्ते जनो मनुते बहुधा स्वयम् ॥ ६॥
ईश्वरोऽहमहं सिद्धो नागायुतबलो महान् ।
आत्मानं मन्यमानः सन्मदान्ध इव कथ्यते ॥ ७॥
एवं प्रोक्ता स्थितिश्चात्र अतलस्य च नारद ।
द्वितीयविवरस्यात्र वितलस्य निबोधत ॥ ८॥
भूतलाधस्तले चैव वितले भगवान्भवः ।
हाटकेश्वरनामायं स्वपार्षदगणैर्वृतः ॥ ९॥
प्रजापतिकृतस्यापि सर्गस्य बृंहणाय च ।
भवान्या मिथुनीभूय आस्ते देवाधिपूजितः ॥ १०॥
भवयोर्वीर्यसम्भूता हाटकी सरिदुत्तमा ।
समिद्धो मरुता वह्निरोजसा पिबतीव हि ॥ ११॥
तन्निष्ठ्यूतं हाटकाख्यं सुवर्णं दैत्यवल्लभम् ।
दैत्याङ्गना भूषणार्हं सदा तं धारयन्ति हि ॥ १२॥
तद्बिलाधस्तलात्प्रोक्तं सुतलाख्यं बिलेश्वरम् ।
पुण्यश्लोको बलिर्नामा आस्ते वैरोचनिर्मुने ॥ १३॥
महेन्द्रस्य च देवस्य चिकीर्षुः प्रियमुत्तमम् ।
त्रिविक्रमोऽपि भगवान् सुतले बलिमानयत् ॥ १४॥
त्रैलोक्यलक्ष्मीमाक्षिप्य स्थापितः किल दैत्यराट् ।
इन्द्रादिष्वप्यलब्धा या सा श्रीस्तमनुवर्तते ॥ १५॥
तमेव देवदेवेशमाराधयति भक्तितः ।
व्यपेतसाध्वसोऽद्यापि वर्तते सुतलाधिपः ॥ १६॥
भूमिदानफलं ह्येतत्पात्रभूतेऽखिलेश्वरे ।
वर्णयन्ति महात्मानो नैतद्युक्तं च नारद ॥ १७॥
वासुदेवे भगवति पुरुषार्थप्रदे हरौ ।
एतद्दानफलं विप्र सर्वथा नहि युज्यते ॥ १८॥
यस्यैव देवदेवस्य नामापि विवशो गृणन् ।
स्वकीयकर्मबन्धीयगुणान्विधुनुतेऽञ्जसा ॥ १९॥
यत्क्लेशबन्धहानाय साङ्ख्ययोगादिसाधनम् ।
कुर्वते यतयो नित्यं भगवत्यखिलेश्वरे ॥ २०॥
न चायं भगवानस्माननुजग्राह नारद ।
मायामयं च भोगानामैश्वर्यं व्यतनोत्परम् ॥ २१॥
सर्वक्लेशाधिहेतुं तदात्मानुस्मृतिमोषणम् ।
यं साक्षाद्भगवान् विष्णुः सर्वोपायविदीश्वरः ॥ २२॥
याञ्जाछलेनापहृतं सर्वस्वं देहशेषकम् ।
अप्राप्तान्योपाय ईशः पाशैर्वारुणसम्भवैः ॥ २३॥
बन्धयित्वावमुच्यापि गिरिदर्यामिवाब्रवीत् ।
असाविन्द्रो महामूढो यस्य मन्त्री बृहस्पतिः ॥ २४॥
प्रसन्नमिममत्यर्थमयाचल्लोकसम्पदम् ।
त्रैलोक्यमिदमैश्वर्यं कियदेवातितुच्छकम् ॥ २५॥
आशिषां प्रभवं मुक्त्वा यो मूढो लोकसम्पदि ।
अस्मत्पितामहः श्रीमान् प्रह्लादो भगवत्प्रियः ॥ २६॥
दास्यं वव्रे विभोस्तस्य सर्वलोकोपकारकः ।
पित्र्यमैश्वर्यमतुलं दीयमानं च विष्णुना ॥ २७॥
पितर्युपरते वीरे नैवैच्छद्भगवत्प्रियः ।
तस्यातुलानुभावस्य सर्वलोकोपधीमतः ॥ २८॥
अस्मद्विधो नाल्पपक्वेतरदोषोऽवगच्छति ।
एवं दैत्यपतिः सोऽयं बलिः परमपूजितः ॥ २९॥
सुतले वर्तते यस्य द्वारपालो हरिः स्वयम् ।
एकदा दिग्विजये राजा रावणो लोकरावणः ॥ ३०॥
प्रविशन्सुतले येन भक्तानुग्रहकारिणा ।
पादाङ्गुष्ठेन प्रक्षिप्तो योजनायुतमत्र हि ॥ ३१॥
एवम्भूतानुभावोऽयं बलिः सर्वसुखैकभुक् ।
आस्ते सुतलराजस्थो देवदेवप्रसादतः ॥ ३२॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे
अतलवितलसुतललोकवर्णनं नामैकोनविंशोऽध्यायः ॥ ८.१९॥
८.२० विंशोऽध्यायः । तलातलादिलोकवर्णनेऽनन्तवर्णनम् ।
श्रीनारायण उवाच ।
ततोऽधस्ताद्विवरकं तलातलमुदीरितम् ।
दानवेन्द्रो मयो नाम त्रिपुराधिपतिर्महान् ॥ १॥
त्रिलोक्याः शङ्करेणायं पालितो दग्धपूस्त्रयः ।
देवदेवप्रसादात्तु लब्धराज्यसुखास्पदः ॥ २॥
आचार्यो मायिनां सोऽयं नानामायाविशारदः ।
पूज्यते राक्षसैर्घोरैः सर्वकार्यसमृद्धये ॥ ३॥
ततोऽधस्तास्तुविख्यातं महातलमिति स्फुटम् ।
सर्पाणां काद्रवेयाणां गणः क्रोधवशो महान् ॥ ४॥
अनेकशिरसां विप्र प्रधानान्कीर्तयामि ते ।
कुहकस्तक्षकश्चैव सुषेणः कालियस्तथा ॥ ५॥
महाभोगा महासत्त्वाः क्रूराः क्रूरस्वजातयः ।
पतत्रिराजाधिपतेरुद्विग्नाः सर्व एव ते ॥ ६॥
स्वकलत्रापत्यसुहृत्कुटुम्बस्य च सङ्गताः ।
प्रमत्ता विहरन्त्येव नानाक्रीडाविशारदाः ॥ ७॥
ततोऽधस्ताच्च विवरे रसातलसमाह्वये ।
दैतेया निवसन्त्येव पणयो दानवाश्च ये ॥ ८॥
निवातकवचा नाम हिरण्यपुरवासिनः ।
कालेया इति च प्रोक्ताः प्रत्यनीका हविर्भुजाम् ॥ ९॥
महौजसश्चोत्पत्त्यैव महासाहसिनस्तथा ।
सकलेशस्य च हरेस्तेजसा हतविक्रमाः ॥ १०॥
बिलेशया इव सदा विवरे निवसन्ति हि ।
ये वै वाग्भिः सरमया शक्रदूत्या निरन्तरम् ॥ ११॥
मन्त्रवर्णाभिरसुरास्ताडिता बिभ्यति स्म ह ।
ततोऽप्यधस्तात्पाताले नागलोकाधिपालकाः ॥ १२॥
वासुकिप्रमुखाः शङ्खः कुलिकः श्वेत एव च ।
धनञ्जयो महाशङ्खो धृतराष्ट्रस्तथैव च ॥ १३॥
शङ्खचूडः कम्बलाश्वतरो देवोपदत्तकः ।
महामर्षा महाभोगा निवसन्ति विषोल्बणाः ॥ १४॥
पञ्चमस्तकवन्तश्च फणासप्तकभूषिताः ।
केचिद्दशफणाः केचिच्छतशीर्षास्तथापरे ॥ १५॥
सहस्रशिरसः केऽपि रोचिष्णुमणिधारकाः ।
पातालरन्ध्रतिमिरनिकरं स्वमरीचिभिः ॥ १६॥
विधमन्ति च देवर्षे सदा सञ्जातमन्यवः ।
अस्य मूलप्रदेशे हि त्रिंशत्साहस्रकेऽन्तरे ॥ १७॥
योजनैः परिसङ्ख्याते तामसी भगवत्कला ।
अनन्ताख्या समास्ते हि सर्वदेवप्रपूजिता ॥ १८॥
अहमित्यभिमानस्य लक्षणं यं प्रचक्षते ।
सङ्कर्षणं सात्वतीयाः कर्षणं द्रष्ट्टदृश्ययोः ॥ १९॥
इदं भूमण्डलं यस्य सहस्रशिरसः प्रभोः ।
अनन्तमूर्तेः शेषस्य ध्रियमाणं च शीर्षके ॥ २०॥
पृध्वीगोलमशेषं हि सिद्धार्थ इव लक्ष्यते ।
यस्य कालेन देवस्य सञ्जिहीर्षोः समं विभोः ॥ २१॥
चराचरं भ्रुवोरन्तर्विवरादुदपद्यत ।
साङ्कर्षणो नाम रुद्रो व्यूहैकादशशोभितः ॥ २२॥
त्रिलोचनश्च त्रिशिखं शूलमुत्तम्भयन्स्वयम् ।
उदतिष्ठन्महासत्त्वो महाभूतक्षयङ्करः ॥ २३॥
यस्याङ्घ्रिकमलद्वन्द्वशोणाच्छनखमण्डले ।
विराजन्मणिबिम्बेषु महाहिपतयोऽनिशम् ॥ २४॥
एकान्तभक्तियोगेन सह सात्त्वतपुङ्गवैः ।
प्रणमन्तः स्वमूर्ध्ना ते स्वमुखानि समीक्षते ॥ २५॥
स्फुरत्कुण्डलमाणिक्यप्रभामण्डलभाञ्ज्यपि ।
सुकपोलानि चारूणि गण्डस्थलद्युमन्ति च ॥ २६॥
नागराजकुमार्योऽपि चार्वङ्गविलसत्त्विषः ।
विशदैर्विपुलैस्तद्वद्धवलैः सुभगैस्तथा ॥ २७॥
रुचिरैर्भुजदण्डैश्च शोभमाना इतस्ततः ।
चन्दनागुरुकाश्मीरपङ्कलेपेन भूषिताः ॥ २८॥
तदभिमर्षसञ्जातकामावेशसमायुताः ।
ललितस्मितसंयुक्ताः सव्रीडं लोकयन्ति च ॥ २९॥
अनुरागमदोन्मत्तविघूर्णारुणलोचनम् ।
करुणावलोकनेत्रं च आशासानास्तथाशिषः ॥ ३०॥
सोऽनन्तो भगवान्देवोऽनन्तसत्त्वो महाशयः ।
अनन्तगुणवार्धिश्च आदिदेवो महाद्युतिः ॥ ३१॥
संहृतामर्षरोषादिवेगो लोकशुभाय च ।
आस्ते महासत्त्वनिधिः सर्वदेवप्रपूजितः ॥ ३२॥
ध्यायमानः सुरैः सिद्धैरसुरैश्चोरगैस्तथा ।
विद्याधरैश्च गन्धर्वैर्मुनिसङ्घैश्च नित्यशः ॥ ३३॥
अनारतमदोन्मत्तलोकविह्वललोचनः ।
वाक्यामृतेन विबुधान्स्वपार्षदगणानपि ॥ ३४॥
आप्यायमानः स विभुर्वेजयन्तीं स्रजं दधत् ।
अम्लानाभिनवैः स्वच्छैस्तुलसीदलसञ्चयैः ॥ ३५॥
माद्यन्मधुकरव्रातघोषश्रीसंयुतां सदा ।
नीलवासा देवदेव एककुण्डलभूषितः ॥ ३६॥
हलस्य ककुदि न्यस्तसुपीवरभुजोऽव्ययः ।
महेन्द्रः काञ्चनीं यद्वद्वरत्रां च मतङ्गमः ।
उदारलीलो देवेशो वर्णितः सात्त्वतर्षभैः ॥ ३७॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे
तलातलादिलोकवर्णनेऽनन्तवर्णनं नाम विंशोऽध्यायः ॥ ८.२०॥
८.२१ एकविंशोऽध्यायः । नरकस्वरूपवर्णनम् ।
श्रीनारायण उवाच ।
तस्यानुभावं भगवान् ब्रह्मपुत्रः सनातनः ।
सभायां ब्रह्मदेवस्य गायमान उपासते ॥ १॥
उत्पत्तिस्थितिलयहेतवोऽस्य कल्पाः
सत्त्वाद्याः प्रकृतिगुणा यदीक्षयाऽऽसन् ।
यद्रूपं ध्रुवमकृतं यदेकमात्मन्-
नानाधात्कथमुह वेद तस्य वर्त्म ॥ २॥
मूर्तिं नः पुरुकृपया बभार सत्त्वं
संशुद्धं सदसदिदं विभाति यत्र ।
यल्लीलां मृगपतिराददेऽनवद्या-
मादातुं स्वजनमनांस्युदारवीर्यः ॥ ३॥
यन्नाम श्रुतमनुकीर्तयेदकस्मा-
दार्तो वा यदि पतितः प्रलम्भनाद्वा ।
हन्त्यंहः सपदि नृणामशेषमन्यं
कं शेषाद्भगवत आश्रयेत्युमुक्षुः ॥ ४॥
मूर्धन्यर्पितमणुवत्सहस्रमूर्ध्नो
भूगोलं सगिरिसरित्समुद्रसत्त्वम् ।
आनन्त्यादनमितविक्रमस्य भूम्नः
को वीर्याण्यधिगणयेत्सहस्रजिह्वः ॥ ५॥
एवम्प्रभावो भगवाननन्तो
दुरन्तवीर्योरुगुणानुभावः ।
मूले रसायाः स्थित आत्मतन्त्रो
यो लीलया क्ष्मां स्थितये बिभर्ति ॥ ६॥
एता ह्येवेह तु नृभिर्गतयो मुनिसत्तम ।
गन्तव्या बहुशो यद्वद्यथाकर्मविनिर्मिताः ॥ ७॥
यथोपदेशं च कामान्सदा कामयमानकैः ।
एतावतीर्हि राजेन्द्र मनुष्यमृगपक्षिषु ॥ ८॥
विपाकगतयः प्रोक्ता धर्मस्य वशगास्तथा ।
उच्चावचा विसदृशा यथाप्रश्नं निबोधत ॥ ९॥
नारद उवाच ।
वैचित्र्यमेतल्लोकस्य कथं भगवता कृतम् ।
समानत्वे कर्मणां च तन्नो ब्रूहि यथातथम् ॥ १०॥
श्रीनारायण उवाच ।
कर्तुः श्रद्धावशादेव गतयोऽपि पृथग्विधाः ।
त्रिगुणत्वात्सदा तासां फलं विसदृशं त्विह ॥ ११॥
सात्त्विक्या श्रद्धया कर्तुः सुखित्वं जायते सदा ।
दुःखित्वं च तथा कर्तू राजस्या श्रद्धया भवेत् ॥ १२॥
दुःखित्वं चैव मूढत्वं तामस्या श्रद्धयोदितम् ।
तारतम्यात्तु श्रद्धानां फलवैचित्र्यमीरितम् ॥ १३॥
अनाद्यविद्याविहितकर्मणां परिणामजाः ।
सहस्रशः प्रवृत्तास्तु गतयो द्विजपुङ्गव ॥ १४॥
तद्भेदान्वर्णयिष्यामि प्राचुर्येण द्विजोत्तम ।
त्रिजगत्या अन्तराले दक्षिणस्यां दिशीह वै ॥ १५॥
भूमेरधस्तादुपरि त्वतलस्य च नारद ।
अग्निष्वात्ताः पितृगणा वर्तन्ते पितरश्च ह ॥ १६॥
वसन्ति यस्यां स्वीयानां गोत्राणां परमाशिषः ।
सत्याः समाधिना शीघ्रं त्वाशासानाः परेण वै ॥ १७॥
पितृराजोऽपि भगवान् सम्परेतेषु जन्तुषु ।
विषयं प्रापितेष्वेषु स्वकीयैः पुरुषैरिह ॥ १८॥
सगणो भगवत्प्रोक्ताज्ञापरो दमधारकः ।
यथाकर्म यथादोषं विदधाति विचारदृक् ॥ १९॥
स्वान्गणान्धर्मतत्त्वज्ञान्सर्वानाज्ञाप्रवर्तकान् ।
सदा प्रेरयति प्राज्ञो यथादेशनियोजितान् ॥ २०॥
नरकानेकविंशत्या सङ्ख्यया वर्णयन्ति हि ।
अष्टाविंशमितान्केचित्ताननुक्रमतो ब्रुवे ॥ २१॥
तामिस्र अन्धतामिस्रो रौरवोऽपि तृतीयकः ।
महारौरवनामा च कुम्भीपाकोऽपरो मतः ॥ २२॥
कालसूत्रं तथा चासिपत्रारण्यमुदाहृतम् ।
सूकरस्य मुखं चान्धकूपोऽथ कृमिभोजनः ॥ २३॥
सन्दंशस्तप्तमूर्तिश्च वज्रकण्टक एव च ।
शाल्मली चाथ देवर्षे नाम्ना वैरतणी तथा ॥ २४॥
पूयोदः प्राणरोधश्च तथा विशसनं मतम् ।
लालाभक्षः सारमेयादनमुक्तमतः परम् ॥ २५॥
अवीचिरप्ययः पानं क्षारकर्दम एव च ।
रक्षोगणाख्यसम्भोजः शूलप्रोतोऽप्यतः परम् ॥ २६॥
दन्दशूकोऽवटारोधः पर्यावर्तनकः परम् ।
सूचीमुखमिति प्रोक्ता अष्टाविंशतिनारकाः ॥ २७॥
इत्येते नारका नाम यातनाभूमयः पराः ।
कर्मभिश्चापि भूतानां गम्याः पद्मजसम्भव ॥ २८॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे
नरकस्वरूपवर्णनं नामैकविंशोऽध्यायः ॥ ८.२१॥
८.२२ द्वाविंशोऽध्यायः । नरकप्रदपातकवर्णनम् ।
नारद उवाच ।
कर्मभेदाः कतिविधाः सनातनमुने मम ।
श्रोतव्याः सर्वथैवैते यातनाप्राप्तिभूमयः ॥ १॥
श्रीनारायण उवाच ।
यो वै परस्य वित्तानि दारापत्यानि चैव हि ।
हरते स हि दुष्टात्मा यमानुचरगोचरः ॥ २॥
कालपाशेन सम्बद्धो याम्यैरतिभयानकैः ।
तामिस्रनामनरके पात्यते यातनास्पदे ॥ ३॥
ताडनं दण्डनं चैव सन्तर्जनमतः परम् ।
याम्याः कुर्वन्ति पाशाढ्याः कश्मलं याति चैव हि ॥ ४॥
मूर्च्छामायाति विवशो नारकी पद्मभूसुत ।
यः पतिं वञ्चयित्वा तु दारादीनुपभुज्यति ॥ ५॥
अन्धतामिस्रनरके पात्यते यमकिङ्करैः ।
पात्यमानो यत्र जन्तुर्वेदनापरवान्भवेत् ॥ ६॥
नष्टदृष्टिर्नष्टमतिर्भवत्येवाविलम्बतः ।
वनस्पतिर्भज्यमानमूलो यद्वद्भवेदिह ॥ ७॥
तस्मादप्यन्धतामिस्रनाम्ना प्रोक्तः पुरातनैः ।
एतन्ममाहमिति यो भूतद्रोहेण केवलम् ॥ ८॥
पुष्णाति प्रत्यहं स्वीयं कुटुम्बं कार्यलम्पटः ।
एतद्विहाय चात्रैव स्वाशुभेन पतेदिह ॥ ९॥
रौरवे नाम नरके सर्वसत्त्वभयावहे ।
इह लोकेऽमुना ये तु हिंसिता जन्तवः पुरा ॥ १०॥
त एव रुरवो भूत्वा परत्र पीडयन्ति तम् ।
तस्माद्रौरवमित्याहुः पुराणज्ञा मनीषिणः ॥ ११॥
रुरुः सर्पादतिक्रूरो जन्तुरुक्तः पुरातनैः ।
एवं महारौरवाख्यो नरको यत्र पूरुषः ॥ १२॥
यातनां प्राप्यमाणो हि यः परं देहसम्भवः ।
क्रव्यादा नाम रुरवस्तं क्रव्ये घातयन्ति च ॥ १३॥
य उग्रः पुरुषः क्रूरः पशुपक्षिगणानपि ।
उपरन्धयते मूढो याम्यास्तं रन्धयन्ति च ॥ १४॥
कुम्भीपाके तप्ततैले उपर्यपि च नारद ।
यावन्ति पशुरोमाणि तावद्वर्षसहस्रकम् ॥ १५॥
पितृविप्रब्राह्मणध्रुक्कालसूत्रे स नारके ।
अग्न्यर्काभ्यां तप्यमाने नारकी विनिवेशितः ॥ १६॥
क्षुत्पिपासादह्यमानोऽन्तःशरीरस्तथा बहिः ।
आस्ते शेते चेष्टते चावतिष्ठति च धावति ॥ १७॥
निजवेदपथाद्यो वै पाखण्डं चोपयाति च ।
अनापद्यपि देवर्षे तं पापं पुरुषं भटाः ॥ १८॥
असिपत्रवनं नाम नरकं वेशयन्ति च ।
कशया प्रहरन्त्येव नारकी तद्गतस्तदा ॥ १९॥
इतस्ततो धावमान उत्तालमतिवेगतः ।
असिपत्रैश्छिद्यमान उभयत्र च धारभिः ॥ २०॥
सञ्छिद्यमानसर्वाङ्गो हाहतोऽस्मीति मूर्च्छितः ।
वेदनां परमां प्राप्तः पतत्येव पदे पदे ॥ २१॥
स्वधर्मानुगतं भुङ्क्ते पाखण्डफलमल्पधीः ।
यो राजा राजपुरुषो दण्डयेद्वै त्वधर्मतः ॥ २२॥
द्विजे शरीरदण्डं च पापीयान्नारकी च सः ।
नरके सूकरमुखे पात्यते यमकिङ्करैः ॥ २३॥
विनिष्यिष्टावयवको बलवद्भिस्तथेक्षुवत् ।
आर्तस्वरेण स्वनयन्मूर्च्छितः कश्मलङ्गतः ॥ २४॥
स पीड्यमानो बहुधा वेदनां यात्यतीव हि ।
विविक्तपरपीडो योऽप्यविविक्तपरव्यथाम् ॥ २५॥
ईश्वराङ्कितवृत्तीनां व्यथामाचरते स्वयम् ।
स चान्धकूपे पतति तदभिद्रोहयन्त्रिते ॥ २६॥
तत्रासौ जन्तुभिः क्रूरैः पशुभिर्मृगपक्षिभिः ।
सरीसृपैश्च मशकैर्यूकामत्कुणजातिभिः ॥ २७॥
मक्षिकाभिश्च तमसि दन्दशूकैश्च पीड्यते ।
परिक्रामति चैवात्र कुशरीरे च जन्तुवत् ॥ २८॥
यस्तु संविहितैः पञ्चयज्ञैः काकैश्च संस्तुतः ।
अश्नाति चासंविभज्य यत्किंञ्चिदुपपद्यते ॥ २९॥
स पापपुरुषः क्रूरैर्याम्यैश्च कृमिभोजने ।
नरकाधमके दुष्टकर्मणा परिपात्यते ॥ ३०॥
लक्षयोजनविस्तीर्णे कृमिकुण्डे भयङ्करे ।
कृमिरूपं समासाद्य भक्ष्यमाणश्च तैः स्वयम् ॥ ३१॥
अप्रत्ताप्रहुतादो यः पातमाप्नोति तत्र वै ।
यस्तु स्तेयेन च बलाद्धिरण्यं रत्नमेव च ॥ ३२॥
ब्राह्मणस्यापहरति अन्यस्यापि च कस्यचित् ।
अनापदि च देवर्षे तममुत्र यमानुगाः ॥ ३३॥
अयस्मयैरग्निपिण्डैः सदृशैर्नित्कुषन्ति च ।
योऽगम्यां योषितं गच्छेदगम्यं पुरुषं च या ॥ ३४॥
तावमुत्रापि कशया ताडयन्तो यमानुगाः ।
तिग्मया लोहमय्या च सूर्म्याप्यालिङ्गयन्ति तम् ॥ ३५॥
तां चापि योषितं सूर्म्यालिङ्गयन्ति यमानुगाः ।
यस्तु सर्वाभिगमनः पुरुषः पापसञ्चयी ॥ ३६॥
निरयेऽमुत्र तं याम्याः शाल्मलीं रोपयन्ति तम् ।
वज्रकण्टकसंयुक्तां शाल्मलीं तामयस्मयीम् ॥ ३७॥
राजन्या राजपुरुषा ये वा पाखण्डवर्तिनः ।
धर्मसेतुं विभिन्दन्ति ते परेत्य गता नराः ॥ ३८॥
वैतरण्यां पतन्त्येव भिन्नमर्यादपातकाः ।
नद्यां निरयदुर्गस्य परिखायां च नारद ॥ ३९॥
यादोगणैः समन्तात्तु भक्ष्यमाणा इतस्ततः ।
नात्मना वियुजन्त्येव नासुभिश्चापि नारद ॥ ४०॥
स्वीयेन कर्मपाकेनोपतपन्ति च सर्वतः ।
विण्मूत्रपूयरक्तैश्च केशास्थिनखमांसकैः ॥ ४१॥
मेदोवसासंयुतायां नद्यामुपपतन्ति ते ।
वृषलीपतयो ये च नष्टशौचा गतत्रपाः ॥ ४२॥
आचारनियमैस्त्यक्ताः पशुचर्यापरायणाः ।
तेऽत्रानुकष्टगतयो विण्मूत्रश्लेष्मरक्तकैः ॥ ४३॥
श्लेष्ममलसमापूर्णे निपतन्ति दुराग्रहाः ।
तदेव खादयन्त्येतान्यमानुचरवर्गकाः ॥ ४४॥
ये श्वानगर्दभादीनां पतयो वै द्विजातयः ।
मृगयारसिका नित्यमतीर्थे मृगघातकाः ॥ ४५॥
परेतांस्तान्यमभटा लक्षीभूतान्नराधमान् ।
इषुभिश्च विभिन्दन्ति तांस्तान्दुर्नयमागतान् ॥ ४६॥
ये दम्भा दम्भयज्ञेषु पशून्घ्नन्ति नराधमाः ।
तानमुष्मिन्यमभटा नरके वैशसे तदा ॥ ४७॥
निपात्य पीडयन्त्येव कशाघातैर्दुरासदैः ।
यो भार्यां च सवर्णां वै द्विजो मदनमोहितः ॥ ४८॥
रेतः पाययति मूढोऽमुत्र तं यमकिङ्कराः ।
रेतःकुण्डे पातयन्ति रेतः सम्पाययन्ति च ॥ ४९॥
ये दस्यवोऽग्निदाश्चैव गरदा सार्थघातकाः ।
ग्रामान्सार्थान्विलुम्पन्ति राजानो राजपूरुषाः ॥ ५०॥
तान्परेतान्यमभटा नयन्ति श्वानकादनम् ।
विंशत्यथिकसङ्ख्याताः सारमेया महाद्भुताः ॥ ५१॥
सप्तशत्या समाख्याता रभसं खादयन्ति ते ।
सारमेयादनं नाम नरकं दारुणं मुने ।
अतः परं प्रवक्ष्यामि अवीचिप्रभुखान्मुने ॥ ५२॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे
नरकप्रदपातकवर्णनं नाम द्वाविंशोऽध्यायः ॥ ८.२२॥
८.२३ त्रयोविंशोऽध्यायः । अवशिष्टनरकवर्णनम् ।
श्रीनारायण उवाच ।
ये नराः सर्वदा साक्ष्ये अनृतं भाषयन्ति च ।
दाने विनिमयेऽर्थस्य देवर्षे पापबुद्धयः ॥ १॥
ते प्रेत्यामुत्र नरके अवीच्याख्येऽतिदारुणे ।
योजनानां शतोच्छ्रायाद्गिरिमूर्ध्नः पतन्ति हि ॥ २॥
अनाकाशेऽधःशिरसस्तदवीचीतिनामके ।
यत्र स्थलं दृश्यते च जलवद्वीचिसंयुतम् ॥ ३॥
अवीचिमत्ततस्तत्र तिलशश्छिन्नविग्रहः ।
म्रियते नैव देवर्षे पुनरेवाऽवरोप्यते ॥ ४॥
यो वा द्विजो वा राजन्यो वैश्यो वा ब्रह्मसम्भव ।
सोमपीथस्तत्कलत्रं सुरां वा पिबतीव हि ॥ ५॥
प्रमादतस्तु तेषां वै निरये परिपातनम् ।
कुर्वन्ति यमदूतास्ते पानं कार्ष्णायसो मुने ॥ ६॥
वह्निना द्रवमाणस्य नितरां ब्रह्मसम्भव ।
सम्भावनेन स्वस्यैव योऽधमोऽपि नराधमः ॥ ७॥
विद्याजन्मतपोवर्णाश्रमाचारवतो नरान् ।
वरीयसोऽपि न बहु मन्यते पुरुषाधमः ॥ ८॥
स नीयते यमभटैः क्षारकर्दमनामके ।
निरयेऽर्वाक्शिरा घोरा दुरन्तयातनाश्नुते ॥ ९॥
ये वै नरा यजन्त्यन्यं नरमेधेन मोहिताः ।
स्त्रियोऽपि वा नरपशुं खादन्त्यत्र महामुने ॥ १०॥
पशवो निहितास्ते तु यमसद्यनि सङ्गताः ।
सौनिका इव ते सर्वे विदार्य शितधारया ॥ ११॥
असृक्पिबन्ति नृत्यन्ति गायन्ति बहुधा मुने ।
यथेह मांसभोक्तारः पुरुषादा दुरासदाः ॥ १२॥
अनागसोऽपि येऽरण्ये ग्रामे वा ब्रह्मपुत्रक ।
वैश्रम्भकैरुपसृतान्विश्रम्भय्यजिजीविषून् ॥ १३॥
शूलसूत्रादिषु प्रोतान्क्रीडनोत्कारकानिव ।
पातयन्ति च ते प्रेत्य शूलपाते पतन्ति ह ॥ १४॥
शूलादिषु प्रोतदेहाः क्षुत्तृड्भ्यां चातिपीडिताः ।
तिग्मतुण्डैः कङ्कबकैरितश्चेतश्च ताडिताः ॥ १५॥
पीडिता आत्मशमलं बहुधा संस्मरन्ति हि ।
ये भूतानुद्वेजयन्ति नरा उल्बणवृत्तयः ॥ १६॥
यथा सर्पादिकास्तेऽपि नरके निपतन्ति हि ।
दन्दशूकाभिधाने च यत्रोत्तिष्ठन्ति सर्वतः ॥ १७॥
पञ्चाननः सप्तमुखा ग्रसन्ति नरकागतान् ।
यथा बिलेशया विप्र क्रूरबुद्धिसमन्विताः ॥ १८॥
येऽवटेषु कुसूलादिगुहादिषु निरुन्धते ।
तानमुत्रोद्यतकराः कीनाशपरिसेवकाः ॥ १९
तेष्वेवोपविशित्वा च सगरेण च वह्निना ।
धूमेन च निरुन्धन्ति पापकर्मरतान्नरान् ॥ २०॥
योऽतिथीन्समयप्राप्तान्दिधक्षुरिव चक्षुषा ।
पापेनेहालोकयेच्च स्वयं गृहपतिर्द्विजः ॥ २१॥
तस्यापि पापदृष्टेर्हि निरये यमकिङ्कराः ।
अक्षिणी वज्रतुण्डा ये कङ्काः काकवटादयः ॥ २२॥
गृध्राः क्रूरतराश्चापि प्रसह्योत्पाटयन्ति हि ।
य आढ्याभिमतिर्याति अहङ्कृत्यातिगर्वितः ॥ २३॥
तिर्यक्प्रेक्षण एवात्राभिविशङ्की नराधमः ।
चिन्तयार्थस्य सर्वत्रायतिव्ययस्वरूपया ॥ २४॥
शुष्यद्धृदयवक्त्रश्च निर्वृतिं नैव गच्छति ।
ग्रहवद्रक्षते चार्थं स प्रेतो यमकिङ्करैः ॥ २५॥
सूचीमुखे च नरके पात्यते निजकर्मणा ।
वित्तग्रहं च पुरुषं वायका इव याम्यकाः ॥ २६॥
किङ्कराः सर्वतोऽङ्गेषु सूत्रैः परिवयन्ति हि ।
एते बहुविधा विप्र नरकाः पापकर्मणाम् ॥ २७॥
नराणां शतशः सन्ति यातनास्थानभूमयः ।
सहस्रशोऽपि देवर्षे उक्तानुक्तांस्तथापि हि ॥ २८॥
विशन्ति नरकानेतान्यातनाबहुलान्मुने ।
तथा धर्मपराश्चापि लोकान्यान्ति सुखोद्गतान् ॥ २९॥
स्वधर्मो बहुधा गीतो यथा तव महामुने ।
देवीपूजनरूपो हि देव्याराधनलक्षणः ॥ ३०॥
येनानुष्ठितमात्रेण नरो न नरकं व्रजेत् ।
सा देवी भवपाथोधेरुद्धर्त्री पूजिता नृणाम् ॥ ३१॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे
ऽवशिष्टनरकवर्णनं नाम त्रयोविंशोऽध्यायः ॥ ८.२३॥
८.२४ चतुर्विंशोऽध्यायः । देवीपूजनविधिनिरूपणम् ।
नारद उवाच ।
धर्मश्च कीदृशस्तात देव्याराधनलक्षणः ।
कथमाराधिता देवी सा ददाति परं पदम् ॥ १॥
आराधनविधिः को वा कथमाराधिता कदा ।
केन सा दुर्गनरकाद्दुर्गा त्राणप्रदा भवेत् ॥ २॥
श्रीनारायण उवाच ।
देवर्षे शृणु चित्तैकाग्र्येण मे विदुषां वर ।
यथा प्रसीदते देवी धर्माराधनतः स्वयम् ॥ ३॥
स्वधर्मो यादृशः प्रोक्तस्तं च मे शृणु नारद ।
अनादाविह संसारे देवी सशृजिता स्वयम् ॥ ४॥
परिपालयते घोरसङ्कटादिषु सा मुने ।
सा देवी पूज्यते लोकैर्यथावत्तद्विधिं शृणु ॥ ५॥
प्रतिपत्तिथिमासाद्य देवीमाज्येन पूजयेत् ।
घृतं दद्याद् ब्राह्मणाय रोगहीनो भवेत्सदा ॥ ६॥
द्वितीयायां शर्करया पूजयेज्जगदम्बिकाम् ।
शर्करां प्रददेद्विप्रे दीर्घायुर्जायते नरः ॥ ७॥
तृतीयादिवसे देव्यै दुग्धं पूजनकर्मणि ।
क्षीरं दत्त्वा द्विजाग्र्याय सर्वदुःखातिगो भवेत् ॥ ८॥
चतुर्थ्यां पूजनेऽपूपा देया देव्यै द्विजाय च ।
अपूपा एव दातव्या न विघ्नैरभिभूयते ॥ ९॥
पञ्चम्यां कदलीजातं फलं देव्यै निवेदयेत् ।
तदेव ब्राह्मणे देयं मेधावान्पुरुषो भवेत् ॥ १०॥
षष्ठीतिथौ मधु प्रोक्तं देवीपूजनकर्मणि ।
ब्राह्मणाय च दातव्यं मधु कान्तिर्यतो भवेत् ॥ ११॥
सप्तम्यां गुडनैवेद्यं देव्यै दत्त्वा द्विजाय च ।
गुडं दत्त्वा शोकहीनो जायते द्विजसत्तम ॥ १२॥
नारिकेलमथाष्टम्यां देव्यै नैवेद्यमर्पयेत् ।
ब्राह्मणाय प्रदातव्यं तापहीनो भवेन्नरः ॥ १३॥
नवम्यां लाजमम्बायै चार्पयित्वा द्विजाय च ।
दत्त्वा सुखाधिको भूयादिह लोके परत्र च ॥ १४॥
दशम्यामर्पयित्वा तु देव्यै कृष्णतिलान्मुने ।
ब्राह्मणाय प्रदत्त्वा तु यमलोकाद्भयं न हि ॥ १५॥
एकादश्यां दधि तथा देव्यै चार्पयते तु यः ।
ददाति ब्राह्मणायैतद्देवीप्रियतमो भवेत् ॥ १६॥
द्वादश्यां पृथुकान्देव्यै दत्त्वाचार्याय यो ददेत् ।
तानेव च मुनिश्रेष्ठ स देवीप्रियतां व्रजेत् ॥ १७॥
त्रयोदश्यां च दुर्गायै चणकान्प्रददाति च ।
तानेव दत्त्वा विप्राय प्रजासन्ततिमान्भवेत् ॥ १८॥
चतुर्दश्यां च देवर्षे देव्यै सक्तून्प्रयच्छति ।
तानेव दद्याद्विप्राय शिवस्य दयितो भवेत् ॥ १९॥
पायसं पूर्णिमातिथ्यामपर्णायै प्रयच्छति ।
ददाति च द्विजाग्र्याय पितृनुद्धरतेऽखिलान् ॥ २०॥
तत्तिथौ हवनं प्रोक्तं देवीप्रीत्यै महामुने ।
तत्तत्तिथ्युक्तवस्तूनामशेषारिष्टनाशनम् ॥ २१॥
रविवारे पायसं च नैवेद्यं परिकीर्तितम् ।
सोमवारे पयः प्रोक्तं भौमे च कदलीफलम् ॥ २२॥
बुधवारे च सम्प्रोक्तं नवनीतं नवं द्विज ।
गुरुवारे शर्करां च सितां भार्गववासरे ॥ २३॥
शनिवारे घृतं गव्यं नैवेद्यं परिकीर्तितम् ।
सप्तविंशतिनक्षत्रनैवेद्यं श्रूयतां मुने ॥ २४॥
घृतं तिलं शर्करां च दधि दुग्धं किलाटकम् ।
दथिकूर्ची मोदकं च फेणिकां घृतमण्डकम् ॥ २५॥
कंसारं वटपत्रं च घृतपूरमतः परम् ।
वटकं कोकरसकं पूरणं मधु सूरणम् ॥ २६॥
गुडं पृथुकद्राक्षे च खर्जूरं चैव चारकम् ।
अपूपं नवनीतं च मुद्गं मोदक एव च ॥ २७॥
मातुलिङ्गमिति प्रोक्तं भनैवेद्यं च नारद ।
विष्कम्भादिषु योगेषु प्रवक्ष्यामि निवेदनम् ॥ २८॥
पदार्थानां कृतेष्वेषु प्रीणाति जगदम्बिका ।
गुडं मधु घृतं दुग्धं दधि तक्रं त्वपूपकम् ॥ २९॥
नवनीतं कर्कटीं च कूष्माण्डं चापि मोदकम् ।
पनसं कदलं जम्बुफलमाम्रफलं तिलम् ॥ ३०॥
नारङ्गं दाडिमं चैव बदरीफलमेव च ।
धात्रीफलं पायसञ्च पृथुकं चणकं तथा ॥ ३१॥
नारिकेलं जम्भफलं कसेरुं सूरणं तथा ।
एतानि क्रमशो विप्र नैवेद्यानि शुभानि च ॥ ३२॥
विष्कम्भादिषु योगेषु निर्णीतानि मनीषिभिः ।
अथ नैवेद्यमाख्यास्ये करणानां पृथङ्मुने ॥ ३३॥
कंसारं मण्डकं फेणी मोदकं वटपत्रकम् ।
लड्डुकं घृतपूरं च तिलं दधि घृतं मधु ॥ ३४॥
करणानामिदं प्रोक्तं देवीनैवेद्यमादरात् ।
अथान्यत्सम्प्रवक्ष्यामि देवीप्रीतिकरं परम् ॥ ३५॥
विधानं नारदमुने शृणु तत्सर्वमादृतः ।
चैत्रशुद्धतृतीयायां नरो मधुकवृक्षकम् ॥ ३६॥
पूजयेत्पञ्च खाद्यं च नैवेद्यमुपकल्पयेत् ।
एवं द्वादशमासेषु तृतीयातिथिषु क्रमात् ॥ ३७॥
शुक्लपक्षे विधानेन नैवेद्यमभिदध्महे ।
वैशाखमासे नैवेद्यं गुडयुक्तं च नारद ॥ ३८॥
ज्येष्ठमासे मधु प्रोक्तं देवीप्रीत्यर्थमेव तु ।
आषाढे नवनीतं च मधुकस्य निवेदनम् ॥ ३९॥
श्रावणे दधि नैवेद्यं भाद्रमासे च शर्करा ।
आश्विने पायसं प्रोक्तं कार्तिके पय उत्तमम् ॥ ४०॥
मार्गे फेण्युत्तमा प्रोक्ता पौषे च दधिकूर्चिका ।
माघे मासि च नैवेद्यं मृतं गव्यं समाहरेत् ॥ ४१॥
नारिकेलं च नैवेद्यं फाल्गुने परिकीर्तितम् ।
एवं द्वादशनैवेद्यैर्मासे च क्रमतोऽर्चयेत् ॥ ४२॥
मङ्गला वैष्णवी माया कालरात्रिर्दुरत्यया ।
महामाया मतङ्गी च काली कमलवासिनी ॥ ४३॥
शिवा सहस्रचरणा सर्वमङ्गलरूपिणी ।
एभिर्नामपदैर्देवीं मधूके परिपूजयेत् ॥ ४४॥
ततः स्तुवीत देवेशीं मधूकस्थां महेश्वरीम् ।
सर्वकामसमृद्ध्यर्थं व्रतपूर्णत्वसिद्धये ॥ ४५॥
नमः पुष्करनेत्रायै जगद्धात्र्यै नमोऽस्तु ते ।
माहेश्वर्यं महादेव्यै महामङ्गलमूर्तये ॥ ४६॥
परमा पापहन्त्री च परमार्गप्रदायिनी ।
परमेश्वरी प्रजोत्पत्तिः परब्रह्मस्वरूपिणी ॥ ४७॥
मददात्री मदोन्मत्ता मानगम्या महोन्नता ।
मनस्विनी मुनिध्येया मार्तण्डसहचारिणी ॥ ४८॥
जय लोकेश्वरि प्राज्ञे प्रलयाम्बुदसन्निभे ।
महामोहविनाशार्थं पूजितासि सुरासुरैः ॥ ४९॥
यमलोकाभावकर्त्री यमपूज्या यमाग्रजा ।
यमनिग्रहरूपा च यजनीये नमो नमः ॥ ५०॥
समस्वभावा सर्वेशी सर्वसङ्गविवर्जिता ।
सङ्गनाशकरी काम्यरूपा कारुण्यविग्रहा ॥ ५१॥
कङ्कालक्रूरा कामाक्षी मीनाक्षी मर्मभेदिनी ।
माधुर्यरूपशीला च मधुरस्वरपूजिता ॥ ५२॥
महामन्त्रवती मन्त्रगम्या मन्त्रप्रियङ्करी ।
मनुष्यमानसगमा मन्मथारिप्रियङ्करी ॥ ५३॥
अश्वत्थवटनिम्बाम्रकपित्थबदरीगते ।
पनसार्ककरीरादिक्षीरवृक्षस्वरूपिणी ॥ ५४॥
दुग्धवल्लीनिवासार्हे दयनीये दयाधिके ।
दाक्षिण्यकरुणारूपे जय सर्वज्ञवल्लभे ॥ ५५॥
एवं स्तवेन देवेशीं पूजनान्ते स्तुवीत ताम् ।
व्रतस्य सकलं पुण्यं लभते सर्वदा नरः ॥ ५६॥
नित्यं यः पठते स्तोत्रं देवीप्रीतिकरं नरः ।
आधिव्याधिभयं नास्ति रिपुभीतिर्न तस्य हि ॥ ५७॥
अर्थार्थी चार्थमाप्नोति धर्मार्थी धर्ममाप्नुयात् ।
कामानवाप्नुयात्कामी मोक्षार्थी मोक्षमाजप्नुयात् ॥ ५८॥
ब्राह्मणो वेदसम्पनो विजयी क्षत्रियो भवेत् ।
वैश्यश्च धनधान्याढ्यो भवेच्छूद्रः सुखाधिकः ॥ ५९॥
स्तोत्रमेतच्छ्राद्धकाले यः पठेत्प्रयतो नरः ।
पितॄणामक्षया तृप्तिर्जायते कल्पवर्तिनी ॥ ६०॥
एवमाराधनं देव्याः समुक्तं सुरपूजितम् ।
यः करोति नरो भक्त्या स देवीलोकभाग्भवेत् ॥ ६१॥
देवीपूजनतो विप्र सर्वे कामा भवन्ति हि ।
सर्वपापहतिः शुद्धा मतिरन्ते प्रजायते ॥ ६२॥
यत्र तत्र भवेत्पूज्यो मान्यो मानधनेषु च ।
जायते जगदम्बायाः प्रसादेन विरञ्चिज ॥ ६३॥
नरकाणां न तस्यास्ति भयं स्वप्नेऽपि कुत्रचित् ।
महामायाप्रसादेन पुत्रपौत्रादिवर्धनः ॥ ६४॥
देवीभक्तो भवत्येव नात्र कार्या विचारणा ।
इत्येवं ते समाख्यातं नरकोद्धारलक्षणम् ॥ ६५॥
पूजनं हि महादेव्याः सर्वमङ्गलकारकम् ।
मधूकपूजनं तद्वन्मासानां क्रमतो मुने ॥ ६६॥
सर्वं समाचरेद्यस्तु पूजनं मधुकाह्वयम् ।
न तस्य रोगबाधादिभयमुद्भवतेऽनघ ॥ ६७॥
अथान्यदपि वक्ष्यामि प्रकृतेः पञ्चकं परम् ।
नाम्ना रूपेण चोत्पत्त्या जगदानन्ददायकम् ॥ ६८॥
साख्यानं च समाहात्म्यं प्रकृतेः पञ्चकं मुने ।
कुतूहलकर चैव शृणु मुक्तिविधायकम् ॥ ६९॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे
देवीपूजनविधिनिरूपणं नाम चतुर्विंशोऽध्यायः ॥ ८.२४॥
॥ इति श्रीमद्देवीभागवते महापुराणे अष्टमस्कन्धः समाप्तः ॥
Encoded and proofread by Vishwas Bhide